वाचस्पत्यम्
कलिक to कल्क
links:
Menu अ–ह
Prev कलि
Next कल्प–कल्म
कलिक
कलिकार
कलिल
कल्कि
UpasanaYoga
.org

कलिक = पुं स्त्री कल + मत्वर्थे ठन्। वकभेदे (को~चवक्) शब्दर० स्त्रियां जातित्वात् ङीष्।

कलिका = स्त्री कलिरेव स्वार्थे कन्। १ कोरके (कडि) अस्फुटितपुष्पे अमरः। “वितरसि नः कलिकां किमर्थमेनाम्” “असकलकलिकाकुलीकृतानि स्खलनविकीर्ण्णविकाशि- केशराणाम्” मावः। “मुग्धामजातरजसं कलिकामकाले” सा० द०। “चूतानां चिरनिर्गतापि कलिका वध्नाति न स्वं रजः” शकु०। “सकलिका कलिकामजितामपि” रघुः। कलोध्वनिभेदः साध्यतयाऽस्त्यस्य ठन्। वीणामूले हेमच० तस्य कलसाधनत्वात् तथात्वम्। कलैव स्वार्थे कन्। ३ कलाशर्ब्दार्थे। “तन्यन्ते कलिका यस्मात्तस्मात्तास्तिथयः स्मृताः” सि० शि०। कलिकापूर्व्वम्। “प्रथममपरचरणसमुत्थं श्रयति स यदि लक्ष्म। इतरदितरगदितमपि यदि च तुर्य्यम्। चरणयुगलकमविकृतमपरमिति कलिका सा” वृत्तर० उक्ते ४ छन्दोभेदे च। ५ पदसन्ततियुक्तरचनाभेदे सा च गोविन्दवीरुदावलीतद्भाष्ययोर्दर्शिता यथा “स्युर्म्महाकलिकारम्भे श्लोकस्तु युगशः स्मृता। अन्यासां कलिकानान्तु भवन्त्येकैकशोहि ते। पूर्त्तौ द्वौ कलिकाभिस्तु वीरुदस्तुल्यसंख्यकाः। कला नाम भवेत्तालनियता पदसन्ततिः। कलाभिः कलिका प्रोक्ता तत्भेदाः षट् समीरिताः। कलिका चण्डवृत्त्याख्या द्विगादिगणवृत्तका। तथा त्रिभङ्गी वृत्त्याख्या मध्या मिश्रा च केवलेति”। चण्डवृत्ते दशधा संयुक्त वर्णाः। अत्र संयुक्तवर्णानां नियमो दशधा च ते। मधुर श्लिष्टविश्लिष्टशिथिलह्रादिनस्त्वमी। भिद्यन्ते ह्रस्वदी र्घाभ्यां ते दर्श्यन्ते स्फुटं यथा। ह्रस्वान्मधुरसंयोगाशङ्कराङ्कुशकिङ्कराः। तस्मात्तु श्लिष्टसंयुक्तादर्पकर्परसर्पवत्। ततोविश्लिष्टसंयक्ता भल्लकल्याणवल्लयः। तथा शिथिल संयक्ताः पश्यकश्यपवश्यवत्। प्रोक्ता ह्रादियुता मह्यंसह्यंगुहा प्रसह्यवत्। गर्हादीन् ह्रादिसंयुक्तभेदान् केचित् समूचिरे। दीर्घात्तुङ्गाङ्गकार्पासं बाल्यं वैश्यश्च नाह्यकमिति”। कलापरिमाणमुक्तम्। “अधिकाश्चेच्चतुःषष्टि र्न्यूना द्वादशतः कलाः। एताभ्यो नाधिकाः कार्य्यान्यूनाश्चापि न पण्डितैरिति”। तत्र तावच्चण्डवृत्तकलिका द्विविधा नखोविशिखश्चेति भेदात् तत्र रणादिविंशतिभेदस्य नखस्येह वर्द्धितादयोनव भेदा गृहोताः “वर्द्धितं वीरभद्रश्च समग्रोऽच्युतौत्पलम्। तुरङ्गः श्रीगुणरतिस्तथा मातङ्ग खेलितम्। तिलकश्चेति कलिकानखस्येहोदिता नव इत्युक्तेः अथ विशिखः पद्मकुन्दचम्पकवञ्जुलबकुलभेदात् पञ्चविधः तेष्वादिमं पद्मं पङ्केरुहसितकञ्जप्राण्डूत् पलेन्दीवरारुणाम्भोरुहकह्णारभेदात् षड्विधम् अन्तिमं बकुलन्तु भासुरमङ्गलभेदात् द्विविधमित्येकादशभेदो विशिखः पङ्केरुहं सितकञ्जंतथा पाण्डूत्पलं परम्” इन्दी- वरारुणाम्भोजे कह्लारञ्चेति षड्विधम्। ईषद्भेदेन कथित पद्ममेव मनीषिभिः। चम्पकं वञ्जुलं कुन्दं बकुलं द्विविधं तथा। इति पञ्चविधस्यापि विशिखस्येशसंख्यकाः” इत्युक्तेः एवं चण्डवृत्तकलिकाविंशतिधा गृहीताः अथ पञ्चधा द्विगादिगणवृत्तका कलिका मञ्जरीत्यभिहिता क्रमात् कोरक गुच्छकसंफुल्लकुसुमगन्धाख्या तस्याश्चात्र कोरकगुच्छकुसुमानि गृहीतानि” कोरकोगुच्छकुसुमै र्मञ्जरी त्रिविधात्र तु” इत्युक्तेः। त्रिभङ्गी कलिका तु शिखरिण्यादिपूर्ब्बा षोढा तस्याश्चात्र दण्डकपूर्व्वा विदग्धपूर्वा च गृहीता “दण्डकाख्या विदग्धाख्या त्रिम ङ्गीह द्विधा मता” इत्युक्तेः अथ मिश्रकलिका “कलिका गद्यसंपृक्ता सप्तविभक्तिका वा अक्षरमयी सर्वलघ्वी चेति द्विभेदा केवला चेत्यष्टौ तदेवं षड्भ्योमहाकलिकाभ्यः अष्टाविंशतिरिह कलिका गृहीताः। रणादय एकादश नखभेदाः संफुल्लगन्धौ मञ्जरीभेदौ शिखरिण्यादयः त्रिभङ्गीभेदा मध्यकलिका च त्यक्ताश्चारुताधिक्यविरहात्”।

कलिकापूर्व = य० कलिकया अंशेन जन्यमपूर्वम्। परमापूर्वजनके अङ्गजन्यापूर्ब्बभेदे। तत्साधने युक्तिः शब्दचिन्तामणिमाथुर्य्योर्दर्शिता यथा-

“नन्वेवमाग्नेयादीनां षण्णां क्षणिकत्वात् योग्यतानवगतौ परमापूर्वकारणत्वानवगमे कथमपूर्वकल्पनम्? इति चेत् काम्येऽपूर्ववाच्यत्वस्थितावाग्नेयादौ तद्द्वारासाधनत्वस्य योग्यत्वसम्भवात् न तु प्रथम” शब्दचि०। व्याकृतं चैतत् मथुरानाथेन यथा-

“ननु फलसाधनतान्वये फलसमयस्थायित्वतादृशव्यापारोपधायकत्वान्यतरत्वस्य योग्यतात्वे आग्नेयाष्टाकपालयागैन्द्रदधियागैन्द्रपयोयागात्मकयागत्रयरूपस्य दर्शस्य, आग्न याष्टाकपालोपांशुयागाग्रिषोमीयैकादशकपालयागात्मकयागत्रयरूपस्य पौर्ण्णमासस्य चावान्तरकलिकापूर्ब्बत्रय विना षड्जन्यैकपरमापूर्ब्बजनकत्वमनुपपन्नं युगपदाग्न यादीनां सहानवस्थानादतः “दर्शपौर्ण्णमासाभ्यां यजेत स्वर्गकामः” इत्यादि प्रधानविधिबोधितपरमापूर्व्वसाधनत्वान्ययानुपपत्त्या तत्र परमापूर्ब्बनाश्यं कलिकापूर्ब्बषट्कं कंल्प्यते इति तव मिद्धान्तो व्याहतः योग्यताज्ञानाभावेन प्रधानविधिवाक्यात् प्रथमं परमापूर्ब्बसाधनत्वान्वयस्यैवासम्मवादित्याशङ्कते नन्वेवमिति। एवंसाधनत्वान्वये निरुक्तान्यतरत्वस्य योग्यतात्वे। क्षणिकत्वादिति आशुविनाशित्वादित्यर्थः। परम्पराघटकानुपस्थितेश्चेति शेषः। कथमिति। कथं प्रधानविधिबोधितपरमापूर्व्वसाधनतान्यथानुपपत्तेः कलिकापूर्ब्बकल्पनम्? इत्यर्थः। यदि च निरुक्तयोग्यताज्ञानं विनाप्रि परमापूर्ब्बसाधनत्वावगमस्तदा परमापूर्ब्बज्ञानं विना स्वर्गसाधनत्वस्यापि ज्ञानसम्भवात् किं परमापूर्ब्बस्यापि वाच्यतया? इति भावः। न च तत्रापि प्रधानविधिबोधितपरमापूर्ब्बसाधनत्वान्यथानुपपत्त्या कलिकापूर्ब्बाणि न कल्प्यन्ते अपि तु आग्नेयादिबोवकप्रत्येकवाक्यात् कलिकापूर्ब्बोपस्थितौ प्रधानविधिवाक्यात् परमापूर्ब्बसाधनत्वावगमः प्रथमन्तु प्रधानविधिवाक्यं मूकमेवेति वाच्यम् अपसिद्धान्तात् “आग्नेयाष्टाकपालोभवत्यमावस्यायाम्” इत्यादिप्रत्येकबोधकवाक्यानां दर्शपौर्ण्णमासाबोधकतया कलिकापूर्ब्बाबोधकत्वाच्चेति निगर्वः। आशुविनाशित्वेन प्रतिसंहितकर्म्मणि यद्रूपेण फलस्य कालान्तरभावित्वप्रतिसन्धानं तद्रूपावच्छिन्नफलसाधनत्वान्वये तत्पर्य्यन्तस्थायिव्यापारोपधायकत्वं योग्यता प्रकृते च प्रधानविधिना कार्य्यत्वरूपेण परमापूर्व्वं बोध्यते, तथाच कार्य्यत्वरूपेणं तज्जनकता दर्शादीनां ग्राह्या, तत्र च परमापूर्वत्वरूपेण कालान्तरभावित्वप्रतिसन्धानेऽपि न कार्य्यत्वरूपेण कालान्तरभावित्वप्रतिसन्धानं, कार्य्यत्वावच्छिन्नस्य दर्शाद्यव्यवहितक्षणेऽपि सम्भवादतःपरमापूर्वसमयस्थायिव्यापारोपधायकत्वज्ञानं विनापि प्रथमं कार्य्यत्वरूपेण सामान्यतस्तत्साधनत्वग्रहः, उत्तरकालञ्च स्वर्मसमयस्थायिकार्य्यान्तराजनकस्य तादृशकार्य्यजनकत्वं परमापूर्वजनकतयैव पर्य्यवस्यति, तच्च साक्षान्न सम्भवति आग्नेयादेराशुविनाशित्वादतः परम्परया जनकत्वं, तच्चावान्तरव्यापारं विनाऽनुपपन्नमित्यनुपपत्तिज्ञानात् कलिकापूर्वाणि कल्प्यान्ते, स्वर्गस्य च देहान्तरभोग्यत्वेन कालान्तरभावित्वप्रतिसन्धानात्तत्पर्य्यन्तस्थायिव्यापारोपधायकत्वज्ञानं विना सामान्यतोऽपि न तत्साधनत्वग्रहसम्भव इति गूढाभिसन्धिना समाधत्ते काम्य इति “दर्शपौर्ण्णमासाभ्यां थजेत स्वर्गकामः” इति काप्यविधावित्यर्थः। अपूर्ववाच्यत्वस्थिताविति कार्य्यत्वरूपेण परमापूर्ववाच्यत्वस्थितावित्यर्थः, तद्द्वारा साधनत्वस्येति परमापूर्वद्वारा साधनत्वस्येत्यर्थः, सामान्यतः स्वर्गसाधनत्वरूपेणान्वये इति शेषः। योग्यतासम्भवात् योग्यताज्ञानसम्भवात्, न तु प्रथममिति। न तु परमापूर्ववाच्यत्वं विनेत्यर्थः। स्वर्गस्य देहान्तरभोग्यत्वेन काला- न्तरभावित्वप्रतिसन्धानात् तत्साधनत्वान्वये तत्पर्य्यन्तस्थायिव्यापारोपधायकत्वस्य योग्यतात्वात् कार्य्यत्वरूपेण परमापूर्वसाधनत्वान्वये च न तत्पर्य्यन्तस्थायिव्यापारोपधायकत्वज्ञानमपेक्षितं कार्य्यत्वावच्छिन्नस्य देहान्तरभाविप्रतिसन्धानादित्यभिसन्धिः। एतच्चापाततः स्वर्गस्य कालान्तरभावित्वाप्रतिसन्धाने क्रियायाः क्षणिकत्वाप्रतिसन्धाने वा स्वर्गसाधनत्वान्वयेऽप्यपूर्वोपस्थितिं विना योग्यताज्ञानसम्भवात्। केचित्तु “दर्शपौर्णमासाभ्यां यजेत स्वर्गकामः” इत्यत्र विधिप्रत्ययस्य कार्य्यत्वरूपेणापूर्वसामान्य एव शक्तत्वात् प्रथमं कार्य्यत्वरूपेण कलिकापूर्वसाधनत्रावगमस्ततः कार्य्यत्वरूपेण परमापूर्बसाधनत्वावगमः, न तु प्रथममेव परमापूर्वसाधनत्वायगमः। न च प्रथमं कार्य्यत्वरूपेण कलिकापूर्वसाधनत्वावगमेऽपि तत्र परमापूर्वपर्य्यन्तस्थायित्वं न गृहीतमिति वाच्यं द्वितीयबोधे परमापूर्वस्वर्गपर्य्यन्तस्थायित्ववत् प्रथमबोधे कलिकापूर्वस्य स्वर्गपर्यन्तस्थायिव्यापारसमयस्थायित्वभाने बाधकाभावादिति समाधत्ते काम्य इति। “दर्शपौर्णमासाभ्यां यजेत स्वर्गकाम” इति काम्यविधावित्यर्थः, अपूर्ववाच्यत्वस्थिताविति कार्य्यत्वरूपेण कलिकापूर्वस्यापि वाच्यत्वस्थितावित्यर्थः, तदुद्वारा साधनत्वस्येति कलिकापूर्वद्वारा परमापूर्वसाधनत्वस्येत्यर्थः, अन्वय इति शेषः। योग्यतासम्भवात् प्रथमं योग्यताज्ञानसम्भवात्, न तु प्रथममिति परमापूर्वसाधनत्वावगम इति शेषः। न चैवं प्रतीतपरमापूर्वसाधनत्वानुपपत्त्या कलिकापूर्वाणां कल्प्यत्वमिति सिद्धान्तव्याघात इति वाच्यं प्रधानविधिवाक्यात् परमापूर्वसाधनत्वान्वयानुपपत्त्या क लिकापूर्वाणामेव प्रथमान्वयबोधविषयत्वम् इत्येव तदर्थात् इति भावः” इत्याहुः। ननु एकस्मिन्नेव परमापूर्वे स्वर्गे च दर्शपौर्णमासयोः केन रूपेण जनकत्वमिति चेदुच्यते दर्शपौर्णमासोभयसाधारणेन दर्शपौर्णमासत्वव्यापकीभूतेन वैजात्यविशेषेण विजातीयापूर्वं विजातीयस्वर्गञ्च प्रति जनकत्वं, विजातीयापूर्वजनकतावच्छेदकतयैव तद्वैजात्यसिद्धिः, न च दण्डचक्रन्यायेन दर्शपौर्ण्णमासत्वाभ्यामेव जनकत्वमस्तु केवलदर्शात् केवलपौर्ण्णमासाद् वा फलानुत्पादस्य परस्परव्यतिरेकादेवोपपत्तेरिति वाच्यं कार्य्यकारणभावद्वयकल्पने गौरवात् दर्शत्वादेर्जनकतावच्छेदकतापर्य्यन्तस्य विध्यर्थत्वाभावात्। न च तवापि दर्शत्वादि प्रत्येकधर्ममादाय विनिगमनाविरहात् कार्य्यकारणभाव- द्वयमावश्यकमिति वाच्यम्, केवलदर्शात् केवलपौर्ण्णमासाच्च फलोत्पादस्य वारणाय कार्य्य कारणभावद्वयस्यावश्यकत्वेन गौरवस्यैव विनिगमकत्वात्, यदि च पौर्णमासं विना कृते दर्शे दर्शत्वस्य, दर्शं विना कृते च पौर्णमासे पौर्णमासत्वस्य प्रत्यक्षसिद्धत्वं नाभ्युपेयते किन्तु दर्शपूर्वकृते पौर्णमास एव पौर्ण्णमासत्वं, पौर्ण्णमासोत्तरकृत एव दर्शे दर्शत्वमुपेयते, तदा तु प्रत्येकं दर्शत्वपौर्णमासत्वाभ्यामेव जनकत्वं, न व्यापकजात्या, अतिरिक्तकल्पने गौरवात् अतिरिक्तजातिकल्पनेऽपि दर्शत्वादिकमादाय विनिगमनाविरहेण कार्य्यकारणभावद्वयस्यावश्यकत्वात्। अथ यदि पौर्ण्णमासोत्तरकृते दर्श एव दर्शत्वं, तदा दर्शत्वेनैव हेतुतास्तु किं पौर्ण्णमासत्वेन हेतुतया? न च विनिगमनाविरहात् पौर्ण्णमासत्वेनापि हेतुत्वमिति वाच्य केवलपौर्णमासत्वेन हेतुत्वे पौर्ण्णमासानन्तरं दर्शोत्पादप्राक्काल एव परमापूर्वोत्पत्त्यापत्तेरेव विनिगमकत्वादिति चेन्न “दर्शपौर्ण्णमासाभ्यां यजेत स्वर्गकाम” इति श्रुत्या पौर्ण्णमासस्यापि हेतुत्वबोधनात् पौर्ण्णमासत्वेनापि हेतुत्वस्यावश्यकत्वात् दर्शतस्य पौर्ण्णमासा वृत्तित्वात्। एतेन पयोयागात्मकदर्शचरमयागस्यैव पयोयागत्वेन हेतुत्वमस्त्वित्यपि निरस्तम्। दर्शपौर्ण्णमासत्वा क्रान्तानामन्येषामपि हेतुत्वस्य वेदबोधितत्वात्। अथोभयसाधारणवैजात्येन हेतुतापक्षे जातेरव्यासज्यवृत्तितया आग्नेयादियागषट्कस्थल एव आग्नेयादियत्किञ्चिद्यागानन्तरं परमापूर्ब्बोत्पत्त्यापत्तिः कारणतावच्छेदकावच्छिन्नयत्किञ्चित्कारणसत्त्वात् एवं दर्शत्वपौर्ण्णमासात्वादिना प्रत्येकहेतुत्वपक्षेऽपि पौर्ण्णमासानन्तरं दर्शान्तर्गतयत्किञ्चिद्यागे कृत एव परमापूर्व्वोत्पत्त्यापत्तिरिति चेन्न परमापूर्व्वव्यापारीभूतानां कलिकापूर्ब्बषट्कानामपि तत्तद्रूपेणं दण्डचक्रवत् हेतुतया कलिकापूर्ब्बषट्कानां सम्बन्धतयावा तदभावादेव तत्र परमापूर्व्वानुत्पादात्। ननु तथापि दर्शपौर्ण्णसासस्थले कियन्त्यपूर्व्वाणीति चेदत्र प्राञ्चः–प्रथमतः पौर्ण्ण मासत्रयेण प्रत्येकं कलिकापूर्ब्ब त्रयं जनयित्वा मध्ये एकं परमापूर्व्वं जन्यते एवं दर्शत्रयणापि प्रत्येकं कलिकापूर्ब्बंत्रयं जनयित्वा मध्ये एकं परमापूर्ब्बं जन्थते, ततस्ताभ्यां परमापूर्ब्बाभ्यां चरमं परमापूर्ब्बान्तरं जन्यते इति नवापूर्व्वाणीत्याहुः। नव्यास्तु मध्यमपरमापूर्ब्बद्वये मानाभावात् षड्भिः कलिकापूर्व्वेरेव चरमं परमापूर्व्वं जन्यते इति सप्तापूर्व्वाणि। न च पूर्ब्बपूर्ब्ब क्रियाभिर्जनितैः पञ्चभिः कलिकापूर्वैः सह चो त्तरक्रियैव चरमं परमापूर्व्वं जनयतु किं चरमक्रियाजन्यकलिकापूर्ब्बेणेति वाच्यं तस्या अपि स्वोत्तराङ्गदक्षिणादानादिसाचिव्येनैव परमा पूर्व्वजनकत्वोपगमेन तावत्कालानवस्थित्या चरम कलिकापूव्वखीकारात्, दक्षिणादानाद्युत्तराङ्गञ्च साक्षादेव परमापूर्ब्बहेतुर्नतु तत्र द्वारापेक्षेति प्राहुः। उच्छृङ्खलास्तु षड्भ्यः कलिकापूर्व्वेभ्य एव स्वर्गोपपत्तेः परमापूर्ब्बे मानाभावः। न च खर्गं प्रति षण्णामपूर्व्वाणांषडपूर्ब्बसम्बन्धेन दर्शपौर्ण्णमासयोर्वा हेतुत्वे गौरवमिति वाच्यं, तवापि परमापूर्ब्बं प्रति षडपूर्ब्बाणां षडपूर्व्वसम्बन्धेन दर्शपौर्ण्णमासयोर्वा हेतुत्वेन तुल्यत्वात् षडपूर्ब्बाणां सम्बन्धत्वन्तु मतद्वय एव। यदि षडपूर्व्वाणामपि पृथक् हेतुत्वं तदाऽपूर्ब्बत्वेनैव। इरथा षट्कत्वेनेत्यन्यदेतदित्याहुः। (अपूर्व्वशब्दे परमापूर्ब्बखण्डनमेतन्मनुसारेणैवोक्तमिति स्मर्त्तव्यम्) तदसत्, परमापूर्व्वानभ्युपगमे दक्षिणादानादेश्चरमाङ्गस्य खर्गोपयीगित्वानुपपत्तेः न हि दक्षिणादानं साक्षात् खर्गहेतुः, अङ्गत्वात् आशुविनाशित्वाच्च तज्जन्यस्य पृथगपूर्वस्य स्वीकारे किमपराद्धं परमापूर्ब्बेण?। परमापूर्ब्बं प्रति च दक्षिणादानादेश्चरमाङ्गस्य साक्षादेव हेतुत्वम् इत्युक्तमेव। न च परमापूर्ब्बाभ्युपगमे तत्र षडपूर्ब्बाणां दक्षिणादानस्य च कारणत्वं कल्पनीयमतोगौरवमिति वाच्यं, तवापि षडपूर्ब्बाणां दक्षिणादानादिजन्यादृष्टस्य च खर्गं प्रति हेतुत्वेन तुल्यत्वात् मम तु कलिकापूर्ब्बषट्कं परमापूर्वजनन एव द्वारं नतु स्वर्गहेतुः, मानाभावात् यागस्य हेतुत्वे च श्रुतिरेव मानमिति न किञ्चिदेतत्। ननु तथापि नवा वृत्त्यादिस्थले दशपार्थिवशिवपूजादिस्थले च केन रूपेण परमापूर्व्वविशेषे खर्गविशेषे च हेतुत्वं, तत्र नवावृत्तित्वादेर्ज्जातित्वाभावात् न च तत्रापि अपेक्षाबुद्धिविशेष विषयत्वरूपनवत्वादिविशिष्टावृत्तित्वादिनैव हेतुत्वम्। अपेक्षाबुद्धिश्च प्रत्येकसङ्कल्पपूर्ब्बकनवावृत्त्यादिव्यावृत्ता ग्राह्या इति वाच्यं प्रत्येकनवावृत्त्यादिमात्रवृत्त्यपेक्षाबुद्धेः कारणतावच्छेदकत्वेऽननुगमात् सकल नवावृत्त्यादिवृत्त्यपेक्षाबुद्धेः कारणतावच्छेदकत्वेऽसम्भवात् अथ चण्डीपाठावृत्तितत्तन्नवत्वेतरनवत्वत्वादिना नवत्वादिकमनुगतीकृत्य तद्विशिष्टत्वेन हेतुत्वं वाच्यं “कारणतावच्छेदकसम्बन्धश्च खर्गं प्रति परमापूर्ब्बत्वमेव परमापूर्ब्बं प्रति तु परमापूर्व्वेतरापूर्व्वसामान्यमेव दर्शादिस्थानवदत्रापि प्रत्येकावृत्तिजन्यकलिकापूर्ब्बनवकादिद्वारैव परमापूर्व्वजननात् प्रत्येकसङ्कल्पपूर्ब्बकप्रत्येकावृत्तिजन्यापूर्ब्बतो नवावृत्त्यादिस्थलीयप्रत्येकावृत्तिजन्यकलिकापूर्व्वस्य न वैलक्षण्यमतः कलिकापूर्ब्बं प्रति चण्डीपाठत्वादिनैव हेतुत्वं कार्य्यतावच्छेदकश्च चण्डीपाठसामान्यजन्यतावच्छेदकतया सिद्धो नवावृत्त्यादिजन्यतावच्छेदकजातिव्यापको जातिविशेष एव। धारावाहिकपरमापूर्व्वं द्वयादिवारणाय परमापूर्व्वेतरेति। नवत्वादेः प्रत्येकापरिसमाप्तत्वादेकस्मान्न परमापूर्व्वोत्पाद इति चेन्न, निखिलापेक्षाबुद्धिसाधारणस्य नवत्वस्य एकस्यानुगतस्याभावेन तेन रूपेणानुगमासम्भवात् इति, मैवं नवावृत्तित्वादेरपि नवंपाठादिविषयकमानसज्ञानविशेषवृत्तिमानसत्वव्याप्यजातित्वात् “नवकृत्वः पठेत्” “दश पार्थिवशिवलिङ्गानि पूजयेत्” इत्यादावपि तादृशज्ञानविशेष एव धात्वर्थः तादृशज्ञानविशेषश्च परमापूर्ब्बं प्रति साक्षादेव हेतुरिति संक्षेपः”।

कलिकार = पुंस्त्री कलिं कलहं करोति कृ–अण् कलिमृच्छति ऋ–अण् वा उप० स०। पीतमस्तके १ धूम्याटेपक्षिणि (फिङ्गे)। तस्यामस्तके कलिकाकरपीतचिह्नवत्त्वात् तथात्वम्। स्त्रियां जातित्वात् ङीष्। २ पूतिकरञ्जे (का~टाकरम्चा) पु० मेदि०। ३ विषलाङ्गल्याम् राजनि० गौरा० ङीष्। ४ कलहकारके ५ कलिकाप्राप्तरि च त्रि०। ६ नारदे पु०।

कलिकारक = पु० कलिकामृच्छति ऋ–कलिं करोति कृ–वा ण्वुल्। १ पूतिकरञ्जे (का~टाकरम्चा) २ कलहकारके त्रि०। ३ नारदे पु० हेमच०।

कलिङ्ग = पुंस्त्री के मूर्द्ध्नि लिङ्गमस्य। १ धूम्याटे पक्षिणि (फिङ्गे) अमरः तस्य मस्तके पीतचिह्नवत्त्वात्तथात्वम्। स्त्रियां जातित्वेऽपि संयोगोपधत्वात् टाप्। कलिं गच्छति बा० खच् डित् मुम् च। १ पूतिकरञ्जे (का~टाकरमचा) हेमच० २ कुटजे (कुडची) तस्य फलम् अण् तस्य लुप्। ३ इन्द्रयवे न०। ४ शिरीषवृक्षे ५ प्लक्षवृक्षे च मेदि०। “जगन्नाथात् समारभ्य कृष्णातीरान्तगं प्रिये! कलिङ्गदेशः संप्रोक्तो वाममार्गपरायणः” इति तन्त्रोक्ते ६ देशभेदे ब० व० मेदि० “उत्कलादर्शितपथः कलिङ्गाभिमुखं ययौ” रघुः। स च देशः वृहत्स० कूर्मविभागे आग्नेय्यामुकः यथा “आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्गाः”। तेषां राजा, ते अभिजनोऽस्य वा अण्। कालिङ्ग तद्देशनृपे तद्देशवासिजने च “कालिङ्गः प्रतिजग्राह तमस्त्रैर्गजसाधनः” रघुः बहुषु अणो लुक्। कलिङ्गाः। “स सागरं समासाद्य गङ्गायाः सङ्गमे नृपः। नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम्। ततः समुद्रतीरेण जगाम वसुधाधिपः। भ्रातृभिः सहितो वीरः कलिङ्गान् प्रति भारत! लोमश उवाच। एते कलिङ्गाः कौन्तेय! यत्र वैतरणी नदी। यत्रायजत धर्मोऽपि देवाञ्छरणमेत्य वै। ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्। उत्तरं तीरमेतद्धि सततं द्विजसेवितम्। समानं देवयानेन पथा स्वर्गमुपेयुषः”। “त्रिशतं वै सहस्राणां योजनानां युधिष्ठिर!। यत्र ध्वनिं शृणोष्येवं तूष्णीमास्व विशाम्पते!। एतत् स्वयम्भुवो राजन्! वनं दिव्यं प्रकाशते” “यत्र प्रकाशते राजन्! वेदी सस्थानलक्षणा। आरुह्यात्र महाराज! वीर्य्यवान् वै भविष्यसि। सैषा सागरमासाद्य राजन्! वेदी समाश्रिता। एतामारुह्य भद्रं ते, त्वमेकस्तर सागरम्। अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमे तामधिरोहसेऽद्य। स्पृष्टाहि मर्त्येन ततः समुद्रमेषा वेदी प्रविशत्याजमीढ! भा० व० ११४ अ०। इति तद्देशस्थनद्यादिविवृतिरुक्ता। “स प्रतापं महेन्द्रस्य मूर्द्ध्नि तीक्ष्णं न्यवेशयत्” रघौ कलिङ्गदेशस्थः पर्वतः महेन्द्र इति वर्णितम्। ७ उशीनरभ्रातृतितिक्षुवंश्यबलिनृपपुत्रभेदे। “महामनास्तु द्वौ पुत्रौ जनयामास भारत!। उशीनरं च धर्मज्ञं तितिक्षुञ्च महाबलम्” इत्युपक्रम्य। तितिक्षोस्तु प्रजाः शृणु” इति प्रतिज्ञाय। “तैतिक्षवोऽभवद्राजा पूर्व स्यां दिशि भारत!। “उशद्रथो महाराज! फेनस्तस्य सुतोऽभवत्। फेनात्तु सुतपा जज्ञे सुतः सुतपसो बलिः। जातो मनुष्ययोनौ तु स राजा काञ्चनेषुधिः। महायोगी स तु बलिर्बभूव नृपतिः पुरा। पुत्रानुत्पादयामास पञ्च वंशकरान् भुवि। अङ्गः प्रथमतौ जज्ञे वङ्गः सुह्मस्तथैव च। पुण्ड्रः कलिङ्गश्च तथा वालेयं क्षत्रमुच्यते” इत्युक्त्वा “तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः कलिङ्गाः पुण्ड्रकाश्चैव प्रजास्त्वङ्गस्य वै शृणु” हरिवं० ३१ अ० उक्तम्। तेन कलिङ्गनृपाधिष्ठितत्वात् देशस्य तथात्वम्। काय सुखाय लिङ्गमस्याः। ८ योषिति स्त्री हेम०। त्रिवृति ९ (तेओडि) स्त्री शब्दच०।

कलिङ्गाद्यगुटिका = स्त्री चक्रद० उक्ते औषधभेदे यथा “कलिङ्ग- विल्वजम्ब्वाम्रकपित्थं सरसाञ्जनम्। लाक्षाहरिद्रे ह्रीवेरं कट्फलं शुकनासिकाम्। लोध्रं मोचरसं शङ्खं धातकीवटशुङ्गकम्। पिष्ट्वा तण्डुलतोयेन वटकानक्षसम्मितान्। छायाशुष्कान् पिबेच्छीघ्रं ज्वरातीसारशान्तये। रक्तप्रसादनाश्चैते शूलातिसारनाशनाः”।

कलिञ्ज = पु० कं वातं लञ्जति रोधनेन लजि–भत्र्सने अण् उप० स०। (दरमा) कटे हेमच०। तस्य गृहाद्यावरणेन वातरोधनात्तथात्वम्।

कलित = त्रि० कल–कर्मणि क्त। १ विदिते २ प्राप्ते, मेदि० ३ भेदिते ४ संख्याते, शब्दरत्ना०। ५ गृहीते, ६ उक्ते ७ विचारिते, ८ बद्धे च। भावे क्त ९ ज्ञानलाभादौ न०।

कलिद्रुम = पु० कलेराश्रयः द्रुमः। १ विभीतकवृक्षे रत्नमाला। तत्र हि नलस्य राज्ञश्छिद्रान्वेषणाय कलिना सुचिर स्थितमिति कलिशब्ददर्शित नैषधवाक्ये दृश्यम्। कलिवृक्षादयोऽप्यत्र

कलिन्द = पु० कलिं ददाति द्यति वा खच् मुम् च। अद्रि विशेषे, यतो यमुना नदी निःसृता, “कलिन्दगिरिनन्दिनी तटसुरद्रुमालम्बिनी” रसगङ्गा०। २ विभीतकवृक्षे, राजनि०। ३ सूर्य्ये भरतः तन्मूल मृग्यम्।

कलिन्दकन्या = स्त्री कलिन्दस्य पर्ब्बतस्य कन्येव तत्र प्रभवत्वात्। यमुनायाम्। “कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्तजलेव भाति” रघुः। कलिन्दतनयाकलिन्दजाकलिन्दगिरिजादयोप्यत्र।

कलिप्रिय = पु० कलिः प्रियोऽस्य। नारदे शब्दर०।

कलिमारक = पु० कलीनां कलिकानां माला अत्र लस्य रः वा कप् संज्ञायां कन्। १ पूतिकरञ्जे स्वामी। वा न लस्य रः। कलिमालकोऽप्युक्तार्थे अमरटीकायां रमानाथः।

कलिमाल्य = पु० कलीनां कलिकानां माल्यं यत्र। १ पूतिकरञ्जे राजनि०।

कलियुग = न० कर्म० राहुशिरोवत् तत्पुरुषो वा। कलिरूपे युगे कालविशेषे तन्मानादिकं कलिशब्दे उक्तं तदारम्भतिथिर्युगाद्या सा च गौडीयमते माघपौर्ण्णमासी यथाह ति० त० “अथ युगाद्याः तासु च “युगार्द्या वर्षवृद्धिश्च सप्तमी पार्व्वती प्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुम्मता”। इत्यनेन व्यवस्था। ब्रह्मपुराणे। “वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम्। कार्त्तिके शुक्लपक्षे तु त्रेताऽथ नवमेऽहनि। अथ भाद्रपदे कृष्णत्रयोदश्यान्तु द्वापरम्। माघे च पौर्णमास्यां वै घोरं कलियुगं स्मृतम्। युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः”। अत्र वैशाखादयः पौर्णमास्यन्ताएव १ ब्रह्मपुराणे तथैव तिथिकृत्याभिधानात्। मुख्यवाचित्वे कार्त्तिके नवमेऽहनीत्यनेनैव सिद्धौ शुक्लपक्ष इति व्यर्थं स्यात् तेन भाद्रकृष्णत्रयोदशी अश्वयुक्कृष्णपक्षीयेति मैथिसोक्तं निरस्तम्। आसां प्रशंसामाह विष्णुपुराणम् “वैशाखमासस्य तु या तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे। नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे। एता युगाद्याः कविताः पुराणैरनन्तपुण्यास्तिथयश्चत स्रः। उपप्लवे चन्द्रमसोरवेश्च तथाष्टकास्वप्ययनद्वये च”। उपप्लवे ग्रहणे “पानोयमप्यत्र तिलैर्विमिश्रं दद्यात् षितृभ्यः प्रयतोमनुष्यः। श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत् पितरोवदन्ति”। स्नानमधिकृत्य भविष्ये “संवत्सरफलं तत्र नवम्यां कार्त्तिके तथा। मन्वादौ च युनादौ च मासत्रयफलं लभेत्”। तदेतत् कल्पभेदेन व्यवस्थाप्य माघामावस्यैव कलियुना द्येति दाक्षिणात्याः प्रतिपेदिरे यथाह नि० सि०

“रत्नमालायाम् “माघे पञ्चदशी कृष्णा नभस्ये च त्रयोदशी। तृतीया माधवे शुक्ला नवम्यूर्जे युगादयः। यत्तु गौडाः “माघस्य पूर्ण्णिमायां तु घोरं कलियुगं स्मृतमिति” ब्राह्मोक्तेः “बैशाखमासस्य सिता तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे। नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे” इति विष्णुपुराणे चकारेण तमिस्रपक्षानुषङ्गेण पूर्वानुरोधात् पूर्णिमास्यैव ज्ञेया। “द्वे शुक्ले” इत्यादिकन्तु निर्मूलमित्याहुः। तन्न “दर्शे तु मावमासस्य प्रवृत्तं द्वापरं युगम्” इति भविष्यविरोधात् एतेन ब्राह्मानुसारात् पूर्णिमायामेव युगादिश्राद्धं वदन् शूलपाणिः परास्तः। तेन कल्पभेदात् व्यवस्थेति तत्त्वम्। एतेन “कार्त्तिके नवमी शुक्ला माचमासे च पूर्ण्णिमा” इति नारदीयं व्याख्यातम्। निर्मूलत्वोक्तिर्नारदीयाज्ञानकृता”। तत्र श्राद्धादिकरणमुभयदिने तत्प्राप्तौ निर्ण्णयश्च नि० सि०।

“अत्र श्राद्धमुक्तं मात्स्ये “कृतं श्राद्धं विधानेन मन्वादिषु युगादिषु। हायनानि द्विसाहस्रं पितॄणाम् तृप्तिदं भवेदिति”। भारतेऽपि “या मन्वाद्या युगाद्याश्च तिथयस्तासु मानवः। स्नात्वार्चयित्वा दत्त्वा च जप्त्वानन्तकलं लभेदिति” श्राद्धेऽपि पूर्वाहव्यापिनी ग्राह्या “पूर्वाह्णे तु सदा कार्याः शुक्ला मनुयुगादयः। दैवे कर्मणि पित्र्ये च कृष्णे चैवापराह्णिकी” इति पाद्मोक्तेः। “द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः। शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैवापराह्णिके” हेमाद्रौ नारदीयवचनाच्च। दीपिकापि “अथो युगादि, मन्वादिकर्मतिथयः पूर्वाह्णिकाः स्युः सिते। विज्ञेया अपराह्णिकाश्च बहुले” इति। स्मृत्यर्थसारेऽपि “युगादिमन्वादिश्राद्धेषु शुक्लपक्षे उदयव्यापिनी तिथिर्ग्राह्या। कृष्णपक्षे पराह्णव्यापिनीति”। दिवोदासीये गोभिलः “वैशाखस्य तृतीयां तु पूर्वविद्धां करोति वै। हव्यं देवा न गृह्णन्ति कव्यञ्च पितरस्तथेति”। गोविन्दार्णवेऽप्येवम्। तेनेयं पूर्वाह्णव्यापिनी दिनद्वये सती परैवेति धर्मतत्त्वविदोहेमाद्र्यादयः। अनन्तभट्टस्तु “सवैधृतिर्व्यतीपातो युगमन्वादयस्तथा। सम्मुखा उपवासे स्युर्दानादावन्तिमाः स्मृताः” इत्याह। दानादाविति श्राद्धसंग्रहः। उपवासस्त्वग्रे वक्ष्यते। यत्तु मार्कण्डेयः “शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्य्याद्विचक्षणः। कृष्णपक्षापराह्णे तु रौहिणं तु न लङ्घयेत्”। रौहिणो नवमोमुहूर्त्तः। अत्र च शुक्लपक्षयुगादिश्राद्धं पूर्वाह्णे कार्यमिति शूलपाणिः। निर्णयामृतादयस्तु “कालादर्शे अमाश्राद्धमापराह्णिकमुक्त्वा एषमन्वादीनां युगादीनां निर्णय इत्युक्तत्वाद् द्वे शुक्ल इत्यादि वचनं विष्णुपूजाविषयम्। श्राद्धे त्वापराह्णिकैवेति व्यवस्थां जगदुः। सेयं पूर्वोक्तानेकवचोविरोधात् स्वाच्छन्द्यविलसितमित्युपेक्षणीया। “पूर्वाह्णे दैविकं कुर्य्यात्” इत्यादिव चनादेव तत्सिद्धेर्वचनवैयर्थ्याच्च। किञ्च कालादर्शोक्तिर्न्यायमूला वचोमूला वा नाद्यः युगादिश्राद्धस्यामाश्राद्धविकृतित्वेन न्यायतो पराह्णव्याप्तावपि वचनेन तस्य बाधात्। नान्त्यः अतिदेशादेवापराह्णव्याप्ताप्राप्तेर्वचनवैयर्थ्यात् “अप्राप्ते शास्त्रमर्थवदिति” न्यायात् तेन यदि कालादर्शोक्तेः कथञ्चिच्छ्रद्धाजाड्येन समाधित्सा तर्हि न्यायप्राप्तकृष्णपक्षयुगादिविषयत्वेन सा व्यवस्थापनीयेति दिक्”। युगादिकृत्यं मलमासेऽपि कार्य्यम् “दशहरासु नोत्कर्षश्चतुर्ष्वपि युगादिषु। उपाकर्मणि चोत्सर्गे ह्येतद्दिष्टं वृषादितः” हेमाद्रौ ऋष्यशृङ्गवचनात् एतत् दशहरादिकम्। “अव्दोदकुम्भमन्वादिमहालययुगादि च। मलमासे च कर्त्तव्यम्” कालादर्शवाक्याच्च महालयोऽत्र मघात्रयोदशीति वोध्यम्

स्मृतिचन्द्रिकायां तु मासद्बयेऽपि कर्त्तव्यमित्युक्तम् “यौगादिकं मासिकं च श्राद्धं चापरपक्षिकम्। मन्वादिकं तैर्थिकञ्च कुर्य्यान्मासद्वयेऽपि च” तद्धृतवचनात् अपरपक्षोऽत्र कृष्णपक्षः न तु प्रेतपक्षः तस्य तत्र निषेधात् “प्रतिमासं मृताहे च श्राद्धं यत् प्रतिवत्सरम्। मन्वादौ च युगादौ च तन्मासोरुभयोरपीति” मदनरत्ने मरीच्युक्तेः। प्रतिवत्सरं क्रियमाणं कल्पादिश्राद्धमिति मदनरत्नम्” एतेन युगाद्यावर्षवृद्धिश्चेति वचनं श्राद्धातिरिक्तविष्णुपूजादिविषयम् न तत्र तिथियुग्मतेति अन्त्यचरणस्वरसात् तिथियुग्मादरस्य दैवविषयतया तद्विषयकत्वस्यैवोचितत्वात् एवं निर्णयः” “सर्वासु युगाद्यासु”।

अत्रोभयमासे कर्त्तव्यताविधानमपि संक्रान्तिनिमित्तपुण्यकालस्योभयत्र लाभे पूर्वदिनाकरणे परदिने कर्त्तव्यतावत् पूर्वमासे दैवादकरणे परमासेऽपि कर्त्तर्व्यताभ्यनुज्ञानार्थम् नतूभयमासयोः समुच्चयेन। एकेनैवानुष्ठानेन दुरदृष्टानुत्पत्तेः “श्वः कार्य्यमद्य कर्त्तव्यमित्युक्तेश्च प्रथमभासएव मुख्यःकाल इति तत्त्वम्।

अत्र श्राद्धाकरणे प्रायश्चित्तमुक्तमृग्विधाने। “न यस्य द्यावामन्त्र च शतवारं तदा जपेत्। युगादयो यदा न्यूनाः कुरुते नैव चापि यः” यदा न्यूना इत्यनेन अन्यतमा करणं नैब कुरुते इत्यनेन सर्वासामकरणमिति सूचितम्। “युगादौ तु नरः स्नात्वा विधिवल्लवणोदधौ। गोसहस्रप्रदानस्य कुरुक्षेत्रे फलं हि यत्। तत्फलं लभते मर्त्यो भूमिदानस्य च ध्रुवमिति” पृथ्वी च० सौ० समुद्रस्नानमुक्तम्।

युगादिवत् युगान्तकालोऽप्यक्षय पुण्यदः तन्निरूपणादिकं हेमा० दा० यथा-

“नवम्यां शुक्लपक्षस्य कार्त्तिके निरनात् कृतम्। त्रेता सिततृतीयायां वैशाखे समपद्यत। दर्शे तु माघमासस्य प्रवृत्तं द्वापरं युगम्। कलिः कृष्णत्रयोदश्यां नभस्ये मासि निर्गतः। युनादयः स्मृता ह्येते दत्तस्याक्षयकारकाः” ब्रह्मपुराणे “युगारम्भास्तु तिथयो युगाद्यास्तेन कीर्त्तिताः। फलं दत्तहुतानाञ्च तास्वनन्तं प्रकीर्त्तितम्” तथा–“एताश्चतस्रस्तिथयो युगाद्या दत्तं हुतञ्चाक्षयमाशु विन्द्यात्। युगे युगे वर्षशतेन यत्तपो युगादिकाले दिवसेन तद्भवेत्”। तथा–“सूर्य्यस्य सिंहसंक्रान्त्यामन्तः कृतयुगस्य च। तथा वृश्चिकसंक्रान्त्यामन्तस्त्रेतायुगस्य च। ज्ञेयस्तु वृषसंक्रान्त्यां द्वापरान्तस्तु संख्यया। तथा च कुम्भसंक्रान्त्यामन्तः कलियुगस्य च”। पद्मपुराणे “युगादिषु युगान्तेषु स्नाना–दान–जपादिषु। यत्किञ्चित् क्रियते तस्य युगान्ताः फलसाक्षिणः” आदित्यपुराणे “दिनर्क्षं रेवती यत्र गमनञ्चैव राशिषु। युगान्तदिवसं विद्धि तत्र दानमनन्तकम्। ग्रहोपरागे विषुवे सौम्ये वा मिहिरोपदिः। सप्तमी शुक्लाकृष्णा वा युगादिदिवसं विदुः”।

कलिल = त्रि० कल–इलच्। १ गहने, अमरः “थदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति” गीता। २ मिश्रे च उज्ज्व०। “लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः” माघः।

कलिहारी = स्त्री कलिं हरति हृ अण् गौरा० ङीष्। (विषलाङ्गलिया) लाङ्गल्याम् भावप्र० “कलिहारी सरा कुष्ठ शोकार्शोव्रणशूलजित्। सक्षारा श्लेष्मजित्तिक्ता कटुकातुवराऽपि च। तीक्ष्णोष्णा कृमिहृल्लघ्वी पित्तला गर्भपातिनी” भावप्रकाशे तद्गुणा उक्ताः।

कलुष = पुं स्त्री कल–उषच् लुष–हिंसायां क १ कस्य जलस्य लुषो घातकः इति वा। १ महिषे राजनि० स्त्रियां जातित्वात् ङीष्। २ पापे न०। “त्वां प्रत्यकस्मात् कलुषप्रवृत्तौ” रघुः। ३ तद्वति त्रि०। ४ अनच्छे आबिले त्रि० अमरः। “विभिन्नशङ्खः कलुषीमवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः” माघः। ५ गर्हिते त्रि० शब्दचि०। अकलुषः कलुषो भवति कलुषायते। कलुषायितः। कलुषं करोति णिच् कलुषयति कलुषितः। ६ असमर्थे। “भावावबोधकलुषा दयितेव रात्रौ” रघुः।

कलूतर = पु० देशभेदे। ततः कच्छादि० भवादौ अण्। कालूतर तद्देशभवादौ त्रि०।

कलेवर = न० कले शुक्रे वरं श्रेष्ठम् तदुत्पन्नत्वेऽपि शुचि सप्तम्या अलुक्। देहे। “यं यं चापि स्मरन् भावं त्यजत्यन्ते कलेवरम्” गीता। “शरीरे जर्ज्जरीभूते व्याधिग्रस्ते कलेवरे। औषधं जाह्नवीतोयं वैद्योनारायणः स्वयम्” पुरा० पठन्ति।

कल्क = पुंन० कल–क तस्य नेत्त्वम्। १ घृततैलादिपाकसंस्कारविशेषे, २ दम्भे, ३ विभीतकवृक्षे, ४ विष्ठायाम् ५ किट्टे ६ पापे च मेदि०। ७ तुरष्कनामगन्धद्रव्ये राजनि० ८ घृततैलादिपाके देये औषधिद्रव्यभेदे च। कल्कप्रकारः भावप्र० उक्तो यथा। “स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ। ज्ञेया कषायाः पञ्चैते लघवःस्युर्यथोत्तरम्” इति विभज्य “द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा सजलं भवेत्। प्रक्षिप्य गालयेद्वस्त्रे तन्मानं कर्षसंमितम्। कल्के मधुघृतं तैलं देयं द्विगुणमात्रया। सितां गुडूसमां दद्यात् द्रवोदेयश्चतुर्गुणः”। “क्वाथ्याच्चतुर्गुणं वारि–पादस्थं स्याच्चतुर्गुणम्। स्नेहात् स्नेहसमं क्षीरं कल्कस्तु स्नेहपादिकः। चतुर्गुणन्त्वष्टगुणं द्रवद्वैगुण्यतो भवेत्। पञ्चप्रभृति यत्र स्युर्द्रव्याणि स्नेहसंविधौ। तत्र स्नेहसमान्याहुरर्वाक् च स्याच्चतुर्गुणम्” चक्रद० तत्र देयद्रव्यमानपरिभाषोक्ता। “अकल्कको निरारम्भः प्रा० त० तीर्थयात्राङ्गधर्म्मोक्तौ भाव०। ९ रूक्षतासाधने चूर्णभेदे च। “तां लोध्रकल्केन हृताङ्गतैलाम्” कुमा०। “लोकालकीकलोऽकल्ककलिलोऽलिकुलालकः” माघः। पापाशये त्रि० मेदि०।

कल्कन = न० कल्कं शाट्यं करोति णिच्–भावे–ल्युट्। शाठ्याचरणे “चह कल्कने कल्कनं दम्भः शाठ्यं च” सि० कौ०।

कल्कफल = पु० कल्कस्य विभीतकस्य फलमिव फलमस्याकारसाम्यात्। दाडिमवृक्षे राजनि०।

कल्कि = पु० कल्कोऽस्त्यस्य हार्य्यतया इन्। भगवतोदशमेऽवतारे तदाविर्भावप्रसङ्गादि कल्किपु० उक्तं यथा “आधिव्याघिजराग्लानिदुःखशोकभयाश्रयाः। कलिरांजानुगाश्चेरुर्यूथशोलोलनाशकाः। बभूवुः कालविभ्रष्टाः क्षणिकाः कामुकानराः। दम्भाचारदुराचारास्तातमातृ विहिंसकाः। वेदहीना द्विजा दीनाः शूद्रसेवापराः सदा। कुतर्कवादवहुला धर्म्मविक्रयिणोऽधमाः। वेदविक्रयिणो व्रात्या रसविक्रयिणस्तथा। मांसविक्रयिणः क्रूराः शिश्नोदरपरायणाः। परदाररता मत्ता वर्णसङ्करकारकाः। ह्रस्वाकाराः पापचाराः शठा मठनिवासिनः। षोडशाब्दायुषः श्यालबान्धवा नीचसङ्गमाः। विवादकलहक्षुब्धाः केशवेशविभूषणाः। कलौ कुलीना धनिनः, पूज्या वार्द्धुषिका द्विजाः। सन्न्यासिनो गृहासक्ता गृहस्थास्त्वविवेकिनः। गुरुनिन्दापरा धर्म्मध्वजिनः साधुवञ्चकाः। प्रतिग्रहरताः शूद्राः परस्वहरणादराः। द्वयोः स्वीकारौद्वाहः शठे मैत्री, वदान्यता। प्रतिदाने, क्षमाऽशक्तौ, विरक्तिःकरणाक्षमे। वाचालत्वञ्च पाण्डित्ये, यशोऽर्थे धर्म्मसेवनम्। धनाढ्यत्वञ्च साधुत्वे, दूरे नीरे च तीर्थता। सूत्रमात्रेण विप्रत्वं, दण्डमात्रेण मस्करी। अल्पशस्या वसुमती नदीतीरेऽवरोपिता। स्त्रियो वेश्यालापसुखाः स्वपुंसा त्यक्तमानसाः। परान्नलोलुपा विप्राश्चण्डालग्रामयाजकाः। स्त्रियो वैधव्यहीनाश्च स्वच्छन्दाचरणप्रियाः। चित्रवृष्टिकरा मेघा, मन्दशस्या च मेदिनी। प्रजाभक्षा नृपा, लोकाः करपीडाप्रपीडिताः। स्कन्धे भारं, करे पुत्रं, कृत्वा क्षुब्धाः प्रजाजनाः। गिरिदुर्गं वनं घोरमाश्रयिष्यन्ति दुर्भगाः। मधुमांसैर्मूलफलैराहारैः प्राणधारिणः। एवं तु प्रथमे पादे कलेः कृष्णविनिन्दकाः। द्वितीये तन्नामहीनास्तृतीये वर्ण्णसङ्कराः। एकवर्णाश्चतुर्थे च विस्मृताच्युतसत्क्रियाः। निः–स्वाध्याय–स्वधा–स्वाहा–वौषडोंकार–वर्ज्जिताः। देवाः सर्व्वे निराहाराः ब्रह्मणं शरणं ययुः”। इत्यन्तेन १ अ० कलिस्वभावमुपवर्ण्ण्य भगवतः प्रादुर्भावप्रतिज्ञोक्ता “स्तुत्वा प्राह पुरोब्रह्मा देवानां हृदयेप्सितम्। तत्श्रुत्वा पुण्डरीकाक्षो ब्रह्माणमिदमब्रवीत्। शम्भले विष्णुयशसोगृहे प्रादुर्भवाम्यहम् सुमत्यां मातरि विभोः कन्यायां त्वन्निदेशतः। चतुर्भिर्भ्रातृभिर्देव! करिष्यामि कलिक्षयम्। भवन्तोबान्धवा देवाः स्वांशेनावतरिष्यथ। इयं मम प्रिया लक्ष्मीः सिंहले संभविष्यति। वृहद्रथस्य भूपस्य कौमुद्यां कमलेक्षणा। भार्य्यायां, मम भार्य्यैषा पद्मानाम्ना जनिष्यते। यात यूयं भुबं देवाः स्वांशावतरणे रताः। राजानौ मरुदेवापी स्थापयिष्याम्यहं भुवि। पुनः कृतयुगं कृत्वा धर्मान् संस्थाप्य पूर्ववत्। कलिव्यालं संनिरस्य प्रयास्ये स्वालयंनिभो!। इत्युदीरितमाकर्ण्य ब्रह्मा देवगणै र्वृतः। जगाम ब्रह्मा सदनं देवाश्च त्रिदिवं ययुः। महीमाश्वास्य भगवान् निजजन्मकृतोद्यमः। विप्रर्षे! शम्भलग्राममाविवेश परात्मकः। सुमत्यां विष्णुयशसा गर्भमाधत्त वैष्णवम्। ग्रहनक्षत्रराश्यादिसेवितश्रीपदाम्बुजम्। सरित्समुद्रागिरयोलोकाःस्थावरजङ्गमाः। सहर्षा ऋषयो देवा जाते विष्णौ जगत्पतौ। बभूव सर्वसत्वानामानन्दोविविधाश्रयः। नृत्यन्ति पितरोहृष्टास्तुष्टा देवा जगुर्यशः। चक्रुर्व्वाद्यादि गन्धर्वा ननृतुश्चाप्सरोगणाः। द्वादश्यां शुक्लपक्षस्य माधवे मासि माधवः। जातं ददृशतुः पुत्रं पितरौ हृष्टमानसौ। धात्री माता महाषष्ठी नाडीच्छेत्री तदम्बिका। गङ्गोदकक्लेदमोक्षा सावित्री मार्जनो द्यता। तस्य विष्णोरनन्तस्य वसुधाऽदात् पयः सुधाम्। मातृकामङ्गलवचः कृष्णजन्मदिनेऽभवत्। ब्रह्मा तदुषधार्य्याशु स्वाशुगं प्राह सेवकम्। याहीति सूतिकागारं गत्वा विष्णुं प्रबोधय। चतुर्भुजमिदंरूपं देवानामपि दुर्ल्लभम्। त्यक्त्वा मानुषवद्रूपं कुरु नाथा! विचारितम्। इति ब्रह्मवचः श्रुत्वा पवनः सुरभिः सुखम्। सुशीतः प्राह तरसा ब्रह्मणोवचनादृतः। तच्छ्रुत्वा पुण्डरीकाक्षस्त त्क्षणात् द्विभुजोऽभवत्। तदा तत्पितरौ दृष्ट्वा विस्वयापन्न- मानसौ। भ्रमसंस्कारवत् तत्र मेनाते तस्य मायया। ततस्तु शम्भलग्रामे सोत्सवा जीवजातयः। मङ्गलाचारबहुलाः पापतापविवर्ज्जिताः। सुमतिस्तं सुतं लब्ध्वा विष्णुं जिष्णुं जगत्पतिम्। पूर्णकामा विप्रमुख्यानाहूयादाद्गवां शतम्। हरेः कल्याणकृद्विष्णुयशाः शुद्धेन चेतसा। सामर्ग् यजुर्विद्भिरग्र्यैस्तन्नामकरणे रतः। तदा रामः कृपोव्यासो द्रौणिर्भिक्षुशरीरिणः। समायाता हरिं द्रष्टुं बालकत्वमुपागतम्। तानागतान् समालोक्य चतुरः सूर्य्यसन्निभान्। हृष्टरोमा द्विजवरः पूजाञ्चक्रे स ईश्वरान्। पूजितास्ते स्वासनेषु संविष्टाः स्वसुखाश्रयाः। हरिं क्रोडगतं तस्य ददृशुः सत्वमूर्त्तयः। तं बालकं नराकारं विष्णुं नत्वा मुनीश्वराः। कल्किं कल्कविनाशार्थमाविर्भूतं विदुर्बुधाः। नामाकुर्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम्। कृत्वा संस्कारकर्माणि ययुस्ते हृष्टमानसाः। ततः स ववृधे तत्र सुमत्या परिपालितः। कालेनाल्पेन कंसारिः शुक्लपक्षे यथा शशी। कल्केर्ज्येष्ठास्त्रयः शूराः। कविप्राज्ञसुमन्त्रकाः। तातमातृप्रियकरा गुरुविप्रप्रतिष्ठिताः। कल्केरंशाः पुरो जाताः साधवो धर्मतत्पराः। गार्ग्यभर्ग्यविशालाद्या ज्ञातयस्तदनुव्रताः। विशाखयूपभूपालपालितास्तापवर्जिताः। ब्राह्मणाः कल्किमालोक्य परां पीतिमुपागताः। ततो विष्णुयशाः पुत्रं धीरं सर्वगुणाकरम्। कल्किं कमलपत्राक्षं प्रोवाच पठनादृतम्। तात! ते ब्रह्मसंस्कारं यज्ञसूत्रमनुत्तमम्। सावित्रीं वाचयिष्यामि ततो वेदान पठिष्यसि” २ अ०। तस्य चरितादिकं कल्किपुराणशब्दे दृश्यम्

कल्किन् = पु० कल्को नाश्यतयाऽस्त्यस्य इनि। भगवतो दशमेऽवतारे कल्किशब्दे विवरणम्। “मत्स्यः कूर्म्मो वराहश्च नरसि हश्च वामनः। रामोरामश्च रामश्च बुद्धः कल्की च ते दश” पुरा०। “कल्की सतां च भविता प्रहरिष्यतेऽरीन्” मुग्ध०।

कल्किपुराण = न०। वेदव्यासप्रणीते अनुभागवते उपपुराणभेदे तत्र प्रतिपाद्यविषयाश्च यथासूतसमीपे शौनकादीनां भविष्यप्रश्नः। शुकस्य कल्किपुराणप्राप्तिविवरणम्। कलेरुत्पत्तिः। कलिविवरणम्। कलौ आचारभ्रंशः। धरित्र्या सह देवानां ब्रह्मलोकगमनम्। ब्रह्मलोकवर्णनम्। ब्रह्मसमीपे कलेर्दीषकीर्त्तनम्। ब्रह्मणा सह देवानां गोलोके गमनम्। विष्णुसमीपे कलिव्र्त्तनिवेदनम्। विष्णोर्विष्णुयशसो गृहे अवतारतयाविर्भावाङ्गीकारः। विष्णुयशसः पत्न्याः सुमत्या गर्भः। विष्णौ जाते देवानां हर्षः। विष्णोश्चतुर्भुजमूर्त्तिपरिहारपूर्वकं मानुषरूपधारणम्। रामकृपव्यासद्रौणीनां कल्किदर्शनार्थमागमनम्। कल्केर्नामकरणम्। कल्केरुपनयनकाले पितुरुपदेशः। कल्केर्गुरुकुलवासार्थं यात्रा जामदग्न्यप्राप्तिश्च। कल्केर्वेदाध्ययनं धनुर्वेदशिक्षा च। गुरुदक्षिणादानाभिलाषः। कल्केर्विल्वोदकेश्वरशिवदर्शनं तत्स्तुतिश्च। शिवया शिवस्याविर्भावो वरदानञ्च। शङ्करात् कल्केः करवालाशुगतुरङ्गप्राप्तिः। कल्केर्गृहप्रत्यागमनम्। कल्केराश्रमधर्म्मोपदेशः। कल्केर्धर्म्मकथनम्। ब्राह्मणलक्षणम्। सिंहलद्वीपवर्णनम्। पद्माया राजकन्याया विवरणम्। शिवात् पद्माया वरलाभः। पद्मायाः स्वयंवरोद्योगः। समागतभूपानां स्त्रीत्वप्राप्तिः। पाद्माया विलापः। कल्केरादेशेन शुकस्य पद्मासमीपे गमनम्। पद्माशुकसंवादः। विष्णुपूजाप्रकरणम्। पद्मासमीपे अच्युतावतारकथनम्। शुकस्य शम्भले प्रतिगमनम्। कल्किशुकसंवादः। कल्केः सिंहलगमनम्। पद्मायाः कल्किसमीपे गमनम्। पद्मायाः कल्किदर्शनम्। कल्किदर्शनेन भूपानां पुरुषत्वप्राप्तिः। राजगणकृतकल्किस्तवः। अनन्तस्यागमनम्। अनन्तोपाख्यानम्। अनन्तेन हंसस्य साक्षात्कारः। कल्केराज्ञया विश्वकर्म्मणः शम्भले पुरीनिर्म्माणम्। कल्केः सस्त्रीकस्य शम्भले प्रत्यागमनम्। कल्केः सुतोत्पत्तिः। बौद्धयुद्धम्। जिनविनाशः। बौद्धजयः। म्लेच्छजयः। म्लेच्छकामिनीभिः कल्केर्युद्धम्। बालखिल्लानामागमनम्। निकुम्भदुहितुराख्यानम्। कुथोदर्य्याः संहारार्थं कल्केर्यात्रा। कुथोदर्य्या बधः। नारदादीनां महर्षीणामागमनम्। मरोरात्मपरिचयार्थं सूर्य्यवंशवर्णनम्। श्रीरामचरितम्। सीतापरित्यागः। सीताया भूतलप्रवेशः। रामस्य स्वर्गारोहणम्। रामस्य वंशावली। मरोरुत्पत्तिविवरणञ्च। चन्द्रवंशे देवापेरुत्पत्तिविवरणम्। देवापेर्मरोश्चदिव्यरथप्राप्तिः। कृतयुगस्यागमनम्। मन्वन्तरवर्णनम्। कलिना संग्रामोद्योगः। कल्केर्दिग्विजययात्रा। धर्म्मस्य कलिना समागमः। कल्किसमीपे धर्मस्यात्मनिवेदनम्। कलिना कल्केः संग्रामः। मरुदेवापिप्रभृतीनां खशकाम्बोजवर्बरचौलादिभिः संग्रामः कलिसहचराणां पराभवः। लोकविकोकबधः। कल्केर्भल्लाटनगरगमनम्। शशिध्वजस्य समरोद्योगः। मूर्च्छितं कल्किमादाय शशिध्वजस्य गृहागमनम्। सुशान्ताया गोतम्। शशिध्वजकन्यया कल्केर्विवाहः। शशिध्वजस्य हरिभक्तिकारणम्। शशिध्वजस्य पूर्वजन्मवृत्तान्तकथनम्। भक्तिलक्षणम्। हरिभक्तस्य संग्रामप्रवृत्तिकारणम्। द्विविदोपाख्यानम्। कृष्णावतारवृत्तान्तः। कल्केः काञ्चनपुर्य्यां प्रवेशः। विषकन्यासंवादः। कल्केरनुचराणां पृथक् पृथक् राज्येऽभिषेकः। कल्केः शम्भले प्रतिगमनम्। सत्ययुगप्रवर्त्तनम्। मायास्तवः। विष्णुयशसो राजसूययज्ञारम्भः। नारदस्यागमनम्। मायाजीवयोः कथोपकथनम्। विष्णुयशसो वनगमनम्। परशुरामस्यागमनम्। रुक्मिणीव्रतकथनम्। कल्केः पत्नीभिर्विहारः। शम्भले देवानामागमनम्। कलकेः स्वर्गारोहणम्। गङ्गास्तोत्रम्। कल्किपुराणस्यानुक्रमणिका। कल्किपुराणश्रवणादिफलम्”।

***