काला = स्त्री कालोवर्णोऽस्त्यस्य–अर्श० अच्। “कालात् वर्णश्चेत्” वार्त्ति० कालशब्दस्यैब वर्ण्णबाचित्वे ङीष् इह तु अर्श आद्यजन्तत्वात् न ङीष्। १ नीलिन्याम् २ कृष्णत्रिवृतायां (कालतेओडी) ३ कृष्णजीरके च अमरः फर परत्वेऽपि हरी० स्त्री। कल–विक्षेपेणिच्–पचाद्यच्। ४ मञ्जिष्ठायां मेदि० कुलिकवृक्षे (कुलियाखाडां) रत्नमा०। ६ अश्वगन्धावृक्षे राजनि० ७ पाटलावृक्षे भावप्र०। ८ दक्षप्रजापतिकन्यारूपे कश्यपपत्नीभेदे। “प्रजज्ञिर महाभाग! दक्षकन्यास्त्रयोदश।। अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा” इत्यादिना भा० आ० ६५ अ० ताः उक्ताः “कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः। प्रविख्याता महावीर्य्या दानवषु परन्तपाः। विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च। क्रोधशत्रु स्तथैवान्ये कालकेषा इति श्रुताः” कालाया अपत्यम् ढक्। कालेय तदपत्ये

कालांश = पु० कालरूपोऽंशः। ग्रहाणां दृश्यतायोग्ये काललवभेदे कालशब्दे विवृतिः

कालाक्षरिक = स्त्री काले यथायोग्यकाले अक्षरं वेत्ति ठक्। शिक्षिताक्षरे त्रिका०।

कालागुरु = न० कर्म०। कृष्णागुरुणि अमरः तद्गुणादि भावप्र० उक्तं यथा “अगुरु प्रवरं लोहं राजार्हं योगजं तथा। बंशिकं कृमिजं चापि कृमिजग्धमनार्य्यकम्। अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णञ्च पित्तलम्। लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत्। कृष्णं गुणाधिकं तत्तु लौहवद्वारि मज्जति। अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः”। तदुत्पत्तिदेशश्च प्राग्ज्योतिषदेशः यथाह रघौ “चकम्बे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः। तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः”।

कालाग्नि = पु० कालः सर्वहिंसकोऽग्निः। १ प्रलयाग्नौ। कालानलप्रभृतयोऽप्यत्र २ तदधिष्ठातरि रुद्रे ३ तत्प्रिये पञ्च मुखे रुद्राक्षे। “पञ्चवक्त्रः स्वयं रुद्रः कालाग्निनाम नामतः। अगम्यागमनाच्चैव अभक्ष्यस्य च भक्षणात्। मुच्यते सर्वपापेऽभ्यः पञ्चवक्त्रस्य धारणात्” ति० त० स्कन्दपु० रुद्रपरत्वे कालरुद्रशब्दे उदा० दृश्यम्।

कालाग्निरुद्र = पु० कालाग्निरिव रुद्रः। सर्वहारके प्रलयाग्नितुल्ये रुद्रे तमधिकृत्यैव कालाग्निरुद्रोपनिषत् प्रवृत्ता। अभेदोपचारात् तदुपासके २ ऋषिभेदे वैदिक मन्त्राणां बहूनां तद्दृष्टत्वात् तदार्षत्वम् कात्या० सर्वानुक्रमिकायामुक्तम्।

कालाङ्ग = न० ६ त०। १ कालपुरुषस्याङ्गे। कालपुरुषशब्दे प्रमाणादि। कर्म्म०। २ कृष्णवर्णदेहे न० कालमङ्गं यस्य। ३ कृष्णवर्णाङ्गयुक्ते त्रि० “असिञ्च कालाङ्गमकोषमब्रणम्” भा० वि०७ अ०।

कालाजिन = न० कालस्य कृष्णमृगस्याजिनम्। १ कृष्णसारमृगचर्मणि “कालमजिनं यत्र। २ कालाजिनप्रधाने देशभेदे स च देशो वृह० स० कूर्म्मविभागे दक्षिणस्यामुक्तः यथा “अथ दक्षिणेन लङ्काकालाजिनसौरिकीर्णतालिकटाः”।

कालाञ्जन = न० कालमञ्जनम्। कृष्णवर्ण्णाधिक्ययुक्ते अञ्जनभेदे (काजल) “न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम्” कुमा०।

कालाञ्जनी = स्त्री अज्यते अनया अन्ज–करणे–ल्युट् ङीप् काली अञ्जनी पुंवद्भावः। रेचन्यां क्षुपभेदे राजनि०

कालाण्डज = पुंस्त्री० नि० कर्म०। कोकिले तस्याण्डजेषु (पक्षिषु) अतिकृष्णत्वात् तथात्वम्। “कालाण्डजकण्ठरागरक्तरक्ताधरारतिरणाग्रमन्नाहशालिनि” दशक० स्त्रियां जातित्वात् ङीष्।

कालातिरेक = पु० ६ त०। उचितसमयातिक्रमे संवत्सरातिरेके च। “कालातिरेके द्विगुणम् प्रायश्चित्तं समाचरेत्” प्रा० त० देबलः। कालातिरेके संयत्सरातिक्रमे“संवत्सराभिशस्तस्य दुष्टस्य द्विगुणोदमः” इति मनुवचनैक वाक्यत्वात् दण्डवत्प्रायश्चित्तानि भवन्वीति न्यायाच्च कालातिक्रमकालात्ययादिकमप्यत्र “कालात्यये च कन्यायाः कालदोषो न विद्यते” उद्वा० त० भुजबलः।

कालातीत = न० कालस्यातीतमत्ययः अति + इण–भावे क्त ६ त०। १ कालातिक्रमे। “कालातीते वृथा सन्ध्या बन्ध्यस्त्रीमैथुनं यथा” म० त० काशी०। अतीतः कालोऽस्य निष्ठान्तत्वात् परनिपातः २ अतिक्रान्तकाले त्रि०। गौतमोक्ते कालात्ययापदिष्टाख्ये बाधरूपे ३ हेत्वाभासभेदे कालात्ययापदिष्टशब्दे विवृतिः।

कालात्मन् = पु० कालआत्मास्य। कालस्वरूपे परमेश्वरे। “कालात्मा कालकृद्विभुः”।। सू० सि०।। वा कप्। कालात्मकोऽप्यत्र। कालेन तत्कृत आत्मा स्वरूपं यस्य वा कप्। २ कालकृतस्वभावके स्थावरजङ्गमादौ त्रि० “सात्विका राजसाश्चैव तामसा ये च केचन। भावा कालात्मकाः सर्व्वे प्रवर्त्तन्ते हि जन्तुषु। जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि। सर्व्वे कालात्मकाः सर्प! कालात्मकमिदं जगत्। प्रवृत्तयश्च लोकेऽस्मिंस्तथैव च निवृत्तयः। तासां विकृततायाश्च सर्व्वं कालात्मकं स्मृतम्। भा० आनु० १ अ०

कालात्ययापदिष्ट = पु० कालात्ययेनापदिष्टः ३ त० गौतमीक्ते हेत्वाभासभेदरूपे हेतुदोषे तल्लक्षणादिकं गौ० सू० भाव्यादौ दर्शितम् यथा “कालात्ययापदिष्टः कालातीतः” सू० “कालात्ययेन प्रयुक्तो यस्यार्थस्यैकदेशोऽपदिश्यमानः स कालात्ययापदिष्टः कालातीत इत्युच्यते। निदर्शनम्। नित्यःशब्दः संयोगव्यङ्ग्यत्वात् रूपवत्, प्रागूर्द्ध्वञ्च व्यक्तेरवस्थितं रूपं प्रदीपघटसंयोगेन व्यज्यते तथा च शब्दोऽप्यवस्थितो भेरीदण्डसंयोगेन व्यज्यते दारुपरशुसंयोगेन वा। तस्मात् संयोगव्यङ्ग्यत्वात् नित्यःशब्द इत्ययमहेतुः कालात्ययापदेशात् व्यञ्जकस्य संयोगस्य कालं न व्यङ्ग्यस्य रूपस्य व्यक्तेरत्येति सति प्रदीपघटसंयोगे रूपस्य ग्रहणं भवति न निवृत्ते संयोगे रूपं गृह्यते, निवृत्ते दारुपरशुसंयोगे दूरस्थेन शब्दःश्रूयते। विभागकाले सेयं शब्दव्यक्तिः संयोगकालमत्येतीति न संयोगनिर्मिता भवति। कस्मात्? कारणाभावाद्धि कार्य्याभाव इति। एवमुदाहरणसाधर्म्यस्याभावादसाधनमयं हेतुर्हेत्वाभास इति”। भा०। उक्तसूत्रं बृत्तौ त्वेवं व्याख्यातं यथा। “क्रमप्राप्तमतीतकालं लक्षयति। अतीतकालस्य समानार्थकत्वात् कालातीतशब्देनोक्तकालस्य साधनकालस्यात्ययेऽभावेऽपदिष्टः प्रयुक्तो हेतुः एतेन साध्याभावप्रमालक्षणार्थ इति सूचितं साध्याभावनिर्णये साधनासम्भवादयमेव बाधितसाध्यक इति गीयते। तथा वह्निरनुष्णः कृतकत्वादित्यादौ। न च बाधे आवश्यकस्य व्यभिचारस्वरूपासिद्ध्यन्यतरस्यैव दोषत्वमुचितमिति वाच्यं तदप्रतिसन्धानेन बाधस्य दोषत्वावश्यकत्वात् उपाधेयसङ्करेऽप्युपाधेरसङ्करात्। उत्पत्तिकालावच्छिन्नो घटो गन्धवान्, शिखरावच्छिन्नः पर्बतोवह्निमानित्यादावसङ्कराच्च साध्या- भाववत्प्रत्यक्षतावच्छेदकावच्छिन्नकत्वस्य तत्र सत्त्वात्। परे तु घटः सकर्तृकः कार्य्यत्वादित्यादौ यत्र लाघवोपनीतमेकमात्रकर्तृकत्वं भासते तत्र तदभावोऽमङ्कीर्णोदाहरणमिति वदन्ति”।

मणिकृता तु बाधत्वेनायं व्यवहृतः तल्लक्षणादिकं तत्रोक्तं यथा “बाधो न साध्याभाववत्पक्षकत्वं पक्षवृत्त्यभावप्रतियोगिसाध्यकत्वं वा पक्षे साध्याभावज्ञानमात्रस्य प्रमात्वज्ञानं विना अधिकबलत्वाज्ञानेन बाधाभावादिति वक्ष्यते अतएव साध्याभाववत्पक्षवृत्तित्वमपि न, असिद्धिसङ्कीर्णबाधाव्याप्तेश्च। किन्तु साध्याभाववत्त्वप्रमाविषयपक्षकत्वं, प्रमितसाध्याभाववत्पक्षकत्वं, पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रतियोगिसाध्यकत्वं वेति विवक्षितविवेकेन साध्याभावप्रमैव दोषः सा च प्रमात्वेन ज्ञाता न स्वरूपसती हेत्वाभासत्वात् प्रमात्वज्ञानं विना अधिकबलत्वाभावेनादोषत्वात् अप्रमायामपि प्रमात्वज्ञानेऽनुमितिप्रतिबन्धाच्च”। “कालात्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधा” भाषा०।

कालादर्श = पु० कालः कालस्वरूपकर्म्माङ्गत्वादि आदर्श्यतेऽत्र आ + दृश–णिच्–आधारे अच्। स्मृतिनिबन्धभेदे

कालाध्यक्ष = पु० कालानां खण्डकालानामध्यक्षःस्वगत्या प्रवर्त्तनात्। १ सूर्य्ये “कालाध्यक्षः प्रजाध्यक्षो विश्वकर्म्मा तमोनुदः” भा० व० ३०। सूर्य्यस्याष्टाधिकशतनामकथने। सर्व्वकालप्रवर्त्तके २ परमेश्वरे च।

कालानल = पु० कालःसर्व्वसंहारकः अनलः। १ प्रलयाग्नौ “दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि” गीता। २ नृपभेदे “सभानरश्चाक्षुषश्च परमे क्षुस्तथैव च। सभानरस्य पुत्रस्तु विद्वान् कालानलो नृपः। कालानलस्य धर्म्मज्ञः सृञ्जयोनाम विश्रुतः। सृञ्जयस्या भवत् पुत्रो वीरोराजा पुरञ्जयः”। हरिवं० ३१ अ०

कालानलचक्र = न० कालानल इव हिंसकं चक्रम्। नरपतिजयचर्य्योक्तेऽनिष्टादिज्ञापके चक्रभेदे तद्भेदादिकञ्च चक्रशब्दे वक्ष्यते।

कालानुनादिन् = न० कलएव कालः तं, काले वर्षाकाले वा अनुनदति अनु + नद–णिनि। १ भ्रमरे २ चटके ३ कपिञ्जले ४ चातके पक्षिणि च मेदि०। स्त्रिया जातित्वात् ङीष्

कालानुशारिवा = स्त्री कालेन वर्णेन अनुकृता शारिवा अनुशारिवा। २ तगरमूले ३ शीतलीजटायाञ्च (शिउलीछोप) रत्नमा० तयोः कालवर्ण्णतया शारिवातुल्यत्वात्तथात्वम्।

कालानुसारक = न० कालं कृष्णवर्ण्णं मृगमदमनुरसति गन्धेन अनु + सृ–ण्वुल्। २ पीतचन्दने कालानुसार्य्यके कालीयके (कलम्बक) भावप्र० २ समयानुसारिणि त्रि०

कालानुसारिन् = न० कालः मृगमदैवानुसरति गन्धेन दूरतो गच्छति अनु + सृ–णिनि। १ शैलजे गन्धद्रव्यभेदे शब्दरत्ना० २ समयानुसारके त्रि० स्त्रियां ङीप्।

कालानुसार्य्य = न० कालोमृगमदोगन्धेनानुसार्य्यो यस्य। तगरभेदे भावप्र० (कलम्बक) “कालानुसार्य्यं तगरं कुटिलं त्रपुषं तथा। अपरं पिण्डतगरं दण्डहस्ती च बार्हिणम्। तगरद्वयमुष्णं स्यात् स्वादु स्निग्धं लघु स्मृतम्। विषापस्मारशूलाक्षिरोगदोषत्रयापहम्” तत्रैव तद्गुणादिकमुक्तम्। बहु० वा कप्। कालानुसार्य्यक २ कालीयके शैलजे राजनि० ३ शिंशपावृक्षे (शिशु) मेदि०।

कालान्तर = न० अन्यः कालः मयू० नि० स०। १ अन्यस्मिन् काले २ उत्पत्त्युत्तरकाले “कालान्तरक्षमा” शकु०। ३ समयान्तरस्थायिनि च।

कालान्तरविष = पुंस्त्री० कालान्तरे दंशनकालात् दीर्घकाले विषं विकारकारि यस्य। मूषिके हेम० तस्य दंशनाद्दीर्घकाले विषस्य विकारकारित्वात्तथात्वम् स्त्रियां ङीष्।

कालाप = पु० कालो मृत्युराप्यते यस्मात् आप–अपादाने घञ् ६ त०। १ सर्पभोगे २ राक्षसे पुंस्त्री० धरणिः स्त्रियां ङीष्। कलापं व्याकरणभेदं वेत्त्यधीते वा अण्। ३ कलापव्याकरणाभिज्ञे ४ तदध्येतरि च त्रि०। कलापिना वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते “कलापिनोऽण्” पा० अण् इनोलोपः। ५ कलापिना प्रीक्ताध्येतृषु भूम्नि “उदगुः कठकालापा” सि० कौ०। ६ तत्प्रोक्तवेदशाखाभेदे च

कालापक = न० कालापस्य कलापिना प्रोक्तस्य शाखाभेदस्य धर्म्म आम्रायो वा “चरणाद्धर्म्माम्नाययोः” पा० वुञ्। १ कलापिप्रोक्तशाखाभेदस्य २ धर्म्मे आम्नाये च

कालाभ्र = पु० कर्म्म०। सजले कृष्णवर्णे मेघे सजलस्यैव मेघस्य कालत्वात् तथात्वम् “कालाभ्राभैः कटाक्षैररिकुलभयदाम्” तन्त्रसा०। कालमेघादयोऽप्यत्र। ते नर्दमाना इवकालमेघाः” भा० आ० १९३ अ०।

कालाम्र = पु० काल आम्रोयत्र। द्वीपभेदे “कृरून् यात्युत्तरान् वीर! कालाम्रद्वीपमेव च” हरि० १५१ अ०।

कालायन = त्रि० कालेन निर्वृत्तादि पक्षा० चतुरर्थ्यां फक्। कालनिर्वृत्तादौ।

कालायस = न० कर्म्म० अच् समा०। कृष्णवर्णे लोहभेदे। काललौहशब्दे दृश्यम्। २ लौहमात्रे हेम०। “वह्निना द्राव्यमाणं कालायसं निषिञ्चन्ति” भाग० ५, २६, ३७,

कालाशुद्धि = स्त्री कालस्य कर्म्मयोग्यसुमयस्याशुद्धिः। समयाशुद्धौ कालस्य कर्म्मविशेषानर्हत्वप्रयोजके धर्म्मभेदे सा च गुरुशुक्रास्तत्वादिकृता भवति। “वक्रातिचार वृद्धास्तबालत्वे गुरुशुक्रयोः। गुरौ मकरसिंहस्थे क्षय मासद्विमासयोः। त्रयोदशदिने पक्षे गुर्व्वादित्ये तथैव च। लुप्ताब्दे त्रिविधोत्पाते कालाशुद्धिरुदाहृता”। ज्यो० प्र०। एतदुपलक्षणम् अन्यान्यपि तन्निमित्तानि तत्तद्ग्रन्थे उक्तानि तत्र कालस्य शास्त्रादेव तत्तत्कर्म्मसाधनत्वेऽवगते शास्त्रेण च कालविशेषस्य पर्य्युदस्तत्वादशुद्धत्वम्। “द्रव्यक्रियागुणादीनां धर्म्मत्वं स्थापयिष्यते। तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्म्मता। श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रमीयते” भट्टवार्त्तिकोक्तेः तस्य पुण्यत्वं तच्च रिक्तादिदोषराहित्ये अष्टमचन्द्रादिदोषराहित्ये मलमासादिराहित्ये च भवति अतस्तेषां पर्य्युदासात् कर्म्मविशेषे कालाशुद्धिः। तन्निमित्तज्ञापकञ्च रत्नाकरादिधृतं न्यायरत्नवाक्यम् म० तत्त्वे यथा “तच्च मलिम्लुच–गुरुशुक्रबाल्यवृद्धास्तमय–सिंहमकरान्यतरगुरुस्थिति–पूर्वराश्यनागतातिचारिगुरुकवतसर–पूर्वराशिगमिष्यमाणातिचारिगुरुकपक्षत्रय–वक्रिगुरुकाष्टाविंशतिवासर–कम्पाद्यद्भुतोत्तरसप्ताह–सिंहादित्य–गुर्वादित्य–पौषादिमासचतुष्टयान्यतमैकद्वित्रितदधिकान्यतमदिनवृत्त्याकालिकवृष्ट्युत्तरैकत्रिसप्ताहान्यतमदिन–निषिद्धरूपसमयान्यत्वमिति”। म० त० “एषु प्रमाणं वक्ष्यामः। अत्र नव्यवर्द्धमानः “एकद्वित्रितदधिकान्यतमदिनवृत्त्याकालिकवृष्ट्युत्तरैकत्रिसप्ताहेत्यत्र उत्तरदिनत्वस्य पूर्वदिननिरूप्यत्वात् उत्तरत्वपूर्वत्वयोर्विरुद्धतया नानात्वात्। अतोऽग्रिमदिनादित्वप्राप्तिरिति” जीवमिश्रेणाभिहितम्। नचैकमेकदिनं वृष्ट्यवच्छेदानवच्छेदाभ्यां भिन्नमिति वाच्यं विशेष्यीभूतदिनस्यैकत्वेन प्रत्यभिज्ञानविरोधेन उपाधिमात्रभेदात् अन्यथा अग्रावच्छिन्नवृक्षान्मूलावच्छिन्नवृक्षस्याभेदेनान्योन्याभावस्याव्याप्यवृत्तित्वप्रसङ्गादित्याह” तन्न वृष्टिदिनोत्तरदिनस्य निषेधविषयत्वे वृष्टिदिनस्य कर्म्मार्हता स्यात्। तस्मात् विशेष्याया वृष्टेरेवोत्तरत्वम्, न तु तदवच्छेदकदिनस्यापीति। तेनैकस्मिन् दिने वृष्ट्या तद्दिनमात्रत्यागः द्वितीयदिनादौ तु अन्तिम दिनमारभ्य त्र्यहसप्ताहयोस्त्यागः। तथा च व्यासः “नो सन्ध्यागर्जिते प्राहुर्व्रतोपनयनं बुधाः। न च वृष्टावथाकाल वृष्टावाऽऽसप्तवासरान्”। आसप्तवासरानित्यत्र उपस्थितत्वाद्वृष्टिकालमादाय सप्ताहगणना आसप्तबासरानिति अधिकसंख्याव्यवच्छेदार्थम्। एतेन विध्यनुवादभिया अधिकसंख्या निरस्ता। अत्र वृष्ट्युत्तरमेव सप्ताहत्यागः एतद्वचनन्तु तृतीयादिदिवसीयाकालवृष्ट्यभिप्रायेण। “अतोदिनेनैकदिनं त्याज्यं द्वितीयेन दिनत्रयम्। तृतीयेन च सप्ताहं त्यजेदकाल वर्षणे” न्यायरत्नपरिगृहीतवाक्येऽपि दिनेन दिनवृत्तिवर्षणेन एवं द्वितीयेनेत्यादौ ज्ञेयम्। अतएव न्यायरत्नेऽपि वृष्ट्यत्तरत्वमुक्तं नतु वृष्टियुक्तदिनोत्तरत्वमिति। एकादिदिनवृत्तित्वविशेषणं दिनाल्पत्वबहुत्वज्ञापनार्थमिति। श्रीपतिव्यवहारनिर्णये “आकालिकीं वृष्टिमवेक्ष्य गन्ता पदं न गच्छेच्छुभमात्मनीच्छन्। क्षौरं व्रतञ्चापि शुभाभिलाषी कदापि नैव मनसापि कुर्य्यात्”। अत्र नोसन्ध्या गर्जित इति आकालिकीवृष्टिमवेक्ष्य इत्यादि श्रवणात्। “व्रतेऽह्नि पूर्वसन्ध्यायां वारिदोयदि गर्जति। व्रतन्तत्र तु नैव स्यादिति धर्म्मो व्यवस्थितः” इति वचने पूर्वपदमपि कारणताग्राहकत्वेन परसन्ध्याव्यावर्त्तकम्। अन्यथा संक्रान्तिबद्भाविनिमित्तत्वेन परसन्ध्यायां गर्जितेऽपि व्रतवैगुण्यं स्यात्। एतेन पूर्वदिने सायं सन्ध्यागर्जनेऽपि परदिने व्रतनिषेध इति मैथिलमतं चिन्त्यमिति। सप्तम्यर्थानुपपत्तेः गीतायां “मयैवैते निहताःपूर्वमेव निमित्तमात्रं भव सव्यसाचिन्!” इतिवत् स्वरूपाख्यानपरं बा पूर्वपदम्। कामरूपीयनिबन्धेऽप्येवम्। योगीश्वरः “चतुर्मासे निवृत्ते तु चक्रपाणौ समुत्थिते। अकालवृष्टिं जानीयात् यावन्न सुप्यते हरिः”। अत्र यावद्विष्णुमहोत्सव इति जीमूतवाहनः पठति महोत्सवः फाल्गुनी पूर्णिमा इति व्याख्याति च। कृत्यचिन्तामणिभोजराजव्यवहारसमुच्चयश्रीधरसमुच्चयेषु “पौषादि चतुरो मासान् ज्ञेया वृष्टिरकालजा। व्रतयज्ञादिकं तत्र वर्जयेत् सप्त वासरान्। मार्गान्मासात् प्रभृति मुनयोव्यासबाल्मीकिगर्गाश्चैत्रं यावत् प्रवर्षणविधौ नेति कालं वदन्ति। नाडीजङ्घः सुरगुरुमुनिर्वक्ति वृष्टेरकालौ मासावेतौ न शुभफलदौ पौषमाघौ न शेषाः। मार्गादित्यवधौ पञ्चमी नामिविधौ। व्यासवाल्मीकिगर्गा इत्यत्र व्यासबाल्मीकिशिष्या इति जीमूतवाहनः पठति। प्रवर्षणेत्यत्र छन्दोभङ्ग आर्षत्वात् सोढव्यः। एवं पक्षत्रये व्यव- स्थिते येन सर्वपरिग्रहः स्यात् तस्यैव ग्रहणमिति न्यायेनाद्यः पक्षः श्रेयान्, तदुत्तरन्तु पक्षद्वयमापदत्यन्तापद्विषयमेवमन्यत्रापि। अतएव राजमार्त्तण्डे “उक्तानि प्रतिषिद्धानि पुनः सम्भावितानि च। सापेक्षनिरपेक्षाणि श्रुतिवाक्यानि कोविदैः”। इति शेषचरणे मीमांस्यानीह कोविदैरिति कृत्यचिन्तामणौ पाठः। यद्वा “स्पष्टस्य तु विधेर्नान्यैरुपसंहार इष्यते” इति न्यायेन दोषातिशयार्थ एव सामान्यनिषेधे विशेषनिषेधः। तत्रापि विशेषौक्तो वृहस्पतिना “वृष्टिः करोति दोषं तावन्नाकालसम्भवा राज्ञः। यावन्न भवति याने नरपशुचरणाङ्किता वसुधा”। काश्यपः “ॠक्षैकमन्दिरगतौ यदि जीबभानू शुक्रीऽस्तगः सुरवरैकगुरुश्च सिंहे। नारभ्यते व्रतविवाहगृहप्रतिष्ठा क्षौरादिकर्म्म गमनागमनञ्च धीरैः”। ऋक्षैकमन्दिरगताविति विशिष्टं न पृथक् तथा च “एकराशिगतौ स्यातामेकर्क्षविषये यदि। गुर्वादित्यौ तदा त्याज्या यज्ञोद्वाहादिकाः क्रियाः”। चातुर्मास्यव्रते तु प्रतिप्रसवमाह महाभारते “चातुर्मास्यव्रतारम्भमस्तगेऽपि गुरौ भृगौ। खण्डेऽवापि तिथौ कुर्य्यात् एवमेव समापनम्”। गार्ग्यः “जीवादित्ये बाले शुक्रे ऊर्द्ध्वं दशाहान्माङ्गल्यं प्रतिष्ठां खातञ्च कुर्य्यात्”। माङ्गल्यं विवाहादि। खातं पुष्करिण्यादि। राजमार्चण्डे हारीतः “यात्रां चूडां विवाहं श्रुतिविवरविधिं ग्रामसद्मप्रवेशं प्रासादोद्यानहर्म्म्यान् सुरनरभवनारम्भविद्याप्रदानम्। मौञ्जीबन्धं प्रतिष्ठां मणिवरकनकाधारणं कुर्वते ये मृत्युस्तेषाञ्च सिंहे गुरुदिनकरयोरेकराशिस्थयोश्च”। सिंहे गुरुदिनकरयोः–सिंहस्थे गुरौ रवौ च एकराशिस्थयोर्युगपत्तयोरेव “तेषाञ्च सिंह” इत्यत्र “तेषां हरीज्य” इति पाठान्तरम्। हरीज्ये–सिंहे वृहस्पतौ। सोमशेखराख्यनिबन्धे “वापीकूपतडागयागगमनक्षौरप्रतिष्ठाव्रतं विद्यामन्दिरकर्णवेधनमहादानं वनं सेवनम्। तीर्थस्नानविवाहदेवभवनञ्चानादिदेवेक्षणं दूरेणैव जिजीविषुः परिहरेदस्तं गते भार्गवे”। दीपिकायाम् ‘गुर्वादित्ये गुरौ सिंहे नष्टे शुक्रे मलिम्लुचे। याम्यायने हरौ सुप्ते सर्वकर्माणि वर्जयेत्’। सर्वकर्म्माणीति वचनान्तरोक्तप्रातिस्विकनिषिद्धकर्मपरं लाघवात् अन्यथा अतिप्रसङ्गापत्तेः। वृहद्राजमार्त्तण्डः ‘यात्राविवाहव्रतबन्धवेश्मप्रासादचूडाकरणं हितैषी। नष्टे भृगौ नोपदिशेन्नराणां देवप्रतिष्ठामपि कर्णवेधम्। हित्वाद्यं शुभकर्माणि कुर्य्यादस्तमिते सिते। विवाहं मेखलाबन्धं यात्राञ्च परिवर्जयेत्”। अत्र यात्राञ्चेति चकारः पूर्ववचनोपात्तमुन्यन्तरोक्तप्रातिस्विकनिषिद्धकर्म्माणि स मुच्चिनोति। “बाले शुक्रे, वृद्धे शुक्रे, नष्टे शुक्रे, जीवे नष्टे। बाले जीवे, जीवे सिंहे, सिंहादित्ये जीवादित्ये। तया मलिम्लुचे मासि सुराचार्य्येऽतिचारगे। वापीकूपतडागादिक्रियाः प्रागुदितास्त्यजेत्”। एवञ्च कालाशुद्धौ विद्यारम्भं न कुर्य्यात् तद्विधानञ्च विष्णुधर्म्मोत्तरे। “संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्द्दने। षष्ठीं प्रतिपदञ्चैव वर्जयित्वा तथाष्टमीम्। रिक्तां पञ्चदशीञ्चैव सौरिमौमदिनन्तथा। एवं सुनिश्चिते काले विद्यारम्भः प्रशस्यते” देवलः “बाले वृद्धे तथैवास्ते कुरुते दैत्यमन्त्रिणि। उद्वाहितायां कन्यायां दम्पत्योरेकनाशनम्”। अन्तक इति शेषः। राजमार्त्तण्डे “सिंहे गुरौ परिणीता पतिमात्मानमात्मजान् हन्ति। क्रमशस्त्रिषु पित्रादिषु वशिष्ठगर्गादयः प्राहुः”। पित्रादिषु–सिंहघटकमघा पूर्वफाल्गुन्युत्तरफाल्गुनीप्रथमपादेषु। प्रतिप्रसवमाह शातातपः “माघ्यां यदि मघा नास्ति सिंहं गुरुरकारणम्”। तत्रैव हेमाद्रिधृतमाण्डव्यवचनम् “श्रुतिवेधजातकान्नप्राशनचूडादिकः सर्वः। रविभवनस्थे जीवे कार्य्योवर्ज्योविवाहस्तु”। माध्यां मघायोगे तु ऋक्षैकमन्दिरगतावित्यादिना सर्वकर्मनिषेधात्। अथैवं विवाहोऽपि श्रूयते तथाच राजमार्त्तण्डे दक्षः “गुरौ हरिस्थे न विवाहमाहुर्हारीतगर्गप्रमुखामुनीन्द्राः। यदा न माघी मघसंयुता स्यात् तदा च कन्थोद्वहनं वदन्ति”। इत्थञ्च माघ्यां मघायोगाभावेऽपि श्रुतिवेधादि, मघास्थेऽपि गुरौ भवति विवाहस्तु गुरोर्मषापरित्यागादेव तथाच माण्डव्यः “मघाऋक्षं परित्यज्य यदा सिंहे गुरुर्भवेत्। तत्राब्दे कन्यका चोढा सुमगा सुप्रिया भवेत्”। वात्स्यायनः “यात्रोद्वाहप्रतिष्ठादिगृहचूडाव्रतादिकम्। यत्नतो वर्जयेच्चैव जीवे वक्रातिचारगे। कीर्त्तिभङ्गः प्रतिष्ठायां, भयं चौरात्तथाऽध्वनि। चूडोद्वाहे भवेन्मृत्युर्व्रते हानि, र्भयं गृहे। अतिचारे त्रिपक्षः स्यात् वक्रे पक्षचतुष्टयम्। न कुर्य्यात्तत्र यात्रादि गुरोर्वक्रातिचारयोः” गर्गः “गुरोर्वक्रातिचारे च वर्जयेत्तदनन्तरम्। यज्ञव्रतविवाहादावष्टाविंशतिवासरान्”। माण्डव्यः “यदा वक्रा- तिचाराभ्यां राशिं गच्छति वाक्पतिः। दिनामि सप्तविंशानि त्यक्त्वा कर्म्म समाचरेत्”। अत्रापि पूर्वः पूर्वः पक्षः श्रेयान्। राशिं–राश्यन्तरम् अन्यथा व्यर्थं स्यात्। अतएव न्यायरत्नेनापि पूर्वराशिगमिष्यमाणातिचारिगुरुकेत्युक्तम्। वृहद्राजमार्त्तण्डे “वकातिचारोपगताः कुजाद्या यद्यन्यराशौ, परिवर्जनीयाः। यथाक्रमस्थाः स्वगृहस्थिता वा न वर्जनीवा यवना वदन्ति”। व्यवहारसमुच्चये कृत्यचिन्तामणौ च हारीतः “कृत्वाऽतिचारं यदि पूर्वराशिं नायाति मन्त्री विबुधाधिपानाम्। यानं विवाहं व्रतबन्धगेहं सर्वं तदा हन्ति मतं मुनीनाम्। अतिचारं गते जीवे वृषे वृश्चिककुम्भयोः। यज्ञोद्वाहादिकं कुर्य्यात्तत्र कालो न लुप्यते”। कृत्यकल्पलतायां वाचस्पतिमिश्रैः “पूर्वराशिं यदा त्यक्त्वा अपूर्णे वत्सरे गुरुः। लुप्तःकालः स विज्ञेयः परगेहं गतो यदा। मीने मेषे वृषे चैव तथा मिथुनकन्ययोः। अतिचारान्न दोषः स्यान्नियतं काललोपजः”। द्वैतनिर्णये “कन्यावृश्चिकमेषेषु मन्थथे च ऋषे वृषे। अतिचारेषु कर्त्तर्व्यविवाहादि षुधैः सदा” इति अमूलकमित्युक्तम्। वराहसंहितायाम् “अतिचारं गतोजीवस्तत्रैव कुरुते स्थितिम्। तदा महातिचारः स्यात् लुप्तसंवत्सरक्रियः। अतिचारेण योराशिर्लङ्घितोदेवमन्त्रिणा। तदाद्यो वत्सरोलुप्तोयोऽनर्हः सर्वकर्मसु”। तत्र वर्षे कर्म्मणोलुप्तत्वात् वत्सरोलुप्त इति तदाह योऽनर्ह इति। भुजबलभीमादिनिबन्धेषु “शुभं भवनमासाद्य यदातिक्रमते गुरुः। अत्र संवर्द्धिता कन्या सुखं भर्त्तुः प्रमोदते” दीपिकायाम् “त्रिकोणजायाधनलाभराशौ वक्रातिचारेण गुरुः प्रयाति। यदा, तदा प्राह शुभे विलग्ने हिताय पाणिग्रहणं वशिष्ठः”। त्रिकोणं नवपञ्चमम्। जाया–सप्तमं, धनं–द्वितीयं, लाभ–एकादशगृहम्। रत्नकोषे “पक्षोदशाहानि तथा त्रिपक्षी मासत्रिभागः खलु षट् च मासाः। एषोऽतिचारः कथितोग्रहाणां भौमादिकानां परतस्तु चारः”। प्रतिष्ठाकाण्डे कल्पतरौ देवीपुराणम् “यथा जीवे स्थिते सिंहे तथैव मकरस्थिते। देवारामतडागादिपुरोद्यानगृहाणि च। विवाहादि महाभाग भयदानि विनिर्द्दिशेत्। यदा द्वादशगे जीगे अष्टमे वाथ भास्करे। प्रतिष्ठा कारिता विष्णोर्महाभयकरी मता”। कृत्यचिन्तामणौ देवीपुराणम् “सिंहसंस्थं गुरुं शुक्रं सर्वारम्भेषु वर्ज्जयेत्। आरब्धञ्च न सिद्ध्येत महा- भयकरं भवेत्। कूपारामतडागेषु पुरोद्यानगृहेषु च। सिंहस्थं मकरस्थञ्च गुरुं यत्नेन वर्जयेत्। कारकोव्रजते नाशं सन्तानः क्षीयतेऽचिरात्”। गुणिसर्वस्वे मकरस्थगुरौ प्रवर्त्तकं नरसिंहपुराणम् “विवाहोनैव कर्त्तव्यः सिंहसंस्थे गुरौ सदा। मकरस्थे च तत्कार्य्यं कल्याणं सर्ब्बतोबुधैः। तथा देवीपुराणम् “मकरस्थो यदा जीवो वर्जयेत् पञ्चमांशकम्। शेषेष्वपि च भागेषु विवाहः शोभनो मतः”। एतद्वाक्यं व्यवहारापरिगृहीतमिति कृत्यचिन्तामणिः। एतेनैतदनाकरं न भवति किन्तु मैथिलानामनाचारः इति स्वरसोऽवगम्यते। अतएव रत्नावल्यादिषु नीचस्थगुरावेव दोष उक्तः। गुरोर्नीचस्थत्वमपि त्रिंशांशमकरराशेः पञ्चमांशं यावदिति ज्योतिस्तत्त्वे ज्ञेयम्। रत्नावल्याम् “नीचस्थः सिंहगोवा यदि भवति गुरुः सूर्य्यरश्मौ च लीनः संयुक्तो वा यदि स्यात् दशशतवृणिना क्षीणरूपोऽथ बालः। यात्रागेहं विवाहोव्रतममरगृहं यज्ञचूडादि सर्वं वापी चोद्यानकूपम् न भवति शुभदं यद्यदिष्टञ्च लोके”। श्रीपतिरत्नमालायां कृत्यचिन्तामणौ च वात्स्यः “शाखाधिपे बलिनि केन्द्रगतेऽथ वास्मिन् वारेऽस्य चोपनयनं कथितं द्विजानाम्। नीचस्थितेऽरिगृहगेऽथ पराजिते वा जीवे भृगौ व्रतविधौ स्मृतिकर्म्महीनः”। अस्यशाखाधिपस्य। तेन सामगानां कुजबारेऽप्युपनयनम् “सामवेदाधिपो भौमः” इत्युक्तत्वात्। कामरूपीयनिबन्धे स्मृतिसागरे देवीपुराणम् “मकरस्थो यदा जोवस्तदा त्रिंशद्दिनं त्यजेत्। त्यक्त्वा तु षष्टिदिवर्स कुर्य्यात् कर्माणि मानवः”। रायमुकुटज्योतिःकालकौमुद्याम् यत्तु “मकरस्थं गुरुं यत्नात् सिंहवत् परिवर्जयेत्। देवारामतडागेषु पुरोद्यानगृहेषु च” इत्यादि देवलवचनं तदपि सिंहवत् परिवर्जयेदित्यनेन यथा सिंहस्थस्य गुरोस्त्याज्यता तथा मकरस्थस्यापीति गम्यते। सिंहस्थ गुरोर्मघायुक्तमाघ्यां सत्यामेव त्याज्यता अतो मकरस्थस्यापि गुरोस्तस्यामेव त्याज्यता इत्यवगम्यते। अतएव देवीपुराणम् “यथा जीवस्थिते सिंहे तथैव मकरस्थिते” इत्यत्र यथातथोपादानम्। तदपि देशविशेष एव दूषणम् तथाहि “गण्डक्या उत्तरे तीरे गिरिराजस्य दक्षिणे। सिंहस्थं मकरस्थञ्च गुरुं यत्नेन वर्जयेत्”। अतएवान्यदेशाभिप्रायेण भीमपराक्रमे “वापीकूपतडागादि निषिद्धं सिंहगे गुरौ। मकरस्थे तु तत्- कार्य्यं न दोषः काललोपजः। कार्य्यं मकरगे जीर्व विवाहाद्यखिलं बुधैः। न तु सिंहगते जीवे कुर्य्याद्विप्रः कथञ्चन”। अत्र पूर्वोक्तनरसिंहपुराणवचने मकरस्थमात्रे विवाह उक्तः। अतएव तत्सारभूतं व्यवहारमात्रं विबक्षितं श्रीपतिनात्मबुद्ध्येति प्रतिज्ञायसमयाशुद्धौ मकरस्थवृहस्पतिदोषमनभिधाय केवलमुपनयने नीचस्थवृहस्पतिर्निषिद्धः। एतेन द्वैतनिर्णये श्रीपतिसंहितायां व्यवहारोपवृंहितमेव वचनं नच व्यवहारविरुद्धमिति। एतेन यत् मकरस्थगुर्वादौ विवाहादिविधायकं वचनं तदाचारविरहादनादरणीयम् इति वाचस्पतिमिश्रोक्तं हेयम् मकरस्थगुरौ प्रतिष्ठाव्यतिरिक्तकर्म्मनिषेधकश्रीपतिग्रन्थविरहात्। अथ तन्निषेधकमुनिवचनानि प्रामाणिकान्तरधृतत्वादुपादेयानीति चेत् तर्हि प्रतिप्रसववचनान्यपि तथा। एवञ्चातिचारे विवाहादिनिषेधकवचनानि श्रीपतिना लिखितानि नतु तदपवादकानीति तेन तान्यप्रामाणिकानीति यदुक्तं तदपि हेयम् प्रकृते पूर्वोक्तयुक्तेस्तौल्यात् भुजबलभीमे “जीबोऽर्केण युतः करोति मरणं बालांशुकोभागुरिः नक्षत्रैकगतो वदन्ति यवनाः पादस्थितो देवलः। प्रायोगर्गपराशरादिमुनयो नेच्छन्ति चास्तंगते तस्मादस्तमिते सुरेन्द्रसचिवे नेष्टं विवाहादिकम्” श्रीपतिरत्नमालायाम् “प्रागुद्गतः शिशुरहस्त्रितयम् सितः स्यात् पश्चाद्दशाहमितपञ्चदिनानि वृद्धः। प्राक् पक्षमेव कथितोऽत्रिवशिष्ठगर्गैर्जीवस्तु पक्षमपि वृद्धशिशुर्विवर्ज्यः”। वृद्धशिशुत्वगन्तेतिक्वचित्पाठः। सितः शुक्रः। इह–पश्चाद्दिशि। राजमार्त्तण्डे “भवेत् सन्ध्यागतः पश्चात् अस्तमैष्यन् दिनत्रयम्। दिनानि पञ्च पूर्वेण, तत्कृते कर्म वर्ज्जयेत्। बाले बृद्धे च सन्ध्यांशे चतुःपञ्चत्रिवासरान्। जीवे च भार्गवे चैव विवाहादिषु वर्ज्जयेत्। बाले बृद्धे च सन्ध्यायां नष्टे च भृगुनन्दने। दुर्भगा चासती बन्ध्या मृत्युयुक्ता फलं क्रमात्। बाले च दुर्भगा नारी वृद्धे नष्टप्रजा भवेत्। नष्टे च मृत्युमाप्नोति सर्वमेवं गुरावपि”। वृद्धे पञ्चदिनत्वकीर्त्तनमप्यापद्विषयं ज्योतिःपराशरेण भृगोः पादास्तेऽपि दशाहविधानात्। एवं गुरावपि। रत्नमालायां पक्षविधानात् तयोर्मते न सन्ध्यायाः पृथङ्निर्देशोऽपि वृद्धत्वेनैव तद्ग्रहणात्। दीपिकायाम् “गुर्व्वादित्ये, गुरौ सिंहे, नष्टे शुक्रे मलिम्लुचे। याम्यायने हरौ सुप्ते सर्बकर्म्माणि वर्जयेत्। तत्रैव “नो शुक्रास्तेऽष्टमेऽर्के गुरुसहितरवौ जन्ममासेऽष्टमेन्दौ, विष्टौ, मासेमलाख्ये, कुजशशिदिवसे, जन्मतारासु चाथ। नाडीनक्षत्रहीने, गुरुरविरजनीनाथतारादिशुद्धौ, प्रातः कार्य्या परीक्षा द्वितनुचरगृहांशोदये शस्तलग्ने”। ज्योतिषे “सिंहस्थे मकरस्थे च जीवे चास्तमिते तथा। सिंहस्थे तु रवौ नैव परीक्षा शस्यते बुधैः”। गर्गः “दाहे दिशाञ्चैव धराप्रकम्पे, वज्रप्रपातेऽथ विदारणे वा। धूमे, तथा पांशुकरप्रपाते न कारयेन्माङ्गलिकादि कार्य्यम्। उल्कापाते च निर्घाते तथैवाकालवर्षणे। छिद्रे सूर्य्ये विनिर्द्दिष्टे नं कुर्य्यान्मङ्गलक्रियाम्। धूमकेतौ समुत्पन्ने, ग्रहणे चन्द्रसूर्य्यर्याः। ग्रहाणां सङ्करे चैव न कुर्य्यान्मङ्गलक्रियाम्। द्विसूर्य्यं वा त्रिसूर्य्यं वा दृष्ट्वा गगनमण्डलम्। रात्रौशक्रधनुश्चैव मङ्गलानि विवर्जयेत्। दिग्दाहेदिनमेकञ्च ग्रहे सप्त दिनानि च। भूमिकम्पे च सम्भूते त्र्यहाणि परिवर्जयेत्। उल्कापाते च त्रितयं, धूमे पञ्च दिनानि च। वज्रपाते दिनमेकंवर्जयेत् सर्वकर्म्मसु”। भोजराजः “ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्गमोल्कापतनादिदोर्ष। व्रते दशाहानि वदन्ति तज्ज्ञान्त्रयोदशाहानि वदन्ति केचित्”। ग्रहणकाले भूकम्पोल्कापातवज्रपातादिदोषसमाहारे त्रयोदशाहमशुद्धम् किञ्चिदूनतत्समाहारे दशाहम्। ग्रहणाद्येकैकदोषे त्र्यहमिति वाचस्पतिमिश्राः। अत्र स्मृतिसागरधृतसारसंग्रहे “राज्यादिकमहासिद्धौ यज्ञदानतपःसु च। हामखाध्याययोश्चैव वर्जयेद्दशरात्रकम्। लक्षहोमे महादाने वर्जयेत् सोमके मखे। तपःस्वाध्याययोश्चैव चिरारम्भे त्रयोदश” इति व्यवस्था अन्यत्र “उल्कापाते भुवः कम्पे अकालवर्षगर्जिते। वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः। प्रयाणन्तु त्यजेत् क्षत्त्रः सप्तरात्रमतः परम्। ब्राह्मणः क्षत्त्रियो वैश्यस्त्यजेत् कर्म्म त्रिरात्रकम्। शूद्रस्त्यक्त्वा चैकरात्रं सर्वकर्म समाचरेत्”। पराशरः “प्रयाणे सप्तरात्रं स्यात् त्रिरात्रं व्रतबन्धने। एकरात्रं परित्यज्य कुर्य्यात् पाणिग्रहं ग्रहे”। भृगुः “कम्पे राजनि सप्ताहं ब्राह्मणानां त्र्यहन्तथा। शूद्रस्यार्द्धदिनं प्रोक्तं सर्वकार्य्येषु वै भृगुः”। शूद्रस्यापद्विषयम्। कम्पैत्युपलक्षणम्। ग्रहणादावप्येवमेवान्यत्रैकत्र पठितत्वात्। भोजदेवव्यवहारसमुच्चये “सर्वं कार्य्यं ग कुर्व्वीत गुरौ सिंहेऽस्तगेऽपि च। व्रतदीक्षे न कुर्व्वीत तमोयुक्ते वृहस्पतौ”। तमो- युक्ते राहुयुक्ते। व्रतदीक्षे इति नित्येतरकर्म्मोपलक्षणम्। तथाच स्मृतिसागरसारे ज्योतिषम् “एकराशौ स्थितौ स्यातां यदि राहुवृहस्पती। विवाहव्रतयज्ञादि सर्वन्तत्र विवर्जयेत्”। मलमासाद्युपक्रम्य भविष्ये “ऋक्षभेदेऽप्येकराशौ सम्पर्को यदि वाऽनयोः। गुरोराहोरपि तथा त्यजेद्विद्वान्न संशयः”। अत्र गुरोर्लज्जितत्वं हेतुः। तद्यथा “यत्र तत्र स्थितो जीवस्तमोयोगेन लज्जते। उपहासाय किं न स्यादसत्सङ्गो मनीषिणाम्” इति। “अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने। सप्तरात्रं न कुर्व्वीत यात्रोद्वाहादिमङ्गलम्”। इति दोपिकायामनिष्टैत्यभिधानात् अनिष्टजनकोत्पात एव सर्वकर्म्मानधिकारः। पूर्वलिखितभोजराजवचनेऽपि “केतूल्कापतनादिदोषे, इति दोषजनक एव तथोपरागे मण्डलतः शुभेऽपि यात्रानिषेधाय सिंहिकासुत इति पृथगुपादननम्। अत्र विवाहादावपि सप्तरात्रनिषेधात् पराशरोक्तस्वल्पकालनिषेध आपद्विषयः। तेनानिष्टाजनके भूमिकम्पादौ न दोषः। अतएव वृहत्संहितायां वराहेण उत्पातप्रकरणे प्रायःपदमभिहितम् तथा च” यः प्रकृतिविपर्य्यासः प्रायः संक्षेपतः स उत्पातः। क्षितिव्योमदिव्यजातोयथोत्तरं गुरुतरो भवति” प्रायैति ऋत्वादिप्रयुक्तविपर्य्यासव्यावृत्त्यर्थं यदाह तत्रैव “ये च न दोषं जनयन्त्युत्पातास्तान् ऋतुस्वभावकृतान्। ऋषिपुत्त्रैः कृतैः श्लोकैर्विद्यादेतैः समासोक्तैः” मनुनापि “निर्घाते भूमिचलने ज्योतिषाञ्चोपसर्पणे। एतानाकालिकान् विद्यादनध्यायानृतावपि”। अत्रानध्ययनार्थमृतावपोत्युक्तम्। उत्पाते दोषभङ्गमाह श्रीपतिव्यवहारनिबन्धे “अथ दिवसत्रयमध्ये मृदुजलपतनं यदा स्यात्। तदोत्पातदोषं शमयेदित्याहुराचार्य्याः” वार्हस्पत्ये “शमयन्त्यासप्ताहात् कम्पादिकृतं निमित्तमाश्वेव। अतिवर्षणोपबासव्रतदोक्षाजप्यहवनानि”। विष्णुधर्मोत्तरे “शेतेऽत्र चतुरोनासान् यावद्भवति कार्त्तिकः। विशिष्टा न प्रवर्त्तन्ते तदा यज्ञादिकाः क्रियाः। नाभिषेच्यो नृपश्चैत्रे नाधिमासे कदाचन। न सुप्ते च तथा कृष्णे विशेषात् म्पवृषि द्विज!”। भविष्योत्तरे “सुप्ते मयि जगन्नाथे केशवे गरुडध्वजे। निवर्त्तन्ते क्रियाः सर्वाश्चातुर्वर्ण्यस्य भारत!। विवाहब्रतबन्धादिचूडासंस्कारदीक्षणम्। यज्ञगृहप्रवेशादिदानार्च्चनप्रतिष्ठनम्। पुण्यानि यानि कर्म्माणि वर्जयेद्दक्षिणायने”। सर्वास्तत्तद्वाक्यगणिताः पूर्वप्रातिस्विकोक्ताः एवं पुपयानीति अन्यथा विशेषवचनवैथर्थ्या दति वदन्ति। भोजराजः “वापो तडागगृहगापुरदेवसद्मपासादवारिमठकूपविवाहचैत्यात्। कर्त्तुं यथागमविघानविधिर्वधात्रा प्रोक्तस्तथैव कथयामि समासतोऽहम्। सुप्ते हरौ प्रकटशेषफणोपधाने लक्ष्मोकराब्जपरिमार्जितपादपद्मे। मीने रवौ धनुषि चास्तमिते तथेज्ये वास्तुक्रियाविधिरसौ मुनिभिर्निषिद्धः”। इज्योगुरुः। नारदः “वापीकूपतडागादिप्रतिष्ठायज्ञकर्म च। न कुर्य्यात्मलमासे च महादानव्रतानि च”। दानपदं सामान्यदानपरमिति वदन्ति। तथाच स्मृतिः ‘अस्ते सन्ध्यागते बाले भृगौ मासि मलिम्लुचे। देवतादर्शनं दानं महादानं विवर्जयेत्’। लषुहारीतः “भृगावस्ते गुरौ सिंहे गुर्वादित्ये मलिम्लुचे। त्यजेत् दानं महादानं व्रतं देवविलोकनम्”। एतद्वचनद्वयं कालविवेकेऽपि। अत्र दानमहादानयोरुपादानात्” ग० त०। मुहूर्त्तचिन्तामणिपीयूषधारादौ विशेष उक्तो विस्तरभयान्नोक्त स्ततएवावसेयः।

कालिक = पुंस्त्री काले वर्षाकाले चरति ठञ, के जले अलति अल–बा० इकन् ७ त० वा। १ क्रौञ्चे वके शब्दरत्ना० स्त्रियां ङीष्। कालोवर्ण्णोऽस्त्यस्य ठन् कालात् वर्ण्ण बाचित्वे जानपदा० नि० ङीष् ततः स्वार्थे क ह्रस्वः इति वा। कालिका २ देवीमूर्त्तिभेदे “तस्यां विनिर्गतायां तु कृष्णाऽभूत् साऽपि पार्व्वती” देवीमा० तस्याः कृष्णवर्णतयाविर्भावात्तथात्वम् विवृतिः कालिकापुराणे ६० अ० यथा “सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम्। गङ्गावतारनिकटे महामायां प्रतुष्टुवुः। अनेक संस्तुता देवी तदा सर्व्वामरोत्करैः। मातङ्गवनितामूर्त्ति र्भूत्वा देवानपृच्छत। युष्माभिरमरैरत्र स्तूयते का च भाविनी। किमर्थमागता यूयं नातङ्गस्याश्रमं प्रति। एवं ब्रबत्या मातङ्ग्यास्तस्यास्तु कायकोषतः। समुद्भूताऽवीद्देवी मां स्तुवन्ति सुरा इति। शुम्भो निशुम्भो ह्यसुरौ बाधेते सकलान् सुरान्। तस्मात्तयोर्बधायाहं स्तूयेऽद्य सकलैः सुरैः। विनिःसृतायां देव्यान्तु मातङ्ग्याः कायतस्तदा। भिन्नाञ्जननिभा कृष्णा साऽभूत् गौरी क्षणादपि। कालिकाख्याऽभवत् सापि हिमाचलकृताश्रया”। ३ वृश्चिकपत्रवृक्षे ४ क्रमदेयवस्तुमूल्ये ५ धूसर्य्याम् ६ जटामांस्यां ७ काक्यां ८ पटोलशाखायां ९ रोमावल्यां १० शिवायाम् ११ मेवाबल्यां स्त्री मेदि०। १२ क्षीरकीटे हारा० १३ मस्यां शब्दरत्ना० १४ काकोल्यां १५ श्यामापक्षिणि स्त्री राजनि०। १६ हिमाचलभवायां त्रिशिरायां हरीतक्याम् स्त्री मेदि०। १७ चतुर्बर्ष कुमारीभेदे अन्नदाकल्पः कालसङ्कर्षाशब्दे विवृतिः। कालस्य भावः वा० बा वुण्। १८ कृष्णवर्ण्णे स्त्री। १९ स्वर्ण्णदोषे जटाधरः बह्निना दाहे यद्दोषात् स्वर्ण्णस्य कृष्णता भवति सा च ताम्रादिधातुयोगैः। “हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा” रघौ अग्नावेव कालिकाज्ञानस्योक्तेस्तस्यैव तथात्वम्। काय जलाय अलति पर्य्याप्नोति अल–पर्य्याप्तौ ण्वुल् टाप् अतैत्त्वम्। २० कुज्झटिकायां भरतः २१ नवमेघे स्त्री मेदि०। काले दीयते ठक्। २२ प्रतिमासदेयवृद्धौ (सुद) “प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता” नारदः। कं जलमलति भूषयति अलभूषणे ण्वुल् टाप् अतैत्त्वम्। २३ सुरायां स्त्री हेमच०। कालोवर्ण्णोऽस्त्यस्य ठन्। २४ कालीयके कृष्णचन्दने न० शब्दच०। प्रकृष्टः दीर्घःकालोऽस्य प्रकृष्टे ठञ्। २५ वैरे न० तस्य दीर्घकालस्थायित्वात्तथात्वम्। “वर्ण्णे चानित्ये” इत्यधिकारे “कालाच्च” पा० कन्। कालक स्त्रियां टाप् अत इत्त्वम्। २६ कालिका अनित्यकृष्णवर्ण्णयुक्त शाट्यादौ स्त्री “कालिका शाटी” सि० कौ०। कालेन निर्वृत्तः ठञ्। कालिक २७ कालनिर्वृत्ते कालकृते त्रि०। “विशेषः कालिकोऽवस्था” अमरः। काले भवः ठञ्। २८ कालभवे त्रि०। उभयत्र स्त्रियां ङीप् इति भेदः।

कालिकापुराण = न० कालिकाया माहात्म्यादिप्रतिपादकं पुराणम्। उपपुराणभेदे उपपुराणशब्दे पृ० तस्य तथात्वमुक्तं तत्प्रतिपाद्यविषयाश्च १ अ० ब्रह्मणोनारदादिक्रमेण तत्पुराणवंशवर्ण्णनम्। ऋषिप्रश्ने मार्कण्डेयोक्तिः। प्रजासृष्टिः–व्रह्ममनसः सन्ध्यासृष्टिः कन्दर्पसृष्टिः। तस्य ब्रह्मणा स्त्रीपुरषयोर्मेलनाय निदेशः। २ अ० तस्य मन्मथनामादिनिरुक्तिः। तस्य हर्षणरोचनद्रावणशोषणमारणाख्यपञ्चवाणोक्तिः। सन्ध्यांदृष्ट्वा ब्रह्मणो मनोविकारः सन्ध्यादर्शनेन जातसात्विकपर्म्मात् अग्निष्वात्तादीनामुत्पत्तिः। तां दृष्ट्वा विकारान्वितदक्षधर्म्मतः रतिनामककन्योत्पत्तिः। ३ अ० ब्रह्मणः कामदेवशापः। रत्याः कामेन विवाहः। ४ अ० शिवमोहनाय ब्रह्मणा कामस्य नियोगः। शिवमोहनाय ब्रह्मणा विष्णुमायायाः स्तुतिः। दक्षकन्यासतीत्वेन तस्याः प्रादुभावप्रार्थनः दक्षेण महामायायाः स्तुतिः। ५ अ० विष्णुमायाया दक्षाय वरदानम्। ६ त० शम्भोर्दारग्रहणाय ब्रह्मणा कामस्य नियोजनम्। तेन सह मारादिगण स्य प्रेरणम्। ७ अ० कामेन हरमोहनप्रकारोक्तिः। ८ अ० दक्षकृतमहामायास्तवः। सतीजन्मतत्पालन प्रकारः तन्नामनिरुक्तिः। नारदेन सत्या हररूपवरप्राप्त्युक्तिः। ९ अ० सतीकृतशिवव्रतम्। ब्रह्मणः शिवसमीपे दारग्रहणप्रार्थनम्। तदङ्गीकारे तत्परिणययोग्यतया दक्षकन्यायाः कथनम्। १० अ० सत्या नन्दीव्रतसमाप्तौ शिवेन तस्यै स्वस्य भार्य्याभवनरूपवरदानम्। दक्षसमीपे स्वेन सतीविवाहार्थं शिवेन ब्रह्मणःप्रेरणम्। ब्रह्मणोदक्षं प्रति तयाप्रार्थने तेन तदङ्गीकारः। सतीविवाहार्थं ब्रह्मादिभिः सह शिवस्य दक्षपुरगतिः। ११ अ० विवाहकाले सतीरूपं दृष्ट्वा ब्रह्मणोमनोविकारः। ततः संवर्त्तादिमेवादीनामुत्पत्तिः। ततोदक्षवाक्येन ब्रह्माणं प्रति शिवस्य कोपः। विष्णुना सान्त्वनम्। १२ अ० ऋषिप्रश्ने ब्रह्मविष्णुशिवानामभेदोक्तिः। १३ अ० शिवाय विष्णुना ब्रह्माण्डसंस्थानस्य दर्शनम्। तथा रूपदर्शनेन तेषामेकत्वोक्त्या ब्रह्माणं प्रति तस्य कोपनिंवृत्तिः। १४ अ० शिवसतीविहारवर्णनम्। १६ अ० दक्षयज्ञप्रारम्भः। तत्र शिवसतीनिमन्त्रणाभावे सत्याः पितरं प्रति कोपः। तत्र दक्षकोपेन सत्या देहत्यागः। १७ तेन क्रुद्धशिवेन वीरभद्रं सृष्ट्वा तं प्रति दक्षयक्षनाशनायादेशः। तेन तद्यज्ञस्यनाशनम्। सतीविरहे शिवविलापः। १८ अ० शिवस्य सतीविरहवर्ण्णनम्। शिवरोदनाम्बुनो भूमौ पतने तन्नाशाशङ्कया देवानां शनिं प्रति तच्छोषणप्रार्थने तेन तस्याङ्गीकारः। तद्वाष्पेण वैतरणीनदीप्रादुर्भावः। सतीमृतदेहग्रहणपूर्ब्बकं शिवस्यभ्रमणम्। शनिना सतीशवदेहावयवानां क्रमशःखण्डने अङ्ग भेदेन तत्तत्स्थानानां पीठत्वप्राप्तिः। क्रमशः सर्व्वसतीदेहपतते शिवस्य लिङ्गत्वप्राप्तिः। ब्रह्मणा तस्य सान्त्वनम्। १९ चन्द्रभागान्तिके शिप्रसरः शिप्रानदीसमुतपत्तिः। चन्द्रभागानद्युत्पत्तिः। चन्द्रभागा नामनिरुक्तिः। सप्तविंशतौ अश्विन्यादिषु स्त्रीषु रोहिण्यामिन्दोरत्यनुरागे अश्विन्यादीनां चन्द्रेण विवादः। तत्र २ ३ ९ १० १२ १६ २१ २६ भरण्यादिभिर्नवभिश्चन्द्रस्य भर्त्सने कृते चन्द्रस्य ताः प्रति यात्रायां वर्ज्जनीयतारूपशापदानम्। सर्व्वासांदक्षसमीपे गतिः ताभिः चन्द्रदौरात्म्यस्यकथने दक्षेण चन्द्रं प्रति सर्व्वासुतुल्यवर्त्तनोपदेशेऽपि चन्द्रेण तथानाचरणे दक्षेण राजयक्ष्माणं गदमुत्- पाद्यचन्द्राभिभवाय तस्य नियोगः। तस्य प्रवेशेन चन्द्रस्य क्षयः। चन्द्रक्षये ओषधीनामपुष्टौ यज्ञाभावात् वृष्ट्यभावेन प्रजाक्षयोक्तिः। २१ तदालोक्य दक्षसमीपे देवानां गमने तदुपदेशेन राजयक्ष्मणा गीर्णकलानां ज्योत्स्नादीनाञ्च निष्कासनम्। बृहल्लोहितानदीस्नानात् चन्द्रयक्ष्ममीक्षः। राजयक्ष्मस्थितिस्थानकथनम्। तत्पत्नीकथनम्। दक्षवाक्यानुसारेण चन्द्रमसो मासार्द्धं ह्रासवृद्धिप्रकारकथनम्। सूर्य्यविम्बेन चन्द्रबृद्धिकथनम्। शिवेन चन्द्रस्यैककलाधारणं ततएव ज्योत् स्नायाः क्षीण चन्द्रे प्रवेशेन चन्द्रबृद्धिकथनम्। सीतानदीप्रादुर्भावः। चन्द्रभागानामप्राप्तिसमर्थनम् निर्विर्ण्णां सन्ध्यां प्रति विष्णूपासनार्थं वसिष्ठोपदेशः। सन्ध्यां प्रति विष्णोः प्रसादे तया तस्य स्तुतिः। तस्यै तेन वरस्य दानम्। विष्णोरुपदेशान्मेधातिथियज्ञाग्नौ तस्या देहत्यागः तच्छरीरस्य विष्णोराज्ञया सूर्य्यमण्डले नयनम्। सूर्य्येण तस्य त्रिधाकरणेन सन्ध्यात्रयकल्पनम्। मेधातिथियज्ञाग्नः अरुन्धतीसमुत्थानं तन्नामनिरुक्तिः। २३ अ० चन्द्रभागानदीमाहात्म्यम् अरुन्धत्या वसिष्ठेन सह विवाहः। २४ अ० ब्रह्मादिभिः शिववैकल्यवारणार्थं योगनिद्रायाः स्तुतिः। विष्णुना शिवस्य सान्त्वनम्। निमेषादिपरार्द्धपर्य्यन्तकालमानोक्तिः। मन्वन्तरोक्तिः। प्रलयप्रकारः। सृष्टिप्रकारः। २५ अ० सृष्टेर्विवृतिः। ब्रह्माण्डादिसंस्थानम्। २६ अ० वराहकल्पे प्रतिसर्गः। २७ अ० यज्ञवराहेण पृथ्वीधारणप्रकारः। २८ अ० जगतोनिः सारत्वोक्त्या तत्त्वज्ञानेन मोक्षोपदेशः। २९ शिवगणाना मुत्पत्त्यादि। ३० यज्ञवराहस्य धरारूपया वाराह्या सह क्रीडनेन तदनुरागात् तद्देहत्यागेऽनिच्छा। तद्देहत्यागार्थं देवैर्विष्णोः स्त्रवः। वराहदेहनाशार्थं शिवस्य शरभमूर्त्तिधारणम् तेन तस्य युद्धे पृथिव्या नष्टप्रायताशङ्कया रोहितमत्स्यरूपेण विष्णोराविर्भावः। तेन पृथिवीवेदमुन्यादीनां धारणम्। शिवेन नानाविधगणानां सृष्टिः। वराहमूर्त्तेः शरभेण सह युद्धे तस्यांशतोनरनारायणयोरुत्पत्तिः। शिवेन वराहस्य बधः। शिवगणानां स्वरूपगुणादि। ३१ अ० मृतवराहदेहावयवेभ्यो ज्योतिष्टोमादियज्ञकल्पनम्। वराहपुत्रत्रयस्य त्रेताग्निरूपेणोत्पत्तिः। ३२ अ० स्वायम्भुवमनुं प्रति कपिलशापः। मनोर्बिष्णूपासनम्। तत्समीपे विष्णोर्मत्स्यरूपेणागत्य वासस्थानप्रार्थनं, क्षुद्रपात्रादिवृहत्सरोवरपर्य्यन्ते क्रमशो वर्द्धमानस्य मत्स्यदेहस्याधारत्वाभावोक्तिः। ३३ अ० मनुनाऽद्भुतदर्शनेन तं प्रति तस्य स्वरूपज्ञानाय प्रश्नेतस्मैतेन आत्मस्वरूपस्य कथनम्। कपिलवाक्यानुसारेणाचिरेण भाविखण्डप्रलया पद्वारणार्थं मत्स्येन वृहन्नौकानिर्म्माणस्य तत्रवीजसञ्चयस्थापनस्योपदेशः। स्वशृङ्गेण च तन्नौकायाः समाकर्षणं कर्त्तव्यमित्युक्तिः। प्रलयान्ते जगतां शेषरूपेण धार्य्यतोक्तिः। ३४ अ० कूर्म्मरूपेण वराहशरभयुद्धेन नष्टप्रायायाभूमेः समीकरणम्। नरनारायणाभ्यां तपसा सूर्य्यादिस्थितिकरणम्। पूर्व्वसञ्चितवीजैः मनुना पुनः शस्यप्रवर्द्धनम्। ३५ अ० शिवस्य पूर्ब्बगृहीतशरभमूर्त्तित्यागकाले अष्टाभिः पादैः सूर्य्याद्यष्टमूर्त्तिग्रहणम् तेन तस्याष्टमूर्त्तिनामता। शारभकायात् कपालिभैरवप्रादुर्भावः। तद्यजनप्रकारः। ३६ अ० रजस्वलायाः पृथिवीरूपवराहपत्न्याः वराहेण सङ्गमात् नरकासुरोत्पत्तिः। ३७ अ० जनकनृपात् सीताद्युत्पत्तिः। धरोपदेशेन जनकेन नरकस्य प्रतिपालनादि। ३८ अ० तस्य प्राग्ज्योतिषदेशे राज्यकरणम् तद्देशसीमादि। ३९ अ० द्वापरयुगे उत्पन्नवाणासुरसंसर्गात् नरकस्यात्याचारः। नीलकूटे स्थितदेवीदर्शनार्थ मागतवसिष्ठदर्शननिवृत्तये नरकेण तद्देवीद्वाराच्छादाने कृते तंप्रति “येन जनितस्त्वं मानुषरूपेण तेनैव तव बधो भविष्यतीति, वसिष्ठस्य शापदानम्। ४० अ० तस्य भगदत्तादिपुत्रोत्पत्तिः। वसिष्ठशापानुसारेण कृष्णेन द्वापरयुगे नरकस्य बधः। ४१ अ० मेनकायाः मैनकादिपुत्रशतस्य कालीनामक कन्यायाश्चोत्पत्तिः। नारदेन तस्याः शिवविवाहयोग्यत्वस्य तद्देहाईहरत्वस्य च हिमाचलसमीपे कथनम्। ४२ अ० शिप्रसरस्त्यागेन हिमवत्प्रस्थे शिवगतिः। शिवशुश्रूषार्थं हिमाद्रिणा स्वसुताकालीनियोजनम्। देवानां तारकासुरपीडनकथा। तद्बधाय देवप्रार्थि तब्रह्मणा शिवस्य पार्वतीसङ्गप्ताच्च्युत तेजोजात् कुमारात् तस्य बधो भविष्यतीत्युक्तौ तया सह शिवस्य मेलनार्थं शक्रेण कामस्य प्रेषणे कृते तेन कालीसन्निधाने हरस्य मनसोविकारे जनिते शिवेन ललाटनोत्रोत्थापितेन वह्निना तस्य दाहः तद्भस्मधारणञ्च। हरनेत्रोत्थिताग्नेः वाडवाग्निरूपेण सिन्धुप्रवेशः। ४३ त० नारदोपदेशेन काल्याः शिवाराधनार्थं पित्रोः समीपे बनगमनप्रार्थना। तस्याउमानामप्राप्तिकारणोक्तिः। तदांराधनेन तुष्टस्य हरस्य ब्रह्मचारिवेशेन तदन्तिके आगतस्य तत्सखीं प्रति कालीतपस्याप्रयोजनप्रश्नः। तच्छ्रुत्वा ब्रह्मचारिणा हरस्य निन्दनेन अन्यपतिवरणीयतोपदेशः। तच्छ्रवणे तं प्रति क्रोधात् काल्या शिवस्वरूपादेः कथनम्। शिवस्य निन्दाश्रवणापराधमार्ज्जनाय काल्या तस्य स्तुतिः, अन्यत्र गमनोद्योगश्च स्वरूपग्रहणेन शिवेन तस्याः निवारणम् वरदानञ्च। ४४ अ० काल्या शिवं प्रति कन्यायाः पितृदेयत्वोक्त्या पितृसमीपे प्रार्थनकर्त्तव्यतोक्तिः। काल्यास्तपःफललाभे स्व गृहगतिः। शिवेन सारुन्धतीकसप्तर्षीणां तत्कृत्ये नियोजनम् तैर्हिमाचलं प्रति काल्याः शिवेन विवाहदानार्थप्रार्थना तेन तथाङ्गीकारे शिवेन कालीविवाहः। भिन्नाञ्जननिभायाः काल्याः गौराङ्गात्वप्राप्तिकथा। ४५ अ० अर्द्धनारीश्वरमूर्त्तिप्रादुर्भावः तन्मूर्त्तिवर्ण्णनम्। अ० ४६ कालीशिवयोर्महामैथुनानिवृत्तौ देवप्रार्थितेन हरेण अनले तेजसौत्सर्गः। तदुत्सर्गकालेऽणुद्वयस्य हिमप्रस्थे पतनात् ततोभृङ्गिमहाकालभैरवयोरुत्पत्तिः। देवैर्महामैथुनविघ्ने कृते कुपितया काल्या देवानां स्वस्वभार्य्यासु अपत्याभावरूपशापदानम्। हरोपदेशेन कालीज्येष्ठाभगिन्यां गङ्गायां वह्निना हरोत्सृष्टतेजोनिषेकः। गङ्गयास्कन्दविशाखयोर्द्वयोः पुत्रयोःप्रसवः ततस्तयोरेकत्वोक्तिः। जातमात्रस्य तस्य शरवणे तया त्यागः। कृत्तिकाभिः स्तनदानेन तस्य पोषणम्। ततः काल्यै तत्पुत्रदानम्। मैथुनात् निवृत्तया गलितवस्त्रया पूर्वं द्वारिनियुक्त योर्भृङ्गिमहाकालयोः स्वपुत्रयोर्दर्शनेन लज्जितया काल्या तयोर्मर्त्यजन्मप्राप्तिरूपे शापे दत्ते निरागोभ्यां ताभ्यामपि शिवाशिवयोर्मानुष्यप्राप्ति शापस्य दानम्। पौष्यपुत्रत्वेन चन्द्रशेखरनाम्ना शिवजन्म। ४८ अ० काल्याः ककुत्स्थभार्य्यायां जन्म तस्यास्तारावतीति नाम। पौष्यतारावत्योर्विवाहः। ४९ अ०। तारावत्यां कामुकस्य कापोतमुनेर्वञ्चनाथं चित्राङ्गदानाम स्वभगिन्याः स्ववेशेन प्रेरणे तेन तस्यां सुतद्वयस्योत्पादनम् चित्राङ्गदोत्पत्तिकथा। ५० अ० पश्चात् तस्याः खवञ्चनं ज्ञात्वा क्रुद्धकापोतमुनिनां कपालिना ते पुत्रौ जनयिष्येते इति तारावतीं प्रति शापे दत्ते तदनुसारेण कपालिवेशधारिणा शिवेन तारावतीदेहे कालीं प्रवेश्य तया सह सङ्गम्य वेतालभैरवयोरुत्पादनकथा। नारदात् श्रुतवृत्तान्तेन चन्द्रशेखरनृपेण तयोः ज्येष्ठस्य भैरवेति कनिष्ठस्य वेतालेति नामकरणम्। तयोःपूर्व्वतः उपरिचरः दमनः अलर्क इति त्रयः पुत्रास्तारावत्यां चन्द्रशेखरस्य बभूवुः। ५१ अ० चन्द्रशेखरस्य औरसपुत्रेष्विव शिवपुत्रयोर्वेतालभैरवयोः स्नेहा भावेन तयोर्निर्वेदः। कापोतमुनेरुपदेशात् तयोः शिवाराधनाय प्रवृत्तयोस्तदाराधनस्थानप्रश्ने कापोतेन तदुपासनास्थानकथनम्। तत्रादौ वाराणस्याः मुख्यत्वमुक्त्वा अन्यानि कामरूपादीनि तीर्थानि तत्स्थानत्वेन कथितानि शिवोपासनाप्रकारः तदुपदेशानुसारेण ताभ्यां स्वजनकस्य शिवस्याराधनम्। ताभ्यां तथाचरणे शिवेन तद्देहेन गाणपत्यपदलाभवरदानम्। ५२ अ० कालीपूजनायै शिवेन तयोर्नियोगः। ५३, ५४, ५५, ५६, ५७, अ० कालीपूजा तत्पूजास्थानविशेषोक्तिः। ५८ अ० कामाख्यादेः विशेषफलोक्तिः। ५९ अ० तस्याअङ्गमन्त्रादि। महिषमर्द्दिनीध्यानपूजादि। तस्याः पूजाविधिः। महिषासुरबृत्तान्तकथनन्! ६० अ० देव्याः समीपे हननकाले महिषासुरवरप्रार्थना। महिषस्य पूर्ब्बसृष्टौ उग्रचण्डामूर्त्त्या, पश्चात् कालीमूर्त्त्या, एतत्कल्पे दुर्गामूर्त्त्या च विनाशनोक्तिः। शिववरात् रम्भासुरात् महिष्यां महिषासुरोत्पत्तिः। पित्राराधितशिववरेण तस्यैश्वर्य्यप्राप्तिः। ६१ अ० अष्टादशमुजीग्रचण्डायाः प्रादुर्भावः। तस्या एव उग्रतारारूपत्वम्। तस्याध्यानपूजापीठशक्त्यादि। कौशिकीप्रादुर्भावः तद्रूपमन्त्रादि। शिवदूतीप्रादुर्भावः तद्रूपमन्त्रपूजादि। ६२ अ० कामाख्यानामनिरुक्तिः। मधुकैटभोत्पत्तितन्नामनिरुक्ती। विष्णुना तयोर्बधप्रकारः। तन्मेदसोलेपनेन पृथिव्यादृढताकरणात्मेदिनीति नाम प्राप्तिः। कामाख्यातीर्थोत्पत्तिः। नीलादिपर्वतोत्पत्तिः शिलारूपेण ब्रह्मादीनां तत्र स्थितिः। तत्रत्यकालकुण्डा दिनानातीर्थकथनम्। ६३ अ० कामाख्यामन्त्रपूजाविधिः। तत्र जयन्त्याद्येकादशमुर्त्तिपूजा–उग्रचण्डादिनवशक्तिपूजाविधा। त्रिपुराध्यानपूजाप्रकारः। ६४ अ० कामेश्वरीमूर्त्तिध्यानपूजाविधा। ६५ अ० शारदीयापूजाविशेषविधिः। ६६ अ० कामाख्याङ्गन्यासादिविधा। ६७ अ० वलिच्छदनप्रकारनिरूपणम्। देव्यै दत्तवलेस्तद्गणत्वप्राप्तिः। काणव्यङ्गादीनां बलिदाने निषेधः। ६८ अ० षोडशोपचाराः। तत्रासनादिषु वर्ज्ज्यावर्ज्ये गन्धपुष्पादौविशेषः। ७० अ० नेवद्यद्रव्यादि। ७१ अ० प्रदक्षिणप्रणामप्रकारः। ७२ अ० कामाख्याकवचम्। ७३ अ० मातृकान्यासबिधा। ७४ अ० अष्टधा योनिमुद्रास्वरूपाणि तद्दर्शनफलञ्च। मन्त्ररहस्यम्। तथ्यन्त्रधारणविधा। बालात्रिपुरासन्त्ररूपपूजाविधा। त्रिपुरभैरव्याः पूजादि। ७५ अ० त्रिपुरभैरव्याः पुरश्चरणहोमादिविधा। ७६ अ० मन्त्रशोधनप्रकारः। तत्र सिद्धसाध्यादिचक्रवर्ण्णचक्रादिकथनम्। एवं शिवोपदेशं प्राप्तयोवेतालभैरवयोर्वसिष्ठोपदेशेन कामाख्यातीर्यगतिस्तत्र पुरश्चरणादिसमाप्तौ देव्याः प्रसादे तयोर्मानुषत्वत्यागेन देवत्वप्राप्तिः! शिवा शिवयोः सेवकत्वप्राप्तिश्च। ७७ अ० कामरूपस्थनन्दिकुण्डादनानातीर्थमाहात्म्यम्। तत्रत्यजटोदकानदीनामनिरुक्तिः। नवतोयानदीनामनिरुक्तिः” अगदनदमाहात्म्यादि। जल्पीशनामनिरुक्तिमाहात्म्यादि। ७८ अ० तत्रत्यबहुरोकानदी माहात्म्यादि। कृत्तिवासगिरिचन्द्रिकानदीफेनिलास्वमदनानदीमाहात्म्यादि। भद्रानदीसुभद्रानदीमानस वैरटगिरिभैरवीनदी वर्ण्णलानदीमाहात्म्यादि। त्रिस्रोतः कपोतकुण्डवारुणकुण्डतत्त्वाचलमाहात्म्यादि। सुरनदीक्षीरोदानीलानदीचण्डिकाचन्द्रिकानदीमाहात्म्यादि। अन्तरालककुण्डशृङ्गेशकुब्जपीठमणिकूटगिरिलौहित्यब्रह्मपुत्रादिमाहात्म्यादि। भद्रकामाचलकालहरलिङ्गपुनर्भवकुण्डहयग्रीवशिलागोकर्ण्णशिवलिङ्गकेदारलिङ्गकमललिङ्गमाहात्म्यादि। हयग्रीवमन्त्रादि। ७९ अ० तत्रत्यदर्पणरोहणदर्पटनदाग्निमानगिरिवरुणकुण्डकंसकरवायुकूटाचलचन्द्रकूटाचलसोमकुण्डनन्दनाचलभस्मकूटाचलोर्वशीकुण्डसदामृतकुण्डमणिकूटमणिकर्ण्णलिङ्गसुमङ्गलानदीमत्स्यध्वजकुलाचलस्थश्वेतानदीकामधरसरःसुकान्ताचलरक्षःकूटाचलपाण्डुनाधमैरवपाण्डुनाथाचलब्रह्मकुण्डनीलकूटाचलोग्रतारास्थानमाहात्म्यपूजादि। कर्पटाचलचित्राचलकज्जलाचलशक्राचलकपिलभङ्गिकानदीदमनानदीवृद्धाचलाकाशगङ्गास्थावरसरोदुर्जयाचलक्षोभकाचलकान्तानदीदिव्यकुण्डपुष्करिणीहेरुकलिङ्गसन्ध्याचलललितानदीमाहात्म्यादि ८० अ० दीपवतीनदीशृङ्गाटगिरिसिद्धत्रिस्रोतोनदीगृहवेदिकाभट्टारिकानदीनाटकाचलस्थसरःसरित्त्रयदिक्करिकानदीवृद्धगङ्गास्वर्ण्णनदीश्रीनदीविश्वनाथलिङ्गविश्वदेवीमूर्त्तिमाहात्म्यादि। सोमाशनानदी सितगङ्गाललितकान्तलिङ्गतीक्ष्णकान्ता ख्योग्रतारामूर्त्ति पूजामाहात्म्यादि। ललितकान्तलिङ्गमङ्गलचण्डिकापूजाविधा तत्र स्थविष्णुमूर्त्तिभेदतत्पूजाप्रकारादि। ८१ अ० कामरूपस्थतत्तीर्थसेवनेन सर्वेषां निर्वाणादिप्राप्तौ यमेन स्वकार्य्याभावाकलने ब्रह्मादिसमीपगमनेन तन्निवारणोपायचिन्तनम्। ब्रह्मप्रार्थितेन शिवेन कामरूपस्थतीर्थेभ्यः सर्ब्बलोकोत्सारणार्थं गणैः सह उग्रतारायानियोजनम्। उग्रतारया च तत्रस्थवसिष्ठस्योत्सारणे कृते वसिष्ठेन तां प्रति म्लेच्छाद्युपास्यतावाममार्गोपास्यतादिरूपशापदानम्। कानरूपस्य म्लेच्छावृतत्वशापदानम् कामाख्यातारागमयोश्च विरलत्वादिशापदानम्। तेन शापेन उग्रतारा सहितागतागणाश्च म्लेच्छतां प्राप्ता उग्रताराऽपि तदवधि वाममार्गरता शिवस्य म्लेच्छरतिस्तदवधि जाता वमिष्ठशापाच्च तत्रत्यसर्व्वतीर्थगुप्तिः लौहित्यमात्रस्य तत्रमाहात्म्यस्थितिः। ८२ अ० लौहित्योत्पत्तितन्माहात्म्यादि। जामदग्न्योपाख्यानम्। ८३ अ० तत्कृतमातृबधपापनिर्मोचनेन लौहित्यप्रशंसा। पूर्ब्बकल्पेऽन्जकवाणासुरयोर्भृङ्गिमहाकालरूपगणत्वप्राप्तिकथा। ८४ अ० राजनीतिकथनम् दुर्गादिकरणप्रकारः ८५ अ०। प्रजासु राजावृत्तिप्रकारः। नृपकर्त्तव्यदुर्गापूजाविशेष कालाः। तत्पूजाप्रकारः नीरजनप्रकारः। ८६ अ० पुष्याभिषेकप्रकारः ८७ अ० शक्रध्वजोत्थानविधिः। ८८ दशहरायां विष्णोरिष्टिप्रकारः। श्रीपञ्चम्यां लक्ष्मीपूजाविधिः बृद्ध्यर्थकाचारविशेषाः। द्वादशविधपुत्रविधिः। दत्तकादीनां ग्रहीत्रा संस्कारकरणे पुत्रत्वप्राप्तिः। पितृगोत्रेण संस्कारे गृहीतुः पुत्रत्वाभावः। ग्रहीवृगोत्रेण चूडादिसंस्काराभावे दासत्वम्, पञ्चमवर्षादूर्द्ध्वग्रहणे न पुत्रत्वसिद्धिः। पञ्चमवर्षीयग्रहणे तत्र पुत्रेष्टिविधानम्। दासीपुत्रे विशेषः। शूद्राणां पुराणादिवाचनेऽनधिकारः। वर्ज्य पुरोहितलक्षणम्। विशिष्य नृपकर्त्तव्याचारभेदः। आयुष्कामस्य कर्त्तव्याचारः ८९ अ०। अपुत्रस्य गतिर्नास्तीति नन्दिनौपदेशात् वेतालभैरवयोः पुत्रोत्पादनाभिलाषे जातेभैरवस्य उर्वश्याः सङ्गमे सुरेशनामपुत्रोत्पत्तिः। तपसा तस्यविद्याधराध्यक्षताप्राप्तिः। तस्य धृतराष्ट्रकन्यायां देवसेननामपुत्रोत्पत्तिः। ततः देवसेनादिवंशवर्ण्णनम्। तद्वंश्यविजयेन खाण्डवनस्य निर्म्माणम्। अर्ज्जुनेन वह्निप्रीत्यर्थं तस्य दाहनम्। ९० अ० वेतालस्य कामधेनौ वृषभरूपपुत्रोत्पादनम्। तस्व भृङ्गनाम्ना भृङ्गित्वेन शिववाहनताप्राप्तिः। तस्य वंशवर्ण्णनम्। वेतालबंशोद्भवा एव सर्वे गावैत्युक्तिः ततौपसंहारः”। इत्येते प्रधान भूताः पदार्थास्तत्रत्याः प्रसङ्गागताश्चान्येऽपि पदार्था अभिघेयाः सन्ति विस्तरभयान्नोक्ताः अत्रेटंचिन्त्यते ८९, ९० अ० वेतालभैरवयोर्विभिन्नवं शकथते स्थिते दतकचन्द्रिकादौ भैरवपुत्रस्यैव वेतालेन द्व्यामुष्मायणपुत्रकरणप्रतिपादकवाक्यानि यान्युद्धृतानि तानि निर्मूलानीत्यवगम्यते। पितुर्गोत्रेणेत्यादिवचनानां तत्र या निर्भूलत्वाशङ्का कृता सापि कालिकापुराणादर्शनमूलिकैव ८९ अ० तद्वचनानां प्रत्यक्षत उपलभ्यमानत्वात् इति। कालीपुराणमप्यत्र न०।

कालिकाव्रत = न० कालिकायाः प्रीत्यर्थं व्रतम्। पुराणोक्ते व्रतभेदे “शच्युवाच। “विधानं चास्य मे ब्रूहि कालिकाया व्रतस्य च। ममोपदिश्यतामेव तद्व्रतञ्च करोम्यहम्। तस्यास्तद्बचनं श्रुत्वा प्रत्युवाचाथ सा तदा। शुद्धकाले समारभ्य कृष्णपक्षे चतुर्द्दशीम्। संकल्प्य विधिना पूर्व्व ममावास्यां व्रतं चरेत्। समारभ्य गुणैकेन द्विगुणं परिशोधयेत्। न रात्रौ भोजनं कार्य्यं वामहस्ते भुजिक्रिया। सिद्धमन्नं रात्रिकाले दग्धमीनञ्च सर्व्वदा। वर्ज्जयेत् पिष्टकं किञ्चित् रक्तशाकञ्च चाम्लकम्। द्विषट्कां विप्रजायाञ्च सधवां भोजयेत्ततः। एवं क्रमेण कृत्वा तु कतिकालं नयेद्व्रतम्। ततः शुद्धदिने प्राप्ते भौमाहे मन्दवासरे। यथाशक्त्युपचारैश्च पूजां कुर्य्याद्विधानतः। तथापराह्णकाले तु सन्ध्योपसमये तथा। रात्रौ तु कदलीकाण्डे गृहं निर्माय प्राङ्गणे। तस्य मध्ये समारोप्य कालिकां पूजयेत् सदा। पाद्यार्घाचमनीयैश्च गन्धपुष्पादिभिस्तथा। धूपौर्दव्यप्रदीपैश्च नैवेद्यै र्विविधैस्तथा। पिष्टकं चैव सिन्धान्नं व्यञ्जनं दग्धमीनकम्। निवेद्य सकलं देव्यै बलिं दत्त्वा प्रणम्य च। तदन्नं व्यञ्जनं सर्व्वं नैवेद्यादि बलिं तथा। महारण्ये प्रदातव्यं कृत्वैतत् व्रतमुत्तमम्। वैणवे कदलीमूले या कुर्य्यात् कालिकाव्रतम्। कार्य्यसिद्धिर्भवेत् तस्या भविता गति रुत्तमा”!

कालिकाश्रम = न० ६ त०। मारतप्रसिद्धे विपाशानदीतीरस्थे तीर्थभेदे “कालिकाश्रममासाद्य विपाशायां कृतोदयः। ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भवात्” भा० आनु० २५ अ०।

कालिङ्ग = न० केन जर्लनालिङ्ग्यते आ + लिगि–कर्म्मणि घञ् ३ त०। (तरमुज) मध्यस्थजलके फलमेदे। “कालिन्दं कृष्णवीजं स्यात् कालिङ्गं च सुवर्त्तुलम्। कालिङ्गं ग्राहि दृक्पित्तशुक्रहृच्छीतलं गुरु। पक्वं तु सोष्णं सक्षारं पित्तलं कफवातजित्” भावप्र० तत्पर्थ्यायस्वरूप गुणादिकमुक्तम्। “कलिङ्गे भवः अण्। २ कलिङ्गदेशोद्भवे त्रि० स्त्रियां ङीप्। तद्देशानां राजा अण्। ३ कलिङ्गदेशनृपे। “प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः” रघुः “वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः। पाकलोमागधिकः कालिङ्गश्च क्षयं यान्ति” वृहत्सं०। “निर्वृत्तशत्रुं कालिङ्गं गान्धाराधिपतिं तथा” हरि० १११७ अ०। बहुषु तु अणोलुक्। कलिङ्गा इत्येव तद्राजेषु तद्वासिषु च भूम्नि। क्वचिन्न लुक्। “कारस्करान् माहिषकान् कालिङ्गान् केरलांस्तथा” भा० क० ४४ अ०। “कोशलाःकाशपौण्ड्राश्च कालिङ्गा मगधास्तथा” ४५ अ०। “कलिङ्गदेशमारभ्य पञ्चाष्टयोजनं शिवे!। दक्षिणस्यां महेशानि!। कालिङ्गः परिकीर्त्तितः” इति ३ उक्तदेशभेदे एतत्परतयैव प्रागुक्तभारतवाक्ये लुगभावो न कल्पनीयः। कं जलमालिङ्गति आ + लिगि–अण् उप० स०। ४ हस्तिनि ५ सर्पे च पुंस्त्री स्त्रियां जातित्वात् ङीष्। ६ भूमिकर्कारौ पु० मेदि०। “कालिङ्गोलिङ्गवान्यः स्याद्धनः सूक्ष्माङ्गकोमतः” इति सुखबोधोक्ते ७ लौहमेदे पु०। ८ राजकर्कट्यां स्त्री गौरा० ङीष मेदि०। स्वार्थे क अत इत्त्वम्। कालिङ्गिका त्रिवृति (तेओडी) राजनि०।

कालिदास = पु० ६ त० संज्ञायां ह्रस्वः। रघुवंशादिकाव्यकारके महाकविभेदे तद्वृत्तान्तकालादिकमुच्यते “इतः पूर्बं संवत्सरनामकशाकाब्दप्रवर्त्तको भारतवर्षे मालवदेशे उज्जयिनीनामराजधान्यामसीमगुणधाम विक्रमादित्यनामा नृपतिरासीत्। तस्य धन्वन्तरिप्रभृतयो नव कविवराः सभासदो बभूवुः। तेषु कालिदास एव प्रथितयशा महाकविरासीत्। तेन च रघुवंश–कुमारसम्भव–मेवदूतामिधं काव्यत्रयं, स्मृतिचन्द्रिकाभिध उत्कलदेशप्रचलितो वेदोक्तकर्म्मप्रतिपादकप्रबन्धो ज्योतिर्विदाभरणनामकं कालज्ञानशास्त्रं च क्रमेण निरमायि। अनन्तरञ्च मालविकाग्निमित्र–विक्रमोर्वशी–शाकुन्तलाभिधानि दृश्यकाव्याति प्रणीतानि। एतच्च तत्कृतज्योतिर्विदाभरणग्रन्थे शेषाध्याये स्पष्टमुपलभ्यते यथा“मत्तोऽधुना कृतिरियं सति मालवेन्द्रे श्रीविक्रमार्कनृपराजवरे समासीत्” इति। “धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कुर्वेतालभट्टघटस्व[क]र्परकालिदासाः। ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य”। “यद्राजधान्युज्जयिनी महापुरी सदा महाकालमहेशयोगिनी”। “शङ्क्वादिपण्डितवराः कवयस्त्वनेके ज्योतिर्विदः समभवंश्च वराहपूर्वाः। श्रीविक्रमस्य बुधसंसदि प्राज्यबुद्धेस्तैरप्यहं नयमखः किल कालिदासः”। “काव्यत्रयं सुमतिकृद् रघुवंशपूर्वं जातं यतो ननु कियच्छ्रुतिकर्म्मवादः। ज्योतिर्विदाभरणकालविधानशास्त्रं श्रीकालिदासकवितो हि ततो बभूव” इति “वर्षे सिन्धुरदर्शनाम्बरगुणैर्याते कलेः संमिते मासे माधवसंज्ञितेऽत्र विहितो ग्रन्थक्रियोपक्रमः।” इति च अनेन ३०६८ अष्टषष्ट्युत्तरत्रिसहस्रसंख्यके कलेरब्दवृन्दे याते तद्ग्रन्थकरणं सुव्यक्तम्। इदानीञ्च कलेर्गताब्दाः ४९७५ तेषुनिर्दिष्ट ३०६८ संख्ययोनितेषु १९०७ वर्षाः समायान्ति। तेन इतः १९०७ वर्षगणात् पूर्वं कालिदासकवितो ज्योतिर्विदाभरणं जातं ततः पूर्बं रघु वंशादिकमभूदिति प्रतिभाति। एतत् सन्दर्भैर्यद्यपि दृश्यकाव्यत्रयकरणं न प्रतीयते तथापि दृश्यकाव्यानां प्रागुक्तानां ज्योतिर्विदाभरणग्रन्वात् पश्चात् काले कालिदासकृतत्वेन न तेषां तत्र समुल्लेखः किन्तु तत्तद्ग्रन्थेष्वेव तत्कृतत्वं सुव्यक्तमेव। ऋतुसंहारनलोदययोर्यदि तत्कालिदासकृतत्वं तदा ततः पराचीनतया न तत्रोल्लेखः। कालिदासश्च कतममन्वयं कतमञ्चजनपदमलञ्चकार तन्नाकलयामः। किन्तु तस्य चरितविषयेऽस्मद्देशे भूयिष्ठप्रचारमेवमैतिह्यमस्ति। तदत्र सर्वत्र विज्ञापनाय प्रदर्श्यते। काचित् बिद्वत्तमा कन्या विवाहार्थं पित्रानीतान् बहून् पात्रभूतान् द्विजान् वादविचारेण पराजिग्ये। एवम् आगत्यागत्य तेस्याः सकाशात् विचारे पराजयमाप्त्वा प्रतिनिवृत्तेषु वरेषु तदुत्तरं पराजयभयेनेतरे वरा यदा नैवागन्तुमैच्छन् तदा तत्पित्रा विचाराभावेनैव आगतमात्राय पात्राय कन्या देयेति प्रतिज्ञाते पूर्वपूर्बवरानयने निष्फलप्रयत्नतया बहुधा खिन्ना जातेर्ष्या दूताः पुनर्वरानयनार्थं तत्पित्रा नोदिताः स्वावलम्बितशाखाच्छेदितया कालिदासमल्पबुद्धिमवेत्य तत्कन्याया वरत्वेनावधार्य्या निन्युः। आनीताय च तस्मै अविचार्य्य तद्दोषगुणौ तत्पिता तां कन्यां प्रायच्छत्। एवं तस्य विवाहे संवृत्ते दम्पत्योः परस्परालापकाले कालिदासेनापभ्रंशशब्दमात्राभिज्ञेनापभ्रंशशब्दः प्रायोजि। तत् श्रुत्वा च तद्भार्य्या तमत्यन्तं तिरस्कृत्य गृहात् निष्कासयामास। एवं पत्न्या निष्कासितः कालिदासोऽतीव निर्वेदमापद्यारण्यं गत्वा सरस्वतीमाराध्य तत्प्रसादात् लब्धविद्यः गृहं प्रति निववृते। आगत्य च रात्रौ गृहद्वारं रुद्धं विलोक्य तेन स्वपत्नीं प्रति (अनावृतकपाटं द्वारं देहि) इत्यभिहितम् तत् श्रुत्वा च स्वरविशेषेण तंस्वपतिमवगत्य कालिदासपत्न्याऽनुयुक्तम् (अस्ति कश्चित् वाग्विशेषः) इति इत्येवं पत्न्या कृते वाग्विशेषास्तित्वप्रश्ने तद्वाक्यं पदत्रयघटितमिति कृत्वा तत्रस्थमेकैकं पदमधिकृत्य तेन एकैकं काव्यं विरचितम्। तत्र तद्वाक्यस्थम् अस्तीति प्रथमं पदमधिकृत्य “अस्त्युत्तरस्याम्” इत्यादि सप्तदशसर्गात्मकं कुमारसम्भवाख्यं महाकाव्यम्, कश्चिदिति द्वितीयं पदमधिकृत्य “कश्चित् कान्ताविरहगुरुणा” इत्यादिकं मेघदूताख्यं खण्डकाव्यम्, “वाग्विशेषः” इति तृतीये पदे तदेकदेशं वागिति पदमधिकृत्य “वागर्थाविव संपृक्तौ” इत्यादिकमूनविंशतिसर्गात्मकं रघुवंशाख्यं महाकाव्यञ्च तेन क्रमशो रचितम्। तद्रचनया च कालिदासः सर्वत्र प्रथितसुकवितया प्रख्यातिमुपलभ्य क्रमेण विक्रमादित्यस्य सभासदताम् आससादेति। मालविकाग्निमित्रस्य तत्कृतत्वविषये केचित् सन्दिहाना एवमाहुः। कालिदासाह्वयास्त्रयः कवय आसन् तत्र एको विक्रमादित्यसभ्यः, अपरो भोजदेवसभ्यः अपरो भामिनीविलासकर्त्ता जगन्नाथमिश्रः अभिनवकालिदासाख्यः। तेषां मध्येप्राचीनकालिदासस्य नैषा कृतिः शाकुन्तलस्येव तत्र वाग्वैदर्भीविरहादित्यन्यस्येवैषा कृतिरिति। तत्र मालविकाग्निमित्रस्य प्राचीनकालिदासकृतित्वाभावे तदीयसन्दर्भस्य भोजदेवपिवृव्यसभासदध्वनिकेन दशरूपके कथन्तरां मालवाग्निमित्रनामत्वेन समुद्वारः सङ्गच्छते। भोजदेवात्तस्य प्राचीनत्वे एव तदुद्धारः सङ्गच्छते नान्यथा भोजदेवेन च सरस्वतीकण्ठाभरणे ग्रन्थनामादत्त्वैव मालवाग्निमित्रनाटकपद्यस्य समुद्धाराच्च तद्ग्रन्थस्य ततः प्राचीनकालिदासकृतित्वम् नान्यकृतितेति निश्चेतव्यम्। किञ्च श्रीहर्षदेवनृपतेः सभ्यस्य रत्नाबल्यादिकारकस्य धावकस्यैव ततः प्राचीननाटककर्त्तृत्वेन तद्ग्रन्थोपोद्घाते तस्य नामोल्लेखात् प्राचीनस्यैव कालिदासस्य तत्कर्त्तृत्वं सुव्यक्तम्। भोजदेवसभ्यकालिदासस्य तत्कर्त्तृत्वे ततः प्राचीनाभिज्ञानशकुन्तलादिकर्त्तृनामकीर्त्तनस्यैवीचितत्वेन किमिति तदुपेक्ष्यातिविप्रकृष्टधावकादिनामोत्कीर्त्तनम्? सन्निकृष्टं परित्यज्य विप्रकृष्टग्रहणस्यान्याय्यत्वात्। प्राचीनकालिदासस्य मालविकाग्निग्रन्थकर्त्रपेक्षया प्राचीनत्वेन प्रथितयशस्कत्वेन च तन्नामोल्लेखस्यैवोचितत्वात्। भोजदेवसभ्यकालिदासश्च भोजदेवकालिकः तदेतत् भोजप्रबन्धे वर्ण्णितं यथा “भवन्नाम्ना कान्यक्षराणि सौभाग्यावलम्बितानि कस्य वा देशस्य भवद्विरहः सुजनान् बाधत इति। ततः कविर्लिखति राज्ञीहस्ते कालिदास इति राजा वाचयित्वा पादयोः पतति ततस्तत्रासीनयोः कालिदासभोजराजयोरासीत् सन्ध्या”। “यस्याश्चोरश्चिकुरनिकरः कालिदासोविलासः” प्रशन्नरा०। “उपमा कालिदासस्य भारवेरर्थगौरवम्। नैषधे पदलालित्यं माघे सन्ति त्रयोगुणाः”। “कालिदासकविता नवं वयः” इति च उद्भटः। स्वार्थे क तत्रैव।

***