काम = अव्य० कम–घञ्। १ अनुज्ञायां विश्वः। २ निकामे ३ अत्यर्थे ४ काम्ये न० मेदि० कामाय हितम् अण्। ५ रेतसि न० मेदि० ६ वाढमित्यर्थे, ७ अनुमतौ “काममामरणात् तिष्ठेत् गृहे कन्यर्त्तुमत्यपि” यममनूः। “मनागनभ्यावृत्त्या वा कामं क्षम्यतु यः क्षमी” माघः। ८ इच्छायाम् “कामः सङ्कल्पोविचित्सा श्रद्धाऽश्रद्धा धृतिरधतिर्ह्रीर्धीर्भीरित्येतत् सर्वं मनएव” श्रुतेः तस्य मनोधर्मत्वमिति वेदान्तिनः सांख्याश्च मन्यन्ते मनोहेतुकत्वोक्तावेव श्रुतेस्तात्पर्यं मन्यमाना आत्मधर्मत्वमिति नैयायिका आहुः। अभिलाषशब्दे इच्छाशब्दे चास्य विवृतिः। “सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः” इत्युपक्रम्य “अकामस्य क्रिया काचित् दृश्यते नेह कर्हिचित्। यद्यद्धि कुरुते किञ्चित् तत्तत् कामस्य चेष्टितम्” इति मनुना सर्व्वक्रियां प्रति कामस्य हेतुत्वमुक्तम्। “सङ्कल्पः अनेन कर्म्मणा इदमिष्टं फलं साध्यताम्” इति बुद्धिः। तथाच इष्टसाधनताज्ञानरूपात् सङ्कल्पात् काम इच्छा भवति, ततः क्रियानिष्पत्तिः। सचाप्राप्तविषयस्य प्राप्तिसाधने चित्तवृत्तिभेदः कामस्तु रजोगुणहेतुकः। यथोक्तं गीतायाम् “कामएष क्रोधएष रजोगुणसमुद्भवः” कामश्च इष्टविषयाभिलाषः। “पुंसों या विषयापेक्षा स काम इति भण्यते”। पुमानादौ काममय एव भूत्वार्थकर्मकृत्। यतोऽयं कर्मणोहेतुः कामोऽतोऽस्य प्रधातता” “सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते” गोता। कर्मणि घञ। ९ कामनाविषये, कामनाविषयश्च त्रिविधः वाह्याभ्यन्तरवासनामयभेदात् तत्र गृहक्षेत्रादिकं शब्दादिविषयाश्च वाह्यविषयाः शारीरमानसिककर्म्मजातम् आभ्यन्तरः संघः स्वप्नहेतुकः वासनाययः “न जातु कामः कामानामुपभीगेन शाम्यति। हविषा कृष्णवर्त्मेव भूयएवाभिवर्द्धते” मनुः। धर्मार्थकाममोक्षमध्ये कामशब्देन काम्यस्यैव ग्रहणं तस्यैव पुरुषार्थत्वात् पुरुषेण इष्यमाणत्वात् इच्छायास्तथात्वाभावात्। “अप्यर्थकामौ तस्यास्तां धर्मएव मनीषिणः” रघुः। “सन्तान कामस्य तथेति कामम्” रघुः। काम्यमानत्वात् कामं वरमित्यर्थः। “तथेति काम प्रतिशुश्रुवान् रघोः” रघुः। “इति स्वप्नोपमान् मत्वा कामान् मा गास्तदङ्गताम्” रघुः। कामनाविषयश्च सुखस्वरूपमात्मैवेति वेदान्तिनः, तदेव मुख्यं प्रयोजनम् “नवा अरे पत्युः कामाय पतिः प्रियोभवति आत्मनस्तु कामाय पतिः प्रियोभवति” वृ० उप० सुखस्वरूपात्मन एव परप्रेमास्पदत्वोक्तेः। तत्साधनानान्तु गौणप्रयोजनत्वम्। सुखमिव दुःखाभावोऽपि मुख्यं काम्यमिति नैयायिकादयः, “मोक्षकाङ्क्षिभिः काम्यमाने १० परमेश्वरे च। “कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः” विष्णुस०। स्त्रीपुरुषयोः उपस्थसाध्यानन्दसाधने तयोः परस्परालिङ्गनादिप्रवर्त्तके ११ अनुरागभेदे तत्रैव लोके कामशब्दस्य रूढिर्दृश्यते। स च तिथिविशेषे स्त्रीपुरुषयोः स्थानविशेषएव चुम्बनादिना व्यज्यते, यथोक्तं स्मरदीपिकायाम् “पादे गुल्फे तथोरौ च भगे नाभौ कुचे हृदि। कक्षे कण्ठे तथौष्ठे च गण्डे नेत्रे श्रुतावपि। ललाटे शोर्षकेशेषु कामस्थानं तिथिक्रमात्। दक्षे पुंसां स्त्रिया वामे शुक्ले कृष्णे विपर्य्ययः। पादाङ्गुष्ठे प्रतिपदि द्वितीयायाञ्च गुल्फके। ऊरुदेशे तृतीयायां चतुर्थ्या” भगदेशतः। नाभिस्थाने च पञ्चम्यां षष्ठ्यान्तु कुचमण्डले। सप्तम्यां हृदये चैव अष्टम्यां कक्षदेशतः। नवम्यां कण्ठदेशे च दशम्यां चोष्ठदेशतः। एकादश्यां गण्डदेशे द्वादश्यां नयनेतथा। श्रवणे च त्रयोदश्यां चतुर्द्दश्यां ललाटके। पौर्णमास्यां शिखायाञ्च ज्ञातव्यञ्च इति क्रमात्। यत्र स्थाने वसेत् कामस्तत्रैव नखचुम्बनम्। “हदि कामः भ्रुवोः क्रोधो लोभश्चाधोरदच्छदात्” भाग०। तस्य समष्टिरूपस्य विराजो ब्रह्मणः हृदयजातत्वेन व्यष्टीनामप्यस्मदादीनामपि मनसिजन्यत्वम्। प्राणिनां जन्मावधि सर्वकालेष्वस्य वर्त्तमानत्वेऽपि यौवने एवास्य यथा प्रादुर्भावस्तथा कालिका० पु० १९। २२ अ० वर्णितं यथा “ब्रह्मापि तनयां सन्ध्यां दृष्ट्वा पूर्ब्बमथात्मनः। कामायाशु मनश्चक्रे त्यक्त्वा बुद्धिं सुतेति वै। तस्याश्च चलितं चित्तं कामवाणविलोडितम्। ऋषीणां प्रेक्षतां तेषां मानसानां महात्मनाम्। भर्गस्य वचनं श्रुत्वा सोपहासं विधिं प्रति। आत्मनश्चलचित्तत्वममर्य्यादमृषीन् प्रति। कामस्य तादृशं भावं मुनिमोहकरं तदा। दृष्ट्वा सन्ध्या स्वयं तत्र त्रपामापातिदुःखिता। ततस्तु ब्रह्मणा शप्ते मदने तदनन्तरम्। अन्तर्भूते विधौ शम्भौ गते चापि निजास्पदे। अमर्षवशमापन्ना सन्ध्या ध्यानपराऽभवत्”।
ततस्तस्यास्तपसा तीषितेन विष्णुना तत्प्रार्थनया कामप्रवृत्तिकालनियमनरूपोवरोदत्तो यथा “सन्ध्योवाच। यदि देव! प्रसन्नोऽसितपसा मम संप्रति। वृतस्तदायं प्रथमं बरो मम विधीयताम्। उत्पन्ननात्रा देवेश! प्राणिनोऽस्मिन् भुवस्तले। न भवन्तु क्रमेणैव सकामाः सम्भवन्तु वै। श्रीभगवानुवाच। प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः। तृतीयो यौवनो भावश्चतुर्थं वार्द्धकं तथा। तृतीये त्वथ संप्राप्ते वयोभागे शरीरिणः। सकामाः स्युर्द्वितीयान्ते भविष्यन्ति क्वचित् क्वचित्। तपसा तव मर्य्यादा जगति स्थापिता मया। उत्पन्नमात्रा न यथा सकामाः स्युः शरीरिणः”। तथा च कामप्रवृत्तिहेतुर्हि शुक्रवृद्धिः बाल्ये च शुक्रवृद्धेरसम्भवात् न कामप्रवृत्तिः। बालानामपि अन्नरसपाकेन चरमधातोः शुक्रस्योद्भवसम्भवेऽपि तस्य सूक्ष्मत्वात् न प्रसरणम् यथाह भावप्र०। “बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते। पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते। तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि। कुसुमानां प्रफुल्लानां गन्धः प्रादुभवेद्यथा”। तत्र कारणञ्च अनुपदोक्तविष्णुवर एव इति न बाल्ये तस्य प्रादुर्भावः। १२ तादृशानुरागाधिष्ठातृ देवभेदे स च पञ्चाशद्विधः। यथोक्तं शा० ति० टी० राधवभट्टेन यथा “काम १ कामद २ कान्ता ३ श्च कान्तिमान् ४ कामग ५ स्तथा। कामचारश्च ६ कामी ७ च कामुकः ८ कामवर्द्धनः ९। रामो १० रमश्च ११ रमणो १२ रतिनाथो १३ रतिप्रियः १४। रात्रि माथो १५ रमाकान्तो १६ रममाणो १७ निशाचरः १८। नन्दको १९ नन्दन श्चैव २० नन्दी २१ नन्दयिता २२ पुनः। पञ्चवाणो २३ रतिसखः २४ पुष्पधन्वा २५ महाधनुः २६। भ्रामणो २७ भ्रमण २८ श्चैव भ्रममाणो २९ भ्रमोत्तरः ३०। भ्रान्त श्च ३१ भ्रमुको ३२ भृङ्गो ३३ भ्रान्तचारो ३४ भ्रमावहः ३५। मोहनो ३६ मोहको ३७ मोहो ३८ मोहवर्द्धन ३९ एव च। मदनो ४० मन्मथ ४१ श्चैव मातङ्गो ४२ भृङ्गनायकः ४३। गायनो ४४ गीतिज ४५ श्चैव नर्त्तनः ४६ खेलक ४७ स्तथा। उन्मत्तोन्मत्तक ४८ श्चैव विला ४९ लोभवर्द्धनः ५०”।
तेन च कार्त्तिकेयोत्पत्तरे शिवध्यान भङ्गार्थमिन्द्रनियुक्तेन शिवध्य नभङ्गार्थमुद्युक्तेन पानभङ्गजनितहरकोपात् भस्मीभावमासाद्याङ्गहीनत्रमाप्त। यथाह शिवपु० १४ अ०। “कामोधनुषि संयोज्य पुष्पवाणं तदा सुते!। पार्वती सन्मुखे स्थाणौ मोक्तुकामो व्यवस्थितः। हरस्तु र्धर्य्यमालम्ब्य किमेतदिति चिन्तयन्। ददर्श पृष्ठतः कार्मं पुष्पबाणधनुर्धरम्। विवृद्धमन्योस्तस्याथ तृतीयनयनान्मुने! स्फुरन्नुदर्च्चिरग्निस्तु पपात मदनोपरि। क्रोधं संहर हे देव! इति यावत् वदन्ति खे। इन्द्रादिसकलादेवास्तावद्भस्मीचकार तम्” स च पश्चात् वासुदेवात् रुक्मिण्यां प्रादुर्भूय मायावतीरूपां रतिं शम्बरभार्य्यात्वेन प्रथितामुपयेमे। तदेतत् हरि० वर्ण्णितम्। “रुक्मिण्यां वासुदेवस्य लक्ष्म्यां कामोधृतव्रतः। शम्बरान्तकरोजज्ञे प्रद्युम्नः कामदर्शनः। त सप्तरात्रे सम्पूर्णे निशीथे सूतिकागृहात्। जहार कृष्णस्य सुतं शिशुं वै शम्बरो नृप!। स मृत्यना परीतायुर्म्मायया प्रजहार तम्। दोर्भ्यासुत्क्षिप्य नगरं स्वंनिनाय महासुरः। अनपत्या तु तस्यासीद्भार्य्या रूपगुणान्विता। नाम्ना मायावती नाम मायेव शुभदर्शना। ददौ तं वासुदेवस्य पुत्त्रं पुत्त्रमिवात्मजम्। तस्या महिष्या नाथिन्या दानवः कालचोदितः। मायावती तु तं दृष्ट्वा सम्प्रहृष्टतनूरुहा। हर्षेण महता युक्ता पुनःपुनरुदैक्षत। अथ तस्या निरीक्षन्त्याः स्मृतिः प्रादुर्बभूव ह। अयं स मम कान्तोऽभूत् स्मृत्येवं चान्वचिन्तयत्। अयं स नाथोमर्त्ता मे यस्यार्थे हि दिवानिशम्। चिन्ताशोकह्रदे मग्ना न विन्दामि रतिं क्वचित्। अयं भगवता पूर्व्वं देवदेवेन शूलिना। खेदितेन कृतोऽनङ्गो दृष्टोजात्यन्तरे मया। कथमस्य स्तनं दास्ये मातृभावेन जानती। भर्त्तुर्भार्य्या त्वहं भूत्वा वक्ष्ये वा पुत्र इत्युत। एवं सञ्चिन्त्य मनसा धात्र्यास्तं सा समर्पयत्। रसायनप्रयोगैश्च शीघ्रमेवान्ववर्द्धयत्। धात्र्याः सकाशात् स च तां शृण्वन् रुक्मिणिनन्दनः। मायावतीमविज्ञानान्मेने स्वामेव मातरम्। सा च तं वर्द्धयामास कार्ष्णिं कमललोचनम्। माया श्चास्मै ददौ सर्व्वा दानवीः काममोहिता। स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः। चिकार्षितज्ञो नारीणां सर्व्वास्त्रविधिपारगः। तं सा मायावती कान्तं कामयामास कामिनी” हरि० १६३ अ०। “कुमार! पश्य मां प्राप्तं देवगन्धर्वनारदम्। प्रेषितं देवराजेन तव सम्बोधनाय वै। स्मर त्वं पूर्व्वकं भावं कामदेवोऽसि मानद!। हरकोपानलाद्दग्धस्तेनानङ्गस्त्विहोच्यसे। त्वं वृष्णिवंशे जातोऽसि रुक्मिण्या गर्भसम्भवः। जातोऽसि केशवेन त्वं प्रद्युम्न इति कीर्त्त्यसे। आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद!। सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः। बधार्थं शम्बरस्य त्वं ह्रियमाणो ह्युपेक्षितः। केशवेन महाबाहो!। देवकार्यार्थसिद्धये। यैषा मायावती नाम भार्या वै शम्बरस्य तु। रतिं तां विद्धि कल्याणी तव भार्यां पुरातनीम्। तव सा रक्षणार्थाय शम्बरस्य गृहेऽवसत्। मायां शरीरजां न्यस्य मोहानार्थं दुरात्मनः। रतेरुत्पादनार्थाय प्रेषयत्यनिशं तदा। एवं प्रद्युम्न! बुद्ध्वा वै तव भार्यां प्रतिष्ठिताम्। हत्वा तं शम्बरं वीर! वैष्णवास्त्रेण संयुगे। गृह्य मायावती भार्यां द्वारकां गन्तुमर्हसि” हरि० १६५ अ० “कामं प्रतिनारदवाक्यम्। “सोऽब्रवीत् सहसा देवीं रुक्मिणीं देवतामिव। अयं स देवि! संप्राप्तः पुत्रश्चापधरस्तव। अनेन शम्बरं हत्वा मायायाञ्च विशारदम्। हृता मायाश्च ताः सर्व्वा याभिर्देवानबाधत। सती चेयं शुभा साध्वी भार्याऽपि तनयस्य ते। मायावतीति विख्याता शम्बरस्य गृहोषिता। मा च ते शम्बरस्येयं पत्नीति भवतु व्यथा। मन्मथेऽथ गते नाशं गते चानङ्गतां पुरा। कामपत्नी, न कान्तैषा शम्बरस्य रतिः प्रिया। मायारूपेण तं दैत्यं मोहयन्त्यसकृच्छुभा। न चैषा तस्य कौमारे वशे तिष्ठति शोभना। आत्ममायामयं कृत्वा रूपं शम्बरमाविशत्। पत्न्येषा मम पुत्रस्य स्नुषा तव वराङ्गना” हरि० १६७ अ०। रुक्मिणीं प्रति कृष्णवाक्यम्। तेन १३ रौक्मिणेये पु० १४ बलदेवे शब्दर० तस्य कामपालत्वात्तथात्वम्। १५ महाराज चूते राजनि०। कर्मपूर्ब्बकात् कामयतेः कर्त्तरि अण्। तत्तत्पदार्थकामनायुक्ते यथा स्वर्गकामोऽश्वमेधेन यजेत पशुकामः प्रजाकाम इत्यादि। घञ्न्तकामशब्दे परे तुमुन्नन्तस्यान्तलोपः। यथा गन्तुकामः रन्तुकामः इत्यादि वृषादि० तस्याद्युदात्तता। कामनायुक्तवाचककामादिशब्दसमभिव्याहारे यागे तन्नियोज्यकत्वं तत्कृतिसाध्यत्वञ्च मतभेदेन प्रतीयते यथा स्वर्गकामो यजेतेत्यत्र स्वर्गकाम नियोज्यकस्तत्कृतिसाध्योवा याग इति बोधः। लिङादिना यागादेः कर्त्तव्यत्वबोधनात् यागादेस्तथात्वम्। यागजन्यफलं च कामनावतीव तत्तत्फलकामनोद्देश्येऽपि भवति अतः पितृस्वर्गकामनया कृतपूर्त्तादेः फलं पितरीति मणिकृत्। अर्थशब्देन द्वन्देऽस्य वा पूर्व्वं निपातः। अर्थकामौ कामार्थौ। तन्त्रोक्ते १६ वीजभेदे। तदुद्धारो यथा तन्त्रसा० कुलार्ण्णवे “देवीं दक्षिणबाहुशक्रनयनं कामं कलालाञ्छितम्” दक्षिणबाहुः ककारस्तस्य वर्ण्णस्य मातृकान्यासे दक्षबाहु- मूले न्यस्यत्वात् तथात्वम् शक्रोलकारः नयनं वाननेत्रं तेन ईकारः कलालाञ्छितं विन्दुभूषितम् तेन क्लीम् इत्येवं रूपं कामम् इत्यर्थः। प्रकारान्तरेण तदुद्धारः तन्त्रसा० श्रीक्रमे। “तां विद्यां शृणु देवेशि! काममिन्द्रसमन्वितम्। नादविन्दुकलाभेदात् तुरीयस्वरसयुतम्। महाश्रीसुन्दरी विद्या महात्रिपुरसुन्दरी। ककारे सर्व्वमुत्पन्नं कामेकैवल्यदायकम्। लकारे सकलैश्वर्य्यमीकारे सर्व्वसौख्यदम्” कुब्जिकात०। “परा च कमला कामो वाग्भवं शक्तिरेव च”। १७ ककाराक्षरे च। शिववीजं (ह)। तथा कामं (क) इन्द्रम् (ल) देवीं (स) नियोजयेत्। षोडशीविद्यायां शक्तिकूटोद्धारे।
कामकला = स्त्री० कामस्य कला प्रिया। तत्कलाहेतुत्वात् कामपत्न्याम् १ रतौ शब्दरत्ना०। ३ त० २ कामहेतुकलायाञ्च।
कामकाति = त्रि० कै–शब्दे क्तिन् कामपरा कातिर्यस्य। कामशब्दयुक्ते। “त्वे सुपुत्र! शवसोऽवृत्तन् कामकातयः”। ऋ० ८। ८१। १४।
कामकाम = त्रि० कामं काम्यं कामयते कम–णिङ्–अण् उप० स०। अभीष्टकामे “एवं त्रयीधर्ममनुप्रपन्नाः गतागतं कामकामा लभन्ते” गीता। णिनिः कामकामीत्यप्यत्र। “आपूर्य्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत् कामा यं प्रविशन्ति सर्व्वे, स शान्तिमाप्नोति न कामकामी” गीता। स्त्रियां ङीप्।
कामकार = त्रि० कामं काम्यं करोति कृ–अण् उप० स०। १ काम्यनिष्पादके। कारः करणं ३ त०। २ कामेन इच्छया फलाभिसन्धिना करणे पु०। “अयुक्तः कामकारेण फले सक्तो निबध्यते” गीता “अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः”। “कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात्” मनुः। “यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः, गीता। कामचारत इति पाठान्तरम्।
कामकूट = पु० कामएव कूटं शृङ्गं प्रधानमस्य। १ वेश्याप्रिये (षिड्गे) (नाङ)। ६ त०। २ वेश्यायाविभ्रमे च मेदि० तन्त्रोक्ते ३ कामराजाख्ये श्रीविद्यायाः मन्त्रभेदे। “वियच्चन्द्रस्ततः पश्चात् कलौ नकुलिवह्नि च। मायास्वरेण संयुक्तं नादविन्दुकलान्वितम्। प्रथमं कामराजस्य कूटं परमदुर्लभम्” (हसकलह्रीम्) “वियद्विष्णुयुतं कामोहंसः शक्रस्ततःपरम्। महामाया ततः पश्चात् स्वप्नवतीति कथ्यते” हकसलर्ह्री) द्वितीयम् कामकूटम्। “मदनं शिववीजं च वायुवीजं ततःपरम्। इन्द्रवीजं ततः पश्चात् महामायां मसुद्धरेत्। (कहसलह्रा~) तृतीयं कामकूटम् इयं मधुमती।
कामकृत् = त्रि० कामेन करोति कृ–क्विप् ३ त०। १ यथेच्छं कारिणि। कामं काम्यं करोति। २ अभीष्टदायके त्रि०। ३ परमेश्वरे पु० “कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः” विष्णुसह०।
कामकेलि = पु० कामे तद्धेतुकरतौ केलिर्यस्य। १ जारे त्रिका०। कर्म०। २ सुरते हेमच०।
कामक्रीडा = स्त्री कामेन क्रोडा। १ कामहेतुकक्रीडायाम्। “माः पञ्च स्युर्यस्यां सा कामक्रीडासंज्ञा ज्ञेया” इत्युक्तलक्षणे पञ्चदशाक्षरपादके २ छन्दोभेदे च।
कामखड्गदला = स्त्री कामोद्दीपकं खड्गैव दलमस्याः। स्वर्णकेतक्याम् राजनि०।
कामग = त्रि० कामेन वाह्यस्य इच्छया यथेष्टदेशं गच्छति गम० ड। वाह्यस्य इच्छया यथेष्टदेशगामिनि यानादौ। “एवमादि महाराज! विलप्य दिवसास्थितः। कामगेन स सौभेन” भा० व० १४ अ०। कामगेन स सौभेन शाल्वः पुनरुपागमन्। व० १६ अ०। कामगत्यादयोऽप्यत्र। कामेन अनुरागभेदेन गच्छति। यथेच्छं पुरुषगामिन्यां कुलटायाम् स्त्री “पाषण्ड्यनाश्रितास्तेनाः भर्तृघ्न्यः कामगादिकाः। सुरापा आत्मत्यागिन्यी नाशौचोदकभाजनाः” याज्ञ०। “कामगा कुलटा” मिता०। ३ यथेष्टं स्त्री गामिनि पुंसि पु०। ४कन्दर्पभेदे पु० कामशब्दे उदा०।
कामगामिन् = त्रि० कामं यथेष्टं योनिविचारमकृत्वा गच्छति गम–णिनि। अनुकामीने यथेष्टस्त्रीगामिनि पुरुषे यथेष्ट पुरुषगामिन्यां स्त्रियां स्त्री ङीप्। काममित्यव्ययगर्भकः कामङ्गामीत्यप्यत्र अमरः।
कामगिरि = पु० कासप्रधानोगिरिः। भारतवर्षस्थे कामरूपस्थे पर्व्वतभेदे। “मलयो मङ्गलप्रस्थ इत्युपक्रमे” “इन्द्रकीलः कामगिरिरिति चान्ये च शतसहस्वशः शैलाः” इति भाग० ५, १९, १७। कामरूपशब्दे तत्स्थानं वक्ष्यते।
कामगुणः = पु० ६ त० कामकृतो वा गुणः। १ अनुरागे २ विषये ३ आमोगे च मेदि०।
कामचर = त्रि० कामेन चरति चर–ट ३ त०। यथाकामं चारिणि “तां नारदः कामचरः कदाचित्” कुमा०। “इहाहमिच्छामि तवानधान्तिके वस्तुं यथाकामचरस्तथा विभो!” भा० वि० २२२ श्लो०।
कामचार = त्रि० पु० कामेन स्वेच्छया चारः चर + घञ्। यथेच्छाचरणे “न कामचारोमयि शङ्कनीयः” रघुः। “तञ्चेदभ्युदयात् सूर्य्यः शयानं कामचारतः” मनुः। चर णिच्–अच् ३ त०। कामेन गवादेश्चारणे “पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते। अकामतः, कामचारे चौरवद्दण्डमर्हति” याज्ञ०।
कामचारिन् = त्रि० कामेन चरति चर–णिनि। १ कामुके २ यथेष्टाचारवति च “न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन्!” मेघ०। स्त्रियां ङीप्। ३ चटके मेदि०। तस्यातिकामित्वात् तथात्वम्। स्त्रियां ङीप् ४ गरुडे पु० शब्दरत्ना०।
कामज = त्रि० कामाज्जायते जन–ड ५ त०। कामजाते १ व्यसनादौ कामजव्यसनानि च दशविधानि मनुनोक्तानि यथा “मृगयाक्षोदिवास्वप्नः परीवादः स्त्रियोमदः। तौर्यत्रिकं वृथाट्या च कामजोदशकोगणः”। तन्मध्ये चतुर्णाम् अत्यन्तकष्टतोक्ता तेनैव यथा “पानमक्षास्त्रियश्चैव मृगया च यथाक्रमम्। एतत् कष्टतमं विद्यात् चतुष्कं कामजे गणे”। “कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः। वियुज्यतेऽर्थ धर्म्माभ्यां ततोवर्ज्याः सदैव ते” इति तद्दोषस्तेनैवोक्तः। २ कामजातमात्रे पुत्रादौ। ज्येष्ठपुत्रस्यैव पित्र्यर्ण्णापाकरण साधनत्वोक्त्या इतरेषां कामजत्वमुक्तं मनुना यथा “ज्येष्ठेन जातमात्रेण पुत्री मवति मानवः। पितॄणामनृणश्चैव स तस्मात् सर्व्वमर्हति”। यस्मिन्नृणं सन्नयति येनानन्त्यं समश्नुते। स एव धर्म्मजः पुत्रः कामजानितरान् विदुः”। “अयुक्तयान्यतश्चैव पुत्रिण्याप्तश्च देवरात्। उभौ तौ नार्हतो भागं जारजातककामजौ” मनुः “याऽनियुक्तान्यतः पुत्रं देवराद्वाप्यवाप्नुयात्। तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते” मनुः।
कामजान = पुंस्त्री कामजमानयति प्रापयति उद्दीपयति ध्वनिना आ + नी–ड। कोकिले शब्दर०। “चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम्” सा० द० कोकिलशब्दादीनां कामोद्दीपकत्वोक्तेस्तस्य तथात्वं स्त्रियां जातित्वात् ङीष्। कामजनिरिति वा पाठः। तत्र कामस्य उद्दीपकध्वनिहेतुत्वातुत्पत्तिरस्मात् इति वाक्यम्।
कामजित् = पु० कामं जयति धर्षणेन जि–क्विप्। १ महादेवे तस्य कामधर्षणात् तथात्वम्। कामं कामदेवं रूपेण जयति क्विप्। २ कार्त्तिकेये। “कामजित् कामदः कान्तः” भा० व० २३१ अ० कार्त्तिकेयनामकथने। कामं कामव्यापारं जयति। ३ जिनदेवे अर्हति तस्य स्त्रीसङ्गवर्ज्जनात् तथात्वम्।
कामठक = पु० धृतराष्ट्रनागकुलजाते सर्पसत्रे नष्टे सर्पभेदे “अमाठकः कामठकः सुषेणोमलयोऽव्ययः” इति सर्पसत्रनष्टधृतराष्ट्रकुलजनागनामकथने भा० आ० ५ ० अ०।
कामताल = पुंस्त्री कामं तालयति प्रतिष्ठापयति तल + प्रतिष्ठायां णिच–अण् उप० स०। कोकिले त्रिका०। तस्य ध्वनिना कामोद्दोपकत्वात् तथात्वम्। स्त्रियां जातित्वात् ङीष्
कामतिथि = पु० स्त्री कामपूजार्था तत्स्वामिका वा तिथिः त्रयोदश्यां तस्याः कामपूजाङ्गता काममहशब्दे दर्शयिष्यते।
कामद = त्रि० कामान् ददाति दा–क। १ अमीष्टदायके, २ कामधेनौ स्त्री मेदि० भक्तानां कामपूरके ३ परमेश्वरे पु०। कामं कामरूपं सौन्दर्य्येण द्यति दो–अवखण्डने–क। ४ कार्त्तिकेये। “कामजित् कामदः कान्तः” भा० व० २३१ अ०। कार्त्तिकेयनामकथने।
कामदुघ = त्रि० कामं दोग्धि दुह–क घादेशः। १ अभीष्टसम्पादके “इन्द्रस्य कामदुघाःस्थ कामान् धुग्ध्वम्” आश्व० श्रौ० ६, १२, ४। “आराधय सपत्नीकः प्रीता कामदुघा हि सा” “अवेहि मां कामदुवां प्रसन्नाम्” रघुः। २ सुरभौ गवि स्त्री।
कामदुह् = त्रि० कामं दोग्धि दुह–क्विप् ६ त०। काम्यनिष्पादके। “एष (यज्ञः) वस्त्विष्टकामयुक्” गीता। “तस्या थ कामधुग्धेनुर्तसिष्ठस्य महात्मनः” भा० आ० १७५। “श्रद्धयार्चितसत्पात्रे न्यस्तं (मुन्यन्नम्) कामधुगक्षयम्”। भाग० ७, १५, ५। “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातेः स्वर्गे लोके कामधुग्भवति” श्रुतिः। क (कामदुहोऽप्यत्रार्थे) त्रि० तैस्तैर्गुणैः कामदुहाथ भूत्वा नरं प्रदातारमुंपैति सा गौः” भा० व० १८६ अ०।
कामदूती = स्त्री कामस्य दूतीव उद्दीपकत्वात्। १ नागदन्तीवृक्षे रत्नमा०। २ पाटलावृक्षे शब्दर०। स्वार्थे कन्। तत्रार्थे।
कामदेव = पु० कामएव देवः। कन्दर्पे तस्य ध्वेयरूपम् हेमा० दा० विष्णुधर्मो० उक्तं यथा। “कासदेवस्तु कर्त्तव्यः शङ्खपद्मविभूषणः। चापवाणकरश्चैव मदाकुञ्चितलोचनः। रतिः प्रीतिस्तथा शक्तिर्भार्य्या श्चैतास्तथोज्वला। चतस्रस्तस्य कर्त्तव्याः पत्न्योरूपमनोहराः। चत्वारश्च करास्तस्य कार्य्या भार्य्यास्तनोपगाः। केतुश्च मकरः कार्य्यः पञ्चवाणमुखोमहानिति”। काम्यते मोक्षकाङ्क्षिभिः काम्यस्तथाभूतः सन् दीव्यति द्योतते। २ परमेश्वरे। “कामदेवः कामपालः कामी कान्तः कृतागमः” विष्णुस०। चक्रदत्तोक्ते ३ घृतभेदे तत्पाकादिप्रकारो यथा तत्रैव “शणस्य कोविदारस्य वृषस्य ककुभस्य च। कल्काढ्यत्वक् पुष्पफलप्रस्थे पलचतुष्टथम्। अश्वगन्धा पलमिता तदर्द्धं गीक्षुरस्य च। शतावरी विदारी च शालपर्णी बला तथा। अश्वत्थस्य च शुङ्गानि पद्मवीजं पुनर्नवा। काश्मरीफलमेतत् तु माषवीजं तथैव च। पृथग्दशपलान् भागांश्चतुर्द्रोणेऽम्भसः पचेत्। चतुर्भागावशेषन्तु कषाय मवतारयेत्। मृद्वीकां पद्मकं कुष्ठं पिप्पलीं रक्तचन्दनम्। बालक नागपुष्पञ्च आत्मगुप्ताफलं तथा। नीलोत्पलं शारिवे द्वे जीवनीयं विशेषतः। पृथक्कर्षसमञ्चैव शर्क रायाः पलद्वयम्। रसस्य पोण्ड्रकेक्षूणामाढकं तत्र दापयेत्। चतुर्गुणेन पयसा घृतप्रस्थं विपाचयेत्। रक्तपित्तं क्षतक्षीणं कामलां वातशोणितम्। हृल्लासकं तथा शोथं वर्णभेदं स्वरक्षयम्। अरोचकं मूत्रकृच्छ्रं पार्श्वशूलञ्च नाशयेत्। एतद्राज्ञां प्रयोक्तव्यं बह्वन्तःपुरचारिणाम्। स्त्रीणाञ्चैवानपत्यानां दुर्बलानाञ्च देहिनाम्। क्लीवानामल्पशुक्राणां जीर्णानामल्परेतसाम्। श्रेष्ठं बलकरं हृद्य दृष्यं पेयं रसायनम्। ओजस्तेज स्करञ्चैव आयुःप्राणविवर्द्धनम्। संवर्द्धयति शुक्रञ्च पुरुषं दुर्बलेन्द्रियम्। सर्व्वरोगविनिर्मुक्तस्तोयसिक्तो यथा द्रुमः। कामदेव इति ख्यातः सर्व्वरोगेषु शस्यते”।
कामधर = पु० कामरूपस्थमत्स्यध्वजपर्व्वतस्थिते सरोवरभेदे कालि० ८१ अ०। तत्स्थानस्नानमाहात्म्याद्युक्तम्। “मणिकूटाचलात् पूर्व्वं मत्स्यध्वजकुलाचलः। निर्द्दग्धो यत्र मदनो हरनेत्राग्निना पुनः। शरीरं प्राप्य तपसा समाराध्य वृषघ्वजम्। तत्र प्राप्य स्वरूपन्तु कामदेवेन संस्थितम्। अधित्यकायां तस्थौ स वीक्षमाणः समन्ततः। तदा तु शाश्वती नाम तत्रास्ते दक्षिणस्रवा। सरः कामधरो नाम तस्मित् शैले व्यवस्थितः। आश्विन्यां विधिवत् स्नात्वा पीत्वा कामधराम्भसि। विमुक्तपापः शुद्धात्मा शिवलोके महीयते”।
कामधेनु = स्त्री कामप्रतिपादिका धेनुः। १ अभीष्टप्रतिपादिकाया स्वर्गधेन्वाम् सुरभिकन्यायाः रोहिण्याः २ कन्यायां गवि च तस्या उत्पत्त्यादिकमुक्तं कालिकापु० ९१ अ०। “दक्षस्य तनया याऽभूत् सुरभिर्नाम नामतः। गवा माता महाभागा सर्व्वलोकोपकारिणी। तस्यान्तु तनया जज्ञे कश्यपात्तु प्रजापतेः। साम्रा सा रोहिणी शुभ्रा सर्व्वकाम दुघा नृणाम्। तस्या जज्ञे शूरसेनानुसोरतितमोज्ज्वलात् (तस्यां जज्ञे शुनःशेफान् मुनेरतितमोज्ज्वलात् वा पाठः कामधेनुरिति ख्याता सर्व्वलतणसंयुता। सा सिताभ्र प्रतीकाशा चतुर्व्वेदचतुष्पदा। स्तनैश्चतुर्भिर्धर्मार्थकामप्रसवकारिणी”। कामधेनुकुलजातायां ३ नन्दिन्याम् शवलानाम्न्यां वशिष्ठधेनौ च तस्याश्च काम्यपदार्थसम्पादकत्वात्तथात्वम् यथा च तस्याः कामनिष्पादकत्वं तथा रामा० आदि० ५१ स० वर्णितं यथा “एवमुक्ता वशिष्ठेन शवला शत्रुसूदनअ!। विदधे कामधुक्कामान् यस्य यस्येप्सितं यथा। इक्षून्मधूंस्तथा लाजान् मैरेयांश्च सुरासवम्। पानानि च महार्हाणि भक्ष्याश्चोच्चावचानपि। उष्णाढ्यस्यौदनस्यात्र राशयः पर्व्वतोपमाः। सृष्टान्यन्नानि सूपाश्च दधिकुल्यास्तथैव च। नानास्वादुरसानाञ्च खाण्डवानां तथैव च। भोजनानि सुपूर्णानि गौडानि च सहस्रशः। सर्व्वमासीत् सुसन्तुष्टं हृष्टपुष्टजनायुतम्। विश्वामित्रवलं राम! वशिष्ठेन सुतर्पितम्। विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत्। सान्तःपुरचरो राजा सब्राह्मणपुरोहितः। सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा। युक्तः परमहर्षेण वशिष्ठमिदमब्रवीत्। पूजितोऽहं त्वया ब्रह्मन्! पूजार्हेण सुसत्कृतः। श्रूयतामभिधास्यामि वाक्यं वाक्यविशारंद!। गवां शतसहस्रेण दीयतां शवला मम। रत्नंहि भगवन्ने तद्रत्नहारी च पार्थिवः। तस्मान्मे शवलां देहि ममैषा धर्म्मतो द्विज!। एवमुक्तस्तु भगवान्वशिष्ठो मुनिपुङ्गवः। विश्वामित्रेण धर्म्मात्मा प्रत्युवाच महीपतिम्। नाहं शतसहस्रेण नापि कीटिशतैर्गवाम्। राजन्। दास्यामि शवलां राशिभीरजतस्य वा। न परित्यागमर्हेयं मत्सकाशादरिन्दम!। शाश्वती शवला मह्यं कीर्त्तिरात्मवतो यथा। अस्यां हव्यं च कव्यञ्च प्राणयात्रा तथैव च। आयत्तमग्निहोत्रञ्च बलिर्होमस्तथैव च। स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा। आयत्तमत्र राजर्षे! सर्व्वमेतन्न संशयः। सर्व्वस्वमेतत् सत्येन मम तुष्टिकरी तथा। कारणैर्बहुभीराजन्न दास्ये शवलां तव”। तेनास्या अत्यागे च बलात् विश्वामित्रेण हरणो द्योगे कृते धेन्वा उत्पादितैर्नानाविधैसैन्यैवि श्वामित्रः पराजितः इत्यपि तत्रैव वर्णितं ५३ स० यथा “कामधेनुं वशिष्ठोऽपि यदा न त्थजते मुनिः। तदास्य शवलां राम! विश्वामित्रोऽन्वकर्षत। नीयमाना तु शवला राम। राज्ञा महात्मना। दुःखिता चिन्तयामास रुदन्ती शीककर्षिता। परित्यक्ता वशिष्ठेन किमहं सुमहात्मना। याहं राजभृतैर्दीना ह्रियेय भृशदुः- खिता। किं मयापकृतं तस्य महर्षेर्भावितात्मनः। यन्मामनागसं दृष्ट्वा भक्तां न्यजति घार्म्मिकः। इति सञ्चिन्तयित्वा तु निश्वस्य च पुनः पुनः। जगाम वेगेन तदा वशिष्ठं परमौजसम्। निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन!। जगामानिलवेगेन पादमूलं महात्मनः। शवला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्। वशिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना। भगवन्! किं परित्यक्ता त्वयाहं ब्रह्मणःसुत!। यस्माद्राजभटा मां हि नयन्ते त्वत्सकाशतः। एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम्। न त्वां त्यजामि शवले! नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलान्मत्तो महाबलः। न हि तुल्य बलं मह्यं राजा त्वद्य विशेषतः। बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च। इयमक्षौहिणी पूर्णा गजवाजिरथाकुला। हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तमः। एवमुक्ता वशिष्ठेन प्रत्युवाच विनितवत्। वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम्। न बलं क्षत्त्रियस्याहुर्ब्राह्मणा बलवत्तराः। ब्रह्मन्!। ब्रह्मबलं दिव्यं क्षत्राच्च बलवत्तरम्। अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः। विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्। नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसम्भृताम्। तस्य दर्पं बलं यत्तन्नाशयामि दुरात्मनः। इत्युक्तस्तु तया राम। वशिष्ठस्तु महायशाः। सृजस्वेति तदोवाच बल परबलार्द्दनम्। तस्य तद्वचनं श्रुत्वा सुरमिः साऽसृजत्तदा। तस्या हम्भारवोत्सृष्टाः पह्लवाः शतशो नृप! नाशयन्ति बलं सर्व्वं विश्वामित्रस्य पश्यतः। स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः। पह्लवान्नाशयामास शस्त्रैरुच्चावचैरपि। विश्वामित्रार्द्दितान् दृष्ट्वा पह्लवान् शतशस्तदा। भूय एवासृजद्घोरांच्छकान् यवनमिश्रितान्। तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः। प्रभावद्भिर्महावीर्य्यैर्हेमकिञ्जल्कसन्निभैः। तीक्ष्णासिपट्टिशधरैर्हेमवर्म्मभिरावृतैः। निर्दग्धं तद्बलं सर्व्वं प्रदीप्तैरिव पावकैः। ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह। तैस्ते यवनकाम्बोजा वर्व्वराश्चाकुलीकृताः ५४ स०। “ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्र मोहितान्। वशिष्ठोनोदयामास कामधुक् सृज योगतः। तस्या हुङ्कारतो जाताः काम्बोजा रविसन्निभाः। ऊधसश्चाथ सम्भूता वर्व्वरा शस्त्रपाणयः। योनिदेशाच्च यवनाः शकृद्देशाच्छकाः त्मृताः। रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः। तैस्तन्निषूदितं सर्व्वं विश्वामित्रस्य तत्क्षणात्। सपदातिगजं साश्वं सरथं रघुनन्दन!। दृष्ट्वा निषूदितं सैन्य वशिष्ठेन महात्मना। विश्वामित्रसुतानान्तु शतं नानाविधायुधम्। अभ्यधावत् सुसंक्रुद्धं वशिष्ठं जपतां वरम्। हूङ्कारेणैव तान् सर्व्वान् निर्ददाह महानृषिः” ५५ स०। दानार्थकल्पिते स्वर्ण्णादिनिर्म्मिते षोडशमहादानान्तर्गते दानीये ४ धेनुभेदे तत्प्रकारो यथा हेमा० दा० मत्स्य० पु०। “अथातः सम्प्रवक्ष्यामि कामधेनुविधिं परम्। सर्वकामप्रदं नॄणां महापातकनाशनम्। लोकेशावाहनं तद्वद्धोमः कार्य्योऽधिवासनम्। तुलापुरुषवत् कुर्य्यात् कुण्डमण्डप वेदिकाः। स्वल्प्रेष्वेकाग्निमत् कुर्य्यात् गुरुरेव समाहितः”। कुण्डमण्डपवेदिका इत्युपलक्षणम्। इह हि देश–कालवृद्धिश्राद्ध–शिवादिपूजा–ब्राह्मणवाचनाचार्य्यर्त्विग्वरणमधुपर्कदान–वेदिकोपरिचक्रलेखन–पञ्चवर्णवितानतोरणपताकादि सर्व्वं मत्स्यपुराणोक्त–तुलापुरुषदानविहितं वेदितव्यम्। “काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत्। उत्तमा पलसाहस्रैस्तदर्द्धेन तु मध्यमा। कनीयसी तदर्द्धेन कामधेनुः प्रकीर्त्तिता। शक्तितस्त्रिपलादूर्द्ध्वमशक्तोऽपीह कारयेत्”। अत्र यद्यपि वत्सपरिमाणमनुक्तं तथापि कामधेनुविधान कॢप्तकाञ्चनचतुर्यांशेन वत्सः कल्पनीयः, समस्तधेनुषु परिमितद्रव्यनिष्कृष्टवत्सनिर्माणकॢप्तिदर्शनादिहापि धेनुदानत्वाविशेषात् तथैव निश्चीयते। तथा च गुडधेन्वादिषु “चतुर्थांशेन वत्सः स्यादिति” तत्र तत्र वक्ष्यते। “वेद्यां कृष्णाजिनं तस्य गुडप्रस्थसमन्वितम्। न्यसेदुपरि तां धेनुं महारत्नैरलङ्कृताम्। कुम्भाष्टकसमोपेतां नाना फलसमन्विताम्”। कल्पतरुदाने प्रस्थो व्याख्यातः। “महारत्नानि, पद्मरागप्रभृतीनि, वत्सन्दक्षे तु विन्यसेदिति क्वचित्पाठः, “नाना फलानि, गोगजवाजिस्त्रीपुरुषप्रभृतीनि, सौवर्णानि, कल्पतरुदानोक्तानि। “तथाष्टादशधान्यानि समन्तात् परिकल्पयेत्। इक्षुमण्यष्टकं तद्वन्नानाफलसमन्वितम्। भाजनं चासनं तद्वत् ताम्रदोहनकं तथा”। “कौशेयवस्त्रद्वयसम्प्रयुक्तां दोपातपत्राभरणाभिरामाम्। सचामरां कुण्डलिनीं सघण्टागणत्रिकापादुकरौप्यपा- दाम्। रंसैश्च सर्वैः परितोऽभिजुष्टां हरिद्रया पुष्पफलैरनेकैः। अजाजिकुस्तुम्बुरुशर्कराभिः वितानकं चोपरि पञ्चवर्णम्। स्नातस्ततो मङ्गलवेदघोषैः प्रदक्षिणीकृत्य सपुष्पहस्तः। आवाहयेत्ताङ्गुडधेनुमन्त्रैः द्विजाय दद्यादथ दर्भपाणिः”। घण्टागणत्रिकापादुकाभिः सह वर्त्तत इति सघण्टागणत्रिकापादुका सा चामौ रौप्यपादा चेति विग्रहः। गणनासाधनत्वाद्गणत्रिका, अक्षमाला गलत्रिकेति क्वचित्पाठः। तत्र गलत्रिका कण्ठभूषणमिति केचित्, केचित्तु गलन्तिकेति पठित्वा जलपूर्णा कर्करीति व्याचक्षते। रसाः परिभाषायामुक्ताः। अजाजि जीरकं, कुस्तुम्बुरुःधान्यकम्। एवमुपकल्पितसम्भारःपूर्व्ववदधिवासनं विधाय तदन्यदिवसे प्रातः कृतपुण्याहवाचनोऽग्निकुण्डेषु ऋत्विगुपवेशनादिपूर्णाहुति पर्य्यन्तकर्म्मशेषसमाप्तिं कृत्वा सर्व्वौषधिजलस्नातः शुक्लमाल्याम्बरो गृहीतकुसुमाञ्जलिर्यजमानस्त्रिःप्रदक्षिणमावृत्य गुडधेनुमन्त्रैस्तामावाहयेत्। गुडधेनुमन्त्राः। “या लक्ष्मीः सर्व्वभूतानाम्” इत्यादयः, तत्प्रकरणे द्रष्टव्याः। आवाहनान न्तरं वक्ष्यमाणमन्त्रेणामन्त्रयेत्। “त्वं सर्ब्बदेवगणमन्दिरमङ्गभूता विश्वेश्वरत्रिपथगोदधिपर्व्वतानाम्। त्वद्दानशस्त्र शकलीकृतपातकौघः प्राप्तोऽस्मि निर्वृतिमतीव परां नमामि। लोके यथेप्सितफलर्द्धिविधायिनीं त्वामासाद्य कोहि भवदुःखमुपैति मर्त्त्यः। संसारदुःखशमनाय यतस्व कामं, त्वां कामधेनुरिति विप्रगणा वदन्ति”। “आमन्त्र्य शीलकुलरूपगुणान्विताय विप्राय यः कनकधेनुमिमां प्रदद्यात् प्राप्नोति धाम स पुरन्दरदेवजुष्टं, कन्यागणैः परिवृतं पदमिन्दुमौलेः।” दानवाक्यमत्र तुलापुरुषोक्तमूहनीयम्। विप्रायेत्येकवचनमेकाग्निविधानपक्षे, अनेकाग्निविधानपक्षे तु प्रकृतीभूततुलापुरुषदानवदाचार्य्यादीनां विभागव्यवस्था तदनन्तरं पुण्याहवाचनवेदिस्थितदेवतापूजनविसर्जनानि कुर्य्यात्। दक्षिणाविचारश्च पूर्व्ववत्। मत्स्य पु० उक्तविधिः। “व्यासौवाच। राजन्निहैकामपि कामधेनुं दद्यात् समुद्दिश्य तु केशवं वा। विप्राय वै सर्व्वगुणोपपन्नां कृत्वा व्रतं कृच्छ्रमनोयमैस्तु। मम्यक् प्रदत्तैस्तु गवां सहस्रैः सवत्सवस्त्रैः सहितैश्च हेम्ना। काले फलं यल्लभते मनुष्यो न कामधेनोश्च समं द्विजेभ्यः। शतैः सहस्रैश्च तथा हयानां सम्यक्प्रदत्तैश्च महाद्विपानाम्। कन्या रथैर्वा करिवाजियुक्तैः शतैः सहस्रैः सततं द्विजेभ्यः। दत्तैः फलैर्यल्लभते मनुष्यः, समं तथा स्यान्नतु कामधेनोः। यो जाह्नवीतीरगतो हिमाद्रौ सन्तप्यतेऽतीव तपः सदा वै। ब्राह्मं पदं गन्तुमाना द्विजेन्द्रो नैतत् फलं तच्च हि कामधेनोः। चान्द्रायणैः कृच्छ्रंमहापराकैः संशुद्ध्यते पापयुतो मनुष्यः। कार्त्तिके कृष्णपक्षे तु नरः प्रयतमानसः। एकादश्यामुपोष्याथ नरो दिनचतुष्टयम्। घृतेन स्नापयेद्विष्णुं गव्येन पयसापि वा। नक्ताशी गोरसैर्हव्यैः पूजयेन्मधुसूदनम्। गन्धपुष्पैः सुनैवेद्यैर्व्वस्त्राभरणकुण्डलैः। शङ्खासिचक्रोद्यतबाहुविष्णोर्गदा ब्जहस्तस्य तु शार्ङ्गपाणेः। अर्घ्यं प्रयच्छामि जनार्दनस्य श्रिया युतस्यापि धराधरस्य। श्रियः पतिं श्रीधरमेककान्तं श्रियः सखायं हि श्रियोऽनुकूलम्। नमान्यहं श्रीधरसन्निवासं समर्च्चितो मे प्रददातु कामान्। एवं पूज्य विधानेन श्रिया युक्तैस्तु नामभिः। पृथग्जागरणं कुर्य्यात्, श्रिया सार्द्धं जगत्पतेः। या देवी भार्गवं भेजे कुलं सर्व्वत्र पूजिता। आयातु सा गृहे नन्दा, सुप्रीता वरदा मम। याऽङ्गिरसं सदा देवी सुनन्दा प्रत्युपस्थिता। आयातु मे गृहे सा तु सुप्रीता वरदा सती। सुरभी या भरद्वाजं कामधेनुः १ सुकामदा। सदा भेजेगृहं सात्र ममायातु सुरार्च्चिता। सुशीला कश्वपं या तु भेजे सर्व्वत्र कामदा। सा मे भवतु सुप्रीता कामधेनुर्गृहे सदा। शवलाया वशिष्ठन्तु सम्प्राप्य मुमुदे शुभा। सा मे गृहं सदायातु कामदा वरपूजिता। एवं पूज्य विधानेन प्रभाते विमले शुभे। शुक्लाम्वरधरः स्नातः शुक्लमाल्यानुलेपनः। कृतनित्यक्रियो हृष्टः कुण्डलाङ्गदभूषितः। अनुलिप्ते महीपृष्ठे कृष्णाजिनसुसंस्तृते। तिलप्रस्थेन वाकीर्णेचतुर्वर्णविभूषिते। क्षौमवस्त्रान्विते शुभ्रे मध्वाज्यपात्रसंयुते। शुभवस्त्रैः समावृत्य सर्व्वरत्नैरलङ्कृताम् सुवर्णशृङ्गनखुराञ्चतुष्कर्षां मनोरमाम्। क्षीराब्धिपयी सोपेतां धेनुमन्त्रैस्तु पूजयेत्। या धनुः सर्व्वदेवानामृषीणां भावितात्मनाम्। क्षीराब्धिनिर्गता या च सा मे भवतु सुस्थिरा। घृतक्षीराभिषेकं च कृत्वा विष्णोः प्रयत्नतः। समभ्यर्च्य यथायोगं गन्धपुष्पादिभिः क्रमात्। गावो ममाग्रतः सन्तु गावः पार्श्वे तु पृष्ठतः। गावो मे हृदये नित्यं गवां मध्ये वसाम्यहम्। प्राङ्मुखोदङमुखो वापि सितयज्ञोपवीतिनीम्। इमां त्वं प्रतिगृह्णीष्व देवदेव! जगत्पते!। सवत्सालङ्कृतां धेनुं गोविन्द! भजतामिति। एवं विप्राय तान्दद्यात्, कृत्वा चैव प्रदक्षिणम्। अनुव्रजेच्च गच्छन्तं पदान्यष्टौ नराधिप!। अनेन विधिना यस्तु कामधेनुं प्रयच्छति। सर्वकामसमृद्ध्यर्थं स्वर्गलोके स गच्छति। यद्दत्त्वा सकलां पृथ्वीं राहुग्रस्ते दिवाकरे। तत् फलं प्राप्यते राजन्! काभधेन्वा न संशयः। चिन्तामणिः कामधेनुस्तथा भद्रघटो नृप!। त्रीणि समफलान्याहुर्दानानि मुनिसत्तमाः। सप्तावरान् सप्त परान् आत्मानं चैव मानवः। शतजन्मकृतात्पापान्मोचयन्त्यवनीपते!। पदेपदेऽश्वमेधस्य फलं प्राप्नोति मानवः दानानामेव सर्व्वेषामुत्तमं परिकीर्त्तितम्। सर्वकामप्रदं धन्यं, पापघ्नं सर्वदं शुभम्। सर्वेषामेव पापानां जातानां महतामपि। प्रायश्चित्तमिदं शस्तं कथितं ब्रह्मणा नृप!। ब्रह्मविट्–क्षत्र–शूद्राणां कर्त्तव्या यत्नतो नृप!। सर्वकामफलार्थाय कामधेनुरियं सताम्। मध्वाज्यतिल–होमेन कामधेनुं–प्रयत्नतः। सकल्पं प्रतिपाद्येह सर्वपृथ्वोप्रदो भवेत्”। वह्निपुराणोक्तकामधेनुदानविधिः। अवशिष्टेतिकर्त्तव्यता च मत्कृततुलादानादिपद्धत्युक्तदिशा ज्ञेया। अथ लिङ्गपुराणोक्तस्तद्विधिः। “सनत्कुमार उवाच। अथातः संप्रवक्ष्यामि हेमधेनुविधिं क्रमात्। सर्व्वपापप्रशमनं देशदुर्भिक्षनाशनम्। उपसर्गविनाशञ्च सर्वव्याधिनिवारणम्। निष्काणान्तु सहस्रेण सुवर्णेन तु कारयेत्। तदर्द्धेनापि वा सम्यक् तदर्द्धार्द्धेन वा पुनः। शतेन वा प्रकर्त्तव्यं सर्वकार्य्येषु सुव्रत!”। सर्वकार्य्येष्विति अव्यक्नेषु अनुक्तमानेषु सौवर्णेषु देयेषु सहस्रादिशतावरमानत्वमवधेयमिति इयं चोक्तिः प्रासङ्गिकी वातुले मानान्तरमुक्तम्। “त्रिपलादिसहस्रान्तं हेम्ना धेनुं प्रकल्पथेदिति”। “शिवाग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः। यो ददाति महासेन! राहुग्रस्ते दिवाकरे। तेन दत्तं भवेत्सर्वमाब्रह्मभुवनान्तिकम्” इति कालोत्तरमतम्। “गोरूपं सखुरन्दिव्यं सर्व्यलक्षणसंयुतम्। खुराग्रे विन्यसेद्वज्रं शृङ्गे वै पद्मरागकम्। भ्रुवोर्सध्ये न्यसेद्दिव्यं मौक्तिकं मुनिसत्तम!। वेदूर्य्येण स्तनान् कुर्य्याल्लाङ्गूलं नीलनिर्म्मितम्। दन्तस्थाने प्रकर्त्तव्यं सर्व्वरत्रविभूषितम्। पशुवत् कारयित्वा तु वत्सं कुर्य्यात् सुशोभनम्। दशांशकेन कर्त्तव्यं सर्व्वरत्नविभूषितम्”। कामिके तु, “तुरीयांशेन वत्सकः” इत्युक्तम्। “पूर्ब्बोक्तवेदिकामध्ये मण्डलञ्च प्रकल्पयेत्। तन्मध्ये सुरभिं स्थाप्य सर्व्वतः सर्व्वरत्नकाम्। सवत्सां सुरभि” तत्र वस्त्रयुग्मेन वेष्टयेत्। संपूजयेत्तु गायत्र्या सवत्सां सुरभिं पुनः। अथैकाग्निविधानेन होमं कुर्य्यात् यथाविधि। समिधन्त्वाज्यभागेन पूर्व्ववच्छेषमाचरेत्। शिवपूजा प्रकर्त्तव्या लिङ्गं स्नाप्य घृतादिभिः। गामालभ्य च गायत्र्या विपेभ्यो दापयेच्च ताम्। दक्षिणा च प्रदातव्या त्रिंशन्निष्कं महामते!”। गायत्र्या गोसावित्र्याख्यस्तोत्रमन्त्रेणेत्यर्थः, “गोसावित्रीतिमन्त्रेण मन्त्रयीत विचक्षणः” इति वातुलोक्तेः, कामिके तु “घृताद्यैः पूजयद्देवं सहस्रकलशादिभिः। गामाराध्य तु गायत्र्या विप्रेभ्यो दापयेच्च ताम्। आचार्य्यं पूजयेत् पूर्व्वं केयूरकटकादिभिः। वस्त्रयुग्मञ्च दत्त्वा तु विज्ञाप्य विधिपूर्व्वकम्। दक्षिणा तु प्रदातव्या त्रिंशन्निष्का महातपः!। त्रिंशन्निष्कदक्षिणादानन्तु एकाग्निपक्षविषयम्, अनेकाग्निपक्षे तुलापुरुषवद्दक्षिणा। तदुक्तं शैवे। “अथैकाग्निविधानं वा समिदाज्यं हविष्ययुक्। त्रिंशन्निष्कावरा देया गुरोरेकाग्निकल्पतः” इति। एकाग्निपक्षश्च स्वल्पवित्तविषयः। पूर्ब्बवच्छेषमिति, शेषमनुक्तं किञ्चित् तदखिलं लिङ्गपुराणोक्ततुलापुरुषविहितमाचरेदित्यर्थः। कालोत्तरे “एतस्यास्तु प्रदाता यस्तेन दत्तं चराचरम्। त्रिःसप्तकुलसंयुक्तो विमानैर्दिव्यवर्च्चसैः। शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्द्दश। तदन्ते चक्रवर्त्ती स्यात्, ज्ञानवांस्तु शिवं व्रजेत्”। इति नानाशास्त्रीयकामधेनुदानम्। वोपदेवधातुपाठव्याख्याने ५ ग्रन्थभेदे।
कामधेनुतन्त्र = न० शिवनिर्मिते तन्त्रभेदे।
कामध्वंसिन् = पु० कामं ध्वंसयति ध्वन्स–णिच्–णिनि। महादेवे हला०।
कामन = त्रि० कम–णिङ्–ल्यु। १ कामुके अम० भावे ल्युट्। २ अभिलाषे न०। युच् अभिलाषे स्त्री हला०। “समुच्चितफलकस्यापि तत्तत्कामनासहकारेण प्रत्येकफलदातृत्वम्” इति विधिस्वरूपे गदाधरेणोक्तम्।
कामन्दकि = न० कमन्दकस्यापत्यम्। विद्वद्भेदे तेनैव नीतिशास्त्रं प्रणीतम्। तस्येदम् “वृद्धाच्छः” पा० छ०। कामन्दकीय तत्प्रणीतनीतिशास्त्रे न०।
कामन्धमिन् = पु० स्त्री कामं यथेष्टं धमति ध्मा–णिनि बा० धमादेशः। कांस्यकारे (कांसारि) सङ्कोर्णजातिभेदे जटा० स्त्रियां ङीप्।
कामनीयक = न० कमनीयस्य भावः “योपधाद्गुरूपोत्तमाद्वुञ्” पा० वुञ्। रमणीयतायाम् “व्यलोकयत् काननकामनीयकम्” नैष० पाठान्तरम्।
कामप(त्री)ति = स्त्री कामः पतिर्यस्याः सपूर्व्वकत्वात् नान्तादेशः ङीष् च वा। कामदेवभार्य्यायां रत्यां शब्दरत्ना०।
कामपाल = पु० कामान् पालयति पाल–अण् उप० स० १ बलदेवे अमरः। भक्तानां कामखाभीष्टस्य पालके स्वपुत्रस्य कामस्य वा पालके च २ वासुदेवे। “कामहा कामपालश्च कामी कान्तः कृतागमः” विष्ण् स०।
कामपूर = त्रि० कामं पूरयति पूर–णिच्–अण् उप० सू०। १ अभीष्टपूरके २ परमेश्वरे पु०। “कासपूरोस्म्यऽहं नॄणाम्” भाग० ७। २। २५।
कामप्र = त्रि० काम पिपर्त्ति पॄ–मूलविभुजा० क उप० स०। १ अभीष्टपूरके। “कामप्रेण मनसा चरन्ता” ऋ० १। १० ८। २। बि० कि। कामप्रि तत्रार्थे “मरुतः परिवेष्टारोमरुत्तस्यावसन्गृहे। आविक्षितस्य कामप्रेर्विश्वे देवाः सभासदः” ऐतरेयब्राह्मणम्।
कामप्रद = त्रि० कामं प्रददाति प्र + दा + क उप० स० १ अभीष्टस्य प्रकर्षेण दातरि। २ परमेश्वरे पु०। “कान्तःकामप्रदः प्रभुः” विष्णुस०। कामं कामजरतिभेदं प्रददाति। “द्वौ पादौ स्कन्धसंलग्नौ क्षिप्त्वा लिङ्गं भगे तथा। कामयेत् कामुकः प्रीत्या बन्धः कामप्रदो हि सः” स्मरदी पिकोक्ते ३ रतिबन्धभेदे पु०।
कामप्रवेदन = न० कामस्याभिलाषस्य प्रवेदनम् आविष्करणम्। स्वाभिप्रायप्रकाशने “कच्चित् कामप्रवेदने” अमरः। “कामप्रवेदनेऽकच्चिति” पा०
कामप्रश्न = पु० कामं यथेष्टम् प्रश्नः। यथेष्टप्रश्ने “तस्मै ह याज्ञवल्क्यो वरं ददौ सहोवाच कामप्रश्नएव”। शत० ब्रा० ११। ६। २। १०। “कामप्रश्नः यथाकामं प्रश्नः” भा० “याज्ञवल्क्यो वरं ददौ सह कामप्रश्नमेव” शत० ब्रा० १४, ७, १, १,
कामप्रस्थ = पु० न० कामस्य कामगिरेः प्रस्थः। कामगिरिसानौ तत्र “मालादीनाञ्च” पा० वृद्धपूर्वस्यापि पस्थशब्दे परे आद्युदात्तता। गहा० भवाद्यर्थेछ। कामप्रस्थीय तद्भवे त्रि०
कामफल = पु० कामं यथेष्टं फलमस्य। महाराजाम्रवृक्षे। राजनि०।
कामम् = अव्य० कम–णिङ्–बा० अमु। १ अनुमतौ, २ प्रकामे, ३ पर्य्याप्ते, ४ असूयायाम्, ५ अकामानुमतौ, ६ स्वच्छ न्दार्थे, ७ अनिष्टस्यागत्या स्वीकारे च। अमरमेदिन्यादयः।
काममह = पु० ६ त०। चैत्रमासे कर्त्तव्ये कामस्य १ महोत्सवे तदाधारत्वात् २ चैत्रपौर्ण्णमास्यां त्रिका०। काममहस्य चैत्रपौर्ण्णमास्यांकर्त्तव्यतोक्तिः प्रायिकी शत्रोदेवताभिप्राया वा तिथितत्त्वे भविपु० “चैत्रशुक्लत्रययेश्यद्व दमनं मदनात्मकम्। कृत्वा संपूजयेत् कामं वीजयेद्व्यजनेन तु। तत्र सन्धुक्षितः कामः पुत्रपौत्रप्रवर्द्धनः। कामदेवस्त्रयोदश्यां पूजनीयो यथाविधि”। इति चैत्रत्रयोदश्यां तत्पूजनबिधानात्” नि० सि० रामार्चनच० “द्वादश्यां चैत्रमासस्य शुक्लायां मदनोत्सवः। बौधायनादिभिः प्रोक्तः कर्त्तव्यः प्रतिवत्सरम्” तदीयद्वादश्यां विधानात् “तत्र स्यात् स्वीयतिथिषु वह्न्यादेर्दमनार्पणमिति” पाद्मोक्तेः वह्न्यादिभक्तानां स्वस्वतिथिष्वपि विधानात्। तत्र तिथिदेवताश्च “वह्नि १ र्विरिञ्चि २ र्गिरिजा ३ गणेशः ४ फणी ५ विशाखो ६ दिनकृत् ७ महेशः। ८ दुर्गा ९ऽन्तको १० विश्व ११ हरी १२ स्मरश्च १३ शर्वः १४ शची १५ चेति तिथीषु पूज्याः” इत्युक्ता वेद्याः। एतदनुसारेण “शिवभक्तादिभिस्तु चतुर्दश्यां कार्य्यमिति नि० सि० व्यवस्थापितम्। रघुनन्दनेन त्रयोदश्यां कार्य्यतोक्तिः त्रयोदश्याः स्मरतिथित्वादन्यदेवतानुपासकाभिप्रायेणेति न विरोधः। तस्य नित्यतोक्ता नि० सि० पाद्मे “ऊर्जे व्रतं मधौ दोलाम् श्रावणे तन्तुपूजनम्। चैत्रे च दमनारोपमकुर्व्वाणो व्रजत्यधः” प्रागुक्तरामार्चनच० वाक्ये च प्रतिसंवत्सरमित्युक्तेरपि नित्यता। सा च त्रयोदशीकरणपक्षे द्वादशीयुक्ता ग्राह्या “त्रयोदशी प्रकर्त्तव्या द्वादशी संयुता विभो!। ति० त० ब्रह्मवैवर्त्तात्। द्वादशीकरणपक्षे विशेषः” नि० सि० रामार्चनच० उक्तो यथा। “पारणाहे न लभ्येत द्वादशी घटिकाऽपि चेत्। तदा त्रयोदशी ग्राह्या पवित्रदमनार्पणे”। चतुर्द्दशीकरणपक्षे पूर्ब्बविद्धैव ग्राह्या। “मधोः श्रावणमासस्य या च शुक्ला चतुर्द्दशी। सा रात्रिव्यापिनी ग्राह्या नान्या शुक्ला कटाचनेति” हेमाद्रौ बौधायनोक्तेः। अन्यदिवसकरणे तु तन्तुदामनपर्व्वणोत्युक्तवाक्योत पूर्ब्बविद्धैव तिथिर्ग्राह्या। दैवात् चैत्रे तदकरणे गौणः काल उक्तः” नि० सि० रामार्चनच०। “हरौ द्विदश्यां) न दमनारोपः स्यान्मधौ विघ्नतोयदि। वैशाखे श्रावणे वापि तत्तिथौ स्यात्तदर्पणम्” आवणे वापि शुक्रास्ते कर्त्तव्यमिति इति वा तत्रपाटः। इदञ्च मलमासे न कार्य्यम्” “उपाकर्म्मोत्सर्जनञ्च पवित्रदमनार्पणमिति” कालादर्शे मलमासवर्ज्येषु परिगणनात्। उपाकर्म्म च हव्यञ्च कार्य्यं पर्व्वोत्सवं तथा। उतरे नियतं कुर्य्यात् पूर्ब्बे तन्निष्फलं भवेत्” कालमा० प्रजापतियचनाच्च। शुक्रास्तादौ तु कार्य्यएव। रामार्चनच० पूर्व्वोक्तवचनात्” “उपाकर्म्मोत्सर्जनञ्च पवितदमनार्पणम्। ईशानस्य बलिं विष्णोः शयनं परि- वर्त्तनम्। कुर्य्याच्छुक्रस्य च गुरोर्मौढ्येऽपीति विनिश्चयः” वृद्धगर्गवचनाच्च। इति दमनारोपरूपकाममहोत्सवस्तिथिभेदेन दर्शितः। अनङ्गव्रतरूपस्तन्महोत्सवस्तु चैत्र शुक्लत्रयोदश्यामेव। हेमाद्रौ कालखण्डे भविष्ये “चैत्रोत्सवे सकललोकमनोविलासे कामं त्रयोदशतिथौ च वसन्तयुक्तम्। पत्न्या सहार्च्य पुरुषप्रवरोऽथ योषित् सौभाग्यरूपमुतसौख्ययुतः सदा स्यात्” सा च पूर्ब्बयुता ग्राह्या “त्रयीदशतिथिः सिते” इति पूर्ब्बविद्धा ग्रहणे दीपिकोक्तेः। एवं च काममहशब्देन लक्षणया तदाधारपरत्वे चैत्रशुक्लत्रयोदश्येव ग्राह्येति तु न्याय्यम्।
काममुद्रा = स्त्री तन्त्रसा० “हस्तौ तु संपुटौ कृत्वा प्रसृताङ्गुलिकौ तथा। तर्ज्जन्यौ मध्यमापृष्ठे अङ्गुष्टौ मध्यमाश्रितौ। काममुद्रेयमुदिता सर्व्वदेवप्रियङ्करी” ज्ञानार्ण्णवोक्ते मुद्राभेदे।
काममूत = त्रि० कामेन मूतः मूर्च्छितः मव–क्त वेदे नि० इडभावः ऊठ् काममूर्च्छिते। “काममूता बह्वे तद्रपामि” ऋ० १०, १०, ११, “काममूता काममूर्च्छिता” भा०।
कामयमान = त्रि० काम–णिङ् शानच्। कामुके।
कामयान = त्रि० कम–णिङ् शानच् आगमशास्त्रमनित्यमिति मुगभावः। कामुके। “कामयानसमवस्थया तुलाम्” रघुः। “कामयानशब्दः सिद्धोऽ नादिश्च” वामनः। “आने मुक्” पा०। आदौ मुक्शून्यतयाऽनादित्वेन सिद्धः।
कामयितृ = त्रि० कम–णिङ् तृच्। कामुके अमरः। स्त्रियां ङीप्।
कामरूप = पु० “कालेश्वरं श्वेतगिरिं त्रैपुरं नीलपर्व्वतम्। (यावदतिशेषः) कामरूपाभिधोदेशो गणेशगिरिमूर्द्धनि” इत्युक्तकालेश्वरादिगिरिचतुष्टयमध्यवर्त्तिनि गणेशगिरिमूर्द्धस्थे प्राग्ज्योतिषाख्ये देशभेदे। “योनिपीडे कामगिरौ कामाख्या तत्र देवता” इत्युपक्रमे “सर्व्वत्र विरला चाहं कामरूपे गृहे गृहे” तन्त्रचूडा०। कामेन रूपमस्य। २ यथेष्टरूपधारिणि त्रि० “जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः” मेघ०। “स्वेच्छाधीनविग्रहं दुर्गसञ्चारक्षमम्” मल्लि०। कामं काम्यं सुन्दरं रूपमस्य ३ अतिशोभने त्रि०।
कामरूपिन् = त्रि० कामं काम्यरूपमस्त्वस्य प्राशस्त्येन इनि। १ प्रशस्तरूपवति। कामेन स्वेच्छया रूपं धार्य्यत्वेनास्त्यस्य इनि। स्वेच्छया २ यथेष्टरूपधारिणि त्रि०। “सर्व्वमाशु निचेतव्यं हरिभिः कामरूपिभिः” रामा०। २ विद्याधरे
कामरेखा = स्त्री कामानां कामव्यापाराणां लेखा पङ्क्तिर्यत्र लस्य रः। कामव्यापारराशियुक्तायां वेश्यायाम् शब्दमा०
कामल = त्रि० कम–कलच्। १ कामुके। आधारे कलच्। २ वसन्तकाले पु० कस्य जलस्यामलोऽसम्बन्धो यत्र। ३ मरुदेशे च मेदिनी। ४ रोगप्तेदे पुंस्त्री मेदि०। तन्निदानादि। “पाण्डुरोगी च योऽत्यर्थं पित्तलानि निषेवते। तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” निदानम्। “हरिद्रनेत्रः सुभृशं हारिद्रदृङ्नखाननः। रक्तपित्तशकृन्मूत्रो भेदकर्णो हतेन्द्रियः। दाहाविपाकदौर्बल्यसदनारुचिकर्षितः। कामला बहुपित्तैषा कोष्ठशाखाश्रया मता। कालान्तरात् खरीभूता कृछ्रा स्यात् कुम्भकामला। तस्य सम्प्रप्तिः। तस्यारिष्टलक्षणं यथा। कृष्णप्रीतशकृन्मूत्रो भृशं शूनश्च भानवः। स रक्ताक्षिमुखच्छर्द्दिविण्मूत्री यस्य ताम्यति। दाहारुचितृषानाहतन्त्रामोहसमन्वितः। नश्यति श्वासकाशार्त्तो विड्भेदी कुम्भकामली। छर्द्यरोचकहृल्लासज्वरक्लोमनिपीडितः। नष्टाग्निसंज्ञः क्षिप्रं हि कामलावान् विपद्यते” माधवनिदानम्।
कामलता = स्त्री कामस्य लतेव तद्गुणभूयिष्ठत्वात्। पुंचिह्ने लिङ्गे हेम०।
कामलायन = पु० कमलस्यापत्यं नडादि० फक्। कमलापत्ये उपकोलाख्ये मुनौ। “उपकोसलोह वै कामलायनः सत्यकामे जावाले ब्रह्मचर्यमुवास” छा० उ०।
कामलाक्षी = स्त्री कामं यथेष्टं लाति आकर्षति ला–क तादृश मक्षि यस्याः षच् समा० षित्त्वात् ङीष्। आकर्षणकारके देवीमूर्त्तिभेदे” तन्त्रसा० आकर्षणप्रकरणे। “अनामारक्त मिश्रेण कामलाक्षीमनुं जपेत्” तन्मन्त्रस्तु तत्रैव दृश्यः।
कामलिका = स्त्री कस्य जलस्यामलोऽसम्बन्धोऽस्त्यस्य ठन्। कङ्कुधान्ये शब्दचि०।
कामलिन् = पु० ब० व०। कमलेन वैशम्पायनान्तेवासिभेदेन प्रोक्तमधीयते णिनि। वैशमायनान्तेवासिभेदकमलर्षि प्रोक्ताध्यायिषु।
कामवत् = त्रि० कामोऽस्त्यस्य मतुप् मस्य वः। १ अभिलाषयुक्ते २ मैथुनानुरागयुक्ते च स्त्रियां ङीप् “त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः” भा० आ० ३८६ श्लो०। ङीबन्तः ३ दारुहरिद्रायां राजनि०।
कामवल्लभ = पु० ६ त०। १ आमवृक्षे तन्मुकुलं हि कन्दर्पप्रियम्। २ ज्योत्स्नायां स्त्री राजनि०।
कामवृक्ष = पु० कामं वीजाङ्कुरनिरपेक्षतया यथेच्छं वृक्षः। वन्दाके (परगाछा)। राजनिघण्टुः।
कामवृत्त = त्रि० कामं यथेष्टं निरङ्कुशं वृत्तमस्य। यथेष्टाचारिणि। “यस्तु स्यात् क्षत्रियः कश्चित् कामवृत्तः परन्तप!” “यस्तु स्यात् कामवृत्तोऽपि पार्थ ब्रह्मपुरस्कृतः।” भा० आ० १७० अ०।
कामवृत्ति = स्त्री ६ त०। १ कामस्य चेष्टिते। कामेन स्वेच्छया वृत्तिः। २ स्वेच्छाचारे। “न कामवृत्तिर्वचनीयमीक्षते” कुमा० कामतोवृत्तिरस्य। ३ यथेष्टाचारयुक्ते त्रि०।
कामवृद्धि = पु० कामस्य वृद्धिर्यस्मात्। कर्ण्णाटदेशप्रसिद्धे (कामज) इतिख्याते क्षुपभेदे राजनि०। ६ त०। २ कामस्य वृद्धौ स्त्री
कामवृन्ता = स्त्री कामतो वृन्तं यस्याः। पाटलायाम् शब्दमा०।
कामशक्ति = स्त्री। कामस्य शक्तिर्नायिकाभेदः। पदार्थादर्शे राघवभट्टोक्ते १ कामदेवपत्नीभेदे। सा च पञ्चाशद्विधा यथा “रतिः १ प्रीतिः २ कामिनी च ३, मोहिनी ४ कमलप्रिया ५। विलासिनी ६ कल्पलता ७, श्यामला च ८ शुचिस्मिता ९। विस्मिताक्षी १० विशालाक्षी ११, लेलिहाना १२ दिगम्बरा १३। वामा १४ कुब्जा १५ धरा १६ नित्या १७, कल्याणी १८ मोहिनी १९ तथा। सुलोचना २० सुलावण्या २१, तथैव च विमर्द्दिनी २२। कलहप्रिया २३ चेकाक्षी २४, सुमुखी २५ नलिनी २६ तथा। जटिला २७ पालिनो २८ चेव शिवा २९ मुग्धा ३० रसा ३१ भ्रमा ३२। चारुलोला ३३ चञ्चला ३४ च, दीर्घजिह्वा ३५ रतिप्रिया ३६। लोलाक्षी ३७ भृङ्गिणी ३८ चैव० पाटला ३९ मादिनी ४० तथा। माला ४३ च हंसिनी ४२ विश्वतोमुखी ४३ नन्दिनी ४४ तथा। राञ्जनी च तथा कान्तिः ४६। कलकण्ठी ४७ वृकोदरा ४८। मेघश्यामा ४० रुषोन्मत्ता ५०, एवं पञ्चाशदीरिताः। शक्तयः कुङ्कुमनिभाः सर्व्वाभरणभूषिताः। नीलोत्पलकरा ध्येयास्त्रैलोक्याकर्पलक्षमाः” इति। तन्त्रसारे कामरतिन्यासे पञ्चाशद्वर्ण्णात्मकमातृकाया एकैकवर्ण्णयोगेन कामशबददर्शितानां पञ्चाशतः कामानां योगेन च एतासां न्यासोऽभिहितः। तत्रनाममात्रे क्वचिद्भोदोऽस्ति। “पञ्चाशद्वर्ण्णगुणिता पञ्चाशद्वर्ण्णमालिकाम्। सूते तद्वर्ण्णतोभिन्नां तथा रुद्रादिकान् क्रमादिति” शा० ति० पद्यव्या० राघवभट्टेन आदिपदेन पञ्चाशत्कामास्तच्छक्तयश्च ग्राह्या इति कीर्त्तणात् पञ्चाशदेव कामशक्तयः। अतः शब्दकल्पद्रुमे कामशब्दे रतिभेदस्यैकपञ्चाशत्त्व यत् प्रतिज्ञातं तत्- प्रामादिकमेव। किञ्च एकपञ्चाशत्कामशक्तयो रतिशब्दे द्रष्टव्या इत्युक्तिरापि प्रतिज्ञामात्रं रतिशब्दे तत्र तन्नामानुल्लेखनात् पञ्चाशत्कामानामेकपञ्चाशत् शक्तयोऽऽनुपपन्ना एवेति बोध्यम्।
कामशर = पु० कामस्य शर इव। १ आम्रवृक्षे राजनि०। तन्मुकुलस्य कामशराकारत्वात्तस्य तथात्वम्।
कामशास्त्र = न० कामस्य काम्यस्य स्वर्गादेः प्रतिपादकं शास्त्रम्। १ काम्यप्रतिपादकशास्त्रे। “अर्थशास्त्रमिदम् प्रोक्त धर्म्मशास्त्रमिदं महत। कामशास्त्रमिदं प्रोक्त व्यासेनामितबुद्धिना” भा० आ० १ अ० भारतप्रशंसायान्। कामस्य तच्चेष्टितस्य प्रतिपादकं शास्त्रम्। २ रतिशास्त्रे च।
कामसख = पु० ६ त० टच् समा०। वसन्तकाले राजनि०। अतएव कुमारे “सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः” इति “स माधवेनाभिमतन सख्या” इति “सहायमेकं मधुमेव लब्ध्वा” इति च वसन्तस्य तत्सहायत्वं वर्ण्णितम्।
कामसुत = पु० र्द त०। अनिरुद्धे हेम०।
कामसू = त्रि० काममभीष्टं सूते सू–क्विप् ६ त०। अभीष्टसम्पादके। “किमत्र चित्रं यदि कामसूर्भूः” रघुः। कामं कामावतारं कन्दर्पं सूते। २ रुक्मिण्यां स्त्री। गभाधानस्य सूतेरर्थत्वे। ३ वासुदेवे पु०।
कामसूत्र = न० कामस्य तद्व्यापारस्य प्रतिपादकं सूत्रम्। वात्स्यायनादिप्रणीते कामव्यापारबोधके शास्त्रभेदे।
कामस्तुति = स्त्री ६ त०। प्रतिग्रहदोषापनुत्तये प्रतिग्रहीत्रापाठ्ये कामस्य स्तुतिरूपे मन्त्रभेदे स च मन्त्रः “कोऽदात्? कस्माअदात्? कामोऽदात् कामायादात् कामोदाता कामः प्रतिग्रहीता कामैतत्ते” यजु० ७। ४८। यथाचास्य प्रतिग्रहदोषाभावज्ञापकत्वम् तथाऽस्य मन्त्रस्य व्याख्यानेन वेददीपे दर्शितम्। यथा “दातुर्दानाभिमानाभावाय स्वस्य प्रतिग्रहदोषाभावाय च देहेन्द्रियसघात् कामं विविनक्ति कोऽदादिति। कोनरोऽदात्? दत्तवान् कस्मै नरायादात्?। प्रश्नद्वयस्योत्तरमाह। कामोऽदात् कामायैवादात् न त्वं दाता नाहं प्रतिग्रहीता। त्वत्कामाभिमानी देवो मत्कामाभिमानिनेऽदात्। एवञ्च कामएव दाता कामएव प्रतिग्रहीता नान्यः। हे काम! एतद् द्रव्यं ते तव दातृप्रतिग्रहीतृत्वात्”। अय भावः तत्तत् फलकामनयव दात्रा तत्तद्द्रव्याणां दानात् स्वाभीष्टसिद्धये च प्रतिग्रहीत्रा तेषां ग्रहणात कामाभिमानिनी देवस्यैव दानप्रतिग्रहयोः प्रयोजकत्वात् द्रव्यस्वामित्वं कामदेवस्यैवेति न प्रतिग्रहीतुरिति उक्तमन्त्रपाठे न प्रतिग्रहदोषः इति। अतएव “प्रतिग्रहजदोषस्य शान्त्यै कामस्तुतिं पठेत्” स्मृतौ तत्पाठोविहितः।
कामहन् = त्रि० कामं हतवान् हन् क्विप्–६ त०। परमेश्वरे। “कामद्वा कामकृत् कामी” विष्णुस०। तस्य च स्वात्मज्ञानेन सर्व्वकामहन्तृत्वात् तथात्वम् “छिद्यते हृदयग्रन्थिर्भिद्यन्ते सर्व्वसंशयाः। क्षीयन्ते चास्य कर्म्माणि दृष्टे तस्मिन् परावरे” इति श्रुत्या तस्य दर्शनेनाविद्याग्रन्थिरूपकामादिविभेदकत्वमुक्तम्। तथाच तत्त्वज्ञानेन मिथ्याज्ञानस्य नाशे तत्कार्य्याणां रागद्वेषादिदोषाणां नाशात् तस्य तथात्वम् तदेतदुक्तम् गौ० सू० तत्त्वज्ञानादित्यनुवृत्तौ “दुःस्वजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायादनन्तरापायादपदर्गः” इति २ महादेवे च।
कामाक्षी = स्त्री कामं शोभनमक्षि यस्याः षच् समा० षित्त्वात् ङीष्। १ देवीमूर्त्तिभेदे तन्त्रोक्ते २ वीजभेदे च।
कामाख्या = स्त्री सतीदेव्या १ योनिपीठरूपे स्थाने २ तदधिष्ठात्र्यां देव्याञ्च। तन्नामनिरुक्ति ५ दुर्भावादि कालि० पु० ६१ अ० दर्शितं यथा “श्रीभगवानुवाच। कामार्ष्टमागता यस्मान्मया सार्द्धं महागिरौ। कामाख्या प्रोच्यते देवी नीलकूटे रहोगता। कामदा कमिनी कामा कान्ता कामाङ्गदायिनी। कामाङ्गनाशिनी यस्मात् कामाख्या तेन चोच्यते। तत्पीठकारणमुक्तं तत्रैव। “अथ काले बहुतिथे व्यतीते प्राणिसर्ज्जने। अगृह्णां दक्षतनयां, भार्य्यार्थेऽहं बधूवराम्। सा मेऽभूत् प्रेयसी भार्य्या, प्रदाय समयं पितुः। अनिष्टकारी त्वञ्चेत् स्याः, प्राणांस्त्यक्ष्ये तदा त्वहं। ततो यज्ञे समस्तन्तु स च वब्रे चराचरम्। न मां नापि सतीं वब्रे तदनिष्टान्मृता तु सा। ततो मोहसमापन्नस्तामादाय मृतानहम्। प्राप्तपीठवरं तन्तु भ्रममाण इतस्ततः। तस्यास्त्वङ्गानिपर्य्यायात् पतितानि यतो यतः। तत्तत् पुण्यतमं जातं योगनिन्द्राप्रभावतः। तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनि मण्डलम्। पतितं, तत्र सा देवी महामाया व्यलीयत। लीनायां योगनिद्रायां मयि पर्व्वतरूपिणि। स नीलवर्णः शैलोऽभूत् पतिते योनिमण्डले। स तु शैलो महातुङ्गः पातालतलमाविशत्। तस्या आक्रमणाद्गाढं ततस्तं द्रुहिणोऽभ्ययात्। स तु पूर्व्वं ब्रह्मशक्तिशिलां धर्त्तुं चतुर्मुखः। शैलरूपोऽभवत्तेन शैलरूपेण मामधात् ब्रह्मा पर्व्वतरूपेण मयि पर्व्वतरूपिणि। संसंक्तोऽधोऽगमद्गाढमाक्रान्तो मायया विधिः। ततो वराहः ससक्तो मयि मां स तु माधवः। शैलरूपः शैलरूपं धर्त्तुं समुपचक्रमे। सोऽप्यधोऽगान्मया सार्द्धं तदा पर्व्वतरूपिणा। आक्रम्य देवीं पृथिवीं स्थितो भुवि निखातकः। शतं शतं योजनानां तुङ्गमासीद्गिरित्रयम्। तदाक्रान्तं महादेव्या सर्व्वमेव ह्यधोगतम्। क्रोशमात्रे स्थितं तुङ्गं शेषं तत्त्रियस्य तु। एका समस्तजगतां प्रकृतिः सा यतस्ततः। ब्रह्मविष्णुशिवैदेवैर्धृता सा जगतां प्रसूः। तत्र पूर्ब्बो ब्रह्मशैलः श्वेत इत्युच्यते बुधैः। मद्रूपधारी शैलस्तु नील इत्युच्यते तथा। स तु मध्यगतः शैलस्त्रिकोणोदूखलाकृतिः। विभ्राजमानः सततं मध्ये ब्रह्मवराहयोः। वराहः शैलरूपो यः स चित्र इति कथ्यते। स सर्व्वेषां स्थितः पश्चात् दीर्घः सर्वेभ्य एव तु। ऐशान्यां योऽभवत् कूर्म्मः शैलरूपो महाद्युतिः। मणिकर्णः स नाम्ना तु ख्यातो देवौघसेवितः। योऽनन्तरूपः शैलस्तु वायव्यां समवस्थितः। मणिपर्व्वतसंज्ञोऽसौ पर्वतो माधवप्रियः। महामायागिरिर्यस्तु नैरृत्यां समवस्थितः। स गन्धमादनो नाम्ना सर्वदा शङ्करप्रियः। वराहपृष्ठभवने यत्र छिन्नौ महासुरौ (मधुकैटभौ)। हरिणा तत्र संजातः प्राण्डुनाथ इति स्मृतः। ब्रह्मशक्तिशिलायास्तु पूर्ब्बभागे तु मध्यतः। यस्तु पर्वतरूपोऽहं स तु भस्माचलाह्वयः। पुण्यकूटे मया सार्द्धं देवी रहसि संस्थिता। सत्यास्तु पतितं तत्र विशीर्णं योनिमण्डलम्। शिलात्वमगमत शैले कामाख्या तत्र संस्थिता। संस्पृश्य तां शिलां मर्त्यो ह्यमर्त्यत्वमवाप्नुयात्। तस्याः शिलाया माहात्म्यात् यत्र कामेश्वरी स्थिता। अद्भुतं यस्य गुह्ये तु लोहं भस्म भवेद्गतम्। सा चाप्रि प्रत्यहं पुत्र! पञ्चमूर्त्तिधरा भवेत्। मोहार्थं सर्वलोकानां ममापि प्रीतये शिवा। अह पञ्चमुखेनाश पञ्चभागे व्यवस्थितः। ईशानः पूर्व्वभागस्थः कामेश्वर्य्याः प्रधानतः। ऐशान्यां वै तत्पुरुषो ह्यघोरस्तस्य सन्निधौ। सद्योजातोऽथ वाय व्यां वामदेवस्तु सङ्गतः। देव्याश्चापि सुरश्रेष्ठ! पञ्चरूपाणि भैरव!। शृणु वेताल! गुह्यानि देवैरपि सदैव हि। कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा। सारदाऽथ महोत्साहा कामरूपगुणैर्युता। मयि लिङ्गत्वमापन्ने शिलायां योनिमण्डले। सर्वे शिलात्वमगमन् शैलरूपाश्च निर्ज्जराः। यथाहं निजरूपेण रेमे वै सह सायया। तिलारूपप्रतिच्छन्नास्तदा सर्वास्तु देवताः। शिलारूपप्रतिच्छन्नाः शैले शैवे व्यवस्थिता। रमन्ते च स्वरूपेण नित्यं रहसि सङ्गताः। ब्रह्मा विष्णुरहञ्चात्र दिक्पालाः सर्व एव ते। अन्येऽप्यत्र स्थिता देवाः सानुकूलाः सदा मयि। उपासितुं तदा देवीं कामाख्यां कामरूपिणीम्। नीलशैलस्त्रिकोणस्तु मध्ये निम्नः सदाशिवः। तन्मध्ये मण्डलं चारु षष्टिशक्तिसमन्वितम्। गुहा मनोभवा तत्र मनोभवविनिर्म्मिता। योनिस्तस्यां शिलायान्तु शिलारूपा मनोहरा। वितस्तिमात्रविस्तीर्ण्णा एकविंशाङ्गुलायता। क्रमसूक्ष्मविनिर्म्माणभस्मशैलानुगामिनी। सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी। तस्यां योनौ पञ्चरूपा नित्यं तिष्ठति कामिनी। महामाया जगद्धात्री मूलभूता सनातनी। तत्राष्टौ योगिनीर्नित्यं सूलभूताः सनातनीः। पूर्ब्बोक्ताः शैलपुत्राद्याः स्थिता देव्याः समन्ततः। तासान्तु पीठनामानि शृणु चैकत्र भैरव!। गुप्तकामा १ च श्रीकामा २ तथा च विन्ध्यवासिनी ३। कोटीश्वरी ४ धनस्था ५ तु पाददुर्गा ६ तथापरा। दीर्घेश्वरी ७ क्रमादेव प्रकटा भुवनेश्वरी ८ स्वयोगिन्यः पोठनाम्ना ख्याता अष्टौ च देवताः। सर्वतीर्थानि चैकत्र जलरूपाणि भैरव!। स्थितानि नाम्ना सौभाग्या वरेण्या प्राणिपुण्यदा। विष्णुस्तु तीरे तस्याः स नाम्ना कमल इत्युत। कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः। लक्ष्मीः सरस्वती देव्यौ देव्या अङ्गे व्यवस्थिते। ललिताख्याऽभवल्लक्ष्मीर्म्मातङ्गी तु सरस्वती। गणाध्यक्षः पूर्बभागे तस्य शैलस्य संस्थितः। सिद्धः स नाम्ना विख्यातो द्वारि देव्याः प्रियः सुतः। कल्पवृक्षः कल्पबल्ली तिन्तिडी चापराजिता। भूतास्तस्मिन्महाशैले स्थिते देव्या धृतप्रिये। वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरिर्यतः। जघने शिरसी कृत्वा जघान मधुवैटभौ। तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्म्मितं पुरा। ईशानाख्यं शिरोरत्नं तत् सिद्धेश्वरसंज्ञकम्। शिलारूलं सिद्धकुण्डं मध्यस्थं विद्धि भैरव!। तस्यासन्ने गयाक्षेत्रं क्षेत्रं वाराणसी तथा”। “योनिमण्डलसङ्काशं कुण्डं भूत्वा व्यवस्थितम्। तत्रैवामृतकुण्डन्तु सुधासंघप्रपूरितम्। मम प्रियार्थमिन्द्रेण स्थापितं सह निर्ज्जरैः। वामदेवाह्वयं शीर्षं श्रीकामेश्वरसंज्ञकम्। कामकुण्डं महापुण्यं तस्यासन्ने व्यवस्थितम्। केदारसंज्ञकं क्षेत्रं मध्यस्थं सिद्धकामयोः। दीर्घं चतुर्द्दशव्यामं छायाच्छत्राह्वयं तु तत्। तस्यासन्ने शैलपुत्री गुप्तकामाह्वया तु सा। गुप्तकुण्डस्य मध्यम्था कामेशग्राव्णि सङ्गता। कामेश्वरशिलासक्ता लामाख्यासज्ञिता सदा। पूर्व्वभागेण संसक्ता योनेस्तु परभागतः। कामकामाख्ययोर्म्मध्ये कालरात्रिर्व्यवस्थिता। पीठे दीर्घेश्वरी नाम्ना सीमाभागे प्रचण्डिका। कामाख्याप्रस्तरप्रान्ते कुष्माण्डी नाम योगिनी। पीठे कोटीश्वरी नाम्ना योनिरूपेण संस्थिता। यच्चाघोराह्वयं शीर्षं तत् कामायास्तु दक्षिणे। पीठे भैरवनामा तु गीयते परमर्षिभिः। चामुण्डाभैरवी नाम्ना भैरवासन्नसंस्थिता। नायिका कामदा भक्ते, चण्डमुण्डविनाशिनी। कामाभैरवयोर्म्मध्ये स्वयं देवी सुरापगा। हिताय सर्व्वजगतां देव्यास्तु प्रीतये स्थिता। सद्योजाताह्वयं शीर्षं पीठे त्वाम्रातकेश्वरम्। भैरवाख्ये गह्वरे तु स्थितं देवर्षिसेवितम्। विद्धि तत्रैव दुर्गाख्यां नायिकां योगरूपिणोम्। सिद्धकामेश्वरीं नाम्ना ख्यातां देवेषु नित्यशः। अजीर्णपत्रः सुच्छायो वृक्षस्तत्र तु संस्थितः। आम्रातकः कल्पवृक्षः कल्पवल्लीसमन्वितः। पीठे तु सिद्धगङ्गाख्या स्वयं गङ्गा समुत्थिता। आम्रातकस्य निकटे मम प्रीतिविवृद्धये। पुष्कराख्यन्तु तत् क्षेत्रं पीठे त्वाम्रातकाह्वयम्। ऐशान्यां तत्पुरुषाख्यं मम शीर्षं व्यवस्थितम्। भुवनेश्वरनाम्ना तु पीठे ख्यातञ्च भैरव!। गह्वरं भुवनेशस्य भुवनानन्दसंज्ञकम्। तस्यासन्ने तु सुरभिः शिलारूपेण संस्थिता। कामधेनुरिति ख्याता पीठे कामप्रदायिनी। योऽसौ सरभमूर्त्तिस्तु मध्यखण्डप्रचण्डकः। चण्डभेरवनामाऽभूत् कोटिलिङ्गाह्वयस्तु सः। मूर्त्तिभिः पञ्चभिः पञ्चभागेष सममास्थितः। अहं पश्चादतिप्रीत्या भैरवाख्यः स्थितोऽधरे। महागौरी तु या देवी योगिनी सिद्धरूपिणी। सा ब्रह्मपर्वते चास्ते शिलारूपेण चोर्द्धतः। अतीवरूपसम्पन्ना नाम्ना सा त्वपराजिता। कामधेनोरदूरस्था पूर्ब्बभागे महेश्वरी। श्रीकामाख्या योनिरूपा चण्डिका सा तु योगिनी। आग्नेय्यां विद्धि तां संस्थां सर्व्वकामप्रदां शुभाम्। योगिनी चण्डघण्टाख्या पीठेऽभूत् विन्ध्यवासिनी। योगिनी स्कन्दमाता तत्पीठेऽभूद्वनवासिनी। कात्यायनीपीठनाम्ना पाददुर्गेति गद्यते। नैरृत्यां नीलशैलस्य प्रान्ते सा संस्थिता शिवा। योऽसौ नन्दी मम तनुः स तु पाषाणरूपधृक्। संस्थितः पश्चिमद्वारि हनूमान् पाठनामतः”। क्षेत्रपरत्वमप्युक्तं देवीगीतायाम् यथा “श्रीमत् त्रिपुरभै- रव्याः कामाख्या योनिमण्डलम्। भूमण्डले क्षेत्ररत्नं महा मायाधिवासितम्। नातःपरतरं स्थानं क्वचिदस्ति धरातले। प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला। तत्रत्याः देवताः सर्व्वोः पर्व्वतात्मकतां गताः। पर्व्वतेषु वसन्त्येव महत्यो देवता अपि। तत्रत्या पृथिवी सर्व्वा देवीरूपा स्मृता बुधैः। नातःपरतरं स्थानं कामाख्यायोनिमण्डलात्”।
कामाग्निसन्दीपन = न० भैषज्यरत्नावलीदर्शिते मोदकभेदे “कर्षोरसोगन्धकमभ्रकञ्च द्विक्षारचित्रे लवणानि पञ्च। शठीयमानीद्वयकीटहारितालीशपत्राण्यपरं द्विकर्षम्। जीरं चतुर्जातलवङ्गजातिफलञ्च कर्षत्रयमेवमन्यत्। सवृद्धदारं कटुकत्रयञ्च तथा चतुष्कर्षमितं निबोध। धन्याकयष्टीमधुकं कशेरु, कर्षाः पृथक् पञ्च वरी विदारी। वीरेभकाणेभबलात्मगुप्तावीजं तथा गोक्षुरवीजयुक्तम्। सवीजपत्रेन्द्ररजःसमानं समा सिता क्षौद्रघृतञ्च तुल्यम्। कर्षैकमिन्दोरथ मोदकं तत् कामाग्निसन्दीपनमेतदुक्तम्”। तद्गुणाश्च कामस्याग्नेश्च दीपकतादयस्तत्रोक्ता द्रष्टव्याः।
कामाङ्कुश = पु० कामे कामोद्दीपने अङ्कुशैव। १ नखे त्रिका० तस्याघातेन कामोद्दीपनात् तस्य तथात्वम्। कामस्य च तिथिभेदे स्थानविशेषे नखाघातेन यथोद्दीपनं भवति तथा स्मरदीपिकायामुकं तच्च वाक्यं कामशब्दे दर्शितम्। २ पुंसोलिङ्गे जटाधरः। कामस्याङ्कुशैव। ३ कामप्रतिरोधके च।
कामाङ्ग = पु० कामं कामोद्दीपनम् अङ्गं मुकुलमस्य। आम्रवृक्षे जटाधरः।
कामात्मज = पु० ६ त०। अनिरुद्धे।
कामात्मन् = पु० कामप्रधानः रागप्रधान आत्मा मनोयस्य। रागप्रधानचित्ते। “कामात्मता न प्रशस्ता न चैवेहास्त्यकामता” मनुः। कामः तदायत्तः आत्मा स्वरूपं यस्य। २ कामायत्तस्वरूपे कामप्रसक्ते ३ काममये च। “कामात्मानं तदात्मानं न शशाक नियच्छितुम्” भा० आ० १८४ श्लो०। कामात्मानं काममयमात्मानमन्तःकरणम् नियच्छितुमित्यार्षः नियन्तुमित्यर्थे।
कामाधिष्ठान = न० ६ त०। इन्द्रियमनोबुद्धिषु “इन्द्रियाणि मनोबुद्धिरस्याधिष्ठानमुच्यते” गीतायामिन्द्रियादीनां अस्य–कामस्याधिष्ठानत्वोक्तेस्तेषां तथात्वम्।
कामानशन = न० काममनशनम्। यथेष्टभीजनरहिते तपोभेदे। रार्गद्वेषादिरहितैरिन्द्रियैः विषयसेवनेऽपि यथेष्टानशनं भवत्येवेति बोध्यम्।
कामान्ध = पुंस्त्री कामेन कामोद्दीपनेन अन्धयति अन्ध णिचच्। १ कोकिले राजनि०। तदुध्वनिना हि कामस्योद्दीपनात्तस्य तथात्वम्। स्त्रियां जातित्वात् ङीष्। कामेनान्धः ६ त०। २ स्मरान्धे स्मरवेगेन कर्त्तव्यताज्ञानशून्ये त्रि०।
कामान्धा = स्त्री कामं यथेष्टमन्धयति अन्ध–अच्। कस्तूर्य्यां राजनि०। तस्याः कृष्णरूपत्वेन यथेष्टान्धकारतुल्यत्वात् तथात्वम्।
कामायुध = यु० कामस्यायुधमिव मुकुले आकारोऽस्त्यस्य अच्। आम्रवृक्षे राजनि०। ६ त०। कामस्यास्त्रे न०।
कामायुस् = पु० कामं यथेष्टमायुर्यस्य। गरुडे त्रिका०।
कामारण्य = न० कामं शोभनमरण्यम्। मनोहरवने शब्दर०
कामारि = पु० ६ त०। १ महादेवे। २ माक्षिकोपधातुभेदे च हेमच०
कामार्त्त = त्रि० कामेन ऋतः ३ त० वृद्धिः। कामेन पीडिते “कामार्त्ताहि प्रकृतिचपलाश्चेतनाचेतनेषु” मेघ०
कामालिका = स्त्री काममलति भूषयति अल–भूषणे ण्वुल् टापि अत इत्त्वम्। सुरायां हारा०।
कामालु = पु० कामं यथेष्टमलति पुष्पविकाशेन अल–पर्य्याप्तौ उण्। रक्तकाञ्चने शब्दच०। तस्य पुष्पेण सर्व्वावयवव्यापनात् तथात्वम्।
कामावतार = पु० ६ त०। रौक्मिणेये वासुदेवात्मजे।
कामावशायिता = स्त्री कामेन इच्छया अवशाययति पदार्थान् स्वचित्ते अव + शी–णिच्–णिनि तस्य भावः तल्। सत्यसङ्कल्पत्वे योगिनामैश्वर्यभेदे शब्दचि० यथेच्छं पदार्थानां स्वचित्ते समावेशनात् योगिनस्तथात्वम्। अन्येषां निश्चेतव्यानुसारेण पदार्थनिश्चयान्न तयात्वम्।
कामावसायिता = स्त्री कामेन स्वेच्छयाऽवस्यति पदार्थान् अव + सो–णिनि तस्य भावः तल्। सत्यसङ्कल्पत्वरूपे योगिनामैश्वर्य्यभेदे। “अणिमा लघिमा प्राप्तिः प्राकाम्यञ्च तथेशिता। व्यापित्वञ्च वशित्वञ्च तथा कामावसायिता”। “यथास्य सङ्कल्पो भवति भूतेषुतथैव भूतानि भवन्ति अन्येषां निश्चया निश्चेतव्यमनुविधीयन्ते” इति सां० कौ०।
कामासन = न० कामस्यति क्षिपत्यनेन अस–करणे ल्युट् ६ त०। रुद्रयामलोक्ते आसनभेदे। तल्लक्षणं यथा “अथ कामासनं वक्ष्ये काममर्दनहेतुना। गरुडासनमाकृत्य कनिष्ठाग्रं स्पृशेद्भुवि”। गरुडासनञ्च गरुडासनशब्देवक्ष्यते
***