कि = ज्ञाने जुहो० पर० सक० अनिट्। चिकेति अकैषीत्। चिकाय। वैदिकोऽयं धातुः

किंयु = त्रि० किमिच्छति मान्तत्वेन निषेधेऽपि वेदे क्यच् ततः छन्दसि उ। किमिच्छौ “किंयुर्विप्रोनद्योजोहवीति” ऋ० ३, ३१, ४, “किंयुः किमिच्छुः” भा०

किंराजन् = पु० कःकुत्सितो राजा क्षेपार्थत्वात् न टच्समा०। कुत्सिते राजनि। किमः प्रश्नार्थकत्वे तु टच्। किं राजैत्येव ब० व०। किंराजन् निन्दितनृपयुक्ते देशादौ त्रि०

किंवत् = त्रि० किं विद्यतेऽस्य मतुप् मान्तत्वात् मस्य वः। किंविशिष्टे स्त्रियां ङीप्। कस्येव कस्मिन्निव वा वति। किंतुल्यार्थे षष्ठ्यन्तार्थे सप्तम्यन्तार्थे च अव्य०।

किंवदन्ति(न्ती) = स्त्री किम् + वद–झिच् वा ङीप्। जनश्रुतौ सत्ये असत्ये वा लोकप्रवादे अमरः। “इति व्याधानां मुखात् किंवदन्ती श्रूयते” हितो०। “अस्ति किलैषा किंवदन्ती–अस्माकं कुले कालरात्रिकल्पा विद्या नाम राक्षसी समुत्पस्यते” प्रबोधच०

किंवा = अव्य० किञ्च वा च द्वन्द्वः। १ वितर्के २ सम्भावनायां ३ पक्षान्तरद्योतने च मेदि० पदद्वयमित्यन्ये

किंशारु = पु० कुत्सितं शॄणाति किम् + शॄ–ञुण्। १ धान्याद्यग्रभागे, अम० “शूर्पशोध्रितकणकिंशारुकांस्तण्डुलानसकदद्भिः प्रक्षाल्य” दशकु० २ वाणे० ३ कङ्कपक्षिणि च मेदि० “किञ्जरयोः श्रिणः” उणा० सू० “शॄहिंसायाम् इत्युज्ज्वलदत्तोक्तेः शान्तमध्योऽयं शब्दक० दन्त्यमध्यपाठः प्रामादिकएव। गतिकारकोपदत्वेन तत्पु० प्रकृतिस्वरः।

किंशुक = पु० किञ्चित् शुकैव शुकतुण्डाभपुष्पत्वात्। १ पलाशे अमरः “फलस्तनस्थानविदीर्ण्णरागिहृद्विशच्छुकास्यस्मरकिंशुकाशुगाम्” नैष० “किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः” सुश्रुतः “ते (दैत्या) हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः। निहता बह्वशोभन्त पुष्पिता इव किंशुकाः” भा० व०१०५ अ०”। अस्यच निर्गन्धत्वम् “विद्याहीना न शोभन्ते निर्गन्धाइव किंशुकाः” चाणक्यः। फलहीनत्वञ्च “अविज्ञाय फलं योहि कर्म्मेत्येवानुधावति। स शोचेत् फलवेलायां यथा किंशुकसेचकः” रामा० २ नन्दिवृक्षे राजनि०

किंशुलकं = पु० किंशुक + किंशुलुकादीनाम्” पा० नि० लुमध्यता। पलाशवृक्षे शब्दर०। अस्य गिरिशब्दे परे दीर्घः। किंशुलुकागिरिः (पलाशप्रधानपर्व्वतः)

किंशुलुकादि = पु० गिरौ परे दीर्घनिमित्ते पा० उक्ते शब्दगणे स च गणः किंशुलुक शाव नड अञ्जन भञ्जन लोहित कुक्कुट।

किंस = त्रि० किं स्यति सो–क सवनादि० पूर्व्वपदस्थनिमित्तात् न षत्वम्। कुत्सितच्छेदके तद्गणे किसेति पाठान्तरम् पृषो० अनुस्वारलोपः। तदर्थे

किंसखि = पु० कः कुत्सितः सखा किमःक्षेपार्थत्वात् न टच्समा०। कुत्सिते सख्यौ “स किंसखा साधु न शास्ति योऽधिपम्” किरा० प्रश्नार्थे किमः टच्समा०। किंसखैत्येव।

किंस्वित् = अव्य० द्वन्द्वः। वितर्के गणर० स्थाणुरयं किंस्वित् पुरुषः। स्थाणुत्वपुरुषत्वाभ्यां वितर्कोऽत्र गम्यते।

किकि = पु० कक इन् पृषो० इत्त्वम्। १ नारिकेले राजनि०। किकीतिशब्दकारके २ चाषपक्षिणि (स्वर्ण्णचातक) शब्दमा०।

किकिदिव = पु० किकीत्यव्यक्तशब्देन दीव्यति दिव–क। चाषपक्षिणि। इन्। किकिदिविरप्यत्र शब्दमा०।

किकिन् = पु० किकीतिशब्दोऽस्त्यस्य वीह्या० इनि। काषपक्षिणि किकीदिविरिति पदद्वयम् अमरव्याख्याने क्षीरस्वामी।

किकिर = स्त्रि० कॄ–घञर्थे कर्म्मणि क वेदे पृषो० आदौ क्यागमः। कीर्ण्णे “आविश्य किकिरा कृणु पत्नीनाम्” ऋ० ६, ५३, ७, “किकिरा कीर्ण्णानि” भा० सुपां सुलुगित्यादि ना आच्। एतेन किकिराशब्दकल्पनं चिन्त्यम्।

किकीदि(दी)वि = पु० किकीतिशब्देन दीव्यति दिव–इन् उणा० सू० किकीदिवीति निर्द्देशात् नि० दीर्घः। चाषे सि० कौ० अत्र पूर्व्वोत्तरपदयोर्ह्रस्वदीर्घविनिमये किकिदीविरि त्यपि तत्रैव सि० कौ०। “साकं यक्ष्म प्रपत चाषेण किकिदीविना” ऋ०१०, ९७, १३।

किक्किट = त्रि० कुत्सिते। “किक्किटाकारेण ग्राम्याः पशवोभवन्ति” तैत्ति० स०

किक्किश = पु० सुश्रुतोक्ते दैहिके कृमिभेदे। “केशरोमनखादाश्च दन्तादाः किक्किशास्तथा” कृमिशब्दे विवृतिः

किक्किसाद = पु० “राजिमन्तस्तु” इत्युपक्रमे “गोधूमकः किक्किसाद इति सुश्रुतोक्ते सर्पभेदे। सर्पशब्दे विवृतिः

किखि = पु० स्त्री० (ख्या~क शेयालि) शृगालभेदे त्रिका०

किङ्कणी = स्त्री किञ्चित्कणति कण–शब्दे इन् ङीप्। क्षुद्रघण्टिकायां हेमच०

किङ्कर = त्रि० किञ्चित् करोति अच्। १ दासे सेवके स्त्रियान्तु टाप्। किङ्करस्य पत्नी ङीष्। २ किङ्करी दासपत्न्याम् स्त्री “अवेहि मां किङ्करमष्टभूर्त्तेः” रघुः। “विप्रस्य किङ्करो भूपो वैश्यीभूपस्य भूमिप!। सर्वेषां किङ्करः शूद्रो ब्राह्मणस्य विशेषतः” पुरा०। किङ्करस्य गोत्रापत्यं नडा० फक्। कैङ्करायण तद्गोत्रापत्ये पुंस्त्री।

किङ्कल = पु० सात्वतवंश्ये नृपभेदे। “भजमानस्य निम्लोचिः किङ्कलो- मुष्टिरेव च” भाग० ९, २४, ५, नडादौ किङ्कलेति वा पाठः ततो गोत्रापत्ये फक्। कङ्किलायन तद्गोत्रापत्ये पुंस्त्री०

किङ्किणी = स्त्री किङ्किणी + पृषो० इत्त्वम्। १ क्षुद्रघण्टिकायाम् अम०। तदाकारफले २ विकङ्कतवृक्षे राजनि० “रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि। शैव्यसुग्रीवयुक्तेन किङ्किणीजालमालिनाः” भा० आ० २२० अ० “सौभाग्यं महदाप्नोति किङ्किणीं प्रददद्धरेः” विष्णुध० पु० “भग्नं भीमेन मरुता भवतोरथकेतनम्। पातितं किङ्किणीजालम्” वेणी०। ३ अम्लरसायां द्राक्षायां “रुद्रधरः जलजम्बूवृक्षे हलायुधः “कट्फलं किङ्किणी द्राक्षा लकुचं मोचमेव च” हारी०। कंशब्दः किण इव यस्यां स्तुतौ गौरा० ङीषु। तन्त्रसारोक्ते ५ देवीस्तुतिभेदे सा च “किं किं दुःखं सकलजननि! क्षीयते न स्मृतायाम्” इत्यादिस्तुतिः।

किङ्किणीका = स्त्री कण–शब्दे ईकन् प्रकृतेः किङ्किणादेशः। क्षुद्रवण्टिकायाम्। “तमुवाह वाहः सशब्दचामीर किङ्किणीकः” कुमा०। अभूमिपालान् भोजान् स्वानातिष्ठत् किङ्किणीकिनः हरिव० ३८। अस्य पुंस्त्वमपि “किङ्किणीकविभूषितान्”

किङ्किणीकाश्रम = पुंन० भा० प्रसिद्धे तीर्थभेदे। “वैमानिक उस्पृश्य किङ्किणीकाश्रमे तथा निवासेऽप्सरसां दिव्ये कामचारी महीयते” भा० अनु० २५ अ०।

किङ्किर = पुंस्त्री किञ्चित् किरति वियोगिनं रागाय वा कॄ–क। १ म्रमरे २ कोकिले ३ अश्वे च सारस्वतः स्त्रियां जातित्वात् ङीष्। ३ कामे पु० ४ गजकुम्भे न० ५ रक्तवर्ण्णे पु० ६ तद्वति त्रि०

किङ्किरात = पुं० किङ्किरं रक्तवर्णमतति अत–अण्। अशोकवृक्षे जटा० भरनमितशिरः “शेखरैः किङ्किरातैः” रत्ना०।

किङ्किराल = पु० किङ्किराय रक्ततायै अलति कार्य्यान्नोति अल–अच् ३ त०। वर्वूरे वैद्य० तस्य निर्यासयोगेन रक्तवर्णस्थिरत्वकरणात् तस्य तथात्वम्।

किङ्किरिन् = पु० किङ्कर + इनि। (वैचि) विकङ्कतवृक्षे जटा०

किङ्किल = अव्य० किम् + किल + द्वन्द्वः। “किङ्किलेति कोपाश्रद्धयोः” गणरत्नोक्ते १ कोपे २ अश्रद्धायाञ्च। “न मर्षये न श्रद्दधे किङ्किल भवान् वृषलं याजयेत्” भवत्कर्त्तृकं शूद्रयाजनं कोपविषयः अश्रद्धाविषयश्च। तदर्थक किङ्किलशब्दयोगे लिङ्।

किञ्च = अव्य० किञ्च च च द्व०। १ आरम्भे, २ समुच्चये, ३ साकल्पे, ४ सम्भावनायाञ्च मेदि० ५ अवान्तरे जटा०

किञ्चन = अव्य० किम् + चन मुग्ध० पदद्वयमित्यन्ये। १ असाकल्ये, २ अल्पे च किम् + चन–अच्। ३ हस्तिकर्ण्णपलाशे पु० शब्दरत्ना० “असाकल्ये तु चिच्चन” इत्यमरोक्तेः चलेति भिन्नं पदम् अतएव मयू० अकिञ्चनशब्दोनिपातितः।

किञ्चित् = अव्य० किम् + चित् किञ्च चिच्च समा० वा। १ असाकल्ये, २ अल्पे च राजनि०। अस्य पदद्वयत्वमते १ अकिञ्चित्कर इत्यादौ सह सुपेति समास इति वोध्यम्। इदन्तया निर्द्देष्टुमशक्यत्वमेव किञ्चित्त्वम्। “कम्पेन किञ्चित् प्रतिगृह्य मूर्द्ध्नः” रघुः “किञ्चित् प्रकाशस्तिमितोग्रतारैः”। “आवर्ज्जिता किञ्चिदिव स्तनाभ्याम्” कुमा०।

किञ्चिलिक = पु० किञ्चित् चुलुम्पति सौत्रः चुलुम्प–डु संज्ञायां कन्। (केंचो) महीलताख्ये कीटमेदे अम० पृषो० किञ्चिलिकोऽप्यत्र अमरटी०।

किञ्जप्य = न० किञ्चिज्जप्यं यत्र। भा० प्रसिद्धे तीर्थभेदे किन्दानशब्दे दृश्यम्।

किञ्जल = न० किञ्चित् जलमत्र। पद्मादेः केशरे शब्दर० पृषो० ललोपे” किञ्जलमप्यत्र राजनि०।

किञ्जल्क = पु० किञ्चित् जलति जल–अपवारणे क तस्य नेत्त्वम्। पुष्पादेः १ केशरे, २ पुष्परेणौ, ३ नागकेशरे च मेदि० पद्ममध्यस्थे केशाकारे पदार्थे। “केचित् किञ्जल्कसङ्काशाः केचित् पीताः पयोधराः” भा० व०१८८ अ०। “पद्मोदरच्युतरजः किञ्जल्कारुणतां गतैः” भा० व०१५८ अ० “किञ्जल्किनीं ददौ चार्ब्धिमालामम्लानपङ्कजाम्” देवीमा अमरे पुंस्त्वं जटाधरे क्लीवतेत्युभयलिङ्गता तद्गुणादिकं भावप्र० उक्तं “किञ्जल्कः शीतलोरूक्षः कषायो ग्राहकोऽपि सः। कफपित्तवृषानाहरक्तार्शोविषशोथजित्” तत्र पुष्पकेशरे “हिरण्यस्रजोयाजयेयुः वज्रकिञ्जल्काः शतपुष्करा होतुः” आ० श्रौ० ९, ४, ५ “वज्रैःकृतकिञ्जल्काः कृतकेशरा” होतुः स्रजःकार्य्याः नारा०

किट = गतौ सक० भये अक० भ्वा० पर० सेट्। केटति अकेटीत् किकेट प्रनिकटति।

किटकिटाय = किटकिटेत्यव्यक्तशब्दकरणे डाच्–क्यच्–नामधातुः किटकिटायते अकिटकिटायीत् “दन्तात् किटकिटायते उद्गताक्षोजिह्वां खादति” सुश्रुतः

किटि = पु० किट–गतौ इन् किच्च। शूकरे अमरः स्त्रिया मिदन्तत्वात् वा ङीप्

किटिभ = पु० किटिरिव भाति कृष्णत्वात् भा–क। १ केशकीटे (उकुण) हेम०। २ सर्पदंशनोपद्रवभेदे न० सुश्रु०। “दद्रवः कर्णिकाश्चैव विसर्याः किटिभानि च। तैर्भवनीह द- ष्टानां यथास्वञ्चाप्युपद्रवाः”। “पिडकोपचयश्चोग्राः विसर्पाः किटिभानि च। पर्व्वभेदोरुजस्तीव्रोज्वरोमूर्च्छा च दारुणाः। दौर्बल्यमरुचिश्वासोवमथुर्लोमहर्षणम्। “दष्टरूपं समासोक्तमेतच्च व्यासतः शृणु” सुश्रु०। तल्लक्षणं तत्रोक्तं यथा। “यत् स्रावि वृत्तं घनमुग्रकण्डु तत् स्निग्धकृष्णं किटिभं वदन्ति”

किट्ट = न० किट–क्त नि० इडभावः। १ धातूनां मले, २ तैलाद्यधोभागस्थे मले च “पृथक् किट्टं पृथङ्मलम्” योगार्ण्णवः। “आहारस्य रसः सार सारहीनो मलद्रवः। सिरामि स्तत्तलं नीतं वस्तिं मूत्रत्वमाप्तुयात्। शेषं किञ्चित्, च यत्त्वस्य तत्पुरीषं निगद्यते” भावप्र०।

किट्टवर्ज्जित = न० ३ त०। शुक्रे चरमधातौ यथा च तस्य पाके किञ्चित् मलशून्यत्वं तथोक्तं भावप्र० तच्च असृक्करशब्दे ५६० पृ० उक्तम्।

किट्टाल = पु० किट्टमालाति आ + ला–क। १ ताम्बकलसे किट्टरूपेण अलति पर्य्यान्नोति अल–अच्। २ लौहमले मेदि०

किण = पु० कण गतौ अच् पृषो० अत इत्त्वम्। (घेंटा)। (कडा) १ शुष्कब्रणे, २ मांसग्रन्थौ, ३ घर्षणजे चिह्ने च। “ज्याघातरेखाकिणलाञ्चनेन” रघुः “कराभ्यां किणजाताग्यां शनकैः संववाहतुः” भा० व० १४४ अ०।

किणि = स्त्री किणाय तन्निवृत्तये प्रभवति बा० इन्। अपामार्गे शब्दर०

किणिही = स्त्री किण–अस्त्यर्थे इनि किणिनो व्रणान् हन्ति हन–ड गौ० ङीष्। अपामार्गे अमरः। “इङ्गुदी–किणिही–दन्ती–सरला–देवदारुभिः” सुश्रु०

किण्व = न० उल्वादि० नि०। १ सुरावीजे २ पापे च मेदि० सुरावीजद्रव्यभेदश्च नानाविधः सौत्रामणीशब्दे वक्ष्यते, भावप्र० “सुरावीजन्तु किण्वकम्” इति परिभाष्य “सुरावीजं यवगोधूमतण्डुलादि” इति व्याख्यातं सुश्रुते तु कल्वस्य तण्डुलादिती भिन्नत्वेन निर्द्देशः कृतः यथा “वैरेचनिकमूलानां क्वाथे माषान् सुभावितान्। सुधौतांस्तत्कषायेण शालीनाञ्चापि तण्डुलान्। अवक्षुद्यैकतः पिण्डान् कृत्वा शुष्कान् सुचूर्णितान्। शालितण्डुल चूर्णञ्च तत्कषायोष्मसाधितम्। तस्य पिष्टस्य भागांस्त्रीन् किण्वभागविमिश्रितान्। मण्डोदकार्थे क्वाथञ्चदद्यात्तत्यर्व्वमेकतः। निदध्यात्कलसे तान्तु सुरां जातरसां पिवेत्” “किण्वादिभ्योमदशक्तिवत्” सां० सू०। अयं शब्द पु० न० इति भरतः। तस्मै हितम् अपूपा० यत् छ वा किण्व्य किण्वीत्य तत्साधने द्रव्ये त्रि०

कित = संशये रोगापनयने च चा० पर० सक० सेट् एतदर्थे स्वार्थेसन्। चिकित्सति अ चकित्सीत् चिकित्सा चिकित्सितुम् चिकित्सितः। वासे अक० न सन् इच्छायां सक० न सन्। केतति अकेतीत्। केतनं केतुः

कित = ज्ञाने जुहो० पर० सक० सेट् वैदिकोऽयम्। चिकित्ति अकेतीत्। “यं नोअचिकेत् चित्रभानो” ऋ०१०, ५१, ३,

कित = पु० कित–क।? ऋषिभेदे तस्य गोत्रापत्यम् अश्वादि० फञ्। कैतायन तद्गोत्रापत्ये पुं स्त्री०

कितव = पु० कि–भावे–क्त कितेन वाति वा–क। १ द्यूतकारके २ धुस्तूरवृक्षे अमरः ३ वञ्चके, ४ खले, च त्रि० मेदि० ५ चौरनामकगन्धद्रव्ये, पु० शब्दरत्ना०। “यन्मा पितेव कितवं शशास” ऋ० २, २९, ५। घृतकारके “कितवानक्षैर्दिध्यासमप्रति” अथ० ७, ५, १, “स्तेनाः माहसिकाधूर्त्ताः कितवा योधकाश्च ये। असाक्षिणश्च ते दृष्टास्तेषु सत्यं न विद्यते” नारदः। “कितवाद्यूतकराः” रघु०। द्यूते विशेषः या० मिता० दर्शितोयथ “द्रष्टारोव्यवहाराणां साक्षिणश्च त एवहि” या० “द्यूतव्यवहाराणां द्रष्टारस्त एव कितवा एव राज्ञा नियोक्तव्याः न पुनःश्रुताध्यनसम्पन्ना इत्यादि नियमोऽस्ति। साक्षिणश्च द्यूते द्यूतकारा एव कार्य्याः न तत्र स्त्रीबालकितवेत्यादिनिषेधोऽस्ति। क्वचित् द्यूतन्निषेद्धुन्दण्डमाह” मि० “राज्ञा सचिह्नन्निर्वास्याः कूटाक्षोपधिदेविनः” या० “कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्तितान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्रान्निर्वास येत्। नारदेन निर्वासने विशेष उक्तः “कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत्। कण्ठेऽक्षमालामासज्य सह्ये षां विनयः स्मृत” इति। यानि च मनुवचनानि द्यूतनिषेधपराणि “द्यूतं समाह्वयञ्चैव यः कुर्य्यात्कारयेत वा। तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः” इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि” मि० किञ्च “द्यूतमेकमुखं कार्य्यन्तस्करज्ञानकारणात्” या०। “यत्पूर्वोक्तं द्यूतन्तदेकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्य्यम्। राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः तस्करज्ञानकारणात् तस्करज्ञानरूपम्पर्य्यालोच्य प्रायशः चौर्यार्जितधना एव कितवाभवन्त्यतश्चौरविज्ञानार्थ मेकमुखंकार्य्यम्” मिता०। “ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम्। गृह्णीयाद्घूर्त्तकितवात् इतराद्दशकं शतम्” या०। “यदाऽश्रौषं वाससां तत्र राशिं समाक्षिपत् कितवो मन्दबुद्धिः” भा० आ० १ अ०। कितवस्य गोत्रापत्यम् अश्वा० फञ्। कैतवायन तद्गोत्रापत्ये पुंस्त्री। उत्करा० चतुरर्थ्यां छ। कितवीय तन्निर्वृत्तादौ अनन्तरापत्येतिका० झिञ्। कैतवायनि तदपत्ये पुंस्त्री० तैकायनिशब्देन द्वन्द्वे फिञो लुक्, बहुत्वे। तैकायनयश्च कैतवायनयश्च तिककितवाः,। अस्य व्याघ्रादि० उपमितसमासः। कितवधूर्त्तः। शौण्डा० ७ त०। अक्षकितवः। वञ्चके “तव कितव! किमाहितैर्वृथा नः” माघः ६ रोचननामगन्धद्रव्ये राजनि०।

किन्तनु = पु० का कुत्सिता तनुरस्य। (माकडसा) ख्याते कीटभेदे त्रिका०

किन्तमाम् = अव्य० कुत्सितार्थे किम् + बहूनां मध्ये एकस्याति शये तमप् आसु। बहुषु मध्ये प्रकृष्टे कुत्सिते

किन्तराम् = अव्य० कुत्सितार्थे किम् + द्वयोर्मध्ये एकस्यातिशये तरप् आमु। द्वयोर्मध्ये प्रकृष्टे कुत्सिते।

किन्तु = अव्य० किञ्च तु च द्व०। १ पूर्व्ववाक्यसङ्कोचज्ञापने, २ प्रागुक्तविरुद्धार्थे, ३ किंपुनरित्यर्थे च मेदि०।

किन्तुघ्न = पु० तिथ्यर्द्धरूपकरणभेदे करणशब्दे विवृतिः

किन्दत = पु० भारतप्रसिद्धे कूपभेदरूपे तीर्थे “किन्दतं कूप मासाद्य तिलप्रस्थ प्रदाय च। गच्छेत परमां सिद्धिमृणै र्मुक्तः कुरूद्वह!” भा० व०८३० अ०।

किन्दम = पु० ऋषिभेदे सहि मृगरूपेण मृगीरूपधारिण्या स्त्रिया सह सङ्गमकाले पाण्डुना मृगबुद्ध्या हतः। तत्कथा भा० आ० ११८ अ० यथा “राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते। चरन् मैथुनधर्म्मस्थं ददर्श मृगयुग्मकम्। ततस्ताञ्च मृगीं तञ्च रुक्मपुङ्खैः स पत्रिभिः। निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः। स च राजन्! महातेजा ऋषिपुत्रस्तपोधनः। भार्य्यया सह तेजस्वी मृगरूपेण सङ्गतः” इत्युपक्रम्य पाण्डुं प्रति तच्छरविद्धस्य तस्य शापदानमुक्तं तत्रैव यथा “मृग उवाच। नाहं घ्नन्तं मृगान् राजन्! विगर्हेचात्मकारणात्। मैथुनन्तु प्रतीक्ष्यं मे त्वयेहाद्यानृशंस्यतः। सर्व्वभूतहिते काले सर्व्वभूतेप्सिते तथा। को हि विद्वान् मृगं हन्याच्चरन्तं मैथुनं वने। अस्यां मृग्याञ्च राजेन्द्र! हर्षान्मैथुनमाचरम्। पुरुषार्थफलं कर्त्तुं तत्त्वया विफलीकृतम्। पौरवाणां महाराज! तेषामक्लिष्टकर्म्मणाम्। वंशे जातस्य कौरव्य! नानुरूपमिदन्तव। नृशंसं कर्म्म सुमहत् सर्व्वलोकविगर्हितम। अस्वर्ग्यमयशस्यञ्चाप्यधर्म्मिष्ठञ्च भारत!। स्त्रीभोगानां विशेषज्ञः शास्त्रधर्म्मार्थतत्त्ववित्। मार्हस्त्वं सुरसङ्काश! कर्त्तुमस्वर्ग्यमीदृशम्। त्वया नृशंसकर्त्तारः पापाचाराश्च मानवाः। निग्राह्याः पार्थिवश्रेष्ठ! त्रिवर्गपरिवर्ज्जिताः। किं कृतं ते नरश्रेष्ठ! मामिहानागसं घ्नता। मुनिं मूलफलाहारं मृगवेशधरं नृप!। वसमानमरण्येषु नित्यं शमपरायणम्। त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यहं शपे। द्वयोर्नृशंसकर्त्तारमवशं काममोहितम्। जीवितान्तकरो भाव एवमेवागमिष्यति। अहं किमिन्दमो नाम तपसा भावितो मुनिः। व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम्। मृगो भूत्वा मृगैः सार्द्धं चरामि गहने वने। न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः। मृगरूपधरं हत्वा मामेवं काममोहितम अस्य तु त्वं फलं मूढ! प्राप्स्यसीदृशमेव हि। प्रियया सह संवासं प्राप्य कामविमोहितः। त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि। अन्तकाले हि संवासं यया गन्तासि कान्तया। प्रेतराजपुरं प्राप्तं सर्व्वभूतदुरत्ययम्। भक्त्या मतिमतां श्रेष्ठ! सैव त्वानुगमिष्यति। वर्त्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया। तथा त्वाञ्च सुखं प्राप्तं दुःखमभ्यागमिष्यति”।

किन्दर्भ = पु० ऋषिभेदे तस्यापत्यम् विदा० अञ्। कैन्दर्भ तदपत्ये पुंस्त्री०

किन्दान = न० किञ्चिदपि दानमावश्यकं यत्र। भारतप्रसिद्धे सरकतीर्थस्थे तीर्थभेदे सरकमुपक्रस्य “किन्दाने च नरः स्नात्वा किञ्जप्ये च महीपते!। अप्रमेयमवाप्तोति दानं जप्यञ्च भारत!” भा०, व०, ८३ अ०।

किन्दास = पुं कः कुत्सितोदासः। निन्दिते दासे ततः अनार्षत्वात् अपत्ये विदा० अञ्। कैन्दास तदपत्ये पुंस्त्री०।

किन्धिन् = पुं कुत्सिता धीरस्त्यस्य व्रीह्या० इनि। अश्वे त्रिका० स्त्रियां ङीप्।

किन्नर = पुंस्त्री कः कुत्सितो नरः तुरङ्गवदनत्वात्। देवयोनिभेदे स च पुलस्त्यर्षिपुत्रभेदः। “राक्षसाश्च पुलस्वस्य वानराः किन्नरास्तथा। यक्षाश्च मनुजव्याघ्र! पुत्रास्तस्य च धीमतः” भा० आ० ६६ अ०। “किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान्” मनुः स्त्रियां ङीष्। “ऋक्षीषु च तथा जाता वानराः किन्नरीषु च” रामा०। किञ्चित्क्वणत्किन्नरमध्युवास” “उद्गास्यतामिच्छति किन्नराणाम्” कुमा०। “किमिदं किन्नरकण्ठि! सुप्यते” रघुः। २ वर्षभेदे च किम्पुरुशब्दे विवृतिः ३ अर्हदुपासकभेदे हेम०।

किन्नरेश = पुं ६ त०। कुवेरे तस्य तदधिपत्वकथा काशी० ख० १३ अ० यथा “वरं ददामि ते वत्स! तपसाऽनेन तोषितः। निधीनामधिनाथस्त्वं गुह्यकानामपीश्वरः। यक्षाणां किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत!। पतिः पुण्यजनानाञ्च सर्ब्बेषां धनदोभव” किन्नरेश्वरादयोऽप्यत्र

किन्नु = अव्य० किञ्च नु च द्व०। १ प्रश्ने, २ वितर्के ३ सादृश्ये ४ स्थाने च जटाधरः पदद्वयमित्येके।

किप्य = पु० सुश्रुतोक्ते पुरीषजे कृमिभेदे। “अयवा वियवाः किप्याश्चिप्या गण्डूपदास्तथा। चुरवोद्विमुखाश्चैव सप्तैवैते पुरीषजाः” सुश्रु०।

किम् = त्रि० कु–शब्दे बा० डिमु। १ कुत्सिते २ जिज्ञासिते ३ वितर्कविषये। ४ कुत्सायां ५ गर्हणे ६ वितर्के ७ प्रश्ने ८ सादृश्ये, (प्रकारे) ९ करणे च अव्य० जटा० १० ईषदर्थे ११ अतिशये गणरत्नम्। तत्र त्रिलिङ्गस्य सर्व्वनामता के कस्मै इत्यादि “के यूयं स्थल एव संप्रति वयं प्रश्नोविशेषाश्रयः” सा० द०। “कस्मै नाथ! समर्प्य कैरवकुलं व्योमान्तमालम्बसे” उद्भटः। “केषां नैषा भवति कविता कामिनी कौतुकाय” प्रसन्नरा०। “कस्मिंश्चिद्वनोद्देशे भासुरकोनाम सिंहः प्रतिवसति” पञ्चतन्त्रम्। “कस्मिन्नु खलु विज्ञाते सर्वं विज्ञातं भवति” मुण्डकश्रुतिः। निन्दितार्थे किंराजा किङ्गौः इत्यादि। “किंराजा यो न रक्षति” “स किंसस्रा साधु न शास्ति योऽधिपम्” किरा० इत्यादि तत्र ईषदर्थे न किमप्यस्यास्ति। किञ्चिदपि नास्तीत्यर्थः अतिशये किमप्येष प्रगल्भसे अतिशयितं प्रगल्भसे इत्यर्थः अव्ययस्य प्रश्ने “किमिदं किन्नरकण्ठि सुप्यते” रघुः तत्र किंशब्दशक्तिबोधादिप्रकारो गदाधरेण शक्तिवादे दर्शितो यथा। “किंपदस्य जिज्ञासिते शक्तिः एतदेव स्वीयजिज्ञासाज्ञापनाय किंपदघटितप्रश्नवाक्यं प्रयुज्यते। तत्रोद्देश्यवाचककिंपदस्य समभिव्याहृतपदोपस्थाप्यतावच्छेदकधर्माबच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्तृजिज्ञासितो धर्मः प्रवृत्तिनिमित्तं उपस्थाप्यतावच्छेदकत्वान्तमुपलक्षणतयानुगमकं शाब्दबोधे तदभानात्। एवञ्च कः पचतीत्यतः पाककृतित्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन जिज्ञासितो यो धर्म्मस्तद्वान्पचतीत्याकारोऽन्वयबोधः प्रतिपाद्यते किञ्चिद्धर्मावच्छिन्नोद्देश्यतानिरूपितपाककृतित्वाबच्छिन्नबिधेयताशालिज्ञानं भबत्वित्याकारिकाया जिज्ञासायास्तादृशबोधविषयकतया तादृशेच्छाविययीभूतज्ञानजनकाद्ब्राह्मणः पचतीत्युत्तरवाक्यात्तन्निवृत्तिरिति तादृशप्रश्नानन्तरं तथैवोत्तरं प्रयुज्यते। न चैवं प्रमेयः पचतीत्युत्तरवाक्यमेव कथं तादृशप्रश्नानन्तरं न प्रयुज्यते तज्जन्यज्ञानस्यापि तादृशेच्छाविषयत्वादिति वाच्यं जिज्ञासाविषयीभूतस्वसमभिव्याहृतपदोपस्थाप्यविधेयन्यूनवृत्तिधर्म्मावच्छिन्नएव तादृशकिंपदस्य शक्त्यभ्युपगमात्। अभेदेन स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिंपदस्य शक्यतावच्छेदकगर्भे च स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तित्वमपि धर्म्मांशे विशेषणं देयमतः को ब्राह्मणः पचतीत्यादिप्रश्नानन्तरञ्चैत्रः पचतीत्यादिकमुत्तरवाक्यं प्रयुज्यते नतु मनुष्यः पचतीत्यादिकं मनुष्यत्वादेर्ब्राह्मणत्वाद्यन्यूनवृत्तित्वात्तदवच्छिन्नोद्देश्यकत्वेन ज्ञानविषयेच्छायास्तत्राप्रतीतेः एवं यत्रोद्देश्यतावच्छेदके किंपदार्थस्याभेदेनान्वयस्तत्र तदन्वयितावच्छेदकधर्म्मावच्छिन्नबिशेषणतापन्नतदन्वयितावच्छेदकधर्मन्यूनवृत्तिधर्माबच्छिन्नोद्देश्यतावच्छेदकताकप्रकृतज्ञानगोचरेच्छा किंपदेन बोध्यतेऽतः कति घटाः सन्तीत्यादौ डतिप्रत्ययार्थे संख्यादौ किंपदार्थख जिज्ञासितधर्म्मावच्छिन्नस्याभेदेनान्वयात् संख्यात्वन्यूनवृत्तिदशत्वत्वाद्यवच्छिन्नोद्देश्यतावच्छेदकताकबोधजनकं दशसंख्यका घटाः सन्तीत्युत्तरं तत्र प्रयुज्यते। यत्रोद्देश्यतावच्छेदकीभूतविभक्त्याद्यर्थे भेदेन किंपदार्थान्वयः कस्य पुत्रः सुन्दर इत्यादौ तत्र यादृशसम्बन्धेन यदवच्छिन्ने यदन्वयस्तत्र तादृशसम्बन्धेन विशेषधर्म्मावच्छिन्नविशेषिततदवच्छिन्ननिष्ठोद्देश्यतावच्छेदकतावच्छेदकताकप्रकृतबिधेयज्ञानगोचरेच्छा प्रतीयते एवं विधेयवाचककिंपदस्य स्वसमभिव्याहृतपदोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्म्मावच्छिन्नोद्देश्यतानिरूपितविधेयतावच्छेदकतया जिज्ञासितो विशेषधर्म्मस्तदवच्छिन्ने शक्तिरित्ययं क इत्यादौ इदन्त्वावच्छिन्नांशे बिधेयतावच्छेदकत्वेन जिज्ञासितधर्म्मवानित्याकारकोऽन्वयबोधः। तेन तद्विषयकजिज्ञासाजनकज्ञानजनकं चायं ब्राह्मण इत्याद्युत्तरवाक्यं तादृशप्रश्रानन्तरं प्रयुज्यते। एवं यत्र वेधेये विधेयतावच्छेदके वा किंपदार्थस्य तदवच्छेदकधर्मस्याभेदेन वान्वयः इदं किम् इदं किंधनं भवतः कति पुत्राः भवान् कस्य पुत्र इत्यादौ रीतिः पूर्ववदूहनीया “किमिन्दुः किं पद्मं किमु मुकुरविम्बं किमु मुखं किमब्जे किं मीनौ किमु मदनवाणौ किमु दृशौ। कटौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ तडिद्वा तारा वा कनकलतिका वा किमबला” इत्यादावव्ययकिमो वाशब्दस्येव वितर्कोऽर्थः। वितर्कश्च प्रयोक्तुः सम्भावनात्मकं ज्ञानं तदर्थस्य च विशेष्यतासम्बन्धेन प्रथमान्तपदोपस्थाप्यविशेष्ये प्रकारितासम्बन्धेन तत्र च विशेषणस्य चन्द्रादेरन्वयः नामार्थेनाव्ययार्थस्य भेदान्वयेऽविरोधात्। यत्र विशेषणवाचकमपि प्रथमान्तं तत्राभेदसम्बन्धावच्छिन्नप्रकारितासंसर्गः यत्र तु प्रकृत्यर्थस्य विशेष्यतया स्वार्थबोधकं विभक्त्यन्तं, यत्र किंपदासत्त्वे तादृशविभक्त्यन्तसमुदायार्थस्य विशेष्ये यादृशसम्बन्धेनान्वयस्तादृशसम्बन्धावच्छिन्नप्रकारितैव तादृशार्थस्य किंपदार्थे संसर्गोऽतः किमिन्दुरित्यादावभेदेन चन्द्रादिप्रकारिका घनमिदं किं चैत्रस्येत्यादावाश्रयत्वादिसम्बन्धेन चैत्रस्वत्वादिप्रकारिका सम्भावना नियमतः प्रतीयते किमिन्दुरित्यादौ सम्भावनाबोधोत्तर तत्प्रयोजकाह्लादकत्वादिप्रतीतिस्त्वार्थी। कुत्सार्थकमपि क्वचित्किंपदं यथा किङ्गौरित्यादौ।”

किमिच्छक = त्रि० किमिच्छसि किमिच्छसीति पृच्छति पृषो०। किमिच्छसि किमिच्छसीति प्रश्नकारके भोजनाद्यर्थमाह्वानाय नियुक्ते १ भृत्यादौ। “सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा। गोभिर्वस्त्रैश्च राजेन्द्र! विविधैश्चकिमिच्छकैः” भा० शा० ३८ “किमिच्छसि किमिच्छसीतिप्रश्नकारकैर्भृत्यैः विविधैर्गोवस्त्रादिभिर्निमन्त्रयद्भिः” नीलक०। किमिच्छसीति प्रश्चेन दानार्थं कायति शब्दायतेऽत्र पृषो०। २ मार्कण्डेयपुराणीक्ते व्रतभेदे पु० तद्व्रते हि “पुरोहितस्य वीराया(तन्नामराजमहिष्याः) वदतोऽर्थिजनं प्रति। कः किमिच्छति दुःसाध्यम् कार्य्यं किंसाध्यतामिति। करन्धमस्य महिषी किमिच्छकमुपोषिता। राजपुत्रोऽप्यविक्षित्तु श्रुत्वा पौरोहितं वचः। प्रत्युवाचार्थिनः सर्व्वान् राजद्वारमुपागतान्। मया साध्यं शरीरेण कार्य्यं किञ्चित् ब्रवीतु मे। मम माता महाभागा किमिच्छकमुपोषिता। शृण्वन्तु मेऽर्थिनः सर्व्वे प्रतिज्ञातं मयात्र वै। किमिच्छथ ददाम्येवं क्रियमाणे किमिच्छके” अर्थिनोऽभिलाषानुरूपदानार्थ केच्छाप्रश्नपूर्व्वकं तद्दानं विहितमिति तस्य तथात्वम्। ३ इच्छाविषयप्रश्नपूर्व्वकेष्टेच्छानुरूपदेयमात्रेऽपि “प्रति श्रयान् सभाः कूपान् प्रपाः पुष्करिणीस्तथा। नैत्यकानि च सर्व्वाणि किमिच्छकमतीव च” भा० शा०६६८५ श्लो०

किमीदिन् = त्रि० किमिदानीमिति चरति किम् + इदानी- म् + इनि पृषो०। किमिदानीमित्येवं चरणशीले पिशुनेखले “द्वेषे धत्तमनवायं किमीदिने” ऋ० ७, १०४, २, “किमीदिने किमिदानी मतिचरते पिशुनाय” भा० “विलुपन्तु यातुधाना अत्रिणो ये किमीदिनः” अथ० १, ७, ३,

किमु = अव्य० कै–डिमु। १ प्रश्ने, २ निषेधे, ३ वितर्के, ४ निन्दायाञ्च मेदि० “किमु भीरुररार्य्यसे” भट्टिः

किमुत = अव्य० किञ्च उत च द्व०। १ प्रश्ने, २ वितर्के ३ विकल्पे, ४ अतिशये च। कैमतिकन्यायः तस्य शब्दद्वयात्मकत्वे तन्न स्यादिति बोध्यम् “आहो उताहो किमुत वितर्के किं किमूत च” हेम० किमु–उत इति छेदः तेन किमूतेत्येकशब्दकल्पनं चिन्त्यम्

किम्पच = त्रि० किं पचति पच–अच्। कृपणे रायसु०। सहि आत्मोदरपूर्त्तिसमर्थमात्रं पचति नागन्तुकातिथिभ्योदानपर्य्याप्तम्। इति तस्य तथात्वम्।

किम्पचान = त्रि० किम् + पल–आनच्। आत्मोदरपूर्त्तिमात्रपर्य्याप्तपाककर्त्तरि कृपणे अमरः।

किम्पाक = पु० कुत्सितः पाकोयस्य। (माखाल) महाकाल लतायां रत्नमा०

किम्पुना = स्त्री भा० प्रसिद्धे नदीभेदे “किम्पुना च विशल्या च तथा वैतरणी नदी” भा० स०९ वरुणसभावर्ण्णने। “वितस्ताञ्च महाभाग! कावेरीञ्च महानदीम्। शोणञ्च पुरुषव्याघ्र! विशल्यां किम्पुनामपि” भा० व० १८८ अ०

किम्पु(म्पू)रुष = पु० कुत्सितः पु(पु)रुषः। देवयोनिभेदे देवगायके अमरः। स च अश्वाकारजघनः नराकारमुखः। किन्नरस्तु अश्वाकारवदनः नराकारजघन इति तयोर्भेदः। अतएव “राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा” इति पुलस्त्यस्य वंशमुक्त्वा “पुलहस्य सुताः राजन्! शलभाश्च प्रकीर्त्तिताः। सिंहाः किम्पुरुषा व्याघ्रा यक्षाईहामृगास्तथा” भा० आ० ६६ अ० पुलहवंशे किम्पुरुषस्य कीर्त्तनम्। अतएव भाग० ८, २०, १३, “नेदुर्मुहुदुन्दभयः सहस्रशोगन्घर्व्वकिम्पूरुषकिन्नराजगुः”। तयोर्भेदेन निर्द्देशः। “स यं पुरुषमालभत स किम्पुरुषोऽभवत्” शत० व्रा० १, २, ३, ९, किंपुरुषावासे २ वर्षभेदे। कुत्सितपुरुषत्वसाम्यात् परस्परमभेदाभिप्रायेण उभयोरप्युभयपरता तेन क्वचित् किन्नरवर्षमित्युच्यते क्वचिच्च किम्पुरुषवर्षम् इति। तदधिष्ठानदेशभेदश्च वर्षभेदः स च “किंन्नरवर्षमतो हरिवर्षमिति विभज्य” “माल्यवज्जलधिमध्यवर्त्ति यत् तत्तु भद्रतुरगं (मुखेन तुरगतुल्यम्) जगुर्बुधाः” सि० शि० उक्तः भाग० ५, १९, “किम्पुरुषे वर्षे इत्युक्तम्। “देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम्” भा० स० २७ अ०। “द्रुमः किंपुरुषेशश्च उपास्ते धनदेश्वरम्” भा० स० १० अ०। “काश्मीरराजो गोनर्द्दः करूषाधिपतिस्तथा। द्रुमः किम्पुरुषश्चैव पर्व्वतीयोह्यनामयः” हरिवं० ९२ अ०। “प्रियामुखं किम्पुरुषश्चुचुम्बे” “यदृच्छया” किम्पुरुषाङ्गनानाम्” कुमा०।

किम्पुरुषेश्वर = पुं ६ त० १ कुवेरे कुम्पुरुषवर्षेश्वरे २ द्रुमाभिधेराजनि च।

किम्भरा = स्त्री किञ्चित् बिभर्त्ति भृ–अच्। नलीनामगन्धद्रव्ये शब्दच०

कियत् = त्रि० किमु + परिमाणे, वतुप् किमः क्यादेशः वस्य यः। किंपरिमाणे “गन्तव्यमस्ति कियदित्यसकृद् ब्रुवाणा” सा०, द०, “मदर्थसन्देशमृणालमन्थरः प्रियःकियद्दूरमिति त्वयोदिते” “भवेदमीभिः कमलोदयः कियान्” नैष०, स्त्रिया० ङीप् “निविशते यदि शूकशिखा पदे सृजति सा कियतीमिव न व्यथाम्” नैष०।

कियदेतिका = स्त्री कियत् एतत् आरभ्यमाणं करोति णिचि डिद्वत्त्वे टिलोपे ण्वुल्। उद्योगे उत्साहे हेम०। त्रिका० कियेतदकेति पाठः प्रामादिकः।

कियाम्बु = त्रि० कियदम्बुयत्र वेदे पृषो० तोलोपः। किंप्रमाणाम्बुयुक्ते “कियाम्ब्वत्र रोहतु पाकदूर्व्वा व्यल्कशा” ऋ० १०, १६, १३,।

कियाह = पुं रक्तवर्ण्णे अश्वे हेमच०।

कियेधास् = अव्य० कियत्प्रकारे इत्यर्थे निरु६ २० “वृत्राय वज्रमीशानः कियेधाः” व०, १, ६१, १२, “कियेधाः कियद्धा– इति” भा०।

किर = पुंस्त्री कॄ–क। १ शूकरे अमरः स्त्रियां जातित्वात् ङीष् २ विक्षेपकमात्रे त्रि०। कीर्य्यतेऽत्र आधारे कॄ–घञर्थे क। ३ अवस्करविक्षेपदेशे पर्य्यन्तभूमौ। किरातः

किरक = पुं स्वल्पः किरः अल्पे कन्। १ वालशूकरे २ लेखके च त्रिका०

किरण = पुं कीर्य्यते परितः कॄ–कर्म्मणि क्यु। सूर्य्यादेः रश्मौ “स्वकिरणपरिवेषोन्मेषशून्यः प्रदीपः” रघुः “एकोहि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः” कुमा०। ततः अरीहणा० चतुरर्थ्या वुञ्। कैरणक तन्निर्वृत्तादौ त्रि०

किरणमालिन् = पुं किरणानां मालाऽस्त्यस्य इनि। सूर्य्ये हारा०।

किराटिका = स्त्री० किरे पर्य्यन्त भूमौ अटति अट–ण्वुल्। वर्य्यन्व भूमिचारिण्यां शारिकायां पक्षिण्याम् शब्दचि०

किरात = पुंस्त्री किरमवस्करादेर्निःक्षेपस्थानं पर्य्यन्तभूमिमतति अत + अण उप० स०। १ नीचजातिभेदे स च अवस्करनिःक्षेपस्थानपर्य्यन्तदेशाश्रयः व्याधादिः। जातिशब्दे विवृतिः। “तप्तकुण्डं समारभ्य रामक्षेत्रान्तकं शिवे!। किरातदेशो विज्ञेयो विन्द्यशैलेऽवतिष्ठते” इति शक्तिसंगमोक्ते २ देशभेदेपु० भूम्नि। वृहत् स० कूर्म्मविभागे ३ ऐशान्यमुक्ते ३ देशभेदे च “ऐशान्यां मेरुकनष्टराज्येण्रपक्रमे “वनराज्यकिरातचीनकौलिन्दाः इत्युक्तम् तद्देशानां राजा अण्। कैरात तद्देशनृपे वहुषु अणोलुक्। किराताः। ते च क्रमशो वेदानध्ययनादिना वृषलत्वमाप्ता यथाह मनुः “शनकैस्तु क्रियालोपादिमाः स्युः क्षत्रजातयः। वृषलत्वं गता लोके ब्राह्मणादर्शनेन च”। पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः। पारदापह्नवाश्चीना किराताःदरदाः खसाः” इति। जातौ स्त्रियां ङीष्। ४ मत्स्यभेदे पुंस्त्री० “किरातस्तथा स्त्रियां चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः” केशवोक्तेः ५ चामरवाहिन्यां स्त्री। “नौसंश्रयां पार्श्वगतां किरातीम्” रघुः “किरातीं–चामरग्राहिणीं दासीम्” मल्लि०। तपस्यदर्ज्जुनप्रसादार्थं किरातरूपेण गतत्वात् ६ शिवे तस्य पत्न्यां तथारूपायां ७ पुर्गायां स्त्री ङीष् “किराती ञ्चीरवसनां चौरसेनानमस्कृताम्। आज्यपां सोमपां सौम्यां सर्व्वपर्व्वतवासिनीम्” हरिवं० १७८ अ० दुर्गास्तवे। तत्र व्याधे “मुक्ताफलैः केशरिणां किराताः” “यद्वायुरन्विष्टमृगैःकिरातैः, कुमा०। ८ भूमिनिम्बे पुं० राजनि० ९ घोटकरक्षके सारस्वतः। १० अल्पतनौ त्रि० मेदि०। “पर्य्यन्ताश्रयिभिर्निजस्य सदृशं नाम्रः किरातैः कृतम्” रत्ना०। अत्र स्वनामसदृशत्वञ्च वानरभिया सङ्कोचितदेहत्वेनाल्पतनुत्वात् स्वनामसमानुपूर्व्वीकपदबोध्याल्पतनुत्वकरणात् पर्य्यन्ताश्रयित्वविशेषणाद्वा तथात्वम् तत्र भूनिम्बगुणाद्युक्तं भावप्र० यथा “किरातः सारको रूक्षःशीतलस्तिक्तको लघुः। सन्निपातज्वरश्वासकफपित्तास्रदाहनुत्। कासशोथतृषाकुष्ठ ज्वरव्रणकृमिप्रणुत्। स्वार्थे क। किरातक भूमिनिम्बे राजनि०। किरातं शिवमधिकृत्य कृतोग्रन्थः अण् कैरात भारतवनपर्व्वान्तर्गतेऽवान्तर पर्व्वभेदे तत्रत्यकथा भा० व०३९ अ० यथा “गतेषु तेषु सर्वेषु तपस्विषु महात्मसु। पिनाकपाणिर्भगवान् सर्वपापहरो हरः। कैरातं वेशमास्थाय काञ्चनद्रुमसन्निभम्। विभ्राजमानो विपुलो गिरिर्मेरु- रिवापरः। श्रीमद्धनुरुपादाय शराश्चाशीविषोपमान्। निष्पपात महावेगो दहनो देहवानिव। देव्या सहोमया श्रीमान् समानव्रतवेशया। नानावेशधरैर्हृष्टैर्भूतैरनुगतस्तदा। किरातवेशसंछन्नः स्त्रीमिश्चापि सहस्रशः। अशोभत तदा राजन्! स देशोऽतीव भारत!। क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा। नादः प्रस्रवणानाञ्च पक्षिणाञ्चाप्युपारमत। स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्म्मणः। मूकं नाम दनोः पुत्रं ददर्शाद्भुतदर्शनम्। वाराहं रूपमास्याय तर्जयन्तमिवार्ज्जुनम्। हन्तुं परमदुष्टात्मा तमुवाचाथ फाल्गुनः। गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान्। सज्यं धनुर्धरं कृत्वा ज्याघोषेण निनादयन्। यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्। तस्मात्त्वां पूर्वमेवाहं नेताऽद्य यमसादनम्। दृष्ट्वा तं प्रहरिष्यन्तं फाल्गुनं दृढधन्विनम्। किरातरूपी सहसा वारयामास शङ्करः। मयैष प्रार्थितः पूर्वमिन्द्रकीलसमप्रमः। अनादृत्य च तद्वाक्यं प्रजहाराथ फाल्गुनः। किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः। प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम्। तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः। मूकस्य गात्रे विस्तीर्ण्णे शैलसंहनने तदा। यथाऽशनेर्विनिर्घोषो वज्रस्येव च पर्व्वते। तथा तयोः सन्निपातः शरयोरभवत्तदा। स विद्धो बहुभिर्व्वाणै र्द्दीप्तास्यैः पन्नगैरिव। ममार राक्षसं रूपं भूयः कृत्वा विभीषणम्। स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम्। किरातवेशसंछन्नं स्त्रीसहायममित्रहा। तमब्रवीत् प्रीतमनाः कौन्तेयः प्रहसन्निव। को भवानटते शून्ये वने स्त्रीगणसंवृतः। न त्वमस्मिन् वने घोरे बिभेषि कनकप्रभ!। किमर्थञ्च त्वया विद्धो वराहो मत्परिग्रहः। मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः। कामात् परिभवाद्वाऽपि न मे जीवन् विमोक्ष्यसे। न ह्येष मृगयाधर्म्मो यात्वयाऽद्य कृतो मयि। तेन त्वां भ्रंशयिष्यामि जीवितात् पर्वताश्रयम्। इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव। उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम्। न मत्कृते त्वया वोर! भीः कार्य्या वनमन्तिकात्। इयं भूमिः सदाऽस्माकमुचिता वसतां वने। त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः?। वयन्तु बहुसत्वेऽस्मिन्निवसामस्तपोधन!। भवांस्तु कृष्णवर्णाभः सुकुमारः सुखोचितः। कथं शून्यमिमं देशमेकाकी विचरिष्यति। अर्ज्जुन उवाच। गाण्डीवमाश्रयं कृत्वा नाराचांचाग्निसन्निभान्। निवसामि महारण्ये द्वितीय इव पावकः। एष चापि महाजन्तुर्मृगरूपं समाश्रितः। राक्षसो नहतो घोरी हन्तुं मामिह चागतः। किरात उवाच। मयैष धनुर्निर्मुक्तैस्ताडितः पूर्वमेव हि। वाणैरभिहतः शेते नीतश्च यमसादनम्। ममैष लक्ष्यभूतो हि मम पूर्वपरिग्रहः। ममैव च प्रहारेण जीविताद्व्यपरोपितः। दोषान् स्वान्नर्हसेऽन्यस्मै वक्तुं स्ववलदर्पितः। अवलिप्तोऽसि मन्दात्मन्! न मे जीवन् विमोक्ष्यसे। स्थिरो भवस्व मोक्ष्यामि सायकानशनीरिव। घटस्व परया शक्त्या मुञ्च त्वमपि सायकान्। तस्य तद्वचनं श्रुत्वा किरातस्यार्ज्जुनस्तदा। रोषमाहारयामास ताडयामास चेषुभिः। ततो हृष्टेन मनसा प्रतिजग्राह सायकान्। भूयोभूय इति प्राह मन्दमन्देत्युवाच ह। प्रहरस्व शरानेतान्नाराचान्मर्म्मभेदिनः। इत्युक्तो वाणवर्षं स मुमोच सहसाऽर्ज्जुनः। ततस्तौ तत्र संरब्धौ राजमानौ मुहुर्मुहुः। शरैराशीविषाकारैस्ततक्षाते परस्परम्। ततोऽर्ज्जुनः शरवर्षं किराते समवासृजत्। तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः। मुहूर्त्तं शरवर्षं तत् प्रतिगृह्य पिनाकधृक्। अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः। स दृष्ट्वा वाणवर्षन्तु मोघीभूतं धनञ्जयः। परमं विस्मयञ्चक्रे साधु साध्विति चाब्रवीत्। अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः। गाण्डीवमुक्तान्नाराचान् प्रतिगृह्णात्यविह्वलः। कोऽयं देवो भवेत् साक्षात् रुद्रो यक्षः सुरोऽसुरः। विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः। नहि मद्वाणजालानामुत्सृष्टानां सहस्रशः। शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम्। देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः। अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्। ततो हृष्टमना जिष्णुर्नाराचान्मर्म्मभेदिनः। व्यसृजच्छतधा राजन्! मयूखानिव भास्करः। तान् प्रसन्नेन मनसा भगवान् लोकभावनः। शूलपाणिः प्रत्यगृह्णाच्छ्रिलावर्षमिवाचलः। क्षणेन क्षीणवाणोऽथ संवृत्तः फाल्गुनस्तदा। भीश्चैनमाविशत्तीव्रा तं दृष्ट्वा शरसंक्षयम्। चिन्तयामास जिष्णुश्च भगवन्तं हुताशनम्। पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे। किं नु मोक्ष्यामि धनुषा यन्मे वाणाः क्षयं गताः। अयञ्च पुरुषः कोऽपि वाणान् ग्रसति सर्वशः। हत्वा चैनं धनुष्कोठ्या शूलाग्रेणेव कुञ्जरम्। नयामि दण्डधारस्य यमस्य सदनं प्रति। प्रगृह्याथ धनुष्कोठ्या ज्यापाशेनावकृष्य च। मुष्टिभिश्चापि हतवान् वज्रकल्पैर्म्महाद्युतिः। संप्रयुद्धो धनुष्कोठ्या कौन्तेयः परवीरहा। तदप्यस्य धनुर्द्दिव्यं जग्राह गिरिगोचरः। ततोऽर्ज्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत। युद्धस्यान्तमभीप्सन् वै वेगेनाभिजगाम तम्। तस्य मूर्द्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि। मुमोच भुजवीर्य्येण विक्रम्य कुरुनन्दनः। तस्य मूर्द्धानमासाद्य पफालासिवरो हि सः। ततो वृक्षैः शिलाभिश्च योधयामास फाल्गुनः। तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः। किरातरूपो भगवांस्ततः पार्थो महाबलः। मुष्टिभिर्वज्रसङ्काशैर्धूममुत्पादयन् मुखे। प्रजहार दुराधर्षे किरातसमरूपिणि। ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः। किरातरूपी भगवानर्दयामास पाण्डवम्। ततश्चटचटाशब्दः सुघोरः समपद्यत। पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः। सुमुहूर्त्तन्तु तद्युद्धमभबल्लोमहर्षणम्। भुजप्रहारसंयुक्तं वृत्रवासवयोरिव। जघानाथ ततो जिष्णुः किरातमुरसा बली। पाण्डवञ्च विचेष्टन्तं किरातोऽप्यहनद्बली। तयोर्भुजविनिष्पेषात् सङ्घर्षेणोरसोस्तथा। समजायत गात्रेषु पावकोऽङ्गारधूमवान्। तत एनं महादेवः पीड्य गात्रैः सुपीडितम्। तेजसा व्यक्रमद्रोषाच्चेतस्तस्य विमोहयन्। ततोऽभिपीडितैर्गात्रैः पीण्डीकृत इवाबभौ। फाल्गुनो गात्रसंरुद्धो देवदेवेन भारत!। निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महात्मना। पपात भूम्यां निश्चेष्टो गतसत्व इवाभवत्। स मुहूर्त्तन्तथा भूत्वा सचेताः पुनरुत्थितः। रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः। शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम्। मृण्मयं स्थण्डिलं कृत्वा माल्येनापूजयद्भवम्। तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम्। अपश्यत् पाण्डवश्रेष्ठो हर्षेण प्रकृतिङ्गतः। पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः। उवाच चैनं वचसा मेघगम्भीरगीर्हरः। जातविस्मयमालोक्य तपःक्षीणाङ्गसंहतिम्। भव उवाच। भो भो फाल्गुन! तुष्टोऽस्मि कर्म्मणाऽप्रतिमेन ते। शौर्य्येणानेन धृत्या च क्षत्त्रियो नास्ति ते समः। समं तेजसि वीर्य्यञ्च ममाद्य तव चानघ। प्रीतस्तेऽहं महाबाहो! पश्य मा भरतर्षभ!। ददामि ते विशालाक्ष! चक्षुः पूर्व्व ऋषभवान्। विजेष्यसि रणे शत्रूनपि सर्वान् दिवौकसः। प्रोया च तेऽहं दास्यामि यदस्त्रमनिवारितम्। त्वं हि शक्तो मदोयं तदस्त्रं धारयितुं क्षणात्। वैशम्पायन उवाच। ततो देवं महादेवं गिरिशं शूलपा णनम्। ददर्श फाल्गुनस्तत्र सह देव्या महाघुतिम्। स जानुभ्यां महीं गत्वा शिरसा प्रणपत्य च। प्रसादवामास हरं पार्थः परपुरञ्जयः”।

किराततिक्त = पु० किरातो भूनिम्बैव तिक्तः (चराता) वृक्षे अमरः “किराततिक्तस्तु हिमस्तिक्तः पित्तकफापहः” भावप्र०

किरातार्ज्जुनीय = न० किरातञ्चार्ज्जुनञ्चाधिकृत्य कृतोग्रन्थः “द्वन्द्वाच्छः” पा० छ। भारबिकविप्रणीते अष्टादशसर्गात्मके महाकाव्यभेदे

किराताशिन् = पु किरातानश्नाति अश–णिनि ६ त०। गरुडे शब्दर० तस्य किराताशनकथा भा० आ० २८ अ० यथा “इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्। गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुम्। विनतोवाच। समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्। निषादानां सहस्राणि तान् भुक्त्वाऽमृतमानय। न च ते ब्राह्मणं हन्तुं कार्य्या वुद्धिः कथञ्चन। अबध्यः सर्व्वभूतानां ब्राह्मणो ह्यनलोपमः। अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः। गुरुर्हि सर्व्वभूतानां ब्राह्मणः परिकीर्त्तितः। एवमादिभीरूपैस्तु सतां वै ब्राह्मणो मतः। स ते तात! न हन्तव्यः संक्रुद्धेनापि सर्व्वथा। ब्राह्मणानामभिद्रोहो न कर्त्तव्यः कथञ्चन। न ह्येवमग्निर्नादित्यो भस्म कुर्य्यात्तथानघ!। यथा कुर्य्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः। तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्। भूतानामग्रभूर्ब्बिप्रो वर्ण्णश्रेष्ठः पिता गुरुः। गरुड उवाच। किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः। किंस्विदग्निनिभो भाति किंस्वित् सौम्यप्रदर्शनः। यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः। तन्मे कारणतो मातः! पृच्छतो वक्तुमर्हसि। विनतोवाच। यस्ते कण्ठमनुप्राप्तो निगीर्णं वडिशं यथा। दहेदङ्गारवत् पुत्र! तं विद्याब्राह्मणर्षभम्। विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्व्वदा। प्रोवाच चैनं विनता पुत्रहार्द्दादिदं वचः। जठरे न च जीर्य्येद्यस्तं जानीहि द्विजोत्तमम्। पुनः प्रोवाच विनता पुत्रहार्द्दादिदं वचः। जानात्यप्यतुलं वीर्य्यमाशीर्ब्बादपरायणा। प्रीता परमदुःखार्त्ता नागैर्व्विप्रकृता सती”। “सौतिरुवाच। ततः स मातु- र्ब्बचनं निशम्य वितत्य पक्षौ नभ उत्पपात। ततो निषादान् बलवानुपागतो वुभुक्षितः काल इवान्तकोऽपरः। स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभः स्पृशन्महत्। समुद्रकुक्षौ च विशोषयन् पयः समीपजान् भूधरजान् विचालयन्। ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्। ततो निषादास्त्वरिताः प्रवव्रजुर्यतो मुखं तस्य भुजङ्गभोजिनः। तदाननं विवृतमतिप्रमाणवत् समभ्ययुर्गगनमिवार्द्दिताः खगाः। सहस्रशः पवनरजोविमोहिता यथाऽनिलः प्रचलितपादपे वने। ततः खगो वदनममित्रतापनः समाहरत् परिचपलो महाबलः। निसूदयन् बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा”।

किराति = स्त्री किरेण समन्तात् जलक्षेपेण अतति गच्छति अत इन् ३ त०। १ गङ्गायां जटा० तस्या योजनपर्य्यन्तजलक्षेपेण हिमाचलात् समुद्रपर्य्यन्तगमनात्तथात्वम्। वा ङीप्। तत्रैव। २ किरातवेशधारिण्यां दुर्गायाञ्च तस्याः किरातवेशधारणं यथा तथा, किरातशब्दे दर्शितम्।

किरातिनी = स्त्री किरातदेश उत्पुत्तिस्थानत्वेनास्त्यस्या इनि ङीप्। जटामांस्यां शब्दर०।

किरि = पुंस्त्री किरति भूमिम् कृ–कृष्यादि० इक्। भूविदारे १ शूकरे अमरटी० भरतः स्त्रियां ङीप्। २ मेघे च तस्य जलक्षेपकत्वात् तथात्वं किरिकः

किरिक = पु० किरिर्मेघ इव कायति कै–क। सजलमेघ तुल्ये रुद्रभेदे। “नमो वः किरिकेभ्यो देवानां हृदयेभ्यः” यजु०१६, ४६।

किरिटि = न० किरिणा शूकरेण टल्यते विक्लव्यते टल विक्लवेडि। हिन्ताले अमरः २ फले त्रिका०।

किरीट = पुंन० कॄ–ईटन् किच्च। १ मुकुटे ३ शिरोवेष्टने (पागडि) च शब्दचि० दशाननकिरीटभ्यः सा० द०। किरीटबद्धाञ्ज योनिपेतुः” रघुः

किरीटमालिन् = पु० मल–सम्बन्धे णिनि ६ त०। अर्ज्जुने शब्दचि०।

किरीटिन् = पु० किरीटोऽस्त्यस्य इनि। अर्ज्जुने भा० वि० ४४ अ०। “पुरा शक्रेण मे बद्धं युध्यतो दानवर्षभैः। किरीटं मूर्द्ध्नि सूर्य्याभं तेनाहुर्मां किरीटिनम्” उत्तरसमीपेऽर्ज्जुनेन स्वनामभेदनिरुक्तिकथनात्तस्य तथात्वम्। शक्रेण तस्य मूर्द्धनि किरीटयोजनकथा च “ततोमातलिसंयुक्तं मयूरसमरोमभिः। हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्। बबन्ध चैव मे मूर्द्ध्नि किरीटमिदमुत्तमम्। स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्। अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्। नागराजमिवा सिं च गाण्डीवे समयोजयत्” इति भा० व०१६१ अ०। २ किरीटयुक्तमात्रे त्रि०। “किरीटिनं गदिनं चक्रहस्तम्” गोता स्त्रियां ङीप्

किरोडाट = धौर्त्त्ये आकृतिगणत्वात् कण्ड्वा० यक प० सेट् अक०। किरोडाट्यति अकिरोडाटीत्।

किर्म्मि = स्त्री कॄ–कि नि० मुट्। १ पलाले (पोयाल) २ गृहे ३ स्वर्ण पुत्तलिकायाञ्च मेदि०। वा ङीप् किर्म्मीत्यपि तत्रार्थे

किर्म्मिर = त्रि० किर्म्मीर + पृषो० वेदे हस्वः। चित्रवर्ण्णयुक्ते। “नक्षत्रेभ्यः किर्म्मिरं चन्द्रमसे किलासम्” यजु० ३०, २१। पुरुषमेधे

किर्म्मीर = पु० कॄ–गम्भीरा० ईरन् नि०। नागरङ्गे (नारेङ्गी) १ जम्बीरभेदे। २ राक्षसभेदे। ३ चित्रवर्ण्णे च मेदि० ४ तद्वति त्रि०।

किर्म्मीरजित् = पु० किर्म्मीरं राक्षसभेदंजितवान् जि–भूतेक्विप्। मीमसेने तद्वधकथा भा० व०११ अ० यथा “प्रत्युवाचाथ तद्रक्षो धर्म्मराजं युधिष्ठिरम्। अहं वकस्य भ्राता वै किर्म्मीर इति विश्रुतः” इत्युपक्रम्य “ततो भीमो महाबाहुरासह्य तरसा द्रुमम्। दशव्याममथोद्विद्वं निष्पत्रमकरोत्तदा। चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्। निमेषान्तरमात्रेण तथैव विजयोऽर्ज्जुनः। निवार्य्य भीमो जिष्णुं तं तद्रक्षो मेघनिस्वनम्। अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत!। इत्युक्त्वैनमभिक्रुद्धः कक्षामुत्पीड्य पाण्डवः। निष्पिष्य पाणिना पाणिं सं दष्टौष्ठपुटो बली। तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा। यमदण्डप्रतीकाशं ततस्तं तस्य मूर्द्धनि। पातयामास वेगेन कुलिशं मघवानिव। असंभ्रान्तन्तु तद्रक्षः समरे प्रत्यदृश्यत। चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव। तदुदस्तमलातन्तु भीमः प्रहरतां वरः। पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत्। किर्म्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्। दण्डपाणिरिव क्रुद्धः समरे प्रत्यधावत”। इत्युपक्रम्य तयोर्युद्धमुपवर्ण्य “अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः। धूनयामास वेगेन वायुचण्ड इव द्रुमम्। स भीमेन परामृष्टो दुर्वलो वलिना रणे। व्यस्तम्भत यथाप्राणं विचकर्ष च पाण्डवम्। तत एनं परिश्रान्तमुपलभ्य वृकोदरः। योक्त्रयामास बाहुभ्यां पशुं रशनया यथा। विनदन्तं महानादं भिन्नभेरीस्वनं बली। भ्रामयामास सुचिरं विष्फुरलमचेतनम्। तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः। प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत्। आक्रभ्य च कटीदेशे जानुना राक्षसाधमम्। षीडयामास पाणिभ्यां तस्य कण्ठं वृकोदरः। अथ जर्ज्जरसर्ब्बाङ्गं व्याविद्धनयनाम्बरम्। भूतले भ्रामयामास वाक्यञ्चेदमुवाच ह। हिडिम्बवकयोः पाप! न त्वमश्रुप्रमार्ज्जनम्। करिष्यसि गतश्चापि यमस्य सदनं प्रति। इत्ये वमुक्त्रा पुरुषप्रवीरस्तं राक्षसं क्रोधपरीतचेताः। विस्रस्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तचित्तं व्यतुमुत्सर्ज्ज”। किर्म्मीरहादयोऽप्यत्र।

किर्म्मीरत्वच् = पु० किर्म्मीरा चित्रा त्वग्यस्य। नागरङ्गेजम्बीरभेदे त्रिका०

किल = शौक्ल्ये क्रीडायाञ्च तुदा० पर० अक० सेट्। किलति अकेलीत् चिकेल प्रनिकिलति

किल = प्रेरणे चुरा० सक सेट्। केलयति ते अचीकिलत्” केलयाम् बभूवआस चकारचक्रे केलिः

किल = अव्य० किल–क। १ वार्त्तायाम् २ अनुशयार्थे, ३ निश्चये, ४ संभाव्ये ५ प्रसिद्धार्थद्योतने ६ हेतौ ७ अरुचौ ८ अलीके ९ तिरस्कारे च। “दमयन्ती किलकिञ्चितं किल” नैष०। “अमूं किल त्वं त्रिदिवादवातरः” साघः। “तद्दघ्नं तदवयती” किलात्मनोऽपि “तदपि न किल बाल पल्लवाग्रेति” माघः, “ध्रुवं किलाव्याजमनोहरं वपुः” शकु०। १ किलेत्यागमारुचिन्यक्करणसंभाव्यहेत्वलीकेषु” गणरत्ने उक्त्वा तत्तद्विषये उदाहृतं यथा आगमे, “कंसं जघान किलं वासुदेवः” कृष्णकर्तृकं कंसहननमागमसिद्धमित्यर्थः। अरुचौ “एवं किल केचिद्वदन्ति” केषाञ्चिदेवं कथनं वक्तुररुचिविषय इत्यर्थः न्यक्कारे “स किल योत्स्वते” तस्य यीवनशक्तिराहित्यद्योतनात् तिरस्कारोगम्यते सम्भावनायाम् “पार्थः किल विजेष्यते कुरून्” पार्थ कर्त्तृककुरुविजयः सम्भवनाविषयैत्यर्थः। हेतौ “स किलैवमुक्तवान्” तत्कथनस्यान्वत्र हेतुता द्योत्यते। अलीके “प्रसह्य सिंहः किल तां चकर्ष” रघुः। सिंहकर्त्तृकं नन्दिनीकर्षणं वस्तुतोऽलीकं काल्पनिकत्वात्। अव्ययविशेषस्य अस्य शब्दान्तरसहकारेण प्रयोगविशेषो निरुक्तकारेण निरणायि यथा “किलेतिविष्याप्रकर्षे एवं किलेत्यथापि न ननु इत्येताभ्यां संप्रयुज्यतेऽनुपृष्टे न किलैवम्। ननु किलैवम्”। इति प्रश्नानन्तरं तस्यानभ्युपगमे न किलैवमिति, अभ्युपगमे तु ननु किलैवमिति प्रयोज्यमित्यर्थः तथाच तस्य एवंशब्दोत्तरता न–ननु इत्येतच्छ्रब्दपूर्व्वकता च।

किलकिञ्चित = न० किल अलीकेन ईषत् चितं रचितम्। “स्मितशुष्करुदितहसितत्रासक्रोधश्रमादोनाम्। साङ्कर्य्यं किलकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात्” सा० दर्पणोक्ते स्त्रीणां भावभेदे यथा “पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः। कामिनश्च कृरुते करभोरुर्हारि शुष्करुदितञ्च सुखेऽपि” माघः “त्वयि वीर! पिराजते परं दमयन्तीकिलकिञ्चितं किल” नैष०।

किलकिला = स्त्री किल–क प्रकारे द्वित्वम् टाप्। १ हर्षध्वनौ त्रिका०। “ततः किलकिलाशब्दस्तस्मिन् वदति पार्थिवे” भा० आ०६१ अ। “जितशात्रवदर्पस्य प्रतिज्ञापूरणीकृतः। वीरस्य गर्जितं सिंहनादः किलकिला तथा” इत्युक्ते वीरस्य २ सिंहनादे च विश्वः

किलाट = पु० “नष्टदुग्धस्य पक्वस्य षिण्डं प्रोक्तः किलाटकः” इति भावप्र० परिभाषिते विश्रथितदुग्धस्य पाकेन घनोभूते पिण्डाकारे पदार्थे। तद्गुणाद्युक्तं तत्रैव यथा “पेयूषञ्च किलाटश्च क्षीरशाकं तथैव च। तक्रपिण्ड इमेवृष्या वृंहणा बलवर्द्धनाः। गुरवः श्लेष्मला हृद्या वातपित्तविनाशनाः। दीप्ताग्नौ च विनिद्राणां विद्रधौ चातिपूजिताम्। गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः”। ततः स्वार्थे क। किलाटक तत्रार्थे। कूर्चिकायां क्षीरविकारभेदे स्त्री हेमच० गौरा० ङीष्।

किलाटिन् = पुं किलति किल–क, अट–णिनि कर्म्म०। वंश वृक्षेहारा०।

किलात = पुं किल–शौक्ल्ये क किलमतति अत–अण्। ऋषिभेदे तस्य गोत्रापत्यम् विदा० अञ्। कैलात तद्गोत्रापत्ये पुंस्त्री० “किलाताकुली इति हासुरब्रह्मावासतुः”। शत० व्रा० १, १, ४, १४,

किलास = न० किल वर्ण्णेककिलमस्यति अस + अण्। १ सिध्मरोगे (छुली)तदस्यास्ति अच्। २ तद्विशिष्टे त्रि० “चन्द्रमसे किलासम्” यजु० ३०, २१,। “किलासं सिध्मरोगवन्तम्” वेददी०। सिध्म च क्षुद्रकुष्ठभेदः यथाह सुश्रुतः “क्षुद्रकुष्ठमत ऊर्द्ध्वं वक्ष्याम इत्युपक्रमे “कण्ड्वन्वितं श्वेतमपाकि सिद्म विद्यात्तनु प्रायश ऊर्द्धकाये” इति तस्य लक्षणादिकमुक्त्वा “किलासमपि कुष्ठविकल्पएव। तत्त्रिविधं वातेन पित्तेन श्लेष्मणा चेति। कुष्ठकिलासयोरन्तरन्त्वग्तमेव किलासमपरिस्रावि च। तद्वातेन मण्डलमरुणं परुषं परिध्वंसि च; पित्तेन पद्मपत्रप्रतीकाशं सपरिदाहञ्च। श्लेष्मणापि श्वेतं स्निग्धं बहुलं कण्डूमच्च। तेषु सम्बद्धमण्डलमन्तेजातं रक्तरोम चाऽसाध्यमग्निदग्धञ्च। कुष्ठेषु रुक्त्वक्- सङ्कोचस्वापस्वेदशोफभेदकौण्यस्वरोपघाता वातेन। पाकावदरणाङ्गुलिपतनकर्ण्णनासाभङ्गाक्षिरोगसत्वोत्पत्तयः पित्तेन। कण्डूवर्णभेदशोफास्रावगौरवाणि श्लेष्मणा”।

किलासघ्न = पु० किलासं हन्ति हन्–टक्। (का~करोल) ख्याते वृक्षे हेमच०।

किलासनाशन = त्रि० किलासं नाशयति नश–णिच्–ल्यु। सिध्मरोगनाशके औषधादौ “आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम्” अथ० १, २४, २।

किलासिन् = त्रि० किलासमस्त्यर्थे इनि। (छुली) रोगयुक्ते स्त्रियां ङीप्।

किलिञ्ज = न० किल्यतेऽनेन किलि–इन् ततोजायते जन–ड पृषो० मुम्। १ वीरणादिजाते कटे २ सूक्ष्मदारुणि च जटा०। त्रिका० पु०। तेन उभयलिङ्गता। स्यार्थे क। कटे काशादिरज्जौ च अमरः। “क्षुण्णान् यबान् निष्पूतान् रात्रौ गोमूत्रपर्य्युषितान्” “महति किलिञ्जेशोषयेत्। आस्तीर्य्य किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेत्” सुश्रुतः

किलिम = न० किल–इमन्। देवदारुवृक्षे राजनि०।

किल्विन् = पु० स्त्री किल–शौक्ल्ये भावे क्विप् ततोऽस्त्यर्थे बा० विनि। घीटके त्रिका० स्त्रियां नान्तत्वात् ङीप्।

किल्विष = न० किल–टिषच्–वुक् च। १ पापे २ अपराधे च अमरः ३ रोगे मेदि० तस्य पापहेतुत्वात् तथात्वम्। “न किल्विषादीषत्ते बस्व आकरः” ऋ०५, ३५, ४, “क्षीरं यदस्याः पीयते तद्वै पितृषु किल्विषम्, अथ० ५, १९५। “अपराधे। “कोमे लुब्धक! दोषोऽत्र बिद्यते यदि वालिश!। अस्वतन्त्रं च मां मृत्युर्विवशंयदचूचुदत्। तस्यैव वचनाद्दष्टो न कोपेन न काम्यया। तस्य तत् किल्विषं लुब्ध! विद्यते यदि किल्विषम्” इति लुब्धकं प्रति सर्पोक्तिः। पापे “यद्यन्यवशगेनेदं कृतं तु पन्नगाशुभम्। कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्विषी” सर्पं प्रति लुब्धकोक्तिः भा० आनु०१ अ०। तत्र पूर्व्ववाक्ये दोषत्वेन कीर्त्तनात् अपकारपरत्वम्। उत्तरत्र अशुभत्वेन कीर्त्तनात् पापपरत्वम्। “एवं सति न दोषो मे नास्ति बध्यो न किल्विषी। किल्विषं समवाये स्यात् मन्यसे यदि किल्विषम् “तत्रैव। कीर्त्तिभेदके कायिके ४ पापे च। “अपाघमप किल्विषम्” यजु० ३५, ११, “किल्विषं कीर्त्तिभेदकं कायिकं पापम्” वेददी०। ततः अस्त्यर्थे इनि। किल्विषिन्। तद्युक्ते त्रि०।

किश(स)र = पुंन० किम् + सृ–(शॄ)–अच् पृषो०। सुगन्धद्रव्यभेदे। तत् पण्यमस्य किश(स)रा० ष्ठन्। किश(स)रिक किश(स)रविक्रयकर्त्तरि स्त्रियां षित्त्वात् ङीष्। शब्देन्दुशेखरे तालव्यमध्यतया पठितः अन्यत्र दन्त्यमध्यतयेत्युभयरूपता

किशरा = स्त्री० किञ्चित् शृणाति शॄ–अच्। शर्करासु। त तोमध्वा० चतुरर्थ्यां मतुप् मस्य वः। किशरावत् तद्वति देशे

किश(स)रादि = पुं पाणिन्युक्ते ष्ठन्प्रत्ययप्रकृतिभूते शब्द गणे सच गणः “किश(स)र नरद नलद स्थासक तगर गुग्गुलु उशीर हरिद्रा हरिद्रुपर्ण्णी”।

किशल = पुं न० किञ्चित्शलति शल–गतौ अच् पृषो० मलोपः। नवपल्लवे शब्दरत्ना०।

किशलय = पुं न० किञ्चित्शलति शल–चलने बा कयन् पृषो०। नवपल्लवे शब्दरत्ना०।

किशोर = पुं कश–शब्दे किशोरा० निपा०। १ अश्वशिशौ २ तैलपण्यौषधौ ३ सूर्य्ये च मेदि० “किञ्चिच्छूरः किशोरः स्यात् यतो हि दशमात् परम्। शूरत्वं दृश्यते किञ्चिदनुवृद्धं दिने दिने” ३ इत्युक्तावस्थापन्ने त्रि०। स्त्रियां वयोवाचित्वात् ङीष् किशोरी। “कौमारं पञ्चमाव्दान्तं पौगण्ड दशतावधि। कैशोरमापञ्चदशात् यौवनञ्चं ततः परम्” भाग० टीकाकृच्श्रीधरधृतवचनात् दशवर्षोत्तरं पञ्चदशाव्दपर्य्यन्तवयस्कःकिशोर इति बोध्यम्।

किष्क = बधे चुरा० आत्म० सक० सेट्। किष्कयते अचिकिष्कत

किष्किन्ध = पु० किं कि दधाति धा–क पारस्करा० सुट् षत्वं मलोपः। वृह० स० कूर्मविभागे आग्नेय्यामुक्ते १ देशभेदे “आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजटराङ्गाः” इत्युपक्रमे “किष्किन्धकण्टकस्थलनिषादवास्त्राणि पुरिकदाशार्ण्णाः” इति। तत्रत्ये २ पर्व्वतभेदे च। ३ तत्रत्यवालिराज धान्यां ४ तत्रत्यगुहायाञ्च स्त्री शब्दर०। “त्वया सह महाबाहो! किष्किन्धोपवने तदा”। “गच्छ लक्ष्मण! जानीहि किष्किन्धायां कपीश्वरम्”। “किष्किन्धाद्वारमासाद्य प्रबिवेशानिवारितः” भा० व० २८१ अ०। “गुहामासादयामास किष्किन्धां लोकविश्रुताम्। तत्र वानरराजाभ्यामैन्देन द्विपदेन च। युयुधे दिवसान् सप्त” भा० म० ३० अ०। दक्षिणदिग्विजये। किष्किन्धा अभिजनोस्य सिन्ध्वा० अण्। कैष्किन्ध पित्रादिक्रमेण किष्किन्धागुहातत्पुरीवासिनि त्रि० स्त्रियां ङीप्।

किष्किन्धा(न्ध्या)काण्ड = न० वाल्मीकिरामायणान्तर्गते किष्किन्धाधिकारेण वालिसुग्रीबादीनामितिवृत्तप्रतिपादके काण्डभेदे।

किष्किन्धी = स्त्री किष्किन्ध + गौरा० ङीष्। किष्किन्धपर्व्वतगुहायाम् “अभ्येत्य सर्व्वे किष्किन्ध्याम्” भा० व० २७९ अ०।

किष्किन्ध्य = पु० किष्किन्ध + स्वार्थे यत्। १ किष्किन्धशब्दार्थे २ तत्रत्यपर्वतगुहायां ३ वालिराजघान्यां च स्त्री।

किष्किन्ध्या(न्ध्या)धिप = पु० ६ त०। वालिनामके वानरराजे जटा० शब्दर०

किष्कु = पु० स्त्री० किष्क–उन्, किम् + कै–भु पृषो० मलोपः पारस्क० सुट्षत्वम्वा। १ वितस्तौ द्वादाङ्गुलपरिमाणे चतुर्विशत्यङ्गुल परिमाणे २ हस्तमाने मेदि० २ प्रकीष्ठे ३ कफोणेरधोमणिबन्धपर्थ्यन्ते च ४ कुत्सिते त्रि० विश्वः “दशविष्कुसहस्रां तां मापयामास सर्वतः” भा० स० १३० अ० “दशकिष्कुसहस्राणि समन्तादायताऽभवत्” भा० स० ३ अ०। “अवर्द्धत महातेजाः किष्कून्राजंस्त्रयोदश” भा० व० १२६ अ०।

किष्कुपर्व्वन् = न० किष्कुमितं वितस्तिमितं हस्तमितं वा पर्वास्य। १ वंशे (वा~श) २ इक्षौ ३ पोटगले (नडा)च मेदि०

किसल = पुंन० किमीषत् सलति सल–गतौ अच् पृषो० मलोपः। नवपल्लवे त्रिक०।

किसलय = पुंन० किम् ईषत् सलति–सल गतौ बा० कयन् पृषो०। नवपल्लवे अमरः। “किसलयैः सलयैरिव पाणिभिः” रघुः। तारका० जातार्थे इतच्। किसलयित नवपल्लविते। किसलयश्च नवपत्रादियुक्तशाखाग्रस्थितः पल्लवः।

***