कायचिकित्सा = स्त्री ६ त० अष्टविधेषु आयुर्वेदाङ्गेषु मध्ये सुश्रुतोक्ते चिकित्साङ्गभेदे। “ततोऽल्पायुष्ट्वमल्पमेधस्त्वञ्चावलोक्य नराणां भूयोऽष्टधा प्रणीतवान्–तद्यथा शल्यं शालक्यं कायचिकित्सा भूतविद्या कौमारभृत्यमगदतन्त्रं रसायनतन्त्रं वाजीकरणतन्त्रमिति” विभज्य सुश्रुते लक्षितं यथा “कायचिकित्सा नाम सर्व्वाङ्गसंसृतानां व्याधीनां ज्वरातिसाररक्तपित्तशोथोन्मादापस्मारकुष्ठादीनामुपशमनार्थम्”।
कायबन्धन = न० कायं बध्नाति बन्ध–ल्यु। चेतनाधिष्ठेते शुक्र शोणितयोः संयोगभेदे। “भोक्तुरधिरष्ठानात् भोगायतननिर्म्माणमन्यथा पूतिभावप्रसङ्गात्” सा० सू० चेतनाधिष्ठानेनैव शुक्रशोणितसंयोगस्य देहारम्भहेतुत्वीक्तेस्तस्य तथात्वम्।
कायमान = न० कायस्य मानमिव मानमस्य। २ पर्ण्णकुटीरे त्रिका०। तस्य विशालत्वाभावेन काममात्रपरिच्छेदकत्वात्तन्मानत्वम्। ६ त०। २ देहपरिमाणे न०।
कायरूपसंयम = पु० मात० सूत्राद्युक्ते ध्यानविशेषरूपे संयम भेदे स च तत्र सविस्तरं फलसहितो दर्शितो यथा। “कायरूपसयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुप्रकाशासंयोगेऽन्तर्द्धानम्” सू०।
“कायरूपे संयमाद्रूपस्य या ग्राह्मा शक्तिस्तां प्रतिबध्नाति ग्राह्यशक्तिस्तम्भे सति चक्षुःप्रकाशासंयोगेऽन्तर्धानमुत्पद्यते योगिनः। एतेन शब्दाद्यन्तर्द्धानमुक्तं वेदितव्यम्” व्यासभाष्य०।
“पञ्चात्मकः कायः स च रूपवत्तया चाक्षुषो भवति रूपेण हि कायश्च तद्रूपञ्च चक्षुर्ग्रहणकर्मशक्तिमनुभवति तत्र यदा रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य ग्राह्यशक्तौ रूपवत्कायप्रत्यक्षताहेतुः स्तभ्यते तस्मात् ग्राह्यशक्तिस्तम्भे सत्यन्तर्द्धानयोगिनस्ततः परकीयचक्षुर्जनितेन प्रकाशेन ज्ञानेनासम्प्रयोगः चक्षुर्ज्ञानाविषयत्वं योगिनः कायस्यैवेति यावत् तस्मिन् कर्त्तव्येऽन्तर्द्धानं कारणमित्यर्थः। एतेनेति कायशब्दस्पर्शरसगन्धसंयमात्तदुग्राह्यशक्तिस्तम्भे श्रोत्रत्वग्रसनघ्राक्षप्रकाशासम्प्रयोगेऽन्तर्द्धानमिति” विव०।
कायवलन = न० कायोवल्यते आच्छाद्यतेऽनेन वल–स्तृतौ करणे ल्युट्। कवचे वर्मणि हारा०।
कायव्य = पु० भारतोक्ते दस्युप्रभुभेदे तदुत्पत्तिकथादि भा० शा० १३५ अ० यथा।
“निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः। कायव्यो नाम नैषादिर्दस्युत्वात् सिद्धिमाप्तवान्। अरण्ये सायं पूर्ब्बाह्णे मृगयूथप्रकीपिता। विधिज्ञो मृगजातीनां नैषादानाञ्च कोविदः। सर्व्वकालप्रदेशज्ञः पारियात्रचरः सदा। धर्भज्ञः सर्व्वभूतानाममोघेषुर्दृढायुधः। अप्यनेकशता सेना एक एव जिगाय सः। स वृद्धावन्धबधिरौ महारण्येऽभ्यपूजयत्। मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि। सत्कृत्य भोजयामास मान्यान् परिचचार च। आरण्यकान् प्रव्रजितान् ब्राह्मणान् परिपूजयन्। अपि तेभ्यो मृगान् हत्वा निनाय सततं वने। येऽस्मान्न प्रतिगृह्णन्ति दस्युतो जनशङ्कया। तेषामासज्य गेहेषु कल्य एव स गच्छति। बहूनि च सहस्राणि ग्रामणीत्वेऽभिवव्रिरे। निर्मर्य्यादानि दस्यूनां निरनुक्रोशवर्त्तिनाम्। दस्यवः ऊचुः। मुहूर्त्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः। ग्रामणीर्भव नो मुख्यः सर्वेषामेव सङ्गतः। यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा। पालयास्मान् यथान्यायं यथा माता यथा पिता। कायव्य उवाच। सा बधास्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्। नायुध्यमानो हन्तव्यो न च ग्राह्या बलात् स्त्रियः। सर्व्वथा स्त्री न हन्तव्या सर्व्वसत्त्वेषु केनचित्। नित्यन्तु ब्राह्मणे स्वस्ति योद्धव्य्ञ्ज तदर्थतः। सत्यञ्च नाभिहन्तव्यं सारबिघ्नञ्च मा कृथाः। पूज्यते यत्र देवाश्च पितरोऽतिथयस्तथा। सर्व्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति। कार्य्या चोपचितिस्तेषां सर्व्वस्वेनापि या भवेत्। यस्य ह्येते सम्प्ररुष्टा मन्त्रयन्ति पराभवम्। न तस्य त्रिषु लोकेषु त्राता भवति कश्चन। यो ब्राह्मणान् परिवदेद्विनाशञ्चापि रोचयेत्। सूर्य्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः। इहैव फलमासीनः प्रत्य काङ्क्षेत सर्वशः। ये ये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यति। शिष्ठ्यर्थं विहितो दण्डो न वृद्ध्यर्थं विनिश्चयः। ये च शिष्टान् प्रवाधन्ते दण्डस्तेषां बधः स्मृतः। ये च राष्ट्रापरोधेन वृद्धिं कुर्वन्ति केचन। तदैव तेऽनुमीयन्ते कुणपे क्रमयो यथा। ये पुनर्द्धर्म्मशास्त्रेण वर्त्तेरन्निह दस्यवः। अपि ते दस्यवो भूत्वा क्षिप्र सिद्धिमवाप्नुयुः”।
कायव्यूह = काये वातादीनां धातूनां सप्तानां त्वगादीनाञ्च व्यूहो व्यूहनम्। कायस्थवातादोनां विन्यासे “नाभिचक्रे कायव्यूहज्ञानम्” पात० सू० “नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात्। वातपित्तश्लेष्माणस्त्रयो दोषाः सप्त सन्ति धातवः–त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि पूर्ब्बं पूर्ब्बमेषां बाह्यमित्येवंविन्यासज्ञानम्” भा०। ६ त०। योगिभिः कर्मभोगार्थं कल्पिते २ कायसमुदाये च यथा च भोगार्थं कायव्यूहरचना तथा चिन्तामणौ मुक्तिवाटे उक्तं यथा “यत्तु माऽभुक्तमिति स्मृतिविरोधेन क्षीयन्तैत्यादिश्रुतेरन्यथार्थवर्णनं, तन्नस्मृतेः प्रत्यक्षवेदबाधितत्वेन तद्विरुद्धार्थ कवेदाननुमापकत्वात्। वामदेवसौभरिप्रभृतीनां कायव्यूहश्रवणात्तत्त्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षय इति चेन्न तपःप्रभावादेव तत्त्वज्ञानानुत्पादे वा कायव्यूहसम्भवात्। भोगजननार्थञ्च कर्मभिरवश्यं तत्तत्कायनिष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः। यौगपद्यञ्च कायानां तज्जनकधर्मस्वभावात् तपःप्रमावाद् वा”।
एकस्यैव जौवस्य चित्तान्तराणिकायेन्द्रियाणि च निर्म्माय तत्तत्कर्म्मभोगार्थरचितकायव्यूहेन योग इत्येतत् शा० भा० समर्थितं यथा। “सङ्कल्पादेव तु तच्छ्रुतेः” शा० सू०। “हार्दविद्यायां श्रूयते–“स यदि पितृलोककामोभवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीत्यादि”। तत्र संशयः–किं सङ्कल्प एव केवलः पित्रादिसमुत्थानहेतुः उत निमित्तान्तरसहितः? इति। तत्र सत्यपि सङ्कल्पादेवेति श्रवणे लोकवन्निमित्तान्तरापेक्षा युक्ता यथा लोकेऽस्मदादीनां सङ्कल्पाद् गत्यादिभ्यश्च हेतुभ्यः पित्रादिसम्पत्तिर्भवत्येवं मुक्तस्यापि स्यात् एवं दृष्टविपरीतं न कल्पितं भविष्यति। सङ्कल्पादेवेति तु राज्ञैव सङ्कल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्योच्यते। न च सङ्कल्पमात्रसमुत्थानाः पित्रादयोमनोरथविजृम्भितवच्चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्य्याप्नुयुरित्येवं प्राप्ते ब्रूमः–सङ्कल्पा देव तु केवलात् पित्रादिसमुत्थानमिति। कुतः? तच्छ्रुतेः “सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीत्यादिका” हि श्रुति र्निमित्तान्तरापेक्षायां पीद्ध्येत। निमित्तान्तरमपि यदि सङ्कल्पानुविधाय्येव स्याद्भवतु न तु प्रयत्नान्तरसम्पाद्यं निमित्तान्तरमिष्यते प्राक् तत्सम्पत्तेर्बन्ध्यसङ्कल्पत्वप्रसङ्गात्। न च श्रुतिगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते। सङ्कल्पबलादेव चैषां यावत्प्रयोजनं स्थैर्य्यो- पपत्तिः, प्राकृतसङ्कल्पविलक्षणत्वान्मुक्तसङ्कल्पस्य” भा०। “अतएव चानन्याधिपतिः” सू० “अतएव चाबन्ध्यसङ्कल्पत्वाद नन्याधिपतिर्विद्वान् भवति नास्यान्योऽधिपतिर्भवतीत्यथः। न हि प्राकृतोऽपि सङ्कल्पयन्नन्यस्वामिकत्वमात्मनः सत्यां गतौ सङ्कल्पयति। श्रुतिश्चैतद्दर्शयति “अथ य इहात्मान मनुविद्य प्रव्रजन्त्येतांश्च सत्यान् कामान् तेषां सर्वेषु लोकेष कामचारोभवतीति” भा०। “अभावं वादरिराह ह्येवस्” सू० “सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति” इत्यतः श्रुतेर्मनस्तावत्सङ्कल्पसाधनं सिद्धं शरीरेन्द्रियाणि पुनः प्राप्तौश्वर्य्यस्य विदुषः सन्ति न सन्तीति समीक्ष्यते तत्र वादरिस्तावदाचार्य्यः शरीरस्येन्द्रियाणाञ्चाभावं महीयमानस्य विदुषो मन्यते। कस्मात्? एवं ह्याहाम्नायः “मनसैतान्कामान् पश्यन् रमते यत्र ते ब्रह्मलोकः” इति। यदि मनसा शरीरेन्द्रियैश्च विहरेत् मनसेति विशेषणं न स्यात्। तस्मादभावः शरीरेन्द्रियाणां मोक्षे” भा० “भावं जैमिनिर्विकल्पामननात्” सू० “जैमिनिराचार्य्योमनोवच्छरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते, यतः “स एकधाभवति त्रिधा भवति” इत्यादिनाऽनेकधाभावकल्पमामनन्ति नह्यनेकविधता विना शरीरभेदेनाञ्जसी स्यात्। यद्यपि निर्गुणायां भूमविद्यायामयमनेकधाभावे विकल्पः पठ्यते, तथापि विद्यमानमेवेदं सगुणावस्थायामैश्वर्यं भूमविद्यास्तुतत्ये सङ्कीर्त्यत इत्यतः सगुणविद्याफलभावेनोपतिष्ठत इत्युच्यते” भा० “द्वादशाहबदुभयविधं वादरायणोऽतः” सू० “वादरायणः पुनराचार्य्योऽतएवोभयलिङ्गश्रुतिदर्शनादुभयविधत्वं साधु मन्यते, यदा सशरीरतां सङ्कल्पयति तदा सशरीरो भवति, यदा त्वशरीरतां तदा अशरीर इति सत्यसङ्कल्पत्वात् सङ्कल्पवैचित्र्याच्च, द्वादशाहवत्–यथा द्वादशाहः सत्रमह्रीनश्च भवति उभयलिङ्गश्रुतिदर्शनात् एवमिदमपीति” भा० “तदभावे सन्ध्यवदुपपद्यते” सू० “यदा तु सेन्द्रियम्य शरीरस्याभावस्तदा यथा सन्ध्ये स्थाने शरीरेन्द्रियविषयेष्वविद्यमानेष्वप्यपलब्धिमात्राएव पित्रादिकामाभवन्त्येवं मोक्षेऽपि स्युः एवं तदुपपद्यते” भा० “भावे जाग्रद्वत्” सू० “भावे पुनस्तनोर्यथा जागरिते विद्यमानाएव पित्रादिकामासवन्त्येवं मुक्तस्याप्युपपद्यन्ते” भा० “प्रदीपवदावेशस्तथाहि दर्शयति” सू० “भावै जैमिनिर्विकल्पामननादित्यत्र सशरीरत्वं मुक्तस्योक्तं तत्र त्रिधा भावादिष्वनेकशरीरसर्गे किं निरात्मकानि शरीराणि दारुयन्त्रवत् सृज्यन्ते? किं वा सात्मकानि? अस्मदादिशरीरवदिति भवति वीक्षा। तत्रात्ममनसोर्भेदानुपपत्तेरेकेन शरीरेण योगादितराणि निरात्मकानीत्येवं प्राप्ते प्रतिपद्यते प्रदीपवदावेश इति। यथा प्रदीपएकोऽनेकप्रदीपभावमापद्यते विकारशक्तियोगात्, एवमेकोऽपि सन् विद्वानैश्वर्य्ययोगादनेकभावमापद्य सर्व्वाणि शरीराण्याविशति। कुतः! तथाहि दर्शयति शास्त्रमेकस्यानेकभावम् “स एकधा भवति त्रिधा भवति पञ्चधा सप्तधेत्यादि”। नैतद्दारुयन्त्रोपमाभ्युपगमेऽवकल्पते नापि जीवान्तरावेशे। न च निरात्मकानां शरोराणां प्रवृत्तिः सम्भवति। यत्त्वात्ममनसोर्भेदानुपपत्तेरनेकशरीरयोगासम्भव इति नैष दोषः एकमनोऽनुवृत्तीनि समनस्कान्येवापराणि शरीराणि सत्यसङ्कल्पत्वात् स्रक्ष्यति। सृष्टेषु च तेषूपाधिभेदादात्मनोऽपि भेदेनाधिष्ठातृत्वं याक्ष्यते। एषैव च योगशास्त्रेषु योगिनामनेकशरीरयोगप्रकिया” भा०। यथा च परशरोरे चित्तस्यावेशस्तथा पात० सू० भाष्ययोः दर्शितं यथा “बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः” पात० सू० “लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद्बन्धः प्रतिष्ठेत्यर्थः तस्य कर्मणोबन्धकारणस्य शैथिल्यं समाधिबलाद्भवति प्रचारसंवेदनञ्च चित्तस्य समाधिजमेव, कर्मबन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच्च यागी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निःक्षिपति निःक्षिप्तं चित्तञ्चेन्द्रियाण्यनुपतन्ति यथा मधुकरराजानं मक्षिका उत्पतन्तमनुत्पतन्ति, निविशमानमनुनिविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनुविधीयन्त” इति व्यासभा०।
कायसम्पद् = स्त्री ६ त०। “रूपलावण्यबलवज्रसंहननत्वानि कायसम्पदः” पात० सूत्रोक्ते रूपलावण्यादौ। “ततोऽणिमादिप्रादुर्भावः कायसम्पद्धर्मानभिघातश्च” पात० सू०। व्याख्यातमिदमैश्वर्य्य शब्दे तच्च १५५१ पृ० दृश्यम्।
कायस्थ = पु० कायेषु सर्वभूतरूपदेहेषु तिष्ठति अन्तर्यामि तया स्था–क ७ त०। १ परमात्मनि मेदि०। यथा च सर्व्व शरीरेषु अधिष्ठातृतयास्य स्थितिस्तथा अन्तर्यामिब्राह्मणे दर्शितं तच्च वाक्यं १३० पृ० दर्शितम्। २ जातिभेदे कर णरूपे व्रात्यक्षत्रिये करणशब्दे तस्य विवृतिः।
अथ कायस्थानां शूद्रत्वाशूद्रत्वविषये बहुधा विप्रतिपत्तिरस्ति अतस्तन्निरूपणाय प्रमाणान्युद्धृत्य मीमांस्यते। “एवं हत्वाऽर्ज्जुनं रामः सन्धाय निशितान् शरान्। एक एव ययौ हन्तुं सर्व्वानेवातुरान् नृपान्। केचित् गहनमाश्रित्य केचित् पातालमाविशन्। सगर्भा चन्द्रसेनस्य भार्य्या दाल्भ्याश्रमं ययौ। ततो रामः समायातो दाल्भ्याश्रममनुत्तमम्। पूजितो मुनिना सद्यः पाद्यार्ध्याचमनादिभिः। ददौ मध्याह्नसमये तस्मै भोजनमादरात्। रामस्तु याचयामास हृदिस्थं स्वं मनोरथम्। याचयामास रामाच्च कामं दाल्भ्यो महामुनिः। ततस्तौ परमप्रीतौ भोजनं चक्रतुर्मुदा। भोजनानन्तरं दाल्भ्यः पप्रच्छ भार्गवं प्रति। यत्त्वया प्रार्थितं देव! तत् त्वं शंसितुमर्हसि। राम उवाच तवाश्रमे महाभाग! सगर्भा स्त्री समागता। चन्द्रसेनस्य राजर्षेः क्षत्रियस्य महात्मनः। तन्मे त्वं प्रार्थितं देहि हिसेयं तां महामुने!। ततो दाल्भ्यः प्रत्यवाच, ददामि तव वाञ्छितम्। दाल्भ्य उवाच। स्त्रियं गर्भममुं बालं तन्मे त्वं दातुमर्हसि। ततो रामोऽब्रवीद्दाल्भ्यं यदर्थमहमागतः। क्षत्रियान्तकरश्चाहं तत् त्वं याचितवानसि। प्रार्थितश्च त्वया विप्र! कायस्थो गर्भ उत्तमः। तस्मात् कायस्थ इत्याख्या भविष्यति शिशोः शुभा। एवं रामो महाबाहुर्हित्वा तं गर्भमुत्तमम्। निर्जगामाश्रमात् तस्मात् क्षत्रियान्तकरः प्रभुः। कायस्थ एष उत्पन्नः क्षत्रायां क्षत्रियात्ततः। रामाज्ञया स दाल्भ्येन क्षत्रधर्म्मात् बहिष्कृतः। कायस्थधर्म्मोदत्तोऽस्मै चित्रगुप्तस्य यः स्मृतः। तद्गोत्रजाश्च कायस्था दाल्भ्यगोत्रास्ततोऽभवन्। दाल्भ्योपदेशतस्ते वै धर्म्मिष्ठाः सत्यवादिनः। सदाचारपरानित्यं रता हरिहरार्च्चने। देवविप्रपितॄणाञ्च अतिथोनाञ्च पूजकाः” इति स्कान्दे रेणकामाहात्म्यम्। अत्र क्षात्रधर्म्मद्बहिष्कृतः इत्यनेन सगरेण काम्बोजादीनामिव तस्य तद्वंशस्य च क्षत्रियधर्म्मयुद्धोपनयनादिराहित्यप्रतीतावपि चित्रगुप्तधर्म्मत्वदानकथनेनोपनयनादिमत्त्वं वेदाधिकारित्वं च सूचितं तेन केबलयुद्धादिराहित्यमात्रं चित्रगुप्तधर्म्मत्वदानेन लेखनाधिकारः सूचितः। चित्रगुप्तधर्म्मश्च तदुत्पत्तिसहितः पद्मपुराणे सृष्टिखण्डे उक्तोयथा– “क्षणं ध्यानस्थितस्यास्य सर्व्वकायाद्विनिर्गतः। दिव्यरूपः पुमान् विभ्रत् मसीपात्रञ्च लेखनीम्। चित्रगुप्त इति ख्यातो धर्म्मराजसमीपतः। प्राणिनां सदसत्कर्म्मलेखाय स निरूपितः ब्रह्मणा,ऽतीन्द्रियज्ञानी देवाग्न्योर्यज्ञभुक् स वै। भोजनाच्च सदा तस्माद हुतिर्दीयते द्विजः। ब्रह्मकायोद्भवो यस्मात् कायस्थो वर्ण उच्यते। नाना- गोत्राश्च तद्वंश्याः कायस्था भुवि सन्ति वै”। भविष्य पुराणे च। दत्तात्रेय उवाच। त्रिकालज्ञं महाप्राज्ञं पुलस्त्यमुनिपुङ्गवम्। उपसंगम्य पप्रच्छ भीष्मः शास्त्रभृतां वरः। चतुर्णामपि वर्णानामाश्रमाणां तथैव च। सम्भवः सङ्करादीनां श्रुतो विस्तरतो मया। कायस्थोत्पत्तयो लोके ख्याताश्चैव महामुने!। भूय एव महाप्राज्ञ! श्रोतुमिच्छामि तत्त्वतः। वैष्णवा दानशीलाश्च पितृयज्ञपरायणाः। सुधियः सर्वशास्त्रेषुकाव्यालङ्कारबोधकाः। पोष्टारो निजवर्गाणां ब्राह्मणानां विशेषतः। तानहं श्रोतुमिच्छामि कथयस्व महामुने एतन्म संशयं विप्र! वक्तुमर्हस्यशेषतः। इति पृष्टो मुनिप्राज्ञः गाङ्गेयं! प्राह तत्त्वतः। पुलस्त्य उवाच। शृणु गाङ्गेय! वक्ष्यामि कायस्थोत्पत्तिकारणम्। न श्रुतं यत् त्वया पूर्व्वं तन्मे कथयतः शृणु। येनेदं सकलं विश्वं स्थावरं जङ्गमं तथा। उत्पाद्य पाल्यते भूयो निधनाय प्रकल्प्यते। अव्यक्तः पुरुषः शान्तो ब्रह्मा लोकपितामहः। यथाऽसृजत् पुरा विश्वं कथयामि तव प्रभो!। मुखतोऽस्य द्विजा जाता बाहुभ्यां क्षत्रियास्तथा। ऊरुभ्याञ्च तथा वैश्याः पद्भ्यां शूद्राः समुद्भवाः। द्विचतुःषट्पदादींश्च प्लवङ्गमसरीसृपान्। एककालेऽसृजत् सर्व्वं चन्द्रसूर्य्यग्रहांस्तथा। एवं बहुविधानेन विश्वमुत्पाद्य भारत!। उवाच तं सुतं ज्येष्ठं कश्यपं चातितेजसम्। प्रतियत्नेन भोः पुत्र! जगत्पालय सुव्रत!। इत्याज्ञाप्य सुतं ज्येष्ठं ऋषिसम्भवहेतुकम्। ततस्तु ब्रह्मणा तेन यत् कृतं तन्निबोध मे” “दश वर्षसहस्राणि दश वर्षशतानि च। समाधिस्थोऽभवत् प्राणान् संयम्य शान्तमानसः। ततः समाहितमतेयद्भूतं तद्वदामि ते। तच्छरीरान्महाबाहुः श्यामः कमललोचनः। कम्बुग्रीवो गूढशिराः पूर्णचन्द्रनिभाननः। लेखनोच्छेदनीहस्तो मसीभाजनसंयुतः। निःसृत्य दर्शने तस्थौ ब्रह्मणोऽव्यक्त जन्मनः। उत्तमः सुविचित्राङ्गः ध्यानस्तिमितलोचनः। त्यक्त्वा समाधिं गाङ्गेय! तं ददर्श पितामहः। अधऊर्द्धं निरीक्ष्याथ पुरुषश्चाग्रतः स्थितः। नामधेयं हि मे तात! वक्तुमर्हस्यतःपरम्। यथोचितञ्च यत् कार्य्यं तत् त्वं मामनुशासय। पुलस्त्य उवाच। इत्याकर्ण्य ततो ब्रह्मा पुरुषं स्वशरीरजम्। प्रहृष्य प्रत्युवाचेदमानन्दि तमतिः पुनः। स्थिरचित्तं समाधाय ध्यानस्थमतिसुन्दरः। मच्छरीरात् समुद्भूतस्तस्मात् कायस्थसंज्ञकः। चित्रगुप्तेति नाम्ना वै ख्यातो भुवि भविष्यसि। धर्म्मा- धर्म्मविवेकार्थं धर्म्मराजपुरे सदा। स्थितिर्भवतु ते वत्स! ममाज्ञां प्राप्य निश्चलाम्। क्षत्रवर्णोचितो धर्म्मः पालनीयो यथाविधि। प्रजाः सृजस्व भो पुत्र! भुवि भावसमन्विताः। तस्मै दत्त्वा वरं ब्रह्मा तत्रैवान्तरधीयत”। “पुलस्त्य उवाच। चित्रगुप्तान्वये जाताः शृणु तान् कथयामि ते। श्रीमद्रा नागरा गौराः श्रीवत्साश्चैव माथुराः। अहिफणाः सौरसेनाः शैवसेनास्तथैव च। वर्णा वर्णद्वयञ्चैव अम्बष्ठाद्याश्च सत्तम!। शृणु तेषाञ्च कर्म्माणि कुरुवंशविवर्द्धन!। पुत्रान् वै स्थापयामास चित्रगुप्तो महीतले। धर्म्माधर्म्मविवेकज्ञश्चित्रगुप्तो महामतिः। भूस्थानं बोधयामास सर्व्वसाधनमुत्तमम्। पूजनं देवतानाञ्च पितॄणां यज्ञसाधनम्। वर्णानां ब्राह्मणानाञ्च सर्व्वदातिथिसेवनम्। प्रजाभ्यः करमादाय धर्म्माधर्म्म विलोकनम्। कर्त्तव्यं हि प्रयत्नेन पुत्राः स्वर्गस्य काम्यया। या माया प्रकृतिः शक्तिश्चण्डी चण्डप्रमर्द्दिनी। तस्यास्तु पूजनं कार्य्यं सिद्धिं प्राप्य दिवं गताः। स्वर्गाधिकारमासाद्य यतो यज्ञभुजः सदा। भवद्भिः सा सदा पूज्या ध्यातव्या मफलादिभिः। भवन्तं सिद्धिदा नित्यं पुत्रदा सा तु चण्डिका। तन्त्रोक्ता न सुरा पेया या न पेया द्विजातिभिः। वैष्णवं धर्म्ममाश्रित्य मद्वाक्यं प्रतिपालय। कर्त्तव्यं हि प्रयत्नेन लोलकद्वयहिताय वै। अनुशास्य सुतानेवं चित्रगुप्तो दिवं ययौ। धर्म्मराजस्याधिकारी चित्रगुप्तो बभूव ह। स्वयं भीष्म! समुत्पन्नाः कायस्था ये प्रकीर्त्तिताः। ये पृष्टास्ते मयाख्याताः संवादं शृणु चापरम्”।
पद्मपु० पातालखण्डे सूतं प्रति शौनकाद्युक्तिः। “श्रोतुमिच्छामहे त्वत्तः श्रेयसि प्रेमसद्धियः। पुराणसंहितामेतां कायस्थस्थितिलक्षणाम्। को हेतुस्तस्य चोत्पत्तौ, किंविधः, कर्म्म कीदृशम्। कि वर्णः क्वास्तिकस्मैचित् कार्य्य वादाय को हि सः। किंकुलोनः किमाचारः किगोत्रः कस्य चान्वयः। एतद्विस्तरतो ब्रूहि कायस्थकृतशासनम्। सूत उवाच। इदमद्भुतमाख्यानं कायस्थस्थितिलक्षणम्। कथयामि महाभागा भगवद्गुणकीर्त्तये। विचित्रो जगतां हेतुर्भगवच्छश्वदाश्रयः। तस्योद्भवोऽपि वैचित्रो जगतः कृतवान् विधिः। चित्रोविचित्र इति तत् विज्ञप्तौ तावुभावपि। धर्म्मराजस्य सचिवौ दत्तावस्य तु वेधसा। असतां दण्डनेतारौ नृपनीतिविचक्षणौ। यथार्थवादिनौ स्यातां शान्तिकर्म्मणि तावुभौ। कायस्थसंज्ञया ख्यातौ सर्व- कायस्थपूर्वजौ। लेस्वनज्ञानविधिना मुख्यकार्यपरायणौ। अस्मिन् संसारपाथोधौ षड्विधाः कायवर्त्तिनः। तत्रस्थ कायविज्ञानात् कायस्थत्वमिहैतयोः। धर्म्मराजस्य साचिव्यं कुर्वतोः शान्तिकर्मणि। हरेरनुग्रहोऽप्यास्ते तयोश्चित्र विचित्रयोः। एकविंशतिभेदेन याभ्यां कायस्थजातयः। इत्युदीर्य्य विधिस्तत्र वचश्चित्रविचित्रयोः। तूष्णीमास ततस्ताभ्यां पृष्टं स्वात्मविचेष्टितम्। अस्माकं केच संस्कारा किं वर्णजा? वयं विभो!। तत्सर्वं कथयस्वावां भवत्सेवापरायणौ। सूत उवाच। इति श्रुत्वा तयोर्वाक्यमनुमोद्य पितामहः। भक्तस्योत्तरमुत्कृष्टमुवाच प्रहसन्निव। ब्रह्मोवाच। भवन्तावादिकल्पस्य प्रथमे युगनायके। परमायाञ्च शुद्धायामभूतां द्विजवेश्मनि। दासतां दिष्टतः प्राप्तौ परिदाक्षिण्यवर्त्तिनौ। स्वामिसेवापरायत्तौ मिथः स्नेहानुवर्त्तिनौ। द्विजन्मकिङ्करौ–तेषां गृहकर्मणि सन्ततम्। चक्रतुः प्रभुभावेन तदुच्छिष्टभुजौ युवाम्। त्रैदिवं सुखमासाद्य यावद्युगचतुष्टयम्। मर्त्यतामाप्य देवत्वं ततएवं क्रमेण तु। तन्महाप्रलये जाते सर्वप्राणिहितेरतौ। दासीसुतौ भवन्तौ, वां भगवद्वपुषि स्थितिः। अधुना सृष्टिसमये मत्तोजन्मापि वामिदम्। धर्माधिकार षपुषौ स्वामिबान्धवजीवनात्। यत्र वर्ण्णेभ्य उत्कृष्टो ब्राह्मणः सर्वसम्मतः। तस्यानन्तरेजो यस्मात् क्षत्रियः परिरक्षकः। विज्ञानजीवनोपायी व्यवहारनयान्वितः। वैश्यो वणस्तृतीयः स्याद् वर्णद्वितयसेवकः। मन्त्रवर्ज्जितसंस्कारो नमस्कारक्रियापरः। चतुर्थः शूद्रवर्णः स्याद् वर्ण्णत्रितयसेवकः। अनेकव्यवहारज्ञः क्षत्रियन्व यजश्च सः। तेषामुत्तमतां यायात् कायस्थोऽक्षरजीवकः। भवन्तौ क्षत्रवर्णस्थौ द्विजन्मानौ महाशयौ। कृतोपवीतिनौ स्यातां वेदशास्त्राधिकारिणौ। पूर्व्वपुण्यबलोत्कर्षसाध्यसाधनभाविनौ। सर्वज्ञकल्पौ भूयातां भगवद्गतमानसौ। एवमाख्याय भगवान् सर्व्वामरगणान्वितः। अन्तर्दधे तयोरन्तः स्थितः प्रत्यक्षवृत्तितः”।
“सूत उवाच। अस्मिन् जगति दुःखानि दुर्दान्ताएव भुञ्जते। तस्माद्दुर्नयकर्त्तारो निरयेष्वधिवासिनः। दुर्नयं सुनयं वापि सर्वेषां नयवर्त्तिनाम्। अन्यायिनामपि तथा लिखतः कर्मसूत्रिणाम्। एतल्लिखनमध्यस्थं कर्मसूत्रं यथातथम्। न न्यूनमधिकं वापि देहारम्भस्य कर्म यत्। जन्मानन्त्यभवं कर्म जीवानां भावितावुभौ। उपयोगं विनाप्येतौ लेखयामासतुः स्वतः। विलोक्य प्राणि- नामायुः संपूर्णं कर्म वा यथा। समानपतितानेव नापराबिति निर्णयः। धर्मराजानुवचनमेकवाक्यमिव प्रियम्। सम्मानयित्वा सुतरां क्षेत्रभूताविव स्थितौ। षट्कायमतविज्ञानं जानीतः कर्मयोगि यत्। कायस्थ संज्ञया चित्रविचित्रौ विष्णुवल्लभौ”। “सूत उवाच। एवमाभाष्य मनसा प्रमाणपदसिद्धये। वचसा छन्दयामास मैत्रस्तौ प्रीतिहेतवे। अनेके भुवि सत्कीर्त्तिसम्भवाय स्थितिं स्वकाम्। निरूपयन्ति नितरां मुनयो देवमानवाः। परिवारविभूत्यैव स्वसन्तानप्रसिद्धये। भवन्तावपि तस्मात्तु कुरुतां सुतसंस्थितिम्। इत्युक्त्वा कल्पयामास कन्ये द्वे परमोत्तमे। मरुत्प्रभोः समाधेश्च तनये क्षत्रजन्मनः। सम्पन्नकुलशीले ते कर्त्तव्ये गृहमेधसे। कलत्रे वंशविस्तारहेतवे तु पृथक् पृथक्। एवमादिष्टधर्माणौ प्रणम्य स्वामिनं प्रति। देवादेशप्रमाणं स्यात् इत्युक्त्वास्त्विति चक्रतुः। विधिना परिनेतारौ समये भवनोचिते। ततएव समाम्नायहेतवे कृतनिश्चयौ। समाधिमानसौ धर्मराजस्य वचनेरितौ। कालिकामादिजननीं प्रार्थयामासतु स्ततः। चित्रोऽप्यथ बिचित्रोपि मिथो निश्चित्य साम्प्रतम्। विचित्र! जगतः कार्य्यं त्वया तत्तद्विधीयताम्। कार्यद्वयन्तु कर्त्तव्यमस्माभिः स्वामिवाक्यजम्। व्यापारोऽपि प्रकर्त्तव्यः कालिकापि हि सेव्यते” इत्युपक्रमे पद्मवै० पु० पातालखण्डे “सुभामा चित्रगुप्तस्य गृहस्वामित्वयोगिनी। भामिनी तु विचित्रस्य सुन्दरी सुन्दरस्थितिः। उभे अपि समाम्नाते पातिव्रत्यशिरोमणी। देवदत्तां पुरं प्राप्य सुखेनैवानुतिष्ठताम्। परेरिता प्रवृत्तैषा पुरी साऽऽयतनी कृता। चित्रगुप्तेन भामायां त्रयौत्पादिताः सुताः। उदारशीलाचरिता धर्मराजस्य वल्लभाः। शरीरवेगाः सुदृढाः पितृवत्कार्य्यहेतवः। विचित्रस्य सुताः पञ्च समभूवन् भहाशयाः। कलीरः सुसमः सूक्ष्मः सङ्गवान् कर्मकस्त्वमी। मामिनी कुक्षिजास्तावच्छार्दूलगुणशालिनः। तेषान्तु कल्पयामास कश्यपो जातकर्म वै। तदाचरति तत्पूर्वं नाम गर्भादि वैदिकम्। तयोः कुलपतिस्तस्मात् तावत् कश्यपसम्मतः। व्यातेने सकलाभीष्टमाशीःशत समुच्चयैः। एतावेते च सर्वे स्युर्गोत्रिणः कश्यपाभिधाः”।
एवं चित्रगुप्तवंश्यानां चन्द्रसेनवंश्यानाञ्च क्षत्रियवदुपनयनवेदाधिकारे स्थिते कालवशात् तदन्वजयातानामुपनयनादिलोपात् व्रात्यक्षत्नियत्वम्। व्रात्यानाञ्चाकृतप्रायश्चित्तानाम् उप्रनयनादिराहित्यात् शूद्रधर्मत्वम् इदानीन्तनानाम् यद्यपि व्रात्यक्षत्रियाणां क्षत्रियतुल्याशौचभागित्वमुचितं तथापि मनुना “शनकैस्तु क्रियालोपादिमाः स्युः क्षत्रियजातयः। वृषलत्वं गता लोके ब्राह्मणादर्शनेन च” इति शूद्रत्वप्राप्तिं प्रति क्रियालोपंस्य वेदानध्ययनस्य च हेतुताया उक्तेः इदानीन्तनानामुभयासद्भावेन वृषलधर्म्मत्वप्राप्त्या अकृतप्रायश्चित्तक्षत्रियाणामुपनयादिराहित्येन शूद्रधर्म्मप्राप्त्या मासाशौचव्यवहारो नानुपपन्नः। रघुनन्दनेन महानन्दिप्रभृतिक्षत्रियाणामपि कलौ शूद्रत्वस्योक्तेः शूद्रतुल्यतया मासाशौचव्यवहारस्य युक्तत्वात् गतानुगतिकन्यायादेव तथा चार इत्यनुमीयते। ब्रात्यप्रायश्चित्तञ्च मिता० आपस्तम्बेनोक्तं यथा “यस्य प्रपितामहादेर्नानुस्मर्य्यते उपयनं तस्य द्वादश धर्षाणि त्रैविद्यकं ब्रह्मचर्य्यम्”। एतेषाञ्च बहुकालावधिव्रात्यत्वं, यतो मनुना “झल्लोमल्लश्च राजन्यात् ब्रात्यात् निच्छिविरेव च। नटश्च करणश्चैव खसो द्रविड एव च” इति व्रात्यक्षत्रादेव तषामुत्पत्तेरुक्तेः बहुकालपतितसावित्रीकस्यापि प्रागुक्तापस्तम्बवचनेन प्रायश्चित्तस्य विधानात् तथा प्रायश्चित्ताचरणे च उपनयनाद्यधिकारिता भवितुमर्हत्येव किन्तु वर्णसङ्करजातिभेदरूपकरणस्य न तथात्वं तन्निर्णयश्च वंशपरम्परास्मृत्यभावे दुर्घटएव “शूद्रवद्वर्णसङ्करा” इति स्मृतेः तेषां शूद्रधर्मातिदेशात्, तेषां मासाशौचाद्याचारदर्शनात् तदन्येषामपि ब्रात्यक्षत्रियरूपकरणानां तथैवाचार इति गम्यते। करणशब्दे उदा०। तज्जातिस्त्रियां संयोगोपधत्वात् टाप् पुंयोगे तु ङीष्। कायस्तिष्ठत्यनया स्था–करणे घञ्चर्थे क ६ त० टाप्। ३ हरीतक्यां मेदि० ४ धात्रीवृक्षे जटा० ५ काकोल्यां भरतः ६ एलाद्वये ७ तुलस्याञ्च राजनि०।
कायस्थैर्य्य = न० ६ त०। रसायनादिना देहपिण्डस्य स्थिरतायाम् कायस्य बहुकालस्थायितायाम् साधनञ्च सर्व्व० सं०। “अपरे माहेश्वराः परमेश्वरतादात्म्यवादिनोऽपि पिण्डस्थैर्य्ये सर्व्वाभिमता जीवन्मुक्तिः सेत्स्यतीत्यास्थाय पिण्डस्थैर्य्योगावं पारदादिपदवेदनीयं रसमेव सङ्गिरन्ते” इत्युपक्रम्प दर्शितं रसेश्वरशब्दे विस्तरेण वक्ष्यते।
कायाकाशसम्बन्धसयम = पु० पात० सूत्राद्युक्ते संयमभेदे। स च पात० सूत्रादौ फलसहितोदर्शितो यथा “कायाकाशयोः सम्बन्धसंयमात् लघुतूलसमापत्तेराकाशगमनम्” पात० सू० ऐश्वर्य्यशब्दे १५४९ पृ० विवृतमिदम्।
कायिक = त्रि० कायेन निर्वृत्तं टक्। देहनिर्वृत्ते पुण्य- पापादौ कर्म्मणि। “अदत्तानामुपादानं हिंसा चैवाऽविधानतः। परदारोपसेवा च कायिकं त्रिविधं स्मृतम्” ति० त० दशविधपापकीर्त्तने वाल्मी०। “मनसा तु कृतं कर्म मनसैवोपभुञ्जते। वाचा वाचा कृतं कर्म कायेनैव तु कायिकम्” सा० भा० धृता स्मृतिः।
कायिका = स्त्री कायेन तद्व्यापारेण निर्वृत्ता ठक्। १ बलीबर्द्धादिकायपरिश्रमसाध्ये वृद्धिभेदे। “दोहवाह्यकर्मयुता कायिका समुदा हृता” व्यासः। सूलधनाविरोधेन प्रत्यहमधमर्ण्णदेयपणपादादिरूपायां २ वृद्धौ च। “कायाविरोधिनी शश्वत् पणपादाद्या तु कायिका” नारदः। ऋणादानशब्दे विवृतिः।
कार = पु० कृ–कृतौ घञ्। १ क्रियायाम् २ यत्ने “सकारनानार कासा” इत्यादि माघः। “सकाराः सयत्नाः सोत्साहाः” मल्लि० करणे घञ्। ३ बले। कस्य सुस्वस्यारः प्राप्तिर्यत्र। ४ रतौ विश्वः कृ–हिंसायां भावे घञ्। ५ बधे धातूनामनेकार्थत्वात् ६ निश्चये। कर्मणि घञ्। ७ पूजोपहारे बलौ। कं सुखमृच्छत्यनेन ऋ–करणे ६ त०। ८ पत्यौ कं सुखं निर्वृतिमृच्छति कर्त्तरि अण्। १० यतिरूपे प्रव्रज्यान्विते चतुर्थाश्रमे च शब्दरत्ना० कं जलं निष्यन्दजमृच्छति अण्। ११ हिमाथले मेदि०। करकायां भवम् अण् पृषो० कलोपः। १२ करकाजे जले न० सुश्रुतः। “तत्र त्वन्तरीक्षं चतुर्विधं तद्यथा धारं कारं तौषारं हैमञ्चेति” सुश्रुते कारमित्यत्र कारकमित्येव पाठः समुचितः ककारलोपः लिपिकरप्रमादात् इति बोध्यम्। कर्मण्युपपदे कृ–अण्। स्वर्ण्णकार कुम्भकार इत्यादौ तत्तत्कर्मकारके त्रि०। स्त्रियां टाप्, वोपदेवमते कर्मणि षण् षित्त्वात् ईप् इति भेदः।
कारक = न० करोति कर्त्तृत्वादिव्यपदेशान् कृ–ण्वुल्। १ कर्त्तृत्वादिसंज्ञाप्रयोजके कर्म्मणि–क्रियायाम्। “कारके” पा०। कर्त्तृत्वादिव्यवदेशकारिण्यां क्रियायामित्यर्थः। करोति क्रियां निष्पादयति कृ–ण्वुल्। २ क्रियानिष्पादकेषु कर्त्तृकर्मादिषु कारकसंज्ञान्वितेषु न० तेषाञ्च क्रियायामेवान्वयः “सम्बोधनान्तं कृत्वोर्थाः कारकं प्रथमोवतिः। धातुसम्बन्धाधिकारविहितमसमस्तनञ्। तथा यस्य च मावेन, षष्ठी चेत्युदितं द्वयम्। सम्बन्धश्चाष्टकस्यास्य क्रिययैवावधार्य्यताम्” इति हर्युक्तेः। वैयाकरणभूषणकारमते कारकलक्षणादिकं शब्दार्थरत्नेऽस्मामिर्दर्शितं यथा “तत्र कारकत्वं नाम क्रियाजनकशक्तिसत्त्वं करोति क्रियां निवर्त्तयतीति महाभाष्येव्युत्पादनात् साधकं क्रियानिष्पादकं कारकसंज्ञं भवतीति वार्त्तिकोक्तेश्च। द्रव्यस्य स्वतस्तधात्वाभावेऽपि शक्त्याऽऽविष्टस्यैव तस्य तथात्वम्। ततश्चान्वयव्यतिरेकस त्त्वात् शक्तिरेव कारकमिति मतान्तरं तदुक्तं हरिणा “स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे। क्रियाणामभिनिष्पत्तौ सामर्थ्यं साधनं विदुरिति”। शक्तिशक्तिमतोरभेदाच्च द्रव्यं कारकमिति व्यवहारैत्यवधेयम्, एवञ्च क्रियाजनकत्वेन सर्व्वेषां कर्त्तृत्वेऽपि स्वस्वावान्तरव्यापारविवक्षयैव करणत्वादिकं यथोक्तं हरिणा” “निष्पत्तिमात्रे कर्त्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसम्भवः” इति। तद्भेदश्च मञ्जूषायां दर्शितोयथा–“कर्त्तुः कारकान्तरप्रवर्त्तनव्यापारः, करणस्य क्रियाजनकाव्यवहितव्यापारः, क्रियाफलेनोद्देश्यत्वरूपव्यापारश्च कर्म्मणः, कर्त्तृकर्म्मव्यवहितक्रियाधारणव्यापारोऽधिकरणस्य, प्रेरणानुमत्यादिव्यापारः सम्प्रदानस्य, अवधिभावोपगमव्यापारोऽपादानस्येति” तत्र करणाधारकर्म्मकर्त्तॄणांक्रियाजनकत्वंसुव्यक्तं तैर्व्विना क्रियानुत्पत्तेः फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजनकत्वाच्च कर्म्मणस्तथात्वं घटं स्मरति कटं करोतीत्यादौ च बुद्धिस्थघटादेरपि पूर्व्वकालत्वेन स्मरणादिहेतुत्वात्तथात्वम् अतएव तेषु कर्त्तृत्वविवक्षया काष्ठं पचति, स्थाली पचति, ओदनः पच्यते इत्यादि प्रयोगः। अपादानस्य अवधिभावोपगमेन हेतुत्वात् सम्प्रदानस्य च दातृबुद्धिस्थतया पूर्व्वकालत्वेन हेतुत्वाच्च क्रियानिर्वाहकत्वेऽपि न कर्त्तृत्वविवक्षा अनभिधानात् तदुक्तं महाभाष्ये “पर्य्याप्तं करणाधिकरणकर्म्मणामेव कर्त्तृत्वं निदर्शितमपादानादीनां कर्त्तृत्वानिदर्शनायेति”।
तच्च कारकं षड्विधम् अपादनसम्प्रदानकरणाधिकरणकर्म्मकर्त्तृभेदात्। एतेषाञ्च एकस्या क्रियायामुभयप्राप्तौ “विप्रतिषेधे परं कार्य्यम्” इत्युक्ते रुत्तरोत्तरप्राबल्यं तदुक्तं हरिणा–“अपानानसम्प्रदानकरणाधारकर्म्मणाम्। कर्त्तुश्चोभयसम्प्राप्तौ परमेव प्रवर्त्तते” इति। गुणप्रधानक्रिययोरेकस्मिन् द्रव्ये उभयशक्तिप्रसङ्गे तु “प्रधानेन व्यपदेशा भवन्तीति” न्यायात् कार्य्यस्य प्रधानानुणोधित्वात् प्रधानशक्तिबोधिकैव विभक्तिर्ज्जायते गुणक्रियाशक्तिस्तु तात्पर्य्यवशादेव तत्र प्रतीयते तदुक्तं हरिणा “प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक्। शक्तिर्गुणाश्रया तत्र प्र्धानमनुरुध्यति। प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते। यथा गुणेतथा तद्वदनुक्तापि प्रतीयते” इति अतः स्थित्वाश्वेन गच्छतीत्येव प्रयोगः।
न्यायमते घात्वर्थे प्रकारतया भासमाने ३ सुबर्थे तन्मते हि सुबर्थस्यैव कारकत्वं मुख्यम्। तदर्थान्वयित्वाच्च पदार्थस्य तत्त्वंगौणम्। तथाच विभक्त्यर्थद्वारा क्रियान्वयित्वं कारकत्वम् इति तेनापादानादेः क्रियानिष्पादकत्वाऽभावेऽपि न क्षतिः स्वान्वयिविभक्त्यर्थद्वारा क्रियान्वयित्वात्। यथा च तस्यन्वयः तथा शब्द० प्रका० तथा दर्शितं यथा
“कारकार्थेतरार्थे च सुप् द्विधा च विभज्यते। धात्वर्थांशे प्रकारो यः सुबर्थः सोऽत्र कारकम्। वृत्त्या कारकस्य बोधिका तदन्यस्य चेत्येबं द्विविधोऽपि सुपो विभागस्तत्र यद्धातूपस्थाप्ययादृशार्थेऽन्वये प्रकारीभूय भासते यः सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकम्। वृक्षात् पतति, व्याघ्राद्बिभेति इत्यादौ, ब्राह्मणाय ददाति, पुत्राय क्रुध्यतीत्यादौ, दात्रेण छिनत्ति घटत्वेन जानातीत्यादौ स्थाल्यां पचति, शुक्तौ भासत इत्यादौ, ग्रामं गच्छति घटुं पश्यतीत्यादौ चैत्रेण पच्यते घटेन भूयत इत्यादौ च पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थितो विभागादिः प्रकारीभूय भासते इति तत्तद्धातूपस्थापिततत्तत्क्रियायां विभागादिकं प्रकृते कारकमतो धात्वर्थे स्वार्थबोधकतया तत्रत्यपञ्चम्यादिः कारकविभक्तिरुच्यते। यादृशेन नामार्थेनावच्छिन्नस्य सुबर्थस्य यादृशधात्वर्थेऽन्वयः स एव तादृश धात्वर्थेकारकतया व्यपदिश्यते, तेन वृक्षात् पततीत्यादौवृक्षादेरपि पतनादिक्रियायामपादानादिकारकत्वव्यवहारः। स्तोकं पचतीत्यादौ क्रियाया प्रकारीभूतोऽपि स्तोकादिर्न कारकं सुपानुपस्थापनात्, द्वितीया तु तत्र क्लीवलिङ्गत्ववदानुशासनिक्येव स्तोकपाचकैत्यादिकस्तु तत्पुरुषो गिरिकाण इत्यादिवद्विशेषविधेरेव। षष्ठ्यर्थस्तु सम्बन्धो न धात्वर्थे प्रकारीभूय भासते, तण्डुलस्य पचतीद्यप्रयोगात् इत्यतः सम्बन्धो न कारकं, न वा तदर्थिकापि षष्ठ्यादिः कारकविभक्तिः। अतएव “क्रियाप्रकारीभूतोऽर्थः कारकं तच्च षड्विधम्। कर्तृकर्मादिभेदेन, शेषः सम्बन्ध इष्यत” इति शाब्दिकाः स्मरन्ति”। “कारकव्यपदिष्टे च श्रूयमाणक्रिये पुनः” “कारकं प्रथमोवतिः” इति च भर्त्तृहरिः। ४ कर्त्तृमात्रे त्रि० मेदि०। “दोषैरेतैः कुलघ्नानां वर्ण्णसङ्करकारकैः” गीता। जगतां कारकः कृष्णः” वोपदेवः तुमर्थे ण्वुल्। ५ कर्त्तुमित्यर्थे। तद्योगे कर्म्मणि न षष्ठी अतोघटं कारको व्रजत्येव प्रयोगः। “धातुसम्बन्धे प्रत्ययाः” पा० इत्यधिकारे तस्य विधानेनतदर्थस्य क्रियायामेवान्वयः प्रागुक्तहरिवाक्यात्। करकायाइदं तत्र भवं वा अण्। ६ करकासम्बन्धिनि त्रि०। ७ तन्निष्यन्दिजले न० राजनि० ८ अप्सु स्त्री ङीप्। तल्लक्षणगुणादि भावप्र० उक्तं यथा “दिव्यवाय्वग्निसंयोगात् संहताः खात् पतन्ति याः। पाषाणखण्डवच्चापस्ताः कारक्योऽमृतोपमाः। करकाजं जलं रूक्षं विशदं गुरु च स्थिरम्। दारुणं शीतलम् सान्द्रं पित्तहृत् कफवातकृत्”।
कारकदीपक = न० दीपकभेदरूपार्थालङ्कारभेदे अलङ्कारशब्दे ३९९ पृ० विवृतिः
कारकविभक्तिः = स्त्री कारकशक्तिबोधिका विभक्तिः। व्याकरणोक्ते कर्म्मादिबोधके विभक्तिभेदे कारकशब्दे विवृतिः। “उपपदविभक्तेः कारकविभक्तिर्गरीयसीति” व्या० प०।
कारकर = त्रि० कारं करोति कृ–ट। क्रियाकारके दासादौ।
कारकुक्षीय = पु० साल्वदेशे हेम० तत्र भवः अण् बहुषु तस्य लुक्। तद्देशवासिजनेषु बहुव०।
कारज = त्रि०। कारात् क्रियातो जायते जन–ड। १ क्रियाजन्ये करजे नखे भवं तस्येदं वा अण्। २ नखभवे ३ नखसम्बन्धिनि च त्रि०।
कारञ्ज = त्रि० करञ्जस्य तत्फलस्थेदम् अण्। करञ्जवृक्षफलतैलादौ तत्तैलगुणादि सुश्रुते उक्तं यथा। निम्बातसीत्युपक्रमे “करञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्य्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगहराणि चेति”।
कारण = न० कारयति क्रियानिवर्त्तनाय प्रवर्त्तयति कृ–णिच्ल्यु। १ क्रियानिष्पादके हेतौ २ उद्देश्ये ३ देहे ४ इन्द्रिये। कृ–बधे स्वार्थे णिच्–भावे ल्युट्। ५ बधे मेदि०। ६ कर वाद्यभेदे। करणएव कारणः। ७ कायस्थे पु०। करणमेव स्वार्थे अण्। ८ साधने ९ कर्म्मणि। १० गीतभेदे रत्नकोषः। न्यायमते कारणत्वलक्षणभेदादिकं भाषा० मुक्ताबल्योर्दर्शितं यथा। “पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम्” भाषा०।
पारिमाण्डल्येति पारिमाण्डल्यम् अणुपरिमाणं, कारणत्वं तद्भिन्नानामित्यर्थः। अणुपरिमाणं तु न कस्यापि कारणं तद्धि स्वाश्रयारब्धद्रव्यपरिमाणारम्मकं भवेत् तच्च न सम्भवति परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वात् महदारब्धस्य महत्तरत्ववत् अणुजन्यस्याणुतरत्वप्रसङ्गात् एवं परममहत्परिमाणम् अतीन्द्रियसामान्यं विशेषश्चेति बोध्यम्। इदमपि योगिप्रत्यक्षे विषयस्य न कारणत्वं, ज्ञायमानसामान्यं न प्रत्यासत्तिः, ज्ञाप्यमानं लिङ्गं नानुमितिकारणम् इत्यभिप्रायेण। भानसप्रत्यक्षे आत्ममहत्त्वस्य कारणत्वात् महत्परिसाणं कालारेर्बोध्यं तस्यापि न कारणत्वमित्याचार्य्याणामाशय इत्यन्ये तन्न ज्ञानातिरिक्तं प्रति कारणताया एव आचार्य्यैरुक्तत्वात्” मुक्ता०। “अन्यथासिद्धिशून्यस्य नियता पूर्ब्बवर्त्तिता। कारणत्वं भवेत् तस्य त्रैविध्यं परिकीर्त्तितम्। समवायिकारणत्वं ज्ञेयमथाप्यसमवायिहेतुत्वम्। एवं न्यायनयज्ञैस्तृतीयमुक्त निमित्तहेतुत्वम्”। यत्समवेतं कार्य्यं भवति ज्ञेयन्तु समवायिजनकं तत्। तत्रासन्नं जनकं द्वितीयमाभ्यां परं तृतीय स्यात्” भाषा०।
ननु कारणत्वंकिम्? अत आह अन्यथेति। तस्य–कारणत्वस्य। तत्र–समवायिकारणे, आसन्नं कारणं द्वितीयमससवायिकारणमित्यर्थः। अत्र यद्यपि तुरीतन्तुसंयोगानां पटासमवायिकारणत्वं स्यात्, एवं वेगादीनामपि अभिघाताद्यसमवायिकारणत्वं स्यात् एवं ज्ञानादिकमिच्छाद्यसमवायिकारणं स्यात्, तथापि पटासमवायिकारणलक्षणे तुरीतन्तुसंयोगभिन्नत्वं देयं, तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्यसमवायिकारणं भवत्येव, एवं वेगादिकं येगस्पन्दाद्यसमवायिकारणं भवत्येवेति तत्तत्कार्य्यासमवायिकारणलक्षणे तत्तद्विभिन्नत्वं न देयम् आत्मविशेषगुणानान्तु कुत्राप्यसमवायिकारणत्वं नास्ति तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव। तत्र समवायिकारणे प्रत्यासन्नं द्विविधं कार्य्यैकार्थप्रत्यासत्त्या,कारणैकार्थप्रत्यासत्त्या च। आद्यं यथा घटादिकं प्रति कपालसंयोगादिकं, तत्र कार्य्येण घटेन सह कारणस्य कपालसंयोगस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति, द्वितीयं यथा घटरूपं प्रति कपालरूपमसमवायिकारणं तत्र घटरूपं प्रति कारणं घटः तेन सह कपालरूपस्य एकस्मिन् कपाले प्रत्यासत्तिरस्ति, तथाच क्वचित् समवायसम्बन्धेन, क्वचित् स्वसमवायिसमवायसम्बन्धेनेति फलितार्थः। इत्थञ्च कार्य्यकारणैकार्थान्यतरप्रत्यासत्त्या कारणं ज्ञानादिभिन्नमसमवायिकारणमिति सामान्यलक्षणं पर्य्यवसन्नम् आभ्यां समवायिकारणासमवायिकारणाभ्यां भिन्नं कारणं तृतीयं निमित्तकारणमित्यर्थः” मुक्ता०। कारणताग्राहकं प्रमाणं च सर्व्वदर्शनसंग्रहे दर्शितं यथा
“अन्वयव्यतिरेकावविनाभावनिश्चायकाविति ननु पक्षे साध्यसाधनयोरव्यभिचारी दुरवधारणो भवेत् भूते, भविष्यति, वर्त्तमाने–अनुपलभ्यसाने च व्यभिचारशङ्काया अनिवारणात्। ननु तथाविधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरेति चेत् मैवं वोचः, विनापि कारणं कार्य्यमुत्पद्यतामित्येवं विधायाः शङ्काया व्याघातावधिकतया निवृत्तत्वात्। तदेव ह्याशङ्क्येत यस्मिन्नाशङ्क्यमाने व्याघातादयो नावतरेयुः तदुक्तम् “व्याघातावधिराशङ्केति” तस्मात्तदुत्पत्तिनिश्चयेन अविनाभावो निश्चीयते तदुत्पत्तिनिश्चयश्च कार्य्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः। कार्य्यस्योत्पत्तेः प्रागनुपलम्भः १ कारणोपलम्भे २ सति उपलम्भः ३ उपलब्धस्य पश्चात् कारणानुपलम्भात् ४ अनुपलम्भः ५ इति पञ्चकारण्या धूमधूमध्वजयोः कार्य्यकारणभावो निश्चीयते”।
कारणत्वञ्च नियतपूर्ब्बसत्त्वं तच्च कार्य्याव्यवहितप्राक्क्षणावच्छेदेन कार्य्यसमानाधिकरणात्थन्ताभावाप्रतियोगित्वमिति नैयायिका मन्यन्ते। तच्च सत्त्वगर्भं न बेति सन्देहे सत्त्वगर्भं श्रीहर्षखण्डने निराकृतं यथा
“ननु तदसत्ताविशेषात्तत्कार्य्यस्यान्यदाशि प्रसङ्गः, नकार्य्यस्याद्यसत्ताक्षणैवान्यदापि सामग्रीसत्ताऽविशेषात्तवापि किं नान्यदा कार्य्यजन्म?। अथ न मम तदानीन्तनं सामग्रीसत्त्वं तदातनस्य कार्य्यजन्मनो नियामकं किन्तु ततः प्राक् सामग्रीसत्त्वं, तथादर्शनात्। तर्हि ममापि कालान्तरस्थमपि तदसत्त्वं तदातनकार्य्य जन्मनोनियामकं, तथादर्शनादेव। मम तदव्यवहितोत्तरत्वं तदा कार्य्यजन्मनियामकमिति चेत् न असमसमयत्वादागन्तुकत्वाच्चाविशेषेण नियम्यनियामकव्यवस्थानुपपत्तेः तस्मादन्यदास्थाया एव सामग्य्रास्तदा कार्य्यनियमोऽभ्युपेयः तथादर्शनादि त्येव मन्तव्यम्। तथा च समः समाधिः। तथापि कार्यजन्मकालस्य कोविशेषः। अन्यथा यद्विशेषान्तरं तदपि विशेशान्तरवतः कालस्य स्यादिति अपर्य्यवसानमेव पर्य्यवस्येत्, तत्काल इत्याकलय। तथापि तत्कालस्यानुगतं किं रूपम्? इति चेन्न रूपान्तरवतोऽपि किं रूपम्? इत्यपि पर्य्यनुयोगस्यानुवृत्तेः। किञ्च “अन्तर्भावितसत्त्वञ्चेत्कारणं तदसत्ततः। नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः”। तथाह्यन्तर्भूतसत्त्वं यदि कारणत्वं तदा स्वविशिष्टे स्ववृत्तिरसतः स्वाश्रयत्वमापादयति। विशिष्टस्यार्थान्तरत्वेऽपि च स्वस्मिन् स्ववृत्तिव्यतिरेकवत् स्वविशिष्टे स्ववृत्तिव्यतिरेक नियमद्र्शनात् न सैव सत्ता तस्मिन्निति अन्यस्यास्तस्थाविशिष्टवृत्त्यभ्युपगमे तामसन्निवेश्य कारणत्वमभ्युपगन्तुः सर्व्वथैव कारणमसत्पर्य्यवस्यति। अपरापरसत्तानिवेशने चापर्य्यावसानमेव। न च सत्ताभेदानन्त्यमस्त्येवेत्यपि पादप्रसारिका निस्ताराय, सत्ताभेदे हि सद्बुद्धिव्यवहारानुगमननिबन्धनलङ्घिनः प्रथमापि सत्ता न स्यादिति सत्त्ववृद्धिमिष्टवतो सूलमपि ते नष्टमिति कष्टतरम्। न च स्वरूपसत्तोपगमाय स्वस्ति, भिन्नामप्यनुगतबुद्ध्याद्याधानपदेऽभिषिञ्चता त्वया जातिमात्राय जलाञ्जलिर्वितीर्येत। मा भूदनुगतिः स्वरूपसत्त्वस्येति च वदन् तद्गर्भिणीं कारणतां कथमनुगमयितासि?। किञ्च स्वरूपसत्त्वं स्वरूपात् घटाद्यात्मनो नाधिकमसतोऽपि स्वरूपं स्वरूपमेव न ह्यसन् घटादिर्न घटादिः तथा सति घटादिर्नेत्यपि न स्यात् असतोऽघटादित्वात्। अथ सदपि सत्तामनन्तर्भाव्य कारणं, तदानीमसदपि तत्तथास्तु सत्तासत्तयोः कारणकोट्यप्रवेशाविशेषात्। अथ न सत्ताकारणकोटिनिविष्टा किन्तु कारणत्वं सत्त्वं नियतपूर्ब्बसत्तां हि कारणताम्मन्येइति मन्यसे तर्हि मत्पक्षे सैव कारणताऽस्तु तर्हि कारणसत्तामभ्युपगतवानसीति घट्टकुट्यां प्रभातमिति चेन्न भावानवबोधात् सत्तामसतीमभ्युपगच्छताऽपि सत्ता किं मयाभ्युपगतैव? अन्यथा कासावसतीति त्वमपि किं सत्तान्तत्सत्तामन्तर्भाव्य कारणत्वमिच्छसि? नत्वेवं, पूर्ववत् क्वापि सत्तात्यागो वा अनवस्थायां पर्य्यवसानं स्यात् असत्ताऽविशेषात्। असत्त्वाविशेसे कारणनियमः कथं स्यात् इति चेन्न सत्ताविशेषेऽपि तुल्यत्वात्। सत्त्वेऽस्त्यन्वयाद्यनुविधानं तस्य तज्जातीयस्य वा त्वत्पक्षे त्वसत्त्वाविशेषात् व्यतिरेकः परं, सोऽप्यनियतो यदा कारणाभावस्तदा कार्य्याभावावश्यम्भावाभ्युपगमात् नित्यासतः कारणस्यासत्त्वएव कदाचित्कार्य्योत्पादात् अन्वयस्तु न कदाचिदपीति चेन्न तुल्यत्वात्। अन्वयोनास्तीत्यभ्युपगच्छतापि अन्वयोपगमात्। अन्वयस्यापि सत्तान्तर्भावे कथितदोषापत्तेः, एतेन “आशामोदकतृप्ता ये ये चोपार्ज्जितमोदकाः। रसवीर्य्यविपाकादि तेषां तुल्यं प्रसज्यते” इत्यस्यापि बाधकत्वमाशामोदकायते। सत्तान्तर्भावानन्तर्मावाभ्यां प्रत्यादेशात् आशामोदकादिनापि च रसवीर्य्यविपाकादिजननात् तदसत्कथं कार्य्यं स्यात्? इति चेन्न सत्तामन्तर्भाव्यकार्य्यत्वोपगमेकारणवत्कार्य्येऽपि उक्तदोषस्यानन्तर्भावे वाऽविशेषस्य पूर्व्ववदावृत्तेः तस्मात् “पूर्ब्बसम्बन्धनियमे हेतुत्वे तुल्य एव नौ। हेतुतत्त्वबहिर्भूतसत्त्वासत्त्वकथा वृथा”। आस्तां प्रतिवन्दिग्रहग्रहः कथं पुनरसतः कारणत्वमवसेयम्? प्राक्सत्त्वनियमस्य विशेषस्यानभ्युपमादिति चेन्न इदमनुगतनियतं प्राक सदिति बुद्ध्या विशेषात्। भ्रान्त्यैवं- बुद्धिगोचरेऽतिप्रसङ्ग इति चेन्न यादृश्या हि धिया त्रिचतुरादिकक्षानुधावनविश्रान्तया वस्तुसत्त्वनिश्चयस्ते, तादृश्यव विषयोकृतस्य ममापि कारणतानिश्चयः, केवलं ततः परास्वपि कक्षासु बाधात् पूर्व्वपूर्व्वभ्रान्तिसम्भवेन न तत एव सत्त्वावधारणं वयं मन्यामहे इति विशेषः”।
तत्र हेतौ “पञ्चेमानि महाबाहो! कारणानि निबोध मे” गीता। “न लिङ्गं धर्म्मकारणम्” मनुः। उद्देश्ये “तस्यागमनकारणम्” रघुः। फलस्य कारणत्वञ्च इच्छाद्वारा, उपायेच्छां प्रति फलेच्छायाः कारणत्वात् सर्वोहि लोकः फलमिच्छन्नेव तदुपाये प्रवर्त्तमानो दृश्यते इति तस्य तथात्वम्। कारणमस्त्यस्य अर्श० अच्। १० उत्तरभेदे उत्तरशब्दे विवृतिः। “मिथ्योत्तरे पूर्ब्बवादे कारणे प्रतिवादिनि” मिता० स्मृतिः। भावे तल् कारणता स्त्री। त्व कारणत्व न० कारणभावे “एकः कारणतां गतः” कुमा०। “कारणत्वं भवेत्तस्य” भाषा०।
कारणकारण = न० ६ त०। अन्यथासिद्धपदार्थभेदे यथा कुलालः घटादीनां कारणं, तत्कारणं तज्जनकः घटं प्रत्यन्यथासिद्धः। व्यापारद्वारा तु न कारणकारणस्यान्यथासिद्धिः। यथा कुठारादीनां, ते हि छेदनक्रियाकारणच्छेद्यसंयोगजनका अपि नान्यथासिद्धाः एवं व्याप्तिज्ञानस्य अनुमितिजनकपरामर्शरूपस्य, चक्षुरादीनां प्रत्यक्षजनकविषयसंयोगरूपस्य च कारणस्य कारणत्वेऽपि नान्यथासिद्धिः। “नहि व्यापारेण व्यापारिणोऽन्यथासिद्धिः” इत्युक्तेः २ परमेश्वरे च सहि सर्वेषां निमित्तोपादानकारणानामधिष्ठातृत्वेन प्रयोजकत्वात् तथा, ३ प्रयोजकेकारणकारणस्याकारणत्वेऽपि प्रयोजकत्वमस्त्येवेति नैयायिकादयः।
कारणगुण = पु० ६ त०। उपादानकारणस्य गुणै “कारणगुणाः कार्य्यगुणानारभन्ते” इति न्यायप्र०। यथा तन्त्वादिरूपो पादानगुणाः शुक्लादयः, कार्यस्य पटस्य शुक्लगुणारम्भका भवन्ति न वैपरीत्येनेति आकरे स्थितम्।
कारणगुणोद्भव = पु० कारणगुण उद्भवोऽस्य। उपादान कारणगुणेनोपपन्ने गुणभेदे। ते च गुणा भाषायां दर्शिता यथा। “अपाकजास्तु स्पर्शान्ताद्रधत्वञ्च तथाविधम्। स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम्। स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः”। स्पर्शान्ताः। रूपरसगन्धस्पर्शाःघटादौ पाकजरूपादीनां कारणगुणपूर्व्वकत्वाभावात् अपाकजा इत्युक्तम्। तथाविधं अपाकजमिति। “स्पर्शो- त्रानुष्णाशीतो ग्राह्यः। एकपृथक्त्वेत्यत्र त्वप्रत्ययस्य प्रत्येकमन्वयात् एकत्वं पृथक्त्वञ्च ग्राह्यम् पृथक्त्वपदेन चेकपृथक्त्वं ग्राह्यम्” मुक्ता०।
कारणमाला = स्त्री अथालङ्कारभेदे अलङ्कारशब्दे ३९८ पृ० विवृतिः।
कारणशरीर = न० कारणरूपं शरीरम्। वेदान्तिमते अज्ञानरूपे शरीरे। वेदान्तसारे तद्विवृतिः दृश्या।
कारणा = स्त्री कृ–हिंसाया स्वार्थे णिच्–भावे युच्। १ तीव्रवेदनायाम् अमरः। कृ–णिच्–युच्। २ प्रेरणायाम्
कारणिक = त्रि० कारणैश्चरति ठक्। कारणेन विचारके १ परीक्षके अमरः। करणस्येदम् काश्या० ष्ठञ् ञिठ् वा। २ करणसम्बन्धिनि त्रि० स्त्रियां ष्ठञि षित्त्वात् ङीष् ञिठ इदुच्चारणार्थः स्त्रियां टाप् इति भेदः।
कारणोत्तर = न० कारणेन उत्तरम्। व्यवहारेषु वाद्युपन्यस्तं वस्तु सत्यत्वेनाङ्गीकृत्य तत्प्रतिकूलतासाधनकारणकथनरूपे उत्तरभेदे, यथा अयं शतं मे धारयतीत्यभियोगे सत्यं गृहीतं किन्तुं शोधितम्, इयं भूमिर्मदीयानेन भुज्यते इत्यभियोगे सत्यमेतस्य भूमिः किन्तु दानेन क्रयादिना वा इदानीं ममेत्युत्तरम्। उत्तरशब्दे १०९० पृ० विवृतिः।
कारण्डव = पुंस्त्री रम–ड तस्य नेत्त्वम् रण्डः ईषत् रण्डः कारण्डः तं वाति वा–क करण्डस्येदं कारण्डं तदाकारं वाति वा–क वा। हंसभेदे “हंसकाण्डवोद्गीताः सारसाभिरुतास्तथा” भा० व० ३८ अ०। स्त्रियां जातित्वात् ङीष्। अस्य अजिरादि० पाष्ठात् मतौ संज्ञायामपि न दीर्घः कारण्डववती नदीविशेषः। “हससारसक्रौञ्चचक्रवाककुररकादम्बकारण्डवेत्युपक्रमे” प्लवाः सधचारिणश्च” इति सुश्रुते तस्य प्लवत्वं स घचारित्वञ्चोक्तम्।
कारण्डव्यूह = पु० बौद्धभेदे त्रिका० २ बौद्धशास्त्रविशेषे च।
कारन्धम = पु० करन्धमस्यापत्यं शिवा० अण्। १ करन्धमनृपस्या पत्ये अविक्षन्नाम्नि नृपे तदुत्पत्त्यादि “एतस्मात् कारणाद्राजन्! विश्रुतः स करन्धमः। तस्य कारन्धमः पुत्रस्त्रेतायुगमुखेऽभवत्। इन्द्रादनवरः श्रीमान् देवैरपि मुदुजयः। तस्य सर्व्वे महीपालाः वर्त्तन्ते व्य वशे तदा। स हि सम्राडभूत्तेषां वृत्तेन च बलेन च। अविक्षिन्नाम धर्म्मात्मा वीर्य्येणेन्द्रसमोऽभवत्” इत्युपकमे “तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया। मरुत्तोनाम घर्म्मज्ञश्चक्रवर्त्ती महायशाः” भा० आश्व० ४ अ० उक्तम्। २ गोत्रापत्ये अण्। करन्धमपौत्रे अविक्षिन्नृपपुत्रे २ मरुत्ते नृपे च। “कथं यज्ञे मरुत्तस्य” इत्युपक्रमे “यदि सुश्रूषसे पार्थ। शृणु कारन्धमं नृपम्” तत्रैव ३ अ० मरुत्तस्य कारन्धममिति विशेषणात्। तस्येदमण्। ३ नारोतीर्थभेदे न० तत्तीर्थप्रादुर्भावादि भा० आ० २१७, १८ अ०। यथा
“ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः। अभ्यगच्छत् सुपुण्यानि शोभनानि तपस्विभिः। वर्ज्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः। अवकीर्णानि यान्यासन् पुरस्तात्तु तपस्विभिः। अगस्त्यतीर्थं सौभद्रं पौलोमञ्च सुपावनम्। कारन्धमं प्रसन्नञ्च हयमेधफलञ्च तत्। भारद्वाजस्य तीर्थन्तु पापप्रशमन महत्। एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः। विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः। दृष्ट्वा च वर्ज्यमानानि मुनिभिर्द्धर्म्मबुद्धिभिः। तपस्विनस्ततोऽपृच्छत् प्राञ्जलिः कुरुनन्दनः। तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः। तापसा ऊचुः। ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान्। तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन!। वैशम्पायन उवाच। तेषां श्रुत्वा महाबाहुर्व्वार्य्यमाणस्तपोधनैः। जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः। ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम्। विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः। अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान्। जग्राह चरणे ग्राहः कुन्तीषुत्रं धनञ्जयम्। स तमादाथ कौन्तेयो विस्फुरन्तं जलेचरम्। उदतिष्ठन्महाबाहुर्ब्बलेन वलिनां वरः। उत्कृष्ट एव ग्राहस्तु सोऽर्ज्जुनेन यशस्विना। बभूव नारी कल्याणी सर्व्वाभरणमूषिता। दीप्यमाना श्रिया राजन्! दिव्यरूपा मनोरमा। तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः। तां स्त्रियां परमप्रीत इदं वचनमब्रवोत्। का वै त्वमसि कल्याणि! कुतो वासि जलेचरी। किमर्थञ्च महत् पापमिदं कृतवती पुरा?। बर्गोवाच। अप्सरास्मि महावाहो! देवारण्यविहारिणी। इष्टा धनपतेर्नित्यं वर्गा नाम महाबल!। मम सख्यश्चतस्रोऽन्याः सर्व्वाः कामगमाः शुभाः। ताभिः सार्द्धं प्रयातास्मि लोकपालनिवेशनम्। ततः पश्यामहे सर्व्वा ब्राह्मणं संशितव्रतम्। रूपवन्तमधीयानमेकमेकान्तचारिणम्। तस्य वै तपसा राजंस्तद्वनं तेजसा युतम्। आदित्य इव तं देशं कृत्स्नं सर्वं व्यकाशयत्। तस्य दृष्ट्वा तपस्तादृग्रूपञ्चाद्भुतमुत्तमम्। अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया। अहञ्च सौरभेयो च समीचा बुद्बुदा लता। यौगपद्येन तं विप्रसम्यगच्छाम भारत!। गायन्त्योऽथ हसन्त्यश्च लोभयन्त्यश्च तं द्विजम्। तु च नाम्मासु कृतवान् मनो वीर! कथञ्चन। नाकम्पत महातेजाः स्थितस्तपसि निर्म्मले। सोऽशपत् कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ!। ग्राहभूता जले यूयं चरिष्यथ शतं समाः!। वर्गोवाच। ततो वयं प्रव्यथिताः सर्व्वा भारतसत्तम!। अयाम शरणं विप्रं तं तपोधनमच्युतम्। रूपेण वयसा चैव कन्दर्पेण च दर्पिताः। अयुक्तं कृतवत्यः स्म क्षन्तु मर्हसि नो द्विज!। एषएव बधोऽस्माकं सुपर्य्याप्तस्तपोधन!। यद्वय संशितात्मानं प्रलोब्धं त्वामिहागताः। अबध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्म्मचारिणः। तस्माद्धर्म्मेण वर्त्तस्व नास्मान् हिंसितुमर्हसि। सर्व्वभूतेषु धर्मज्ञ! मेत्रोब्राह्मण उच्यते। सत्यो भवतु कल्याण एवं वादो मनीषिणाम्। शरणञ्च प्रपन्नानां शिष्टाः कुर्व्वन्ति पालनम्। शरणं त्वां प्रपन्नाः स्मस्तस्मात्त्वं क्षन्तुमर्हसि। वैशम्पायन उवाच। एवमुक्तः स धर्म्मात्मा ब्राह्मणः शुभकर्म्मकृत्। प्रसादं कृतवान् वीर! रविसोमसमप्रभः। ब्राह्मण उवाच। शतं शतसहस्रन्तु सर्वमक्षय्यवाचकम्। परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम्। यदा च वो ग्राहमूता गृह्णतीः पुरुषान् जले। उत्कर्षति जलात्तस्मात् स्थलं पुरुषसत्तमः। तदा यूयं पुनः सर्व्वाः स्वं रूपं प्रतिपत्त्स्यथ। अनृतं नोक्तपूर्व्वं मे हसतापि कदाचन। तानि सर्व्वाणि तीर्थानि ततः प्रभृति चैव ह। नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्व्वशः। पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम्। चर्गोवाच। ततोऽभिवाद्यतं विप्रं कृत्वा चापि प्रदक्षिणम्। अचिन्तयामापसृत्य तस्माद्देशात् सुदुः खिताः। क नु नाम? वयं सर्व्वाः कालेनाल्पेन तं नरम्। समागच्छेम यो नस्तद्रपमासादयेत् पुनः। ता बयं चिन्तयित्वैव मुहूर्त्तादिव भारत!। दृष्टवत्यो महाभागं देवर्षिमुत नारदम्। संप्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्। अभिवाद्य च तं पार्थ! स्थिताः स्मोव्रीडिताननाः। स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयञ्च तत्। श्रुत्वा तत्र यथावृत्तमिदं वचनमब्रवीत्। दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै। पुण्यानि रमणीयानि तानि गच्छत मा चिरम्। तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः। मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः। तस्य सर्व्वा वयं वीर! श्रुत्वा वाक्यमिहागताः। तदिदं सत्यमेवाद्य मोक्षित्वा मां त्वयाकृतम्। एतास्तु मम ताः सख्यश्चतस्रोऽन्या जले श्रिताः। कुरु कर्म्म शुभं वीर! एताः शापाद्विमोक्षय! वैशम्पायन उवाच। ततस्ताः पाण्डवश्रेष्ठः सर्व्वा एब विशाम्पते!। तस्माच्छापाददानात्मा मोक्षयामास वीर्यवान्। उत्थाय च जलात्तस्मात् प्रतिलभ्य वपुः स्वकम्। तास्तदाप्सरसो राजम्नदृश्यन्त यथा पुरा। तीर्थानि शोचयित्वा तु तथानुज्ञाय ताः प्रभुम्। चित्राङ्गदां पुनर्द्रष्टुं तदा मणिपुरं ययौ”।
कारन्धमिन् = पु० स्त्री करएव कारस्तं धमति ध्मा–इनि पृषो०। १ कांस्यकारे स्त्रियां ङीप्। २ धातुवादरते च मेदि०
कारपचव = पु० देशभेदे। “अवभृथमलभ्यवयन्ति यमुनां कारपचवं प्रति” कात्या० श्रौ० २४। ६। १० कारपचवो देशभेदस्तन्मध्ये यमुना वर्त्तते तां कारपचवदेशस्थां यमुनां प्राप्य तत्रावभृथमभ्यबयन्ति” संग्र० व्या०।
कारभ = त्रि० करभस्येदम् अण्। करभसम्बन्धिनि मूत्रादौ “अर्शोघ्नं कारभं मूत्रं मानुषन्तु विषापहम्” सुश्रुतः।
कारभू = स्त्री करएवकारः तस्य भूः। राजग्राह्यकरग्रहणभूमौ।
कारमिहिका = स्त्री कारं जलसम्बन्धं मेहति मिह–सेके क ततः स्वार्थे क अत इत्त्यम्। कर्पूरे राजनि०।
कारम्मा = स्त्री० ईषत् रम्भा कोः कादेशः। प्रियङ्गुवृक्षे अम०
कारयिष्णु = त्रि० कृ–णिच्–इष्णुच्। कारयितरि।
कारव = पु० स्त्री केति रवोऽस्य। काके त्रिका० स्त्रियां ङीष्।
कारवल्ली = स्त्री कुत्सितआरो गतिर्यस्याः कर्म०। कारवेल्ले (करेला)। कारवान् कर्म्मयुक्तः सन् लीयते ली–क्विप्। २ काण्डीरे काण्डधरे राजनि०।
कारवी = स्त्री कारं वाति वा कके जलोपलक्षितवर्षाकाले रवोऽस्य कारवोमयूरस्तस्य पुच्छमिवाकारोऽस्त्यस्थ अच्, कृ हिंसायां स्वार्थेणिच्–क्विप् काः तमवति अण् वा गौरा० ङीष्। १ शतपुष्पायाम्, (मौर) २ रुद्रजटायाम्, ३ मयूरशिस्वालतायाम्। ४ कारवेल्ले, (करेला) ५ त्वक्पत्र्याम् (तेजपात) ६ कृष्णजीरके च। ७ क्षुद्रकारवेल्ले अमरः राजनि० ८ काकयोषिति च।
कारवीरेय = त्रि० करवीरेण निर्वृत्तादि करवीर + चतुरर्थ्यां सख्या० ढञ्। करवीरनिर्वृत्तादौ।
कारवेल्ल = पु० कारेण वातगत्या वेल्लति वेल्ल–चालने अच्। शाताभेदे (करेला) २ तत्फले न०। “कारवेल्लं हिमं भेदि लघु तिक्तमवातलम्। ज्वरपित्तकफास्रघ्नं पाण्डुमेह कृमीन् हरेत्” भावप्र०। स्वार्थे क कारवेल्लकोऽपि तत्रैव अल्पार्थे ङीष्। २ क्षुद्रकारवेल्ले (उच्छा)। अमरः। कार वेल्लमुक्त्वा “तद्गुणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः। कारवेल्लीफलं तक्रे स्वेदितं हिङ्गुमर्द्दितम्। भर्ज्जितं नवनीतेन सैन्धवेन समन्वितम्” भावप्र०। “विदलितमुखमीषत् कारवेल्लीकठोरं पुलकितमिव तैलैः माधितं रामष्ठेन। रचितमरिचचूर्ण्णं सैन्धवेनातिपूर्ण्णं सुललितरसनाग्रं लोलतामातनोति” पाकशा०। कारवेल्लीफलं भेदि लघु तिक्तं मुशीतलम्। पित्तास्रकामलापाण्डुकफमेदकृमीन् हरेत्” वैद्यकम्। स्वार्थे क कारवेल्लिकाप्यत्र स्त्री।
कारस्कर = कारं बधं करोति कृ–हेत्वादौ ट वृक्षे नि० सुट्। विषतिन्दौ किम्पाके वृक्षे राजनि० दासादौ न सुट्।
कारस्कराटिका = स्त्री कारस्कर इवाटति अट–ण्वुल्। कर्ण्णजलौकायाम्। त्रिका०।
कारा = स्त्री कृ–हिंसायां भिदा० भावे अङ “ऋदृशोऽङि” पा० गुणः “काराबन्धने” पा० ग० दीर्घनिर्द्देशात् दीर्घः। १ बन्धने मेदि० २ पीडायां त्रिका० पा० ग० बन्धनशब्दस्य बन्धनाधारपरत्वे ३ बन्धनागारे अमरः। कुत्सितमृच्छति ऋ–अच् कोः का। ४ दूत्याम् ५ प्रसेवके। ६ स्वर्ण्णकारिकायाञ्च मेदि०। ७ शब्दे च। काराधुनी।
कारागार = न० कारायाबन्धनस्यागारं गृहम् बन्धनागारे (जेलखाना) “रिपुः कारागारं कलयति च तं केलिकलया” कर्पूरस्तवः। कारागृहादयोऽप्यत्र।
कारागुप्त = त्रि० कारायां बन्धनागारे गुप्तः। (कएदी) बन्धनाकाररुद्धे हेमच०।
कारापथ = पु० देशभेदे। तत्र च लक्ष्मणात्मजाङ्गदचन्द्रकेतु राज्यमासीत् “अङ्गदं चन्द्रकेतुञ्च लक्ष्मणोऽप्यात्मसम्भवम्। शासनात् रघुनायस्य चक्रे कारापथेश्वरौ” रघुः।
कारायिका = स्त्री कं जलमाराति प्रचरणस्थानत्वेन आ + रा–ण्वुल्। बलाकायां जटाधरः।
काराधुनी = स्त्री कारा शब्दः तस्याधुनी उत्पादयित्नी। शब्दनिष्पादके शङ्खादौ। “अगस्त्योनरां नृषु प्रशस्तः काराधुनीव” ऋ० १, १८०, ४। “कारा शब्दः” भा०
कारि = स्त्री कृ–भावे प्रश्नाख्यानविषये इञ्। प्रश्नाख्यानविषये १ क्रियायाम्। “कां कारिमकार्षीः? सर्वां कारिमकार्षम्” इत्यादि। कृ–कर्त्तरि शिल्पिनि इञ्। २ शिल्पिनि त्रि०।
कारिका = स्त्री कृ–भावे ण्वुल्। १ क्रियायाम्। “कारिकाशब्द स्योपसंख्यानम्” वार्त्ति० क्रियायोगेऽस्य गतित्वम् तत्र कारिका क्रिया, कारिकाकृत्य” सि० कौ०। तत्र दासीश्लोकवा चकस्य क्रियाशब्दस्य न ग्रहणं तथाव्याख्यनात्। कारः रोगबधः साध्यतयास्त्यस्य ठन्, कृ–हिंसायां ण्वुल् वा। रोगनाशिकायां २ कण्टकार्य्यां राजनि०। ३ नटयोषिटि ४ विवरणश्लोके अल्पाक्षरेण बह्वर्थज्ञापकश्लोकभेदे। ५ शिल्पिरचनीयाम् मेदि०। ६ वृद्धिभेदे (मुद) रमानाथः।
कारित = स्त्री कृ–णिच–कर्म्मणि क्तः। १ करणाय प्रेरिते। “विष्णुः शरीरग्रहणमहमीशानएव च। कारितास्ते यतोऽतस्त्वाम्” देवीमा०। २ अधमर्ण्णेन स्वकार्य्यसिद्धये नियतवृद्धेरङ्गीकृताधिकवृद्धौ स्त्री “वृद्धिः सा कारिता नाम यर्ण्णिकेन स्वयं कृता” मिता० ना० स्मृतिः। “ऋणिकेन तु या वृद्धिरधिका संप्रकीर्त्तिता। आपत्काले कृता नित्यं सा तु स्यात् कारिता मता” कात्या०।
कारी = स्त्री कृ–हिंसायाम् इञ् स्त्रियां ङीष्। कण्टकारिवृक्षे राजनि०। तस्याः अण्टकाचितत्वेन हिंसासाधनत्वात् रोगहिंसाकारकत्वाद्वा तथात्वम्।
कारीर = न० करीरस्यावयवः काण्डं भस्म वा पलाशा० अञ्। १ वंशस्य काण्डे २ वंशभस्मनि च।
कारीरी = स्त्री कं जलमृच्छति ऋ–विच् कारं सजलमेघमीरयति ईर–अण् उप० स० गौ० ङीष्। वर्षहेतौ इष्टभेदे। “वर्षकामेष्टिः कारीरी” “तस्यां प्रति त्यं चारुमध्वरमीडे अग्निं स्ववसं नमोभिरिति धार्य्ये” आश्व० श्रौ० २। १३। १। २। “वर्षकामस्य कारीरी नाम इष्टिः कार्य्या। तस्यां–कारीर्य्याम्। अत्र बहुदैवत्याया आम्नानात् अन्यदा इयमेव कारोरी एकदैबत्या भवति तस्यामपि प्रापणार्थं तस्यां ग्रहणमिति” नारा०। आरब्धायां कारीर्य्यां कृतार्द्धायां वर्षणे सति सा समापनीया न वेति सन्देहे कात्या० श्रौ० १। २। २२ सू० निर्ण्णीतं यथा “दृष्टे तत्परिमाणम्” कृतार्द्धायामिष्टौ वर्षणे दृष्टे सति तत्परिमाणमेव कर्म्म कर्त्तव्यं यत्परिमाणमदृष्ठे वर्षणे क्रियते। न तु वृष्टौ दृष्टायां किमप्यन्यूनं कृतार्द्धं परित्याज्यमिति। न च वर्षणं तत्र तस्या इष्टेः फलं, किन्तु कालस्बभावात् प्रतिबन्धकापगमाच्च स्वयं प्रवृत्तम् इत्याशयः” सं० व्या०। अतएव जैमिनिना ६, २, १३, कर्मणि आरब्धे फलेच्छाराहित्ये, कथञ्चित् फलप्राप्तौ च आरब्धस्य काम्यकर्म्मणः समाप्यत्वमुक्तं यथा “प्रक्रमात्तु नियुज्येतारम्भस्य निमित्तत्वादिति” व्याख्यातं चेदं शवरस्वामिना यथा “प्रजाकामो यजेत, ग्रामकामो यजेत”–इत्येवमादि कर्म समाम्नायते। तत्र सन्देहः–किं प्रक्रान्तं नियोगतः समापनीयम्, उतेच्छया कार्य्यं हेयं वा?–इति कुतः? एवं प्राप्तं?–नियोगतः परिसमापयितव्यम्–इति। कुतः? एवं हि श्रूयते,–इदंकामो यजेत–इति, एवं तस्य आख्यातस्य अर्थम् उपदिशन्ति, ‘उपक्रमप्रभृति अपवर्गपर्यन्तम् आह–इति, उपक्रमादारभ्य यावत् परिसमाप्तिः–इत्येतावान् व्यापारविशेषः तस्य अर्थः, न यथा पाकः त्यागः–इति। तत्र हि पाकसत्तामात्रं निर्द्दिश्यते न आरभ्य परिसमापयितव्यम्। एवं च आख्याताथैं लौकिका अपि प्रतिपद्यन्ते, तत्र न आरम्भे पुरुषप्रयत्नः नोद्यते–इति गम्यते। यतो नोदितं न नियोगत आरभन्ते, नियोगतः पुनः परिसमापयन्ति, तेन नोभे आरम्भपरिसमाप्ती शब्दार्थः किन्तर्हि?–परिसमाप्तिः शब्दार्थः परिसमाप्त्याऽर्थप्राप्तत्वात् आरम्भस्य। तस्मात् परिसमाप्तिः शब्दार्थः–डति गम्यते। सा चेत् शब्दार्थः, सा कर्त्तव्यतया नोद्यते, आरम्भे नास्ति कर्त्तव्यतावचनं’ तेन न नियोगत आरम्भः, नियोगतस्तु परिसमाप्तिः। तेन उपक्रान्ते कर्मणि यदि वीयात् फलेच्छा, अवाप्नोति वा फलं, तस्यामप्यवस्थायां, कर्त्तव्यमेव उपक्रान्तस्य परिसमापनम्। ननु अथिनो योऽर्थः सोऽत्र कर्त्तव्यतयोच्यते’। नैतदेवं, वाक्यार्थो हि स भवति, यागस्य तु कर्त्तव्यता श्रुत्या गम्यते। तस्मात् ग्रामकामेण याग आरब्धः परिसमापनीयः ग्रामादिकामनावचनं निमित्तत्वेन तदा भवति निमित्ते च उत्पन्ने यत् कर्त्तव्यम्–इत्युच्यते, तद्विनष्टेऽपि निमित्ते कर्त्तव्यम्, न हि तद्विनष्टम् अनुत्पन्नं भवति, उत्पत्तिश्च निमित्तं न भावः तस्मात् वीतायामपि फलेच्छायाम् उपक्रान्तं परिसमापयितव्यम। क्रियाया हि निमित्तम् आरम्भः सोऽषि परिसमाप्तेः” इति। कारीरीष्टिं प्रकृत्थ श्रूयते च। “यदि वर्षेत्तावत्येव जुहुयात्” “कारीरीमनुवृष्टिः” सि० कौ०।
कारीष = न० करीषाणां समूहः अण्। शुष्कगोमयसमूहे।
कारीषगन्धि = त्रि० कारीषस्येव गन्धोऽस्य इत्समा०। शुष्कगोमयसंघगन्धयुक्ते स्त्रियां ष्यङ् चाप्। कारीषगन्ध्या तस्याः तत्पुरुषे पुत्रपत्योः परवोः संप्रसा० दीर्घश्च। कारीषगन्धीपुत्रः कारीषगन्धीपतिः। एवं परमकारीषगन्धीपुत्रः। उपसर्ज्जने तु न, अतिकारीषगन्ध्यापतिः। बन्धुशब्देपरे तु वहुव्रीहौ तथा वा, कारीषगन्ध्याबन्धुः कारीषगन्धीबन्धुः। एवं कौमुदगन्ध्याशब्दस्यापि संप्रसारणदीर्घौ।
***