कार्य्य = त्रि० कृ–कर्म्मणि ण्यत्। १ कृतिसाध्ये २ कर्त्तव्ये। “तस्मात् शास्त्रं प्रमाणन्ते कार्याकार्य्यव्यवस्थितौ” गीता। “नास्य कार्य्योऽग्निसंस्कारो न च कार्य्योदकक्रिया” मनुः। “शब्दानां कार्य्ये कार्य्यान्विते वा शक्तिरिति” मीमांसकाः। ३ उत्पाद्ये जन्ये “व्यापारोभावना सैवोत्पादना सैव च क्रिया। कृञोऽकर्मतापत्तेर्न हि यत्नोऽर्थ इष्यते” हर्य्युक्तेः कृञोभावनारूपव्यापारार्थकत्वात् तत्साध्ये “यदि रसः कार्य्यः स्यात् विभावादिकारणकः स्याद्” सा० द०। गुरुमते यागादिकृतिसाध्ये ४ अपूर्ब्बे। यथा चापूर्ब्बस्यैव कार्य्यत्वं तथाऽपूर्व शब्दे २४८ पृ० दर्शितम्। ५ प्रयोजने ६ उद्देश्ये तदिच्छयैव कर्मसु प्रवृत्तेस्तस्य तथात्थम् “उपसर्पति कार्य्यार्थी कृतार्थी नोपसर्पति” हितो०। अष्टादशानां विवादपदानाञ्च उद्देश्यत्वादेव तथात्वम्। “यस्मात्कार्य्य समारम्भश्चिरात्तेन विनिश्चितः” व्य० त० कात्या० स्मृतिः। उप्रचारात् ७ हेतौ च मेदि०। व्याकरणमते ८ आदिश्यमाने वर्णादौ। “कार्य्यमनुभवन् हि कार्य्यी निमित्ततया नाश्रोयते” महाभा० “भिषक् कर्त्ताथ करणं रसा, दोषास्तु कारणम्। कार्य्यमारीग्यमेवैकम्” सुश्रुतोक्ते ९ आरोग्ये च तत्र कर्तृत्वकरणत्वकारणत्वकार्य्यत्वार्थेषु भिषगादिशब्दानां परिभाषितत्वात्। भावे ण्यत्। १० कर्मणि व्यापारे। ज्योतिषोक्ते ११ जन्मलग्नावधि दशमस्थाने। “कार्य्याधीशः स्वगेहे बुधगुरुकविभिः संयुतो वीक्षितो वा” जातकम् कार्य्यस्य व्यापाररूपत्वात्तथात्वम्।
कार्य्योत्पत्तिप्रकारोमतभेदेन चतुर्द्धा “तत्र असतः सज्जायते इति सौगताः तैरभावादेव कार्य्याणामुत्पत्तेः स्वीकारात्। सतोऽसज्जायते इति नैयायिकाः तैः प्रागुत्पत्तेः घटादोनामसत्त्वस्य, मृदादिकारणस्य च तदासत्त्वस्य च स्वीकारेण असत उत्पत्तेः स्वीकारात्। सतोविवर्त्तः कार्य्यं जगत् न वस्तु सदिति अद्वैतवादिनः। सतः सज्जायते इति साङ्ख्याः। विवृतञ्चैतदुत्पत्तिशब्दे ११०८ पृ०। यथा च लिङ्गादेः कार्य्यत्वेनापूर्व्ववाचकता तथा गुरुमत प्रदर्शने शब्दचि० उक्तं यथा
“अथ खर्गकामोयजेतेत्यादौ इष्टसाधनत्वं काय्यत्वं वा यद्विधिः समभिव्याहृतक्रियान्वयी तदन्यान्वयी वा। तत्र गुरवः नाहत्य क्रिया कार्य्यतया लिङा बोधयितुं शक्यते स्वर्गकामनियोज्यान्वययोग्यताज्ञानविरहात् कामनाविशिष्टस्यहि ममेदं कार्य्यमितिबोद्धृत्वं नियोज्यत्वं तत्कामनायास्तद्बोधोपयोगे सति भवति। स च कामनानन्तरं काम्यसाधनताबोधात् कार्य्यताबोधे सति स्यात् एवञ्च स्वर्गसाधनताबोधे सति स्वर्गकामनियोज्यान्वययोग्यता। न च कालान्तरभाविस्वर्गे क्रिया साक्षात् परम्परया वा साधनमिति शब्दोबोधयितुमर्हति आशुविनाशित्वात् परम्पराघटकानुपस्थितेस्तृतीयप्रकाराभावात् अन्यथा तमादाय साधनत्वसम्भवात् कल्प्यमप्यपूर्व्वं न स्यात् इष्टसाधनता विधिपक्षे स्फुटैवानुपपत्तिः कार्य्यताविधिपक्षेऽपि अन्वय प्रकारतया साधनत्वं शाब्दमिति फलतो न विशेषः। अतः क्रियातोऽन्यत् खर्गसाधनतार्हं क्रियाकार्य्यतानिर्वाहकं लिङाद्यर्थः”। व्याकृतञ्चै तत् मथुरानाथेन–
“प्रसङ्गादपूर्वस्य विधिप्रत्ययवाच्यतां प्रभाकराभिमतां निराकर्त्तुं विचाराङ्गसंशयप्रयोजिका विप्रतिपत्तिमादर्शयति अथेत्यादिना यद्विधिः यद्विधिपदोपस्थापितार्थः। समभिव्याहृतक्रियान्वयीति एतद्विधिसमभिव्याहृतधातूपस्थापितार्थान्वयी तदन्यान्वयी वेत्यर्थः तदन्वयित्वञ्च तद्विशेष्यकत्वावच्छिन्नशाब्दबोधप्रकारताश्रयत्वम्। अत्र विधिकोटिः, विधेः कार्य्यत्वे शक्तिवादिनां नैयायिकानां, तन्नये स्वर्गकामकृतिसाध्यो यागैत्थन्वयात्, निषेधकोटिस्तु कार्यत्वरूपेणापूर्व्वे शक्तिवादिनां प्राभाकराणां, तन्नये स्वर्गकामस्य यागविषयकं कार्य्यमिति यागविषयककार्यवान् स्वर्गकाम इत्येव वान्वयबोधात् अत्र विषयकत्व जन्यत्वं तच्च यागकार्ययोः संसर्गः। कार्यत्वं कृतिसाध्यत्वम् अपूर्व्वस्यापि क्वचिल्लक्षणादिना धातूपस्थापितत्वाच्च विधिकोटौ सिद्धसाधनं निषेधकोटौ बाध इति तद्वारणाय एतद्विधि समभिव्या हृतेति धातुविशेषणम्। तदन्यान्वयित्वञ्च तदन्वयिभिन्नत्वं यथाश्रुतस्य विरोधिकोटित्वाभावात्। इष्टसाधनत्वादिना प्रत्येकरूपेण पक्षत्वे द्वयोरसंग्रहः। इष्टसाधनताविधिपक्षे इष्टसाधनत्वस्यापि विध्यर्थकार्येऽन्वयादतः पक्षे यद्विधिरिति। इत्थञ्च यद्विध्यर्थत्वेन द्वयोरनुगमान्नोक्तदेषः इष्टसाधनत्वं कार्यत्वं वेति तु स्वरूपकथनं न तु तद्रूपेण पक्षे प्रवेशः इष्टसाधनत्वमिति प्राभाकरैकदेशिमते। कार्यत्वंकृतिसाध्यत्वम्। न च गुरुनये कार्यस्य धर्मिणो विध्यर्थतया कृतिसाध्यत्वरूपस्य कार्यत्वस्य विधिप्रत्ययप्रवृत्तिनिमित्तत्वमेव कुतो विध्यर्थत्वमिति वाच्यं कार्यस्य विध्यर्थत्वेऽपि अव- च्छेदकविधया कार्यत्वस्यापि विध्यर्थत्वात्। वस्तुतस्तु तन्मते कृतिसाध्यत्वरूपं कार्यत्वं न शक्यतावच्छेदकम् अपि तु प्रागभावप्रतियोगित्वरूपं ध्वंसप्रतियोगित्वरूपं धर्मत्वरूपं वा लाघवात्। कृतिसाध्यत्वन्तु पृथगेय शक्यं लिङ्सामान्यशक्यं वा पचेतेत्यादिलौकिकस्थलानुरोधात्। अन्वयबोधोऽपि यागविषयकं कार्यं स्वर्गकामकृतिसाध्यमित्याकारकः, कृतिसाध्ययागविषयककार्यवान् स्वर्गकाम इत्याकारकोवेति यथाश्रुतएव साधुः। पक्षतावच्छेदकावच्छेदेन विधिकोटि सिद्धेरुद्देश्यतया बलवदनिष्टाननुबन्धित्वस्य प्रकृत्यर्थेऽन्वयमादाय नांशतः सिद्धसाधनं न वा कृतिसाध्यत्वेष्टसाधनत्वयोरन्यतरत्रांशतः साध्यसिद्धिमादायार्थान्तरत्वम्। प्रवर्त्तकज्ञानप्रकारीभूतत्वेन विध्यर्थो विशेषणीयः, तेन वर्त्तमानत्वादेः कालस्य संस्यायाश्च तादृशविधिप्रतिपाद्यत्वेऽपि न तत्र विधिकोटावंशतो बाधः। न चेष्टसाधनत्वत्वादौ बिध्यर्थ तावच्छेदकेऽशतो बाधः, प्रवर्त्तकज्ञानप्रकारीभूतत्वस्य प्रवृत्तिविशेष्यांशे प्रवर्त्तकज्ञानप्रकारत्वरूपत्वात्। यद्वा संख्याकालातिरिक्तत्वेन विध्यर्थोऽपि विशेषणीयः। विधिशक्यत्वरूपस्य विध्यर्थत्वस्य पक्षतावच्छेदकत्वादिष्टसाधनत्वत्वादौ नांशतोबाधः। कृतिसाध्यत्वस्य पृथक् शक्यतया नैतदसंग्रहः निषेधसिद्धिस्तु पक्षतावच्छेदकसामानाधिकरण्येन उद्देश्या नातोबलदनिष्टाननुबन्धित्वेऽशतो बाधः। प्रवर्त्तकज्ञानप्रकारीभूतत्वमात्रेण पक्षतायाम् ओदनकामः पचेदित्यादिविध्यर्थे ओदनसाधनत्वपाकमात्रविषयककृतिसाध्यत्वादौ विधिकोटावंशतो बाध इति। स्वर्गकामो यजेतेत्यादिस्थलीय तत्तद्विध्यर्थत्वेन पक्षतालाभाय स्वर्गकामो यजेतेत्यादाविति विधिविशेषणमिति भावः। नव्यास्तु विज्ञातविधितत्त्वार्थस्तु तदन्वयिनं पृच्छति अथेति न तु विप्रतिपत्तिपरोऽयं ग्रन्थःगुरुणा समं विवादे तु कार्य्यत्वं विधिप्रत्ययशक्यतावच्छेदकं नवेति विप्रतिपत्तिरूहनीया विधिकोटिः परेषाम्। नच कार्यस्य विधिप्रत्ययशक्यत्वेऽपि तस्य प्रकृत्यर्थयागादावभेदान्वयेऽपि नैयायिकानां विवक्षितार्थसिद्ध्याऽर्थान्वरप्रसङ्ग इति वाच्यं धात्वर्थप्रत्ययार्थयोरभदान्वयबोधस्याव्युत्पन्नतया तादृशबोधासम्मवात्। अन्यथा विप्रतिपत्तावपि यागनिष्ठकृतिसाध्यत्वस्य निरूपकतासम्बन्धेन विध्यर्थे कृतावन्वयादपि नैयायिकानां विवक्षितार्थसिद्ध्याऽर्थान्तरप्रसङ्गस्य दुर्वारत्वादिति प्राहुरिति दिक्। अत्र गुरव इति अत्र विप्रतिपत्तौ प्रश्ने वा। नाहत्येति आहत्य–साक्षात् अपूर्वकार्य्यत्वानुपपत्तिज्ञानद्वारा पश्चात्त बोध्यतएवेति भावः। क्रिया–यागादिः, कार्यतया स्वर्गकाम कृतिसाध्यतया। नचैवम् अनुपपत्तिज्ञानोत्तरकालिकबोध मादाय विधौ सिद्धसाधनं निषेधे च बाध इति वाच्यं तदन्वयित्वस्य शाब्दत्वघटितत्वादेव सिद्धसाधनादिनिरासात् अनुपपत्तिज्ञानोत्तरकालिकबोधस्यैव औपादानिकबोधत्वेन शाब्दत्वविरहात्। औपादानिकत्वञ्च प्रत्यक्षत्वादिवदनुभवत्व व्याप्योधर्मविशेषः तदवच्छिन्नं प्रति च श्रौतानुपपत्ति ज्ञानसचिवः शब्दएव पुनरनुसन्धीयमानोहेतुः। अतएवानुपपत्तिज्ञानसचिवः शब्दएव पञ्चमं प्रमाणमिति परसिद्धान्त इति भावः। स्वर्गकामनियोज्येति स्वर्गकामोयोविधिवाक्यनियोज्यस्तदीयकृतिसाध्यत्वान्वयबोधप्रयोजकीभूतस्य ज्ञानस्य विरहादित्यर्थः। वक्ष्यमाणयुक्त्या यागे स्वर्गकामकृति साध्यत्वान्वयबोधे यागनिष्ठेष्टसाधनताज्ञानस्य हेतुत्वेन ग्रथमं तद्विरहादिति भावः। प्रयोजकज्ञानविरहमेवोपपादयति कामनाविशिष्टस्य हीति ममेदं कार्यमिति यागविशेष्यकस्वर्गकामकृतिसाध्यत्वप्रकारकमित्यर्थः बोद्धृत्वं शाब्द बोधोपयोगित्वं तच्च कारणतावच्छेदकसाधारणं तेन वक्ष्यमाणक्रमेण कामनाया अपि तादृशशाब्दबोधोपयोगित्वं सङ्गच्छते कामनाविशिष्टस्य तादृशबोधोपयोगित्वं समवायिकारणतया नियोज्यत्वं सकलप्रामाणिकसिद्धनियोज्यव्यवहारविषयतावच्छेदकं तदिति स्वर्गकामनाविशिष्टस्य तादृशबोधोपयोगित्वमित्यर्थः। –तद्बोधोर्पयोगे तद्बोधोपयोगित्वे सतीत्यर्थः। विशेष्यान्वयिनाऽन्वयिन एव विशेषणतया विशेषणस्य तदुपयोगित्वं विना विशिष्टस्य तदुपयोगित्वा सम्भवात्। न च रूपवति रस इत्यादिवत् कामना चोपलक्षणमिति वाच्यं विशेषणत्वसम्भवे उपलक्षणत्वस्यान्याय्यत्वादिति भावः। स चेति कामनायास्तादृशबोधोपयोगश्चेत्यर्थः। कामनानन्तर कामनाप्रकारकज्ञानानन्तरं यः काम्यसाधनताबोधः। कामनाघटितकाम्यसाधनताबोध इति यावत् तस्मात् कार्यताबोधे सति तज्जन्यो यदि कार्यताबोधस्तदैव स्यात् कामनायाः कारणतावच्छेदकत्वात् न हि कामनैव साक्षात् कार्य्यताबोधजनिकाऽसम्भवात् इत्यर्थः। अतः काम्यसाधनताज्ञानं स्वर्गकामकृतिसाध्यत्वान्वयप्रयोजकम् इति बोधः। स्वर्गकामेति स्वर्गकामोयो नियोज्यस्तदीयकृतिसाध्यत्वान्वयबोधप्रयोजकं ज्ञानमित्यर्यः। नन्धेवं प्रथमं वेदादुयागे स्वर्गसाधनताज्ञाने सति तदनन्तरं तत्र स्वर्गकामकृतिसाध्यता बोधो भविष्यति किं कार्यत्वरूपेण विधेर पूर्व्वशक्त्येत्यत आह नचेति क्रिया–यागादिः। साक्षादिति अव्यवहितपूर्व्वत्वसम्बन्धेन कार्याधिकरणीभूतक्षणनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकान्यथासिद्ध्यनिरूपकधर्म्मवत्त्वं साक्षात् साधनत्वं, तादृशधर्मावच्छिन्नजनकत्वे सति कार्य्यनियतपूर्ववर्त्तितावच्छेदकान्यथासिद्ध्यनिरूपकधर्म्मवत्त्वञ्च परम्परासाधनत्वमिति भावः। साक्षात्साधनत्वस्याबोधने हेतुमाहाश्विति यागादेरिच्छाविशेषरूपतया तृतीयक्षणवृत्तिब्धंसप्रतियोगित्वात् इत्यर्थः। परम्परासाधनत्वस्याबोधने हेतुमाह परम्परेति अव्यवहितपूर्व्वत्वसम्बन्धेन स्वर्गविशेषाधिकरणीभूतक्षणनिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकान्यथासिद्ध्यनिरूपकधर्मावच्छिन्नजनकत्वे सति स्वर्गविशेषनियतपूर्ववर्त्तितावच्छेदकान्यथासिद्ध्यनिरूपकधर्मवत्त्वरूपपरम्परासाधनत्वघटकस्यानुपस्थितेरित्यर्थः। नचापूर्वघटितर्विशिष्टपरम्परासाधनत्वस्यैव विध्यर्थतया तत एव विशिष्टोपस्थितिसम्भवात् किमपूर्वस्य पृथगुपस्थित्या इति वाच्यं परम्परासाधनत्वान्वयबोधे परम्पराघटक फलपर्यन्तस्थायिव्यापारोपधायकत्वस्यान्वयप्रयोजकरूपत्वेन योम्यतात्वात् प्रथमन्तज्ज्ञानं विना तदन्वयबोधासम्भवादिति भावः। नन्वेतदुभयविलक्षणमेव साधनत्वं बोध यिष्यतीत्यत आह तृतीयेति अन्यथा–तृतीयप्रकारसत्त्वे। साधनत्वसम्भवादिति अपूर्व्वं विनापि यागस्य स्वर्गसाधनत्व सम्भवादिति भावः। कल्प्यमिति तव नयेऽप्यपूर्व्वकल्पना न स्यादित्यर्थः आशुविनाशिनो यागस्य कालान्तरभाविस्वर्ग साधनत्वान्यथानुपपत्त्यैव त्वयाप्यऽपूर्वकल्पनादिति भावः। नन्वेषं प्रथमं परम्परासाधनत्वरूषेण परम्परासाधनत्वान्वयासम्भवेऽपि सामान्यतः स्वर्गसाधनत्वरूपेणान्वयः स्यादित्यतआह इष्टसाधनताविधिप्रक्ष इति। सामान्यत इष्टसाधनत्वस्य बिध्यर्थत्वपक्षे इत्यर्थः। अनुपपत्तेः साक्षात्परम्परौदासीन्येन फलसाधनत्वान्वयेऽपि फलपर्य्यन्तस्थायित्वतादृशव्यापारोपधायकत्वान्यतरत्वस्य योग्यतात्वेन तज्ज्ञानं विना सामान्यतोऽपि साधनत्वान्वया सम्भवात् इति भावः। अत्रैवानुपदं ननु सजातीय इति न च साक्षात् परम्परासाधनत्वोभयसाधारणं खर्गसाधनत्वमनुगतमेव दुर्वचमिति वाच्यं खर्गत्वावच्छिन्नविजातीयस्वर्गनियतपूर्ववर्त्तितावच्छेदकान्यथासिद्ध्यनिरूपक धर्म्मवत्त्वस्यैव तत्त्वात्। नचैवमव्यवधानस्याप्रवेशात् स्वतोव्यापारतो वा स्वर्गाव्यवहितपूर्व्वक्षणमसतोऽपि नियत पूर्ब्बकारणत्वापत्तिरिति वाच्यं अन्यथासिद्ध्यनिरूपकल्प विशेषणेनैव तद्वारणात् विजातीयस्वर्गनियतपूर्ब्बवर्त्तिता वच्छेदकत्वन्तु यावत्योविजातीयस्वर्गव्यक्तयः प्रत्येकं तत्पूर्ब्बक्षणवृत्तिनियतत्वं विजातीयस्वर्गोतपत्त्यधिकरणनिष्ठस्वावच्छिन्नोत्तरत्वसम्बन्धावच्छिन्नाभावप्रतियोगितावच्छेदकान्यत्वमिति यावत् एवमग्रेऽपि सर्व्वत्र बोध्यम्। कार्य्यत्वं कारणत्वञ्चातिरिक्तपदार्थ इत्यभिप्रायेणेदमित्यपि कश्चित्। ननु भवन्मतेऽपि बिधिप्रत्ययात् कार्य्यत्व रूपेणापूर्व्वावगमेऽपि तस्य स्वर्गसाधनत्वं नावगतं तथा च तावन्मात्रज्ञानात् कथं प्रवृत्त्यर्थमुत्तरकालं परम्परया स्वर्गसाधनत्वावगमः परम्परासाधनत्वस्यापूर्व्वनिष्ठसाधनताघटितत्वात्। न च कार्य्यवत् साक्षात् साधनत्वस्यापि विध्यर्थतया तस्य च समानपदोपात्ततया कार्य्य एवान्वयादपूर्व्वस्य स्वर्गसाधनत्वावगम इति वाच्यं तथापि कार्य्यमात्रस्य विध्यर्थत्वपक्षेऽप्रतीकारादित्यत आह कार्य्यताविधिपक्ष इति। कार्य्यत्वमात्रस्य विधिप्रवृत्ति निमित्तत्वपक्षे इत्यर्थः मात्रपदादिष्टसाधनत्वमात्रस्य व्यवच्छेदः तेन संख्यादेर्विध्यर्थत्वेऽपि न क्षतिः। कृतिसाध्यत्वस्य पृथक्शक्यत्वपक्षे कार्य्य मात्रस्यविधिशक्यत्वपक्षेऽपौत्यर्थः। मात्रपदादिष्टसाधनत्वव्यवच्छेदः। अन्वयप्रकारतयेति कृतिसाध्यत्वान्वयप्रयोजकरूपतयेत्यर्थः। साधनत्वं पदानुपस्थितमपि स्वर्गसाधनत्वं घटेन जलमाहरेत्यादौ अपदार्थस्यापि च्छिद्रेतरत्वस्य भानवदिति भावः। यद्यपि अपूर्ब्बे कृतिसाध्यत्वान्वयबोधे स्वर्गसाधनत्वस्यान्वयप्रयोजकरूपतया योग्यतात्वे शाब्दबोधात् पूर्ब्बमपूर्व्वेतज्ज्ञानमसम्भवि अपूर्व्वस्य शाब्दबोधात् पूर्व्वमज्ञानात्, तथापि परनये बोधनीयपदार्थे बोध्यताज्ञानं न कारणं बोधनीयपदार्थस्यापूर्व्वत्वात् किन्तु पदार्थतावच्छेदकावच्छिन्ने क्वचित्तस्य ज्ञानं तच्च प्रकृतेऽपि सम्भवति कार्यत्व रूपेण घटादावेव जलाहरणरूपकार्य्यसाधनताज्ञान सत्त्वादिति निगर्वः। स्वयमुपसंहरति अत इति स्वर्गसाधनतार्हमिति साक्षात्स्वर्गसाधनत्वस्यान्वययोग्यमित्यर्थः। क्रियाकार्यतानिर्व्वाहकमिति कार्य्योपस्थिति रिष्टसाधनताज्ञानं ततः कृतिरिति प्रणाल्या क्रियायाः कृति साध्यतानिर्वाहकत्वमित्यर्थः लिङाद्यर्थ इति आदिपदात्तव्यादिपरिग्रहः”।
शब्दचिन्तामणौ स्थानान्तरे गुरुमते वैदिकलिङादेः कार्यत्वेनापूर्व्ववाचकता शङ्कापूर्ब्बकं दर्शिता यथा।
“नन्वपूर्वे व्युत्पत्तिविरहः तथा हि प्रसिद्धार्थे स्वर्गपदसमभिव्याहारान्यथानुपपत्त्योपस्थिते शक्तिर्ग्रहीतव्या न च शाब्दानुभवात् पूर्व्वमपूर्व्वमुप्रस्थितं मानाभावात् अपूर्व्वत्वव्याघातादवाच्यत्वापाताच्च। न च लिङादिना तदुपस्थितिः व्यूत्पत्त्यनन्तरं तत्प्रवृत्तावन्योन्याश्रयात्। न च कार्य्यत्वेनोपलक्षिते तत्र शक्तिराहः उपलक्षणं हि स्मारणमनुमापनं वा अगृहीते सम्ब वाग्रहात् अशक्यमिति? मैवम् कार्येधर्मिणिकार्यत्वेन श क्तग्रहात् कार्यत्वविशिष्टञ्चोपस्थितमेव ततोन्विताभिधानदशायां यागविषयकं कार्यमित्यनुभवः स्वर्गकामायोग्यतया धटादिकं तिरस्कृत्य क्रिया भिन्ने योग्यतावशाद्यागविषयकापूर्वे पर्यवस्यति, नत्वपूर्वत्वेन शक्तिग्रहो न वाऽपूर्व्वं कार्यमित्यनुभवः भवति च सामान्यतः सम्बन्धबुद्धिः सहकारिवशाद्विशेषबुद्ध्युपायः यथातवैव कर्तृमात्रसम्बन्धग्रहात् कर्तृविशेषसिद्धिः। ननु कार्यत्वेनापि किं घटादौ शक्तिग्रहः उतापूर्वे उभयत्र वा? नाद्यः, अन्यप्रतिपत्तावन्यशक्तिग्रहानुपयोगात्। नान्त्यौ, प्रागनुपस्थितेरिति चेत्? न येनहि रूपेण शब्देनानुभवो जन्यते तेन रूपेण शक्तिग्रहः पदार्थस्मरणञ्च शब्दानुभवहेतुः। नहि प्रमेयत्वेन शक्तिग्रहः पदार्थस्मरणञ्च घटत्वेन शाब्दानुभवहेतुः। एवञ्च घटादावेव कार्ये शक्तो लिङिति शक्तिग्रहः ततः कार्यमिति स्मरणं ततो योग्यतादिवशात् प्रचरद्द्रव्यगुणकर्माणि कार्याणि विहाय याग विषयकं कार्यमित्यनुभवो भवन्नपूर्वमालम्बते योग्यत्वाच्च तस्य स्थायित्वलाभः। अतएव वाक्यार्थानुभवमात्रविषयत्वात्तदपूर्व्वम्। न च स्मृतानामाकाङ्क्षादिवशादन्वयबोधः पदेन क्रियते, नचापूर्व्वं स्मृतिगोचर इति वाच्यं? शक्तिग्रहपदार्थस्मरणशाब्दानुभवानां समानप्रकारकतामात्रेण हेतुहेतुमद्भावावधारणात् लाघवादावश्यकत्वाच्च। न च क्वचित् सहचारमात्रेणान्वयप्रतियोगिन एवोपस्थितिस्तथा, गौरवात् गोपदादपूर्वगवाननुभवप्रसङ्गाच्च, विशिष्टवैशिष्ट्य बोधे सर्व्वत्र तथैव, अन्यथा पर्व्वतीयवह्निर्व्यापकतया नावगत इति कथं तदन्वयोऽनुमितौ। ननु सामान्यलक्षणया प्रत्यासत्त्या सर्व्वाएव व्यक्तयो व्याप्तिग्रहे शक्तिग्रहे च विषयी भवन्ति कथमन्यथा पर्व्वतीयधूमव्याप्त्यग्रहे तस्म दनुमितः? इति चेत् न येन रूपेण व्याप्तिग्रहस्तेन रूपेण व्याप्यत्वेन वा पक्षधर्मताग्रहोऽनुमितौ कारणमस्तु किन्तया। अपि च सा यद्यस्ति ममापि, नास्ति चेत्तवापि। किञ्च तव दर्शने नास्तीति सुतरामपूर्व्ववाच्यता कार्यत्वेन हि रूपेणापूर्वस्यापि शक्तिग्रहविषयत्वं पदार्थस्मृतिविषयत्वञ्च। नचैव मपूर्वत्वक्षतिः यागविषयकत्वादेर्विशेषस्य कार्ये लिङंविनानु- पस्थितेः यथा पर्व्वतोयत्वभानं वह्नौ, नानुमितिं बिनाननु यदि कार्ये क्रियासाधारणे लिङ् शक्तिः क्रिया चायोग्येति योग्यापूर्वलाभः तदा नित्यनिषेधापूर्व्वयोरलाभः न हि तत्रायोग्यतया क्रिया त्यक्तुं शक्यते फलाश्रवणात् कल्पनायाञ्च वीजाभावात् नचैकत्र निर्णीतः शास्त्रार्थः परत्रापि तथैवेति न्यायात्तत्राप्यपूर्व्वमेव लिङाद्यर्थ इति युक्तं नह्यपूर्व्वत्वेन शक्तिग्रहः किन्तु कार्यत्वविशिष्टे धर्मिणि, क्रिया च तथा भवत्येव न च कार्येण समं क्रियान्वयानुपपत्त्याऽपूर्वे पर्यवसानमभेदस्याप्यन्वयत्वादिति मैवम् न हि लोक पचेतेत्यादौ कार्ये धर्मिणि शक्तिः कल्पिता किन्त्वनन्यलभ्यकृतिरूपे कार्यत्वमात्रे। धर्मिणः पाकादेर्धातोरेवोपस्थितिसम्भवात् क्रियाकायतान्वयस्यान्वि ताभिधानलभ्यत्वात् तथाच यर्मिणि शक्तिर्वेदेकल्पनीया सा च क्रियानिरासेनैव, न हि क्रियायाः कार्यत्वान्वययोग्यत्वेन धर्मिणि शक्तिः कल्पयितुं शक्यते तस्मादयोग्यतया क्रियानिरासानन्तरं तदतिरिक्त एव शक्तिकल्पनं न हि क्रियातिरिक्तकार्यात् कार्यमात्रं लघु ततः क्रियापि शक्यैवेति वाच्यं यतो न ब्रूमः क्रियातिरिक्तकार्यत्वेन शक्तिः किन्त्वयोग्यतया निरस्तायां क्रियायां धर्मिणि शक्तिकल्पनसमये यत्क्रियातिरिक्तं तत्र शक्तिः न तु शक्तिग्रहे क्रियातिरिक्तत्वप्रबेशः न हि यत्प्रयुक्तानुपपत्त्या यत् कल्पनं तदेब तस्य विषयः एवञ्च कार्यत्वेनापि तदतिरिक्त एव शक्तिकल्पना। नित्यनिषेधयोरपि तदेवोपासनाद्यन्वययोग्यं लिङाऽभिधीयते न तु कार्यत्वमात्रे धर्मिणि बाधकाभावात् लक्षणाप्रसङ्गाच्च। घटादिस्तु लिङशक्तिग्रहेण तिरस्क्रियते न वा पुरस्क्रियते उभयथापि गौरवात् अन्विताभिधान दशायां त्वयोग्यतया तस्याप्रवेशः। विधिप्रत्ययस्य च तत्राप्रयोगः केबलस्य तस्यासाधुत्वात् धातुसभभिव्याहारे च तदर्थेनान्वयबोधजनननियमेन घटाद्यप्रतिपादकत्वात् अतएवाप्रयोगादेवाप्रयोगोऽपूर्ब्बत्वं वा प्रयोगोपाधिरिति वदन्ति। अयाप्रतिपाद्यमेव घटादिवृत्तितया न कार्यत्वं प्रवृत्तिनिमित्तं प्रतिपाद्यमात्रवृत्तेरेव तथात्वात् अन्यथा प्रमेयत्वमेव तथास्त्विति चेत् न, यत्प्रकारिका हि प्रतिपत्तिः पदजन्या तदेव तत्र प्रवृत्तिनिमित्तं फलबलकल्प्यत्वाच्छक्तेः नतु प्रतिपाद्यमात्रवृत्तिः सास्नात्वादौ व्यभिचारात् न च प्रमेयत्वं तथा, तद्बोधस्याप्रवर्त्तकत्वात् अतएव लोके लिङ् लाक्षणिकी, क्रियाभिन्ने धर्मिणि वेदे शक्तिकल्पनात। न च लौकिकानामपूर्व्वे तात्पर्य्ये सम्भवति पूर्व्वं प्रमाणान्तरेणा प्रतीतेः। क्रियासाधारणशक्तावपि लोके लक्षणैव प्रचेतेत्यत्र हि पाककार्यतावगम्यते तत्र कार्यत्वे लिङस्तावपर्यं लाघवात् न धर्मिणि, क्रियाया धादलभ्यत्वात् तदाहुः “तात्पर्याद्धि वृत्तिर्न वृत्तेस्तात्पर्यमिति”। तृतीयायाः करणत्वैकत्ववत् कार्यं कार्यत्वञ्च न स्वतन्त्रं शक्यं किन्तु विशिष्टं विशेष्याच्च विशेषणमन्यदेवेति कर्यत्वे लक्षणा न च कार्यत्वविशिष्टधम्युपस्थितावपि धर्म्यंशमपहाय क्रियया कार्य्यतान्वयोऽस्तु किं लक्षणयेति वाच्यं नहीतरधर्मिगतत्वेनोपस्थितस्य धर्म्यन्तराकाङ्क्षास्ति अतः स्वतन्त्रकार्योप्रस्थितये लक्षणा यथा “पुरोद्वाशकपालेन तुषानुपबपति” इत्यत्र पुरोडाशार्थतया तदन्वितत्वे नोपस्थितस्य कपालस्य नोपवापाकाङ्क्षेति स्वतन्त्रकपालोपस्थितयेऽधिष्ठाने लक्षणा। न च व्युत्पत्तिविरोधः न हि ल के क्रियाकार्यत्वेन शक्तिरवधारिता येन विरोधी भवेत् किन्तु कार्यत्वमात्रे, क्रियाया धातुलभ्यत्वात्, न च धर्म्यन्तरे शक्तावपि तद्भङ्गः। तस्मात् प्रकृत्यर्थानितस्वार्थबोधकत्वं प्रत्ययानां गृहीतप्रत्ययार्घं वाऽपूर्व्वमपीति न विरोधः। चास्तु वा लोके लिङः क्रियाकार्यत्वे शक्तिः तथापि तद्भङ्ग विनैव नानार्थन्यायेन वेदे धर्म्यन्तरे शक्तिः तां विना स्वर्गकामान्वयासम्भवात्।” व्याकृतञ्चेदं मयुरानाथेन यथा–
“व्युत्पत्तिविरह इति विधेः शक्तिग्रहासम्भव इत्यर्थः समभिव्याहारानुपपत्त्येति तदुप्रस्थापितस्य स्वर्गकामनावतो यागे कृतिसाध्यत्वान्वयानुपपत्त्येत्यर्थः। ग्रहोतव्येत्यग्रेणान्वयः। नन्वन्यथानुपपत्त्या जन्मान्तरीयसंस्कारादेव तदुपस्थितिः कल्पनीयेत्यतआह अपूर्ब्बत्वव्याघातादिति शाब्दबोधात् पूर्वं प्रमाणान्तराविषयत्वस्यैवापूर्वरूपत्वादिति भावः। ननु सन्नपि योगार्थोऽत्र त्यज्यते मण्डपपदवदित्यस्वरसादाह अवाच्यत्वेति। प्रकारान्तरेणापूर्व्वस्योपस्थितौ तद्वाच्यत्वं विनापि तद्द्वारा जनकत्वनिश्चयसम्भवादिति प्रावः। तत्प्रवृत्तौ–लिङादिनाऽपूर्व्वोपस्थितौ। अपूर्ब्बत्वेनोपस्थितिः प्राक् नास्तोत्याशयेनाशङ्कते न चेति।–उपलक्षिते उपस्थिते। स्मारणं लिडयदिना स्मारणम्। गूढाभिसन्धिः समाधत्ते मैवमिति। कार्य्ये धर्म्मिणीति कार्य्यताश्रये धर्म्मिणीत्यर्थः। कार्य्यत्वविशिष्टञ्चेति घटादौ विशेषः यागविषयकं कार्य्यमिति स्वर्गसाधनमिति शेषः। स्वर्गकामेति स्वर्ग साधनत्वान्वयायोग्यतयेत्यर्थः। विशेषबुद्धुपाय इति सामान्यरूपेण विशेषबुद्ध्युपाय इत्यर्थः। सम्बन्धग्रहात् कृत्सम्बन्धग्रहात् कर्त्तृविशेषेति पक्तेत्यादौ पाककर्कत्वादिना विशेषसिद्धिरित्यर्थः। अभिसन्धिमुद्घादयितुं शङ्कते नन्विति। अनुपस्थितेरिति अपूर्ब्धस्य प्रागनुपस्थितेरित्यर्थः। येन हीति शक्तिग्रहपदार्थस्मरणशाब्दानुभवानां समानप्रकार त्वेनैव कार्य्यकारणभावः न तु समानधिषयकत्वेनापि गौरवादित्यर्थः। ननु समानविषयकत्वेनैव कार्य्यकारणभावो न तु समानप्रकारकत्वेनेत्यतआह नहीति। पदार्थस्मरणञ्च–प्रमेयत्त्वेन पदार्थस्मरणञ्च तथाच समान प्रकारकत्वस्यावश्यकत्वात्तेनैव रूपेण हेतुत्वमिति भावः। स्मरणंघटादेः स्मरणम्। ननु कार्य्यमात्रशक्त्या कथं स्वर्गपर्य्यन्तस्थायिकार्य्यलाभः? इत्यत आह योग्यत्वाच्चेति यागविषयककार्येस्वर्गसाधनत्वान्वये स्वर्गपर्यन्तस्थायित्वस्य योग्यतारूप त्वाच्चेत्यर्थः। अतएवेति यतएव प्रथमं न तज्ज्ञानमित्यर्थः अपूर्वम् अपूर्वर्त्वव्यवहारः। पदेन क्रियत इति नियम इति शेषः। शक्तिग्रहेति तथा च तादृशनियमोऽसिद्ध इति भावः। नन्वाकाशादिपदस्थले ग्राह्यपदार्थोपस्थितेर्हेतुत्वस्य दृष्टत्वादत्रापि तथेत्यतआह नचेति। क्वचित्–आकाशादिपदे। तथा–शाब्दधीहेतुः। अपूर्वेति शक्तिग्रहाविषयीभूतेत्यर्थः। ननु बिशिष्टवैशिष्ट्यबोधे विशे षणतावच्छेदकप्रकारकविशेषणज्ञानस्य हेतुतया यागविषयककार्य्यवान् स्वर्गकाम इति विशिष्टवैशिष्ट्यबोधानुरोधादपूर्ब्बज्ञानमावश्यकमित्यतआह विशिष्टेति विशिष्टवैशिष्ट्यबोधेऽपि विशेषणतावच्छदकप्रकारकज्ञानमेव हेतुर्नतु विशेषणविषयत्वम्यापि तत्र प्रवेश इत्यर्थः। अन्यया–विशषणविषयत्वस्यापि तत्र प्रवेशे। व्यापकतयेति। ज्ञानेन न भात इत्यर्थः। तदन्वयः तद्विषयत्वम्। तस्मात्–तदीयपक्षधर्मताज्ञानात्। तेन रूपेणेति स्वमते, तन्मते व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानस्यैवानुमिति हेतुत्वात्। व्याप्यत्वेन वेति महानसीयधूमे गृहीतेन धूमव्यापकवह्निसमानाधिकरणधूमत्वरूपेण वह्निमदन्यापृत्तित्वरूपेण वा व्याप्यात्वेनेत्यर्थः। एतच्च न्यायनये परनये वह्निव्याप्योधूमः धूमवान् पर्व्वत इति ज्ञानादप्यनुमित्युत्पत्तेः वह्निव्याप्यवान् पर्वत इति ज्ञानादप्यनुमित्युत्पत्तेश्चेति ध्येयम्। सा–सामान्यप्रत्यासत्तिः। सुतरामिति विवृणोति कार्यत्वेन हीति। क्रियासाधारणेन–क्रियासाधारणधर्मप्रकारेण। अयोग्या–साक्षात्फलजननायोग्या। योग्येति साक्षात्फलजननयोग्येत्यर्थः। नित्यनिर्षेधेति सन्ध्यामुपासीतेत्यत्र सन्ध्यावन्दनापूर्वस्य, न कलञ्जं भक्षयेदित्यत्र कलञ्जभक्षणाभावजन्यापूर्व्वस्य वेत्यर्थः। तथा च तवापसिद्धान्त इति भावः। अयोग्यतया–साक्षात्फल- जननायोग्यतया। फलाश्रवणात् इति नित्येनिषेधस्थले च फलाश्रवणादित्यर्थः। कल्पनायाञ्चति फलकल्पनायाञ्चेत्यर्थः। वीजाभावात् प्रमाणाभावात्। कार्येण समं–क्रियारूपकार्येण समम्। अभेदस्यापीति यद्यपि निषेथस्थले कलञ्जभक्षणाभावस्य कार्यत्वाभावेन कार्यत्वरूपेण लिङा न तद्बोधसम्भवस्तथापि अभावस्योत्पादविनाशशालित्वनयेऽभावस्यापि कार्यत्व सम्भव इत्यभिप्रायेणेदं धर्म्मत्वरूपकार्यत्वाभिप्रायेण वा। केचित्तु कार्यत्वं कृतिसाध्यत्वं तच्च योगक्षेमसाधारण मित्यभावस्यापि कार्यत्वसम्भव इत्याहुः। कृतिरूप इति साध्यत्वसंसर्ग इति भावः। अन्विताभिधानेतिशाब्दबोधेत्यर्थः। धर्म्मिणि–कार्य्ये। कार्य्यत्वान्वयेति स्वर्गकाम कृतिसाध्यत्वान्वयेत्यर्थः अयोग्यतया स्वर्गकामकृति साध्यत्वान्वयायोग्यतया। एवमग्रेऽपि। तत्र शक्तिरिति तत्र शक्तिग्रह इत्यर्थः। यत्प्रयुक्तेति यन्निष्ठस्वर्गकामकृतिसाध्यत्वान्वयानुपपत्त्येत्यर्थः। शक्तिकल्पनादिति वैदिकलिङ्मात्रशक्तिकल्पनादित्यर्थः। उपासनादीति सन्ध्योपासनादीत्यर्थः आदिपदान्निषेधविधिस्थले कलञ्जभक्षणाद्यभावपरिग्रहः। लक्षणेति वैदिकलिङः कार्य्ये धर्म्मिण्येव शक्तिकल्पनादिति भावः। एतच्च लोकस्थले लौकिक लिङत्वं कार्य्यत्वशक्ततावच्छेदकमित्यभिप्रायेणान्थथा तत्र लिङ्त्वस्य शक्ततावच्छेदकत्वे लक्षणाया असङ्गतेरिति ध्येयम्। एतच्चापाततः तन्नयेऽपूर्ब्बस्य शक्तिग्रहाविषयत्वेऽपि शाब्दबोधविषयत्ववत् क्रियाया अपि कार्य्यत्वरूपेण वैदिकलिङः शक्तिग्रहाविषयत्वेऽपि शाब्दबोधविषयत्व सम्भवात् न हि न्यायनयैव तन्मते ग्राह्यपदार्थशक्ति धीरपेक्षिता किन्तु पदार्थतावच्छेदकरूपेण यत्र कुत्रचिद्धर्म्मिणि शक्तिग्रहादेव शाब्दबोधे योग्यव्यक्तेर्भानम्। किञ्चैवमपि निषेधस्थलेऽपूर्ब्बालाभः तत्र कलञ्जभक्षणाभावस्यापि क्रियातिरिक्ततया कार्य्यत्वरूपेण लिङा तस्यैव बोधसम्भवात्। वस्तुतस्तु प्रकृतिप्रत्ययार्थयोरभेदान्वयस्याव्युत्पन्नतया लिङा क्रियादेर्न बोधसम्भवैत्येव तत्त्वम्। ननु घटादिलक्षणकार्य्यत्वस्य शक्त्यतावच्छेदकत्वे यजेतेत्यादौ कथमपूर्ब्बलाभः घटादिभिन्नकार्यत्वस्य शक्यतावच्छेदकत्वेऽ पूर्ब्बस्यानुपस्थितत्वात् कुत्र कार्ये शक्तिग्रह इत्यतआह घटादिस्त्विति। उभयथापीति घटादिभिन्नकार्यत्वस्य घटादिकार्यत्वस्य च शक्यतावच्छेदकत्वे इत्यर्थः। किन्तु कार्यत्वमेव शक्यतावच्छेदकमिति भावः। ननु सामान्यतः कार्यत्वस्य शक्यतावच्छेदकत्वे यजेतेत्यादौघटादेरपि शाब्दबोधे भानापत्तिरित्यत आहान्वितेति अयोग्यतया–धात्वर्थान्वयायोग्यतया। नन्वेवं कार्यत्वेन घटादेरपि शक्यत्वात्तत्रापि लिङः कदाचित् प्रयोगः स्यादित्यतआह विधीति केवलस्य–धात्वसमभिव्याहृतस्य, तस्य–विधिप्रत्ययस्य, अप्रयोगादेवेति असाधुत्वादेवेत्यर्थः। अप्रयोगः विधि प्रत्ययाद्घटादेरप्रयोगः। प्रयोगोपाधीति शक्तिप्रमाजन्य शाब्दबोधेऽभावसम्बन्धेन प्रतिबन्धकमित्यर्थः। तादृशबोधेऽपूर्ब्बत्वं कारणमिति पर्य्यवसितोऽर्थः। प्रतिपत्तिः शक्यप्रतिपत्तिः। तदेव तत्रेति तद्वृत्ति तदेवेति योजना शक्यवृत्ति तदेवेत्यर्यः तथा च तत्पदशक्यवृत्तित्वे सति तत्पदजन्योपस्थितिप्रकारत्वं तत्पदप्रवृत्तिनिमित्तत्वमिति लक्षणं फलितम्। आकृतेरपि गोपदादिजन्यप्रतीतौ गवाद्यंशे स्वसमवायिसमवेतत्वसम्बन्धेन प्रकारत्वात्तत्रातिव्याप्तिवारणाय सत्यन्तम्। आकृतिस्तु अवयवसंयोगविशेषरूपा न गोपदशक्त्यवृत्तिः स्वसमवायिसमवेतत्वलक्षणपरम्परासम्बन्धस्य वृत्त्यनियामकत्वात्। वृत्त्यनियामक सम्बन्धेन तु न कोपि धर्म्मः कुत्रापि शक्यतावच्छेदकः पशुपदादेरपि लोमवल्लाङ्गूलादिसमवेतत्वादिकमेव शक्यतावच्छेदकं न तु समवेतत्वसम्बन्धेन लोमवल्लाङ्गूलादिकम्। तदादिपदात् कदाचित् परम्परासम्बन्धेन कपालत्वादिप्रकारेण घटादिबोधस्तु लक्षणयैव, आकृतेरपि द्रव्यादिपदशक्यवृत्तित्वात्। तत्पदेति न चाकृतेरपि कालिकादिसम्बन्धेन शाक्यगवादिवृत्तित्वादतिव्याप्तिस्तदवस्थेति वाच्यं तत्पदशक्तिविशेष्यतावच्छेदकतानियामक सम्बन्धेन तत्पदशक्तिमुख्यविशेष्यवृत्तित्वस्य विवक्षितत्वात् मुख्येत्युपादानात् मूर्त्तादिपदे परिमाणत्वादेः, घटादिपदे आकृतिवृत्त्यवान्तरजातेः शक्यतावच्छेदकत्वव्युदासः। ज्ञानविषयशक्तवस्त्वादिपदे ज्ञानस्यापि शक्तिमुख्य विशेष्यतया ज्ञानत्वस्य शक्यमुख्यवृत्तित्वेऽपि न यथोक्त सम्बन्धेन तद्वृत्तित्वम्। नचाकाशादेरपि आकाशादिपद शक्यतावच्छेदकत्वापत्तिरिति वाच्यं नव्यमते घटत्वादेर्घटादिपदशक्यतावच्छेदकत्ववदाकाशादेरप्याकाशादिपदशक्यतावच्छेदकत्वे इष्टापत्तेः। सम्प्रदायमते चाकाशादिपदशक्तेर्विशेष्यांशे निर्विकल्पकरूपतया विशेष्यतावच्छेदकतानियामकसम्बन्धाप्रसिद्ध्यैवातिव्याप्तिविरहात्, अवयवावयविवाचिदध्यादिपदे दध्यादेः शक्यतावच्छेदकत्ववारणाय विशेष्यदलम्। उपस्थितिर्हि लक्षणाशक्ति- भ्रमाजन्यत्वेन विशेषणीया तेन लक्ष्यतावच्छेदके नाति प्रसङ्गः। न च समूहालम्बनमादायातिप्रसङ्ग इति वाच्यं यत्प्रकारताघटितधर्म्मावच्छेदेन तत्पदजन्यत्वं तत्त्वस्य विवक्षितत्वादिति निगर्वः। तत्पदशक्तिविशेष्यतावच्छेदकत्वं तत्पदप्रवृत्तिनिमित्तत्वं संस्थानञ्च गुरुनये, नव्य नैयायिकनये च सममिति न तत्रातिव्याप्तिरिति तु ज्यायः। सास्नादौ सास्नासमवेतत्वादौ तथा–यथोक्त लक्षणाश्रयः। तद्बोधस्य तत्प्रकारकज्ञानस्य अप्रवर्त्तकत्वात् शक्त्याऽजनकत्वात् घटादिपदस्येति शेषः। ननु लौकिकलिङः कार्यत्वे शक्तिः वैदिकलिङः कार्ये धर्मिणि शक्तिरित्यभ्युपगमे लौकिकलिङत्ववैदिकलिङत्वयोः शक्ततावच्छेदकत्वे शक्ततावच्छेदकगौरवमित्यतआह अतएवेति शक्ततावच्छेदकगौरवादेवेत्यर्थः। लाक्षणिकी–कार्यत्वे लाक्षणिकी वेदे–वेदस्थले। शक्तिकल्पनादिति लिङ्सामान्यस्यैव शक्तिकल्पनादित्यर्थः। न च लिङ्मात्रस्य कार्यत्वे शक्तिः वेदे च कार्ये धर्मिणि लक्षणा इत्येव किं न स्यात् कार्यत्वत्वापेक्षया कार्यत्वत्वविशिष्टस्य कार्यत्वस्य गुरुत्वात् बिनिगमकाभावाच्चेति वाच्यं कृतिसाध्यत्वत्वरूपकार्यत्वत्वापेक्षया प्रागभावप्रतियोगित्वादिरूपस्य धर्मत्वरूपस्य वा कार्यत्वस्य लघुत्वादित्यभिप्रायः। वस्तुतस्तु लाघवाल्लिङ्मात्रस्य कृतावेय शक्तिः साध्यत्वं संसर्गः। वेदे च प्रागभाबवत्त्वादिरूपकार्य्यत्वाश्रये धर्मिणि लक्षणाऽस्त्वेवेत्याशयः। ननु लोकस्थले कार्य्यत्वरूपेणापूर्व्वमेवाऽर्थोऽस्तु किं लक्षणयेत्यत आह नचेति पूर्ब्बमिति वेदे तु अनादिलिङ्प्रवादादेवा ध्यापकानामपूर्ब्बावगमात्तत्र तात्पर्य्यसम्भव इति भावः। वस्तुतोऽपूर्ब्बं लोके बाधितं मानाभावादित्येव द्रष्टव्यम्। ननु लिङः शक्तिग्रहे क्रियाभिन्नधर्मिणोविषयत्वेऽपि कार्य्यत्वस्य शक्यतावच्छेदकतया क्रियायां शक्तिरस्त्येव तथा च लोकेऽपि पाकः कार्य्याभिन्न इत्यभेदान्वयबोधस्य शक्त्यैवोपपत्तौ किं लक्षणया इत्यतमाह क्रियासाधारणेति। लक्षणैव कार्यत्वे लक्षणैव। पाककार्यतावगम्यते इत्याधाराधेयभावसम्बन्धेन पाकविशेष्यककृतिसाध्यत्वप्रकारकान्वयबोधोजायते इत्यर्थः। अन्यथा प्रवृत्त्यनुपपत्तेस्तथा च प्रवर्त्तकज्ञानानुरोधाल्लक्षणेति भावः। इदञ्चाभ्युपगमवादेनोक्तं वस्तुतोधात्वर्थप्रत्ययार्थयोरभेदान्वयबोधस्याव्युत्पन्न तया क्रियासाधारणशक्तावपि शक्त्यानोपपत्तिरन्यथा नित्यनिषेधस्थलेऽपि तथान्वयबोधसम्भवादपूर्वलोपापत्तेरिति ध्येयम्। ननु लोके पचेतेत्यादौ लिङीलक्षणायां लिङ्- प्रदात् कार्यत्वरूपेण षाकोपस्थितिद्वारा पाकविशेष्यककार्य त्वप्रकारकान्वयबोधो जायतामिति वक्तुस्तात्पर्यमनुपपन्नं लिङोलक्षणया कार्यत्वमात्रोपस्थापकत्वादित्यतआह तत्रेति कार्यत्वे कायत्वोपस्थितौ। तातपर्याद्धोति लोके लाघवात् केवलकार्यत्वोपस्थितौ लिङस्तात्पर्यात् केवलकार्यत्वएव वृत्तिरित्यर्थः नतु वृत्तेरिति अन्यत्रेति शेषः इदमापाततः लौकिकतात्पयस्य पुमिच्छानियन्त्रितत्वात्तत्र लाघवस्या किञ्चित्करत्वात्। वस्तुतस्तु तात्पर्यस्याप्याकाङ्क्षानुरोधेन लक्षणाया अभ्युपगम इत्येव तत्त्वम्। ननु तथापि यन्मते टेटम्यले कृतिसाध्यत्वरूपकार्यत्वाश्रये लिङः शक्तिस्तन्मते कृतिसाध्यत्वसपकार्यत्वस्यापि विशेषणविधया शक्यतया लोके शक्त्यैव कार्यत्वोपस्थितिसम्भवात् किं लक्षणया इत्यत आह तृतीयाया इति। न स्वतन्त्रं शक्यमिति धर्म्यंशे निर्विकल्पकशक्त्यापत्तेरिति भावः। कार्यत्वे लक्षणेति कृतिसाध्यत्वरूपकार्यत्वचिशिष्टशक्तादोनामपि तादृशकार्यत्वे लक्षणैव इत्यर्थः। गतत्वेन–विशेपणत्वेन। स्वतन्त्रेति इतरा विशेषणतयेत्यर्थः। तुषानुपवपतीति पुरोडाशाय कपालं पुरोडाशकपालमिति चतुर्थीसमासे सतोति शेषः पुरोडाशार्थतयेति पुरोडाशप्रयोजनकत्वरूपेणेत्यर्थः तदन्वितत्वेनेति पुरोडाशप्रयोजनकरूपपुरोडाशपदार्थान्वितत्वेन, शाब्दानुभवविषयस्य कपालस्येत्यथः, नोपवापाकाङ्क्षा इति एनज्व जिज्ञासायोग्य ताकाङ्क्षेति मते एकप्रयोजनकत्वेनावगतस्य प्रयोजनान्तरे जिज्ञासाया असम्भवान्न कपालस्य किं प्रयोजनमिति जिज्ञासा सम्भवतीति भावः। स्वतन्त्रकपालोपस्यितये इति पुरोडाशप्रयोजनकानन्वितत्वेन कपालशाब्दबुद्धये इचर्थः अधिष्ठानलक्षणेति पुरोडाशपदस्य पुरोडाशाधिष्ठाने मृण्मयपात्रं लक्षणेत्यर्थः। एवञ्च पुरोडाशाधिष्ठानाभिन्नकपालेन तुषानुपवपतीत्येन्वयबोधः पुरोडाशस्य कपालमिष्टि षष्ठीतत्पुरुषः, पुरोडाशञ्च तत्कपालञ्चेति कर्सधारयो वेति भावः। उपवापः स्फोटनं यद्यप्यत्र इतरविशेषणतया उपस्थितिनिबन्धनं न निराकाङ्क्षत्वमपि तु प्रयोजनान्तरवत्त्वोपस्थितिनिबन्धनमेवेति दृष्टान्तदार्ष्टान्तिकयोर्भहद्वैषम्यमेव तथापि निराकाङ्क्षत्वनिब न्धनलक्षणामात्रे दृष्टान्तः। एतच्चापाततः जिज्ञासायोग्यताया आकाङ्क्षात्वाभावात् घटजनकेन दण्डेन गाम भ्याजेत्यत्राप्येवंरूपेण निराकाङ्क्ष्यतयाऽन्वयबोधानुपपत्तेः किञ्चावान्तरवाक्यार्थबोधपूर्वकमहावाक्यार्थबोधेऽस्त्वेवंरूपेण निराकाङ्क्षत्वं तथापि खलेकपोतन्यायेग युगपत्तथान्वय- बोधे न काप्यनुपपत्तिः। वस्तुतस्तु वेदस्थले एकपयोजनकत्व विशिष्टस्य प्रयोजनान्तरे नान्वयः आनुपूर्वीमेदेन व्युत्पत्ति भेदात् वेदानुपूर्वीस्थले तथैव व्युत्पत्तेः सकलवैदिकैकवाक्य तया तथा निर्णीतत्वादित्यधिष्ठानलक्षणेत्येव तत्त्वम्। व्युत्पत्ति विरोध इति लोके लिङ्त्वावच्छेदेन क्रियानिष्ठकार्यताबोधकत्वमवधारितं वेदे च कार्ये धार्मणि लिङ्शक्तौ तद्भङ्ग इत्यर्थः। लोके इति लिङत्वावच्छेदेनेति शेषः। क्रियाकार्य्यत्वे शक्तिः क्रियाविशेष्यककार्य्यत्वानुभवजनकना। कार्य्यत्वमात्रे इति शक्तिरवधारितेत्यनुषज्यते शक्तिरनुभवजनकता। न चेति वेदस्थले इति शेषः। धर्य्यन्तरे कार्य्ये धर्म्मिणि तद्भङ्ग इति क्रियानिष्ठकार्य्यत्वस्यैव लिङा बोधनादिति भावः। ननु तथापि लोकस्थले लिङः क्रियानिष्ठकार्य्यताबीधकतया प्रकृत्यर्थान्वित स्वार्थबोधकत्वं लिङ्त्वावच्छेदेन सिद्धं कार्य्ये धर्म्मिणि शक्तौ च तद्भङ्गः कार्ये धर्म्मिण्येव लिङर्थकार्यत्वान्वयादित्यतआह तस्मादिति लोकस्थले लिङः क्रियान्वित्तकार्यता बोधकत्वात् इत्यर्थः। प्रत्ययानां गृहीतमिति लिङ्पत्ययत्वावच्छेदेन गृहीतमित्यर्थः। न तु प्रकृत्यर्थान्विततया यावत् स्वार्थवोधकत्वप्तिति भावः। प्रत्ययाथश्च–लिङ्प्रत्ययार्थश्च। न विरोध इति अपूर्व्वरूपस्वार्थस्यैव प्रकृत्यर्यान्वितत्वादिति भावः। तुष्यतु दुर्जन इति न्यायेनाह अस्तु वेति। क्रियाकार्यत्व इति क्रियाकृतिस्तस्याः कार्यत्वे तत्साध्यत्वे इत्यर्थः शक्ततावच्छेदकञ्च लिङ्त्वमेव वेदेऽपि अपूर्व्वनिष्ठकृतिसाध्यत्वावगमादिति भावः। नानार्थन्यायेनेति हर्यादि पदन्यायेनेत्यर्थः। यथाश्रुतेऽस्यापि नानार्थतया नानार्थ तुल्यत्वाभिधानस्यासङ्गतत्वापत्तेः। वेदे–वेदस्थले धर्म्यन्तरे कार्ये धर्मिणि शक्ततावच्छेदकन्तु अत्रापि लिङ्त्वमेवेति भावः। तथाच यथा हर्यादिपदस्थले एकमेव हारपदत्वादिकं शक्ततावच्छेदकं विष्णुत्वचन्द्रत्वादिमेदेन शक्यतावच्छेदकञ्च नाना तर्थबैकमेव लिङ्त्वं शक्ततावच्छेदकं शक्यतावच्छेदकञ्च कार्यत्वत्वं कार्यत्वञ्च द्वयमिति फलितोऽर्थः। न च लिङ्त्वावच्छदेन कार्य्ये शक्तो, लोकेऽप्यपूर्वलाभापत्तिरिति वाच्यं प्रागेव समाहितत्वात् तत्रापूवस्य वाधितत्वाच्चेति भावः।”
मणिकृता तु एतन्मतं पूर्व्वपक्षीकृत्य दूपितम्। तच्च ततएवावसेयम्। विस्तरभयान्नोक्तम्।
कार्य्यकारणभाव = पु० कार्य्यञ्च कारणञ्च तयोर्भावः। एकस्य स्वकारणापेक्षया कार्य्यत्वे तदपेक्षया चान्यस्य कारणत्वे हेतुहेतुमद्भावे यथा घददण्डयोः कार्यकारणभावः। “कार्यकारणभावाद्वा स्वभावाद्वा नियामकात्। अविनाभावनियमो दर्शनान्तरदर्शनात्” सर्व्वद० बौद्धदर्शने। तत्र कार्यभेदेन कारणभेदे कारणशब्दे १९३८ पृ० उक्तप्रायेऽपि किञ्चिदाधिक्यमुच्यते। कारणं त्तावत् द्विविधं मुख्यममुख्यञ्च तत्र घटादिकं प्रति मृदादिकं मुख्यं, तथा प्रत्यक्षे इन्द्रियमित्यादि। तद्भिन्न ममुख्यं तच्च सहकारि कारणम्। मुख्यमपि त्रिविधं न्यायमते समवायि असमायि निमित्तमिति भेदात् तत्र घटादिकं पति मृदादिकं समवायिकारणं, कपालसंयोगादि असमवायिकारणं, दण्डादयो निमित्तकारणनि। तत्राद्ये असाधारणे एव कारणे। असाधारणकारणमपि कार्य्यभेदान्नानाविधम्। निमित्तकारणमपि द्विविधं साधारणासाधारणभेदात् तत्र साधारणनिमित्तकारणानि चाष्टविधानि ईश्वरस्तज्ज्ञानेच्छाकृतयः दिक्कालौ अदृष्टं प्रागभावश्चेति भेदात्। असाधारणनिमित्तकारणानि चानेकविधानि। प्रतिबन्धकाभावस्य कारणत्वं नैयायिका मन्यन्ते। स च निमित्तकारणमेव। वेदान्तिनश्च अभावस्य न कारणत्वम् इच्छन्ति “कथमसतः सज्जायेतेति” श्रुतेः नासतोविद्यते भावः” इति गीतोक्तेश्च। तदेतन्निर्ण्णीतं तैत्तिरीयोपनिषद्भाष्येयथा
“नित्यानाञ्चाकरणमभावस्ततः प्रत्यवायानुपपत्तिरिति। अतः पूर्व्वोपचितदुरितेभ्यः प्राप्यमाणायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति “अकुर्व्वन् विहितं कर्मेति” हि शतुर्नानुपपत्तिः। अन्यथा अभावाद्भावोत्पत्तिरिति सर्ब्बप्रमाणव्याकोपः” भा०।
व्याकृतञ्चैतत् आनन्दगिरिणा यथा
“यच्चोक्तमकरणनिमित्तप्रत्यवायपरिहारार्थानि नित्यानीति तत्राह नित्यानाञ्चेति। आगामि दुःखं प्रत्यवाय उच्यते तस्य भावरूपस्य नाभावो निमित्तम् “पापः पापेनेति” श्रुतेः। निषिद्धाचरणनिमिटत्वाद्दुःखस्येत्यर्थः। “अकुर्व्वन् विहितं कर्म निन्दितञ्च समाचरन्। प्रसजंश्चेस्द्रियार्थेषु नरः पतनमृच्छतीति” शतृप्रत्ययादकरणस्यापि प्रत्यवायनिमित्तत्वमवगतिमित्याशङ्क्याह अतः पूर्व्वेति। यदि यथावन्नित्यनैमित्तिकानुष्ठानमभविष्यचदा सञ्चितदुरितक्षयोऽभविष्यत्। न चायं विहितमकार्षीदित्यतः प्रत्यवायो भविष्यतीति शिष्टैर्लक्ष्यते। यथा “विचिकित्सन् श्रोत्रिय” इति। ततः शतृप्रत्थयस्यान्यथाव्युत्पन्नत्वान्न तद्बलादकरण हेतुत्वमवगन्तुं शक्यत इत्यर्थः। “लक्षणहेत्वोः क्रियायाः” इति (पा०) शतृप्रत्ययस्थोभथत्र विधाने सति किमिति हेतुत्वमेव न गृह्यते? तत्राह अन्यथेति। अभावरूपस्य कार्य्यस्य भावरूपमेव कारणमिति प्रत्यक्षादिभिरवगतं शतृप्रत्ययादभावस्य हेतुत्वाभिधाने सर्व्वप्रमाणविरोधः स्यादित्यर्थः।
ननु त्वयाप्यकरणस्य प्रत्यवायलक्षणत्वमिष्टम्। भाट्टैश्चानुपलम्भस्याभावप्रमितिहेतुत्वमिष्यते। तार्किकेश्च प्रतिबन्धकाभावस्य तत्तत्प्रागभावस्य च तत्तत्कार्य्यव्यवस्थापकत्वमिष्यते तत्कथं भावस्यैव कारणत्वम् तदुक्तम्। “भावो यथा तथाऽभावः कारणं कार्यवन्मतम्” इति उच्यते। “अस्मामिस्तावदभावस्य स्वरूपेण कारणत्वं नेष्टं किन्तु तद्भानस्य प्रत्यवायगमकत्वमिष्टम्। तेन च रूपेण न प्रत्यवायजनकत्वमिष्यते। नित्याकरणाज्ञाने प्रत्यवायाभावप्रसङ्गात्। भाट्टानामपि च केषाञ्चिज्ज्ञातस्य योग्यानुपलम्भस्याभावप्रमितिहेतुत्वमिष्टं ज्ञानध्वंसतया तु प्रमितिहेतुत्वेऽभावप्रमायाः प्रत्यक्षत्वापातः। तार्किकाणामपि प्रतिबन्धकाभावस्य कारणत्वेऽन्योन्याश्रयत्वप्रसङ्गान्न प्रामाणिकत्वम्। प्रागभावस्यापि ज्ञातरूपेण जन्यज्ञापकत्वमेव। यस्मादिदं प्राङ्नासीत्तस्म दिदानीं जातमिति। न तु जनकत्वं प्रागभावस्य, नियतप्रागभावित्वेन कारणत्वे प्राक्कालस्य स्ववृत्तितापातः। प्रागभावित्वमपि चान्यथासिद्धमित्युक्तं तत्त्वालोके”।
कार्य्यविवृतिश्च कार्यशब्दे उक्ता। तत्र समायिकारणोत्पाद्यं समवेताख्यमुपादेयमित्युच्यते तद्भिन्नं कार्य्यं कार्य्योत्पाद्यादिशब्देन व्यवह्रियते इति भेदः।
कार्य्यकुशल = त्रि० ७ त०। कार्य्यज्ञे क्रियादक्षे।
कार्य्यचिन्तक = त्रि० कार्य्ये चिन्तयति चिन्ति–ण्वुल् उप० स०। कर्त्तव्यविषये कृताकृतचिन्तके। “धर्म्मज्ञाःशुचयोऽलुब्धाभवेयुः कार्य्यचिन्तकाः” याज्ञ०।
कार्य्यता = स्त्री कार्य्यस्यभावः तल्। १ कर्त्तव्यतायां २ कृतिसाध्यतायाम्। त्वकार्यत्व तत्राथे न० गुरुमते यथा च तज्ज्ञानस्यैव प्रवर्त्तकत्वं तथा शब्दचि० गुरुमतप्रदर्शने दर्शितं यथा। “कार्य्यत्वज्ञानं प्रवर्त्तकमिति गुरवः तथाहि ज्ञानस्य कृतौ जनयितव्यायां चिकीर्षातिरिक्तं न कर्त्त व्यमस्ति तत्सत्त्वे कृतिविलम्बहेत्वन्तरभावात्। चिकीर्षा च कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयेच्छा पाकं कृत्या साधयामीति तदनुभवात्। सा च स्वकृतिसाध्यताज्ञानसाध्या इच्छायाः स्वप्रकारकधीसाध्यत्वनिवमात् अतएव स्वकृति- साध्ये पाके प्रवर्त्तते न त्विष्टसाधनताज्ञानसाध्या, स्वकृत्यसाध्ये चिकोर्षापत्तेः। स्वकृत्यसाध्यताज्ञानं प्रतिबन्धकमिति चेत् न तदभावस्य कारणत्वे गौरवात् अथाभाव उभयसिद्धः कृतिसाध्यताधोरसिद्धेत्यतो न लाघवावसर इति चेत् न यत्र शब्दादनुमानाद्वा दैवात् सा, तत्र लाघवावतारात् इच्छायाः स्वप्रकाशकज्ञानसाध्यत्वनियमेन कृतिसाध्यत्वज्ञानस्यावश्यकत्वात् जनकज्ञानं विघटयतएव ज्ञानस्य प्रतिबन्धकत्वाच्च व्याप्तिधीविघटनद्वारानुमितिप्रतिबन्धकानैकान्तज्ञानवत् अन्यथा स्वकृत्यसाध्यत्वानिष्टसाधनत्वोपेक्ष णोयत्वनिष्फलत्वज्ञानं प्रतिबन्धकं क्रियाज्ञानमेव प्रवर्त्तकं कल्प्येत। ननु सनोधात्वर्थगोचरेच्छावाचित्वाल्लाघवाच्च कृताविच्छा चिकोर्षा सा च वृष्टाविवेष्टसाधनताज्ञानादिति चेत् न वह्निना साधयामीतिवत् कृत्यासाधयामीतीच्छायाः कृतिपूर्व्वमनुभूयमानायाः सनन्तवाच्यत्वेन गौरवेण च प्रत्याख्यातुमशक्यत्वात्। किञ्च पाकं चिकीर्षतोत्यत्र प्राधान्येन पाकस्येच्छाविषयत्वमनुभूयते न तु कृतेः, धाताश्च सन्प्रत्ययाभिधयेच्छाप्रकारवाचित्वम् ओदनं बुभुक्षत इत्यत्र भोजनविषयतयोदनस्येच्छाविषयत्वानुभवात् इष्टसाधनत्वेन वृष्टाविव कृताविच्छासम्भवेऽपि कृतीच्छा न प्रवर्त्तिका किन्तु कृतिसाध्येच्छैव। घटं जनाति चिकीर्षति करोतोति ज्ञानचिकोर्षाप्रवृत्तीनामेकविषयत्वानुभवात्। अथ यदि कृत्या साधयितुमिच्छा सा तदा चिकीर्षितस्य पाकस्यान्यतः सिद्धौ सा नापगच्छेत् नह्युपाय विशेषसाध्यत्वेनेच्छोपायान्तराधीनफललाभेन निवार्यते प्रीत्या धनलाभेऽपि प्रतिग्रहेण तल्लिप्साया अनिवृत्तेरिति चत् न स्वविषयसिद्धत्वस्य फलेच्छाविच्छेदस्य चोपायेच्छा विरोधित्वात् अस्ति च तत्र पाकोदनयोः सिद्धता। अन्यौदनेच्छायां पाकचिकोर्षा भवत्येव प्रत्युत असिद्धन्पात् कृता वेवेच्छा न विच्छिद्येत यदि कृतिविषयसिद्धत्पफलेच्छाविच्छेदौ न विरोधिनौ प्रीत्या धनलाभेऽपि तदधिक धनेच्छा न विच्छिद्यते तस्य असिद्धत्वात् तत्फलेच्छायाश्च सत्त्वात् धनमात्रार्थिनश्च प्रीत्या तल्लाभे प्रतिग्रहेण तल्लिप्सा नास्त्येव धनमात्रस्य सिद्धत्वात् किञ्चिद्विशेषस्य सिद्धैव हि सामान्येच्छाविच्छेदः। अन्यथा सकलस्वविषय सिद्धेरसम्भवेन तद्विच्छेदो न स्यादेव। वस्तुतस्तु क्रियानुकूला कृतिरिष्टोपाय इति ज्ञाने क्रियायाः कृतिसाध्यत्वम् इष्टीपायत्वञ्च भातं क्रियाद्वारैव कृतेरिष्टसाधनत्वादिति तद्बोधात् कृताविव कृतिसाध्यत्वेन क्रियायामपि सैवेच्छेति चिकीर्षायां कृतिसाध्यताप्रकारनैययम्। अतः कृतिसमानविषयचिकीर्षात्वेन चिकीर्षायाः कृतिकारणत्वं न तु कृतीच्छात्वेन भिन्नविषयतया गौरवात् तथापि येन रूपेण यस्येष्टसाधनत्वं तेन प्रकारेण तत्रेच्छा यथा स्वकेदारवृष्टित्वेनेष्टसाधनत्वात्तथैवेच्छा तथा कृतिसाध्यत्वेन पाकस्येष्टसाधनत्वम् अतः कृतिसाध्यत्वेन तत्रेच्छा भवतीति कृतौ कृतिविषये वा चिकीर्षायां न वृष्टीच्छाविलक्षणसामग्य्रन्तरकल्पनमिति चेत् भवेदेवं यदि कृतिसाध्यत्वेन पाकस्यौदनसाधनता स्यात् न चैवं, गौरवात् किन्तु पाकत्वेन, सा तु कृतिं विना नेत्यन्यदेतत्। वह्निना साधयामीति वत् कृत्या साधयामीतीच्छा इष्टसाधनताज्ञानादेवेति चेत् तर्हि तत्र वह्निसाध्यताज्ञानवदत्रापि कृतिसाध्यताज्ञानं कारणमावश्यकं कृतौ चानुभवसिद्धं चिकीर्षाधीनत्वं विशेषः, तेन प्राणपञ्चकसञ्चारे जीवनयोनिकृतिसाध्ये न प्रवृत्तिः। अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि तत्र प्रवर्त्तेत ननु चिकीर्षाधीनत्वस्य उपलक्षणत्वे उपलक्ष्यमात्रगतानतिप्रसक्तधर्माभावात् कृतिमात्रस्य चातिप्रसङ्गात् तत्तत्कृतिविशेषा उपलक्ष्याः तथा च तदननुगमात् प्रवृत्ते रननुगमः विशेषणत्वे चिकीर्षायां प्रवृत्तौ च चिकीर्षाज्ञानकारणत्वे गौरवं प्रमाणाभावश्च। किञ्च चिकीर्षासाध्यावस्थायाः कृतेः सिद्धाबस्थसाधनञ्च विरोधेन कृतिसाध्यता पाकादौ न ज्ञायेतेति चेत् न, अस्ति हि कृतिविशेषो मानसप्रयक्षसिद्धो जीवनयोनियत्नव्यावृत्तः स्वचिकीर्षोपलक्ष्यः यत्र चिकीर्षाकारणत्वग्रहः स च तव जाति रूपो मम त्वनुगतकारणोपाधिरूपः। एवञ्च निकीर्षाधीनत्वेनानुगतेन कृतिविशेषाणामुपलक्ष्यमाणानामनुगतत्वमपि यथा गोत्वेन तटस्थेनोपलक्षिता महिष्यादिव्यावृत्ता धान कर्मव्यक्तिविशेषा धेनुपदेनोच्यन्त्ये नतु गोत्वमपि, तथा चिकीर्षापि एवं जीवनयोनिव्यावृत्तकृतिविशेषाणां कृतित्वेन ज्ञानं कारणमिति नाननुगमः। ननु कृतिसाध्ये न कृतिर्विशेषणम् असत्त्वात् सत्त्वे वा कृतौ सत्यां ज्ञानं ज्ञाने च कृतिरित्यन्योन्याश्रयः नोपलक्षणम् अतिप्रसङ्गादिति चेत् न कृतिर्हि ज्ञाने विषयतया विशेषणमेव साध्ये च परिचायकतयोपलक्षणम् अन्यथेष्टसाधजेऽपीष्टं न विशेषणम् असत्त्वान्नोपलक्षणम् अतिप्रसङ्गात् लिङ्गज्ञानादौ वा कागतिः। नन्वेवं श्रमेऽपि चिकीर्षा स्यात् तस्यापि चिकीर्षाधीनकृतिसाध्यत्वात्। श्रमस्तु भोजनादिक्रियामाध्यो न तत्कृतिसाध्योऽचिकीर्षितत्वात् कृतेः स्वध्वंससाक्षात्कारातिरिक्ते चिकीर्षाविषयमात्रे जनकत्वात् नहि भोजनादिचिकीर्षाधीनकृत्या गमनं साध्यत इति केचित् तन्न गुरुतरभारोत्तोलने कृत्यसाध्ये भ्रमात् प्रवृत्तस्य निगडनिश्चलबद्धदेहस्य वा कृतौ सत्यामुद्देलनचलनक्रियानुत्पादेऽपि श्रमानुभवात् कृतेरेव कारणत्वात्। न तु तज्जन्यक्रियायाः सुखे व्यभिचाराच्च न हि सुखं कृतिसाधनचिकीर्षाविषयः उपायचिकीर्षाजन्या हि कृतिः न तु सुखचिकीर्षाजन्या। चिकीर्षाजन्यकृतिसाध्यत्वं न श्रमे, द्वेषयोनियत्नादपि तदुत्पत्तेरित्यपरे तन्न शत्रुबधस्येष्टसाधनत्वेन चिकीर्षाजन्यकृतिसाध्यत्वात् द्वेषस्य यत्राजनकत्वात् द्वेप्रसिद्धिस्तु शत्रुं द्वेष्मीत्यबाधितानुभवबलात्। यत्तु श्रमः कृतित्वेन कृतिसाध्यो न चिकीर्षाधीनकृतित्वेन, यद्यचिकीर्षितेऽपि श्रमे चिकीर्षाधीनकृतित्वेन कारणता स्यात्तदा चिकीर्षितमेव भोजनं कृत्या साध्यते नाचिकोर्षितं गमनादीति न स्यात् श्रमवद्गमनेऽपि तज्जन्यत्वप्रसङ्गात् भोजनादिश्च चिकीर्षाधीनकृतिविशेषात् सहि कृतिमात्रं व्यभिचरति जीवयोनिकृतेस्तदनुत्पादात्। यद्वा श्रमो न भोजनकृतिसाध्यः किन्तु तन्निरन्तरोत्पन्नाज्जीवनयोनियत्नादेवेति तन्न नहि कृतित्वेन श्रमजनकत्वं नापि कृत्यन्तरादेव श्रमोत्पत्तिः जीवनयोनियत्नेन चापि भारोद्वहनादि कर्म कुर्व्वतस्तादृशश्रमानुभवेन तस्य श्रमाजनकत्वात्। तस्माद्भोजनादिवत् श्रमविशेषाणामपि भोजनादिकृतिसाध्यत्व मनन्यगतिकत्वात्। सुप्तस्य स्वेदाद्यनुमितः श्रमस्तज्जन्य इति चेत् न स्वेदादेः श्चमान्यहेतुकत्वात् अन्यथा जागरेऽपि तदनुवृत्तौ श्रमानुवृत्तिप्रसङ्गादिति मैवं स्वेच्छाधीनत्वस्य कृतिविशेषणत्वात्। श्रमश्च नियमतोऽन्येच्छाधीनकृतिसाध्यः श्रमे दुःखत्वेन इच्छाविरहात्। अतएवान्येच्छाजन्यकृतिसाध्यत्वेन त्रमोनान्तरीयक इत्युच्यते। स्वचिकीर्षाधीनत्वन्तु न कृतौ विशेषणं, गौरवात्। अन्ये तु कृतिगतधर्मान्तरमेवोद्देष्यत्वं तद्विशिष्टकृतिसाध्यश्च न श्रमः अचिकीर्षितत्वात् किन्तु कृतिमात्रसाध्यः अतएव कष्टं कर्मेत्यनुभवोलोकानाम्। एवं चिकीर्षायां ममैकं कृतिसाध्यत्वं प्रयोजकं तव तु कृतिसाध्यत्वे सतीष्टसाधनत्वं सुखत्वं दुःखाभावत्वञ्चेति चतुष्टयम् इच्छाप्रयोजकन्तु मम सुखत्वं दुःखाभावत्वञ्चेति द्वयं वृष्टिसाध्ये सुखे हीच्छा वृष्टिमपि विषयीकरोति। नत्विष्टसाधनत्वेन तत्रेच्छासाधनत्वस्य इच्छाविरोधित्वात् तव तु त्रयम् विषभक्षणे कृतिसाध्यत्वेऽपि बलवदनिष्टसाध नत्वेन चिकीर्षा नास्तीति कृतौ चिकीर्षाजन्यत्वं विशेषणमिति कश्चित् तत्तुच्छं विषभक्षणे कृतिसाध्यत्वमेव न स्यात् जीवनयोनिकृतेस्तस्यानुत्पत्तेरिति व्यर्थविशेषणम्। स्थादेतत् इष्टसाधनताभ्रमाद्विषभक्षणे चैत्यवन्दने च चिकोर्षाजन्यकृतिसाध्यत्वमस्ति ज्ञानप्रयुक्तत्वात् कार्यत्वस्य, तथाच सञ्जातबाधोऽपि तत्र कार्यज्ञानात् प्रवर्त्तेत तथा तृप्तोऽपि भोजने नतु कृतिसाध्यतानुभवस्तथा, अन्यथेष्टसाधनतास्मरणे विषभक्षणेऽपि प्रवर्त्तेत। नचेष्ट साधनताज्ञानं वेदोवानुमावकोऽस्त्विति चेत् न वस्तुतस्तत्र कृतिसाध्यत्वे लिङ्गान्तरेणाप्तबाक्यन वा तदन्भवासम्भवात् लिङ्गाभासाच्छब्दभासाद्वा प्रवृत्तिप्रसङ्गाच्च भेदाग्रहवादिन स्तत्र तव तदनुभवाभावात् मैवं स्वविशेषणवत्ताप्रतिसन्धान जन्यं हि कार्यताज्ञानं प्रवर्त्तकं तथाहि काम्ये पुरुषविशेषणं कामना ततः काम्यसाधनाज्ञानेन यागपाकादौ कार्यताज्ञानं नित्ये च कालशौचादि स्वविशेषणं तथाचैतत्सन्ध्यायामहं कृतिसाध्यसन्ध्यावन्दनः सन्ध्यासमये शौचादिमत्त्वात् पूर्वसन्ध्यायामहमिवेति, कार्यताज्ञानं शौचादिस्वविशेषणज्ञानजन्यम्। तदुक्तं “स कार्यविशेषः पुरुषविशेषभावगतः प्रवृत्तिहेतुरिति”। संजातबाधस्य च विषभक्षणे चैत्यवन्दने च भ्रमदशायामिव नेष्टमाधनताज्ञानमस्ति येन तज्जन्यकार्यताज्ञानात् प्रवर्त्तेत। तृप्तस्य च तृप्तौ कामनाविरहेणेष्टसाधनताज्ञानाभावान्न तथा बोधः। अन्ये त्वात्मनो जीवत्वप्रतिसन्धानजन्यं श्रमे कृतिसाध्यताज्ञानं न सम्भवतीति जीवनव्यतिरिक्तत्वं स्वविशेषणे विशेषणमिति, तन्न श्रमे खेच्छाधीनकृतिसाध्यत्वज्ञानाभावेन साध्यत्वाभावात्। इष्टसाधनतालिङ्गं कार्य्यताज्ञानं प्रवर्त्तकमित्यपरे तन्न नित्ये तदभावात्। ननु विषभक्षणव्यावृत्तमिष्टसाधनत्वमेव कृतिसाध्यताज्ञाने विषयतया विशेषणमस्तु स्वविशेषणवत्ताज्ञानजन्यत्वापेक्षया लघुत्वात्। किञ्चोपायविप्रया चिकीर्षा इष्टसाधनताज्ञानसाध्या उपायेच्छावत् वृष्टीच्छावत्। भोगचिकीर्षायां तदभावादप्रयोजकमि ष्टसाधनत्वमिति चेत् न तवापि स्वविशेषणधीजन्यत्वाभावेन तत्र तस्याप्रयोजकत्वात् कृतिहेतुचिकीर्षायां तत्प्रयोजकं न भोगचिकीर्षायां तथा, उपायचिकीर्षातएव कृतिसम्मवादिति चेत् तुल्यमिति मैवं साध्यत्वसाधनत्वयोर्विरोधेनैकत्र ज्ञातुमशक्यत्वात् असिद्धावस्थस्य हि साध्यत्वं, सिद्धतादशायां तदभावात् सिद्धतादशायाञ्च साधनत्वम् असिद्धावस्थावतः कार्य्यानुत्पत्तेः। तथा च पाकादेरसिद्धत्वसिद्धत्वज्ञाने साध्यत्वसाधनत्वग्रहः नचैकमेकेनैकदा सिद्धमसिद्धञ्चेति ज्ञायते। न च स्वरूपगतता साध्यत्वसाधनत्वयोरतो न विरोध इति वाच्यं यदि हि स्वरूपनिबन्धनं तदुभयं तत्स्वरूपं सदैव सिद्धमसिद्धञ्च स्यात्। भिन्ननिरूपितत्वेऽपि तयो तिद्धत्वासिद्धत्वेऽनवगम्याज्ञानात्। तस्मात् समयभेदोपाधिकएव तदुभयसम्बन्धः। पाके इदानों साध्यत्वम् अग्रे च साधनत्वं ज्ञायत इति चेत्? न इदानीमग्रिमपदार्थयोर्नानात्वादननुगमेन व्याप्त्यग्रहात्, शब्देन तथा प्रतिपादयितुमशक्यत्वात् गौरवाच्च। स्वकृतितः सिद्धमिष्टसाधनमिति ज्ञानाच्चिकार्षा, न हि सिं किश्चिच्चिकीर्षिति, कृतेः पूर्ब्बं कृतितः तिद्धमिति ज्ञानाभावाच्च। न च कृतिसाध्य त्वन पाकादेरिष्टसाधनत्वात् साधनत्वमपि साध्यं न हि कृतिसाध्यत्वेन पाकस्यौदनसाधनतेत्यक्तम्। तस्मात् कृति क्रियमाणविलक्षणं कृत्यनन्तरभविष्यत्तारूपं कृतिसाध्यत्वं चिकोर्षाप्रयोजकं तादृशञ्च साधनत्वविरोध्येव किञ्चसाधनत्वस्य सिद्धमात्रधर्म्मत्वात् साधनत्वज्ञानमिच्छाविरोधि। न हि कश्चित् सिद्धमिच्छतीत्युक्तम्। एतेन वृष्ट्यादाविष्टसाधनताज्ञानमुपायेच्छाकारणत्वेन कॢप्तमिति निरस्तम् कथं तर्हि स्वतोऽसुन्दरे वृष्ट्यादाविच्छा? तत्साध्येष्टज्ञानादिति गृहाण। अन्येतु सुखदुःखाभावतत्साधनेष्विच्छाप्रयोजकमनुगतमुद्देश्यत्वं पुरुषार्चपदवेद्यं धर्म्मान्तरमस्ति अनुगतकार्य्यस्यानुगतकारणगियस्यत्वात् तदेव दुःखसाधनव्यावृत्तसुखतत्साधनादौ चिकीर्षाप्रयोजकमिति। न च दुःखविरोधित्वमेव तथाऽस्त्विति वाच्यं सहानवस्थाननियमविरोधस्यासम्भवात्। बध्यधातकभावस्यैकसमये सामानाधिकरण्याभावस्य च यत्नादिसाधारणत्वादिति तन्न तदज्ञानेऽपि मुखत्वज्ञानादिच्छोत्पत्तेः न हि सुखे ज्ञाते धर्म्मान्तरज्ञानं विना नेच्छा। तथात्वे स्वतः प्रयोजनत्वहान्यापत्तेः तदेव हिस्वतः प्रयोजन–यदवगतं सत् स्ववृत्तितयेष्यते। किञ्चानगतधर्म्मकल्पनापि कारणैः, न च सुखादाविच्छाकारणत्वं अनागतत्वात् किन्तु तदवगमः। तर्हि सुखादिज्ञाने तत्स्वरूपसदेवेच्छाप्रयोजकमस्त्विति चेत्? न, यथाह्युद्देश्यत्वं सुखज्ञानादिषूत्पद्यते अन्यतरत्वात् तृणारणि मणिन्यायाद्वा तथेच्छैव जायताम्। कृतिसाध्यत्वञ्च कृतौ सत्यामग्रिमक्षणे स्वरूपं न कृति विना। क्षेमसाधारणञ्चैतत् कृतिसाध्यत्वं न तु कृतेः पूर्व्वम्। ननु कृतौ नष्टायां सन्नपि धर्म्मी न कार्य्यः, तथा च कथं कार्य्येऽपूर्व्वे कामिनोऽन्वथः क्षणिकत्वेन क्रियातुल्यत्वादितिचेत्? न, यद्वृत्ति काम्यसाधनत्वं तत्र कार्य्यताबुद्धेः प्रयोजकत्वात् न तु कार्यताविशिष्टस्य काम्यसाधनतेति व्याप्तिः। ननु पाकादौ कृतिसाध्यताज्ञानं न प्रत्यक्षेण, कृत्यनन्तरं पाके सति कृतिसाध्यताज्ञानं तस्मिन् सति कृतिरित्यन्योन्यश्रयात्। कृतिसाध्यतोत्तीर्ण्णे चिकीर्षाकृत्योरसम्भवाच्चेति चेत् न पाकोमत्कृतिसाध्योमत्कृतिं विनाऽसत्वे सति मदिष्टसाधनत्वात् दैवाद्यनधीनत्वे सति मदिष्टसाधनत्वाद्वा मद्भोजनवत् इन्यनुमानात् स्वकृतिसाध्यत्वज्ञानं यस्य यदिष्टसाधनं यत्कृति विना यदा न सम्भवति तत्तदा तत्कृति साध्यमिति व्याप्तेः असिद्धस्येष्टसाधनत्वाभावात्। बलवद निष्टाजनकत्वञ्च लिङ्गविशेषणं तेन मधुविषसम्पृक्तान्न भोजने न व्यभिचारः अतीतपाके कृतिसाध्यतोत्तीर्ण्णे च न व्यभिचारः सामान्यतस्तस्याऽपि कृतिसाध्यत्वात्। अतोततादशायाञ्चातीतोदने इच्छाविरहे स्वष्टसाधनत्वाभावात् अतएव निदाघदूनदेहोर्षषति वारिदे तोयदात्तोयलाभसम्भावनायां वा सरोवगाहने न प्रवर्त्तते इष्टसन्तापशान्तिसाधनस्य तोयसम्बन्धस्य स्वकृतिं विनाऽपि सिद्धिप्रतिसन्धाने लिङ्गाभावेन स्वकृतिसाध्यत्वज्ञानाभावात्। यदा च मत्कृतिं विना स न सम्भवतीति प्रतिप्तन्धत्ते, तदा प्रवर्त्तते। यस्य सन्तापशान्तिमात्रमिष्टं स सरोवगाहनस्येष्टसाधनत्वमेव न प्रत्तिसन्धत्ते। उपस्थितवृष्टितोऽपि तत्सम्भवादिति कश्चित्। तन्नतोयसम्बन्धत्वेन न सन्तापशान्तिसाधनत्वं तस्य सरोऽवगाहनेऽपि सत्त्वात् अन्यथा वृष्टिरपि तत्साधनं न स्यात् सरोऽवगाहनादपि तत्सिद्धेः किन्तुकार्य्यभेदसाधनत्वं कृतिसाध्यत्वेन लिङ्गं पाकादिवदोदनादेरपि प्रवृत्तेः पूर्व्वं कृतिसाध्यत्रज्ञाने हेत्वभावात्। नन्वेवं लिङ्गज्ञानमेव प्रवर्त्तकमस्तु प्राथमिकत्वादावश्यकत्वाच्च। न च लाघवात् कृतिसाध्यताज्ञानं तथा, कृतिसाध्यतानुमितौ तदा मानाभावेन युगपदुपस्थित्यभावात् प्रवृत्तिसामग्र्या अनुमितिप्रतिबन्धाच्चेति चेत् न लिङ्गज्ञाने कृतिसाध्यताप्रकाशे तत्प्रकारकचिकीर्षायां तस्याहेतुत्वात्। अतएव लिङ्गान्तरज्ञानमपि न प्रवर्त्तकम्। ननु पाकादिः कृतः क्रियमाणोवा न पक्षः तस्य कृतिसाध्यत्वे बाधात् नाप्यनागतः भाविपाके मानाभावेनाश्रयासिद्धेः। पाकत्वं भविष्यद्वृत्ति सामान्यत्वात् गोत्ववदिति मानमिति चेत् न मानाभावेन गोत्वेऽपि तस्याप्रसिद्धेः। पाकमात्रं पक्षः इति चेत् न मात्रार्यो यदि पाकत्वं तदा बाधो लङ्गासिद्धिश्व। सर्व्वपाकपरत्वे च तस्यसिद्धपाकभागे बाधः, अना गतभःगे चाश्रयासिद्धिः। वर्त्तमानाद्युदासीनः पाकः पक्षः पकतामान्ये च कृतिसाध्यत्वं बाधितमित्यनेन सिद्धस्य पक्षत्वं नासिद्धस्येत्यनुमितेश्च सिद्धविषयत्वे बाधात्भिन्नविषयत्वे चामिद्धविषयेच्छाप्रवृत्त्यनुत्पादकत्वात्। कृतक्रियमाणसाधारणकृतिसाध्यताज्ञानादेवासिद्धविषया चिकार्षा कृतिश्चोत्पद्यते अनन्यगतिकत्वेन तथा कारणस्वभावकल्पनादिति चेत् तर्हि यादृशं कृतिसाध्यत्वं चिकीर्षायां प्रकारः तादृशं ज्ञाने नास्तीत्यन्यप्रकारक ज्ञानादेव विकोर्षा स्यात्। तथा च लिङ्गज्ञानमेव प्रवृत्तिहेतुरस्तु प्राथमिकत्वात्। यत्त् स्मृतपाकेकृतिसाध्यत्वासंसर्गाग्रहात् प्रवृत्तिः, सचासंसर्गाग्रह इष्टसाधनताज्ञानादिति, तन्न स्मृतपाकस्य सिद्धत्वेन तत्र कार्यत्वासंसर्गाग्रहानुमानबाधात्। स्मृतपाकस्य सिद्धत्वं तदा न गृह्यते इति चेत् तहिं स्मृतपाकस्य सिद्धत्वग्रहे ओदनार्थी पाकेन प्रवर्त्तेत सिद्धौदनोऽपि पाके तृप्तोऽपि भोजने प्रवर्त्तेत। ननु तत्र पाकादौ सिद्धत्वग्रहात् तदसंसर्गाग्रह इति चेत् तुल्यम्। अपि च स्मृतपाके कार्यत्वासंसर्गाग्रहाद्विद्यमानासंसर्गाग्रहाद्विसंवादिनी प्रवृत्तिः स्यात्। किञ्चैवं सिद्धपाकज्ञानादज्ञानेऽसिद्धे पाक इच्छाप्रवृत्तीस्यातामिति। अत्र ब्रूमः। पाके कृतिसाध्यत्वं सिद्ध्यत् सिद्ध्ये बाधादनागतं पाकमादाय सिद्ध्यति। पक्षतावच्छेदकधर्म्मसामानाधिकरण्यं साध्यमानस्य सिद्धे न सिद्ध्यतीत्यनुमाने कॢप्तत्वात् यथा प्रसिद्धवह्निबाधेऽपि वह्निमात्रं न बाधितमित्यप्रसिद्धोऽपि वह्निः सिध्यति। अप्रसिद्धयोः पक्षसाध्ययोः सिद्धावविशेषात् तस्मात् “असिद्धस्य क्वचित् सिद्धेः सिद्धे सिद्धस्य च क्वचित्। अप्रसिद्धस्य चासिद्धे सिद्धिस्तेनानुमा त्रिधा”। अन्यथा कृतिसाध्येष्टसाधनतापक्षेऽपि पाकादौ कृतिसाध्यत्वं कथमवगम्यते?। किञ्च तवापीष्टसाधनंताज्ञानात् कथं वृष्टादाविच्छा? सिद्धत्वस्येच्छाविरोधि त्वादनागतस्य ज्ञातुमशक्यत्वात्। अतएव सिद्धासिद्धविषयनिरासेन सुखादिज्ञानात् फलेऽपि नेच्छेति न वृष्ट्यादाविष्टसाधनतापि। न च वृष्ट्यादिसाध्येष्टज्ञानाद्वृष्ट्यादाविच्छा इच्छायाः सिद्धासिद्धवृष्ट्यादितत्फलविषयकत्व विकल्पग्रासात्। अथ सामान्यलक्षणाप्रत्यासत्त्या वृष्ट्यादित्वेन सुखादित्वेन व सिद्धासिद्धवृष्ट्यादितत्फलविषयकज्ञान- मुपन्नं तेन सिद्धं विरोधिनं त्यक्त्वाऽसिद्धविषयेच्छोत्पद्यते। यदि च सामान्यलक्षणा नास्ति तदा येन रूपेण इष्टसाधनताग्रहस्तेन रूपेण ज्ञातेऽसिद्धे चेच्छोत्पद्यते अन्वय व्यतिरेकाभ्यां तादृशज्ञानस्य तादृशेच्छाजनकत्वावधारणात्। सुखेच्छायामप्येवमिति चेत् तर्हि ममापि पाकत्वावच्छेदेन कृतिसाध्यताज्ञानादनागते चिकीर्षा। तच्च ज्ञानं सकलपाकविषय सन्निकृष्टपाकविषय वेत्यन्यदेतत्। बालस्य व्याप्ताग्रहेऽप्याद्या प्रवृत्तिर्जीवनादृष्टोद्वोधितजन्मान्तरीयसंस्कारजन्यात् स्तनपानं कार्यमिति स्मरणात् तत्रा पीष्टसाधनतास्मरणात्तत्र प्रवृत्तिरनन्यगतिकत्वात्। न च जन्मान्तरेऽपि पर्यनुयोगः, जन्मधाराया अनादित्वात्। प्रत्यक्षानुमानमूलत्वाच्च नान्धपरम्परा। वस्तुतस्तु शुष्ककण्ठतया बालो दुःखमनुभवन् विरोधितया सुखं स्मरति ततः सुखवृत्ति कार्यत्वं सुखवृत्तितया अन्तरङ्गत्वात्मातुःम्तनपान मिष्टसाधनमिति स्मरणं सुखावृत्तित्वेन बहिरङ्गत्वात्। सुखकार्यत्वञ्च स्तनपानद्वारा जन्मान्तरानुभूतमिति कार्यत्वस्मरणे स्तनपानमपि विषयः तेन स्तनपाने कार्यत्वज्ञांनादेव प्रवृत्तिः इष्टसाधनताज्ञानस्य तदानीं सामग्य्रभावात्। एवञ्चाद्यप्रवृत्तौ कार्यताज्ञानं प्रयोजकं कॢप्तमित्यग्रेऽपि तदेव प्रवर्त्तकं कॢप्तत्वात्”।
अत्र दिङमात्रं मथुरानाथव्याख्या प्रदर्श्यते।
“कार्य्यताज्ञानमिति कृतिसाध्यताज्ञानमित्यर्थः, न च कृतिसाध्यताज्ञानं विनापि घटयागपाकादिकर्त्तुस्तदुपायकपालहविस्तण्डुलादिसिद्धविशेष्यकप्रवृत्तिदर्शनाद्व्यभिचार इति वाच्यं प्रवृत्तेर्हि विषयता त्रयी एका साध्यत्वाख्यविषयता सा च यन्निष्ठकृतिसाध्यताज्ञानचिकीर्षादिना प्रवृत्तिस्तन्निष्ठा, तच्चघटयागपाकाद्येव न तु तज्जनकीभूतकपालहविस्तण्डुलादिसिद्धनिष्ठा अदएव घटं करोमि याग करोमीत्याद्येवानुव्यवसायो। न तु कपाल हविरादेः सिद्धतादशायां कपालं करोमि हविः करोमीत्याद्यनुव्यवसायः व्यवहारो वा कृतिवाचिधातुयोगिद्वितीयायाः साध्यताख्यविषयतार्थकत्वनियमात्। न च साध्यताख्याया एव विषयतायाः कृतिवाचिधातुयोगिद्वितीयार्थत्वनियमे कपालतन्त्वादेः सिद्धतादशायां कपालं करोति तन्तुं करोतीत्यादि व्यवहाराभाववत् कपालं घटवत् करोति, तन्तुं पटवन्तं करोतीत्यादि व्यवहारोऽपि न स्यादितिवाच्यं साध्यवैशिष्ट्यबोधकपदासमभिव्याहृतकृतिवाचिधातुयोगिद्वितीयाया एव तथानियमात् तत्र कपालादि- पदोत्तरद्वितीयाया आधेयचमर्थः घटादिपदञ्च घटत्वादिपरं धावाख्यातयोर्व्यापारप्रयत्नौ यथायोग्यमर्थः तथा च कपालवृत्तिघटचाश्रयानुकूलव्याप रजनक यत्नवानिन्याद्यन्वयधीः कपाल घटवत् करोमीत्यादिवत् कपाले घट करामीत्यादिप्रयोगोऽप ष्यतएवेत्यपि वदन्ति।
अपरा च उपादानतापेरनाम्नी सिद्धत्वाख्यविषयता स च सिद्धकपालहविस्तण्डुलाद्यपाय नष्ठा। कपालेन घटं करोमि हविषा य गं करोमीत्याद्यनुव्यचसायात् तत्र उपादानत्वाख्यविषयताया एव तृतीयार्थत्वात् तस्य च धात्वर्थकृतावन्वयात्। न च तत्रजन्यत्वं विषयत्ववा तृतीयार्थस्तस्य च घटयागादावेवान्वय इति वाच्यम सर्व्वत्र तृत यार्थस्य ध त्वर्थएवान्रयम्य व्युत्पन्नत्वात् अन्यथा तण्डुलाबयवेन तण्डुलं पचतीत्यपि व्यवहारापत्तेः।
अन्या च उद्देश्यचाख्यविषयता सा च यतसाधनताज्ञानाधीना चिकीर्षा तन्निष्ठा तच्च जलाहरणस्वर्गादनादिरूपं जलाहरणार्थितया घटं करोमि स्वर्गार्थितया यागं करोतित्यनव्यवसायात्। जलाहरणमुद्देश्य घटं कारोमि स्वर्गमुद्विश्य यागं करोमोत्यनुव्यवसायाच्च एवञ्च तत्तत्साध्यतावच्छेदकतत्तत् साध्यकप्रवृत्तित्वावच्छिन्नं प्रति कत्ततसाध्यतावच्छदकविशष्यवावच्छेदककतत्तत्साध्यविशेष्यककृतिसाध्यताज्ञानं हेतुरिति न व्यभिचारः एवं चिकीर्षाया अपि हेतुत्वमवसेयं तेन तस्या अपि कपालहविस्तण्डुश्चादौ न व्यभिचार” अन्यथा नैयायिकभतेऽपि व्यभिचारस्य दुर्वारत्वात् तैरपि कृतिसाध्यत ज्ञानचिकीर्षयोर्हेतुत्वोप्रगमादिति भाव। यत्तुप्रवृत्तेर्विषयवात्रैविध्ये मानाभावः किन्तु कपालहविस्तण्डुलाद्युपाय एव प्रवत्तिग्षियः प्रवत्तिविशेष्यत्वमेव चोपादानत्वम्। नचैवं षटं करोति यागं कारोतात्यादिव्य ह रानुपपात्तः कृतिबाचिधातयो गद्ववीयाया विशष्यवार्थकत्वादन्यथा कपालं करोतोत्यादिव्याहारापत्तिरिति वाच्यम् तत्र घटयागपाकादिपदस्य कप लहविस्तण्डुलादौ लक्षणिकत्वात् कृतिवाचिध–तुयो गद्वितीयाया विशेष्यतानुकूलतान्यतरार्थकत्वनियमेनानुकूलत्वं विशष्यता वा तत्र द्वितायार्थः इति प्राञ्चोनैयायिका बदन्ति। तदसत् लक्षणया शब्दप्रयोगरूपव्यवहारसमथत्तेऽपि घटादिविशेष्यकत्वावगाहित्वेनानुभूयमानाया घटं करोमीत्यादिप्रात्यक्षिकप्रतीतेरनुपपादनात् लक्षणायां मानाभावाच्च। किञ्च जलाहरणस्वर्गादिरूप कलस्य उद्देश्यताख्यविषयताया घटयागपाकादेश्च सा- ध्याताख्यविषयताया अनभ्युपगमे इष्टसाधनताज्ञान कृतिसाधाताचिकीर्षाणां कार्यकारणभावोऽपि दुर्व्वच इत्युक्तप्रायएव वक्ष्यमाणश्चोपरिष्टात् इति दिक्। अत्र च तत्प्रकारकतद्विशेष्यकतत्साधनताज्ञानत्वं तत्साध्यतावच्छेदककतत्साध्यकतदर्थिप्रवृत्तिकारणतावच्छेदक न वा, ज्ञानतदर्थिप्रवृत्तित्वं तत्साधनताज्ञानजन्यवृत्ति नवेत्यादि विप्रतिपत्तयः तेन नैयायिकैरपि कृत्तिसाध्यताज्ञानस्थ प्रवत्तकत्वाभ्यपगमेऽपि न क्षति। तदर्थित्वञ्च तदुद श्यकत्वं न तु इष्टस–धनताज्ञानं प्रवर्त्तकं न वा तत्साधनताज्ञानं तदर्पिप्रवत्तिकारणं नवेत्यादिविप्रतिपत्तिः पररपि हविराद्यपादाननिष्ठयागादिरूपचिकार्षाविषयसाधनताज्ञानस्य यागादिगोचरप्रवृत्तौ हेतुत्वस्याभ्यपगमात् इष्टसाधनत्वकृतिसाध्यत्वोभयविषयकसमूहालम्बनस्य प्रवृत्तिहेतुत्वाभ्युपगमाच्चेति ध्येयम्। चिकीर्षातिरिकं न कर्त्तव्यमस्तीति कर्त्तव्यं द्वारं चिकीर्षा अवश्यं द्वारमिति समुदितार्थः तथैव प्रकृतोपयोगात्। नचैवं प्रवर्त्तकज्ञानत्वव्यापकं चिकीर्षाव्यापारकत्वमिति फलितार्थः तच्चायुक्तं उपादान प्रत्यक्षे व्यभिचारात् तस्य साक्षादेव प्रवृत्तिहेतुत्वात उपादानेच्छयोस्तस्य द्वारत्वमतेऽपि चिकीर्षाया अद्वारत्वाच्च इति वाच्यं ज्ञानस्येत्यस्य प्रवृत्तिं प्रति साक्षादसाधनीभूतस्य ज्ञानस्येत्यर्थात् उपादानप्रत्यक्षञ्च न साक्षात् साधनं उपादानप्रत्यक्षविरहे प्रवृत्त्यनुदयात् उपादानेच्छाय स्तद्द्वारत्वमतेऽपि तस्य साक्षात्साधनत्वावश्यकत्वात्। न च तथापि फलज्ञाने व्यभिचारः फलचिकीर्षायाः प्रवृत्तावहेतुत्वात् इति वाच्यं फलज्ञानस्य फलेच्छाद्वारा उपायेच्छामात्रसम्पादकत्वनात्यथासिद्धतया प्रवृत्तिजनकत्वस्यैव तत्रासिद्धेः। यदि च फलज्ञानमपि प्रवृत्तिजनकं तदा उपायचिकीर्षाया एव तद्व्यापारत्वेन चिकीर्षाव्यापारकत्व रूपसाध्यस्यापि तत्र सुतरां सत्त्वाच्च न हि स्वममानविशेष्यकचिकीर्षाव्यापारकत्वपर्यन्तं साध्यमनुपयोगादिति ध्येयम्। ननु चिकार्षारूपव्यापारसत्त्वेऽपि कुतो न क्वचित् कृत्युत्पादैयत आह तत्सत्त्वे इति। हेत्वन्तरेति हेत्वन्तर दण्डकपालाद्युपादानलौकिकप्रत्यक्षं, प्रतिबन्धकाभावश्चति भावः। ननु तत्तदुपादनतावच्छेदककतत्तदुपादानकप्रवृत्तित्वेन तत्तदुप्रादानतावच्छेदकप्रकारक तत्तदुपादानविशेष्यकलौकिकसाक्षात्कारत्वेनोप्रादानप्रत्यक्षस्य हेतुहेतुमद्भावात् दण्डकपालाद्युपादानप्रत्यक्षाभावे तदुषादानकप्रवृत्तिर्मास्तु घटादिसाध्यकप्रवृत्तिं विनापि संयोगादिसाध्यकप्रवृत्तौ दण्डाद्युपादानकप्रधत्तिसत्त्वेन तदुप दानक्यवृत्तिसामग्य्राः घटादिसाध्यकप्रवृत्तिसामग्र्यपेक्षया विशेषसाभग्रत्विचिरहात् दण्डोपादानक प्रवृत्तिं विनापि कपालोपादानकघटसाध्यकप्रवृत्ता घट साध्यकपवृत्तिसत्त्वेन तदुपादानकप्रवृत्तिसामग्र्या घटादि साध्यकप्रवृत्तिसामग्य्रपेक्षया सामान्यसामग्रीत्वविवहाच्चति चेन्न सामग्र्याः सामान्यविशेषभावानापन्नत्वेऽपि दण्डचक कप लाद्यन्यतमोपादानकप्रवृत्त्यतिरिक्ताया घटादिसाध्यकप्रव्रतेरल कतया तादृशान्थतभोपादानकप्रवृत्ति सामग्रीविरहादेव तादृशान्यतमोपाद नप्रत्यक्षाभावदशायां तदनुत्पत्तस्तदर्मावच्छिन्नयत्किञ्चिद्व्यक्तिसामग्रीसहिताया एव तद्धर्म्मावच्छिन्नसामग्र्यास्तद्धर्म्मावच्छिन्नकार्य्योपधायकत्वात् इदमेव च कारणसमाजाधीना कार्योत्पत्तिरिति गीयते। एतेन घटादिचिक र्षाविरहेऽपि दण्डगोचरप्रत्यक्षात् दण्डोपादानकपवृत्त्यापत्तिस्तदवच्छिन्नस्य सत्त्वादित्यपि निरस्तं संयोगभ्रम्याद्यन्यतमसाध्यकप्रवृत्त्यतिरिक्ताया दण्डोपादानकप्रवृत्तेरलीकतया तादृशान्यतमसाध्यकपवृत्तिसामग्रीविरहादेव तदनुत्पादात् कार्योत्पत्तेः कारणसमाजाधीनत्वात्। नव्यास्तु उपादानप्रत्यक्षम्य हि स्वातन्त्र्येण न हेतुता किन्तु घटादिनिष्ठचिकीर्षाया दण्डाद्युपादानकलौकिकसाक्षात्कारस्य च सत्त्वऽपि दण्डादौ घटसाधनत्वज्ञानाभावदशायां घटसाध्यकदण्डोपादानकप्रवृत्तिवारणीय दण्डोपादाननिष्ठचिकार्षाविषयघटादिसाधनताज्ञानस्यापि घटादिसाध्यकद ण्डाद्युपादानकपवृत्तित्व वाच्छन्न प्रति न्यायनये परनये च विशेषकारणत्वावश्यकत्वात्तदेव चिकोर्षाविषयसाधनताज्ञान मुपादानांशे लौकिकप्रत्यक्षात्मक हेतुरुपेयते क र्यकारणभावदृयकल्पनामपेक्ष्य लाघवात्। न च घटसाध्यककपालोपादानकघटध्वं ससाध्यकदण्डोपादानकसमूहालम्बनप्रवृत्तौ दण्डनिष्ठघटसाधनताज्ञानस्याहेतुचात् तत्र व्यभिचारवारणाय घटत्वावच्छिन्नसाध्यतानिरूपितदण्डत्वा बच्छिन्नोपादनताशालिवत्त्तित्वमेव कार्यतावच्छेदकमुपेयं तथाच दण्डत्वावच्छिन्नोपादनतानिरूपतष्ठटत्वावच्च्छिन्नसाध्यताशालिप्रवृत्तित्वमादाय विनिगमनाविरहात्तवापि गुरुतरकार्यकारणभावद्वयमावश्यकमिति वाच्य दण्डाद्युपादाननिष्ठचिकीर्षाविषयघटसधिनताज्ञानस्य घटादिसाध्यकदण्डाद्युपादनकप्रवृत्ति प्रति विशेषकारनत्वावश्यकतया विनिगमनाविरहात् तादृशकार्यक रणभावद्वयस्य सर्वसम्मत- त्वात्। इत्यञ्च विशषसामग्रोविरहादेव उपादानपत्यक्षाभावदशायां न घटादिस ध्यकावृत्त्युत्पत्तिप्रसङ्गः। एतेन घटादिनिष्ठचिर्कार्षाविरहेऽपि दण्डगोचरपत्यक्षात् दण्डनिष्ठघटसाधनताज्ञानात्मकविशेषसामग्रीसहकृतात दण्डोपादानकप्रवत्त्य पत्तिस्तदवच्छिन्नसामग्रीसत्त्वादिति द्विर्तायातिप्रसङ्गोऽपि निरस्तः, केवलदण्डोपादानकावृत्तित्वस्य कायतानवचछेदकत्वात् घटादिसाध्यकदण्डाद्यपादःनकपवृत्तेश्च घटादिनिष्ठचिकीर्षालक्षणघटादिसाध्यकप्रवृत्तसामान्यसामग्रीविरहादेवासम्भव दिति प्र हुः। अथ प्रत्यजविषयकपालव्यक्तो इदं न कपालमित्यमसर्गग्रहसत्त्वेऽपि कपालत्वप्रक रेण कपालं घटसाधनभिति कपालत्वांश निर्द्धर्मितावच्छेदककतत्कपालावषयकलाकिकप्रत्यक्षात कपालत्वप्रक रेण तत्कपालोपादनकप्रवृत्त्यापत्तिः। न च कपालत्वप्रकारेण तद्व्यक्तौ वृष्टाविवेष्ट पत्तिरित वाच्यम् अनुभवविरोधादि त चेन्न तदुपादनतावच्छेदकांशे इदन्त्वधम्मितावच्छेदककतदुपादानविशेष्यकप्रत्यक्षस्येदं घटसाधनमित्याकारस्य वा तत्तदुपादानतावच्छेदक कतदुपादानकप्रवृत्तिं प्रति हेतुत्वेन निर्द्धर्म्मितावच्छेदककज्ञानस्याहेतुत्वात्। नचैवमिद घटसाधनमिति लौकिकप्रत्यक्षादिदन्त्वप्रकारेणेतद्व्यक्त्युपाद नकावृत्तिर्न स्यात् तस्य इदन्त्वांशे निर्द्धर्म्मितावच्छेदककत्वादिति वाच्यम् उपादानतावच्छेदकभदेन कार्य्यकारणभावभेदादिदन्त्व स्थले निर्द्ध र्म्मता च्छेदककज्ञानस्यापि प्रवर्त्तकत्वात् इदमिदं नेत्यमंसर्गाग्रहासम्भवेन तत्रापि प्रमङ्गविरहादित्यास्तां विस्तरः। चिकीर्षा चेति व्यापारीभूत चिकीर्षा चेत्यर्थः। अन्यथा–चिकार्षासामान्यम्य स्सक्ष्यत्वे। लक्षणे फलचिकीर्षायामतिव्याप्तिवारकं कृतिसाध्याक्रया विषयत्वं विशेषणं व्यर्थं स्यादित्यनुपदमेव स्फुटीभविष्यति। कृतिसाध्यत्वप्रकारिकेति। अत्र फलचिकीर्षायाव्यापारत्वाभावेन लक्ष्यचात्तत्रातिव्याप्तिवारणाय कृति साध्यक्रियेति क्रियापदं धर्म्मिमात्रपरम् कृतिस ध्यत्वञ्च साध्यत्वाख्यफलीमूतविषयताशालिनिष्ठत्व नथा च स ध्य त्वाख्यफलीभूतकृतिविषयताशालिधर्म्मिविषयिकेत्यर्थः फलञ्च न तादृशविषयताशालीति भावः। केचित्तु क्रियापदमेव साध्यचाख्यफलीभूतकृतिविषयताशालिपरम् न चैव पृथक् कृतिसाध्यत्वं क्रियाविशेषणं व्यर्थमिति वाच्यं कृतिसाध्यत्वप्रकारकज्ञानस्य व्यापारीभूता या चिकोर्षा सर्व प्रकृते लक्ष्या सा च संवादिनी चिकार्षैव, विसं- वादिचिकीर्षायां तत्प्रकारकज्ञानस्य हेतुत्वेऽन्यथाख्यात्यापत्तेः। तथा च पृष्थादिविसंवादिचिकीर्षायामतिव्याप्तिवारणाय तद्विशेषणस्यावश्यकत्वात् इत्याहुः। पाकमिति पाकं कृत्या साधयामीत्याकारिकायां तस्यां तदनुभवात् कृतिसाध्यत्वप्रकारकत्वस्यानुभवमिद्धत्वादित्यर्थः कृतिसाध्यत्वेन पाकमिच्छामीति तदनुव्यवसायसत्त्वादिति भावः। इच्छाया इत्यादि। इच्छायाः स्वप्रकारकसंवादीच्छायाः तत्प्रकारकसंवादीच्छायास्तत्प्रकारकधोसाध्यत्वनियमादिति फलितार्थः। गुरुनये रजतादिप्रकारकविसंवादीच्छायां रजतादिप्रकारकज्ञानाजन्यायां व्यभिचारवारणाय संवादित्वोपादानं कूटलिङ्गस्थलेऽप्यनायत्त्या तदिच्छाया विषयान्तरचिषयकत्वकल्पनेन विसंवादः कल्प्यते। न चैवं संवादिविकोर्षायां तज्जन्य प्रवृत्तौ च कृतिसाध्यवप्रकारकज्ञानस्य हेतुत्वेऽपि चिकोर्षासामान्ये च कृतिसाध्यत्वज्ञानस्य न हेतुत्वसिद्धिरिति वाच्यं संवादिचिकोर्षादौ कृतिसाध्यताप्रकारकज्ञानस्य हेतुत्ये सिद्वे यद्विशेषयोरिति (यद्विशेषयोः कार्य्य कारणभावस्तत्सामान्ययोरपीति) न्यायात् चिकीर्षादिमात्रं प्रत्येव कृतिसाध्यताविषयकज्ञानस्य हेतुत्वंसिद्धेरिति भावः एवमग्रेऽपि। केचित्तुया यत्प्रकारिकेच्छा सा तद्विषयकज्ञानसाध्येति नियमः न तु प्रकारतापर्य्यन्त प्रवेशः मूलेऽपि स्वप्रकारकेत्यस्य स्वविषयकेत्यर्थः एवञ्च रजतादिविसंवादीच्छायां न व्यभिचारः तत्र तन्नये इच्छा विशेष्यविशेष्यकरजतप्रकारकज्ञानस्याहेतुत्वेऽपि स्वातन्त्र्येण रजतोपस्थितेरवश्यं हेतुत्वात्। न च तन्नये विसंवादीच्छायामुपस्थितेष्टतावच्छेदकासंसर्गाग्रहस्यैव हेतुतया रज तज्ञानं तत्र कारणतांवच्छेदकमेव न तु कारणमिति व्यभिचारो दुर्वारएवेति वाच्यं कारणकारणतावच्छेदक साधारणप्रयोज्यत्वरूपस्य साध्यत्वस्य नियमघटकत्वात्। नचैवं प्रकृतेऽपि कृतिसाध्यताज्ञानस्यैककालावच्छिन्नैकात्मवृत्तित्वसम्बन्धेन इष्टसाधनताज्ञाननिष्ठकारणतावच्छेदकत्व मेवायातु कुतः कारणत्वम्? इति वाच्यं वक्ष्यमाणक्रमेण तन्नये इष्टसाधनत्वज्ञानस्येच्छाविरोधितया इष्टसाधनताज्ञानस्य चिकीर्षाहेतुत्वासम्भवात् परिशेषेण जन्यतारूपस्यैव कृतिसाध्यताज्ञानप्रयोज्यत्वस्य चिकीर्षायां सिद्धेः। नचेष्टसाधनताज्ञानस्याजनकत्वेऽपि बलवदनिष्टाननुबन्धित्वज्ञाननिष्ठजनकतावच्छेदकत्वमेवायात्विति वाच्यं बलवद्द्वेषस्यैवेच्छाविरोधितया तज्ज्ञानस्यापि चिकीर्षाहेतुत्वासिद्धेः। वस्तुतस्तु विशेष्यविशेषणभावे विनिगमकाभावादुपस्थितेष्टतावच्छेदकासंसर्गाग्रहवदुअगृहोतासंसर्गकेष्टतावच्छेदकोपस्थितेरपि विसंवादीच्छाजनकतया जन्यत्वरूपसाध्यत्वमेव नियमघटकमिति न कोऽपि दोष इति प्राहुः। अतएवेति चिकीर्षायाः स्वकृतिसाध्यताज्ञानसाध्यत्वादेवेत्यर्थः। स्वकृतिसाध्ये–स्वकृतिसाध्यत्वेन ज्ञाते। इदञ्चापाततः वस्तुतो लाघवात्पाको मत्कृतिमान् भवत्वित्याकारिका साध्यतासंसर्गेण कृतिप्रकारिका इच्छैव व्यापारो न तु कृतिसाध्यत्वप्रकारिका गौरवादतएव ज्ञानमपि साध्यतासंसर्गेण कृतिप्रकारकमेव हेतुरिति तत्त्वम्। यद्यप्युक्तनियमवलेन कृतिसाध्यताज्ञानस्य हेतुत्वं साधितमेव तथापि युक्त्यन्तरदानाय पुनरनुवदति न द्विष्टेति इष्टसाधनताज्ञानसाध्याकृतिसाध्यताज्ञानं विनापि इष्टसाधनताज्ञानसाध्या यथाश्रुतेऽग्रिमहेत्वसङ्गतेः। स्वकृथसाध्ये–स्वकृत्यसाध्यत्वेन निश्चिते स्वकृत्यसाध्यताज्ञानभिति स्वकृत्यसाध्यतानिश्चय इत्यर्थः कृतिसाध्यतासंशयेऽपि प्रवृत्तेरनुभवाद्यथाश्रुता सङ्गतेः। न च कृतिसाध्यतासंशये प्रवृत्तिर्स्वकारे बहुवित्तव्ययायाससाध्येऽपि प्रवृत्त्वापत्तिरिति वाच्यं बलवदनिष्टानुबन्धित्वज्ञानस्य विरोधित्वादेव तत्रेच्छाप्रवृत्त्योरभावादिति ध्येयम्। तदभावकारणत्व इति कृतिमाध्यताज्ञानत्वेन कारणत्वमपेक्ष्य कृत्यसाध्यतानिश्चयाभावत्वेनकारणत्वे गौरवात् इत्यर्थः। नचाप्रामाण्यनिश्चयानास्कन्दितकृतिसाध्यताज्ञानत्वापेक्षयाऽप्रामाण्यज्ञानानास्कन्दित कृत्यसाध्यतानिश्चयाभावत्वमेव लघ्विति वाच्यं कृतिसाध्यताज्ञानस्याप्रामाण्यनिश्चये बलवदनिष्टानुबन्धिताज्ञानोदयादेव प्रवृत्त्यभावसम्भवात्तत्र तदनास्कन्दितत्व स्याप्रवेशात् स्वकृतत्यसाध्यतानिश्चयवत्तदभावव्याप्यादिनिनिश्चयस्यापि प्रतिबन्धकत्वावश्यकतया बहुतरकार्य्यकारण भावकल्पनागोरवाच्चेति भावः। केचित्तु ननूक्तनियमबलादस्तु कृतिसाध्यताज्ञानं हेतुस्तथापि कृतिसाध्यताज्ञानत्वेन तस्य न हेतुता अपि तु इष्टसाधनताज्ञानत्वेन सर्व्वत्रेष्टसाधनताकृतिसाध्यतोभयविषयकसमूहालम्बनादेव चिकीर्षेत्यत आह न द्विष्टसाधनताज्ञानसाध्येति न द्विष्टसाधनताज्ञानत्वावच्छिन्नकृतिसाध्यताज्ञानकारण ताकेत्यर्थः। स्वकृत्यसाध्ये स्वकृत्यसाध्यत्वेन निश्चिते। चिकीर्षापत्तेः–केवलेष्टसाधनताज्ञानाच्चिकीर्षापत्तेः कारणतावच्छिन्नसत्त्वादिष्टापत्तौ चोक्तनियमभङ्गादिति भावः। तदभावकारणत्वे गौरवादिति। इदमुपलक्षणं कृत्य- साध्यतानिश्चयस्य प्रतिबन्धकत्वेऽपि यत्र कारणान्तराभावादिटसाधनताज्ञाने कृतिसाध्यत्वस्य न भानं तत्र कवलेष्टसाधनताज्ञानाच्चिकीर्षापत्तेर्दुर्व्वार्रत्वाच्च इत्यपिबोध्यम्। उक्तनियममस्मृत्वैव तटस्थः शङ्कते अथेतीति। अभावः–कृत्यसाध्यतानिश्चयाभावः। उभयसिद्धः–चिकीर्षापूर्ब्बमुभयसिद्धः, असिद्धा–चिकीर्षापूर्ब्बमुभयासिद्धा। न लाघवावसरः इति कृतिसाध्यताज्ञानत्वस्य सदपि लाघवं न कारणतावच्छेदकतायां विनिगमकम् इत्यर्थः लघु गुरुधर्म्मद्वयावच्छिन्नं यदि फलपूर्ब्बमुभयबादिसिद्धं तदेव लाथास्य कारणतावच्छेदकतायां विनिगमकत्वादिति भावः। दैवात्प्रतिबन्धकविरहात्। सा–चिकीर्षापूर्व्वकृतिसाध्यताधीः। लाधवावतारादिति कृतिसाध्यताज्ञानत्वरूपलघुधर्म्मावच्छिन्नस्य चिकीर्षापूर्व्वमुभयमतं सत्त्वादित्यर्थः। इच्छाया इति तत्प्रकारकसंवादीच्छायास्तत्प्रकारक ज्ञानजन्यतानियमेनेत्यर्थः। आवश्यकत्वात्–चिकीर्षाहेतुतावश्यकत्वात् अपि च कृत्यसाध्यताज्ञानप्रतिबन्धकतान्यथानुपपत्त्या कृतिसाध्यताज्ञानस्य चिकीर्षाहेतुता सिद्धिरित्याह जनकज्ञानमिति। तज्जनकीभूतज्ञानविघटकस्यैव ज्ञानस्य विधिप्रतिबन्धकत्वाच्चेत्यर्थः। अत्र व्याप्तौ दृष्टान्तमाह व्याप्तिज्ञानविघटनद्वारेति अनुमिति जनकव्याप्तिज्ञानविघटनेनेत्यर्थः। तथा च यत् यत्प्रतिबन्धकं ज्ञानं भवति तत्तज्जनकज्ञानविघटकं यथा व्यभिचारज्ञानमनुमितिप्रतिबन्धकं ज्ञानं भवत् अनुमितिजनकव्याप्तिज्ञानविघटकमपि भवति इति सामान्यतोव्याप्त्या कृत्यसाध्यतानिश्चयस्य चिकीर्षाप्रतिबन्धकज्ञानत्वेन हेतुना चिकीर्षाजनकज्ञानविघटकत्वसा धने पक्षधर्म्मताबलात्कृतिसाध्यताज्ञानस्यैव चिकीर्षाजनकत्वसिद्धिरिति भावः। न च जनकज्ञानविघटकत्वेनाऽन्यथासिद्धतया तदभावस्याहेतुत्वात् स्वरूपासिद्धिर्दृष्टान्तासिद्धिश्च इति वाच्यं प्रतिबन्धकत्वं हि न कारणीभूताभावप्रतियोगित्वम् किन्तु प्रयोजकीभूताभावप्रतियोगित्वम्। प्रयोजकत्वं च कारणकारणव्यावृत्तान्यथासिद्धिचतुष्टयराहित्ये सति नियतपूर्ववर्त्तित्वम्–कारणतत्कारणसाधारणम्। हेतौ ज्ञानपदोपादानादेव च विषयान्तरसञ्चारादौ न व्यभिचारः। साध्य च ज्ञानपदं स्वरूपकथनम्। विघटकत्वञ्च प्रतिबन्धकत्वमेव नत्वेककालावच्छेदेन तदधिकरणावृत्तित्वरूपविरोधित्वं गुरुनयेऽधिकरणज्ञानरूपतया कृतिसाध्यताज्ञानस्यापि कृत्यसाध्यताज्ञानाभावस्य ज्ञानात्मकस्य विरोधितया सिद्धसाधनापत्तेः। नचासाधुत्वज्ञाने साधुत्वज्ञानाजन्यशाब्दधीप्रतिबन्धके व्यभिचार इति वाच्यम् निराकाङ्क्षत्वरूपासाधुत्वज्ञाने आकाङ्क्षाज्ञानमादाय साध्यस्यापि सत्त्वात् असाधुत्वज्ञानस्य च प्रतिबन्धकत्वे मानाभावात्। न च तथापि सिद्धौ व्यभिचार इति वाच्यम् गुरुनये सिद्धेरप्रतिबन्धकत्वात् तद्व्यावृत्तप्रतिबन्धकताया वा हेतौ निवेशात्। अतएवासिद्धत्वज्ञानाजन्येच्छाप्रतिबन्धकसिद्धत्वज्ञानेऽपि न व्यभिचारः तद्व्यावृत्तप्रतिबन्धकताया एव हेतौ निवेशात् असिद्धत्वनिश्चयस्यापि इच्छाहेतुत्वाद्वा। अथ तथापि बाधसत्प्रतिपक्षादौ व्यभिचारः। न च तद्व्यावृत्ताऽपि प्रतिबन्धकत हेतौ निवेशनायेति वाच्यम् कृत्यसाध्यताज्ञानाभावव्यभिचारज्ञानाभावयोरपि बाधाभावतयैव चिकीर्षानुमित्योः प्रयोजकतया स्वरूपासिद्धि दृष्टान्तासिद्ध्योरापत्तेः। न च साक्षादविरोधित्वे सतीत्यनेन हेतुर्विशेषणीय इति बाच्यम् साक्षादविरोधित्वं हि न ग्राह्याभावतद्व्याप्याद्यनवगाहित्वं, प्रकृतेऽपि तदसिद्धेः कृत्यसाध्यताज्ञानस्य चिकीर्षाप्रकारीभूतकृतिसाध्यत्वाभावावगाहित्वात् अतएव न कारणीभूताभावप्रतियोगित्वमपि, प्रकृतेऽपि तदसिद्धेः पूर्वपक्षिणा कृत्यसाध्यता धियः साक्षादेव प्रतिबन्धकत्वाभ्युपगमात् न च हेतौ प्रतिबन्धकज्ञानत्वपदेन ज्ञानत्वावच्छिन्नप्रतिबन्धकताशालित्वं विवक्षितं बाधसत्प्रतिपक्षादेश्च निश्चयत्वेन प्रतिबन्धकत्वमिति वाच्यम् प्रकृते तदसिद्धेः उक्तयुक्त्या कृत्यसाध्यतानिश्चय स्यैव पूर्वपक्षिमते प्रतिबन्धकत्वादिति चेन्न हेतौ स्वग्राह्यविरोधावगाहिज्ञानभिन्नत्वेन यत्पदार्थविशेषणात्। स्वपदं प्रतिबन्धकज्ञानपरं चिकीर्षायाश्च ज्ञानभिन्नत्वादेव संग्रहः स्वग्राह्यविरोधावगाहित्वन्तु स्वं यत्र यदभावतद्व्याप्य तदवच्छेदकाद्यन्यतममवगाहते तत्र तदवगाहित्वं संवादित्वेनापि हेतौ यत्पदार्थो विशेषणीयः तेन इष्टभेदग्रहे प्रवृत्त्यादिप्रतिबन्धके तन्नये न व्यभिचारः। संवादिप्रवृत्तौ विशिष्टज्ञावमेव हेतुरिति साध्यसत्त्वादेव न तमादाय व्यभिचारः। न च तथापि कूटभ्रमपरामर्शलिङ्गस्थले लिङ्गासंसर्गाग्रहेण लैङ्गिकासंसर्गाग्रहाधीनसंवादीच्छाप्रबृत्तिप्रतिबन्धकेष्टभेदग्रहे जनकीभूतविशिष्टज्ञानविघटकत्वाभावाद्व्यभिचार इति वाच्यम् विशिष्टज्ञानस्य संवादीच्छाप्रवृत्तिहेतुत्वेनानायत्या तत्रापीच्छाप्रवृत्त्योर्विषयान्तरविषयकत्वकल्पनेन विसंवादित्वस्य तैः स्वीकारादिति दिक्। अन्यथा–एतादृशव्याप्त्यनङ्गीकारे। उपेक्षणीयत्वम्- इष्टसाधनतावच्छेदकरूपशून्यत्वम्। निष्फलत्वम् इष्टफलोप धानशून्यत्वम्, प्रतिबन्धकं–चिकार्षापतिबन्धकम्। क्रियाज्ञानमेवेयोकारेण इष्टसाधनत्वादिज्ञानव्यवच्छेदः। सोन्दडः शङ्कते नन्विति। सन इति। वाचिचात् बोधकतात् पतच्च चिर्कर्षापदस्य यौगिकत्वपक्षे चिक र्षापदस्याखण्डरूढत्वपक्षे त्वाहलाघवातिति, कृतिस ध्यत्वप्रकारकेच्छात्व पेज्ञया कृतीच्छात्वस्य प्रवृत्तिनिमित्तस्य लघु वादिथर्यः। चिकीर्षाचिकर्षापदप्रतिपाद्या। वृष्टाविवेति वृष्टिर्भवत्विताच्छैवेत्यर्थः। इष्टसःधनताज्ञानात्–इष्टसाधनताज्ञानमात्रात् कृतिसाध्यवाज्ञानं विनापीष्टसाधनताज्ञानादिति यावत्। तत्र कृतिसाध्यत्वस्याप्रकारतया कृत्यसाध्यत निश्चयस्याप्रतिबन्धक तया च कृतिसाध्यताज्ञानस्य हेतुत्वे मानाभावादिति मावः। अत्र वृष्टिर्भवत्वित च्छेवेति प्रकृतसाध्याङ्गको दृष्टान्तः गुरुनये वृष्टिसाध्यं सुखं भवत्वितीच्छैव विशेषणतया सुखत्वमिव वृष्टिमपि विषय करोति न तु वृष्टिर्भवत्विति स्वातन्त्र्येणेच्छा कृतिसाध्यत्वप्रकारकेच्छां प्रति सुखत्वदुःखाभावत्वप्रकारकज्ञानयोर्हेतुत्वेन कृतिसाध्यत्वाप्रकारकोपा येच्छाया अलीकत्वात् वृष्टिसाध्यं सुखं भवत्वितोच्छायान्तु सुखेवृष्टिसाध्यत्वज्ञानमेव हेतु रति मन्तव्यम्। वह्निना साधयामीतिवदिति साध्यत्वप्रकारिकाया इति शेषः। अनुभूयमानायाः–नियमतोऽनुभूयमानायः। सनन्तावाच्यधेनसनन्ताप्रतिपाद्यत्वेन। गौरवेण–प्रवृत्तिनिमित्तगौरवेण। प्रत्याख्यातुप्तशक्त्यत्वातिति कारणतायाः प्रत्याख्यातुमशक्यत्वादित्यर्थः तथाच चिकीर्षापदाप्रतिपाद्यापि सा प्रवृत्तिहेत्तुरिति भावः। प्राधान्येनेति विशेष्यवयेत्यर्थः। अप्राधान्येन विषयत्वस्य तत्र द्वितीयार्थत्वे पाकत्वं चिकीर्षति इत्यपि प्रयोगापत्तेरिति भावः। न तु कृतेरिति अतो न कृतीच्छा चिकीषाप्रतिपाद्येति भावः। ननु चिकोर्षतीत्यत्र पाकस्य विशष्यतया इच्छाविषयत्वमनुभूयते इत्ययुक्तं सत्प्रथयसमभिव्याहृतधातोरिच्छाविशेषवाचितया धात्वर्थस्यौ विशेष्यत्वातित्यतआह धातोश्चेति। इच्छाप्रकार वाचित्वमिति न तु विशेष्यपाचित्वमिति शेषः। पकारश्च कृतिसाध्यत्वं साध्यतासंसर्गेण कृतिर्वा। आद्ये तु लक्षणादिकं शरणमित्यन्यदेतत्। भोजनविशेष्यतयेति भोजनप्रकारकेच्छाविशेष्यवयेत्यर्थः। ओदनविशेष्यकभोजनप्रकारकेच्छाश्रय इत्यन्वयबोधादिति भावः। ननु कृतिसाध्यत्वप्रकारकेच्छायानियमतः कृतिपूर्व्वमनुभवसिद्धत्वेऽपि न सा प्रवृत्तेर्हेतुरवच्छेदकगौरवात्, किन्तु कृतीच्छैव इष्ट साधनता ज्ञानेन, तस्या अपि पूर्व्वं सम्भवात्। नचैवं क्रियाया इष्टासाधनतादिज्ञानेऽपि कृतेरिष्टोपायत्वादिस्तानात् प्रवृत्त्यापत्तिरिति वाच्यम् इष्टत्वात्। अन्यथा तवापि कृतेरिष्टाजनकत्वादिज्ञानदशायामपि क्रियाया इष्टजनकत्वादि ज्ञान त्प्रग्त्त्यापत्तेस्तुल्यत्वादतआह इष्टभाष्टनत्वेनेति इष्टसाधनत्वज्ञानेनेत्यर्थः। वुष्टाविवेति प्रवृत्तिपूर्व्वमिति शेषः। करोतीति तादृशानुव्यवसायेनेत्यर्थः। ज्ञानचिकीर्षाप्रवृत्तीनामिति प्रवृत्त्या सह प्रवृत्तिकारणज्ञानचिकीर्षायाः समानविशेष्यकत्वस्य विषयोकरणात इत्यर्थः। इदमुपलक्षणम् अतिप्रमङ्गभङ्गाय तद्विगेष्यककृतौ तद कूलकृतोच्छायाएव हेतुताया वक्तव्यत्वात् पाकानुकूलकृतीच्छात्वस्वकृतिसाध्यत्वप्रकारके च्छात्वयोः समशरोरत्वेन लाघवगौर मपि नास्तीत्यवधयम्। कृत्या साधयितुमिति कृतिसधदत्वप्रकारिकेत्यर्थः। सा–चिकोर्षा चिकीर्षतस्य पाकस्यतिचिकीर्षाविषयताचच्छेदकपाकत्वावच्छिन्नस्येर्त्यथः। अन्यतः सिद्धौ अन्यतः सिद्धत्वग्रहे, सा–पाकत्वपृकरिका नापगच्छेत् न न जायेत जायेतेति यावत्। उपायविशेषसाध्यत्वेनेति एकोपायसाध्यत्वप्रकारिकेत्यर्थः। उपायान्तराधोनेति उपायान्तराधोनसिद्धत्वज्ञानेनेत्यर्थः। प्रोत्येति प्रत्याधनलाभस्य प्रीत्या सिद्धत्वज्ञानेऽपीत्यर्थः। प्रतिग्रहेणेति प्रतिग्रहसाध्यत्वप्रकारकधनलाभेच्छाया इत्यर्थः। अनिवृत्तेरुत्पत्त्यनिवृत्तेरुत्पत्तेरिति यावत्। तथा च तदुपायसाध्यत्वप्रकारकेच्छां प्रति तदुपायतःसिद्धत्वज्ञानस्यैव प्रतिबन्धकतया उपायान्तराधीनसिद्धत्वज्ञानेऽपि कृ तसाध्यत्वज्ञकारकेच्छोत्पत्तौ न बाधकमिति भावः। स्वविषयसिद्धत्वस्येति स्वविषयतावच्छेदकावच्छिन्न वशेष्यताकसिद्धत्वज्ञानस्येत्यर्थः यथा श्रुते पाकं कृत्या साधयामीतीच्छाया अन्यतः सिद्धपाका षियतया तत्सिद्धौ तन्निवृत्तेरनुपपादनात्। न च तस्या अन्यतः सिद्धपाकोऽपि विषयः व्यधिकरण कारकेच्छाया अभ्युपगमात् इति वाच्यं तथापि पाकत्वरूप्रेणान्यतः सिद्धपाके सिद्धत्वज्ञाने तेन रूपेण सिद्धपाकमात्रे तदापत्तेस्तादवस्थ्यात् भिन्नप्रकारकस्यापि सिद्धत्वज्ञानस्य प्रतिबन्धकत्वापाताच्च। सिद्धत्वञ्च क्वचिदुत्पन्नत्वं, क्वचिद्विद्यभानत्वं, क्वचिच्च क्षेमसाध्यताविरोधित्वरूपं, यथा दुःखप्रागभावादौ प्रतिबन्धकाभावकूटस्य हेतुत्वाच्च नाननुगमोदोषाय। नचैवं सिद्धे ग्रामादौ कथमिच्छेति वाच्यं तत्र ग्रामादिलाभस्यासिद्धस्यैव इच्छाविषयत्वात् न तु ग्रामादेरिति भावः। उपायेच्छाविरोधित्वात् उपायेच्छगनुतपा प्रयोजकवात्, फलेच्छाविच्छेदस्य प्रतिबन्धकत्वाभावेन यथा श्रुतासङ्गतेः। तत्र–चिक र्षतस्य पाकस्यान्यवः सिद्धत्वज्ञान स्थले। सिद्धत्वम्–मिद्धत्वग्रहः पाकस्य सिद्धत्वज्ञानात् स्ववि षय सद्धत्वज्ञानम् ओदनस्य सिद्धत्वज्ञानात् फलेच्छा वच्छेद इति भावः। ननुस्वपिषयताबच्छेदकावच्छिन्नविशेष्यताकसिद्धत्वज्ञानत्वेन पतिबन्धकत्वे स्ववान्तर्भावात् अननुगमः न च तद्धर्म्माश्रयविशेष्यकेच्छां प्रति तादृशसिद्धत्वज्ञानं विरोधीति वाच्यं विसंवादोच्छाया असंग्रहात्। अथ तदर्म्माव च्छिन्नविशेष्यताकसिद्धत्वज्ञानं विरोधि नचै। शूद्रादिपाके सिद्धत्वज्ञानेऽपि ब्राह्मणस्य पाके चिक र्षा न स्यादिति वाच्यं तदानीं स्वीयपाकत्वादिरूपेणैव” ब्राह्मणस्य चिकीर्षोत्पादात् पाकत्वरूपेण तदनुत्पादात् इति चेन्न ग्रामे स्वत्वं मे भवत्विय दिसिद्धग्रामादिगोचरेच्छायां ग्रामत्वादि रूपेण सिद्धत्वज्ञानेऽपि ज यमानायां व्यभिचारात् कपालहविरादिरूपेण सिद्धत्वज्ञानेऽपि कपालहविराद्य पादानेच्छायां व्यभिचारात् सिद्धत्वज्ञानदशायां तदनभ्युपगमे त दानीं प्रवृत्तेरप्यपलापप्रसङ्गात् उपादानेच्छायाः प्रवृत्तौहेतुवादतएव तद्वर्म्मप्रकारकचावच्छिन्नमुख्यविशेष्यताकेच्छां प्रति तद्वर्म्मावच्छिन्नविशेष्यनाकसिद्धत्वज्ञान विरोधि नातो ग्रामे स्वत्वंमे भवत्विति सिद्धग्रामादिगाचरेचछायां व्यभिचार इति कस्यचित् प्रलपितमपास्तं, कपालहवि राद्युपादानेच्छायां व्यभिचरात् पाकत्वादिरूपेण सिद्धत्वज्ञानदशायां मम कृतिसाध्यपाकोभवत्विति चिकीर्षाया अनुत्पादवत् घटत्वादिरूपेण सिद्धत्वज्ञानदशायामपि नीणोघटोभवत्वितीच्छाया अनुत्पत्तिप्रसङ्गाच्च इति चेत्? मैवं तद्धर्म्मेद्देश्यतावच्छेदककेच्छां प्रति तद्धर्म्मप्रकारकसिद्धत्वज्ञानस्य प्रतिबन्धकत्वात्। उद्देश्यत्वञ्च भवत्वित्यादिपदाभिलप्यनानो विषवताविशेषः ग्रामे स्वत्वमे भवत्वित्यादौ ग्रामादिर्नोद्देश्यः किन्तु स्वचमेव एवं कपालाद्युपादान गोचरेच्छायामपि कपाल दिर्नोद्दश्यः। उद्देश्यतावच्छदकत्वञ्च तत्पर्याप्त्यधिकरणत्वं तेन घटत्वादिरूपेण सिद्धत्वज्ञानदशायां नीलोघटोभवत्वितीच्छोत्पत्तिः। अतएव यस्यां पाकादिविशेष्यकधिकीर्षायां, पाकत्वादिमात्रेणोद्देश्यता पाकत्वादिरूपेण सिद्धत्वज्ञानादेव सापैति यस्यान्तु स्वकृतिसाध्यपाकत्वादिरूपेण, सा तु स्वकृतिसाध्यपाकत्वादिरूपेण सिद्धत्वज्ञानादेवापैति इति विभागः। तादृशविलक्षणविषयतानङ्गीकार तु तत्तद्व्यक्तित्वेनैव प्रतिबध्यता, प्रतिबन्धकता तु सामान्यतस्तद्धर्म्मावच्छिन्नविशेष्यताकसिद्धत्व- ज्ञानत्वेन तत्तद्व्यक्तित्वेन वेत्यन्यदेतत्। केचित्त यद्धर्मावच्छेदेनेष्टसाधनताज्ञानाधीना इच्छा तद्धर्म्मप्रकारकसिद्धत्व नश्चयो विरोध। इष्टसाधनषियत्वञ्च यत्र पाकत्वरूपेण गृहोतं तत्र पाकत्वप्रकारकसिद्धत्वधियोव सापगच्छति यत्र मत्कृतिसाध्यपाकत्वादिना तदवगतं, तत्र तदवच्छिन्नसिद्धचधियैवेति विभागः। तेन प्रतिग्रहसाध्यधनलाभत्वस्येष्टसाधनत्व वच्छेदकत्वात् प्रकारान्तरेण तल्ल भेऽपि न तदपगमः। न च सिद्धत्वज्ञानदशायां घटयागदिसाध्यकप्रवृत्तिजनककपालहविराद्युपादानेच्छायां व्यभिचार इति वाच्यम् गुरुनये उपादाननिष्ठचिकोर्षाविषयसाधनताज्ञा नस्य साक्षादेव प्रवृत्तिहेतुत्वेन तादृशेच्छायां मानाभावात्। तच्छाग्रे स्फटभविष्यति एवं न्यायनयेऽपि न च तथापि यथा पाकचरूपेण इष्टसाधनताज्ञानात् कृतिसाध्यत्वप्रकारकज्ञानसहकृतात् पाकः कृतिसाध्यो भवतु इतीच्छाया ग्रामत्वादिरूपेण सिद्धग्राम दाविष्टसाधनताज्ञानात् स्वीयस्वत्वप्रक रकज्ञानसहकृतात् ग्रामो मे स्वत्ववान् भवतु इति सिद्धग्रामविशेष्यकेच्छायाश्चोत्पत्तौबाधकभावात् तत्र व्यभिचारः ग्रामत्वादिरूपेण सिद्धत्वज्ञानेऽपि तदुत्पत्तेरिति वाच्यम् स्वकृ तसाध्यतातिरिक्तस्थले तत्प्रक रकफलार्थी च्छायां तत्प्रकारकफलसाधनताज्ञानस्य फलबलेन हेतुतया ग्रामत्वरूपेणेष्टसाधनताज्ञाने तादृशेच्छाया एवासिद्धेरित्याहुः, तदसत् गुरुनये नित्यविषयकेच्छाया असंग्रहात्। घटादिसाघ्यकप्रवृत्तौ घटादिचिकीर्षावत् कपालाद्युपादानकप्रवृत्तौ घटादिचिकीर्षावत्कपालाद्युपादानकप्रवृत्तौ कपालादीच्छाया अपि हे त्वेन कपालाद्युदानकेच्छाया व्यभिचारस्य दुर्वारत्वाच्च, अन्यथा चिकीर्षाविषयसाधनता ज्ञानस्य लौकिकप्रत्यक्षस्य चाविशिष्टत्वेऽपि यत्रेच्छा तत्रैवोपादानतया प्रवृत्तिर्यव नेच्छा तत्र नेति नियमानुपपत्तेः। न्य यमीमांसासिद्धान्तस्य च युक्तिविरुद्धत्वेनानुपादेयत्वादिति संक्षेवः”। अधिकं तद्ग्रन्थे दृश्यम्। न्यावयते तु कार्य्यत्वज्ञानमिष्टसाधनत्वज्ञानं बलवदनिष्टा ननुबन्धित्वज्ञानं चेति यथाययम् प्रवर्त्तकमिति भेदः विस्तरस्तु आकरे दृश्यः।
कार्य्यपुट = पु० कार्य्यां कर्त्तव्ये कर्म्मणि न पुटति पुट–श्लेषे क ७ त०। १ क्षपणके २ उन्मत्ते ३ अनर्थकरे त्रि० मेदि०।
कार्य्यप्रद्वेष = पु० कार्य्यं प्रद्विषत्यनेन प्र + द्विष–करणे घञ् ६ त०। आलस्ये राजनि० आलस्येन हि कार्य्यद्वेषात्तस्य तथात्वम्।
कार्य्यशब्दिक = त्रि० कार्य्यः शब्द इत्याह ठक्। कार्य्यः शब्द इति कथके नैयायिके तेन शब्दस्यानित्यत्वस्य स्वीकारात्तस्य तथात्वम्।
कार्य्यसिद्धि = स्त्री कार्य्यस्याभीष्टस्य सिद्धिः। १ अभीष्टसिद्धौ “वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशे भयम्” ति० त० खञ्जनशकुने। २ कर्त्तव्यकर्म्मनिष्पत्तौ नील० ताजकीक्ते ३ सहमभेदे च तत्र हि “पुण्यं गुरुर्ज्ञानयशोऽथ मित्रम्” इत्युपक्रमे “स्यादन्यकर्मसबणिक् त्वथकार्यसिद्धिः” इत्यादिना पञ्चाशत् सहमानि विभज्य “स्यात् कर्म्मसिद्धिः सततं (दिवानिशोः) विशोध्य मन्दं सितात् स्यात्तु विवाहसद्म” इत्यनेन तदानयनप्रकारोदर्शितः तथा च बर्षलग्नकालिकस्फुट शनिं शुक्रस्फुटात् त्यक्त्वा लग्नयोगे तत्सहमस्फुटं भवति इयांस्तु भेदः शोध्यमन्दशुद्ध्याश्रय शुक्रयोर्मध्ये यदि लग्नस्फुटं न भर्वत्तदा राशौ एकाङ्क योगः कार्य्य इति। तत्फले च तत्रैवोक्तं यथा “कार्य्यसिद्धिसहमं युतं शुभैर्दृष्टमूथशिलगम् जयप्रदम्। सङ्गरेऽथ शुभपापदृष्टियुक् क्लेशतोजय उदीरितो वुधैः”
***