काथक्य = पु० स्त्री कथकस्य गोत्रापत्यं गर्गा० यञ्। कथकर्षेर्गोत्रापत्ये यूनि तु यञन्तत्वात् फक्। काथक्यायन तदीय युवगोत्रापत्ये। स्त्रियां लोहितकतान्तादि० ष्फः षित्त्वात् ङीष्। काथक्यायनी तद्गोत्रापत्यस्त्रियाम्।

काथञ्चित्क = न० कथञ्चित् + विनयादि० स्वार्थे ठक् तान्तत्वात् ठस्य कः। कथञ्चिदित्यर्थे।

काथिक = त्रि० कथायां साधु कयादि० ठक्। कथारचनासमर्थे

कादम्ब = पु० स्त्री सौ० कदि–णिच्–अम्बच्। (बालिहा~स) १ हंसभेदे स्त्रियां जातित्वेऽपि संयोगोपधत्वान्न ङीष् किन्तु टाप्। तस्य च नीलवर्णत्वम् “क्वचित् खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः” सितासितगङ्गायमुनासंगमवर्णने रघुः। तद्व्या० “कादम्बसंसर्गवती नीलहंससंसृष्टा” मल्लि०। सुश्रुते हंससारसेत्युपक्रमे कादम्बस्य प्लवत्वं संघचारित्वञ्चोक्त्वा “रक्तपित्तहराः शीताः स्निग्धा वृष्या मरुज्जितः। सृष्टमूत्रपुरीषाश्च मधुरा रसपाकयोः” इति तेषां मांसगुणा उक्ताः। २ इक्षौ पु० विश्वः। ३ वाणे मेदि०। “कादम्बानामेकपातैरसीव्यत्” माघः। कदम्बे समूहे भवः अण्। ५ समूहभवे त्रि०। कदम्बस्येदम् अण्। ६ कदम्बसम्बन्धिनि त्रि० “कादम्बमर्द्धोद्गतकेशरञ्च” रघुः। “कादम्बं नीपकुसुम” मिति मल्लि०। वस्तुतः कदम्बशब्दस्य पुष्पपरत्वे कदम्बमित्येव ह्रस्वपाठः स्यात् दीर्घपाठे तु कदम्वानां कुसुमानां समूह इत्यर्थेऽण्। इति तस्य कदम्बसमूहपरतेति बोध्यम्। कदम्ब एव स्वार्थेऽण्। ७ कदम्बवृक्षे पु० “वेत्रकादम्बवल्वजकरम्भमहाकरम्भाः पञ्च पुष्पविषाणि” स्थावरविषकीर्त्तने सुश्रु०। स्वार्थे कन् वाणे हारा०।

कादम्बर = न० कादम्बं लाति प्रकृतित्वेन ला–क लस्य रः। १ ऐक्षवे गुडादौ, तस्य २ विकारे मद्ये च। “निषेव्य मधु माधवाः सरसमत्र कादम्बरम्” माघः। तद्व्याख्यायां मल्लिनाथेनोक्ता व्युत्पत्तिरुक्ता। कादम्बं कदम्बोद्भवं रसं राति रा–क। तत्तुल्यरसयुक्ते ३ दधिसरे पु० मेदि०।

कादम्बरी = स्त्री कुत्सितं मलिनमम्बरं यस्य कोः कदादेशः कदम्बरो लीलाम्बरी बलभद्रस्तस्य प्रिया अण्। हलिप्रियायाम्, मदिरायाम्। अस्यानिरुक्तिर्बलभद्रप्रियता च हरि० ९८ अ० दर्शिता यथा “अथ सङ्कर्षणः म्यीमान् विना कृष्णेन वीर्य्यवान्। चचार तस्य शिखरे नगस्य नगसन्निभः। प्रफुल्लस्य कदम्बस्य प्रच्छाये निषषाद ह। वायुना मदगन्धेन वीज्यमानः सुखेन वै। तस्य तेनानिलौघेन सेव्यमानस्प तत्र वै। मद संस्पर्शजो गन्घः संस्पृशन् घ्राणमागतः। तृष्णा चैनं विवेशाशु वारुणोप्रभवा तदा। शुशोष च मुखं तस्य मत्तस्येवापरेऽहनि। स्मारितः स पुरावृत्तममृतप्राशनं विभुः। तृषितोमदिरान्वेवी ततस्तं तरुमैक्षत। तस्य प्रावृषि फुल्लस्य यदम्भो जलदोज्झतम्। तत्कोटरस्थं मदिरा व्यजायत मनोहरा। तान्तु तृष्णाभिभूतात्मा पिबन्नार्त्तैवासकृत्। मदाच्च चलिताकारः समजायत स प्रभुः। तस्य मत्तस्य वदनं किञ्चिच्चलितलोचनम्। घूर्णिताकारमभवच्छरत्कालेन्दुसप्रभम्। कदम्बकोटरे जाता नाम्ना कादम्बरीति सा। वारुणी रूपिणी तत्र देवानाममृतारणी। कादम्बरीमदकलं विदित्वा कृष्णपूर्ब्बजम्। तिस्रस्त्रिदशनार्य्यस्तमुपतस्थुः प्रियंवदाः। मदिरा रूपिणी भूत्वा कान्तिश्च शशिनः प्रिया। श्रीश्च देवी वरिष्ठा स्त्री स्वयमेवाम्बुजध्वजा”। “कादम्बरीमदविघूर्णितलोचनस्य युक्तं हि लाङ्गलभृतः पतनं पृथिव्याम्” उद्भ०। तेन कादम्बं कदम्बकोटरमुत्पत्तिस्थानत्वेन लाति ला–क लस्य रः मत्वर्थे र वेति बोध्यम्। कादम्बं रसं राति रा–क गौरा० ङीष्। २ कोकिलायाम्, ३ सरस्वत्याम्, ४ शारिकायाञ्च मेदि० वाणभट्टरचिते ५ कथाभेदे। सा च वाणभट्टेन सामिकृता तत्पुत्रेण समाप्तिं नीता।

कादम्बरीवीज = न० ६ त०। मद्यसाधने कित्वादिद्रव्यभेदे रत्नमा०।

कादम्बर्य्य = पु० कादम्बर्य्यां हितं यत्। कदम्बवृक्षे जटाधरः तस्य कादम्बरीमद्यहेतुत्वात् तथात्वम्।

कादम्बा = स्त्री कादम्बैवाचरति कदम्ब + आचारे क्विप् अच्। कदम्बपुष्प्यां (सुण्डरी) लतायां शब्दच०।

कादम्बिनी = स्त्री कादम्बाः कलहंसा अनुधावकत्वेन सन्त्यस्याः इनि। मेघमालायाम् अमरः “मदीयमतिचुम्बिनी भवतु कापि० कादम्बिनी” रसग०।

कादलेय = त्रि० कदलेन निर्वृत्तादि कदल + सख्या० चतुरर्थ्यां ढञ्। कदलेन निर्वृत्तादौ।

कादाचित्क = त्रि० कदाचिद्भवः कालवाचित्वात् ठञ्। कदाचित्कालभवे। “तथापि तस्य कदाचित्कतया उपचरितेन कार्य्यत्वेन कार्य्यत्वमुपचर्य्यते” सा० द०। “अनियतावधिकत्वे च कादाचित्कत्वव्याकोपः”। “अनादिश्चेत् कार्यकारणप्रवाहः कादाचित्कत्वान्यथानुपपत्त्या कल्प्यः” इति च कुसु० हरिदासः। “क्षणिकत्वञ्च स्वाधिकरणसमयप्रागभावक्षणानुत्पत्तिकत्वे सति कादाचित्कत्वम्” बौ० शि०। कादाचित्कत्वञ्च प्रागभावप्रतियोगित्वध्वंसप्रतियोगित्वान्यतरत्वम्। अन्यतरत्वनिवेशेन च ध्वं से प्रागभावप्रतियोगित्वस्य, प्रागभावे च ध्वंसप्रतियोतित्वस्य सत्त्वान्नाव्याप्तिः नित्ये च तदुभयासत्त्रान्न प्रसङ्गः।

काद्रवेय = पुंस्त्री कद्र्वाः अपत्यम् शुभा० ढक्। फणालाङ्गूलवति सरीसृपभेदे नागे, सर्पे। स्त्रियां जातित्वात् ङीष्। “काद्रवेयाश्च बलिनः सहस्रममितौजसः। सुपर्ण्णवशगाः नागा जज्ञिरेऽ नेकमस्तकाः” हरिवं० ३ अ० काश्यपपत्नीभेदक द्रुपुत्रवर्ण्णने

कानक = त्रि० कनकस्येदमण्। १ कनकसम्बन्धिनि। कनकं फलमिव उग्रं फलम स्त्यस्य अण्। जयपालवोजे राजनि०।

कानन = न० कन–दीप्तौ णिच् ल्युट् ल्यु वा। १ वने, २ गृहे, कस्य ब्रह्मण आननम्। ३ ब्रह्मणो मुखे च मेदि०। “छन्नोपान्तः परिणतफलच्योतिभिः काननाम्रैः “शीतोवायुः परिणमयिता काननौदुम्बराणाम्” मेघ०। “सकानना निष्पततीव भूमिः” “पुण्यगन्धेन काननम्” रघुः।

काननाग्नि = पु० ६ त०। बाडवानले

काननारि = पु० काननस्यारिरिव। शमीवृक्षे शब्दच०। शमीगर्भस्थाग्निना निखिलवनदाहात्तस्य तदरित्वम्

कानलक = त्रि० कनलेन निर्वृत्तादि० कनल + अरीहणा० चतुरर्थ्यां वुञ्। कनलनामजननिर्वृत्तादौ।

कानिष्ठिक = न० कनिष्ठिकैव कनिष्ठिका + शर्करा० स्वार्थे अण् स्वार्थिकस्यापि प्रंत्ययस्य क्वचिल्लिङ्गातिक्रमोक्तेः क्लीवता। कनिष्ठायाम्।

कानिष्ठिनेय = पुंस्त्री कनिष्ठाया अपत्यं कल्याण्यादि० ढक् इनङ् च। कनिष्ठाया अपत्ये। “कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयोविवासितः” भट्टि० स्त्रियां ङीप्।

कानीत = पु० कनीतस्यापत्यम् शिवा० अण्। कनीतनामनृपस्यापत्ये पृथुश्रवसि राज्ञि। “पृथुश्रवसि कानीते स्या व्युष्याददे” ऋ० ८, ४६, २१।

कानीन = पु० कन्याया अनूढाया अपत्यम् अण् कनीनादेशश्च। “कानीनः कन्यकाजातो मातामहसुतो मतः” इति याज्ञ० उक्ते पुत्रभेदे। यथा व्यासः कर्णश्च। याज्ञ० मातामहसुतत्वमुक्तम्। मनुना तु “पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः। तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम्” इत्यनेन वोढुः सुतत्वमुक्तम्। अनयोर्विरोधः अभ्युपगमानभ्युपगमाभ्यामन्यतरयोः सपुत्रापुत्रत्वाभ्यां वा समाधेयः। “कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा। स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः” इति मनुना तस्यादायाद धनहारित्वमुक्तम्। कर्णस्य यथा कानीनत्वं तथारुणात्मजशब्दे ३५९ पृ० उक्तम्। “कानीनञ्चापि जानामि सवितुः प्रथमं सुतम्। पितृष्वसरि कर्णं वै प्रसूतं सूततां गतम्” हरि० ६० अ०। “भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीं मातरसुदवाहयत् यामाहुर्गन्धकालीमिति। तस्यां पूर्व्वं कानीनो गर्भो पराशराद् द्वैपायनोऽभवदिति” भा० आ० ९५ अ०। व्यासस्य कानीनत्वमुक्तम्।

कान्त = पु० कन दीप्तौ कम–वा क्त। १, पत्यौ “कान्तवक्षस्थलस्थिता” उद्भटः। “शिवरात्रौ ददाम्यर्घमुमाकान्त! गृहाण मे” शिवार्घदानमन्त्रः। सूय्य पूर्व्वकः सूर्य्यकान्तशिलायाम्, चन्द्रपूर्व्वकः चन्द्रकान्तमणौ, अय० पूर्वः अयस्कान्तमणौ (चुम्बकपाथर) २ चन्द्रे ३ वसन्ते ४ हिज्जलवृक्षे च। ५ कुङ्कुमे, न० ६ शोभने, “कान्तालकान्ताललनाः सुराणाम्” माघः “नात्र कान्तमुपगीतया तया” माघः। ७ अभीष्टे च त्रि०। “भीमकान्तैर्नृपगुणैः” रघुः। ८ नार्य्यां, ९ प्रियङ्गुवृक्षे च स्त्री। मेदि० १० वृहदेलायां १ १ रेणुको षधौ १२ नागरमुस्तायां स्त्री राजनि०। १३ सुखस्यान्ते १४ लोहभेदे न० भावप्र० तस्य लक्षणगुणादि तत्रोक्तं यथा “यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते, हिङ्गुर्गन्धां स्त्यजति च निजं तिक्ततां निम्बवल्कः। तप्तं दुग्धं भवति शिखराकारकं, नैति भूमिं, कृष्णं न स्यात् सजलकणतः कान्तलोहं तदुक्तम्”। मारितस्य चूर्णीकृतस्य तस्य सेवने गुणा उक्तास्तत्रैव “गुल्मोदरार्शःशूलाममामवातं भगन्दरम्। कामलाशोथकुष्ठानि क्षयं कान्तमयो हरेत्। प्लीहानमम्लपित्तञ्च यकृच्चापि शिरोरुजम्। सर्वान्रोगान् विजयते कान्तलोहं न संशयः। बलं वीर्य्यं वपुः पुष्टिं कुरुतेऽग्निं विवर्धयेत्”। तत्रैव सामान्यलौहमारणविधिगुणादि। “शुद्धं लोहभवं चूर्णं पातालगरुडीरसैः। मर्द्दयित्वा पुटेद्वह्नौ दद्यादेवं पुटत्रयम्। पुटत्रयं कुमार्याश्च कुठारच्छिन्निकारसैः। पुटषट्कं ततोदद्यादेवं तीक्ष्णमृतिर्भवेत्”। अन्यच्च। “क्षिपेद्द्वादशमांशेन दरदं तीक्ष्णचूर्णतः। मर्द्दयेत्कन्यकाद्रावैर्यामयुग्मं ततः पुटेत्। एवं सप्तपुटै र्मृत्युं लोहचूर्णमवाप्नुयात्। सत्यानुभूतो योगीन्द्रैः क्रमोऽन्योलोहमारणे। कथ्यते रसराजेन कौतूहलधियाऽघुना। सूतकात् द्विगुणं गन्धं दत्त्वा कुर्य्याच्च कज्जलीम्। द्वयोः समं लोहचूर्णं मर्द्दयेत्कन्यकाद्रवैः। यामत्रयं ततः पिण्डं कृत्वा ताम्रस्य पात्रके। वर्म्मे धृत्वा रुचूकस्य पत्रैराच्छादयेद्बुधः। यामद्वयाद्भवेदुष्णं धान्यराशौ न्यसेत्ततः। दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत्। पिष्ट्वा च गालयेद्वस्रादेवं वारितरं भवेत्। दाडिमस्य दलं पिष्ट्वा तच्चतुर्गुणवारिणा। तद्रसेनायसञ्चूर्णं सन्नीय प्लावयेदिति। आतपे शोषयेत्तच्च पुटेदेवं पुनः पुनः। एकविंशतिवारैस्तन्म्रियते नात्र संशयः। एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत्”। एवं मारितस्य लौहस्य गुणाः। “लोहं तिक्तं सरं शीतं कषायं मधुरं गुरु। रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत्। कफं पित्तज्वरं शूलं शोफार्शःप्लीहपाण्डुताः। मेदोमेहक्रिमीन् कुष्ठं तत्किट्टंतद्वदेव हि। गुञ्जामेकां समारभ्य यावत् स्युर्नवरत्तिकाः। तावल्लौहं समश्नीयाद्यथादोषानलं नरः। कुष्माण्डं तिलतैलं च माषान्नं राजिकां तथा। मद्यमम्लरसञ्चैव वर्जयेल्लोह सेवकः। शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सर्वधातवः। म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा”। “कामे कान्ते रसिका काकुरुतेन” माघः। “कान्ताजनेन रहसि गृहीता।” “वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ताह्युरसीतरा तु”। माघः कं ब्रह्माणमन्तयति द्विपरार्द्धकाले। १५ वासुदेवे परमेश्वरे पु० “कामदेवः कामपालः कामी कान्तः कृतागमः” विष्णुस०। १६ पत्न्यां स्त्री “मा कान्ते पक्षस्यान्ते पर्य्याकाशे देशे स्वाप्सीः” ज्यो० त० “कान्तया कान्तसंयोगे किमकारि नवोढया” विदग्धमु०। १७ कार्त्तिकेये पु०। “आग्नेयश्चैव स्कन्दश्च” इत्युपक्रमे “कामजित् कामदः कान्तः” इत्युक्त्वा। “नामान्येतानि दिव्यानि कार्त्तिकेयस्य यः पठेत्” भा० वन० २३१ अ०। “भवेत् कान्ता युगरसहयैर्यनौ नरसा लगौ” इत्यक्तलक्षणे १८ छन्दोभेदे स्त्री। १९ कामदेवभेदे पु० कामशब्दे विवृतिः।

कान्तपक्षिन् = पु० स्त्री कान्तोमनोहरः पक्षोऽस्त्यस्य प्राशस्त्येन इति। मयूरे शब्दच० स्त्रियां ङीप्।

कान्तपुष्प = पु० कान्तं पुष्पमस्य। कोविदारवृक्षे। राजनि०।

कान्तलक = पु० कान्तं लक्यते लक–आस्वादने कर्मणि घञर्थे क। (तुंद) तुन्नवृक्षे अमरः।

कान्तलोह = पु० कान्तं प्रियंलोहं यस्य। अयस्कान्त। कर्म्म०। (कान्तिलौह) लौहसारे। कान्तशब्दे तद्गुणाद्युक्तम्।

कान्ताङ्घ्रिलोहद = पु० कान्ताङ्घ्रिस्तत्ताडनं दोहदमस्य पुष्पोद्गमे। अशोकवृक्षे त्रिका०। यथा च तस्य तथात्वं तथाऽशोकशब्दे ४८५ पृ० उक्तम् कान्तापाददोहदादयोऽप्यत्र।

कान्तायस = न० नित्यकर्म० जातित्वात् अच् ससा०। कान्तलोहे राजनि०।

कान्तार = पु० कान्ता अभीष्टा अराइव ग्रन्थयोऽस्य, कस्य जल- स्यान्तं कान्तं मनोज्ञं वा रसम् ऋच्छति ऋ–अण् उप० स०। (काजलिया) १ इक्षुभेदे भावप्र०। तत्र तद्गुणाद्युक्तम् “कान्तरेक्षुर्गुरुर्वृष्यः श्लेष्मलोवृंहणःमरः। २ कोविदारवृक्षे ३ वंशे च राजनि०। कस्य सुखस्यान्तमृच्छत्यत्र ऋ–आधारे घञ्। ६ त०। दुर्गमे पथि ४ महारण्ये च पु० न० अम० ६ छिद्रे मेदि०। स्वार्थे कन् इक्षुभेदे अमरः।

कान्तारपथिक = त्रि० कान्तारपथेनाहृतम् ठञ्। कान्तारपथेनाहृते।

कान्तारी = स्त्री कान्तार + गौ० ङीष्। कान्तारेक्षौ राजव०।

कान्ति = स्त्री कम–कामे कन–दीप्तौ वा भावे क्तिन्। १ दीप्तौ २ शोभायाम् ३ इच्छायाम् ४ स्त्रीणां शृङ्गारजे सौन्दर्य्य गुणभेदे च। कान्तौ कारणं च सुश्रुते दर्शितं यथा “तेजोऽप्याग्नेयं क्रमशः पच्यमानानां धातूनामभिनिर्वृत्तमन्तरस्थं स्नेहजातं रसाख्य स्त्रीणां विशेषतो भवति तेन मार्द्दवसौकुमार्य्यमृद्वल्परोमतोत्साहदृष्टिस्थितिपङ्क्तिकान्ति दीप्तयो भवन्ति”। घृतस्य तैजसत्वेन कान्तिदत्वम् यथोक्तं तत्रैव “घृतन्तु” इत्युपक्रम्यम् “स्मृतिमतिमेधाकान्ति स्वरलावण्यसौकुमार्य्यौजस्तेजोबलकरम्”। शोभाकान्ति दीप्तिद्युतीनां भेदस्तु सा० द० उक्तः “रूपयौवनलालित्यं भोगाद्यैरङ्गभूषणम्। शोभा प्रोक्ता, सैव कान्तिर्मन्मथाप्यायिता द्युतिः। कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते”। इति भेदेन लक्षयित्वां मन्मथोन्मेषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते इति व्याख्यातम्। तेषां च नायिकागततेव नायकगतताऽपि। चन्द्रादौ तु शोभादीप्तिकान्तिद्युतीनामभेद एव। “कला च सा कान्ति मती कलाभृतः” कुमा०। “बध्वा इवाध्वंसितवर्णकान्तेः” माघः। चन्द्रकलासु मध्ये ७ कलाभेदे। “शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना” शा० ति०। कलाशब्दे विवृतिः। ८ लक्ष्म्या अनुचरदेवीभेदे “एवमुक्त्वा तु सा देवी लक्ष्मीर्दैत्यवृषं त्वलिम्। प्रविष्टा” इत्युपक्रमे “शिष्टाश्च देव्यः प्रवरा ह्रीः कीर्त्तिद्युतिरेव च” इत्याद्युक्त्वा “श्रुतिः प्रीतिरिडा कान्तिः” इत्यादिकमभिधाय “उपतस्थुर्महासत्वं वलिमिन्द्रं महारथम्” इत्युक्तम् हरि० २५६ अ०। ९ शशिनः प्रियाभेदे च “तिस्रस्तिदशनार्य्यस्तम्” इत्युपक्रमे “मदिरा रूपिणी भूत्वा कान्तिश्च शशिनः प्रिया” हरि० ९८ अ०। १० दुर्गायां “स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च या। लक्ष्मीर्वा लनना वापि कामात् सा कान्तिरुच्यते” देवीपु० ४५ अ०। ११ कामशक्तिभेदे। “तथा कान्तिः कलकण्ठी वृकोदरा” शा० ति० राघवभट्टः। कामशक्तिशब्दे विवृतिः।

कान्तिद = न० कान्तिं ददाति दा–क। १ पित्ते धातौ शब्द च० तस्य तैजसत्वात् तथात्वम्। तेजसश्च यथा कान्तिकरत्वं तथा कान्तिशब्दे उदाहृतसुश्रुतवाक्ये दर्शितम्। २ घृते च। ३ शोभादायकमात्रे त्रि० कान्तिकरादयोऽप्यत्र। ४ सोमराज्यां स्त्री राजनि०।

कान्तिदायक = न० कान्तिं ददाति दा–ण्वुल्। कालीयके गन्धद्रव्यभेदे जटाधरः। तस्य सेवनेन कान्तिपोषणात् तस्य तथात्वम्। २ कान्तिदातरि त्रि०।

कान्तिनगरी = स्त्री काञ्चिनगर्य्यां काशी० मोक्षपुरीभेदकाञ्ची नगरीवर्णने कान्तिपुरीति पाठान्तरम् काञ्चीशब्दे च तद्वाक्यमुक्तम्।

कान्तिभूत् = त्रि० कान्तिं बिभर्त्ति भृ–क्विप्। १ कान्तिधारके २ चन्द्रे पु० तस्य कान्तिनामकलाधारित्वात् विशिष्टकान्ति धारित्वात् कान्तिनामदेवीभेदपतित्वाच्च तथात्वम्। कान्ति शब्दे च कान्तिशब्दस्य कलाचन्द्रपत्नीवाचकत्वं दर्शितम्।

कान्तिमत् = कान्तिरस्त्यस्य मतुप्। १ कान्तियुक्ते। “उपमानमभूत् विलासिनां करणं यत्तव कान्तिमत्तया” कुमा०। “शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत् खण्डमेकम्” मेघदू० स्त्रियां ङीप् “कला च सा कान्तिमती कलाभृतः” कुमा०। २ अप्सरोभेदे स्त्री “वपुष्मती कान्तिमती लीलावत्युत्पलावती” काशी० अप्सरोनामकथने। ३ चन्द्रे पु० कान्तिनामकलावत्त्वात् तस्य तथात्वम्। ४ कामदेवभेदे राघवभ०।

कान्थक = त्रि० “वर्ण्णुसमीपस्था कन्था ततो जातादौ वर्णौ वुक्” पा० वुक्। वर्णुनदसमीपस्थकन्थाजातादौ। “यथाहि जातं हिमवत्सु कान्थकम्” सि० कौ०

कान्थक्य = पु० स्त्री कन्थकर्षिभेदस्य गोत्रापत्यं गर्गा० यञ्। कन्थकर्षिगोत्रापत्ये। यून्यपत्ये यङन्तत्वात् फक्। कान्थक्यायनः बहुषु तस्य लुक्। कन्थकाः। स्त्रियान्तु लोहिता० ष्फः षित्त्वात् ङीष्। कान्थक्यायनी।

कान्थिक = त्रि० कन्थायां जातादि ठक्। कन्थाभवे।

कान्द = त्रि० कन्दस्येदं तत्र भवो वा अण्। १ तत्सम्बन्धिनि २ कन्दभवे विषादौ च। ततः अश्मादि० चतुरर्थ्यां र। कान्दर तन्निर्वृत्तादौ त्रि०।

कान्दर्प = पुं स्त्री कन्दर्पस्यापत्यं विदादौ किन्दर्भेत्यत्र कन्दर्पेति पाठान्तरे अञ्। कन्दर्पापत्ये तस्येदमण्। २ कन्दर्प सम्बन्धिनि त्रि०।

कान्दर्पिक = न० कन्दर्पस्तद्विवृद्धिः प्रयोजनमस्य ठक्। कन्दर्पवृद्धिसाधने वृ० स० उक्ते विधानभेदे। तद्विधानं च तत्र कान्दर्पिकनामकषट्सप्ततितमेऽध्याये उक्तं यथा। “रक्तेऽधिके स्त्री, पुरुषस्तु शुक्रे, नपुंसकं शोणितशुक्रसाम्ये। यस्म दतः शुक्रविवृद्धिदानि निषेवितव्यानि रसायनानि। हर्म्य पृष्ठमुडुनाथरश्मयः सोत्पलं मधु मदालसा प्रिया। वल्लकी स्मरकथा रहः स्रजो वर्ग एष मदनस्य वागुरा। माक्षीकधातुमधुपारदलोहचूर्ण्णपथ्याशिलाजतुविडङ्गघृतानि योऽद्यात्। सैकानि विंशतिरहानि जरान्वितोऽपि सोऽशीतिकोऽपि रमयत्यबलां युवेव। क्षीरं शृतं यः कपिकच्छुमूलैः पिबेत् क्षयं स्त्रीषु न सोऽभ्युपैति। माषान् पयःसर्पिषि वा विपक्वान् षड्ग्रासमात्रांश्च पयोऽनुपानान्। विदारिकायाः स्वरसेन चूर्ण्णं मुहुर्मुहुर्भावितशोषितं च। शृतेन दुग्धेन सशर्करेण पिबेत्स यस्य प्रमदाः प्रभूताः। धात्रीफलानां स्वरसेन चूर्ण्णं सुभावितं क्षौद्रसिताज्ययुक्तम्। लीढ्वानुपायाथ पयोऽग्निशक्त्या कामं निकामं पुरुषो निषेवेत्। क्षीरेण वस्ताण्डयुजा शृतेन सम्प्लाव्य कामो बहुशस्तिलान् यः। सुशोषितानत्ति पिबेत्पयश्च तस्याग्रतः किं चटकः करोति। माषसूपसहितेन सर्पिषा षष्टिकौदनमदन्ति ये नराः। क्षीरमप्यनुपिबन्ति तामु ते शर्वरीषु मदनेन शेरते। तिलाश्वगन्धाकपिकच्छुमूलैर्विदारिकाषष्टिकपिष्टयोगः। आजेन पिष्ट्वा पयसा घृतेन पक्त्वा भवेच्छस्कलिकाऽतिवृष्या। क्षीरेण वा गोक्षुरकोपयोगं विदारिकाकन्दकभक्षणं वा। कुर्वन्न सीदेद्यदि जीर्यतेऽस्य मन्दाग्निता चेदिदमत्र चूर्णम्। साजमोदलवणा हरीतकी शृङ्गवेरसहिता च पिप्पली। मद्यतक्रतरलोष्णवारिभिश्चूर्णपानमुदराग्निदीपनम्। अत्यम्लतिक्तलवणानि कटूनि वात्ति सक्षारशाकबहुलानि च भोजनानि। दृक्च्छुक्रवीर्यरहितः स करोत्यनेकान् व्याजान् जरन्निव युवाप्यबलामवाप्य”। भावप्र० तदुपायविधानाद्युक्तं यथा। “अथ वाजीकरणाधिकारः। तत्र वाजीकरणस्य लक्षणमाह। यद्द्रव्यं पुरुषं कुर्याद्वाजीव सुरतक्षमम्। तद्वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः। अत्र प्रसङ्गात् क्लैव्यस्य लक्षणं संख्यां निदानं चाह। क्लीवः स्यात् सुरताशक्तस्तद्भावः क्लैव्यमुच्यते। तच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यते। तैस्तैर्भावैरहृद्यसिस्तु रिरंसोर्मनसि क्षते। ध्वजः पतत्यतो नॄणां क्लैव्यं समुपजायते। द्वेष्य- स्त्रीसंप्रयोगाच्च क्लैव्यं तन्मानसं स्मृतम्। तैस्तैर्भावैःभयशोकक्रोधादिभिः,–अहृद्यैः–हृदयाहितैः–दुःस्थत्वात् क्षते पीडिते अस्वस्थीकृते इति यावत्। ध्वजः–शिश्नः। पतति नतून्नमति संप्रयोगोर्मथुनम्। “कटुकाम्लौष्णलवणैरतिमात्रोपसेवितैः। पित्ताच्छुक्रक्षयो दृष्टः क्लैव्यं तस्प्रात्प्रजायते। कटुकादिनातिमात्रेण प्रवृद्धेन पित्तेन शुक्रस्य दग्धत्वात् क्लैव्यं भवति पित्तजमिति द्वितीयम्। अतिव्यवायशीलो यो न च वाजीक्रियारतः। ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकः। शुक्रक्षयेण तृतीयम्। “महता मेढ्ररोगेण चतुर्थी क्लीवता भवेत्। वीर्यवाहिशिराच्छेदान्मे हनादुन्नतिर्भवेत्। बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः। षष्ठं क्लैव्यं स्मृतं तत्तु शुक्रस्तम्भनिमित्तकम्। बलिनः पुष्टस्य क्षुब्धमनसः कामात्सं चलतः मनसो, ब्रह्मचर्यम् अमैथुनं तस्मान्निरोधात् शुक्रस्य, क्लैव्यं भवति। जन्मप्रभृति यत्क्लैव्यं सहजं तद्धि सप्तमम्। असाध्यं क्लैव्यमाह। असाध्यं सहजं क्लैव्यं मर्मच्छेदाच्च यद्भवेत्। मन्मर्मछेदाद्वीर्यवाहिशिराच्छेदात् अथ क्लैव्यस्य चिकित्सा। क्लैव्यानामिह साध्यानां कार्यो हेतुविपर्ययः। मुख्यं विकित्सितं यस्मान्निदानपरिवर्ज्जनम्। अथ क्लैव्यस्य चिकित्सायां वाजीकरण विधिमाह। नरो वाजीकरान् योगान् सम्यक् शुद्धो निरामयः। सप्तत्यन्तं प्रकुर्वीत बर्षादूर्ध्वन्तु षोडशात्। नच वै षोडशादर्वाक् सप्तत्याः परतो न च। आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति। क्षयवृद्ध्युपदंशाद्या रोगाश्चातीव दुर्ज्जयाः। अकालमरणञ्च स्याद्भजते स्त्रियमन्यथा। विलासिनामर्थवतां रूपयौवनशालिनाम्। नराणां बहुभार्य्याणां विधिर्वाजीकरो हितः। स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्य मिच्छताम्। योषित्प्रसङ्गात् क्षीणानां क्लीवानामल्परेतसाम्। हिता वाजीकरा योगाः प्रीणयन्त्यबलाः सदा। एतेऽपि पुष्टदेहानां सेव्याः कालाद्यपेक्षया। वाजीकरणान्याह। भोजनानि विचित्राणि पानानि विविधानि च। गीतं श्रोत्राभिरामाश्च वाचः स्पर्शसुखास्तथा। यामिनी सान्द्रतिलका कामिनी नवयौवना। गीतं श्रोत्रमनोज्ञञ्च ताम्बूलं मदिराः स्रजः। गन्धा मनीज्ञा रूपाणि चित्राण्युपवनानि च। मनसश्चाप्रतीघातं वाजी कुर्व्वन्ति मानवम्। माक्षीकधातुमधुपारदलोहचूर्णम् पथ्याशिलाजतुविडङ्गघृतानि लिह्यात्। एकाग्रविंश- तिदिनानि गदार्दितोऽपि साशीतिकोऽपि रमयेत्प्रमदां युवेव”। तत्रौषधभेदास्तु तत एवावसेयाः।

कान्दव = न० कन्दौ संस्कतं भक्ष्यम् अण्। कन्दुसंस्कृते भक्ष्ये

कान्दविक = त्रि० कान्दवं पण्यमस्य ठक्। कन्दुसंस्कृतभक्ष्यद्रव्यविक्रेतरि मिष्टान्नपण्यके।

कान्दिग्भूत = त्रि० कां दिशं यामीत्याकुलतां भूतः प्राप्तः भूप्राप्तौ कर्त्तरि क्त २ त० पृषो०। कां दिशं यामीत्याकुलतं प्राप्ते। “स कथञ्चिद्भयात्तस्माद्विमुक्तो ब्राह्मणस्तदा। कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम्” भा० शा० प० १६९ अ०। “कां दिशं यामीत्याकुलः कान्दिग्भूतः” नीलक०। “कान्दिग्भूतं छिन्नगात्रं विसंज्ञं दुर्य्योधनोद्रक्ष्यति सर्व्वसैन्यम्” भा० उद्यो० ४७ अ०।

कान्दिशीक = त्रि० कां दिशं यामीत्याह “तदाहेति माशब्दादिभ्यः” उपसंख्यानात् ठक् पृषो० मयू० आकृतिगणत्वात् समासः। कदि–वैक्लव्ये भावे इन् कन्दिः वैक्लव्यम्। शीकसेचने क्षरणार्थत्वादश्रुपातार्थकता भावे घञ् कन्दिश्चशीकः अश्रुपातश्च विद्येते अस्य बा० अण् रायमुकुटः। भयद्रुते पलायिते अमरः। “बहूनां प्रलयोजातः कान्दिशीकमभूज्जगत्” काशी०।

कान्यकुब्ज = पु० देशभेदे कन्यकुब्जशब्दे विवरणम्। “कान्यकुब्जे महानासीत् पार्थिवोभरतर्षभ!। गाधीति विश्रुतो लोके कुशिकस्यात्मसम्भवः” भा० व० १७४ अ०।

कान्यजा = स्त्री कात् जलादन्यस्मिन् जायते जन–ड। नली नामगन्धद्रव्ये शब्दच०।

कापटव = पुं स्त्री कापटोर्गोत्रापत्यम् अण्। १ कापटुगोत्रापत्ये स्त्रियां तु गोत्रप्रत्ययान्तत्वेन जातित्वेऽपि न ङीष्। किन्तु शार्ङ्गरवादि० ङीन् स्वरेभेदः। कापटवी। गोत्रान्तत्वात् तत आगतेऽर्थे वुञ्। कापटवक ततआगते। कुत्सितः पटुः कापटुस्तस्य भावः कर्म्म वा अण्। कापटव २ निन्दितपटुतायां न०।

कापटिक = त्रि० कपटेन चरति ठक्। १ कपटव्यवहारिणि “कृत्स्नं चाष्टविधं कर्म पञ्चवर्गञ्च तत्त्वतः” इति ७१५४। श्लोकव्या० कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्गं पञ्चवर्गशब्दवाच्य तत्त्वतश्चिन्तयेत् तत्र परमर्म्मज्ञः प्रगल्भश्छात्रः कपटव्यवहारित्वात् कापटिकस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य राजा ब्रूयात् यस्य दुर्वृत्तं पश्यसि तत्तदानीमेव मयि वक्तव्यमिति” कुल्लू० उक्ते राज्ञः पञ्चवर्गान्तर्गते २ छात्ररूपे चारभेदे पु०।

कापथ = पु० कुत्सितः पन्थाः अच् समा० कादेशः। १ निन्द्येवर्त्मनि अमरः। “आस्थातुं कापथं दुष्टं विषमं बहुकण्टकम्” रामा०। दुष्टपथवर्त्तिनि २ दानवभेदे च पु०। “शरभः शलभश्चैव कुपथः कापथः क्रथः” इति हरि० २६३ अ० दानवनामकथने। ३ उशीरे न० मेदि०। कापथजातत्वात्तस्य तथात्वम्।

कापा = स्त्री कम् सुखमाप्यतेऽनया आप–करणे घञ् ६ त०। प्रातःप्रबोधकवन्दिवाण्याम्। “प्रातर्जरेथेजरणेव कापया” ऋ० १०। ४०। ३। प्रातःप्रबोधकस्य वन्दिनो वाणी कापा तया” भा०।

कापाटिक = न० कपाटिकैव शर्करा० स्वार्थे अण् स्वार्थिकस्यापि क्वचिल्लिङ्गातिक्रमोक्तेः क्लीवता। क्षुद्रकपाटे।

कापाल = न० कपालमेव तस्येदं वा अण्। १ कपालरूपाकारे कुष्ठभेदे कपालशब्दे उदा०। २ कपालसम्बन्धिनि तन्निर्मिते भूषणादौ च। “त्रिशूलमस्त्रं घोरञ्च कापालमथ कङ्कणम्” विक्रमो०। (कालियाखडा) ३ कर्कटावृक्षे पु० रत्नमा०। गौरा० ङीष्। ४ विडङ्गायां स्त्री राजनि०।

कापालिक = त्रि० कपालेन नृकपालेन चरति अभ्यवहारादिकं करोति ठक्। १ शैवाचारभेदयुक्ते सिद्धान्तेभेदे तेषामाचारश्च। “नरास्थिमालाकृतभूरिभूषणः श्मशानवासी नृकपालभोजनः”। “पश्यामि योगाञ्जनशुद्धदर्शनो जगन्मिथोभिन्नमभिन्नमीश्वरात्”। तस्य धर्मभेदः प्रबोधच० वर्णितो यथा। “मस्तिष्काक्तवसाभिघारितमहामांसाहुतीर्जुह्वतां वह्नौ ब्रह्यकपालकल्पितसुरापानेन नः पारणा। सद्यःकृत्तकठोरकण्ठविगलत्कीलालधारोक्षणैरर्च्यो नः पुरषोपहारबलिभिर्देवो महाभैरवः” इति। “अथ तीर्थकराग्रणीः प्रतस्थे बहुकापालिकजालकं विजेतुम्” शङ्करदिग्विजयः। २ अन्त्यजजातिभेदे (कपालि) पु० स्त्री० स्त्रियां ङीष्। अन्त्यजशब्दे कपालिन्शब्दे च विवृतिः। कपालिकैव शर्करा० अण्। ३ क्षुद्रकपाले न०।

कापालिन् = पु० कापाल कपालं ब्रह्मकपालं व्रते धार्प्यत्वेनास्त्यस्य इनि। ब्रह्मशिरोहरणजपापापनुत्तये व्रतार्थं ब्रह्मकपालधारिणि १ शिवे। “अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः” भा० अनु० १७ अ० शिवसहस्रनामकथने। वासुदेवस्य २ पुत्रभेदे। “कौशिक्यां सुतसोमायां यौधिष्ठिय्यां युधिष्ठिर!। कापाली गरुडश्चैव जज्ञाते चित्रयोधिनौ” हरि० १६२ अ०। (कपालि) ३ जातिसङ्करे अन्त्यजभेदे पुं स्त्री। स्त्रियां ङीप्। “नटी कापालिनी वेश्या कुलटा नापि- ताङ्गना” तन्त्रसारे सप्तकुलनायिकाकीर्त्तने।

कापिक = पु० कपिरेव अङ्गुल्यादि० ठक्। कपिशब्दार्थे

कापिञ्जल = पुं स्त्री कपिञ्जलस्यापत्यं शिवा० अण्। कपिञ्जलस्यापत्ये स्त्रियां ङीप्।

कापिञ्जलादि = पुं स्त्री कपिञ्जलान् तन्मांसान्यत्ति अद–अण् उप० स० कपिञ्जलादस्तस्यापत्यम् “अत इञ्” पा० इञ्। कपिञ्जलपक्षिमांसभक्षकस्यापत्ये स्त्रियां ङीप्। तस्यापत्यम् कुर्व्वादि० ण्य। कापिञ्जलाद्य तदपत्ये पुंस्त्री।

कापित्थ = न० कपित्यस्य विकारः अनुदात्तादित्वात् “अनुदात्तादेश्च” पा० अञ्। कपित्थविकारे

कापिल = त्रि० कापिलं तदुक्तशास्त्रं वेत्त्यधीते वाऽण्। १ कपिलशास्त्रज्ञे २ तदध्येतरि च हेम०। कपिलेन प्रोक्तम् अण् तस्येदं वा अण्। ३ कपिलप्रोक्ते ४ तत्सम्बन्धिनि शास्त्रे न० कपिलशब्दे तत्प्रोक्तविषया दर्शिताः। “मार्गज्ञाः कापिलाः सांख्याः” भा० शा० ३०३। “बुद्धिश्च परमा यत्र कापिलानां महात्मनाम्” “पितु र्नियोगाज्जग्राह शुको धर्म्मभृतां वरः। योगशास्त्रं च निखिलं कापिलञ्चैव भारत!” भा० शा० ३२७ अ०। स्वार्थेऽण्। ५ षिङ्गलवर्ण्णे पु० ६ तद्वति त्रि० भरतः कपिलमधिकृत्य कृतोग्रन्थः अण्। ६ कपिलाधिकारेण कृते उपपुराणभेदे “अन्यान्युपपुराणानि मुनिभिः कथितानि तु” इत्युपक्रम्य “कापिलं मानवञ्चैव तथैवोशनसेरितम्”। हेमा० दा० ख० कूर्म्मपु० उपपुराणगणने उक्तम्

कापिलिक = पुंस्त्री कपिलिकायाः कपिलवर्ण्णायाः अपत्यम् शिवा० अण्। कपिलिकाया अपत्ये स्त्रियां ङीप्।

कापिलेय = पु० कपिलायाः तन्नाम्न्या ब्राह्मण्या अपत्यम् ढक्। कपिलानाम्न्याः स्तनपायित्वेन तदपत्ये ब्राह्मण्याः कपिलशिष्ये मुनिभेदे। तस्य सम्भवादिकं भा० शा० २१८ अ० वर्ण्णितं यथा “तत्र पञ्चशिखो नाम कापिलेयो महामुनिः। परिधावन् महीं कृत्स्नां जगाम मिथिलामथ। सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये। सुपर्यवसितार्थश्च निर्द्वन्द्वोनष्टसंशयः। ऋषीणामाहुरेकं तु यं कामानावृतं नृष्। शाश्वतं सुखमत्यन्तमन्विच्छन्तं सुदुर्लभम्। यमाहुः कपिलं सांख्याः परमर्षिं प्रजापतिम्। समन्ये तेन रूपेण विस्मापयति हि स्वयम्। आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम्। पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम्। यत्न चासीनमागम्य कापिलं मण्डलं महत्। पञ्चस्रोतसि निष्णातः पञ्चरात्रविशारदः। पञ्चज्ञः पञ्चकृत् पञ्चगुणः पञ्चशिखः स्मृतः। पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत्। इष्टसत्रेण संपृष्टो भूयश्च तपसाऽऽसुरिः। क्षेत्र क्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः। यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते। आसुरिर्मण्डले तस्मिन् प्रतिपेदे तदव्ययम्। तम्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः। ब्राह्मणी कपिला नाम काचिदासीत् कुटुम्बिनी। तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ। ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम्। एतन्मे भगवानाह कापिलेयस्य संभवम्। तस्य तत् कापिलेयत्वं सर्ववित्त्वमनुत्तमम्”। व्याख्यातञ्चैतत् नीलकण्ठेन यथा “कापिलेयः कपिलायाः पुत्रः परिधावन् एकत्र वासमकुर्वन्। सुपर्यवसितार्थः सम्यग्निश्चितप्रयोजनः। कामैरनावृतं कामादवसित मितिपाठे यदृच्छया स्थितं नृषु सुखम् अन्विच्छन्तं स्थापयितुमिति शेषः। सः कपिलः, तेन पञ्चशिखसंज्ञेन तत्प्राशष्यत्वात्तत्तुल्यत्वम्। पञ्च स्रोतांसि विषयकेदार प्रणाडिकाः यस्य तस्मिन् मनसि मानसं सत्रमित्यर्थः। यत्र यत्समीपे, कापिलं कपिलमतानुसारि मण्डलं मुनि समूहं प्रति परमार्थं यो न्यवेदयदित्युत्तरेण सम्वन्धः। पञ्चस्रोतसि मनसि निष्णातः ऊहापोहकोशलवान्। पञ्चरात्रो नाम विष्णु त्वप्रापकः क्रतुः “पुरुषोह वै नारायणोऽकामयतात्यतिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं स्यामिति सएतं पञ्चरात्रं पुरुषमेधं यज्ञक्रतुमपश्य दिति” शतपवोक्तस्तत्र विशारदः अनुष्ठिताखिलकर्मेत्यर्थः। पञ्च अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयान् कोषान् मिथ आत्मनश्च विविक्तान् जानातीति पञ्चज्ञः अतएव पञ्चकृत् पञ्च तद्विषयान्यु पासनानि “भृगुर्वै वारुणिरित्यस्यामुपनिषदि “सतपस्तप्त्वाऽन्नं ब्रह्मेति व्यजानदित्यादि” विहितानि करोति पञ्चकृत्, पञ्च “शान्तोदान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यतीति श्रुताः शान्तादयो गुणाः यस्मिन् स पञ्चगुणः ततश्च “ब्रह्मविद्ब्रह्मैव भवतीति” श्रुतेः पञ्चभ्योऽतिरिच्यमानत्वात् शिखेवेति पञ्चशिखं पुच्छं ब्रह्म तज्ज्ञत्वात् मुनिरपि पञ्चशिखः। ननु पञ्चकृत् कथं षष्ठज्ञः स्यादिति वेत्? शृणु–यथान्नमयं विकारमुपासीनस्तत्प्रकृतिमन्नं विराडाख्यमेति एवं मायया विकृतमानन्दं तत्पतिमेतीति न षष्ठोपास्तिः पृयग्वक्तव्या। षष्ठज्ञानाय तस्य पञ्चमोपास्तिफलत्वात् तदेतदाह पुरुषेति। पुरुषा अन्नमयादयः पञ्च अवसन्नतया बाधिततया तिष्ठन्तीत्यस्मिन्निति पुरुषावस्थम् अतएव शिरआद्यवयवरहितत्वादव्ययम् अबाध्यत्वाच्च परमार्थम् अबोधयत्। तस्यापि गुरुमाह इष्टेत्यादिना। इष्टसत्रेण आत्मयज्ञेन हेतौ तृतीया, अध्ययनेन वसतीतिवत्, सम्यक् पृष्टं प्रश्नो यस्य स संपृष्टः, आत्मज्ञानार्थं कृतप्रश्न इत्यर्थः। व्यक्तिं बाध्यत्वाबाध्यत्वेन स्पष्टताम् देवदर्शनः दिव्यदृष्टिरित्यर्थः। सांख्यसम्मतं गुणपुरुषान्तरज्ञानात् कैवल्यं प्रधानं चोपादानमिति पक्षं निरस्यति यत्तरिति, अक्षरमेव जगदुपादानतया नानारूपं न तु क्षरं प्रधानम्, अव्ययं ब्रह्मैव प्रतिपेदे ज्ञातवान्, न तु गुण पुरुषान्तरम्। भगवान् मार्कण्डेयः सनत्कुमारो वा”।

कापिल्य = त्रि० कपिलेन निर्वृत्तादि कपिल + चतुरर्थ्यां सङ्काशा० ण्यः। कपिलेन निर्वृत्तादौ।

कापिवन = न० द्व्यहसाध्ये अहीने यागभेदे “द्व्यहास्त्रय” इत्युपक्रमे “आङ्गिरसचैत्ररथकापिवनाः” कात्या० २३। २। ३। “चैत्ररथमन्नाद्यकामः कापिवनं स्वर्गकाम इति द्व्यहाः” आश्व० श्रौ० १०। २। ३।

कापिश = न० कपिशा मार्धवी तत्पुष्पम् साधनतेनास्त्यस्य अण्। माधवीलताकुसुमजाते मद्यभेदे हेमच०।

कापिशायन = त्रि० कपिशेव स्वार्थेऽण् तत्र जातं “कापिश्याःष्फक्” पा० ष्फक्। माधवीपुष्पलताजाते मद्ये जटा०। “कापिशायन सुगन्धि विधूर्णन्” माघः। देवतायां पु० धर०। द्राक्षायां स्त्री सि० कौ० षित्तात् ङीष्।

कापिशेय = पु० स्त्री कपिशाया अपत्यम् ढक्। कपिशापत्ये पिशाचे त्रिका०।

कापिष्ठल = पु० कपिष्ठलस्येदम् अण्। मध्यदेशभेदे वृह० स०। कूर्मविभागे “औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम्” इत्युक्तेस्तस्य मध्यदेशत्वम्।

कापिष्ठलि = पु० स्त्री कपिष्ठलस्य गोत्रापत्यम् इञ्। कपिष्टलगोत्रापत्ये स्त्रि यान्तु क्रौड्या० ष्यञ्। कापिष्ठिल्या इति भेदः। यून्यपत्ये तु “यञिञोश्च” पा० फक्। कापिष्ठलायन तद्गोत्रयुवापत्ये पु०।

कापुरुष = पु० कुत्सितः पुरुषः कोः का। १ कुत्सिते पुरुषे “शत्रोर्विख्यातवीर्य्यस्य व्यञ्जनीयस्य विक्रमैः। पश्यतोयुद्धलुब्धोऽहं कृतः कापुरुषस्त्वया” रामा० कापुरुषस्येदमण्। २ कुत्सितपुरुषसम्बन्धिनि त्रि०। “स्त्रीषु शौर्य्यमनथासु परदारप्रधर्षक!। कृत्वा कापुरुषं कर्म्म शूरोऽहमिति मन्यसे” रामा०। स्त्रियां ङीप्। ब्राह्मणादि० भावे कर्म्मणि च ष्यञ्। कापुरुष्य तद्भावे तत्कर्म्मणि च न०।

कापेय = न० कपेर्भावः कर्म्म वा “कपिज्ञात्योर्ढक्” पा० ढक्। १ कपेर्भावे कर्म्मणि च। अपत्ये इदन्तत्वात् ढक्। २ कपिगोत्रापत्ये अनाङ्गिरसे पुंस्त्री ३ शौनकर्षौ पु० शब्दचि०। स्त्रियां गोत्रप्रत्ययान्तत्वात् ङीष्। तस्येदं ढक्। कपिसम्बन्धिनि त्रि० स्त्रियान्तु ङीष्। “कच्चिन्नुखलु कापेयी सैव ते चलचित्तता” रामा०।

कापोत = न० कपोतानां समूहः अण्। १ कपोतसमूहे कपोतस्येदम्। “अनुदात्तादेः” पा० अञ्। २ कपोतसम्बन्धिनि त्रि० स्त्रियां ङीप्। “अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः” भा० व० २५९ अ०। “कापोतीं दृत्तिंस्वल्पसंग्रहरूपाम्” नीलकण्ठः” “स्तुवन् वृत्तिंस कापोती दुहित्रा स ययौ पुरात्” भाग० ९, १८, १५, “कापोती मुञ्छवृत्तिम्” श्रीधरः। कपोतस्य यथा उञ्छवृत्तित्वमल्पसंग्रहत्वञ्च तथा कपोतलुब्धकीयशब्दे १६७० पृ० दर्शितम्। कापोतवर्णोऽस्त्यस्य अर्श० अच्। ३ सौवीराञ्जने ४ रुचके (सर्ञिकाक्षारे) न० मेदि०। ५ कपोताभवर्ण्णे पु० ६ तद्वति त्रि० हेम०। ७ ओषधिभेदे स्त्री गौ० ङीष्। तल्लक्ष्मस्थानमुक्तं सुश्रुते “कौशिकीं सरितं तीर्त्त्वा सञ्जयन्त्यास्तु पूर्वतः। क्षितिप्रदेशोवल्मीकैराचितोयोजनत्रयम्। विज्ञेया तत्र कापोती श्वेता वल्मीकमूर्द्धसु” सुश्रु०। ओषधिलक्षणादिकथने।

कापोतक = त्रि० कपोताः सन्त्यस्याम् नडा० छः कुक् च कपोतकीयः तत्रभवः अण् विल्वका० छस्य लुक्। कपोतकीयभवे।

कापोतपाक्य = पु० कपोतानां पाकः डिम्बः तेषां पूगः ण्यः। कपोतडिम्बसमुदाये।

कापोताञ्जन = न० कापोतं च तदञ्जनं चेति कर्म०। सौवीराञ्जने अमरः।

काप्य = पुंस्त्री कपेर्गोत्रापत्यम् आङ्गिरसः “कपिवोधादाङ्गिरसे” पा० यञ्। १ कपिगोत्रापत्ये आङ्गिरसे। स्त्रियान्तु शार्ङ्गरवादौ काव्येत्यत्र काप्य इति पाठान्तरे ङीन् यलोपः कापी। यङन्तन्तात् यून्यपत्ये फक्। काप्यायनः कपिगोत्रयुवापत्ये, स्त्रियान्तु लौहिता० ष्फः षित्त्वात् ङीष्। काप्यायनी। अनाङ्गिरसे तु “इतश्चानिञः” पा० ढक्। कापेय इति भेदः। कुत्सितमाप्यम् कोः का। २ पापादौ त्रि०

काप्यकर = त्रि० कुत्सितमाप्यं काप्यं पापं करोति धातूनामनेकार्थत्वात् कथयति कृ–ताच्छील्यादौ–ट। पापं कृत्वा परस्य कथके स्वपापवक्तरि शब्दर०। कर्म्मणि अण्। काप्यकारोऽप्यत्र त्रि० त्रिका०।

काफल = पु० कुत्सितं फलमस्य। (कट्फल) वृक्षभेदे। शब्दरत्ना०

काबर = पु० कुत्सितो बन्धः कोः का वेदे पृषो०। कुत्सितबन्धे। “श्रवस्युं शुष्मं काबरं बध्रिं कण्वन्तु बन्धुरः”। “शुनां कपिरिव दूषणो बन्धरा काबरस्य च” दुष्टौ हित्वा भर्त्स्यामि दूषयिष्यामि काबरम्” अथ० ३। ९। ३। ४। ५।

***