कालक = न० काल–स्वार्थे क कलयति रक्ततां कल–नोदने ण्वुल् वा। १ कालशाके भावप्र० तस्य कृष्णवर्णत्वात् तथात्वम्। २ यकृति हेमच०। निखिलदेहरक्तप्रेरकत्वात् तस्य तथात्वम्। यथोक्तं भावप्र०। “यदा रसो यकृत् याति तत्र रञ्जकपित्ततः। रागं पाकंच संप्राप्य स भवेद्रक्तसंज्ञकः”। “यकृत् प्लीहा च रक्तस्य मुख्यस्थानं तयोः स्थितम्। अन्यत्र संस्थितवतां रक्तानां पोषकं भवेत्” इति च। देहस्थे कृष्णवर्णे (जडुल) ३ चिह्नभेदे जतुके पु० अमरः ४ अलगर्द्धे जलव्याले (कालढोडा) सर्पे पु० स्त्री शब्दर०। अनित्ये वर्णे तेन रक्ते चार्थे “कालाच्च” प० कन्। कालक कालवर्णेन रक्ते ५ पटादौ त्रि० तस्य वर्णस्यानित्यत्वात् रागेण रक्ततयाऽनित्यत्वाच्च तथात्वम्। स्त्रियां टाप्। “कालिका शाटी” सि० कौ०। वीजगणितोक्ते ६ अव्यक्तराशिसं ज्ञाभेदे पु० अव्यक्तशब्दे ४६७ पृ० विवृतिः।
कालकचु = स्त्री नि० वर्म्म०। कृष्णवर्णे कचुभेदे शब्दचि०।
कालकञ्ज = न० नि० कर्म०। १ नीलपद्मे। २ दानवभेदे पु०। “पौलोमैः कालकञ्जैश्च हृष्टपुष्टैरधिष्ठितम्” भा० व० १७३ अ०
कालकटङ्कट = पु० कालरूपः कटङ्कटः। शिवे। “वैणवी पटवी ताली खली कालकटङ्कटः” भा० आनु० १७ अ० शिवस्तवे।
कालकण्टक = पु० स्त्री कालः कृष्णः कण्टकोऽस्य। २ कृष्णकण्टकयुक्ते त्रि० दात्यूहे (डाक) पक्षिभेदे अमरः स्त्रियां जातित्वात् ङीष्। ३ पीतसारे वृक्षे मेदि०।
कालकण्ठ = पु० कालः कण्ठोऽस्य विषपानात्। १ शिवे स हि अमृतमन्थनकाले उत्थितविषपानात् कालकण्ठो जातः तत्कथा भाग० ८। ७ अ० यथा। “ततः स कवलीकृत्य व्यापि हालाहलं विषम्। अभक्षयन्महादेवः कृपया भूतभावनः। तस्यापि दर्शयामास स्वाभाव्यं जलकल्मषः। यच्चकार गले नीलं तच्च साधोर्विभूषणम्।” २ मयूरे ३ दात्यूहे ४ खञ्जने च पक्षिभेदे त्रिका० स्त्रियां जातित्वात् ङीष्। तेषां कृष्णवर्णत्वात् तथात्वम्। वा कप्। दात्यूहे पु० स्त्री
कालकन्दक = पुंस्त्री कालः कन्द इव कायति कै–क। कालढोडा) जलसर्पे। स्त्रियां जातित्वात् ङीष्।
कालकर्ण्णी = स्त्री कालः कर्ण्णोऽस्याः ङीप्। अलक्ष्मीभेदे “अलक्ष्मीः कालकर्ण्णी च” पुरा०। स्वार्थेक ह्रस्वः। कालकर्णिका तत्रार्थे हेम०। अलक्ष्मीशब्देऽनुक्तस्तदुत्पत्त्यादिरत्राभिधीयते पाद्मे उत्तरखण्डे देवीं प्रति शिववाक्यम्।
“मां प्रणम्य पुनर्देवा ममन्थुः क्षीरसागरम्। तस्मिन् प्रमथ्यमाने तु मया देवैश्च भाविनि!। ज्येष्ठा देवी समुत्पन्ना रक्तस्रग्वाससावृता। उत्पन्ना साऽब्रवीद्देवान् किंकर्त्तव्यं? मयेति वै। तामब्रुवंस्तदा देवीं सर्व्वे देवगणा स्तदा। येषां गृहान्तरे नित्यं कलहं संप्रवर्त्तते। तत्ते स्थानं प्रयच्छामो वासस्तत्र शुभानने!। यस्य गेहं कपालास्थिभस्मकेशादिचिह्नितम्। परुषं भाषते नित्यं वसन्त्यनृतवादिनः। सन्ध्याकाले च ये पापाः स्वपन्ति मलचेतसः। तेषां वेश्मनि संतिष्ठ दुःखदारिद्र्यदायिनी। कपालकेशभस्मास्थितुषाङ्गाराणि यत्र तु। तत्र ते सततं स्थानं भविष्यति न संशयः। अकृत्वा पादयोःशौचं यस्त्वाचामति दुर्म्मतिः। तं भजस्व सदा देवि! कलुषेणावृता भृशम्। तृणाङ्गारकपालाश्मबालुकायसचर्म्मभिः। दन्तधावन कर्त्तारो सविष्यन्ति नराधमाः। रमस्वकलिना देवि! तेषां वेश्मसु नित्यशः। तिलपिष्टञ्च नक्तञ्च कालिङ्गशिग्रुगृञ्जनम्। छत्राकं विड्वराहञ्च विल्वकोषातकीफलम्। अलाबूं (वर्त्तुलार) श्रीफलं येवै स्वादयन्ति नराधमाः। तेषां गृहे तव स्थान देवि! दारिद्र्यदे! सदा। इत्यादिश्य सुराः सर्वे ते ज्येष्ठां कलिवल्लभाम्”। तस्या उद्दालकमुनिना सह विवाहादिकथा च पाद्मे १६१ अ०।
“समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः। श्रेष्ठञ्च कौस्तुभं तेषु विष्णवे प्रददुः सुराः। यावदङ्गीचकारासौ लक्ष्मीं भार्य्यार्थमात्मनः। तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम्। लक्ष्मीरुवाच। असंस्कृत्य कथं ज्येष्ठां कनिष्ठा परिणीयते। तस्मान्ममाग्रजामेतामलक्ष्मीं मधु- सूदन!। विवाह्योद्वह मां पश्चादेष धर्म्मः सनातनः तस्मात् धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन!। इति तद्दचनं श्रुत्वा स विष्णुर्लोकभावनः। उद्दालकाय मुनये सुदीर्ध तपसे तदा। आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल। स्थूलोष्ठीं शुष्कवदनां विरूपां बिभ्रतीं तनुम्। स्रवदारक्तनयनां रूक्षपक्वशिरोरुहाम्। स मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमम्। वेदध्वनिसमायुक्तमानयामास धर्म्मवित्। होमधूपसुगन्धाद्यं वेदधोषेण नादितम्। आश्रमं तं विलोक्याथ व्यथिता साऽब्रवोदिदम्। ज्यैष्ठोवाच। न हि वासोनुरूपोऽयं वेदध्वनियुतो मम। नात्रागमिष्ये भो ब्रह्मन्! नयस्वान्यत्र मां ध्रुवम्। उद्दालक उवाच। कथं नायासि किञ्चात्र? वर्त्तते स्वमतं तव। तवयोग्या च वसतिः का भवेत्तद्वदस्व माम्। ज्येष्ठोवाच। वेदध्वनिर्भवेद् यस्मिन्नतिथीनाञ्च पूजनम्। यज्ञदानादिकं यत्र नैव, तत्र वसाम्यहम्। परस्परानुरागेण दाम्पत्यं यत्र विद्यते। पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहम्। दानशौचे न विद्येते परद्रव्यापहारिणः। परदाररता यत्र तत्र स्थाने रतिर्मम। वृद्धसज्जनविप्राणां यत्र स्यादवमाननम्। निष्ठुरं भाषणं यत्र तत्र सम्यग्वसाम्यहम्। सूत उवाच। इति तद्वचनं श्रुत्रा विषण्ण वदनोऽभवत्। उद्दालकस्ततोवाक्यं तामलक्ष्मीमुवाच ह। उद्दालक उवाच। अश्वत्थवृक्षमूलेऽस्मिन् अलक्ष्मि! श्रम्यतां क्षणम्। आश्रमस्थानमालोक्य यावदायार्म्यहं पुनः। सूत उवाच। इति तां तत्र संस्थाप्य जागामोद्दालको मुनिः। प्रतीक्षन्ती चिरं तत्र यदा न तं ददर्श सा। तदा रुरोद करुणं भर्त्तुस्त्यागेन दुःखिता। तत्तस्याः क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत्। तदा विज्ञापयामास विष्णुमुद्विग्नमानसा। लक्ष्मीस्ववाच। स्वामिन्! मद्भगिनी ज्येष्ठा स्वामित्यागेन दुःखिता। तामाश्वासयितुं याहिकृपालो! यद्यहं प्रिया। सूत उवाच। लक्ष्म्या सहततो विष्णुस्तत्रागात् कृपयान्वितः। आश्वासयन्न लक्ष्मीं तामिदं वाक्यमथाब्रवीत्। विष्णुरुवाच। अश्वत्थ वृक्षमासाद्य सदाऽलक्ष्मि! स्थिरा भव। ममांशसम्भवो ह्येष आवासस्ते सया कृतः। मन्दवारे सदा नूनं लक्ष्मी रत्रागमिष्यति। अस्पृश्योऽसौ भवेत्तस्मात् मन्दवारं विना किल”।
दीपान्वितामावस्यायां तत्पूजाविधानं मन्त्रलिङ्गात् यथा “अलक्ष्मीस्त्वं कुरूपासि कुत्सितस्थानवासिनि!। सुखरात्रौ मया दत्तां गृह्ण पूजाञ्च शाश्वतीम्। दारिद्र्य कलहप्रिये देवि! त्वं धननाशिनी। याहि शत्रोगृऽहं नित्यं स्थिरा तत्र भविष्यसि। यदि त्वं मे महाभागे! प्रीता भवसि सर्व्वदा। पुत्रबन्धुकलत्रेषु कदाचिन्ना गमिष्यसि। गच्छत्वं मन्दिरं शत्रोर्गृहीत्वा चाशुभं मम। मदाश्रयं परित्यज्य स्थिता तत्र भविष्यसि”। किञ्च। “एवं गते निशीथे तु नारीभिः स्वगृहाङ्गनात्। अलक्ष्मीश्च वहिष्कार्य्या अमन्त्रञ्च यथाविधि” इति कृत्यतत्त्वार्णवधृत ब्रह्मपुराणम्। “एवं गते निशीथे तु जने निद्रार्द्धलोचने। तावन्नगरनारीभिः शूर्पडिण्डिमवादनैः। निष्कास्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गनात्” इति मदनरत्नधृतञ्च। “ग्रहकुष्माण्डखेटाद्याः कालकर्णीशिशुग्रहाः” काशी०
कालकवृक्षीय = पु० कालकोवृक्षो यत्र देशे तत्र भवः “वृद्धाच्छ पा० छ। वायसविद्याभिज्ञे ऋषिभेदे। तत्कथा च भा० शा० ८२ अ० “कोशलानामाधिपत्यं सम्प्राप्तं क्षेमदर्शिनम्। मुनिः कालकवृक्षीय आजगामेति नः श्रुतम्। सकाकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः। सर्व्वं पर्य्यचरद्युक्तः प्रवृत्त्यर्थी पुनपुनः। अधीध्वं वायसीं विद्या शंसन्ति मम वायसाः। अनागतमतीतञ्च यच्च सम्प्रति वर्त्तते” इत्युपक्रम्य दर्शिता। “क्षेमदर्शी नृपसुतौ यत्र क्षीणबलः पुरा। मुनिं कालकवृक्षीयमाजगामेति नः श्रुतम्” त्तत्रैव १०४ अ०। “मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्मय” भा० स० ७ अ०
कालकस्तूरी = स्त्री नि० स०। कस्तूरोभेदे शब्दचि०।
कालका = स्त्री कालेव क बा० नेत्त्वम्। दक्षकन्याभेदे जटा०। तस्या अपत्यं ढक्। कालकेय असुरभेदे कालकेयशब्दे उदा०।
कालकाल = पु० कालमपि कालयति प्रेरयति स्वकर्म्मणि कल–नोदने अण्। परमेश्वरे कालशब्दे दर्शितकालमाधवीयग्रन्थे उदा०।
कालकीट = पु० कालः कीटोऽत्र। १ देशभेदे तत्र भवः पलद्या० अण्। कालकीट २ तद्देशभवे त्रि०।
कालकीर्त्ति = पू० चन्द्रहन्त्रसुरांशसम्भूते भारतप्रसिद्धे नृप भेदे। “कालकोर्त्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः। चन्द्रहन्तेति यस्त्वे ष कीर्त्तितः प्रवरोऽसुरः” भा० आ० १७ अ०
कालकील = पु० कालं तज्ज्ञानं कोलयति कील–अण् उप० स०। कोलाहले शब्दरत्ना० कोलाहलस्य कालरूपपरमेश्वरज्ञानविरोधित्वात्तथात्वम्।
कालकुण्ठ = पु० कालेन कुण्ठ्यते कुण्ठ–कर्म्मणि घञ्। यम- राजे शब्दमा०। “भीषास्माद्वातः पवते–मृत्युर्धावति पञ्चमः” इति श्रुत्युक्तेः ईश्वरभियैव यमादिभिः स्वस्वकार्य्याणां करणात्तस्य तत्कुण्ठितत्वात् तस्य तथात्वम्।
कालकुष्ठ = न० नि० कर्म०। कङ्कुष्ठे पर्व्वतीयमृत्तिकाभेदे राजनि०
कालकूट = न०। कालं शिवमपि कूटयति कूट–उपतापे अण् उप० स०, कालस्य मृत्योः कूटैव वा कालबर्ण्णस्य कूटैव वा। १ विषभेदे पु० न०। विषभेदकालकूटलक्षणगुणाद्युक्तं भावप्रकाशे यथा “विषं तु गरलः क्ष्वेडस्तस्य भेदानुदाहरे। वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः। सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च। हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव” इति विभज्य “देवासुररणे देवैर्हतस्य पृथुमालिनः। दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः। निर्याअः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः। सहि क्षेत्रे शृङ्गवेरे कोङ्कणेमलये भवेत्” इति लक्षितम्।
विषशोधनस्य विधानादिकं तत्रैवोक्तं यथा“गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्यति। रक्त सर्षपतैलाक्ते तथा धार्य्यञ्च वाससि। ये गुणा गरले प्रोक्तास्ते स्युर्हीनविशोधनात्। तस्माद्विषंप्रयोगे तु शोधयित्वा प्रयोजयेत्”। शोधितविषगुणाः तत्रैव।
“विषं प्राणहरं प्रोक्त व्यवायि च विकाशि च। आग्नेयं वातकफहृत् योगवाहि तमोवहम्। व्यवायि सकलकायगुणव्यापनपूर्व्वकपाकस्थानगमनशीलम्। विकाशि अओजःशोषणपूर्व्वकसन्धिबन्धशिथिलीकरणशीलम्। आग्नेयम् अधिकाग्न्यंशम्। योगवाहि सङ्गिगुणग्राहकम्। तमोवहं तमोगुणप्राधान्येन बुद्धिविध्वंसकम्। “तदेव युक्तियुक्तन्तु प्राणदायि रसायनम्। योगवाहि परं वातश्लेष्मजित्सन्निपातहृत्”। २ काके पु० स्त्री राज०। अतिकृष्णत्वात्मृत्योर्दूतरूपत्वाद्वा तस्य तथात्वम् स्त्रियां जातित्वात् ङीष्। ३ विषमात्रे च। “कालिमा कालकूटस्य नापैति हरसङ्गमात्”। “ततोदुर्य्योधनः पापः तद्भक्ष्ये कालकूटकम्। क्षिप्रं प्रक्षेपयामास भीमसेनजिघांसया” भा० आ० ५००८ श्लोकः।
कालकूटि = त्रि० कालकूटे भवः इञ्! कालकूटभवे।
कालकृत् = पु० कालं कालमानं करोति स्वगत्या कृ–क्विप् ६ त०। सूर्य्ये तद्गत्या हि क्षणदण्डादिव्यवहारस्य कृतत्वात्तस्य तथात्वम् २ परमेश्वरे च “कालात्मा कालकृद्विभुः” सू० सि०
कालकृत = पु० कालः कृतोयेन। १ सूर्य्ये शब्दरत्ना० कालोऽवधिरूपः कृतो यस्य। कृतावधिके २ आधिभेदे। “काले कालकृवोनश्येत् फलभोग्योन नश्यति” याज्ञ०। ३ त०। ३ कालेन कृते “सर्व्वं कालकृतं मन्ये कालो हि बलवत्तरः” पुरा०।
कालकेय = पु० कालकायाः अपत्यम् ढक्। दानवभेदे तत्कथा यथा “पुरा कृतयुगे घोरा दानवा युद्धदुर्मदाः। कालकेया इति ख्याता गणाः परमदारुणाः” इति भा० व० १०१ अ० इत्युपक्रम्य प्रधानभूतस्य वृत्तस्य बधे तेषां समुद्रदुर्गाश्रयणं रात्रौ च नानामुन्याश्रमहिंसा दिवा पुनः समुद्रप्रवेशो वर्णितः पश्चात् विष्णोरादेशेनागस्त्यमुनिना तेषां समुद्ररूपस्य दुर्गस्य शोषणे कृते देवैस्ते नाशितास्तदवशिष्टाश्च “कालेकेयाये केचित् हिरण्यपुरवासिनस्ते अर्ज्जुनेन निहताः इत्युक्तम् हरिवं० १०३ अ० यथा “चतुर्द्दश शतान्यन्यान् हिरण्यपुरवासिनः” इत्युपक्रम्य १०५ अ० तत्रैव “मरीचिर्जनयासास महता तपसान्वितः। पौलोमान् कालकेयांश्च दानवास्ते महाबलाः। अबध्यादेवतानाञ्च हिरण्यपुरवासिनः। कृताः पितामहेनाजौ निहताः सव्यसाचिना”। कालाया अपत्यम् ढक्। कालेयोऽप्यत्र उदा० तत्रैव।
कालकेशी = स्त्री कालः केश इव पत्रादिर्यस्याः गौरा० ङीष्। नील्यामोषधौ शब्दचि० २ कृष्णकेशयुक्तस्त्रियाञ्च।
कालक्षेप = पु० कालस्यक्षेपः क्षेपणम्। १ कर्त्तव्यकर्म्मकाललङ्घने २ कालयापने च।
कालखञ्ज = पु० दानवभेदे “संह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः” भा० स० ९ अ० वरुणसभ्यकीर्त्तने।
कालखञ्जन = न० कालेन खञ्जति खजि–ल्यु। यकृति हृदयस्थे रक्ताधारस्थाने हेमच०।
कालखण्ड = न० कालं कृष्णं खण्डम्। दक्षिणकुक्षिस्थे मांसखण्डे अमरः। हेमाद्रिधृते कालप्रतिपादके ग्रन्थभेदे च।
कालगङ्गा = स्त्री कालो गङ्गा नदी। यमुनायां शब्दचि० तस्या नदीषु कृष्णत्वात्तथात्वम्।
कालगन्ध = पु० कालः कृष्णोगन्धो न्धवदुद्रव्यम्। १ कालागुरुणि शब्दचि०। कालस्य गन्धोलेशः। २ काललेशे कालकलायां च। ३ कालचन्दने शब्दचि०।
कालग्रन्थि = पु० कालस्य ग्रन्थिरिव। संवत्सरे हारा०।
कालघट = पु० जनमेजयसर्पसत्रे आर्त्त्विज्यकारके ब्राह्मणविशेषे “आत्रेयः कुण्डजठरोद्विजः कालघटस्तथा” भा० आ० ५३ अ०।
कालङ्कृत = पु० ईषदलङ्कृतः कोः का। (कालकासे~दा) वृक्षभेदे रत्नमा०।
कालचक्र = न० कालस्य कालगतेश्चक्रमिव। हेमच० उक्ते द्वादशारे १ कालचक्रभेदे। (उत्सर्पिन्) शब्दे ११३ पृ० विवृतिः। कालश्चक्रमिवानिशं परिवर्त्तमानत्वात्। विष्णुपुराणाद्युक्ते ज्योतिश्चक्राधिष्ठिते चक्रवत्परिवर्त्तमाने २ काले। “यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेपूपलभ्यमानत्वात् एवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुञ्च दक्षिणतः परिधावता सह परिधावमानानां तदाश्रयाणां सूर्य्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात्”। भाग० ५ २२ ९श्लो। भा० व० १६३ अ० कलाकाष्ठादिविभागमुक्ता “एवमेष चरन् पार्थ! कालचक्रमतन्त्रितः। वर्द्धयन् सुमहातेजाः सविता परिवर्त्तते” प्रपञ्चस्तु विष्णुपुराणे यथा
“पराशर उवाच। व्याख्यातमेतद्ब्रह्माण्डसंस्थानं तव सुव्रत!। ततः प्रमाणसंस्थाने सूर्य्यादीनां शृणुष्व मे। योजनानां सहस्राणि द्वितीयोऽक्षो विवस्वतः। ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम!। सार्द्धकोटिस्तथा सप्तनियुतान्यधिकानि वै। योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम्। त्रिनाभिमति सञ्चारे षण्णेमिन्यक्षयात्मके। संवत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम्। चत्वारिंशत् सहस्राणि द्वितीयोऽक्षो विवस्वतः। पञ्चाप्यन्यानि सार्द्धानि स्यन्दनस्य महामते!। अक्षप्रमाणमुभयोः प्रमाणं तदुयुगार्द्धयोः। ह्रस्वोऽक्षस्तत्युगार्द्धञ्च ध्रुवाधाररथस्य वै। द्वितीयेऽक्षे तु तच्चक्रं स्थितं वै मानसाचले। हयाश्च सप्त छन्दांसि तेषां नामानि मे शृणु। गायत्री च वृहत्युष्णिग्जगती त्रिष्टुबेव च। अनुष्टुप् पङ्क्तिरित्येताश्छन्दांसि हरयो रवेः। मानसोत्तरशैले तु पूर्व्वतो वासवी पुरी! दक्षिणेन यमस्यान्या प्रतीच्यां वरुणस्य वै। उत्तरेण तु सोमस्य तासां नामानि मे शृणु। वस्वेकसारा शक्रस्य, याम्या संयमनी स्मृता। पुरी सुखा जलेशस्य, सोमस्य तु विभावरी। काष्ठाङ्गतो दक्षिणतः क्षिप्तेषुरिव भच्छति। नैत्रेय! भगवान् भानुज्योर्तिषां चक्रसं युतः। अहोरात्रव्यवस्थानकारणं भगवान् रविः। देवयानपरः पन्थायोगिनां क्लेशसंक्षये। दिवसस्य रविर्भध्ये सर्व्वकालं व्यवस्थितः। सर्व्व द्वीपेषु मैत्रेय! निशार्द्धस्य च सम्मुखः। उदयास्तमनञ्चैव सर्व्वकालञ्च सम्मुखे। दिशासु शेषासु तथा मैत्रेय! विदिशासु च। यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः। तिरोभावञ्च यत्रैति यत्र च स्तमनं रवेः। नैवाष्तमनमर्कस्य नोदयः सर्व्वदा मतः। उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः। शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम्। विकर्णौ द्वौ विकर्णस्थस्त्रील्लो~कान् द्वे पुरे तथा। उदितोवर्द्धमानाभिरामध्याह्नात्तपन्रविः। ततःपरं हृसन्तीभिर्गोभिरस्त नियच्छति। उदयास्तमनाभ्याञ्च स्मृतं पूर्व्वापरे दिशौ। यावत् पुरस्तात्तपति तावत् पृष्ठे च पार्श्वतः। ऋतेऽमरासुरैर्मेरोरुपरि ब्रह्मणः सभा। ये ये मरीचयोऽर्कस्य प्रयान्ति ब्रह्मणः सभाम्। ते ते निरस्तास्तद्भासा प्रतीपम्युयान्ति वै। तस्यां दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि। सर्व्वेषां द्वीपर्षाणां मेरुरुत्तरतो यतः। प्रभा विवस्वतो रात्रावस्तङ्गच्छति भास्करे। विशत्यग्निमतोरात्रौ वह्निरेकः प्रकाशते। वह्निपादस्तथा भानुं दिनेष्वाविशति द्विज!। अतीव वह्निसंयोगादतः सूर्य्यः प्रकाशते। तेजसी भास्कराग्नेये प्रकाशोष्ण स्वरूपिणी। परस्परानुप्रवेशादापाय्येते दिवानिशम्। दक्षिणोत्तरभूम्यर्द्धे समुत्तिष्ठति भास्करे। आताम्राहि भवन्त्यापोनक्तमह्नः प्रवेशनात्। दिनं विशति चैवाम्भो भास्करेऽस्तमुपागते। तस्माच्छुक्लीभवन्त्यापो नक्तमह्नः प्रवेशनात्। एवं पुष्करमध्येन यदा याति दिवाकरः। त्रिंशद्भागास्तु मेदिन्यास्तदा मौहूर्त्तिकी गतिः। कुलाल चक्रपर्य्यस्तो भ्रमन्नेव दिवाकरः। करोत्यतस्तदा रात्रिं बिमुञ्चन्मेदिनीं द्विज!। अयनस्योत्त्रस्यादौ मकरं याति भास्करः। ततः कुम्भञ्च मीनञ्च राशे राश्यन्तरं द्विज!। तेषुतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम्। प्रयाति सविता कुर्व्वन्नहोरात्रं ततः समम्। ततोरात्रिक्षयं याति वर्द्धते च दिनं दिनम्। ततश्च मिथुनस्यान्ते परं काष्ठामुपागतः। राशिं कर्क्कटकं प्राप्य कुरुते दक्षिणायनम्। कुलालचक्रपर्य्यस्तो यथा शीघ्रं प्रवर्त्तते। दक्षिणे प्रकेअमे सूर्य्यस्तथा शीघ्रं प्रवर्त्तते। अतिवेगित या कालं वायुम र्गवशाच्चलन्। तस्मात् प्रकृष्टां भूमिञ्च कालेनान्येन गच्छति। सूर्य्योद्वाढशभिःशैघ्य्रान्मुहूर्त्तैर्दक्षिणायने। त्रयोदशार्द्धमृक्षाणामह्नाचरति वै द्विज!। मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन्। कुलालचकमध्यस्थो यथा मन्दं प्रसर्पति। तथोदगयने सूर्य्यः सर्पते मन्दविक्रमः। तस्म द्दीर्घेण कालेन सूमिमल्पन्तु गच्छति। अष्टादशमुहूर्त्तं यदुत्तरायणपश्चिमम्। अहर्भवति तच्चाभिचरते मन्दविक्रमः। त्रयोदशार्द्ध मह्रा तु ऋक्षाणां चरते रविः। मुहूर्त्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन्। अधोमन्दतरं नाभ्यां चक्रं भ्रमति वै यथा, मृत्पिण्डवच्चक्रमध्ये ध्रुवो भवति वै तथा। कलालचक्रनाभिस्तु यथा तत्रैव वर्त्तते। ध्रुवस्तथाहि मैत्रेय! तथैव परिवर्त्तते। उभयोः काष्ठयोर्मध्ये भ्रमतोर्मण्डलानि तु। दिवा नक्तञ्च सूर्य्यस्य मन्दा शीघ्रा च वै गतिः। मन्दाह्नि यस्मिन्नयते शीघ्रा नक्तं तदा गतिः। शीघ्रा निशि यदा सा च तदा मन्दा दिवा गतिः। एवं प्रमाणेनैवैष मार्गं याति दिवाकरः। अहोरात्रेण योभऽङ्क्ते समस्ता राशयो द्विज। षडेवराशीन्यो भुङ्क्तेरात्रावच्यांश्च षड्दिवा। राशिप्रमाणजनिता ह्रस्वदीर्घान्विता द्विज!। तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता। दिनादेर्दीर्घह्रस्वत्वं तद्भोगेनैअ जायते। उत्तमे प्रक्रमे शर्थ्रा निशि मन्दा गतिर्दिवा। दक्षिणे त्वयने चैव विपरीता विवस्वतः।” नरपतिजयचर्य्योक्ते चतुरशीतिचक्रभध्ये ३ चक्रभेदे तत्स्वरूपं चक्रशब्दे वक्ष्यते। दानार्थकल्पिते हेमा० दा० उक्ते रजतमये ४ चक्रमेदे यथा
“चक्र रौप्यमयं कृत्वा मुक्तारश्मिमयात्मकम्। कृत्वा मूर्द्ध्निशरच्चन्द्ररश्मिमध्यान्तरस्थितम्। त्वङ्मांसानि तु रौप्याणि गात्रेषु च समन्ततः। एवं ध्यानवतस्तस्त स चन्द्रः कृष्णतां व्रजेत्। ततोऽप्यनन्तरं पश्चात् स्थित्वा विप्रप्रदक्षिणम्। तं गृहीत्वा व्रजेद्दूरमदृष्टत्वमपि व्रजेत्। स्वयञ्चामृतसंवाघतपूर्णकायस्थितिस्थितः। कालचक्रमिदं नाम्रा दानं मृत्युविनाशनम्। इदन्ते राजतं चक्रं रश्मिजालसमाकुलम्। अपनृत्युविनाशाय ददामीति समुच्चरन्। सुवर्णं दक्षिणायुक्तं ब्राह्मणाय निवेदयेत्। एवं कृते विनश्येत अपमृत्युर्न संशयः। ततस्तस्मात्सदा देयमपमृत्युभयान्वितैः। ज्वरादिरोगग्रस्तैर्वा महापत्पतितैरपि। ततो गृह्योक्तविधिना स्थापयेज्जातवेदसम्। जुहुयात् कालनाम्ना तु शतमष्टोत्तरन्तिलैः। ततस्तु भोजयेद्भक्त्या विप्रान् द्वादशसंख्यया। स्वयमक्षारलवणं भुञ्जीत सकृदेव हि। एवं कृते नरीनूनं चिरं जीवेन्न संशयः” रव्यादिवारे नक्षत्रयोगभेदात् ५ दण्डभेदे कालदण्डशब्दे विवृतिः।
कालचिन्तक = पु० कालं चिन्तयति विचारयति चिन्ति–ण्वुल्। ज्योतिर्विदि दैवज्ञे।
कालचिह्न = न० कालस्य मृत्योर्ज्ञापकं चिह्नम्। मृत्युज्ञापके लक्षणभेदे। तल्लक्षणमुक्तं काशीख० ४१ अ० यथा
“वदामि कालचिह्नानि जायन्ते यानि देहिनाम्। मृत्यौ निकटमापन्ने मुने! तानि निशामय। दक्षनासा पुटे यस्य वायुर्वाति दिबानिशम्। अखण्डमेकं तस्यायुः क्षयत्यब्दत्रयेण हि। द्व्यहोरात्रं त्र्यहोरात्रं रविर्वहति सन्ततम्। सार्द्धैकदर्षन्तस्येह जीवितावधिरुच्यते। वहेन्नासापुटयुगे दशाहानि निरन्तरम्। वातश्चेत् सहसंक्रान्तिस्तया जीवेद्दिनत्रयम्। नासाव्र्त्मद्वयं हित्वा मातरिश्वा मुखाद्वहेत्। संशेद्दिनत्रयादर्व्वाक् प्रयाणं तस्य चाध्व न। सूर्य्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशाचरे। पौष्णः स कालो द्रष्टव्यो यदा याम्ये रविर्वहेत्। अकस्मादेव तत्काले मृत्युः सन्निहितो मवेत्। वञ्चनोयः प्रयत्नेन स कालो मृत्युभीरुणा। अकस्माद्वीक्षते यस्तु पुरुषं कृष्णपिङ्गलम्। तस्मिन्नेव क्षणे गुप्तं सजीवेद्वत्सरद्वयम्। यस्य वीजं मलं मूत्रं, क्षुतम् मूत्रं मलन्तथा। इहैकदा पतेद्यस्य अब्दन्तस्यायुरिष्यते। इन्द्रनीलनिभं व्योम्नि नागवृन्दं यईक्षते। इतस्ततः प्रसृमरं षण्मासं न स जीवति। व्यभ्रेऽह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवाकरम्। फुत्कृत्याप्स्विन्द्रचापञ्च पश्येत् षण्मासजीवनः। अरुन्धर्ती धुवञ्चैव विष्णोस्त्रीणि पदानि च। आसन्नमृत्युर्नोपश्येच्चतुर्थं मातृमण्डलम्। अरुन्धती भवेज्जिह्वा ब्रुवो नासाग्रमुच्यते। विष्णोः पदानि भ्रूमध्ये नेत्राग्नौ मातृमण्डलम्। वेत्ति नीलादिवर्णस्य कट्वम्लादिरसस्य हि। अकस्म दन्यथाभावं षण्मासेन स मृत्युभाक्। षण्मास मृत्योर्सत्येस्य कण्ठोष्ठरसनारदा। शुष्यन्ति सततं तद्वद्वि च्छायास्तालुपञ्चमाः। दन्तःकरजनेत्रान्ता नीलिमानं भजन्ति चेत्। सहि कीनाशनगरीं षष्ठे मासि व्रजेन्नरः। संप्रवृत्ते निधुवने मध्यान्ते क्षौति चेन्नरः। निश्चितं पञ्चमेमासि धर्म्मराजातिथिर्भवेत्। द्रुतमारुह्य सरटस्त्रिवर्णो यस्य मस्तकम्। प्रयाति, याति तस्यायुः षण्मासे सम्परि क्षयम्। सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति। चरणौ च करौ वापि त्रिमासन्तस्य जीवितम्। प्रतिविम्बे भवेद्यस्य पदङ्घण्डपदाकृति। पांशौ वा कर्दमे वापि पञ्चमासान् स जीवति। छाया प्रकम्पते यस्य देहबन्धेऽपि निश्चले। कृतान्तदूता बध्नन्ति चतुर्थे मासि तन्नरम्। निजस्य प्रतिविम्बस्य नीराजमुकूटादिषु। उत्तमाङ्गन्नयः पश्येत् स मासेन विनश्यति। मतिभ्रार्म्येत्स्स्वलेद्वाणी धनुरैन्द्रं निशीक्षते। रात्रौ, चन्द्रद्वयं वापि दिवा द्वौ चा दिवाकरौ। दिवा च तारकाचक्रं रात्रौ व्योम वितारकम्। युगपच्च चतुर्द्दिक्षुशाक्रं कोदण्डमण्डलम्। भूरुहे भूधराग्रे वा गन्धर्व्वनगरोदयम्। दिवा पिशाचनृत्यञ्च एते पञ्चत्वहेतवः। सर्वेष्वैतेषु चिह्नेषु यद्येकमपि वीक्षते। तदा मासावधिर्मृत्युः प्रताक्षेत नचाधिकम्। करावरुद्धश्रवणः शृणोति न यदा ध्वनिम्। स्थूलः कृशः कृशः स्थूलस्तदा मासान्निवर्त्तते। यः पश्ये दात्मनश्छायां दक्षिणाशासमाश्रिताम्। दिनानि पञ्च जीवित्वा पञ्चत्वमुपयाति सः। प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः। भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखर शूकरैः। सरभैः करभैः कीशैः श्येनैरश्वतरैवृर्कैः। स्वप्नोस जोवितं त्यक्त्वा वर्षान्ते यममीक्षते। गन्धपुष्पांशुकैः शोणैः स्वान्तनुं भूषितान्नरः। यः पश्येत् स्वप्रसमये सौऽष्टौमासाननित्यहो। पाशुराशिञ्च वल्मीकं यूपं दण्डमथापि वा। योऽधिरोहति वैस्वप्ने षष्ठे मासि स नश्यति। रासभारूढमात्मानं तैलाभ्यक्तञ्च मुण्डितम्। नीयमानं यमाशां यः स्वप्ने पश्येत् स्वपूर्व्वजान्। स्वपौलौ स्वतनौ वापि यः पश्येत् स्वप्ततोनरः। तृणानि शृष्ककाष्ठानि षष्ठे मासि न तिष्ठति। लोहदण्डधरं कृष्णं पुरुषं कृष्ण वाससम्। स्वयं योऽग्रे स्थितं पश्येत् स त्रीन्मासान्न लङ्घ येत्। काली कुमारी यं स्वप्ने बध्नीयाद्बाहुपाशकैः। स मासेन समीक्षेत नगरीं शमनोषिताम्। नरो यो वानरारूढः प्रयान् प्राचीं दिशं स्वपन्। दिनैः स पञ्चमैरेव पश्येत् संयमर्नी पुरीम्। कृपणोऽपि वदान्यः स्यात् वदान्यः कृपणोयदि। प्रकृतिर्विकृतिश्चेत्सपात्तदा पञ्चत्वमृच्छति। एतानि कालचिह्नानि सन्त्यन्यानि बहून्यपि। ज्ञाताभ्यस्येन्नरोयोगमथवा काशिकां श्रयेत्। न कालवञ्चनोपायं सुनेऽन्यमवयाम्यहम्”।
कालजोषक = त्रि० काले यथायोग्यकाले जुषते भोजनादि जुष–ण्वुल्। यथायोग्यकालेऽल्पाहारादिना तुष्टे गोपभेदे “वाहीका वाटधानाश्च आभीराः कालजोषकाः” भा० भी० ९ अ०।
कालज्ञ = त्रि० कालं योग्यकालं ज्योतिषोक्तकालायववं वा “जानाति–ज्ञा–क। उचितसमयाभिज्ञे “अत्यारूढी हि नारीणामकालज्ञो मनोभवः” रघुः। “तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः” माघः। श्कालकलाज्ञानयुक्ते ज्योतिषिके च।
कालज्ञान = न०। कालो ज्ञायतेऽनेन ज्ञा–करणे ल्युट् ६ त०। १ सौरागमादि ज्योतिःशास्त्रे “विदितस्ते मया भावस्तोषितस्तपसा ह्यहम्। दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं तथा” इत्युपक्रम्य सू० सि० मयनामासुराय स्वांशपुरुषद्वारा कालज्ञानमुक्तम्। भावे ल्युट् २ योग्यसमयज्ञाने च। कालो मृत्युर्ज्ञायतेऽनेन करणे ल्युट्। ३ मृत्युज्ञापके चिह्नभेदे कालचिह्नशब्दे तच्चोक्तम्। “कालज्ञानं ततः प्रोक्तं दिवोदासस्य वर्णनम्” काशीख० अनुक्रमणिकाध्याये।
कालञ्जर = पु० कालं जरयति जृ–णिच्–अच् बा० मुम्। पर्वतभेदे “सप्त व्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ” भार० पितृकल्पगाथा। तन्माहात्म्यं भा० व० ८५ अ० “तत्र कालञ्जरो नाम पर्ब्बतो लोकविश्रुतः। तत्र देवह्रदे स्नात्वा गोसहस्रफलं लभेत्। यः स्नातस्तापयेत्तत्र गिरौ कालञ्जरे नृपः। स्वर्गलोके महीयेत नरोनास्त्यत्र संशयः। ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते!”। तेनास्यं चित्रकूटपर्व्वतसान्निध्यं गम्यते। तत्र मासं कृतस्ताने दशाश्वमेधफलं यथोक्तम् भा० अनु० ३५ अ० गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ। दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः”।
अयञ्च भूमिमध्यस्थरेखातः प्राच्यां दिशि वर्त्तत यथा भा० व० ८७ अ०। “पूर्व्वं प्राचीं दिश राजन्! राजर्षिगणसेविताम्” इत्युपक्रम्य पूर्व्वदिक्स्थतीर्थकथने “प्रयागमिति विख्यातं तस्माद्भरतसत्तम!। अगस्त्यस्य तु राजेन्द्र! तत्राश्रमवरो नृप। तत्तथा तापसारण्यं तापसैरुपशोभितम्। हिरण्यविन्दुः कथितो गिरौ कालञ्जरे महान्”। इत्युक्तेः। तीर्थपरत्वे अस्य क्लीवत्वमपि। “कालञ्जरं प्रभासञ्च तथा वदरिकाश्रमः” इति काशी० भौमतीर्थकथने ६ अ० तथाप्रयोगात्। २ योगिचक्रमेलके। ३ भैरधभेदेमेदि०। ४ देशभेदे धर०। स च कालञ्जरगिरिरूपजनपदावधिभूतः। ततो भवादौ रोपधत्वात् प्राग्वर्त्तित्वाच्च वुञ्। कालरञ्जक तद्भवे त्रि०। कालं मृत्युं जरयति जृ–बा० खच्। ५ कालस्य मृत्योर्जारके त्रि०। “इन्द्रियाणां हि सर्व्वेषां वश्यात्मा चलितस्मृतिः। आत्मनः सम्प्रदानेन मर्त्त्योमृत्युमुवाश्नुते। आहत्य सर्वसङ्कल्पान् सत्वे चित्तं निवेशयेत्। सत्वे चित्तं समावेश्य ततः कालञ्जरो भवेत्” भा० शा० २४ अ०। कालं मृत्युं जरयति। मृत्युञ्जये ६ शिवे तस्य पत्नी ङीप् कालञ्जरी ७ चण्डिकायां स्त्री धर०। स्वयं तज्जारकत्वे तु टाबेवेति भेदः।
कालतम(र) = त्रि० अतिशयेन कालः कृष्णः तमप् (तरप्) वा। अतिशयकृष्णे। स्त्रीत्वे तु अतिशयेन काली इतिविग्रहे पुंवत् कालतमा(रा) इति भेदः।
कालताल = पु० कालता यै अलति पर्य्याप्नोति अल–अच् ४ त०। तमालवृक्षे राजनि०।
कालतिन्दुक = पु० नि० कर्म्म०। कुफीलौ राजनि०।
कालतीर्थ = न० कोशलास्थे तीर्थभेदे। “कोशलान्तु समासाद्य कालतीर्थमुपस्प्रशेत्। वृषभैकादशफल लभते नात्र संशयः” भा० व० ८५ अ०।
कालदण्ड = यु० कालप्रापकोदण्डः। ज्योतिषोक्ते वारादियोगभेदे स च वारविशेषनक्षत्रभेदयोगरूपः यथोक्तं नारदेन “आनन्दः कालदण्डोऽथ धूम्रो धाता शुभावहः। ध्वाङ्क्षो ध्वजाख्यं श्रीवत्सवज्रमुद्गरछत्रकाः। चित्रमानसपद्माख्यलुम्बकोत्पातमृत्यवः। कालः सिद्धिः शुभाभृतमुसलातङ्ककुञ्जराः राक्षसाख्यश्चरस्थैर्य्यवर्द्धमानाः क्रमादमी। योगाः स्वसंज्ञाफलदास्त्वष्टाविंशतिसंख्यकाः। रविवारे क्रमादेते दास्रभादिन्दुभाविधौ। सार्पाद्भौमे, वुधे हस्तान्मैत्रभाद्देवमन्त्रिणि। वैश्वदेवाद्भृगुसुते वारुणाद्भास्करात्मजे”। अयमर्थः आनन्दादयः अष्टावंशतिर्योगा अतः साजित्कानामश्विन्यादीनामष्टाविंशतेरिह ग्रहणम्। तथा च रविवारे अश्विनीनक्षत्रात् यावत्संख्यकं नक्षतमिष्टदिने भवति आनन्दादिषु मध्ये तावत्संख्यको योगो भवति एवं सोमवारे मृगात् ५ यावत्संख्यकं नक्षत्रमिष्टदिने तावत्संख्यको योगः। तथा भौमे अश्ले षातः ९ इत्यादि। बुधे हस्तात् १३, गुरौ अनुराधातः १७, शुक्रे उत्तराषाढातः २१, शनौ शतभिषातः २४। एषुवर्ज्यदण्डादिकनुक्तं मुहु०चि० “ध्वाङ्क्षे वज्रे मुद्गरे चेषु ५ नाड्यो वर्ज्यावेदाः ४ पद्मलम्बे गदेऽश्वाः ७। १ धूम्रे २ काणे मौसले ३ भूर्द्वयं द्वे रक्षोमृत्युत्पातकालाश्च सर्वें”। तस्यापवादोवसिष्ठेनोक्तः “सूर्य्याच्चतुर्थे दशमे च षष्ठे विश्वर्क्षगे विंशतिगे च चन्द्रे। भवन्ति षड्भानुगतर्क्षयोगाः कुयोगविध्वंसकराः शुभेषु”।
कालदन्तक = पु० कालोदन्तोऽस्य कप्। वासुकिकुलजे सर्पसत्रनष्टे १ नागभेदे। “हिरण्यबाहुः शरनः तक्षकः कालदन्तकः। एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम्” भा० आ ४५७ अ०। २ कृष्णदन्तयुक्ते त्रि०।
कालधर्म्म = पु० ६ त०। १ मृत्यौः अमरः अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे। स राजा शान्तनुधीर्मन् कालधर्ममुपेयिवान्” भा० आ० १०२ अ०। कालस्य ऋतुविशेषस्य धर्म्मः ६ त०। २ समयस्य स्वभावे ऋत्वादिकालस्य३ धर्म्मे च।
कालधर्म्मन् = पु० कालस्येव हिंसाशालितया धर्म्मोऽस्य अनिच् समा०। मृत्यौ। “स पाण्डुः कालधर्म्मणा” भा० आ० १२४ अ०। एताश्चैता १ प्रजाः सर्व्वाः दक्षकन्यासु जज्ञिरे। कश्यपेनाव्ययेनेह, संयुक्ताः कालधर्म्मणा” हरि० ३१२ अ०।
कालनर = पु० अनुवंश्ये नृपभेदे। १ अनोः सभानरश्चक्षुः परेक्षुश्च त्रयः सुताः” सभानरात् कालनरः सृञ्जयस्तत्सुतः शुभः” भाग० ९, २३, २ श्लो०। कालः कालचक्रं राशिचक्रं नरैव। मेषादिद्वादशराशिरूपमस्तकाद्यङ्गयुक्ते २ कालपुरुषे तच्छब्दे विवृतिः। “इति कालनरस्याङ्गे सदसदुग्रहयोगतः” वृहज्जातकम्।
कालनाथ = पु० कालस्य कालभैरवस्य नाथः। महादेवे “कालनाथाय कल्पाय क्षयायोपक्षयाय च” भा० शा० २८६ अ० दक्षप्रोक्तशिवसहस्रनामकीर्त्तने।
कालनाभ = पु० कालःकृष्णः नाभिरस्य संज्ञायाम् अच्समा०। हिरण्याक्षासुरपुत्रभेदे “हिरण्याक्षसुराःपञ्च विद्वांसः सुमहाबलाः। झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा। महानाभश्च विक्रान्तः कालनाभस्तथैव च” हरि० ३ अ०। १ दानवभेदे “महानाभश्च विक्रान्तः कालनाभस्तथैव च” हरि० ३ अ०। अयञ्च सैहिकेयः यथोक्तं तत्रैव “सैंहिकेया इति ख्यातास्त्य्रयोदश महाबलाः। व्यंशः शल्यश्च बलिनौ नभश्चैव महाबलः। पातापिर्नमुचिशैव इल्वलः स्वसृमस्तथा। आञ्जिको नरकशैव कालनामस्तथैव च। राहुर्ज्येष्ठस्तु तेषां वै सूर्य्यचन्द्रप्रमर्द्दनः।
कालनियोग = पु० कालेन कृतो नियोगः कालस्य वा नियोगः आज्ञा नि + युज–घञ्। १ दैवाज्ञायां २ कालकृतनियमेच
कालनिर्यास = पु० नि० क०। गुग्गुलौ रत्नमा० तस्य निर्यासेषु कृष्णत्वात्तथात्वम्।
कालनेमि = पु० कालस्य मृत्योर्नेमिः स्तम्भ इव। दानवभेदे तदुत्पत्त्यादिकथा हरि० ४७० यथा“पूर्व्वदेवभयं श्रुत्वा मारुताऽग्निकृतं महत्। कालनेमिरिति ख्यातो दानवः प्रत्थदृश्यत। भास्काराकारमुकुटः शिञ्जिताङ्गदभूषणः। मन्दराचलसङ्काशो महाराजतसंवृतः। शतप्रहरणोदग्रः शतबाहुः शताननः। शतशीर्षः स्थितः श्रोमान् शतशृङ्ग इवाचलः। कक्षे महति संवृद्धो निदाव इव पावकः। धूम्रकेशो हरिच् श्मश्रुर्द्दंष्ट्रालौष्ठपुटाननः। त्रैलोक्यान्तरविस्तारी नामयन् वपुषा क्षितिम्। बहुनिस्तुलयन् व्योम क्षिपन् पद्भ्यां महीघरान्। ईरयन् मुहनिःश्वासैर्वृष्टिभाजोबलाहकान्। तिर्य्यगायतरक्ताक्षं मन्दरोदग्रवर्चसम्। दिधक्षन्तमिवायान्तं सर्व्वान् देवगणान्मृधे। तर्जयन्तं सुरगणान् छादयन्तं दिशोदश। संवर्त्तकाले तृषितं दृप्तं मृत्युमिवोत्थितम्। सुतलेनोच्छ्रायवता विपुलाङ्गुलि पर्व्वणा। माल्याभरणपूर्ण्णेन किञ्चिच्चलितवर्ष्मणा। उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता। दानवान् देवनिहतानुत्तिष्ठध्वमिति ब्रुवन्। समरे कालनेमिं तं द्विषतां कालनेमिनम्। वीक्षन्ते स्म सुराः सर्व्वे भयविक्लव लोचनाः। तं वीक्षन्ति स्म भूतानि क्रमन्तं कालनेमिनम् त्रिविक्रमं विक्रमन्तं नारायणमिवाप्रम्। सोच्छ्रयन्प्रथा पादं मारुताघूर्णिताम्बरः। प्राक्रामदसुरोयुद्धे त्रासय सर्व्वदेवताः। स मयेनासुरेन्द्रेण परिष्वक्तः क्रमन्रणे कालनेमिर्बभौ दैत्यः सविष्णुरिव मन्दरः। अथ विव्य थिरे देवाः सर्व्वे सेन्द्रपुरोगमाः। दृष्ट्वा कालमिवायान्त कालनेमिं भयावहम्।” तत्स्तत्पराक्रममुक्त्वा ४९ अ० “तमप्रतिमकर्म्माणं समानं सूर्य्यवर्चसा। चक्रमुद्यम्य समरे क्रीधदीप्तो गदाधरः। स मुष्णन् दानवं तेजः समरे स्वेन तेजसा। विच्छेद बाहुं चक्रेण श्रीधरः कालनेमिनः। तच्च तक्त्र शतं घोरं साग्निचूर्ण्णाट्टहासि वै। तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः” इत्यनेन हरिणा तस्य बधकथोक्ता। “कालनेमिबधात्प्रीतस्तुराषद्धिव शाङ्र्गिणम्” रघुः कालनेनिबधे युद्धे युद्धे त्रिपुरधातने” दुर्गार्चापद्धतिः।
कालनेमिन् = पु० कालस्येव नेमिरस्त्यस्य ब्रीह्यादेराकृतिगणत्वात् इनि। कालनेमिदानबे तच्छबदे उदा०।
कालनेमिहन् = पु० कालनेमिं हतवान् हन–भूते क्विप् ६ त०। विष्णौ त्रिका० तेन तस्य बधकथा कालनेमिशब्दे उक्ता कालनेमिरिपुतच्छत्रुप्रभृतयोऽप्यत्र।
कालपथ = पु० विश्वामित्रपुत्रभेदे। “मधुच्छन्दश्च भगवान् देवरातश्च वीर्य्यवान्। ऋजीकश्च शकुन्तश्च बभ्रुः कालपथस्तथा” भा० आनु० ४ अ० विश्वाभित्रपुत्रकीर्त्तने।
कालपर्ण्ण = पु० कालं कृष्णं पर्णमस्य। तगरवृक्षे शब्दरत्ना०।
कालपर्य्यय = पु० कालस्य पर्य्ययः वैपरीत्येन गमनम् ६ त०। १ शुभदायककालस्य अशुभदायकत्वे अशुभतदायकस्य २ शुभदायकत्वे च। “स (कर्ण्णः) हि तेषां महावीर्यो द्वीपोऽभूत् सुमहाबलः। भिन्ननौका यथा राजन्! द्वीपमासाद्व्य निर्वृताः। भवन्ति पुरुषव्याघ्र! नाविकाः कालपर्य्यये। तथा कर्ण्णं समासाद्य तारकं पुरुषर्षभम्” भा० वि० ७७ अ०। ३ कालक्रमे च।
कालपर्व्वत = पु० नि० क०। त्रिकूटपर्वतनिकटस्थपर्व्वतभेदे “स (रावणः) निश्चिम्य ततः कृत्यं स्मृसारम् (शूर्पनस्याम्) उपसान्त्व्य च। ऊर्द्धमाचक्रमे राजन्! विधाय नगरे (लङ्कायाम्) विधिम्। त्रिकूटं समतिक्रम्य कालपर्वत मेव च। ददर्श मकरावासं गम्भीरोदं महोदधिम्” भा० व० २७६ अ०।
कालपालक = न० कालं कृष्णवर्ण्णं समयं वा पालयति पालण्वुल्। १ कद्धुष्ठमृत्तिकायाम् राजनि० तस्याः कृष्णवर्णत्वात् तथात्वम्। २ समयप्रतीक्षके त्रि० स्त्रियां टाप् अतैत्त्वम्।
कालपीलु = पु० नि० कर्म्म०। पीलुभेदे कुपीलौ भावप्र०।
कालपुच्छ = पुंस्त्री० कालः पुच्छोऽस्य। “गुणैरेणसमयः कालपुच्छोमुनिभिरीरितः” कात्या० स्मृत्युक्ते मृगभेदे स्त्रियां जातित्वात् ङीष्। स च कूलचरत्वेन सुश्रुते उक्तः कूलचरशब्दे विवृतिः।
कालपुरुष = पु० कालः कालचक्रं पुरुष इव। मेषादिद्वादश राशिस्वरूपे कालव्यवहारकारके पुरुषाकारे गगनस्थे १ वायुचक्रभेदे। तस्य च जन्मादौ शुभाशुभज्ञानाय यथाङ्गादिविभागः, तथा वृहज्जातके उक्तं यथा “शीर्षं मुखबाहू हृदयोदराणि कटिअस्तिगुह्यसंज्ञकानि। जानुऊर्ङ्घेच च ऊरू चरणाविति राशयोऽजाद्याः” तस्यार्थः। “मेषः शिरोवृषोवक्त्रं मियुनं बाहुयुग्यकम्। कर्कटोहृदयञ्चैब सिहस्तूदरमेव च। कन्या कटिस्तुला वस्तिर्वृश्चिको गुह्यमेव च। धनुरूरू मृगो जानु कुम्भोजङ्घे प्रकीर्त्तिते। मीनः पादद्वयञ्चैवाङ्गानि कालनरस्य तु”। ततश्च यदङ्गराशिराशीशौ दीर्घौ तदङ्गं दीर्घं, तयोर्लघुत्वे लघु, राशिराशीशयोर्भिन्नरूपत्वे मध्यमम् इति कल्प्यम्। लग्नद्रेक्काणभेदेनाङ्गविशेषः तत्द्द्येक्काणे सदसद्ग्रहयोगेन फलविशेषश्च वृहज्जा० उक्तः यथा। “कं दृक्श्रोत्रनसाकपोलहनवो वक्त्रञ्च होरादयस्ते कण्ठांसकवाहुपार्श्वहृदयक्रोडानि नाभिस्ततः। वस्तिः शिश्नगुदे ततश्च वृषणावूरू ततो जानुनी–जङ्घ्रङ्घ्री ह्युभयत्र वाममुदितैद्रेक्काणभागैस्तिधा” वचनस्यायमर्थः त्रिभिर्द्रेक्काणभागैस्त्रिधा देहविभाग इति शेषः। तत्र प्रथमेन द्रेक्काणेन मूर्द्धाद्यङ्गं, द्वितीयेन कण्ठादि, तृतीयेन वस्त्यादि। तत्राप्य्वदितैर्दृश्यभागस्थैर्वाममङ्गमनुदितैरदृश्यभागस्थैर्दक्षिणाङ्गमित्यर्थः। तथाच लग्नात् द्वादशैकादशदशमनवमाष्टमसप्तमाः उदितभागस्था दृश्याः। अनुदितभागस्थोऽदृश्यः सच लग्नात् द्वितीयतृतीयचतुर्थपञ्चमषष्ठसप्तमांशभेदभागस्थः। तथाचायमर्थः प्रथमेद्रेक्काण लग्नं शिरः, द्वितीये द्वादशे च क्रमेण दक्षवामे दृशौ, तृतीयैकादशयोः दक्षवामश्रोत्रे, चतुर्थपञ्चमयोः, दक्षवामे नासे, पञ्चमनवभयो, दक्षवामकपोलौ, षष्ठाष्टमयोः दक्षवामे हनू, सप्तमं मुखम्। लग्नगे द्वितीये द्रेक्काणे लग्नं कण्ठः, द्वितीयद्वादशयोः दक्षवाभस्कन्धौ, तृतीयैकादशयोः दक्षवामौ बाहू, चतुर्थदशमयोः दक्षवामे पार्श्वे पञ्चमनवमयोः दक्षवमौ हृद्भागौ, षष्ठाष्टमयोः दक्षवामौ उदरभागौ, सप्तमं नाभिः। लग्नस्य तृतीये द्रेक्काणे लग्नं वस्तिः (नाभिलिङ्गमध्यभागः) द्वितीयद्वादशयोः दक्षवामौ शिश्नगुह्यभागौ, तृतीयैकादशयोः दक्षवामौ ऊरू। पञ्चमनवप्नयोः दक्षवामे जानुनी। षष्ठाष्ठमयोः दक्षवामे जङ्घे, सप्तमं पादाविति। इति महीधरकृतव्याख्यानुसारि। तत्फलमाह तत्रैव “तस्मिन् पापयुते व्रणं, शुभयुते सौम्यं, हि लक्ष्मादिशेत्। स्वर्क्षांशे स्थिर २, ५, ८, ११, संयुते च सहजः, स्यादन्यथाऽऽगन्तकः। मन्दे खानिलजोऽग्निशस्त्रविषजो भौमे, बुधे (पापयुते) भूभवः, सूर्य्ये काष्ठचतुष्पदाच्च, हिमगौ (हीनचन्द्रे) शृङ्ग्यब्जजोऽन्ये शुभाः”। कालपुरुषः प्रतिपाद्यतयास्त्यस्य अच्। २ ज्योतिःशास्त्रे “किन्त्वस्य कालपुरुषस्य महार्णवस्य गच्छेत् कदाचिदन्र्षिर्मनसाऽपि पारम्” भट्टोत्पलः। कर्म्म०। ३ कृष्णवर्ण्णपुरुषे। कालः पुरुष इव। दानार्थं कल्पिते पुरुषाकारे ३ कालरूपेश्वरमूर्त्तिभेदे पु० तत्प्रकारो हेमा० दा० ख० उक्तोभविष्यो० पु० यथा “काम्योदानविधिः पार्थ! क्रियमाणो यथातथम्। फलाय मुनिभिः प्रोक्तो विपरीतो भयाय च। ज्ञेयं निष्कशतं पार्थ! दानेषु विधिरुत्तमः। मध्यमस्तु तदर्द्धेन तदर्द्धेनाधमः स्मृतः। मेष्याञ्च कालपुरुषे तथान्येषु महत्सु च। एवं वृक्षे रथेऽण्डे च धेनोः कृष्णाजिनस्य च। अशक्तस्यापि क्लिष्टोऽयं पञ्चसौवर्णिकोविधिः। अतोऽप्यल्पेन योदद्यात् महादानं नराधिप!। प्रतिगृह्णाति वा तस्य दुःखशोकावहं भवेत्। पुण्यन्दिनमथासाद्य भूमिभागे समे शुमे। चतुर्द्दश्यां चतुर्थ्यां वा विष्थां व पाण्डुनन्दन!। पुमान् कृष्णतिलैः कार्य्योरौप्यदन्तः सुवर्ण्णदृक्”। सुवर्ण्णादिपरीमाणमत्र यथाशक्ति सम्पादनीयम्। खड्गोद्यतकरोदीर्घोजवाकुसुमकुण्डलः। रक्ताम्बरधरः स्रग्वी शङ्खमालाविभूषितः। तीक्ष्णासिपुत्रीबन्धेन विसृग्दारिकटीतटः। उपानदुयुअयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वगः। गृहीतमांसपिण्डश्च वामे करतले तथा। एवंविधं नरं कृत्वा गृहीतकुसुमाञ्जलिः। यजमानः प्रसन्नात्मा इमं मन्त्रमुदीरयेत। सम्पूज्य गन्धकुसुमैर्नैवेद्यं विनिवेद्य च। सर्व्वं कलयसे यस्मात् कालस्त्वं तेन चोच्यसे। ब्रह्मविष्णुशिवादीनां त्वमाराध्योऽसि सुव्रत!। पूजितस्त्वं मया भक्त्या पार्थिवश्च तथासुखम्। यद्बुध्यते तव विभो! तत्कुरुष्व नमोनमः। एवं संपूजयित्वा तं ब्राह्मणाय निवेदयेत्। ब्राह्मणं प्रथमं पूज्य वासोभिर्भूषणैस्तथा। दक्षिणां शक्तितो दद्यात् प्रणिपत्य विसर्ज्जयेत्”। दक्षिणां पूर्व्वोक्तां निष्कादिकाम् “अनेन बिधिना यस्तु दानमेतत् प्रयच्छति। न च मृत्युभयं तस्य न च व्याधिकृतं भवेत्। भवत्यव्याहतैश्वर्य्यः सर्वबाधाविवर्ज्जितः। देहान्ते सूर्य्यभवनं भित्त्वा याति परं पदम्। पुण्यक्षयादिहागत्य राजा भवति धार्म्मिकः। सत्रयाजी श्रिया युक्तः पुत्रपौत्रसमन्वितः। संपूज्य कालपुरुषं बिधिवद्द्विजाय दत्त्वा शुभाशुभफलोदयहेतुभूतम्। रोगातुरे सकलदोषमयेऽत्र देहे देही न मोहमुपगच्छति तत्प्रभावात्”।
कालपृष्ठ = पु० कालं पृष्ठं यस्य। १ कर्णधनुषि २ धनुर्मात्रे हेमच०।
कालपेषी = स्त्री पिष्यतेऽसौ पिष–कर्म्मणि घञ् कर्म्म० गौरा० ङीष्। श्यामालतायां रत्नमा०।
कालप्रभात = न० कालं कृष्णं प्रभातंयत्र। शरदृतौ त्रिका०।
कालप्रवृत्ति = स्त्री ६ त०। खण्डकालस्य व्यवहारारम्भे। तत्प्रवृत्तिकालश्च सि० शि० उक्तोयथा “लङ्कानगर्यामुदयाच्च भानोस्तस्यैव वारे प्रथमं बभूव। मधोः सितादेर्दिनमासवर्षयुगादिकानां युगपत् प्रवृत्तिः” “कालस्य व्यक्तीनामपि दिनमासवर्षयुगादीनां युगपदेकहेलया प्रवृत्तिर्बभूव। एतदुक्तं भवति। चन्द्रार्कयोर्मेषादिस्थयोश्चैत्रस्य शुक्लपक्षादिः प्रतिपत्। अतो मधोः सितादेर्दिनानां सौरादिमासानां वर्षाणां युगानां मन्वन्तराणां कल्पस्य च तदैव प्रवृत्तिः। अथोदयाच्च भानोः। स चोदयः कस्मित् देशे। लङ्कानगर्याम्। तथा तस्यैव वारोचादित्यवार इत्यर्थः।
कालभाण्डिका = स्त्री कालभायै कृष्णप्रभायै अण्डति अडिउद्यमे ण्वुल्। मञ्जिष्ठायां राजनि० तस्या रक्तनिर्यासवत्त्वेऽपि क्लाथनात् पूर्ब्बं कृष्णकाण्डत्वात्तथात्वम्।
कालभैरव = पु० भीरोर्भावः अण् भैरवं भीरुत्वं कालस्य भैरवं भयं यस्मात्। काशीस्थे शिवांशजे भैरव भेदे सच शिवतत्त्वज्ञानविघुरब्रह्मणःपञ्चमशिरश्छेदनाय शियेन प्रादुर्भावितः। तत्कथादि काशीख० ३२ अ०। तद्वाक्यञ्च कपालमोचनशब्दे १६५५ पृ० दर्शितम्। तन्नामनिरुक्तिस्तत्रैव दर्शिता यथा “त्वत्तो भेष्यति कालोऽपि ततस्तु कालभैरवः”। कालराजोऽप्यत्र तत्रैव तन्नामनिरुक्ति र्दर्शिता यथा “कालवद्राजसे यस्मात् कालराजस्ततो भवान्। तस्य च काश्यामाधिपत्यं तत्रैवोक्तं यथा “आधिपत्यञ्च तस्यां ते कालराज! सदैव हि। तत्र ये पापकर्त्तारस्तेषां शास्ता त्वमेवहि। शुभाशुभं न तत्कर्म्म चित्रगुप्तो लिखिष्यति।। एतान् वरान् प्रगृह्याथ तत्क्षणात् कालभैरवः। वामाङ्गुलिनखाग्रेण चकर्त्त च शिरीविधेः”
कालमयूख = पु० कालस्य प्रकाशकत्वेन मयूखैव। कालस्वरूप कर्म्माङ्गभावादिज्ञापके स्मृतिनिबन्धभेदे।
कालमसी = स्त्री काली मसीव पुंवत्। नदोभेदे। “मही कालमसी चैव तमसा पुष्पवाहिनी” हरि० २३६ अ०।
कालमाधवीय = पु० माधवस्य माधवाचार्य्यस्यायं छ काल प्रतिपादकोमाधवीयः माधवकृतः ग्रन्थः। माधवाचार्य्य प्रणीते कालभेदकर्म्माङ्गभावनिरूपके स्मृतिनिबन्धभेदे।
कालमान = पु० कालोमन्यतेऽसौ मन–कर्म्मणि घञ् सुप्० स०। कृष्णार्ज्जके (कालतुलसी) रत्नमाला। ६ त०। २ कालपरिमाणे न०। मल–मावे घञ् कालेन कृष्णवर्ण्णेन मालः सम्बन्धोऽस्य। कालमालोऽपि कृष्णार्जके पु० राजनि०।
कालमुख = पुंस्त्री० कालं मुखं यस्य। १ कृष्णमुखे वानरभेदे स्त्रियां ङीष्। “यस्य शाखामृगा मित्राण्यृक्षाः कालमुखास्तथा” भा० व० २९१ अ०। “ये च कालभुखानाम नरराक्षसयोनयः” भा० स०३० अ०।
कालमुष्कक = पु० कालोसुष्क इव कायति कै–क। घण्टापारुलिवृक्षे रत्नमा०।
कालमूल = पु० कालं मूलमस्य। रक्तचित्रकवृक्षे राजनि०।
कालमेषी = स्त्री कालंवर्णं मिषति स्पर्द्ध्वते काण्डेन मिष–अण् उ० स०। १ मञ्जिष्ठायाम्, २ सोमाराज्याम्, त्रिवृति (तेओडि) च अमरः। स्वार्थे क। कालमेषिका तत्रार्थे भरतस्तु तालव्यमध्यं पठित्वा तदर्थतामाह।
कालयवन = पु० कर्म्म०। यवनाधिपे नृपभेदे। “मिथ्याभिशस्तो गार्ग्यस्तु मन्युनाभिसमीरितः। गोपकन्यामुपादाय मैथुनायोपचक्रमे। गोपाली त्वप्सरास्तस्य गोपस्त्रीवेशधारिणी। धारयामास गार्ग्यस्य गर्भं दुर्द्धरमच्युत!। मानुष्यां गार्ग्यभार्य्यायां नियोगाच्छूलपाणिनः। स कालयवनोनाम जज्ञे राजा- महाबलः। वृषपूर्ब्बार्द्धकायास्तमवहन् वाजिनो रणे। अपुत्रस्य स राज्ञस्तु ववृधेऽन्तःपुरे शिशुः। यवनस्य महाराज! स कालयवनोऽभवत्। स योद्धुकामो नृपतिः पर्य्यपृच्छद्द्विजोत्तमम्। वृष्ण्यन्धककुलं तस्य नारदोऽकथयद्विभुः। अक्षौहिण्या तु सैन्यस्य मथुरामभ्ययात्तदा। दूतं सम्प्रेषयामास वृष्ण्यन्धकनिवेशनम्। ततोवृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम्। समेतामन्त्रया मासुर्यवनस्य भयात्तदा। कृत्वा च निश्चयं सर्व्वे पलायनमरोचयन्। विहाय मथुरां रम्यां मानयन्तः पिनाकिनम्। कुशस्थलीं हारवतीं निवेशयितुमीप्सवः” हरि० ३६ अ०। “अस्ति तस्य रणे जेता यवनाधिपतिर्नृपः। स कालयवनो नाम अबध्यः केशवस्थ ह। तत्वा सुदारुणं घोरं तपः परमदुश्चरम्। रुद्रमाराधयामास द्वादशाब्दान् यशोधनः। पुत्रकामेण मुनिनातोष्यरुद्रं सुतो वृतः। माथुराणाममबध्योऽसौ भवेदिति च शङ्करात्। एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम्। एवं गार्ग्यस्य तनयः श्रीमान् रुद्रवरोद्भवः। माथुराणामबध्योऽसौ मथुरायां विशेषतः। कृष्णोऽपि बलवानेष माथुरो जातवानयम्” हरिवं १११ अ०। “वासुदेवस्तु तं दृष्ट्वा निहतं योगमात्मनः। उत्सृज्य मथुरामाशु द्वारकामभिजग्मिवान्! वैरस्यान्तं विधित्संस्तु वासुदेवो महायशाः। निवेश्य द्वारकां राजन्! वृष्णीनाश्वास्य चैव ह। पदातिः पुरुषव्याघ्रो बाहुप्रहरणस्तदा। आजगाम महायोगी मथुरां मधुसूदनः। तं दृष्ट्वा निर्ययौ हृष्टः सकालयवनोरुषा। प्रेक्षापूर्ब्बञ्च कृष्णोऽपि निश्चक्राम महाबलः। अथान्वगच्छद्गोविन्दं जिघृक्षुर्यवनेश्वरः। न चैनमशकद्राजा ग्रहीतुं योगधर्मिणम्। मान्दातुस्तु सुतो राजा मुचुकुन्दो महायशाः। पुरा देवासुरे युद्वे कृतकर्मा महाबलः। वरेण च्छन्दितो देवैर्निद्रामेव गृहीतवान्। श्रान्तस्य तस्य वागेवं तदा प्रादुरभूत् किल। प्रसुप्तं बोधयेद्यो मां तं दहेयमहं सुराः!। चक्षुषा क्रोधदीप्तेनेत्येवमाह पुनः पुनः। एवमस्त्विति तं शक्र उवाच त्रिदशैः सह। स सुरैरभ्यनुज्ञातत्वद्रिराजमुपागमत्। स पर्व्वतगुहां काञ्चित् प्रविश्य श्रमकर्षितः। सुष्वाप कालमेतं वै यावत् कृष्णस्य दर्शनम्। तत् सर्व्वं वासुदेवस्य नारदेन निवेदितम्। वरदानञ्च देवेभ्यस्तेजस्तस्य च भूपतेः। कृष्णोऽनुगम्यमानश्च तेन म्लेच्छेन शत्रुणा। तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत्। शिरःस्थाने तु राजर्षेर्मुचुकुन्दस्य केशवः। सन्दर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः। अनुप्रविश्य यवनो ददर्श पृथिवीपतिम्। स तं सुप्तं कृतान्ताभमाससाद सुदुर्म्मतिः। वासुदेवन्तु तं मत्वा घट्टयामास पार्थिवम्। पादेन पादमाक्रम्य पादस्प्रर्शप्रबोधितः। चुकोप निद्राच्छेदेन पादस्पर्शेन तेन च। स संस्मृत्य वरं शक्रादवैक्षत तमग्रतः। स दृष्टमात्रः क्रुद्धेन स प्रजज्वाल सर्व्वतः। ददाह पावकस्तन्तु शुष्कं वृक्षमिवाशनिः। क्षणेन काल यवनं नेत्रतेजोविनिर्गतः” हरि० ११५ अ०। तद्बघकथा
कालयापन = न० कालस्य यापनमतिवाहनम्। कालक्षेपणे
कालयुक्त = पु० प्रभवादिषष्टिसंवत्सरान्तर्गते १ द्वापञ्चाशत्तमे वत्सरभेदे प्रभबादिवर्षानयनं ज्यो० त० उक्तं यथा “शकेन्द्रकालः पृथगाकृति २२ घ्नः शशाङ्कनन्दाश्वियुगैः ४२९१ समेवः। शराद्रिवस्विन्दु १८७५ हृतः स लब्धः षष्ठ्यावशिष्टाः प्रभवादयोऽब्दाः। वर्षवर्ज्जन्तु यच्छेषं सूर्थ्यैः १२ संपूर्य्य खोर्मिभिः ६०। हृतो व्युत्क्रमतः खाग्नि ३० हृतेऽंशे मासकादयः” अस्यार्थः। शाकेन्द्रकालः शकराजाव्दकालः पृथक् आकृतिघ्नः द्वाविंशत्या पूरितः शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशतद्वयाधिकचतुःसहस्रैः समेतोऽङ्कः शराद्रिवस्विन्दुहृतः पञ्चसप्तत्यधिकाष्टादशशतैर्यावत्संख्यं हर्त्तुं शक्यते तावता हृतः कर्त्तव्यः स लब्धः पूर्व्वशकाव्दः शरेत्यादिना लब्धसंख्यया युतःकार्य्यः षष्ठ्याप्तावशेषे पूर्व्ववत् षष्ठ्याहृतलब्धस्यावशिष्टे प्रभवादयः एकावशेषे प्रभवः द्व्याद्यवशिष्टे विभवादिः। वर्षवर्जन्तु यच्छेषं वर्षातिरिक्तं शराद्रिवस्विन्दुहृतावशिष्टं तत् सूर्य्यैः द्वादशभिः संपूर्य्य खोर्म्मिभिः षष्ठ्या हृते व्युत्क्रमत इत्यनेन षष्टिहृतावशिष्टः अङ्कादण्डाः षष्टिहृत लब्धांशके खाग्निहृते त्रिंशता हृतावशिष्टा अंशकालब्घा मासाः स्युरिति। प्रभवादिवर्षात्युपक्रम्य “आद्या तु विंशतिर्व्राह्मी द्वितीया वैष्णवी स्मृता। तृतीया रुद्रदैवत्या इष्टा मध्याधमा भवेत्” इत्युक्त्वा तत्फलमुक्तं भविष्प पु० यथा “गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः। बासवो वर्षते देवि! शस्यञ्च न हि कायते। तिलसर्षपमाषादिकार्षासानां महार्घता। गोमहिष्यः सुवर्णानि कस्यताम्राण्यशेषतः। तत् सर्व्वं देबि! विक्रीय कर्त्तव्योधान्यसञ्चयः। तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्दिनम्। पार्थिवा मोष- का दीनाः कालयुके प्रपोडिताः ५२ वर्षफलकथने। ३ त०। २ कालेन कालधर्म्मेण मृत्युना युक्तेच त्रि०
कालयोग = पु० ६५०। कालसम्बन्धे। “महता कालयोगेन प्रकृतिं यास्यतेऽर्ण्णवः” भा० व० १० अ०। कर्म्म० ज्यो० उक्ते कालरूपे योगभेदे च कालशब्दे विवृतिः।
कालयोगिन् = पु० त्रि० कालएव योगोऽस्त्यस्य इनि ११ शिवे। “कालयोगी महानादः सर्व्वकामश्चतुषपथः” भा० आनु० १७ अ०। शिवसहस्रनामोक्तौ। २ कालसम्बद्धे त्रि०।
कालरात्रि = स्त्री कालो रात्रिरिव कालस्य खण्डकालस्य रात्रिरिव अप्रकाशकत्वात्। १ प्रलयरात्रौ २ प्रलयकाले तत्र सर्व्वचेष्टाराहित्यात् तथात्वम्। “यदा स देवो जागर्त्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते” इति मनुना प्रलयकाले सर्व्वचेष्टाराहित्योक्तेस्तत्कालस्य रात्रिरूपत्वम्। ३ दुर्गामूर्त्तिभेदे सा च “कालरात्रि मथोवक्ष्ये सपत्नगणसूदनीम्” इत्युपक्रम्य मन्त्र महोदचौ १८ तरङ्गे उक्ता, तत्रैव तस्या मन्त्रपूजादिकं दृश्यम्। “शक्तिभिःसहिता दुर्गा कार्शीं रक्षति सर्व्वतः। ताः प्रयत्नेन संपूज्याः कालरात्रिमुखा नरैः” काशीख० “कालरात्रिर्महारात्रिर्मोहरात्रिश्चदारुणा” देवीमा० व्याकृतञ्चैतद् गुप्तवत्यां यथा “कालरात्रिः सर्व्वजन्तुमरणोपलक्षिता कल्परात्रिः। महारात्रिः ब्रह्मलयोपलक्षिता महाप्रलयरात्रिः, मोहरात्रिः मोहावर्त्तगर्त्तपातिनी महामायाख्या संसृतिकर्त्त्री, यद्वा दैनन्दिनप्रलयब्रह्मप्रलयमोक्षरूपमहाप्रलयरूपरात्रय इति पदत्रयस्यार्थः। ४ तत्प्रतिपादकमन्त्रभेदे च अभेदोपचारात् स च मन्त्रः बह्वृचग्रन्थे रात्रिसूक्तत्वेन प्रसिद्धः। सामभेदे च “रुत्रिं प्रपद्ये” इत्यादिः। ५ भीमरथ्याम् (अतिवृद्धवयस्के) हारा०। सर्वप्राणिनाशिकायां ६ यमभगिन्यां भावप्र०। ७ दीपान्वितामावस्यायाम् “दीपावली तु या प्रोक्ता कालरात्रिश्च सा मता” इत्यागमोक्तेः।
कालरुद्र = पु० कालरूपो रुद्रः। कालरूपप्रलयाग्निरूपे रुद्रभेदे “याः पुरः कालरुद्रस्य नानास्त्रीशतसङ्कुलाः। विचित्रहर्म्यविन्यासाः कुतस्ता मेरुपृष्ठतः। ताएव कालरुद्रस्य तनुरूपेण संस्थिताः। या परा शिवरूपेण परमा पददायिका। तस्या यद्दुःसहं तेजो ब्रह्मादीनां क्षयङ्करम्। तं विद्धि कालरुद्रेति सौम्यरूपं सदाशिवम्। कालाग्निव्यसनं (व्यासः) लक्षं योजनानां प्रमाणतः। अर्द्धेनोच्छ्रयतस्तस्व पादः पादेन भासते। सिंहरूपा महाघोरा महानक्रमहाबलाः। कालाग्नि रुद्ररूपो योबहुरूपसमावृतः। अनन्तपद्मरूपश्च धातुश्च कारणेश्वरः। दारुणाग्निश्च रुद्रश्च यमहन्ता क्षयान्तकः” देवीपु०। कालाग्निरुद्रोऽप्यत्र
कालल = त्रि० कालः कालकं चिह्नभेदः अस्त्यस्य सिध्मा० लच्। कालकचिह्नयुक्ते त्रिका०।
काललवण = न० नि० कर्म्म०। विड्लवणे रत्नमा०। “रोचनं तीक्ष्णमुष्णञ्च विडं वातानुलोमनम्” सुश्रुते तद्गुणा उक्ताः। “विडं पाकञ्च कतकं तथा द्राविड मासुरम्। विडं सक्षारमुष्णञ्च कफवातानुलोमनम्”। ऊर्द्धं कफमधो वातं सञ्चारयतीत्यर्थः। “दीपनं लघु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च। विबन्धानाहविष्टम्भिहृद्रुग्गौरवशूलनुत्” भावप्र० तत्पर्य्यायगुणाः
काललोचन = पु० १ दानवभेदे। “प्रलम्बो नरको बाली खसृमः काललोचनः” हरिवं० २४० अ० दानवोक्तौ। कर्म्म०। २ कृष्णे लोचने न० ब० व०। ३ तद्युक्ते त्रि०
काललोह = न० नि० कर्म्म०। कृष्णायसे रत्नमा० लोहस्योत्पत्तिलक्षणगुणा भावप्र० उक्ता यथा “पुरा लोमिनदैत्यानां निहतानां सुरैर्युधि। उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च। लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी। गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता। अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्तु वै। लोहं तिक्तं सरं शीतं मधुरं तुवरं गुरु। रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्। कफं पित्तं गरं शूलं शोथार्शःप्लीहपाण्डुताः। मेदोमेहौ कृमीन् कुष्ठं, तत्किट्टं तद्वदेव हि। पाण्डुत्वकुष्ठामयमृत्युदं भवेत् हृद्रोगशूलौ कुरुतेऽश्मरीञ्च। नानारुजानाञ्च तथा प्रकोपं करोति हृल्लासमशुद्धलोहम्। जीवहारि मदकारि चायसं देहशुद्धिमदसंस्कृतं ध्रुवम्। पाटवं न तनुते शरीरके दारुणां हृदि रुजाञ्च यच्छति। कुष्माण्ड तिलतैलञ्च माषान्नं राजिकां तथा। मद्यमम्लरसञ्चापि त्यजेल्लोहस्य सेवकः”।
कालवृन्त = पु० कालं कृष्णंवृन्तमस्य। कुलत्थवृक्षे रत्नमा० गौरा० ङीष्। कालवृन्ती पाटलावृक्षे स्त्री राजनि०।
कालवेला = स्त्री कालस्य शनेः वेला कालमेदः। रव्यादिवारेषु दिवानिशोरर्द्धयामभेदे सच अर्द्ध्वयामाशब्दे ३७६ पृ० उक्तः तत्फलमाह वसिष्ठः “निधनं पहरार्द्धे तु निःखत्वं यमघण्टके। कुलिक सर्व्वनाशः स्यात् रात्रावेते न दोषदाः”। ततश्चार्द्धयामरूपकालवेलायाः रात्रावपि सम्भवेन तस्य रात्रौ दोषाभावोक्तिः वारविशेषविषया तदुक्तं ज्योतिर्निबन्धे “न वारदोषाः प्रभवन्ति रात्रौ देवेज्यदैत्येन्द्रदिवाकराणाम्। दिवा शशाङ्कार्कजभूसुतानां सर्वत्र निन्द्यो बुधवारदोषः”। तस्याः सर्वदेशे वर्जनीयतामाह गर्गः “विन्ध्यस्योत्तरकूले तु यावदातुहिनाचलम्। यमघण्ठकदोषोऽस्ति नान्यदेशे तु विद्यते। मत्स्याङ्गमागधान्ध्रेषु यमघण्टस्तु दोषकृत्। काश्मीरे कुलिकं दुष्टमर्द्धयामस्तु सर्व्वतः”। विन्ध्योत्तरकूलाद्यनन्तर्गतत्वात् मत्स्यादीनां पृथगुक्तिः।
कालशाक = न० नि० कर्म०। स्वनामख्याते(नरिचा)हिन्दी भाषाप्रसिद्धे श्राद्धशाके भावप्र०। “नाडिकं कालशाकञ्च श्राद्धशाकञ्च कालकमिति” तत्पर्य्यायमुक्त्वा “कालशाकं सरं रूक्षं वातकृत् कफशोथहृत्। बल्यं रुचिकरं मेध्यं रक्तपित्तहरं हिमम्” तत्गुणाद्युक्तम्। रुच्यं रुचये दीप्तये हितमित्यर्थः। मेध्यं श्राद्धदेयत्वेन पवित्रम् यथाह हारीतः “कालशाकञ्च वास्तूकं मूलकं कृष्णनालिकाम्। वेत्राङ्कुरं कलायञ्च (मटर) पटोलं सर्षपं तथा। सूर्य्यावर्त्तं सुनिषण्णं शाकान्याहुर्मनीषिणः”।
कालशालि = पु० नि० कर्म०। कृष्णव्रीहौ धान्यभेदे राजनि० कृष्णव्रीहि–शालामुख–जतुमुख–नन्दीमुख–लावाक्षक–त्वरितक–कुक्कुटाण्डक–पारावतकपाटप्रभृतयो व्रीहयः। कषायमधुराः पाके मधुरा वीर्य्यतो हिमाः। अल्पाभिष्यन्दिनस्तुल्याः षष्टिकैर्बद्धवर्चसः। कृष्णव्रीहिर्वरस्तेषां कषायानु रसो लघुः। तस्मादल्पान्तरगुणाः क्रमशो व्रीहयोऽपरे। दग्धायामवनौ जाताः शालयो लघुपाकिनः। कषाया बद्धविण्मूत्रा रूक्षाः श्लेष्मापकर्षणाः” सुश्रुतः। तल्लक्षणमुक्तं भावप्र० कृष्णब्रीहिः स विज्ञेयोयः कृष्णतुषतण्डुलः”।
कालशे(से)य = न० कलश्याम्(स्याम्) भवः ढक्। तक्रेअम०
कालशैल = पु० नि० कर्म्म०। पर्वतभेदे तत्स्थानादि भा० व०१३९ अ० “उक्तं यथा “उशीरवीजं मैनाकं गिरिं श्वेतञ्च भारत!। समतीतोऽसि कौन्तेय। कालशैलञ्च पार्थिव!। एषा गङ्गा सप्तविधा राजते भरतर्षभ!। स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते। एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम्। समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ। एतद्दृश्यति देवानामाक्रीडञ्चरणाङ्कितम्। अतिक्रान्तोऽसि कौन्तेय! कालशैलञ्च पर्वतम्”।
कालसंरोधः = पु० ६ त०। १ चिरकालावस्थाने। “नश्वाधेः कालसंरोधान्निसर्गोऽस्त्रि न विक्रयः” मनुः। “कालसंरोधः चिरावस्थानम्” कूल्लू०। ३ त०। २ कालेन रोधे च
कालसङ्कर्षा = न० कालेन सङ्कृष्यतेऽसौ सम्–कृष–कर्मणिघञ्। नववर्षायां कुमार्य्याम्। “एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती। त्रिवर्षा तु त्रिमूर्त्तिश्च चतुर्वर्षा तु कालिका। सुभगा पञ्चवर्षा च षड्वर्षा च उमा भवेत्। सप्तभिर्मालिनी साक्षादष्टवर्षा च कुब्जिका। नवभिः कालसङ्कर्षा दशभिश्चापराजिता। एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी। त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका। क्षेत्रज्ञा पञ्चदशभिः षोडशे चान्नदा मता। एवं क्रमेण संपुज्या यावत् पुष्पं न जायते। पुष्पितापि च सम्पूज्या तत्पुष्पादानकर्म्मणि” अन्नदाकल्पः।
कालसर्प = पुंस्त्री नि० क०। कृष्णसर्पे त्रिका० स्त्रियां संयोगोपधत्वात् टाप्। पुंयोगे तु ङीष्।
कालसार = पुंस्त्री० कालः कृष्णवर्णः सारः प्रधानमस्य। कृष्णसारे मृगे शब्दर० स्त्रियां जातित्वात् ङीष्। तल्लक्षणं कृष्णसारशब्दे दृश्यम् २ पीतचन्दने कालानुसार्य्ये न० भावप्र०। तस्य गुणादि कालानुसार्य्यशब्दे दृश्यम्। “कालसाराजकर्ण्णखदिरकदरकालस्कन्धेत्यादि” सुश्रु०।
कालसाह्वय = न० कालेन समानः आह्वयोयस्य। कालसूत्रा ख्ये नरकभेदे “यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति। कन्यां वा जीवितार्याय यः शुक्लेन प्रयच्छति। सप्तावरे महाघोरे निरये कालसाह्वये। स्वेदं मूत्रं पुरीषञ्च तस्मिन् मूढः समश्नुते” भा० आदु० ४५ अ०।
कालसूत्र = न० कालस्य यमस्य सूत्रमिब बन्धनहेतुत्वात्। १ नरकभेदे भाग० ५, २६ अ० “तामिस्रोऽन्धतामिस्रः” इत्यादिनरकभेदोक्तौ “रौरवः कुम्भीपाकः कालसूत्रम्” इत्यादिना तद्भेदानुक्त्वा “यस्त्विह ब्रह्मध्रुक् स कालसूत्र संज्ञके नरके अयुतयोजनपरिमण्डले ताभ्रमये तप्ते खले उपर्यधस्तादग्न्यर्काभ्यामभितप्यमानोऽभिनिवेशितः क्षुत्पिपासाभ्यां दह्यमानान्तर्बहिःशरीर आस्ते चेष्टते अबतिष्ठते परिधायति च योवन्ति पशुरोमाणि तावद्वर्षसहस्राणि” इति लक्षितम्। “कालसाह्वयशब्ददर्शितभारतवाक्येऽन्योऽपि तद्धेतुरुक्तो मनुना तु “श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति। स मूढो नरकं याति कालसूत्रमवाक्शिराः” इत्यन्योऽपि तद्धेतुर्विथिष्योक्तः सामान्यतस्तु एकविंशतिनरकहेतु- रन्यायवर्त्तिराजप्रतिग्रह एव मनुना “यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्त्तिनः। स पर्य्यायेण यातीमान्नरकानेकविंशतिम्। तामिस्रमन्धतामिस्रम्” इत्युपक्रम्य “नरकं कालसूत्रञ्च महानरकमेव च” इत्यादिना एकविंशतिनरकहेतुत्वोक्तेः। कालस्य मृत्योः सूत्रमिव। २ मृत्युहेतुसूत्रे “वडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः” भा० व० ११४९० श्लो०।
कालस्कन्ध = पु० कालः कृष्णः स्कन्धोऽस्य। १ तमालवृक्षे २ तिन्दुकवृक्षे (ते~द) ३ जीवकवृक्षे (जिओल) मेदि०। ४ दुष्खदिरे ५ उदुम्बरे च राजनि०। ६ त०। ६ कालायवभेदे
कालहर = पु० कालं मृत्युंहरति हृ–टच्। १ शिवे २ कामरूपान्तर्गते तल्लिङ्गभेदे च। “तस्मात् पूर्व्वं भद्रकामः पर्ब्बतस्तु त्रिकोणकः। यत्र कालहरोनाम शिवलिङ्गं व्यवस्थितम्” कालि० पु० ७८ अ०। ३ समयहरे त्रि० स्त्रियांङीप्
कालहानि = स्त्री ६ त०। विलम्बे शब्दचि०
कालहीन = पु० कालेन कृष्णवर्ण्णेन हीनः। लोध्ने शब्दचि०।
कालहोरा = स्त्री काले कालभेदे होरा। १ अहोरात्रोदितद्वादशलग्नार्द्धरूपहोरायां २ समयभेदे च तत्तदीशितुरानयनम् मुहूर्त्तचि० यथा
“वारादेर्घटिका द्विघ्नाः स्वाक्षहृच्छेषवर्जिताः। सैकास्तष्टा नगैः कालहोरेशा दिनपात्क्रमात्” मु० चि०।
“वारादेरिति वारप्रवृत्तिप्रकारेण यस्मिन् क्षणे वारप्रवृत्तिर्जाता तत इष्टघटिकाद्विगुणाः कार्य्यास्ता द्विस्थाने स्थाप्याः तत्र पञ्चभिर्भक्ते यल्लब्धं तत्त्याज्यं यच्छेषं तत् द्विगुणघटीमध्ये वर्जितं कार्य्यम्। एवं विधाघट्यःसैका एकयुक्ताः कार्य्यास्ततोनगैः सप्तभिस्तष्टाभक्ता अवशिष्टाः कालहोराः स्युस्तादिनपाद्वारात् क्रमाद्गणनीयाः। यथा रविवारे इष्टघटिकाः षट् ६ द्विगुणाः १२ पृथगक्षाप्तशेष २ वर्जिताः १० नगैस्तष्टाः शेषं ३ सैकं ४ रविवार क्रमगणनया चतुर्थो बुधस्तस्य होरा यथाह वसिष्ठः “वारप्रवृत्तेर्गदितादिनेशात्कालाख्यहोरापतयः क्रमेण। सार्धेन नाडीद्वितयेन षष्ठः षष्ठश्च षष्ठश्च पुनःपुनः स्यात्” तथा कृतेऽहोरात्रे चतुर्विंशतिः कालहोरा भवन्ति अत्रानुपातः यदि घटिकानां षष्ट्या ६० चतुर्विंशतिर्होरा २४ लभ्यन्ते तदा एकया किमिति अत्रैकेन गुणे विशेषाभावाच्चतुर्विंशतिः छेदः षष्टिर्जातः उभयोर्द्वादशापवर्त्ते इष्टघटिकाद्विगुणाः पञ्चभक्ताः कालहोराः स्युरिति। तथाचोक्तं रत्नमालायाम् “वारप्रवृत्तेर्घटिका- द्विनिघ्नाः कालाख्यहोरापतयः शराप्ताः। दिनाधिपाद्यारविशुक्रसौम्यशशाङ्कसौरेज्यकुजाः क्रमेण” अथ ग्रन्थ कृतोक्तौ वासना सार्धघटीद्वगेनैका होरा द्विगुणिताः सार्धद्विघट्यः पञ्च भवन्ति। अतएवोक्तं “वारादेर्घटिका द्विघ्ना” इति एकयोगे षट् जाता एवं रविवारक्रमेण गणनया द्वितीया शुक्रस्य कालहोरा प्रवृत्ता अतौक्तं सैका इति। भवन्मतेऽपि सूर्य्यात् षष्ठः शुक्रस्तस्यैव होरा इयञ्च शुक्रहोरा पञ्चघटीपर्यन्तं स्वमते इष्टघटिकाः ४ द्विगुणाः ८ अत्र पञ्चभ्य आधिक्यमनुचितमिति द्वितीयस्थाने स्थापयित्वा पञ्चभक्तावशिष्टत्रयेणोनाः पञ्च जाताः अत उक्तं स्वाक्षहृच्छेषवर्ज्जिता इति। एकयोगे षट् एवं सति पुनः सैव होरा एवमिष्टघटीभिः कालहोराऽऽनयनं सुगमम्। वाराणां सप्तसंख्यात्वात्तदाधिक्यमनुचितमिति नगैस्तष्टा इत्युक्तम्। क्रमगणनायान्त्वियं युक्तिः द्वयोर्होरास्वामिनोरन्तरं पञ्च सम्भवति। एकयोगस्तु वर्त्तमानकालहोराज्ञानार्थमतो रविक्रमगणनया भवद्विवक्षिता सैव होरा भवति। विवाहवृन्दावने तु कालहोरा उदयमारभ्योक्ताः यथा “तत्कालार्कन्यूनलग्नांशपिण्डोभक्ताः पञ्चक्षौणिभिर्भुक्तहोराः। भास्वच्छुक्रज्ञेन्दुसौरेज्यभौमा संख्यायैरन्वारतास्ते तदीशाः” अनयोर्विषयविभागो वसिष्ठसंहितायाम् “वारप्रवृत्तेर्विज्ञानं क्षणवारार्थमेव हि। अखिलेष्यन्यकार्येषु दिनादिरुदयाद्भवेत्”। क्षणवारः कालहोरारूपः तदर्थं वारप्रवृत्तिः, अन्यकार्येषु दिक्शूलादिषु तिथिवारप्रयुक्तेषु नक्षत्रवारप्रयुक्तेषु चायोगेषु सुयोगेषु च सूर्योदयादेव वारा ग्राह्याः” पी० धा०। “वारे प्रोक्तं कालहोरासु तस्य धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य” मु०।
“अथ कालहोराप्रयोजनमन्यच्च शालिन्याह। वारे प्रोक्तमिति। यत्कर्म यस्मिन् वारे प्रोक्तं तद्दिनस्य सदोषत्वेऽत्यावश्यककृत्ये तस्य कालहोरायां कर्त्तव्यं यदाह नारदः “यस्य खेटस्य यत्कर्म वारे प्रोक्तं विधीयते। ग्रहस्य क्षणवारेऽपि तस्य तत्कर्म सर्वदा”। अत्र केचित् यस्य वारोयत्कर्मप्रोक्तंतस्य बलिनो नवांशे सूर्यश्चन्द्रोवा चेत्तिष्ठेत् तदा तत्कर्म कार्यमित्याहुः उक्तञ्च “यस्य ग्रहदिने कर्म यत्किञ्चिदभिधीयते। तस्यांशसंस्थिते सूर्ये चन्द्रे वा तद्विधीयत” इति। कैणित् प्रत्येकं होराफलान्युक्तानि “भानुहोरा मृतिं कुर्याच्चन्द्रहोरा स्थिरासनम्। काराबन्धं भौमहोरा बुधहोरा च पुत्रदा। वस्त्रालङ्कारदा जीवहोरा शौक्री विवाहदा। जडत्वं शनिहोरायां सप्तहोराफलन्त्विदम्” उदयकाले यदा होरा तदा उदयादारभ्यहोरानयनप्रयोजनन्तु “पादः स्ववर्षे चदलं स्वमासे दिने स्वकीये चरणोनरूपम्। रूपं स्वहोरास्विति कालवीर्यमुक्तं हि होरानिपुणैः पुराणैरिति”। युक्तं चैतत् वर्षेशादीना मुदयादितः प्रवृत्तानां साहचर्याद्वारेशा अप्युदयादेव गणनीयाः” पी० धा०।
***