कामि = त्रि० कम–णिङ्–इण्। कामुके। कामपत्न्यां रत्यां स्त्री मेदि०।
कामिक = पुंस्त्री कामोऽस्त्यस्यठन्। १ कारण्डवपक्षिणि शब्दर० स्त्रियां जातित्वात् ङीष्। कामेन निर्वृत्तम् ठञ्। २ कामेन निर्वृत्ते काम्ये। “देवतास्तस्य तुष्यन्ति कामिकं तस्य सिध्यति” भा० अनु० ६०२५ श्लो०। स्त्रियां ङीप्। “ततैष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम्” भा० अनु० १९६९ श्लो०। कामिकं काम्यमधिकृत्य कृतोग्रन्थः अण्। ३ काम्याधिकारेण कृते ग्रन्थे हेमाद्रौ तत्प्रमाणानि भूरीणि सन्ति कामधेनुशब्दे दिङ्मात्रं दृश्यम्।
कामिन् = त्रि० कम–णिङ्–णिनि। १ कामनायुक्ते २ अतिशयस्मरवेगयुक्ते च। “स बभूव ततः कामी तया सार्द्धमकामया” भा० आ० ४१८४ श्लो०। स्त्रियां ङीप् ङीबन्तः ३ स्त्रीसामान्ये। काम + भूम्नि प्राशस्त्ये वा इनि ङीप्। ४ अतिस्मरवेगयुक्तायां स्त्रियां ५ सुन्दर्य्यां च स्त्री अमरः। “केषां नैषा भवतिकविता कामिनी कौतुकाय” प्रसन्नरा०। “मधूनि वक्त्राणि च कामिनीनामामोदकर्म्म व्यतिहारमीयुः” माघः। ६ भीरुस्त्रियां ७ वन्दायां (परगाछा) मेदि०। ८ दारुहरिद्रायां सुन्दरवर्णवत्त्वात् तस्या तथात्वम् ९ सुरायाञ्च स्त्री राजनि०। तस्याः कामाधिक्यसम्पादकत्वात्तथात्वम्। प्रशस्तः कामोऽस्त्यस्य इनि। १० सत्यसङ्कल्पे परमेश्वरे पु०। “कामी कान्तः कृतागमः” विष्णुस०। ११ चक्रवाके १२ पारावते च पुंस्त्री मेदि० १३ चटके पुंस्त्री शब्दर० एतेषां कामातिशयवत्त्वात्तथात्वम्। १४ चन्द्रे पु० त्रिका० कामोद्दीपकत्वात्तस्य तथात्वम्। १५ ऋषभोषधौ पु० सेवनेन कामपोषणात्तस्य तथात्वम्। १६ सारसपक्षिणि च पुंस्त्री राजनि० कामुकत्वात्तस्य तथात्त्वम्। सर्वत्र स्त्रियां ङीप् १७ कामशक्तिभेदे स्त्री। कामिनीविरागानुरागचिह्नतत्सेवप्रकारादिः वृ० स० दर्शितो यथा “शस्त्रेण वेणीविनिगूहितेन विदूरथं (राजभेदम्) स्वा महिषी जघान। विषप्रदिग्धेन च नूपुरेण देवी विरक्ता किल काशीराजम्। एवं विरक्ता जनयन्ति दोषान् प्राणच्छिदोऽन्यैरनुकीर्त्तितैः किम्?। रक्ता विरक्ताः पुरुषैरतोऽर्थात् परीक्षितव्याः प्रमदाः प्रयत्नात्। स्नेहं मनोमवकृतं कथयन्ति भावान्नाभीभुजस्तनविभूषणदर्शनानि। वस्त्राभिसंयमनकेशविमोक्षणानि भ्रूक्षेपकम्पितकटाक्षनिरीक्षणानि। उच्चेःष्ठीवनमुत्कटप्रहसितं शर्य्यासनोत्सर्पणं गात्रास्फोटनजृम्भणानि सुलभद्रव्याल्पसम्प्रार्थना। बालालिङ्गनचुम्बनान्यमिमुखे सख्याः समालोकनं दृक्पातश्च पराङ्नुखे गुणकथा कर्णस्य कण्डूयनम्। इमां च विन्द्यादनुरक्तचेष्टां प्रियाणि वक्ति स्वधनं ददाति। विलोक्य संहृष्यति वीतरोषा प्रमार्ष्टि दोषान् गुणकीर्तनेन। तन्मित्रपूजा तदरिद्विषत्वं कृतस्मृतिः प्रोषितदौर्मनस्यम्। स्तनौष्ठदानान्युपगूहनं च स्वेदोऽथ चुम्बाप्रथमाभियोगः। विरक्तचेष्टा भ्रुकुटीमुखत्वं पराङ्मुखत्वं कृतविस्मृतिश्च। असंभ्रमोदुष्परितोषता च तद्द्विष्टमैत्री परुषं च वाक्यम्। स्पृष्ट्वाथवालोक्य धुनोति गात्र करोति गर्वं न रुणद्धि यान्तम्। चुम्बाविरामे वदनं प्रमार्ष्टि पश्चात्समुत्तिष्ठति पूर्वसुप्ता। भिक्षाणिका प्रव्रजिता दासी धात्री कुमारिका रजिका। मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः। कुलजनविनाशहेतुर्दूत्यो यस्मादतः प्रयत्नेन। ताभ्यः स्त्रियोऽभिरक्ष्या वंशयशोमानवृद्यथम्। रात्रीविहारजागररोगव्यपदेशपरगृहेक्षणिकाः। व्यसनोत्सवाश्च संकेतहेतवस्तेषु रक्ष्याश्च। आदौ नेच्छति नोज्झति स्मरकथां व्रीडाविमिश्रालसा मध्ये ह्रीपरिवर्ज्जिताभ्युपरमे लज्जाविनम्रानना। भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा बुद्धा पुम्प्रकृतिं च यानुचरति ग्लानेतरैश्चेष्टितैः। स्त्रीणां गुणा यौवनरूपवेषदाक्षिण्यविज्ञानविलासपूर्वाः। स्त्रीरत्नसञ्ज्ञा च गुणान्वितासु स्त्रीव्याधयोऽन्याश्चतुरस्य पुंसः। न ग्राम्यवर्णैर्मलदिग्धकाया निन्द्याङ्गसम्बन्धिकथां च कुर्य्यात्। न चान्यकार्य्यस्मरणं रहःस्था मनो हि मूलं हरदग्धमूर्त्तेः। श्वासं प्रकम्पेण समं त्यजन्ती बाहूपधानस्तनदानदक्षा। सुगन्धकेशा प्रसभोपरागा सुप्तेऽनुसुप्ता प्रथमं विबुद्धा। दुष्टस्वभावाः परिवर्जनीया विमर्दकालेषु च न क्षमा याः। यासाममृग्वा सितनीलपीतमाताम्रवर्णं च न ताः प्रशस्ताः। या स्वप्नशीला बहुरक्तपित्ता प्रवाहिनी वातकफातिरिक्ता। महाशना स्वेदयुताङ्गदुष्टा या ह्रस्वकेशी पलितान्विता च। मांसानि यस्याश्च चलन्ति नार्य्या महोदरा खिक्खिमिनी च या स्यात्। स्त्रीलक्षणे याः कथिताश्च पापास्ताभिर्न कुर्य्यात्सह कामधर्म्मम्। शशशोणितसङ्काशं लाक्षारससन्निकाशमथवा यत्। प्रक्षालितं विरज्यति यच्चासृक् तद्भवेच्छुद्धम्। यच्छब्दवेदनावर्जितं त्र्यहात्सन्निवर्तते रक्तम्। तत् पुरुषसम्प्रयोगादविचारं गर्भतां याति। न दिनत्रयं निषेवेत् स्नानं माल्यानुलेपनं च स्त्री। स्नायाच्चतुर्थदिवसे शास्त्रोक्तेनोपदेशेन। पुष्पस्नानौषधयो याः कथितास्ताभिरम्बुमिश्राभिः। स्नायात्तथात्रमन्त्रः स एव यस्तत्र निर्द्दिष्टः। युग्मासु किल मनुष्या निशासु नार्यो भवन्ति विषमासु। दीर्घायुषः सुरूपाः सुखिनश्च विकृष्ट (प्रशस्त) युग्मासु। दक्षिणपार्श्वे पुरुषो, वामे नारी, यमावुभयसंस्थौ। यदुदरमध्योपगतं नपुंसकं तन्निबोद्धव्यम्। केन्द्रत्रिकोणेषु शुभस्थितेषु लग्ने शशाङ्के च शुभैः समेते। पापैस्त्रिलाभारिगतैश्च यायात् पुञ्जन्मयोगेषु च सम्प्रयोगम्। न नखदशनविक्षतानि कुर्य्याद् ऋतुसमये पुरुषः स्त्रियाः कथञ्चित्। ऋतुरपि दश षट् च वासराणि प्रथमनिशात्रितयं न तत्र गम्यम्”। “आयुःक्षयभयाद्विद्वान्नाह्नि सेवेत कामिनीम्। अवशो यदि सेवेत तदा ग्रीष्मवसन्तयोः” इति सामान्यत उक्त्वा बालाद्यवस्थापन्नकामिनीनां सेवने फलम्, कामिनीसेवन प्रकारश्च भावप्र० दर्शितो यथा “बालेति गीयते नारी यावद्वर्षाणि षोडश। ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि। तदूर्द्ध्वमधिरूढा स्यात् पञ्चाशद्वत्सरावधि। वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्जिता। अधिरूढा प्रौडा। निदाघशरदोर्बाला हिता विषयिणी (भोगार्हा) मता। तरुणी शीतसमये प्रौढा वर्षावसन्तयोः। नित्यम्बाला सेव्यमाना नित्यं वर्द्धयते बलम्। तरुणी ह्णासयेच्छक्तिं प्रौढोद्भावयते जराम्। सद्यो मांसन्नवञ्चान्नं बाला स्त्री क्षीरभोजनम्। घृतमुष्णोदके स्नानं सद्यः प्राणकराणि षट्। पूति मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि। प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट्। प्राणशब्दोऽत्र बलवाचकः। बालार्कः कन्यार्कः। वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात्। वयोऽधिकां स्त्रियङ्गत्वा तरुणः स्थविरायते। आयुष्मन्तो मन्दजरा वपूर्वर्णबलान्विताः। स्थिरोपचित मांसाश्च भवन्ति स्त्रीषु संमताः। सेवेत कामतः कामं बलाद्वाजीकृतो हिमे। प्रकामन्तु निषेवेत मैथुनं शिशिरागमे। त्र्यहाद्वसन्तशरदोः पक्षात् वृष्टिनिदाघयोः। सुश्रुतस्तु “त्रिभिस्त्रिभिरहोभिर्हि समेयात्प्रमदां नरः। सर्व्वेष्वृतुषु घर्म्मेषु पक्षात्पक्षाद्व्रजेद्बुधः”। समेयात् सङ्गच्छेत घर्म्मेषु ग्रीष्मेषु। “शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवानिशि। वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः। उपेयात् पुरुषो नारीं सन्ध्ययोर्नच पर्व्वसु। गोसर्गे चार्द्धरात्रे च तथा मध्यदिनेऽपि च। विहारम्भार्य्यया कुर्य्याद्देशेऽतिशयसंवृते। रम्ये श्रव्याङ्गनागाने सुगन्ते मुखमारुते। देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे। श्रूयमाणे व्यथाहेतुवचने न रमेत ना। स्नातश्चन्दनति- प्ताङ्गः सुगन्धः सुमनोऽन्वितः। भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः। ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकस्मरः। पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे। अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपा सितः। बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रीगी च मैथुनम्। रोगी मैथुनसंवर्द्धनीयरोगयुक्तः। भार्य्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम्। अभिकामोऽभिकामान्तु हृष्टो हृष्टामलङ्कृताम्। सेवेत प्रमदां युक्त्या वाजीकरणवृहितः। रजस्वलामकामाञ्च मलिनामप्रियान्तथा। वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्। हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम्। सगोत्राङ्गुरुपत्नीञ्च तथा प्रव्रजितामपि। नाभिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया। रजस्वलाङ्गतवतो नरस्यासंयतात्मनः दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत्। लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्व्वसु। वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो जीवनक्षयः। लिङ्गिनीं प्रब्रजिताम्। गर्भिण्यां गर्भपीडा स्याद्व्याधितायां बलक्षयः। हीनाङ्गीं मलिनां द्वेष्यां क्षामाम्बन्ध्यामसं वृते। देशेऽभिगच्छतो रेतः क्षीणं म्लानं मनो भवेत्। गर्भिणीं गर्भवासदिवसात् द्वितीये मासि, गर्भस्थितेरनिश्चये यथोक्तनक्षत्रादिलाभाभावे वा तृतीये मासि पुंसवने कृते नाभिगच्छेत्। यतः पुंसवनानन्तरमाह व्यासः “ततस्त्यजेन्नदीतीरं देवखातोदकं तथा। भर्त्तुः शय्यां मृतापत्यां तथैवामिषभोजनम्”। अन्यच्च “आमिषस्याशनं यत्नात्प्रमदा परिवर्ज्जयेत्। देवारामनदीयानं प्रयोगं पुरुषस्य चेति”। क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः। स्थितस्य हानिं शुक्रस्य वायोः कोपञ्च विन्दति। व्याधितस्य रुजा प्लीहा मूर्च्छा मृत्युश्च जायते। प्रत्यूषे चार्द्धरात्रे च वातपित्ते प्रकुप्यतः। तिर्य्यग्योनावयोनौ वा दुष्टयोनौ तथैव च। उपदंशस्तथा वायोः कोपः शुक्रसुखक्षयः। उच्चारिते मूत्रिते च रेतसश्च विधारणे। उत्ताने च भवेत् शीघ्रं शुक्राश्मर्य्यास्तु सम्भवः। सर्व्वमेतत्त्यजेत्तस्माद्यतो लोक द्वयाऽहितम्। शुक्रन्तूपस्थितम्मोहान्न सन्धार्य्यं कदाचन। स्नानं सशर्क्वरं क्षीरं भक्ष्यमैक्षवसंयुतम्। वातोमांसरसः स्वप्नो सुरतान्ते हिता अमी। शूलकासज्वरश्वास कार्श्यपाण्ड्वामयक्षयाः। अतिव्यवायाज्जायन्ते रोगाश्चाक्षेप्रकांदयः”।
कामिनीश = पु० कामिन्याः कामिनीप्रियाञ्जनस्य इमखत्साधनत्वात्। शोभाञ्जनवृक्षे शब्दच०। तस्य कामिनी प्रियाञ्जनहेतुत्वात् तथात्वम्।
कामीन = पु० काममनुगच्छति ख। १ रामपूगे त्रिका०। कामानुगते त्रि०। कामील इति त्रिका० पाठान्तरं पृषो०। रामपूगे।
कामुक = त्रि० कमः उकञ्। १ अशोकवृक्षे २ माधवीलतायाम् मेदि०। ३ चटके पुंस्त्री राजनि०। मैथुनेच्छावति त्रि० अम०। स्त्रियां ङीप्। इच्छामात्रयुक्ते त्रि० अम० तत्र स्त्रियां न ङीप् किन्तु टाप् इति भेदः “बोधयित्वा शुभैर्वाक्यैः कामिनीमिव कामुकः” रामा०।
कामुककान्ता = स्त्री ६ त०। माधवीलतायाम् राजनि०।
कामुकायन = पु० स्त्री कामुकस्यापत्यं नडादि० फक्। कामुकापत्ये स्त्रियां ङीप्।
कामेश्वर = पु० कामानामीश्वरः। १ परमेश्वरे २ भरवीभदे स्त्री “कामेश्वरी च रुद्रार्णा पूर्व्वसिंहासने स्थिता” तन्त्रसा० कामाख्यापञ्चमूर्त्त्यन्तर्गते ३ मूर्त्तिभेदे च स्त्री “देव्याश्चापि नरश्रेष्ठ! पञ्च रूपाणि भैरव!। शृणु वेताल! गुह्यानि देवैरपि सदैव हि। कामाख्या १ त्रिपुरा २ चैव तथा कामेश्वरी ३ शिवा ४। सारदा ५ऽथ महोत्साहा कामरूपगुणैर्युता” कालिका पु० ६१ अ०।
कामोदक = न० कामेन स्वेच्छता प्रेतोद्देशेन दीयमानम् उदकम्। मृतोद्देशेन स्वेच्छया दीयमाने उदके। स्वेच्छया तद्दानञ्चप्रेतविशेषायैव यथाह मनुः “नाद्विवर्षस्य कर्त्तव्या बान्धवैरुदकक्रिया। जातदन्तस्य वा कुर्य्युर्नाम्निवाऽपि कृते सति” अत्र वाशब्देन इच्छया तद्दानम्। व्यक्तमाह लौगाक्षिः “तूष्णीमेवोदकं कार्यं तूष्णीं संस्कारमेव च। सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम्” चौलकर्मानन्तरकाले नियमेनाग्न्यदकं कार्य्यम् अन्यत्रापि नामकरणादूर्द्ध्वभकृतचूडेऽपि इच्छया प्रेताभ्युदयकामनया द्वयमग्न्युदकदानाख्यं तूष्णीं कार्य्यं न नियमेनेति विकल्पः” मिता०
कामोदा = स्त्री कुत्सितो मोदो यस्याः। रागिणीभेदे हला०।
काम्पिल्य = पु० १ देशभेदे शब्दरत्ना० २ पुरभेदे च। “माकन्दीमथ गङ्गायास्तीरे जनपदायुताम्। सोऽध्यवात्सीत् दीनमनाः काम्पिल्यञ्च पुरोत्तमम्”। दक्षिणांश्चापि पाञ्चालान् यावत् चर्म्मण्वतीं नदीम्। द्रोणेन चैवं द्रुषदः परिभूयाऽथ पालितः” भा० आ० १८०। “काम्पिल्ये ब्रह्मदत्तस्य त्वन्तःपुरनिवासिनी” भा० शा० १३९ अ०। तत्र जातादि “धन्वयोपधाद्वुञ्” पा० वञ। काम्पिल्यक तद्भवादौ। काम्पिल्यदेशः उत्पत्तिस्थानत्वेनास्त्यस्य अच्। (गुडारोचना) ३ नामगन्धद्रव्ये अस्यैव चूर्णम् (कमला गुडि) कापिल्ल काम्पिल्यक एतावप्यत्र पृषो० साधु।
कापिल्लका = स्त्री देशभेदे हारावली।
काम्पील = पु० पृषो० काम्पिल्यशब्दार्थे “देवीं काम्पील वासिनोम्” यजु० २३। १८। स्वार्थे कन् तथार्थे।
काम्बल = पु० कम्बलेन परिवृतो रथः अण्। कम्बलपरिवृते रथे अमरः।
काम्बविक = पु० स्त्री कम्बुः शङ्खभूषणं शिल्पमस्य ठक्। “येषाञ्च विरोधः शाश्वतिकः” पा० निर्देशात् “इसुसुकतान्तात् कः” पा० इत्यस्यानित्यत्वेन न कादेशः किन्तु ठस्येकः। शङ्खकारे (शा~खारी) अमरः स्त्रियां जातित्वात् ङीष्।
काम्बुका = स्त्री० कुत्सितमम्बु यस्य कोः कादेशः कप्। अश्वगन्धायाम् रत्नमाला।
काम्बोज = त्रि० कम्बोजोऽभिजनो यस्य सिन्ध्वा० अण्। पित्रादिक्रमेण कम्बोजदेशवासिनि स्त्रियां ङीप्। कम्बोजदेशे भवः कच्छा० अण्। कम्बोजभवेऽमनुष्ये त्रि० “शतं यस्तु काम्बोजान् ब्राह्मणेभ्यः प्रयच्छति” भा० शा० ३५ अ०। २ सोमबल्के ३ पुन्नागवृक्षे च पु० मेदि०। कम्बोजानां जनपदानां राजा अण्। ४ कम्बोजदेशनृपे “शकायवनकाम्बोजास्तास्ताः क्षत्रियजातयः। वृषलत्वं प्ररिगता ब्राह्मणानामदर्शनात्” भा० अनु० ३३ अ०। न केवलं तेषां शूद्रत्वं किन्तु सगरेण वेशान्यत्वं धर्म्महीनत्वं च कृतं तच्च हरिवं १४ अ० वर्णितं यया। “ततः शकान् सयवनान् काम्बोजान् पारदांस्तथा। पह्रवांश्चाथ निःशेषान् कर्त्तुं व्यवसितः किल। ते बध्यमाना वीरेण सगरेण महात्मना। वशिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम्। वमिष्ठस्त्वथ तान् दृष्ट्वा सभयेन महाद्युतिः। सगरं वारयामास तेषां दत्त्वाऽभयं तदा। सगरस्तु प्रतिज्ञाय गुरोर्वाक्यं निशम्य च। धर्मं जधान तेषां वै वेशान्यत्वं चकार ह। अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्ज्जयत्। यवनानां शिरः सर्व्वं काम्बोजानां तथैव च। पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः। निःस्वाध्यायवषट्काराः कृतास्तन महात्मना। शका यवनकाम्बोजाः पारदाः पह्नवास्तथा। कोलिसर्पाः समहिपाः दार्व्वाश्चोलाः सकेरलाः। सर्वेते क्षत्रिया स्तात! धर्मस्तेषां निराकृतः। वसिष्ठदचनाद्राजन्! सगरेण महात्मना”। तेन तेषां प्राक्क्षत्रियत्वेऽपि पश्चात् सगरेण स्वधर्मनिराकरणेन निःस्वाध्यायतादिकरणेन च म्नेच्छत्वं कृतम्। कम्बोजेषु भवा अमनुष्यतत्स्यत्वात् कच्छा अण् ङीप्। ५ माघपर्ण्याम् (माषाणी) अम०। ६ श्वेतखदिरे (पापडीखएर) मेदि०। ७ गुञ्जायां (कु~च) ८ वाकुच्याम् (हाकुच) च स्त्री राजनि०।
काम्बोजक = न० कम्बोजे भवो मनुष्यस्तत्स्थोवा “मनुष्यतत् स्थयोर्वुञ्” पा० वुञ्। कम्बोजदेशभवे १ मनुष्ये २ तत्स्थे हास्यादौ च।
काम्य = त्रि० कम–णिङ् कर्मणि यत्। १ कामनाविषये “काम्योहि वेदाधिगमः कर्मयोगश्च वैदिकः” मनुः। “काम्यानां स्वफलार्थञ्च दोषघातार्थमेव च। अतःकाम्यं नैमित्तिकं प्रायश्चित्तमिति स्थितिः” प्रा० त० जावालः। काम्यत्वञ्च तत्तत्फलकामनावदधिकारिकर्त्तव्यत्वम्। काम्यकर्मणामपि फलाभिसन्धानाभावेनानुष्ठाने मोक्षदत्वम् तदेतत् मल० त० निर्णीतम्। मनुः “इह चामुत्र वा काम्यं प्रवृत्तं कर्म्म कीर्त्त्यते। निष्कामं ज्ञानपूर्व्वन्तु निवृत्तमुप्रदिश्यते। प्रवृत्तं कर्म्भ संसेव्य देवानामेति सार्ष्टिताग्। निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै”। “कामनापूर्व्वकं कर्म्म शरीरप्रवृत्तिहेतुत्वात् प्रवृत्तं तदेव कर्म्म कामनारहितम् पुनर्ब्रह्मज्ञानाभ्यासपूर्व्वकं संसारनिवृत्तिहेतुत्वात् निवृत्तमुच्यते। सार्ष्टितां समानगतिताम् ऋषेर्गत्यर्थत्वात्। पञ्च भूतान्यत्येति अतिक्रामति मोक्षं प्राप्नोतीत्यर्थः” विष्णुपुराणम्। “विशिष्टफलदाः काम्या निष्कामाणां विमुक्तिदाः”। भगवद्गीतापि “युक्तः कर्म्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तोनिबव्यते”। युक्तईश्वराय कर्म्माणि, न फलाय इत्येवं समाहितः फलं त्यक्त्वा कर्म्माणि कुर्व्वन्निति शेषः शान्तिं मोक्षाख्यां नैष्ठिकीं निष्ठायां भवाम्। सत्वशुद्धिज्ञानप्राप्तिसर्वकर्म्मसन्न्यासज्ञाननिष्ठाक्रमेणेति वाक्य शेषः। अयुक्तस्तद्बहिर्मुखः कामकारेण कामप्रेरिततया कामतः प्रवृत्तेरिति यावत्। फले सक्तः मम फलाय इदं, कर्म्म करोमीत्येवं फले सक्तोनियतं बन्धं प्राप्नोति तथाचार्ज्जुनं प्रति भगवद्धाक्यम्। “मयि सर्व्वाणि कर्म्माणि सन्न्यस्याध्यात्मचेतसा। निराशीर्निर्ममोभूत्वा युध्यस्व विगतज्वरः”। सन्न्यस्य निःक्षिप्य समर्प्य इति यावत्। अध्यात्मचेतसा विवेकबुद्ध्या अहंकर्त्ता ईश्वराय भृत्यवत् करोमीत्यनया बुद्ध्या। निराशीस्त्यक्तकामसङ्कल्पः। अतएव निर्म्मनोमसतारहितः विगत- ज्वरः विगतसन्तापः। व्यक्तमाह सएव “यत् करोषि यदश्नासि यज्झोषि ददासि यत्। यत् तपस्यसि कौन्तेय! तत् कुरुष्व मदर्पणम्”। विष्णुपुराणे। “कर्म्माण्यसङ्कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूपे। अवाप्य तां कर्ममहोमनन्ते तस्मि~ल्लयं ते त्वमलाः प्रायन्ति”। तां कममहीं भारवर्षरूपाम्। भाग० एकादशस्कन्धे “वेदोक्तमेव कुर्व्वाणोनिःसङ्गोऽर्पितुमोश्वरे। नैष्कर्म्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः”। वेदोक्तमेव कुर्वाणो न तु निषिद्धम्। ननु कर्मणि क्रियमाणे तस्मिन्नासत्तिस्तत् फलञ्च स्यात् नतु नैष्कर्म्म्यरूपा फलसिद्धिः? अतआह निःसङ्ग इति अनभिनिवेशितवान्, ईश्वरेऽर्पितुं न फलोद्देशेन। अथ फलस्य श्रुतत्वात् कर्मणि कृते फलं भवत्येव इत्यत आह रोचनार्था इति। कर्मणि रुच्युत्पादानार्था। अतएव तत्रैव “फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम्। श्रेयोविवक्षया प्रोक्ता यथा भैषज्यरोचनम्। उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च। आसक्तमनसोमर्त्या आत्मनोऽनर्थहेतुषु। न तानविदुषः स्वार्थं भ्राम्यतोवृजिनाध्वनि। कथं युञ्ज्यात् पुनस्तेषु तांस्तमोविशतोबुधः। एवं व्यवस्थितं केचिदविज्ञाय कुबुद्धयः। फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि”। इयं फलश्रुतिर्न श्रेयःपरमपुरुषार्थपरा न भवति किन्तु बहिर्मुखानां मोक्षविवक्षया अवान्तरकर्मफलैः कर्मसु रुच्युत्पादनमात्रम्। यथा भैषज्ये औषधे रुच्युत्पादनम्। यथा “पिब निन्वं प्रदास्यामि खलु ते स्वण्डलड्डुकान्। पित्रैवमुक्तः पिबति तिक्तमप्यतिबालकः”। अत्र यथा तिक्तनिम्बादिपानस्य न खलु खण्डलड्डुकादिलाभ एव प्रयोजनम् किन्त्वारोग्यम्। तथा वेदोऽप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्म्माणि विधत्ते। ननु कर्मकाण्डे मोक्षस्य नामापि न श्रूयते कुत एवं व्याख्यायते यथाश्रुतस्यैवाघटनादित्यतआह उत्पत्त्येति द्वाभ्याम्। उत्पत्त्या स्वभावतएव कामेषु पश्वादिषु प्राणिषु आयुरिन्द्रियबलवीर्य्यादिषु पुत्रदारादिषु परिपाकतोदुःखहेतुषु अतस्तान् स्वार्थं परमसुखमविदुषः अजानतो अतो नतान् प्रह्वीभूतान् बुधोवेदोयद्बोधयति तदेव श्रेय इति विश्वसितानित्यर्थः तानेवम्भूतान् वृजिनाध्वनि पापे वर्त्मनि देवादियोनौ भ्राम्यतः। पुनस्त मोभूतवृक्षादियोनौ विशतः पशुकाम इति चायुरिन्द्रियादिकाम इति च पुत्रादिकाम इति च कथं पुनस्तेषु स्वयं बुधोवेदोयुञ्ज्यात्। तथासत्यनाप्तः स्यादिति भावः। कथं तर्हि कर्ममीमांसकाः कर्मफलपरतां वदन्ति तत्राह एवमिति व्यवस्थितम्। वेदस्याभिप्रायमविज्ञाय कुसुमिताम् अवान्तरफलरोचनतया रमणोयां परमफलश्रुतिं वदन्ति यतस्ते कुबुद्धयः तदाह हि यस्मात् वेदज्ञा व्यासादयः तथा न वदन्तीति। अतएव निष्कामकर्मणात्मज्ञानमित्युक्तम्। यथा “अयमेव क्रियायोगोज्ञानयोगस्य साधकः। कर्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते”। सोऽपि दुरितक्षयद्वारा न साक्षात्। तथाच “ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः। श्रुतिः “तमेतं वेदार्थवचनेन ब्राह्मणा विविदिषन्ति ब्रह्मचर्थ्येण तपसा दानेन श्रद्धया यज्ञेनानशनेन चेति” तमात्मानम्। अतएव यज्ञादीनां ज्ञानशेषताञ्चावधार्य्य निष्कामेषु कर्मसु प्रवर्त्तते। पण्डितेनापि मूर्खः काम्ये कर्मणि न प्रवर्त्तयितव्यः इत्याह भाग० षष्ठस्कन्धे “स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि। न राति रोगिणेऽपथ्यं वाञ्छतेऽपि भिषक्तमः’। राति ददाति। फलकामनानिन्द्यत्वमुक्तं तत्रैव “अकामः सात्विकोलोको यत्किञ्चिद्विनिवेदयेत्। तेनैव स्थानमाप्नोति यत्र गत्वा न शोचते। धर्मबाणिजिकामूढाः फलकामा नराधमाः। अर्च्चयन्ति जगन्नाथं ते कामानाप्नुवन्त्यथ। अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्। पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम्। मूर्द्ध्ना प्रतीच्छते दत्तमकामेन द्विजोत्तमाः”! इति वामनपुरा० काम्यमपि दानं विष्णुप्रीतये सार्व्वकालिकम् यथा म० त० “पुरुषोत्तमस्य तुष्ट्यर्थं प्रदेयं सार्व्वकालिकम् श्रीदत्तः “सार्व्वकालिकं मलमासादावपि विष्णुप्रीत्यर्थं देयम्” मल० त० रघु०। “सम्यक् संसाधनं कर्म कर्त्तव्यमधिकारिणा। निष्कामेण सदा पार्थ! काम्यं कामान्वितेन च” प्रा० त० भविष्यपु०। काम्यञ्च “यांत्कञ्चित् कुरुते कर्भयज्ञदानजपादिकम्। क्रियते कायिकं यच्च तत्काम्यमिति कीर्त्तितम्” इत्युक्तलक्षणम्। काम्याच्च सर्वाङ्गोपेतात् फलनिष्पत्तिः इति कात्या० श्रौ० प्रतिपादितम् तच्च कात्यायनशब्दे १८६५ पृ० प्रदर्शितम्। २ अभिरूपे सुन्दरे च “नासौ न काम्यो नच वेद सम्यक्” रघुः। कामाय हितं यत्। ३ कामोद्दीपके त्रि०।
काम्यक = न० १ वनभेदे। तस्य स्थानादि भा० व० ५ अ० दर्शितं यथा “सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते। ययुर्वनेनैव वनं सततं पश्चिमां दिशम्” इत्युपक्रमे “ततः सरस्वती कूले समेषु मरुधन्वसु। काम्यकं नाम ददृशुर्वनं सुनिजन- प्रियम्”। २ सरोवरभेदे च। “शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः” भा० प्र० ५१ अ०।
काम्यकर्म्मन् = न० कर्मधा०। स्वर्गादीष्टकामनावदधिकारिकर्त्तव्ये ज्योतिष्टोमादौ “तथैव काम्यं यत्कर्म वत्सरात् प्रथमादृते” लघुबौधा०।
काम्यदान = न० कर्मधा०। स्वर्गादिफलकामनया कर्त्तव्ये दाने “अपत्यविजयैश्वर्य्यस्वर्गार्थं यत्प्रदीयते। दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः” मरुडपु०। तस्य बन्धहेतुत्वे नामरे प्रावरणसंज्ञा कृता।
काम्यफल = न० काम्यस्य फलम्। काम्यकर्म्मणः अभिसन्धीयमाने फले। “पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधाभुजः काम्यफलाभिसन्धौ। प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिमंहितेषु” प्रा० त० रुचिस्तवः। काम्यानामपि फलाभिसन्धानाभावे मुक्तिफलकत्वमुक्तं काम्यशब्दे। कृत्रिमदेवानां पितॄणां तथात्वोक्त्या स्वतःसिद्धानामाजानदेवानामिन्द्रादीनां तथात्वस्यौचित्यमेव।
काम्या = स्त्री कम–णिङ् भावे बा० क्यप् स्त्रीत्वम्। कामनायाम् “अष्टैतान्यव्रतघ्नानि आपोमूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” प्रा० त० बौधा०। “प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्च काम्यया” मनुः। “पुंसः कथं स्यादिह पुत्रकाम्या” इत्यादौ तु “काम्यच्च” पा० सुबन्तात् कर्म्मण इच्छायां काम्यच् ततोभावे अ। स्वपुत्रेच्छा इत्यर्थः।
काम्ल = न० कुगतिस० कोः कादेशः। ईषदम्ले १ रसे २ तद्वति त्रि०।
***