कारु = त्रि० कृ–उण्। १ शिल्पिनि। “इति स्म सा कारुतरेण लेखितं नलस्य च स्वस्य च सख्यमीक्षते” नैष०। “कारयित्वा तु कर्म्माणि कारुं पश्चान्न वञ्चयेत्” कूर्म्मपु० “उपस्तुतिं भरमाणस्य कारोः” ऋ० १, १४८, २,। “नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम्” मनुः। “कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा” याज्ञ० “गोरक्षकान् बाणिजकान् तथा कारुकुशीलवान्। प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत्” मनुः। २ सूपकारादौ “धान्येऽष्टमं विशां शुल्क विंशं कार्षापणावरम्। कर्म्मोपकरणाः शुद्राः कारवः शिल्पिनस्तथा” मनुना कारुशिल्पिनोर्भेदेन निर्द्देशात् “कारवः सूपकारादयः” कुल्लू०। एतेषां च कर्म्मकरणरूप एव करो न धनरूपादिर्मनुना कर्म्मोपकरणत्वेन तेषां निर्द्देशात्। तत्र करप्रतिरूपकर्म्मकरणप्रकारो मनुनादर्शितो यथा “कारुकान् शिल्पिनश्चैवं शूद्रांश्चात्मोपजीविनः। एकैकं कारयेत् कर्म्म मासिमासि महीपतिः” मासि मासि कर्म्म एकैकं दिनं कारयेदित्यर्थः। “सम्भूय कुर्व्वतामर्धं सबाधं कारुशिल्पिनाम्। अर्घस्य ह्रासं वृद्धिं वा जानतां दम उत्तमः” याज्ञ०। ३ कारके तत्तत्क्रियानिष्पादके त्रि० मेदि०। “राघवस्य ततः कार्य्यं कारुर्वानरपुङ्गबः” भट्टिः। भावे उण्। ४ कर्म्मणि मेदि० ५ शिल्पे हेमच० ६ स्तोतविनिरु०। अत्रेदं बोध्यम् उणादीनामव्युत्पत्तिपक्षे समुदायशक्त्या शिल्पिप्रभृतितत्तदर्थवाचकता, व्युत्पत्तिपक्षे अवयवशक्त्या अवयवार्थस्याप्युपस्थापनेन योगेन विशिष्टार्थपरतया यौगिकत्वं तेन कार्य्यं कारुरित्यादौ कर्म्मादेरन्वयः उदन्तकृद्योगाच्च तत्र कर्म्मणि न षष्ठी असत्यवयवार्थे कर्म्मणोऽन्वयासम्भवात् न द्वितीयादिप्रसक्तिः। स्वार्थेक। कारुकोऽपि सूपकारादौ। “न साक्षी नृपतिः कार्य्यो न कारुककुशीलवौ” मनुः। “अशक्नुवंस्तु सुश्रूषां शूद्रः कर्त्तुं द्विजन्मनाम्। पुत्रदारात्ययं प्राप्ता जीवेत् कारुककर्म्मभिः। यैः कर्म्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः। तानि कारुककर्म्माणि शिल्पानि विविधानि च” मनुः। स्त्रियामूङ्। कारू शिल्पिन्यां रजकादिस्त्रियाम्।
कारुचौर = पु० कारुणा शिल्पेन चोरयति चुर–अच्। सन्धिचौरे शब्दचि०
कारुज = पु० कं जलमारुजति, ईषत् रुजति वा आ + रुज–क। १ करभे, २ वल्मीके, ३ नागकेशरे, ४ गैरिके, ५ स्वयंजाते देहस्थे तिलादिचिह्ने च हेमच०। कारुतोजायते जन–ड ५ त०। तक्षणचित्रलेखनादौ न०।
कारुणिक = त्रि० करुणा शीलमस्य ठक्। दयालौ दयाशीले अमरः। “सम्यक् कारुणिकस्येदं वत्स! ते विचिकित्- सितम्” भाग० २, ५, १०। “आचार्य्या वै कारुणिकाश्च” भा० वि० ४७ अ०।
कारुण्डी = स्त्री ईषन् रुण्डी मूर्द्धहीना। जलौकायांशब्दच०। स्वार्थे क। कारुण्डिका तत्रार्थे।
कारुण्य = न० करुणः करुणायुक्तः करुणाविषयो वा तस्य भावः, करुणैव वा ष्यञ्। करुणायां परदुःखप्रहरणेच्छायाभ् अमरः। २ करुणाविषयत्वे च “दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगागिरः” नैष० “कारुण्यवारांनिधे!” नीलतन्त्रम्।
कारु(रू)ष = पु० करु(रू)षस्य राजा अण्। करु(रू)षदेशाधिपे दन्तवक्रे “कारु(रू)षान्मानवादासन् कारु(रू)षाः क्षत्र जातयः भाग० ९, २१” करु(रू)षोऽभिजन एषाम् अण् भर्गा० बहुषु न तस्य लुक्। पित्रादिक्रमेण तद्देशवासिषु ब० व०।
कारेणव = त्रि० करेणोरिदमण्। करेणुसम्बन्धिदुग्धादौ। “कषायं बद्धविण्मूत्रं तिक्तमग्निकरं परम्। सर्पिः कारेणवं हन्ति कफकुष्ठविषक्रिमीन्” सुश्रु०।
कारेणुपालि = पुंस्त्री करेणुपालस्यापत्यम् इञ्। करेणुपालकापत्ये। युबापत्ये तु इञन्तत्वात् फक् तस्य तौल्वला० न लुक् कारेणुपालायन तदीययुवापत्ये पुंस्त्री।
कारोत्तर = पु० कारेण सुरागालनक्रियया उत्तरति उद् + तॄअच्। १ सुरामण्डे अमरः स्वामी तु कारोत्तम इति पठित्वा तत्रार्थे इत्याह सुरागालन क्रियायां मण्डस्योत्तमत्वात्तथात्वम्। कारेण ईषद्गत्या उत्तीर्यतेऽसौ उद् + तॄ–कर्मणि अप्। २ कूपे हला० तद्धेतुत्वात् चालनीरूपे वंशादिजे ३ पात्रभेदे। “अन्तर उत्तरवेद्या रूपं कारोत्तरोभिषक्” यजु० १९, १६। कारोत्तरः सुरापावनचालनी” वेददी० “अस्थि मज्जानं मासरैः कारोत्तरेण” यजु० १९, ८२। सुसागालनी चालनी च वंशमयी तया यज्ञियसुरागालनप्रकारः कात्या० श्रौ० १९, २, ७, सू० दर्शितोयथा। श्वभ्रं खात्वा स्वरमपरेण चर्मावधाय परिस्रुतमासिच्य कारोत्तरमवदधाति, कारोत्तराद्वा चर्म्मणि मन्त्रलिङ्गात् पूतामादत्ते सिञ्चन्ति परिषिञ्चन्तीति”। “ततो दक्षिणवेदिस्वरमपरेण बहिर्वेदि श्वभ्रं गर्त्तं खात्वा तत्र गर्त्ते गोचर्म्मावधाय परिस्रुत सुरां चर्म्मणि आसिच्य सुराया उपरि कारोत्तरं वंशमयं पात्र (करोत्तरश्चालनिका) सुरागालनसर्मथं निदधाति एवं कृते मलस्तले तिष्ठति गलिता सुरा कारोत्तरस्योपर्य्यायाति एकोऽयं गालनो पायः। अथवा पूर्ब्बं चर्म्मणि कारोत्तरमवधाय तत्र सुरामासिञ्चति तथा च सति कारोत्तरात् चर्म्मणि सुरा पतति” सं० व्या०। “तस्य लोमान्येव पुष्पाणि, त्वक् तोक्मानि, मांसं लाजा अस्थि कारोत्तरो मज्जा मासरं रसः परिस्रुन्नग्रहुर्लोहितं, रेतः पयः, सूत्रं सुरोवध्यम् वल्कसम्” शत० ब्रा० १२, ९, १, २। एवं कारोत्तरशब्दस्य चालनीपरत्वे स्थिते सुरामण्डस्य तत्साध्यत्वात् तथात्वं बोध्यम्।
कार्कश्य = न० कर्कशस्य भावः ष्यञ्। कठोरस्पर्शे “आश्लेष लोलुपबधूस्तनकार्कश्यसाक्षिणी” माघः।
कार्कषि = पुं स्त्री कर्कं स्यति सो क–पृषो०षत्वम् कर्कषः काठिन्यनाशकः तस्यापत्यम् पक्षे इञ् तदपत्ये पक्षे वाकिन्या। वा फिञ् कुक् च। कार्कषकायनि तत्रार्थे पुंस्त्री।
कार्कीक = त्रि० कर्कः शुक्लोऽश्वः स इव ईकक्। श्वेताश्वतुल्ये।
कार्ण्ण = पुंस्त्री कर्ण्णस्यापत्यं शिवा० अण्। १ कर्ण्णापत्येवृषकेतौ कर्ण्णस्येदम् अण्। २ श्रवणसम्बन्धिमलादौ त्रि०।
कार्ण्णायनि = त्रि० कर्णेन निर्वृत्तादि कर्ण्ण + कर्ण्णा० चतुरर्थ्यां फिञ्। कर्ण्णेन निर्वृत्तादौ। सुतङ्गमादिपाठात् पक्षे इञ्। कार्ण्णिरप्यत्र त्रि०।
कार्त्त = त्रि० कृतः कृत्पत्ययस्य व्याख्यानोग्रन्थः अण्। १ कृत् प्रत्ययव्याख्याने ग्रन्थे। कृतस्येदम् अण्। २ कृतसम्बन्धिनि अस्य कौजपेन सहद्वन्द्वे कार्त्तकौजपा० पूर्वपदे प्रकृतिस्वरः। कृतमेव स्वार्थे अण्। ३ कृतयुगे “किङ्कारणं कार्त्तयुगप्रधानः” भा० आ० ९० अ०।
कार्त्तकौजपादि = पु० पाणिन्युक्ते द्वन्द्वे पूर्वपदे प्रकृतिस्वरनिमित्ते शब्दगणभेदे स च गणः “कार्त्तकौजपौ सावर्णिमाण्डूकेयौ अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णेयाः शैतिकाक्षपाञ्चालेयाः कटूकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रुवाः आर्च्चाभिमौद्गलः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः बाभ्रवशालङ्कायनाः बाभ्रवदानच्यताः कठकालापाः कठकौथुमाः कौथुमलौकाक्षाः स्त्रीकुमारम् मौदपैप्पलादाः वत्सजरन्तः सौश्रुतपार्थिवाः जरामृत्यू याज्यानुवाक्ये”।
कार्त्तवीर्य्य = पु० कृतवीर्य्यस्यापत्यम् अण्। कृतवीर्य्यनृपापत्ये सहस्रवाहौ अर्जुने। “अर्जुनःकृतवीर्य्यस्य सप्तद्वीपेश्वरोऽभवत्। दत्तात्रे याद्धरेरंशात् प्राप्तयोगमहागुणः। न नूनं कार्त्तवीर्य्यस्य गतिं यास्यन्ति पार्थिवाः। यज्ञदान तपोयोगैः श्रुतवीर्य्यजपादिभिः” भाग० ९, २३, २७। तत्कथादि अर्जुनशब्दे ३६६ पृ० उक्तप्रायसधिकं भा० आनु० १५२ अ० उक्तं यथा। “सहस्रभुजभृत् श्रीमान् कार्त्तवीर्य्योऽभवत् प्रभुः। अस्य लोकस्य सर्व्वस्य माहिष्मत्यां महाबलः। स तु रत्नाकरवतीं सद्वीपां सागराम्बराम्। शशास पृथिवीं सर्व्वां हैहयः सत्यविक्रमः। स्ववित्तं येन दत्तन्तु दत्तात्रेयाय कारणे। क्षत्त्रधर्म्मं पुरस्कृत्य विनयं श्रुतमेव च। आराधयामास च तं कृतवीर्य्यात्मजो मुनिम्। न्यमन्त्रयत सन्तुष्टो द्विजश्चैनं वरैस्त्रिभिः। स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्। सहस्रवाहुर्भूयासं चमूमध्ये गृहेऽन्यथा। मम बाहुसहस्रन्तु पश्यन्तां सैनिका रणे। विक्रमेण महीं कृत्स्नां जयेयं शंसितव्रत!। ताञ्च धर्म्मेण सम्प्राप्य पालयेयमतन्द्रितः। चतुर्थं चवरंयाचे त्वामहं द्विजसत्तम! तं ममानुग्रहकृते दातुमर्हस्यनिन्दित!। अनुशासन्तु मां सन्तो मिथ्योद्वृत्तं त्वदाश्रयम्। इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम्। एवं समभवंस्तस्य वरास्ते दीप्ततेजसः। ततः स रथमास्थाय ज्वलनार्कसमद्युतिम्। अब्रवीद्वीर्य्यसम्मोहात् कोऽ न्वस्ति सदृशो मम। धैर्य्येवीर्य्ये यशःशौर्य्ये विक्रमेणौज साऽपि वा। तद्वाक्यान्तेऽन्तरीक्षे वै वागुवाचाशरौरिणी। न त्वं मूढ! विजानीषे ब्राह्मणं क्षत्रियाद्वरम्। सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः। अर्ज्जुन उवाच। कुर्य्यां भूतानि तुष्टोऽहं क्रुद्धो नाशन्तथा नये। कर्म्मणा मनसा वाचा न मत्तोऽस्ति बरो द्विजः। पूर्ब्बो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः। त्वयोक्तौ हेतुयुक्तौ तौ कथं नु ब्राह्मणो वरः। सर्व्वभूतप्रधानांस्तान् भैक्षवृत्तीनहं सदा। आत्मसम्भावितान् विप्रान् स्थापयाम्यात्मनो वशे। कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि। विजेष्याम्यबशान् सर्व्वान् ब्राह्मणांश्चर्म्मवाससः। न च मां च्यावयेद्राष्ट्नात्त्रिषु लोकेषु कश्चन। देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम्। अथ ब्रह्नोत्तरं लोकं करिष्ये क्षत्रियोत्तरम्। न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम्। अर्जुनस्य वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी। अथैनमन्तरिक्षस्थस्ततो वायुरभाषत। त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु। एतेषां कुर्व्वतः पापं राष्ट्रक्षोभो भविष्यति। अथ वा त्वां महीपाल! शमयिष्यन्ति ये द्विजाः। निरसिष्यन्ति ते राष्ट्राद्धतोसाहं महाबलाः। तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः। वायुर्व्वैदेवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम्। अर्ज्जुन उवाच। अहो त्वयाऽद्य विप्रेषु भक्तिरागः प्रदर्शितः। यादृशं पृथिवीभूतं तादृशं ब्रूहि वै द्विजम्। वायोर्व्वा सदृशं किञ्चित् ब्रुहि त्वं ब्राह्मणोत्त- मम्। अपां वै सदृशो वह्निः सूर्य्यस्य नभसोऽपि वा”। ततः पवनार्ज्जुनयोः संवादे बहुकथा तत्र दृश्या। “भवन्तं कार्त्तवीर्य्योयोहीनसन्धिमचीकरत्” भट्टिः। “अनन्यसाधारणराजशब्दीबभूव योगी किल कार्त्तवीर्य्यः” रघुः।
कार्त्तवीर्य्यदीप = पु० ६ त०। कार्त्तवीर्य्यार्ज्जुनोद्देशेन दीयमाने दीपे। तद्दानविधानादि विधानपारिजाते उड्डामेश्वरतन्त्रे उक्तं यथा
“गोमयेनोपलिप्तायां शुद्धभूमौ समाहितः। तन्मध्ये मण्डलं कार्य्यं त्रिकोणं विन्दुसंयुतम्। षट्कोणं तद्बहिः कार्यं मध्ये मूलं समालिखेत्। तण्डुलैः कुङ्कुमाक्तैर्वा रक्तचन्दनमिश्रितैः। तस्योपरि न्यसेद्दापं घृतपूरितवर्त्तिकम्। तं दीपं विधिनायुज्य पश्चात्सङ्कल्पयेत्ततः। कार्त्तवीर्य! महाबाहो! भक्तानामभयप्रद!। गृहाण दीपं मद्दत्तं कल्याणं कुरु सर्वदा। अनेन दीपदानेन कार्तवीर्यस्तु प्रीयताम्। पश्चिमाभिमुखं दीपं कारयेत् शुभकर्मणि। अभिचारे तु त्रितयं दक्षिणोत्तरपश्चिमे। नष्टप्राप्तौ च कुर्वीत पञ्चादिविषमान् पुनः। वश्याभिकाक्षी कुर्वीत गुर्वाज्ञां प्राप्य साधकः। चतुर्वर्गफलायैव शतदीपाबलिं ततः। मारणे तु सहस्रं स्याद्दशासाहस्रमेव च। दीपावलिं प्रकुवीर्त गुर्वाज्ञां प्राप्य साधकः। चतुर्वर्गफलावाप्त्यै कुर्वीत प्रतिवासरम्। अनेन दीपदानेन कार्त्तवीर्यः प्रसीदति। एवं दीपं सुरेशानि! कुर्वीत गुरुशासनात्!। महाभये समुत्पन्ने चिन्ताव्याकुलितेक्षणे। लवणं स्वर्णसंयुक्तं देयं रात्रौ विचक्षणैः। पूर्णमासीदिने कुर्यान्नगरैका प्रदक्षिणा। ग्रामे पुरे गोव्रजे वा साधकः सर्वकालतः। एतत् सारतरं देवि! न देयं यस्य कस्यचित्। गुरुभक्ताय शान्ताय साधकाय प्रकाशयेत्। नास्तिकाय न दातव्यं परशिष्याय नो वदेदिति”। तद्दीपपात्रादिविवृतिः तत्रैव
“राजचोरादिपीडासु ग्रहरोगभयेषु च। नानादु स्वेषु देवेशि! सुखप्राप्त्यै तथैव च। दीपं कुर्वीत विधिवदुगुरुदर्शितमार्गतः। दीपपात्रं नवं कार्यं महाकार्ये विशेषतः। सौवर्णं राजतं ताम्रं कांस्यं लौहं च मृण्मयम्। गोधूममाषमुद्गानां चूर्णेन घटितेऽथवा। सौवर्णे कार्यसिद्धिः स्यात् रौप्ये वश्य जगत् भवेत्। ताम्रे रिपोभयाभावः कांस्ये विद्वेषणं भवेत्। मारणे लोहपात्रं च उच्चाटे मृण्मयं तथा। गोधूमचूर्ण्घटिते विवादे विजयो घ्रुवम्। माषे शत्रुमुखस्तम्भो मुद्गे स्याच्छान्तिरुत्तमा। सन्धिकार्ये नदीकूलद्वयोर्मृत्स्नां तु कारयेत्। अलाभे सर्वपात्राणां ताम्रे कुर्याद्विचक्षणः। सप्त पञ्च तथा तिस्र एका वा वर्तिका भवेत्। अयुग्मा बर्त्तिका ग्राह्या एकोत्तरशतावधिः। गुरुकार्येऽधिका कार्या स्वल्पे स्वल्पतमा प्रिये!। सूत्रं श्वेतं तथा पीतं माञ्जिष्ठञ्च कुसुम्भजम्। कृष्णञ्च कर्वुरञ्चैव क्रमतो विनियोजयेत्। सर्वाभावे सितेनैव कुर्याद्वर्त्तीः पृथक् भवेत्। दणपञ्चाधिकाश्चैव विंशत्रिंशा स्तथैव च। चत्वारिंशत्तथा कार्याः पञ्चाशदपि वा भवेत्। अष्टोत्तरसहस्रं वा शतं पञ्चाशदेव च। तत्तत्कार्यवशाद् देवि! कुर्यात्तन्तून् समाहितः। षट्कर्म्माणि तथा कुर्यात् साधकश्च सुबुद्धिमान्। चत्वारिंशदधिकांश्च नित्यदीपे तु कारयेत्। तदर्द्धमपि च प्रोक्तं देवि! विश्वार्तिहारिणि!। गोघृतेन प्रकर्त्तव्यो दीपः सर्वार्थसिद्धये। गोमयेनोपलिप्तायां भूमौ यन्त्रं समालिखेत्। कपिलागोमयेनैव षट्कोणञ्च लिखेत्ततः। मारवीजं (क्ला~) कर्णिकायां षट्पात्रे वोजषट्ककम्। दिक्षुवीजचतुष्कञ्च शेषैः संवेष्टयेद्धि तत्। तत्र प्रत्यड्मुखो दीपः स्थाप्यः सर्वाङ्गसुन्द्ररि!। प्राणानायन्य विधिवन्मूलेनाङ्गं समाचरेत्। मन्त्रराजं लिखित्वा तु ताम्रपात्रेऽष्टगन्धकैः। स्थापयेत्पूर्वतस्तस्य कुर्यात्सङ्कल्पमादरात्”। “अनेन विधिना देवि! कार्त्तवीर्यस्य गोपतेः। दीपोदेयः प्रयत्नेन सर्वकार्यमभीप्सता। गुरोराज्ञां पुरस्कृत्य कुर्यादुदेवि! प्रयत्नतः। अन्यथा तु कृतं लोके विपरीतफलं भवेत्। विधानं दीपदानस्य कृतघ्नपिशुनाय च। ब्रह्मकर्मविहीनाय न वक्तव्यं कदाचन। सुभक्ताय सुशिष्यायसाधकाय विशेषतः। वक्तव्यं देवि! विधिना मम प्रीतिकरं शिवम्। किं बहूक्तेन भो देवि! कल्पोऽयमखिलार्थदः। अथाभिधोयते मानमाज्यस्य वरवर्णिनि!। साधकानां हितार्थाय सर्वार्थस्य च सिद्धये। पलानां पञ्चविंशस्तु दीपो देयोऽर्थसिद्धये। पञ्चाशता घोरशान्त्यै शत्रुवश्याय चेष्यते। पञ्चसप्ततिर्देवेशि! शत्रूणां स्यात् पराजये। एतेन रोगनाशः स्यात् सहस्रेणाखिलाः क्रियाः। सिध्यन्ति साधकानां हि प्रयोगा येऽतिदुष्कराः। नित्यदीपे न मानं हि कार्यः सोऽत्र स्वशक्तितः। यथाकथञ्चिद्देवेशि! नित्यं दीपं प्रकल्पयेत्। कार्त्तवीर्याय देवेशि! सर्वकल्पाण सिद्धये। गुरुकार्य्येऽधिकं मानं कर्त्तव्यं देवि! सर्व्वदशि लघुद्रव्यैः प्रकर्तव्यः लघुकार्ये वरानने!। विना मानं न कुर्वीत कार्तवीर्यस्य गोपतेः”। अधिकं तत्र दृश्यम्। मन्त्रमहोदधौ १७ तरङ्गे। कार्त्तवोर्य्यमन्त्रादिकमुक्त्वा विशेषो दर्शितो यथा “अथ दीपविधिं वक्ष्ये कार्त्तवीर्य्यप्रियङ्करम्। वैशाखे श्रावणे मार्गे कार्त्तिकाश्विनपौषतः। माघफाल्गुनयोर्मासोर्दीपारम्भ समाचरेत्। तिथौ रिक्ताविहीनायां वारे शनिकुजौ विना। हस्तोत्तराश्विरौद्रेषु ६ पुष्पवैष्णव २२ वायुभे१५। द्विदैवते १६ च रोहिण्यां दीपारम्भो हितार्थिनाम्। चरमे २७ च, व्यतीपाते धृतौ वृद्धौ सुकर्म्मणि। प्रीतौ हर्षे च सौभाग्ये शोभनायुष्मतोरपि। करणे विष्टिरहिते ग्रहणेऽर्द्धोदयादिषु। योगेषु रात्रौ पूर्व्वाह्णे दीपारम्भः कृतः शुभः। कार्त्तिके शुक्लसप्तम्यां निशीथेऽतीव शोभनः। यदि तत्र रवेर्व्वारः श्रवणं तत्र दुर्लभम्। अत्यावश्यककार्य्यषु मासादीनां न शोधनम्। आद्येऽह्न्युपोष्य नियतो ब्रह्मचारी शयीत कौ। प्रातः स्नात्वा शुद्धभूभौ लिप्तायां गोमयोदकैः। प्राणानायम्य सङ्कल्प्य न्यासान् पूर्ब्बोदितांश्चरेत्। षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः। अन्तःस्मरं (क्ला~) समालिख्य षट्कोणेषु समालिखेत्। मन्त्रराजस्य षड्वर्ण्णान् कामवीजविवर्ज्जितान्। सृणि पद्मं वर्म्म चास्त्रं पूर्व्वाद्याशास्तु संलिखेत्। नवार्णैर्वेष्टयेत्तच्च त्रिकोणं तद्बहिः पुनः। एवं विलिखिते यन्त्रे निदध्याद्दीपभाजनम्। स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः। कांस्यपात्रं मृण्मयञ्च कनिष्ठं लौहजं मृतौ। शान्तये मुद्गचूर्णोत्थं सन्धौ गोधूमचूर्णजम्। बुध्नेषूर्द्ध्वं समानं तु पात्रं कुर्य्यात् प्रयत्नतः। अर्कदिग्वसुषट् पञ्चचतूरामाङ्गुलैर्मितम्। आज्य पलसहस्रे तु पात्रं शतपलैः कृतम्। आज्येऽयुतपले पात्रं पलपञ्चशतीकृतम्। पञ्चसप्रतिसंख्ये तु पात्रं षष्टिपलं मतम्। त्रिसहस्रीकृतपले शरार्क १२५ पलभाजनम्। द्विसहस्र्यां शरशिवं ११५ शतार्द्धे त्रिंशता मितम्। शठेऽक्षिशर ५५ संख्यातमेवमन्यत्र कल्पयेत्। नित्यदीपे वह्निपलं पात्रमाज्ये स्मृतं पलम्। एवं पात्रं प्रतिष्ठाप्य वर्त्तीः सूत्रोत्थिताः क्षिपेत्। एका तिस्रोऽथ वा पञ्च सप्ताद्या विषमाअपि। तिथि १५ माद्याऽऽसह स्रन्तु तन्तुसंख्या विनिर्म्मिता। गोघृतं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितम्। सहस्रपलसंख्यादि दशान्तं कार्य्यगौरवात्। सुवर्णादिकृतां रम्यां शलाकां षोडशाङ्गुलाम्। तदर्द्धां वा तदर्द्धां वा सूक्ष्माग्रां स्थूलमूलिकाम्। विसुञ्चेद्दक्षिणे भागे पात्रमध्ये कृताग्रकाम्। पात्राद्दक्षिणदिग्भागे मुक्त्वाऽङ्गुलचतुष्टयम्। अधोऽग्रां दक्षिणाधारां निखनेच्छुरिकां शुभाम्। दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्ब्बकम्। दीपात् पूर्ब्बत्र दि ग्भागे सर्व्वतो भद्रमण्डले। तण्डुलाष्टदले वापि विधिवत् स्थापयेद्घटम्। तत्रावाह्य नृपाधीशं पूर्व्ववत् पूजयेत् सुधीः। लाजाक्षतान् समादाय दीपं सङ्कल्पयेत्ततः। दीपसङ्कल्पमन्त्रोऽथ कथ्यते द्वीषु ५२ भूमितः”। ततस्तन्मन्त्रादिकमुक्त्वा शेषविधिर्दर्शितो यथा “एवं दीपप्रदानस्य कर्त्ताप्नोत्यखिलेप्सितम्। दीपप्रबोध काले तु वर्ज्जयेदशुभाङ्गिरम्। विप्रस्य दर्शनं तत्र शुभदं परिकीर्त्तितम्। शूद्राणां मध्यमं प्रोक्तं म्लेच्छस्य बधबन्धनम्। आखोत्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहम्। दीपज्वाला समा सिद्ध्यै, वका नाशविधायिनी। कृते दीपे यदा पात्र भग्नं दृश्येत दैवतः। पक्षादर्व्वाक् तदा गच्छे दुयजमानोयमालयम्। वर्त्त्यन्तरं यदा कुर्य्यात् कार्य्यं सिध्येद्विलम्बतः। नेत्रहीनो भवेत् कर्त्ता तस्मिन् दीपान्तरे कृते। अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः। श्वमार्जाराखुसंस्पर्शे भवेद्भूपतितोभयम्। यात्रारम्भे वसुपलेः कृतोदीपोऽखिलेष्टदः। तस्माद्दीपः प्रयत्नेन रक्षणीयोऽन्तरायतः। आ समाप्तेः प्रकुर्व्वीत ब्रह्मचर्य्यञ्च भूशयः। स्त्रीशूद्रपतितादीनां सम्भाषामपि वर्जयेत्। जपेत् सहस्रं प्रत्यह्नि मन्त्रराजं नवाक्षरम्। स्त्रोत्रपाठं प्रतिदिनं निशीथिन्यां विशेषतः। एकपादेन दीपाग्रे स्थित्वा यो मन्त्रनायकम्। सहस्रं प्रजपेद्रात्रौ सोऽभीष्टं क्षिप्रमाप्नुयात्। समाप्य शोभने घस्रे संभोज्य द्विजनायकान्। कुम्भोदकेन कर्त्तारमभिषिञेन्मनुं स्मरन्। कर्त्ता तु दक्षिणां दद्यात् पुष्कलां तोषहेतवे। गुरौ तुष्टे ददातीष्टं कृतवीर्य्यसुतोनृपः। गुर्व्वाज्ञया स्वयं कुर्य्याद्यदि वा कारयेद्गुरुम्। कृत्वा रत्नादिदानेन दीपदानं धरापतेः। गुर्व्वाज्ञामन्तरा कुर्य्याद्यो दीपं स्वेष्टसिद्धये। प्रत्युतानुभवत्येष हानिमेव पदे पदे। दीपदानविधिं ब्रूयात् कृतघ्नादिषु नो गुरुः। दुष्टेभ्यः कथितोमन्त्रो वक्तु र्दुःखावहो भवेत्। उत्तमं गोघृतं, प्रोक्तं मध्यमं महिषीभवम्। तिलतैलन्तु तादृक् स्यात् कनीयोऽजादिजं घृतम्। आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम्। सिद्धार्थसम्भवेनाथ द्विषतां नाशसिद्धये। सहस्रेण पलर्दीपे विहिते चेन्न दृश्यते। कार्य्यसिद्धिस्तदा कुर्य्याद्द्विवारं दीपजं विधिम्। तदा सुदुर्लभं कार्य्यं सिध्यत्येव न संशयः। यथा कथञ्चिद्यः कुर्य्याद्दीपदानं स्ववेश्मनि। विघ्नाः सर्व्वेऽरिभिः साकं तस्य नश्यन्ति द्वरतः। सर्व्वदा जयमाप्नोति पुत्रान् पौत्रान् धनं यशः। यथा कथञ्चिद्यो गेहे नित्यं दीपं समाचरेत्। कार्त्तवीर्य्यार्जुनप्रीत्यै सोऽभीष्टं लभते नरः। दीपप्रियः कार्त्तवीर्य्योमार्त्तण्डो नतिवल्लभः। स्तुतिप्रियो महाविष्णुर्गणेशस्तर्पणप्रियः। दुर्गाऽर्चनप्रिया नूनमभिषेकप्रियः शिवः”।
कार्त्तवीर्य्यस्य च दत्तात्रेयलब्धयोगप्रभावात् हरेश्चक्रावताराच्च उपास्यत्वम्। यथा चास्य हरेश्चक्रांवतारत्वं तथा तस्य ध्याने वर्णिर्त यथा “उद्यत्सूर्य्यसहस्रकान्तिरखिलक्षौणीधवैर्वन्दितो हस्तानां शतपञ्चकेन च दधच्चापानिषूंस्तावता। कण्ठेहाटकमालया परिवृतश्चक्रावतारो हरेः पायात् स्यन्दनगोऽरुणाभवसनः श्रीकार्त्तवीर्य्यो नृपः”। २ सुभूमाख्ये जैनराजचक्रवर्त्तिभेदे हेमच०।
कार्त्तवीर्य्यारि = पु० ६ त०। परशुरामे यथा च तस्य तदरित्वं तथा वर्ण्णितम् भा० व० ११६ अ० यथा
अथानूपपतिर्वीरः कार्त्तवीर्योऽभ्यवर्त्तत। तमाश्रमपदं प्राप्तमृषेर्भार्या समार्चयत्। स युद्धमदसम्मत्तो नाभ्यनन्दत्तथार्च्चनम्। प्रमथ्य चाश्रमात्तस्माद्धीमधेनोस्ततो बलात्। जहार वत्सं क्रोशन्त्या षभञ्ज च महाद्रुमान्। आगताय च रामाय तदाचष्ट पिता स्वयम्। गाञ्च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत्। स मृत्युवशमापन्नं कार्त्तवोर्य्यमुपाद्रवत्। तस्याथ युधि विक्रम्य भार्गवः परवीरहा। चिच्छेद निशितैर्भल्लैर्बाहून् परिघ सन्निभान्। सहस्रसम्मितान् राजन्! प्रगृह्य रुचिरं धनुः। अभिमूतः स रामेण संयुक्तः कालशधर्म्मणा”। कार्त्तवीर्य्यविजेत्रादयोत्र।
कार्त्तस्वर = न० कृतस्वरे आकरभेदे भवम् अण् कृताः पठिताः स्वरा येन कृतस्वरः सामगानकर्तृभेदस्तस्मे दक्षिणात्वेन देयम् शैषिकोऽण् वा। १ स्वर्णे तन्नामनामके २ धूस्तुरे च अमरः “स तप्तकार्त्त स्वरभास्वराम्बरः” माधः। पृथुकार्त्तस्वरपात्रम्” सा० द०।
कार्त्तान्तिक = त्रि० कृतान्तं वेत्ति उक्थादेराकृतिगणत्वात् ठक्। ज्योतिर्विद्यावेत्तरि अमरः।
कार्त्तिक = पु० कृत्तिकानक्षत्रेण युक्ता पौर्णमासी कृत्तिका + अण् ङीप् कार्त्तिकी साऽस्मिन् मासे अण् पक्षे ठक्। वैशा खावधिके सप्तमे १ चान्द्रेमासे यन्मासीयपौर्णमास्यां कृत्तिकानक्षत्रसम्बन्धः सम्भवति तादृशे मासे तस्य च यथा तथा त्वं तथा सू० सि० रङ्गनाथाभ्यां दर्शितं यथा “नक्षत्रनाम्ना मासास्तु ज्ञेयाःपर्वान्तयोगतः” सू० सि०। “माससञ्ज्ञा महानक्षत्रनाम्नेति। पर्वान्तयोगतः पर्वान्तः पूर्णिमान्तः तस्य योगात्तत्सम्बन्धात्। नक्षत्रसंज्ञया मासाः। तुकाराच्चान्द्रामासा ज्ञेया इति तात्पर्यार्थः। तथा हि यद्दर्शान्तावधिकश्चान्द्रो मासस्तदभ्यन्तरस्थितपूर्णिमान्तस्थितचन्द्रनक्षत्रसञ्ज्ञः। यथाचित्रासम्बन्धाच्चैत्रः। विशाखासम्बन्धाद्वैशाखः। ज्येष्ठासम्बन्धाज्ज्यैष्ठः। आषाढासम्बन्धादाषाढः। श्रवण सम्बन्धाच्छ्रावणः। भाद्रपदासम्बन्धाद्भाद्रपदः। अश्विनीसम्बन्धादाश्विनः। कृत्तिकासम्बन्धात् कार्तिकः। मृगशीर्षसम्बन्धान्मार्गशीर्षः। पुष्यसम्बन्धात् पौषः मघासम्बन्धान्माघः। फाल्गुनीसम्बन्धात् फाल्गुन इति। ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्सञ्ज्ञा मासानामुचितेत्यत आह” रङ्ग०। “कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्। अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम्” सू० सि०। “नक्षत्रसंयोगार्थमिति निमित्तसप्तमी। कार्तिक्यादिषु कार्तिकमासादीनां पौर्णमासीष्वित्यर्थः। कृत्तिकादि द्वयं द्वयं नक्षत्रं कथितं कृत्तिकारोहिणीभ्यां कार्तिकः। मृगार्द्राभ्यां मार्गशीर्षः। पुनर्वसुपुष्याभ्यां पौषः। अश्लेषामघाभ्यां माघः। चित्रास्वातीभ्यां चैत्रः। विशाखानुराधाभ्यां वैशाखः। ज्येष्ठामूलाभ्यां ज्यैष्ठः। पूर्वोत्तराषाढाभ्यामाषाढः। श्रवणधनिष्ठाभ्यां श्रावण इति फलितम्। अवशिष्टमासानामाह। अन्त्योपान्त्याविति। अत्र कार्तिकस्यादित्वेन ग्रहादन्त्य आश्विनः। उपान्त्यो भाद्रपदः। एतौ मासौ पञ्चमः फालगुनः। चकारः समुच्चयः इति मासत्रयं त्रिधा स्थानत्रय उक्तम्। रेवत्यश्विनीभरणीति नक्षत्रत्रयसम्बन्धादाश्विनः। शततारापूर्वोत्तराभाद्रपदेति नक्षत्रत्रयसम्बन्धाद्भाद्रपदः। पूर्वोत्तराफाल्गुनीहस्तेति नक्षत्रत्रयसम्बन्धात् फाल्गुन इति सिद्धम्” रङ्गनाथ।
आन्द्रकार्त्तिकत्वञ्च तुलाराशिस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तत्वम् “मीनादिस्थो रविर्य्येषामारम्भप्रथमक्षणे। भवेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः” व्यास वचनात्। २ तुलास्थरविके तादृशे सौरमासे। तल्लक्षणन्तु तुलास्थरविकत्रिं शद्दिनत्वं सौरकार्त्तिकत्वम्। “चन्द्रमाः कृष्णपक्षान्ते सूर्य्येण सह युज्यते। सन्निकर्षादथारभ्य सन्निकर्षमथापरम्। चन्द्रार्कयोर्बुधैर्मासश्चान्द्रैत्यभिधीयते। आदित्यराशिभोगेन सौरोमासः प्रकीर्त्तितः” इति विष्णुध० वचनात्। “चण्डालो जायते राजन्! कार्त्तिके मांसभक्षणात्” पद्म पु० “शेते विष्णुः सदाषाढे भाद्रे च परिवर्त्तते। कार्त्तिके परिबुध्येत शुक्लपक्षे हरेर्दिने” मत्स्यपु०। तत्र नानार्थशब्दानामेकत्र शक्तिरन्यत्र लक्षणेति सिद्धान्तात् चान्द्रे मुख्यत्वम्, सौरे गौणत्वमिति रघु०। उभयत्र शक्तिरिति कालमाधवीये स्थितम्। मासशब्दे विवृतिः। एवं मार्गादीनां चान्द्रसौरलक्षणमूह्यम्। ३ कृत्तिकानक्षत्रयुक्तपौर्ण्णमासीघटिते अर्द्धमासात्मके तत्पक्षे च। “नक्षत्रेण युक्तः कालः” “सास्मिन् पौर्ण्णमासीति संज्ञायाम्” पा० व्या० जयादित्येन अस्मिन्निति दशरात्रादिव्यावृर्त्त्यर्थं मासार्द्धमाससंवत्सराणामिय संज्ञेति व्याख्याय उदाहृतं पौषोमासः पोषोऽर्द्धमासः पौषः संवत्सर इति”। गुरोः कृत्तिकारोहिण्योरन्यतरनक्षत्रेण पर्वान्तयोगे गुरोरस्तोदयोपलक्षिते ४ वर्षे च यथोक्तं सू० सि० रङ्गनाथाभ्याम् “अथ प्रसङ्गात् कार्तिकादिवृहस्पतिवर्षाण्याह” रङ्ग०। “वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ। कार्तिकादीनि वर्षाणि गुरोरस्तोदयात् तथा” सू० सि०।
“यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्सञ्ज्ञो मासो भवति। तथेति समुच्चयार्थकम्। वृहस्पतेः सूर्यसान्निध्यदूरत्वाभ्यामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथौ अमायामित्यर्थः। चकारः पौर्णमासीसम्बन्धसमुच्चयार्थकः। योगे उक्तनक्षत्रमम्बन्धे–कार्तिकादीनि द्वादश वर्षाणि भवन्ति। वैशाखकृष्णपक्षीयामायां वृहस्पतेरस्त उदये वा जाते सति तदादि वृहस्पतिर्वषं कृत्तिकादिनक्षत्रसंबन्धात् कार्तिकस–ञ्ज्ञम्। एवं ज्यैष्ठाषाढश्रावणभाद्रपदाश्विनमार्गशीर्षपौषमाघफाल्गुनचैत्रामादिषु मृगपुष्यमघापूफाचित्राविशाखाज्येष्ठापूर्वाषाश्रवणपूभाश्विनीदिन नक्षत्रसम्बन्धान्मार्ग शीर्षादीनि भवन्ति। अत्रापि प्रोक्तनक्षत्रद्वयत्रयसम्बन्धः प्रागुक्तो बोध्यः। अमेत्याद्युपलक्षणम्। तेन यद्दिने बृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्सञ्ज्ञं बार्हस्पत्यं वर्षं भवतीति तात्पर्यम्। संहिताग्रन्थऽस्तोदयवशाद्वर्षोक्तिः परमिदानीमुदयवर्षव्यवहारो गणकैर्गण्यते “येनोदितेज्य” इत्युक्तेरिति” रङ्ग०।
तस्य च विवृतिः मलमासतत्त्वे यथा
“यथा मासानां पौर्णमास्यां कृत्तिकादिसम्बन्धात् कार्त्तिकादित्वं तथा वर्षाणां वृहस्पतेरस्तोदयसम्बन्धात् कार्त्तिकादित्वम् तेन कृत्तिकारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तो- दयैकतरलाभे कार्त्तिकवर्षम् एवं मार्गशीर्षादि। यत्र वर्षद्वयघटकयोनेक्षत्रयोरेकतरस्मिन्नस्तं गतोगुरुरन्यस्मिन्नदेति तत्र का गतिरेति चेत् कार्त्तिकोत्तरं मार्गशीर्षं मार्गशीर्षोत्त्रं पौषमित्यादिकमाद्गतिः”
वार्हस्पत्यवर्षप्रयोजनमुक्तं सू० सि० “वार्हस्पत्येन षष्ठ्यब्दं ज्ञेयं नान्यैस्तु नित्यशः”। षष्ठ्यब्दं प्रभवादिवर्षाणि।
यथा च कार्त्तिकशब्दस्य कार्त्तिकीयुक्तार्द्धमासपरत्वं वर्षभेद परत्वं च जयादित्येन दर्शितं तथा आग्रहायणाश्विनाषाढ शब्दानामपि तादृशपौर्ण्णमार्साघटितपक्षवत्सरपरत्वं पूर्ब्बमनुक्तमपि ज्ञेयम्।
कृत्तिकाणामयं पोष्यत्वेन अण्। अग्नौ निषिक्तरुद्रतेजोजाते ५ स्कन्दे देवे। तस्य कृत्तिकापोष्यत्वकथा च भा० आनु० ८४ अ० यथा।
“शूलपाणेभर्ग वतो रुद्रस्य च महात्मनः। गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह। देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन!। समागमे भगवतो देव्या सह महात्मनः। ततः सर्व्वे समुद्विग्ना देवं रुद्रमुपागमन्। ते महादेवमासीनं देवीञ्च वरदामुमाम्। प्रसाद्य शिरसा सर्व्वे रुद्रमूचुर्भृगूद्वह!। अयं समागसो देव! देव्या सह तवानघ!। तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः। अमोघतेजास्त्वं देव! देवी चेयमुमा तथा। अपत्यं युवयोर्द्देव! बलवद्भविता विभो!। तन्नूनं त्रिषु लोकेषु न कञ्चिच्छेषयिष्यति। तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन!। वरं प्रयच्छ लोकेश! त्रैलोक्यहितकाम्यया। अपत्यार्थं निगृह्णीष्वतेजः परमकं विभो!। त्रैलोक्यसारौ हि युवां, लोकं सन्तापयिष्यथः। तदपत्यं हि युवयोर्द्देवानभिभवेद्ध्रुवम्। न हि ते पृथिवी देवी नच द्यौस्त्रिदिवं विभो!। नेदं धारयितुं शक्ताः समस्ता इति नो मतिः। तेजः प्रभावनिर्द्दग्धं तस्मात् सर्व्वमिदं जगत्। तस्मात् प्रसादं भगवन! कर्त्तुमर्हसि नः प्रभो!। न देव्यां सम्भवेत्पुत्त्रो भवतः सुरसत्तम!। धैर्य्यादेव निगृह्लीष्व तेजो ज्वलितमुत्तमम्। इति तेषां कथयतां भगवान् गोवृषध्वजः। एवमस्त्विति देवांबवान् विप्रर्षे। प्रत्यभाषत। इत्युक्त्वा चोर्द्ध्वमनयद्रेतो वृषभवाहनः। ऊर्द्ध्वरेताः समभवत्ततः प्रभृति चापि सः। रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते। देवानथाब्रवीत्तत्र स्त्रीभावात् परुषं वचः। यस्मादपत्यकाभो वै भर्त्ता मे विनिवर्त्तितः। तस्मात् सव्व सुरा यूयभनपत्या भविष्यथि। प्रजोच्छदो मम कृतो यस्माद्य ष्माभिरद्य वै। तस्मात् प्रजा वः खगमाः सर्व्वेषां न भविष्यति। पावकस्तु न तत्रासीच्छापकाले भृगूद्वह!। दे देवाव्यास्तथा शापादनपत्यास्तथाऽभवन्। रुद्रस्तु तेजोऽप्रतिम धारयामास वै तदा। प्रस्कन्नन्तु ततस्तस्मात् किञ्चित्तत्रापतद्भुवि। उत्पपात तदा वह्नौ ववृधे चाद्भुतोपमम्। तेजस्तेजसि संपृक्तमात्मयोनित्वमागतम्“। इत्युपक्रम्य तारकासुरेण बाधितानां देवानां ब्रह्मसमीपे वरप्रार्थनादिकमुक्तं यथा
“देवा ऊचुः। असुरस्तारको नाम त्वया दत्तोवरः प्रभो!। सुरानृषींश्च क्लिश्नाति बधस्तस्य विधीयताम्। तस्माद्भयं समुत्पन्नमस्माकं वै पितामह!। परित्रायस्व नो देव! न ह्यन्या गतिरस्ति नः। ब्रह्मोवाच। समोऽहं सर्व्वभूतानामधर्म्मं नेह रोचये। हन्यतां तारकः क्षिप्र सुरर्षिगणबाधिता। वेदा धर्म्माश्च नोच्छेद गच्छेयुः सुरसत्तमाः!। विहितं पूर्ब्बमेवात्र मया वै व्येतु वो ज्वरः। देवा ऊचुः। वरदानाद्भगवतो दैतेयोबलगर्व्वितः। देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत्। स हि नैव स्म देवानां न सुराणां न रक्षसाम्। बध्यः स्यामिति जग्राह वरं त्वत्तः पितामह!। देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते। न भविष्यति वोऽपत्यमिति सर्व्वे जगत्पते!। ब्रह्मोवाच। हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः!। स उत्पादयिताऽपत्य बधाय त्रिदशद्विषाम्। तद्वै सर्व्वानतिक्रम्य देवदानवराक्षसान्। मनुष्यानथ गन्धर्व्वान्नागानथ च पक्षिणः। अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति। यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः। सनातनो हि संकल्पः काम इत्यभिधीयते। रुद्रस्य रेतः प्रस्कन्नमग्नौ निपतितञ्च यत्। तत्तेजोऽग्निर्म्महद्भूतं द्वितीयमिव पावकम्। बधार्थं देवशत्रूणां गङ्गायां जनयिष्यति। स तु नावाप तं शापं नष्टः स हुतभुक् तदा। तस्माद्वो भयहृद्देवाः! समुत्पत्स्यति पावकिः। अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्। तारकस्य बधोपायः कथितो वै मयाऽनघाः!। न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै। बलान्यतिबलं प्राप्य दुर्ब्बलानि भवन्ति वै। हन्यादबध्यान् वरदानपि चैव तपस्विनः। सङ्कल्पाभिरुचिः कामः सनातनतमोऽभवत्। जगत्पतिरनिर्द्देश्यः सर्व्वगः सर्व्वसावनः। हृच्छयः सर्व्वभूतानां ज्येष्ठो रुद्रादपि पभुः। अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः। स वो मनोगतं कामं देवः सम्पादयिष्यति। एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः। जग्मुः संसिद्धसङ्कल्पाः पर्य्येषन्तो विभावसुम्। ततस्त्रैलोक्यमृषयो विचिन्वन्तः सुरैः सह। काङ्क्षन्तो दर्शनं वह्नेः सर्व्वे तद्गतमानसाः। परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः। लोकानन्वचरन् सिद्धाः सर्व्व एव भृगूत्तम!। नष्टमात्मनि संलीनं नाधिजन्मुर्हुताशनम्। ततः सञ्जातसन्त्रासानग्नेर्द्दर्शनलालसान्। जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः। उवाच देवान्मण्डूको रसातलतलोत्थितः” इत्युपक्रम्य ८५ अ० देवैरग्निसमागमेततो देवैः प्रार्थितवरादिमुक्तं यथा।
“अग्निरुवाच। ब्रत यद्भवतां कार्य्यं कर्त्ताऽस्मि तदहं सुराः!। भवतन्तु वियोज्योऽस्मि मा वोऽत्रास्ति विचारणा। देवा ऊचुः। असुरस्तारको नाम ब्रह्मणो वरदर्पितः। अस्मान् प्रबाधते वीर्य्याद्बधस्तस्य विधीयताम्। इमान् देवगणास्तात! प्रजापतिगणांस्तथा। ऋषी~श्चापि महाभाग! परित्रायस्व पावक!। अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो!। यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन!। शप्तानां नो महादेव्या नान्यदस्ति परायणम्। अन्यत्र भवतो वीर्य्यात्तस्मात्त्रायस्व नः प्रभो!। इत्युक्तः स तथेत्युक्त्वा भगवान् हव्यबाहनः। जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति। तया चाप्यभवन्मिश्रो गर्भञ्चास्या दधे तदा। ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा। नेजसा तस्य देवस्य गङ्गा विह्वलचेतना। सन्तापमगमत्तीव्रं सा सोढुं न शशाक ह। आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते। गङ्गायामसुरः कश्चिद्भैरवं नादमानदत्। अबुद्धिपतितेनाथ नादन विपुलेन सा। वित्रस्तोद्भ्रान्तनयना गङ्गा विह्वललोचना। विसज्ञा नाशकद्गर्मं वोढुमात्मानमेव च। सा तु तेजःपरीताङ्गी कम्पयन्तीव जाह्नवी। उवाच ज्वलनं विप्र! तदा गर्भबलोद्धृता। न ते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे। विमूढाऽस्मि कृताऽनेन न मे स्वास्थ्यं यथा पुरा। विह्वला चास्मि भगवंश्चेतो नष्टञ्च मेऽनघ!। धारणे नास्य शक्ताऽहं गर्भस्य तपतां वर!। उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात् कथञ्चन। न तेजसोऽस्ति संम्पर्शो मम देव! विभावसो!। आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते!। तदन्न गुणसम्पन्नमितरद्वा हुताशन!। त्वय्येव तदहं मन्येधर्म्माधर्म्मौ च केवलौ। तामुवाच ततो वह्निर्धार्य्यतां धार्य्यतामिति। गर्भो मत्तेजसा युक्तो महागुणफलोदयः। शक्ता ह्यसि महीम् कृत्स्नां वोढुं धारयितु तथा। न हि ते किञ्चिदप्राप्यमन्यतो धारणडते। सा वह्निना वार्य्यमाणा देवेरपि सरिद्वारा। ससुत्ससर्ज्ज तं गर्भं मेरौ गिरिवरे तदा। समर्था धारणे चापि रुद्रतेजःप्रधर्षिता। नाशकत्तं तदा गर्भं संधारयितुमोजमा। सा समुत्सृज्य तं दु खाद्दीप्तवैश्वानरप्रभम्। दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह!। पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः। कोदृग्वर्णोऽपि वा देवी कीदृग्रूपश्च दृश्यते। तेजसा केन वा युक्तः सर्व्वमेतद्ब्रवीतु मे”।
“गङ्गोवाच। जातरूपः स गर्भो वै तेजसां त्वमिवानघ!। सुवर्ण्णो विमलो दोप्तः पर्व्वतञ्चावभासयत्। पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः। गन्धोऽस्य सकदम्बानां तुल्यो वै तपतांवर!। तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः। यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषु च। तत् सर्व्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत। पर्य्यधावत शैलांश्च नदीः प्रस्रवणानि च। व्यादीपय~स्तेजसा च त्रैलोक्यं सचराचरम्। एवं रूपः स भगवन्! पुत्रस्ते हव्यवाहन!। सूर्य्यवैश्वानरसमः कान्त्या सोम इवापरः। एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत। पावकश्चापि तेजस्वी कृत्वा कार्य्यं दिवौकसाम्। जगामेष्टं ततो देशं तदा भार्गवनन्दन!। एतैः कर्म्मगुणैर्लोके नामाग्नेः परिग यते। हिरण्यरेता इति वै ऋषिभिर्व्विबुधैस्तथा। पृथिवी च तदा देवी ख्यातोवसुमतीति वै। स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः। दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः। ददृशुः कृत्तिकास्तन्तु बालार्कसदृशद्युतिम्। पुत्रञ्चैताश्च तं बालं पुपुषुस्तन्यविस्रवैः। ततः स कार्त्तिकेयत्वमवाप परमद्युतिः। स्कन्नत्वात् स्कन्दताञ्चापि गुहावासाद्गुहोऽभवत्”। अधिकं कार्त्तिकेयशब्दे वक्ष्यते। कार्त्तिकस्येयम् अण् ङीप्। कार्त्तिकी ६ देवीशक्तिभेदे कौमार्य्याम् नवपत्रिकान्तर्गते जयन्तीस्थे ७ देवीभेदे च कृत्तिकानक्षत्रेण युक्ता पौर्णमासी अण् ङीप्। चान्द्रकार्त्तिकमासस्य ८ पौर्णमास्याम् स्त्री। “कार्त्तिक्याः आग्रहायणो मासे” महाभा०।
कार्त्तिकव्रत = न० कार्त्तिके कर्त्तव्यं व्रतम्। कार्त्तिकमासे कर्तव्ये नियमभेदे। तन्माहात्म्यव्रतादि पाद्मस्कान्दयो र्दर्शितं तत्रादौ तस्य नित्यत्वमुक्तम् स्कान्दे
“दुष्प्रापं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन्न हि। धर्म्मं धर्म्मभृतां श्रेष्ठ! स मातृपितृधातकः। अव्र- तेन क्षिपेद् यस्तु मासं दामोदरप्रियम्। तिर्य्यग्यीनिमवाप्नोति सर्व्वधर्म्मबहिस्कृतः। स ब्रह्महा स गोघ्नश्च स्वर्णस्तेयी सदाऽनृती। न करोति मुनिश्रेष्ठ! यो नरः कार्त्तिकव्रतम्। विधवा च विशेषेण व्रतं यदि न कार्त्तिके। करोति मुनिशार्द्दूल। नरकं याति सा ध्रुवम्। व्रतन्तु कार्त्तिके मासि यदा न कुरुते गृही। इष्टापूर्त्तं वृथा तस्य यावदाहूतनारकी। संप्राप्ते कार्त्तिके मासे द्विजो व्रतपराङ्मुखः। भवन्ति विमुखाः सर्व्वे तस्य देवाः सवासवाः। इष्ट्वा च बहुभिर्यज्ञैः कृत्वा श्राद्धशतानि च। स्वर्गं नाप्नोति विप्रेन्द्र! अकृत्वा कार्त्तिके व्रतम्। यतिश्च विधवा चैव विशेषेण वनाश्रमी। कार्त्तिके नरकं याति अकृत्वा वैष्णवं व्रतम्। वेदैरधीतैः किं तस्य? पुराणपठनैश्च किम्?। कृतं यदि न विप्रेन्द्र! कार्त्तिके वैष्णवं व्रतम्। जन्मप्रभृति यत् पुण्यं विधिवत् समुपार्ज्जितम्। भस्मीभवति तत् सर्व्वमकृत्वा कार्त्तिके व्रतम्। यद्दत्तञ्च् परं जप्तं कृतञ्च सुमहत्तपः। सर्व्वं विफलतामेति अकृत्वा कार्त्तिके व्रतम्। सप्तजन्मार्ज्जितं पुण्यं वृथा भवति नारद!। अकृत्वा कार्त्तिके मामि र्वष्णवं व्रतमुत्तमम्। पापभूतास्तु ते ज्ञेया लोके मर्त्या महामुने!। वैष्णवाख्य व्रतं यैस्तु न कृतं कार्त्तिके शुभम्”। किञ्च “अकृत्वा नियमं विष्णोः कार्त्तिकं यः क्षिपेन्नरः। जन्मार्ज्जितस्य पुण्यस्य फलं नाप्नोति नारद!”। किञ्च “नियमेन विना चैव यो नयेत् कार्त्तिकं मुने!। चातुर्म्मास्यं तथा चैव ब्रह्महा स कुलाधमः”। किञ्च “पिण्डदानं पितॄणाञ्च पितृपक्षे न वै कृतम्। व्रतं ना कार्त्तिके मासि श्रावण्यामृषितर्पणम्। चैत्रे नान्दोलितो विष्णुर्म्माधस्नानं न सज्जले। न कृतां मज्जन पुष्ये, श्राव रोहिणाष्टमी। सङ्गमे न कृता येन द्वादशी श्रवणान्विता। कुत्र यास्यन्ति ते मूढा नाहं वेद्मि कलिप्रिय!”। पाद्मे च “सौनकादिमुनिगणसंवादे “मानुषः कर्म्मभूमौ यः कार्त्तिकं नयते मुधा। चिन्तामणिं करे प्राप्य क्षिपते कर्द्दमाम्बुनि। नियमेन विना विप्राः! कार्त्तिकं यः क्षिपेन्नरः। कृष्णः पराङ्मुखस्तस्य यस्मादूर्जोऽस्य वल्लभः। यै र्न्न दत्तं हुतं जप्तं न स्नानं न हरेर्व्रतम्। न कृतं कार्त्तिके पुत्र! द्विजास्ते वै नराधमाः”। किञ्च “यै र्न दत्तं हुतं जप्तं कार्त्तिंके न व्रतं कृतम्। तेनात्मा हारितो नूनं न प्राप्तं प्रार्थितं फलम्”। अन्यत्र च “संप्राप्ते कार्त्तिके मासि ये रता न जनार्दने। तेषां सौरिपुरे वासः पितृभिः सह नारद!”। किञ्च “कार्त्तिके नार्च्चितो यैस्तु भक्तिभावेन केशवः। नरकं ते गमिष्यन्ति यमदूतै स्तु यन्त्रिताः। जन्मकोटिसहस्रस्तु मानुष्यं प्राप्य दुर्ल्लभम्। कार्त्तिके नार्च्चितो धिष्णुर्हारितं तेन जन्म वै। विष्णोः पूजा कथा विष्णो र्वैष्णवानाञ्च दर्शनम्। न भवेत् कार्त्तिके यम्य हन्ति पुण्यं दशाब्दिकम्”। कार्त्तिकसाहात्म्यं स्कान्दे “कार्त्तिकस्य तु माहात्म्यं प्राक् सामान्येन लिख्यते। ततो विशेषतस्तत्र कर्म देशादिभेदतः” इत्युपक्रम्य “कार्त्तिकस्य तु मासस्य कोद्यंशेनापि नार्हति। सर्ब्बतीर्थेषु यत् स्नानंसर्व्वदानेषु यत्फलम्। एकतःसर्व्वतीर्थानिसर्व्वेयज्ञाः सदक्षिणाः। एकतःपुष्करे वासः कुरुक्षेत्रे हिमाचले। मेरुतुल्यसुवर्णानि सर्व्वदानानि चेकतः। एकतः कार्त्तिको वत्स। सर्व्वदः केशवप्रियः। यत् किञ्चित् क्रियते पुण्यं विष्णु सुद्दिश्य कार्त्तिके। तदक्षयं भवेत् सर्वं सत्योक्तं तव नारद!। कार्तिकः खलु वै मासः सर्वमासेषु चोत्तमः। पुण्यानां परम पुण्यं पावनानाञ्च पावनः। यथा नदीनां विपेन्द्र! शैलानाञ्चैव नारद!। उदधीनाञ्च विप्रर्षे! क्षयो नैवोपपद्यते। पुण्यं कार्त्तिकमासे तु यत्किञ्चित क्रियते मुने!। न तस्यास्ति क्षयो ब्रह्मम्! पापस्याप्येवमेव च। न कार्तिकसमो मासो न कृतेन समं युगम्। न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम्। कार्तिकः प्रवरो मासो वैष्णवानां प्रियः सदा। कार्तिकं सकलं यस्तु भक्त्या सेवेत वैष्णवः। पितॄनुद्धरते सर्वान् नरकस्थान् महामुने!”। पाद्मे “द्वादशस्वपि मासेषु कार्तिकः कृष्णवल्लभः!। तस्मिन् संपूजितो विष्णुरल्पकैरप्युपायनैः। ददाति वैष्णवं लोकमित्येवं निश्चितं मया। यथा दामोदरो भक्तवत्सलो विदितो जनैः। तस्यायन्तादृशो मासः स्वल्पमप्युरुकारकः। दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः। तत्रापि दुर्लभः कालः कार्तिको हरिवल्लभः। दीपेनापि हि तत्रासौ प्रीयते हरिरीश्वरः। सुगतिञ्च ददात्येब परदीपप्रबोधनात्।”
“अथ तद्व्रतमाहात्म्यं स्कान्दे” “व्रतानामिह सर्वेषामेकजन्मानुगं फलम्। कार्त्तिके तु व्रतस्योक्तं फलं जन्मशतानुगम्। अक्रूरतीर्थे विप्रेन्द्र! कार्त्तिक्यां समुपोष्य च। स्नात्वा यत् फलमाप्नोति तत् श्रुत्वा वैष्णवं व्रतम्। वाराणस्यां कुरुक्षेत्रे नैमिषे पुष्करेऽर्वुदे। गत्वा यत् फलमाप्नोति व्रतं कृत्वा तु कार्तिके। अनिष्ट्वा च सदा यज्ञैर्न कृत्वा पितृषु स्वधाम्। व्रतेन कार्त्तिके मासि वैष्णवन्तु पदं व्रजेत्। प्रवृत्तानाञ्च भक्ष्याणां कार्त्तिके नियमे कृते। अवश्यं कृष्णरूपत्वं प्राप्यते मुक्तिदं शुभम्”। किञ्च “ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा मुनिमत्तम! वियोनिं न व्रजत्येव व्रतं कृत्वा तु कार्त्तिके”। किञ्च “कार्त्तिके मुनिशार्दूल! स्वशक्त्या वैष्णवं व्रतम्। यः करोति यथोक्तन्तु मुक्तिस्तस्य करे स्थिता। सुपुण्ये कार्त्तिके मासि देवर्षिपितृसेविते। क्रियमाणे व्रते नॄणां स्वल्पेऽपि स्यान्महाफलम्”। तत्र कमविशेषमाहात्म्यं स्कान्दे “दानं दत्त हुतं जप्तं तपश्चैव तथा कृतम्। तदक्षयफलं प्रोक्तं कार्त्तिके च द्विजसत्तम!”। किञ्च “यत्किञ्चित् कातिके दत्तं विष्णुमुद्दिश्य मानवैः। तदक्षयं लभ्यते वै अन्नदानं विशेषतः”। किञ्च “ये तु सवत्सरं पूर्णमग्निहोत्रमुपासते। कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः। कार्तिके या करोत्येवं केशवालयमण्डनम्। स्वर्गस्था शोभत सा तु कपौतो पक्षिणी यया। वः करोति नरो नित्यं कार्त्तिके पत्रभोजनम। न स दुर्गतिमाप्नोति यावदिन्दाश्चतुर्दश। जन्मप्रभृति यत् पापं मानवैश्च कृतं भवत् तत् सर्व्व नाशमाप्नोति ब्रह्म(पलाश)पत्रेषु भोजनात्। सर्व्वकामफलं तस्य सर्वतीर्थफलं भवेत्। न चापि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात्। ब्रह्म चैष स्मृतः साक्षात् पलाशः सर्वकामदः। मध्यमं वर्ज्जितं पत्रं शूद्रस्य मुनि सत्तम!। भुञ्जन्नरकमाप्नोति यावदिन्द्राश्चतुर्दश। तिलदानं नदीस्नानं सत्कथा साधुसेवनम्। भोजनं ब्रह्म पत्रेषु कार्तिके मुक्तिदायकम्। जागरं कार्तिके मासि यः करोत्यरुणोदये। दामोदराग्रेविप्रेन्द्र! गोसहस्रफलं लभेत्। जागरं पश्चिमे यामे यः करोति महामुने!। कार्तिके सन्निधौ विष्णोस्तत्पदं करसंस्थितम्। साधुसेवा गवां ग्रासः कथा विष्णोरथार्च्चनम्। जागरः पश्चिमे यामे दुर्ल्लभः कार्तिके कलौ”। किञ्च “जलधेनुसहस्रञ्च वृषसंस्थे दिवाकरे। तोयं दत्त्वा यदाप्नोति स्नानं कृत्वा तु कार्तिके। सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे। सूर्य्यवारेण यत् स्नानं तदेकाहेन कार्तिके। पितॄनुदिश्य यद्दत्तं कार्तिके कृष्णवल्लभे! अन्नोदकं मुनिश्रेष्ठ। अक्षयं जायते नृणां” किञ्च “गीतशास्त्रविनोदेन कार्तिकं यो नयेन्नरः। न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय!”। किञ्च “प्रदक्षिणञ्च यः कुर्य्यात् कार्तिके विष्णुसद्मनि। पदेपदेऽश्वमेधस्य फलभागी भवेन्नरः। गीतं वाद्यञ्च मृत्यञ्च कार्त्तिके पुरतो हरेः। यः करोति नरो भक्त्या लभते चाक्षयं फलम्। हरेर्नाम सहस्राख्य गजेन्द्रस्य च मोक्षणम्। कार्त्तिके पठते यस्तु पुनर्जन्म न विद्यते। कार्त्तिके पश्चिमे यामे स्तव गानं करोति यः। वसते श्वेतद्वीपे तु पितृभिः सह नारद!। नैवेद्यदानेन हरेः कार्त्तिके यवसंख्यया। युगानि वसते स्वर्गे तावन्ति मुनिसत्तम! अपुरुन्तु सकर्पूरं यो देहत् केशवाग्रतः। कार्त्तिके तु मुनिश्रेष्ठ। युगान्ते न पुनर्भवः” किञ्च “नियमेन कथां विष्णोर्ये शृण्वन्ति च भाविताः। श्लोकार्द्धं श्लोकपादं वा कार्त्तिके गोशतं फलम्। सर्व्वधर्म्मान् परित्यज्य कार्त्तिके केशवाग्रतः। शास्त्रस्योच्चारणं पुण्यं श्रोतव्यञ्च महामुने!। श्रेयसा लोभबुद्ध्या वा यः करोति हरेः कथाम्। कार्त्तिके मुनिशार्द्दूल! कुलानां तारयेच्छतम्। नित्यं शास्त्रविनोदेन कार्तिकं यः क्षिपेन्नरः। निर्द्दहेत् सर्वपापानि यज्ञायुतफलं लभेत्। न तथा तुष्यते दानै र्न यज्ञैर्गोगजादिकैः। यथा शास्त्रकथालापैः कार्त्तिके मधुसूदनः। कार्त्तिके मुनिशार्द्दूल! यः शृणोति हरेः कथाम्। स निस्तरति दूर्गाणि जन्मकोटिगतानि च। यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुनेः। अष्टादशपुराणानां कार्त्तिके फलमाप्नुयात्” किञ्च “सर्व्वान् धर्म्मान् परित्यज्य इष्टापूर्त्तादिकान्नरः। कार्त्तिके परया भक्त्या वैष्णवैःसह संवसेत्”। पद्मे “कार्त्तिके मूमिशायी यो ब्रह्मचारीहविष्यभुक्। पलाशपत्त्रे भुञ्जानो दामोदरमघार्च्चयेत्। स सर्व्वपातकं हित्वा वैकुण्ठे हरिसन्निधौ। मोदते विष्णुसदृशो भजनानन्दनिर्वृतः” किञ्च “कार्त्तिकं सकलं मास प्रातः स्नायी जितेन्द्रियः। जपन् हविष्यभुक् दान्तः सर्व्वपापैः प्रमुच्यते। कार्त्तिकन्तु नरोः मासं यः कुर्य्यादेकभोजनम्। शूरश्च बहुवीर्य्यश्च कीर्त्तिमांश्च स जायते”। किञ्च “पलाशपत्रभोजी च कार्त्तिके पुरुषो नरः। निष्पापः स्यात्तु नैवेद्यं हरेर्भुक्त्वा विमुच्यते। मध्यस्थमैश्वरं पत्रं वर्जयेद्व्राह्मणेतरः”। किञ्च “अपराधसहस्राणि पातकानि महान्त्यपि। क्षमतेऽस्य हरि र्द्देवः पूजितः कार्त्तिके प्रभुः। नैवेद्यं पायसो विष्णोः प्रियं खण्डं घृतान्वितम्। विभज्य तच्च भुञ्जानो यज्ञसाम्यं दिने दिने”। तत्रैव श्रीकृष्णसत्यासंवादे “स्नानं जागरणं दीपं तुलसीवनपालनम्। कार्त्तिके ये प्रकुर्व्वन्ति ते नरा विष्णुमूर्त्तयः। इत्थं दिनत्रयमपि कार्त्तिके ये प्रकुर्व्वते। देवानामपि ते वन्द्याः किं यैराजन्म तत् कृतम्”। स्कान्देकार्त्तिकव्रताङ्गानि” “हरिजागरणं प्रातःस्नानं तुलसिसेवनम्। उद्यापनं दीपदानं व्रतान्येतानि कार्त्तिके”। किञ्च “पञ्चभिर्व्रतकैरेभिः सम्पूर्णं कार्त्तिके व्रतो। फलमाप्नोति तत्प्रोक्तं भुक्ति सुक्तिफलप्रदम्। विष्णोः शिवस्य वा कुर्य्यादालये हरिजागरम्। कुर्य्यादश्वत्थमूले वा तुलसीनां वनेषु च। आपद्गतो यदाप्यम्भो न लभेत् सवनाय सः। व्याधितो वा पुनः कुर्य्याद्विष्णोर्न्नाम्नाऽघमार्ज्जनम्। उद्यापनविधिं कर्त्तुमशक्तो यो व्रते स्थितः। ब्राह्मणान् भोजयेच्छक्त्या व्रतसम्पूर्णहेतवे। अशक्तो दीपदानस्य परदीपान् प्रबोधयेत्। तेषां वा रक्षणं कुर्य्याद्वातादिभ्यः प्रयत्नतः। अभावे तुलसीनाञ्च पूजयेद्वैष्णवं द्विजम्। सर्व्वाभावे व्रती कुर्य्याद्ब्राह्मणानां गवामपि। सेवां बा बोधिवटयो र्व्रतसम्पूर्ण्णहेतवे”। तत्र दीपदानमाहात्म्यम्” स्कान्दे
“कृत्वा कोटिसहस्राणि पातकानि बहून्यपि। निमेषार्द्धेन दीपस्य विलयं यान्ति कार्त्तिके” किञ्च “शृणु दीपस्य माहात्म्यं कार्त्तिके केशवप्रियम्। दीपदानेन विप्रेन्द्र! न पुनर्जायते भुवि। रविग्रहे कूरुक्षेत्रे नर्म्मदायां शशिग्रहे। तत् फलं कोटिगुणितं दीपदानेन कार्त्तिके। घृतेन दीपको यस्य तिलतैलेन् वा पुनः। ज्वाल्यते मुनिशार्द्दूल! अश्वमेधेन तस्य किम्?। मन्त्रहीनं क्रियाहीनं शौचहीनं जनार्द्दने। सर्व्वे संपूर्णतां याति कार्त्तिके दीपदानतः। तेनेष्टं क्रतुभिः सर्व्वैः कृतं तीर्थावगाहनम्। दीपदानं कृतं येन कार्त्तिके केशवाग्रतः। तावद्गर्ज्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले। यावन्न ज्वलते ज्योतिः कार्त्तिके केशवाग्रतः। श्रूयते चापि पितृभि र्गाथा गीता पुरा द्विज!। भविष्यति कुलेऽस्माकं पितृभक्तः सुतो भुवि। कार्त्तिके दीपदानेन यस्तोषयति केशवम्। मुक्तिं प्राप्स्यामहे नूनं प्रसादाच्चक्रपाणिनः” किञ्च “मेरुमन्दरमात्राणि कृत्वा पापान्यशेवतः। दहते नात्र सन्देहो दीपदानात्तु कार्त्तिके। गृहे वाऽऽयतने वापि दीपं दद्याच्च कार्त्तिके। पुरती वासुदेवस्य महाफलविधायिनः। स जातो मानुषो लोके स धन्यः स च कीर्त्तिमान्। प्रदत्तः कार्त्तिके मासि दीपो वै मध्हाग्रतः। निमेषार्द्धार्द्धमात्रेण दीपदानेन कार्त्तिके। न तत् क्रतुशतैः प्राप्यं फलं तीर्थशतैरपि। सर्वानुष्ठानहीनोऽपिसर्वपापरतोऽपि सन्। पूयते नात्र सन्देहो दीपं दत्त्वा तु कार्त्तिके। तन्नास्ति पातकं किञ्चित् त्रिषु लोकेषु नारद! यन्न शोधयते दीपः कार्त्तिके केशवाग्रतः। पुरतो वासुदेवस्य दीपं दत्त्वा तु कार्त्तिके। प्राप्नोति शाश्वतं स्थानं सर्वबाधाविवर्ज्जितम्। यः कुर्य्यात् कार्त्तिके मासि कर्पूरेण तु दीपकम्। द्वादश्याञ्च विशेषेण तस्य पुण्यं वदामि ते। कुले तस्य प्रसूता ये ये भविष्यन्ति नारद!। समतीताश्च ये केचिद्येषां सङ्ख्या न विद्यते। क्रीडित्वा सुचिरं कालं देवलोके यदृच्छया। ते सर्वे मुक्ति मायान्ति प्रसादाचक्रपाणिनः” किञ्च “द्यूतव्याजेन विप्रेन्द्र! कार्त्तिके केशवालयम्। द्योतयेद्वा महाभागाः! पुनात्यासप्तम कुलम्। कार्त्तिके दीपदानन्तु कुर्य्याद्यो वैष्णवालये। धन पुत्रो यशः कीर्त्तिर्भवेत्तस्य च सर्वदा। यथा च मथनाद्वह्निः सर्व्वकाष्ठेषु दृश्यते। तथा च दृश्यते धर्म्मो दीपदाने न संशयः” किञ्च “निर्द्धनेनापि विप्रेन्द्र! कृत्वा चैवात्मविक्रयम्। कर्त्तव्यं दीपदानन्तु यावत् कार्त्तिकपूर्णिमा। वैष्णवो न स मन्तव्यः संप्राप्ते कार्त्तिके मुने!। यो न यच्छति मूढात्मा दीपं केशवसद्मनि”। नारदीये श्रीरुक्माङ्गदमोहिनीसंवादे “एकतः सर्वदानानि दीपदानानि चैकतः। कार्त्तिके न समं प्रोक्तं दीपदो ह्यधिकः स्मृतः”। कार्त्तिके “कार्त्तिके खण्डदीपं यो ददाति हरिसन्निधौ। दिव्यकान्तिविमानाग्रे रमते स हरेः पुरे”। तत्र परदीपप्रबोधनमाहात्म्यं स्कान्दे “पितृपक्षेऽन्नदानेन ज्यैष्ठाषाढे च वारिणा। कार्त्तिके तत्फलं पुंसां परदीपप्रबोधनात्। बोधनात् परदीपस्य वैष्णवानाञ्च सेवनात्। कार्त्तिके फलमाप्नोति राजसूयाश्वमेधयोः। दोयमानन्तु ये दीपं बोधयन्ति हरेर्गृहे। परेण नृपशार्द्दूल! निस्तीर्णा यमयातनां। न तद्भवति विप्रेन्द्र! इष्टैरपि महामखैः। कर्त्तिके यत् फलं प्रोक्तं परदीपप्रबोधनात्। एकादश्यां परैर्द्दत्तं दीपं प्रज्वाल्य मूषिका। मानुष्यं दुर्ल्लभं प्राप्य परां गतिमवाप सा”। तत्र शिखरदीपमाहास्त्र्यं स्कान्दे। “यदा यदा भासयते दोपकः कलसोपरि। तदा तदा मुनिश्रेष्ठ! द्रवते पापसञ्चयः। यो ददाति द्विजातिभ्यो महीमुदधिमेखलाम्। हरेः शिखरदीपस्य कलां नार्हति षोडशीम्। यो ददाति गवां कोटिं सवत्सां क्षीरसंयुताम्। हरेः शिखरदोपस्य कलां नार्हति षोडशीम्। सर्व्वस्वदानं कुरुते वैष्ण्वानां महामुने! शिखरोपरि दीपस्य कलां नार्हति शोडशीम् “किञ्च “यः करोति परं दीपं मूल्येनापि महामुने!। शिखरोपरि मध्ये च कुलानां तारयेच्छतम्। विमानं ज्योतिषा दीप्रं ये निरोक्षन्ति कार्त्तिके। केशवस्य महाभक्त्या कुले तेषां न नारकी। दिवि देवा निरोक्षन्ते विष्णुदीपप्रदं नरम्। कदा भविष्यत्यस्माकं सङ्गमः पुण्यकर्म्मणा। कार्त्तिके कार्त्तिकों यावत् प्रासादोपरि दीपकम्। यो ददाति मुनिश्रेष्ठ! तस्येन्द्रत्वं न दुर्ल्लभम्”। तत्र दीपमालामाहात्म्यं स्कान्दे “दीपपङ्क्तेश्च रचना सबाह्याभ्यन्तरे हरेः। विष्णोविमाने कुरुते स नरः शङ्खचक्रधृक्। दीपपङ्क्तेश्च रचनां कुरुते केशवालये। तस्यालये प्रसूतानां लक्षाणां नरकं न हि। विष्णोर्विमानं दीपाढ्यं सबाह्याभ्यन्तरे मुने!। दीपोद्द्योतकरे मार्गे तेन प्राप्तं परं पदम्”। भविष्येच “यः कुर्य्यात् कार्त्तिके मासि शोभनां दीपमालिकाम्। प्रबोधे चैव द्घादश्यामेकादश्यां विशेषतः। सूर्य्यायतप्रकाशस्तु तेजसा भासयन् दिशः। तेजोराशिविमानस्थो जगदुदुद्योतयंस्त्विषा। यावत् प्रदीपसंख्या तु घृतेनापूर्य्य बोधिता। तावद्वर्षसहस्राणि विष्णुलोके महीयते”।
तत्र आकाशादिदीपमाहात्म्यं पाद्मे “उच्चैः प्रदीपमाकाशे यो दद्यात् कार्तिके नरः। सर्वं वलं समुद्धृत्य विष्णुलोकमवाप्नुयात्। विष्णुकेशवमुदृश्य दीपं दद्यात् तु कार्तिके। आकाशस्थ जलस्थञ्च शृणु तस्यापि यत् फलम्। धनं धान्यं समृद्धिश्च पुत्रवानीश्वरो गृहे! लोचने च शुभे तस्य विद्वानपि च जायते” किंच “विप्रवेश्मनि यो दद्यात् कार्तिके मासि दीपकम्। अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः। चतुष्पथेषुय् रथ्यासु ब्राह्मणावसथेषु च। वृक्षमूलेषु गोष्ठेषु कान्तारे गहनेषु च। दोपदानाद्धि सर्वत्र महाफलमवाप्नुयात्”।
देशविशेषे कार्तिकमाहात्म्यविशेषः पाद्मे। “यत्र कुत्रापि देशेऽयं कार्तिकः स्नानदानतः। अग्निहोत्र समफलः पूजायाञ्च विशेषतः। कुरुक्षेत्रे कोटिगुणो गङ्गायां चापि तत्समः। ततोऽधिकः पुष्करे स्याद् द्वारकायाञ्च भार्गव।। कृष्णसालोक्यदो मासः पूजास्नानैश्च कार्तिकः। अन्याः पुर्य्यस्तत्समाना मुनयो मथुरां विना। दामोदरत्वं हि हरेस्तत्रैवासीद्यतः किल। मथुरायां ततश्चोर्ज्जो वैकुण्ठप्रीतिवर्द्धनः। कार्तिको मथुरायां वै परमावधिरिष्यते। यथा माघे प्रयागः स्याद्वैशाखेजाह्नवी यथा। कार्तिके मथुरा सेव्या तथोत्कर्षः परो नहि। मथु- रायां नरैरूर्जे स्नात्वा दामोदरोऽर्चितः। कृष्णरूपा हि ते ज्ञेया नात्र कार्य्या विचारणा। दुर्लभः कार्तिको विप्र! मथुरायां नृणामिह। यत्रार्चितः स्वकं रूपं भक्तेभ्यः संप्रयच्छति। भुक्तिं मुक्तिं हरिर्दद्यादर्चितोऽन्यत्र सेविनाम्। भक्तिञ्च न ददात्येष यतो वश्यकरी हरेः। सा त्वञ्जसा हरे र्भक्तिर्लभ्यते कार्त्तिके नरैः। मथुरायां सकृदपि श्रीदामोदरपूजनात्। मन्त्रद्रव्यविहीनञ्च विधिहीनञ्च पूजनम्। मन्यते कार्तिके देवो मथूरायां सदर्च्चनम्। यस्य पापस्य युज्येत मरणान्ता हि निष्कृतिः। तच्छुद्ध्यर्थ मिदं प्रोक्तं प्रायश्चित्तं सुनिश्चितम्। कार्तिके मथुरायां वै श्रीदामोदरपूजनम्। कार्तिके मथुरायां वै पूजनाददर्शनं ध्रुवः। शीघ्रं संप्राप्तवान् बालो दुर्ल्लभं योगवत् परैः। सुलभा मथुरा भूमौ प्रत्यब्दं कार्तिकस्तथा। तथापि संसरन्तीह नरा मूढा भवाम्बुधौ। किं यज्ञैः किं तपोभिश्च तीर्थैरन्यैश्च सेवितैः। कार्तिके मथुरायाञ्चेदर्च्च्यते राधिकाप्रियः। यानि सर्व्वाणि तीर्थानि नदा नद्यः सरांसि च। कार्तिके निवसन्त्यत्र माथुरे सर्व्वमण्डले। कार्तिके जन्मसदने केशवस्य च ये नराः। सकृत्प्रविष्टाः श्रीकृष्णं ते यान्ति परमव्ययम्। परोपहासमुदिदश्य कार्तिके हरिपूजया। मथुरायां लभेद्भक्तिं किं पुनः श्रद्धया नरः” इति।
अथ कार्त्तिकव्रतारम्भकालक्रमौ। पाद्मे “आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत्। कार्तिकस्य व्रतानीह तस्यां कुर्य्यादतन्द्रितः। नित्यं जागरणायान्त्ये यामे रात्रेः समुत्थितः। शुचिर्भूत्वा प्रबोध्याथ स्तोत्रैर्नीराजयेत् प्रभुम्। निशम्य वैष्णवान् धर्मान् वैष्णवैः सह हर्षितः। कृत्वा गीतादिकं प्रातदवं नीराजयेत् पुनः। नद्यादौ च ततो गत्वाचम्य सङ्कल्पमाचरेत् “प्रभुं प्रार्थ्याथ तस्मै च दद्यादर्व्यं यथाविधि। तत्र सङ्कल्पमन्त्रः। कार्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन!। प्रीत्यर्थं तव देवेश! दामो दर! मया (लक्ष्म्या) सह” इति। “प्रार्थनामन्त्रस्तु–तव ध्यानेन देवेश! जलेऽस्मिन् स्नातुमुद्यतः। त्वत्प्रसादाच्च मे पापं दामोदर! विनश्यतु”। अर्ध्यमन्त्रः–“व्रतिनः कार्तिके मासि स्नातस्य विधिवन् मम। अर्ध्यं गृहाण देवेश! त्वां नमामि सुरेश्वर!”। काशीस्वण्डे “व्रतिनः कार्तिके मासि स्नातस्य विधिवन् मम। दामोदर! गृहाणार्ध्यं दनुजेन्द्रनिसूदन! नित्ये नैमित्तिके कृत्स्ने कार्तिके पापशोषणे। गृहाणार्ध्यं मया दत्तं राधया सहितो हरे!”। इति। पाद्मे तिलैरालिप्य देहं स्वं नामोच्चारणपूर्वकम्। स्नात्वा तु विधिना सन्ध्यामुपास्य गृहमाब्रजेत्। उपलिप्याथ देवाग्रे निर्माय स्वस्तिकं प्रभुम्। तुलसीमालती पद्मागस्त्यपुष्पादिनार्चयेत्। नित्यं वैष्णवसङ्गत्या सेवेत भगवत्कथाम्। सर्पिषाहर्निशं दीपं तिलतैलेन चार्च्चयेत्। विशेषतश्च नैवेद्यान्यर्पयेदाचरेत्तथा। प्रणामांश्च यथाशक्ति एकभक्तादिकं व्रतम्”। पाद्मेऽन्यत्र “प्रातरुत्थाय शौचादि कृत्वा गत्वा जलाशयम्। कृत्वा च विधिवत् स्नानं ततो दामीदरार्च्चनम्”। किञ्च “मौनेन भोजनं कार्यं कार्त्तिके व्रतधारिणा। घृतेन दीपदानं स्यात् तिलतैलेन वा पुनः। दिनञ्च कृष्णकथया वैष्णवानां च सङ्गमैः। नीयतां कार्तिके मासि मङ्कल्पव्रतपालनम्। आश्विने शुक्ललक्षस्य प्रारम्भो हरिवासरे। अथ वा पौर्णमासीतः संक्रान्तौ वा तुलागमे। दीपदानमखण्डञ्च दद्याद्वै विष्णुसन्निधौ। देवालये तुलस्यां वा आकाशे वा तदुत्तमम्”। किञ्च “रजतं कनकं दीपान् मणिमुक्ताफलादिकम्। दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्तिके नरः”। स्कान्दे च “न गृहे कार्तिके कुर्य्याद्वेशेषेण तु कार्तिकोम्। तीर्थेतु कार्तिकीं कुर्य्यात् सर्वयत्नेन भाविनि!”। कार्तिके वर्ज्यानि स्कान्दे ब्रह्मनारदसंवादे “कार्तिके तु विशेषेण राजमाषांश्च भक्षयन्। निष्पावान् मुनिशार्दूल! यावदाहूतनारकी। कलिङ्गानि पटोलानि वृन्ताकं सन्धितानि च। न त्यजेत् कार्तिके मासि यावदाहूतनारकी। कार्तिके मासि धर्मात्मा मत्स्यमांसं न भक्षयेत्। तत्रैव यत्नतस्त्याज्य शाशकं शौकरं तथा”। किञ्च–परान्नं परशय्याञ्च प्ररीवादं पराङ्गनाम्। सर्वदा वर्ज्जयेत् प्राज्ञो विशेषेण तु कार्तिके। तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम्। कार्त्तिके वर्ज्जयेद्यस्तु परिपूर्णब्रती भवेत्। संप्राप्तं कार्त्तिकं दृष्ट्वा परान्नं यस्तु वर्ज्जयेत्। दिने दिने तु कृच्छस्य फलं प्राप्नोति मानवः”। तत्रैव श्रीरुक्याङ्गदमोहिनीसंवादे “कार्त्तिके वर्ज्जयेन्मधु। कार्त्तिके वर्ज्जयेत् कांस्यं कार्त्तिके शुक्तसन्धितम्। न मत्स्यं भक्षयेन्मांसं न कौर्म्मं नान्यदेव हि। चाण्डालः स भवेत् सुभ्रु! कार्तिके मांसभक्षणात्।”
कार्त्तिकिक = पु० कार्त्तिकी पौर्णमासी अस्मिन् मासे ठक। १ चान्द्रकार्त्तिकमासे एवं २ कार्त्तिकीयुक्त पक्षे ३ कार्त्तिकाख्ये जीववर्षे च।
कार्त्तिकेय = पु० कृत्तिकानामपत्यं पाल्यत्वेन ढक्। अग्निनिषिक्तरुद्रतेजस उत्पन्ने कृत्तिकाभिः पालिते स्कन्दे देवे कार्त्तिकशब्दे तत्कथादि उक्तम्। रामायणेतु संक्षेपेणोक्तं यथा “कुमारश्चाभवत् तत्र तरुणार्कसमद्युतिः। वह्नितेजोभवः श्रीमान् गङ्गाकुक्षिपरिच्युतः। तं कुमारं ततो जातं दृष्ट्वा सेन्द्रा मरुद्गणाः। तदा क्षीरप्रदानार्थं कृत्तिकाः संन्ययोजयन्। ताः क्षीरं तस्य देवस्य समयेन ददुस्तदा। स्यादस्माकमयं पुत्रः ख्यातो नाम्नोति राघव!। अन्योन्यं पिबतस्तासां तनयस्य मुखानि षट्। समभूवन् महाबाहो! षण्मुखस्तेन विश्रुतः। ततस्तादेवता ऊचुः कार्त्तिकेय इति प्रभुः। पुत्रोऽयं जगति ख्यातो भविष्यति न संशयः”।
कार्त्तिकेयप्रसू = स्त्री कार्त्तिकेयं प्रसूते प्र + सू–क्विप्। षार्वत्यां शब्दरत्ना०। षार्व्वत्यां शिववीर्यनिषेककाले देवैर्विघ्ने कृते तद्रेतसो भूमिवह्न्यादिनिषेकेण तस्योत्पत्तेस्तस्यास्तदीयमूलकारणत्वात् तत्प्रसूत्वं यथा ब्रह्मवै० पु० गणेशख० “सम्बभूवरहः क्रीडा पार्वतीशिवयोः पुरा। दृष्टस्य च सुरैः शम्भो र्वीर्य्यं भूमौ पपात ह। भूमिस्तदक्षिपत् वह्नौ वह्निश्च शरकानने। तत्त्वं पुष्टः कृत्तिकाभिः”। षट्सु ऋषिपत्नीषुवह्नेरेतसो निषेके ताभिश्च शरवणेक्षेपात्तज्जन्मे तस्यमूलमग्निकुमारशब्दे ५४ पृ० भारतवाक्यं दर्शितम् तेन गङ्गायां निषेकाज्जन्मकथनन्तु कल्पभेदादित्यविरोधः।
कार्त्तायणि = पु० स्त्री कर्तुरपत्यम् कुर्वा० ण्यः कार्त्त्यः तस्यापत्यम् “अणोद्व्यचः” पा० फिञ् यलोपः। कर्तुरपत्यस्यापत्ये।
कार्त्तिकोत्सव = पु० ७ त०। १ कार्त्तिककर्त्तव्ये उत्सवे उपचारात् तदाधारे कार्त्तिकपौर्णमासीरूपे २ काले त्रिका०।
कार्त्स्न्य = न० कृत्स्नस्य भावः ६ त० ष्यञ्। साकल्ये “विभाषा सातिः कात्र्स्न्ये” पा० “तन्निबोधत कात्र्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान्” मनुः।
कार्दम(मिक) = त्रि० कर्दमेन रक्तं अण् वृत्तिकारमते ठक् वा। कर्दमेन रक्ते वस्त्रादौ।
कार्पट = पु० कर्पटएव स्वार्थेऽण्, कार्पाटः स इवाकारोऽस्त्यस्य, अच् वा। १ जीर्ण्णवस्त्रखण्डे (लाता कानि)। तादृश वस्त्रयुक्ते २ कार्य्यार्थिनि (उमेदार) त्रि० हेमच०। तदाकारयुक्ते जतुनि (जौ) हेमच०।
कार्पटगुप्तिका = स्त्री कार्पटेन खण्डवस्त्रेण गुप्तैव स्वार्थे क। (झुली) (वटुया) इति ख्याते पदार्थे शब्दचि०।
कार्पटिक = त्रि० कर्पटेन चरति ठक् कार्पटोऽस्त्यस्य वा ठन् कषायखण्डवस्त्रेण चारिणि १ तीर्थयात्राप्रसक्ते। “विश्रा न्तकार्पटिकप्रस्फुटितचरणधूलिधूसरकिशलयलाञ्च्छितोपकण्टैः” काद०। “नित्यं कार्पटिकान् सर्व्वान् समं पुत्रेण पश्यति” कारी० स्व० १२ अ०। २ कर्मठे त्रिका०।
कार्पण्य = न० कृपणस्य भावः ष्यञ्। १ कृपणत्वे २ दीनत्वे च “कार्पण्यदोषोपहतस्वभावः” गीता। “कार्पण्यं केवला नीतिः क्रौर्य्यं श्वापदचेष्टितम्” हितो०।
कार्पास = त्रि० कर्पास्या अवयवः विल्वा० अण्। कर्पासीविका रे सूत्रादौ। तस्य फले लुक्। कर्पासी स्वार्थेऽण् ङीप् कर्पासी (कापास) २ वृक्षे स्त्री। स्वार्थे क। कार्पासिकाऽप्यत्र। स्वार्थिकस्यापि प्रकृतिलिङ्गातिक्रमस्य क्वाचित्कत्वात् कार्पसकोऽप्यत्र पु०। “कार्पासको लघुः कोष्णो मधुरो वातनाशकः। तत्पलाशं समीरघ्नं रक्तकृन्मूत्र वर्द्धनम्। तत्फलं पिण्डिकानाहपूयस्रावविनाशकृत्। तद्वीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु” भावप्र०। अधिकं कर्पासशब्दे १७२३ पृ० दृश्यम्।
कार्पासधेनु = स्त्री स्त्री कार्पासरचिता धेनुः। दानार्थं कल्पितायां कार्पासवस्त्रादिनिर्म्मितायां धेनौ। तद्विधानं हेमा० दा० ख० वराहपुराणे यथा “अतःपरं प्रवक्ष्यामि धेनुं कार्पासिकीं शुभाम्। विश्वस्य गुह्यगुप्त्यर्थं ब्रह्मणा चांशुकङ्कृतम्। कार्पासमूलन्तच्चापि तेनासावुत्तमा स्मृता। सा च कार्पासभारेण धेनुः श्रेष्ठा प्रकीर्त्तिता। मध्यमा च तदर्द्धेन कन्यसी (कनिष्ठा) च तदर्द्धतः। पूर्ववद्वस्त्रधान्यञ्च हिरण्यञ्च तथैव च। वत्सकन्तु चतुर्थांशैर्दानमन्त्रोऽभिधीयते”। पूर्व्ववदिति वराहपुराणोक्ततिलधेनुवदित्यर्थः। “हेमकुन्देन्दुदेवेशि! क्षीरार्णवसमुद्भवे!। सोमप्रिये! सुधेन्वाख्ये! सौरभेयि! नमोऽस्तु ते। दत्तेयमिन्दुनाथाय शशाङ्कायामृताय च। अत्रिनेत्रप्रजाताय सोमराजाय वै नमः”। “यस्त्वेवं परया भक्त्या ब्राह्मणाय प्रयच्छति। स याति सोमलोकन्तु सोमेन सह मोदते। न रोगी न ज्वरी कुष्ठी कुले तस्य प्रजायते। पुत्रदारसमोपेतो जीवेच्च शरदां शतम्”। वस्त्र धेन्वादयोप्यत्र
कार्पासनासिका = स्त्री कार्पासस्य तत्पूरणार्था नासिकेव। (टेको) तर्कौ शब्दरत्ना०। कर्पासनासिकाप्यत्र।
कार्पासपर्व्वत = पु० दानार्थं कल्पिते धान्यशैलादिषु दशसु अचलेषु कर्पासवस्त्रनिर्म्मिते पर्व्वतभेदे तद्विधानादि हेमा० दानख० ब्रह्माण्डपुराणे यथा “भगवानुवाच। अतःपरं प्रवक्ष्यामि कार्पासाचलमुत्तसम्। परमं सर्व्वदानानां प्रियं सर्वदिवौकसाम्। देशकालौ समासाद्य धनं श्रद्धाञ्च यत्नतः। देयमेतन्महादानं तारणार्थं कुलस्य च। पर्वतं कल्पयेत्तत्र कार्पार्सेन विधानतः। पूर्वोक्तेन विधानेन कृत्वा सर्व्वं विधानतः। विंशद्भारस्तु कर्त्तव्य उत्तमः पर्वतो बुधैः। मध्यमो दशभिःकुर्य्याज्जघन्यः पञ्चभिस्तथा। सर्व्वधान्यसमूहस्य मध्ये ह्योषधिभिर्वृतः। रसैरत्नैश्च संयुक्तो लोकपालावृतस्तथा। ब्रह्मादयस्तथा शृङ्गे काञ्चनेन विनिर्मिताः। कुलाचलांश्च चतुरश्चतुर्भागेन कल्पयेत्। सौवर्णशिखरान् सर्व्वान् सर्व्वरत्नोपशोभितान्। नानाधातुविचित्राङ्गान् भक्ष्यभोज्यसमावृतान्। कण्डे वा स्थण्डिले वापि तत्र होमो विधीयते। ऋत्विजश्च तथा चाष्टौ कारयेद्वेदवित्तमान्। होमोव्याहृतिभिश्चैव अग्नौ तद्दैवतैरपि। गन्धेन सर्पिषा तत्र तथा कृष्णतिलैरपि। अयुतं होमसंख्या च पालाशसमिधस्तथा। शङ्खतूर्य्यनिनादैश्च तथा मङ्गलपाठकैः। उत्सवं कारयेत्तत्र दिनमेकमतन्द्रितः। पर्व्वकाले ततो दद्यात् पूजयित्वा विधानतः। “नमः सर्वामरावासा भूतसङ्घैरभिष्टुताः। ब्रह्वादयो मे वरदा भवन्तु विबुधाः सदा”। इत्युच्चार्य्य नरो दद्यान्नारी वा विधिपूर्व्वकम्। पूजयित्वा द्विजान् सम्यक् वासोभिर्भूषणैस्तथा। अनेन विधिना यस्तु दानमेतत् प्रयच्छति। स गच्छेत्त्रिदशावासं विमानोपरि संस्थितः। अप्सरोगणसंवीतो गन्धर्व्वैरभिसंस्तुतः। तत्र मन्वन्तरं यावदुषित्वा विबुधालये। पुण्यक्षयादिहाभ्येत्य महीम्भुङक्ते ससागराम्। रूपवान् सुभगोवाग्मी श्रीमानतुलविक्रमः। पञ्च जन्मानि नारी वा जायते नात्र संशयः। भूयश्च शृणु राजेन्द्र! दिव्यं कार्पासपर्व्वतम्। तञ्च भारशतेनैव कुर्य्यादर्द्धेन वा पुनः। शेषं पूर्व्वविधानेन सर्व्वं कुर्य्याद्यथाक्रमम्। फलं पूर्वोदितञ्चैव जायते नृपसत्तम!”। कार्पासाचलकार्पासशैलादयोऽप्यत्र।
कार्पाससौत्रिक = त्रि० कर्पाससूत्रेण निर्वृत्तः टक् अनुशतिकादेराकृतिगणत्वेन द्विपदवृद्धिः। कर्पाससूत्रनिर्म्मिते वस्त्रादौ। “शते दशपला वृद्धिरौर्ण्णे कार्पास सौत्रिके” याज्ञ०।
कार्पासिक = त्रि कर्पासेन निर्वृत्तः ठक्। कर्पाससूत्रनिष्पन्ने पटादौ “शतं दासीसहस्राणां कार्पासिकनिवासिनाम्” भां० स० ५० अ०। कार्पासवस्त्राच्छादिनाम्।
कार्म्म = त्रि० कर्म्म शीलमस्य छत्रा० णः। “कार्म्मस्ताच्छील्ये” पा० नि० टिलोपः। फलमनपेक्ष्य कर्म्मसु प्रवृत्ते कर्म्मशीले स्त्रियां टाप्।
कार्म्मण = न० कर्म्मैव कर्म्मन् + “तद्युक्तात् कर्म्मणोऽण्” पा० अण्। १ वाचिकं श्रुत्वा क्रियमाणे कर्म्मणि सि० कौ०। कर्म्मणे हितम् अण्। २ मूलकर्म्मणि मन्त्रौषध्यादिभिर्वश्यादि करणे अमरः (यादुकरा)। “कार्म्मणत्वमगमन् रमणेषु” माघः। ततः स्वार्थेऽण् स्वार्थिकप्रत्ययस्य क्वचित् प्रकृतिलिङ्गाति क्रम विधानात् कार्म्मणी त्त्रार्थे स्त्री०। “धौतं नद्या किमिदमथवा कार्मणी माथुरीणाम्” उद्धवदू० कार्मणमिति तु ज्यायः। ३ मन्त्रादियोगविद्यायाम् न० कर्म्म साध्यत्वेन अस्त्यस्य अण्। ४ कर्म्मदक्षे त्रि मेदि०। प्रपञ्चसारोक्तमलत्रयान्तर्गते ५ मलभेदे च। “मायिकं नाम योषोत्यं पौरुषं कार्मणं मलम्। आलव्यं तद्द्वयं प्रोक्तं निषिद्धं तन्मलत्रयम्” “ज्योतिर्मन्त्रेण विधिवद्दहेन्मलत्रयं यती” तन्त्रसा०।
कार्म्मार = पु० कार्म्मारएव स्वार्थेऽण्। १ कर्म्मकारे (कामार) “कार्म्मारो अश्मभिर्द्युतिभिः” ऋ० ९, ११२, २। “कार्म्मारः अयस्कारः” भा०। कर्म्मारस्यापत्यम् शिवा० अण्। २ कर्म्मकारावत्ये पुंस्त्री स्त्रियां ङीप्।
कार्म्मारक = त्रि० कर्म्मारेण कृतं कुलाला० वुञ्। कर्म्मकारकृते।
कार्म्मार्य्यायणि = पुंस्त्री कर्मारस्यापत्यं फिञ् नि०। कर्मकारापत्ये स्त्रियां वा ङीप्।
कार्म्मिक = त्रि० कर्म्मणा चित्रक्वर्म्मणा निर्वृत्तः ठक्। निष्पत्त्युत्तरं चित्रसूत्रैः चक्रस्वस्तिकादिचिह्नयुक्ततया क्रियमाणे प्रटादौ। “कार्म्मिके रोमबद्धे च त्रिं शद्भागःक्षयोमतः” याज्ञ०। “कार्म्मिकं कर्म्मणा चित्रेण निर्म्मितम्। यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रसूत्रैः क्रियते तत्कार्मिक सित्युच्यते” मिता०। तस्य भावः पुरोहि० यक्। कार्मिक्य तद्भावे न०।
कार्म्मुक = न० कर्म्मणे प्रभवति उकञ्। १ धनुषि अमरः। “कार्म्मुकेणेव गुणिना वाणः सन्धानमेष्यति” माषः। “विहाय लक्ष्मीपतिलक्ष्म कार्मुकम्” किरा०। २ कर्म्मक्षमे त्रि० मेदि०। कार्मुकं साध्यत्वेनास्त्यस्य अच्।। ३ वंशे मेदि०। ४ श्वेतखदिशे ५ हिज्जलदृक्षे ६ महानिम्बेच पु० राजनि०। मेषादिषु नवमे ७ राशौ “कार्मुकं तु परित्यज्य ऋषं (मकरम्”) संक्रमते रविः। प्रभाते चार्द्धरात्रे च स्नानं कुर्य्यात् परेऽहनि” कालमा० भविष्यपु०। कृमुकस्येदम् अण्। ८ कृमुकसंबन्धिनि त्रि० स्त्रियां ङीप्। “अग्नावारूढे त्रयोदशास्यां प्रादेशमात्राः समिध आदधाति” “घृतोन्नां कार्मुकीं द्र्वन्नः” इति कात्या० श्रौ० १६, ४, ३३, ३५,। अत्र कृमुकः धमनवृक्ष” कर्कः। म च श्वेतखदिरः। अतएव स्वार्थे अणन्ततया श्वेतखदिरार्थतेत्युक्तं राजनि०। तूलस्फोटने तदाकारे (आचडा) (धुनारा) इतिख्याते ९ यन्त्रेभेदे। अग्निपुराणे धनुर्वेदप्रकरणे धन्विनां वैशाखादिस्थानपञ्चकमुक्त्वा धनुः शिक्षाप्रकारलक्षणादिकमुक्तं यथा
“कार्मुकं गृह्य वामेन वाणं दक्षिणकेन तु। वैशाखे यदि वा स्थाने संस्थितोऽप्यथ वाऽऽयते। गुणाढ्यं तु ततः कृत्वा कार्मुकं प्रियकार्मुकः। अधः कोटिन्तु धनुषः फलदेशन्तु पत्रिणः। धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च। भुजाभ्यां मन्दकुब्जाभ्यां प्रकोष्ठाभ्यां दृढव्रतः। न्यस्येत्वाणं धनुःश्रेष्ठे पुङ्घदेशञ्च पत्रिणः। विन्यासो धनुषश्चैव द्वादशाङ्गुलमन्तरम्। ज्यया विशिष्टः कर्त्तव्यो नातिहीनो नचाधिकः। निवेश्य कार्मुकं नाभ्यां (धनुर्मध्ये) नितान्तं सशरं करम्। उत्क्षिपेदुन्नतं हस्तमन्तरेणाक्षिकर्ण्णयोः। पूर्ब्बेण मुष्टिना ग्राह्यं तलाग्रे दक्षिणे शरम्। हरणन्तु ततः कृत्वा शीघ्रं पूर्ब्बं प्रसारयेत्। नाभ्यन्तरा नैव बाह्या नोर्द्धका नावरा तथा। न च कुब्जा न चोत्ताना न चला नातिवेष्टिता। ममास्थैर्य्ये गुणोपेता मौर्वी दण्डैव स्थिता। छादयित्वा ततोलक्ष्यं पूर्ब्बणानेन मुष्टिना(वाममुष्टिना)। उरसा तूत्थितो यन्ता त्रिकोणावनतस्थितः। स्तब्धाङ्गो निश्चल ग्रीवो मयूराञ्चितमस्तकः। ललाटनासावक्त्रांसाः कुर्परोऽस्य समोभवेत्। अन्तरे द्व्यङ्गुलं ज्ञेयं चिवुकस्यास्यकस्य च। प्रथमं त्र्यङ्गुलं प्रोक्तं द्वितीये द्व्यङ्गुलं तथा। तृतीयेऽङ्गुलमुद्दिष्टमायतं त्तिवुकास्ययोः। गृहीत्वा सायकं तूण्या मयूराञ्चितमस्तकः। तर्ज्जन्याङ्गुष्ठकेनाथ पूरयेत् सायकं पुनः। अनामया पुनर्गृह्य तथा मध्यमयाऽपि च। तावदाकर्षयेद्वेगात् यावद्वाणःप्रपूरितः। एवंविधमुपक्रम्य मोक्तव्योविधिवत् खगः। दृष्टिमुष्टिगतं लक्ष्यं भिन्द्याद्वाणेन सुव्रतः। त्यक्त्वा तु पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः। एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज!। कुर्परं तदध। कुर्य्यादाकृष्य तु धनुष्मता। ऊर्द्ध्वं वै लस्तके (धनुर्मध्ये) कुर्य्यादङ्कश्लिष्टन्तु मध्यमम्। ज्येष्ठं प्रकृष्टं विज्ञेयं धनुः शास्त्रविशादैः। ज्येष्ठस्तु सायको ज्ञेयोभवेद्द्व्यदश मुष्टिकः। एकादशस्तथा मध्यः कनीयान् दशमुष्टिकः। चतुर्हस्तं धनुः श्रेष्ठं त्रयं सार्द्धन्तु मध्यमम्। कनीयस्तु त्रयं प्रोक्तं नित्यमेव पदातिनः। अश्वे रथे गजे ज्येष्ठः सदैव परिकीर्त्तितः”
“पूर्णायतं द्विजः कृत्वा ततो मांसैर्गतायुषाम्। सुनिर्धौतं ततः कृत्वा यज्ञभूमौ विधानवत्। ततो वाणं समागृह्य दंशितः सुसमाहितः। तूणमासाद्य बन्धीयात् दृढां कक्ष्याञ्च दक्षिणाम्। विलक्ष्यमपि लब्धा यस्तत्र चैव सुसंस्थितः। ततः समुद्धरेद्वाणं तूणाद्दक्षिणपाणिना। तेनैव सहितं भध्ये शरं संगृह्य धारयेत्। आकृष्य ताडयेत्तत्र चन्द्रकं (चन्द्राकारलक्ष्यम्) षोडशाङ्गुलम्। युक्त्वा वाणं ततः पश्चाद्धनुः शिक्षा ततःस्मृता। निगृह्णीयान्मध्यमया ततोऽङ्गुल्या पुनः पुनः। अक्षिलक्ष्यात् क्षिपेत्तूणाच्चतुरस्रं तु दक्षिणम्। चतुरस्रगतं वेध्यमभ्यस्येच्चादितः स्थितम्। तस्मादनन्तरं तीक्ष्णं परादृत्तगतं च यत्। निम्रमुन्नतवेध्यञ्च अभ्यस्येत् क्षिप्रकं ततः। वेध्य स्थानेष्वथैतेषु सन्न्यस्य पुटकं धनुः। हस्तावापशतैश्चित्रैस्तर्जयेद्दुर्जरैरपि। तस्मिन् मध्यगते विप्र! द्वे वेध्ये दृढ सङ्गरे। द्वे वेध्ये द्वे तथा चित्रदुष्करे दृढदुष्करे। न तु निम्नञ्च तीक्ष्णञ्च दृढवेध्ये प्रकीर्त्तिते। निम्नं दुष्करमुद्दिष्टं वेध्यं मुर्द्ध्नि शतञ्चरेत्। लस्तकायनमध्ये तु चित्रदुष्करसंज्ञके। एवं वेध्यगणं कृत्वा दक्षिणेनेतरेण च। आरोहेत् प्रथमं वीरोजितलक्ष्यस्ततो नरः। एष एव विधिः प्रोक्तस्तत्र दृष्टः प्रयोक्तृभिः। अधिकं भ्रमणं तस्य तस्माद्विष्वक् प्रकीर्त्तितम्। लक्ष्य संयोजयेत्तत्र पत्रिपत्र गतं दृढम्। भ्रान्तं प्रचलितं चैव स्थिरं यच्च भवेदिति। समन्तात्ताडयेद्भिन्द्याच्छेदयेद् व्यथयेदपि। कर्म्मणा संविधानज्ञो ज्ञात्वैव विधिमाचरेत्। मनसा चक्षुषा दृष्ट्वा योगसिद्धिं ध्रुवं व्रजेत्”। १० वृत्तक्षेत्रस्य परिध्यर्द्धात्मके रेखाभेदे ११ तदीयांशभेदे च तयोर्धनुराकारत्वात्तथात्वम्। तदानयनप्रकारः जीवानयनप्रकारसुक्त्वा लीला० दर्शितोयथा।
“अथ चापानयनाय करणसूत्रं वृत्तम्। व्यासा ब्धिघातयुतमौर्व्विक्तया विभक्तो जीवाब्धिपञ्चगुणितः परिधेस्तु वर्ग्गः। लब्धोचितात्परिधिवर्ग्ग चतुथैभागादाप्ते पदे वृतिदलात्पतिते धनुः स्यात्”।
“उदाहरणम्। विहिताइह ये गुणास्ततोवद तेषा मधुना धनुर्मितिम्। यदि तेऽस्ति धनुर्ग्गुणक्रियागणिते गाणितिकातिनैपुणम्” न्यासः। ४२। ८२। १२०। १५४। २०८। २२६। २२६। २४०। [एता जीवासंख्या यथा भवन्ति तथा जीवाशब्दे वक्ष्यते] सएवापवर्त्तितः परिधिः १८। ४२ जीवाङ्घ्रिणा २१/२ पञ्चभि ५ श्च परिधेः १८ र्वर्ग्गो ३२४ गुणितः। १७०१०। व्यासाब्धि २४०। ४ घात ९६० युत ४२ भौर्विकयानया १००२ विभक्तोलब्धो १७ऽत्राङ्कलाघवाय चतुर्विंशतेर्द्व्यधिकसहस्रांशयुतोगृहीतोऽनेनोनितात्परिधि १८। ३२४ वर्ग्ग चतुर्थभागात् ८१ (१७ उनितात्) ६४ पदे प्राप्ते ८ वृति १८ दलात् ९। पतिते १ जातं धनुः एवं जातानि धनूंषि। १। २। ३। ४। ५। ६। ७। ८। ९। एतानि परिधिष्वष्टादशांशेन गुणितानि स्य्ः”। एवं ८२ स्ंख्यादौ कल्प्यम्। “दलीकृतं चक्रमुशन्ति चापम्” इति सि० शि० उक्ते १२ राशिचक्रस्यार्द्धरूपे खण्डे च तस्य च जीवाभेदेनान्यविधा मितिः यथोक्त तत्रैव “ज्प्तां प्रोज्झ्य तत्त्वाश्वि २२५ हतावशेषं यातैष्यजीवाविवरेण भक्तम्। जीवा विशुद्धा यतमा च तज्ज्ञैस्तत्वाश्विभिस्तत् सहितं धनुःस्यात्” “यस्य धनुः साध्यं तस्माद्या जीषा विशुध्यति सा शोध्या शेषात्तत्वाश्वि २२५ गुणाद्गतागामिज्यान्तरहताद्यल्लभ्यते तत्स्थाप्यं ततोयतमा जीवा विशुद्धा तद्गुणितैस्तत्त्वाश्विभिः २२५ सहितं धनुः स्यात्” प्रमि०
सू० सि० रङ्गनाथाभ्याञ्च तथैवोक्तं यथा। “ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धतम्। सङ्क्यातत्त्वाश्विसंवर्गे संयोज्य धनुरुच्यते” सू० सि०।
“यस्य धनुः कर्त्तुमिष्टं तस्मिन्नशुद्धपूर्वं ज्यापिण्डं न्यूनीकृत्य शेषं पञ्चाकृति २२५ गुणं तद्विवरोद्धृतं तयोः शुद्धाऽशुद्धपिण्डयोरन्तरेण भक्तं फलं शुद्धा ज्या यतमा यतमसङ्ख्या तत्त्वाश्विनोः संवर्गे घाते संयोज्य सिद्धं धनुः कथ्यते। अत्रोपपत्तिः। ज्या यतमा शुद्ध्यति ततमा याश्चापकलास्ततमसङ्ख्यागुणिततत्त्वाश्विनः। यदि ज्यान्तरेण तत्त्वाश्रिकलास्तदा शेषज्यया का? इत्यनुपातागतफलयुता इति वैपरीत्येन सुगमतरा”। अधिकं जीवाशब्दे वक्ष्यते।
कार्म्मुकासन = न०। रुद्रायामलोक्ते आसनभेदे तल्लक्षणं यथा “कार्मुकासनमाकुर्य्यादुदरे पूरयेन्मुखम्। तदा वायुरधोयाति कालेन सूक्ष्मवायुना कृत्वा पद्मासनं मन्त्री वेष्टयित्वा च धारयेत्। करेण दक्षिणेनैव वामपादाङ्गुली तथा। सव्यापसव्यद्विगुणं कार्मुकासनमेव च। कार्मुकद्वययोगेन शववद्वायुमानयेत्” रुद्रयामले।
***