कलि = पु० कल–शब्दादौ इन्। चतुर्थे युगे तन्मानमाह पुराणसर्व्वस्वे ब्रह्मपु०। “दिव्यवर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम्। चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे। चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम्। दिव्या- व्दानां सहस्राणि युगेष्वाहुः पुराविदः। तत्प्रमाणैः शतैः सन्ध्या पूर्व्वा तत्राभिधीयते। सन्ध्याणकश्च तत्तुल्योयुगस्यानन्तरोहि सः। सन्ध्यासन्ध्यांशयोरन्तः कालोवै मुनिसत्तम!। युगाख्यं तत्तु विज्ञेयं कृतत्रेतादिसंज्ञितम्”। सूर्य्यसिद्धान्तेऽप्युक्तं यथा“सूर्य्याब्दसङ्ख्यया द्वित्रिसागरैरयुताहतैः। सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्। कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया” सू० सि०। “तेषां दिव्यवर्षाणां द्वादश सहस्राणि चतुर्युगम्। चतुर्णां युगानां कृतत्रेताद्वापरकल्पाख्यानां समाहारो योगस्तदात्मकं महायुगमित्यर्थः। एतद्द्योतनार्थं चतुरित्युक्तिरन्यथा युगमित्युक्तौ तद्वैयर्थ्यापत्तेः। मानाभिज्ञैरुक्तम्। अथ सौरमानेन तत्संख्यां विशेषं चाह। सूर्याव्दसङ्ख्ययेति तद्देवासुरमानेनोक्तं चतुर्युगं द्वादशसहस्रवर्षात्मकं महायुगं सन्ध्यासन्ध्यांशसहितम्। युगचरणस्याद्यन्तयोः क्रमेण प्रत्येकं सन्ध्यासन्ध्यांशाभ्यां युक्तं सदेव सन्ध्यासन्ध्यांशावन्तर्गतौ न पृथक् यत्रैतादृशम्। सौरवर्षप्रमाणेन द्वित्रिसागरैः। “अङ्कानां वामतो गतिः” इत्यनेन द्वात्रिंशदधिकैश्चतुः शतमितैः। अयुतेन दशसहस्रेण गुणितैः। खचतुष्कद्वात्रिंशच्चतुर्भिः ४३२०००० परिमितं ज्ञेयमित्यर्थः। अथ चतुर्युगान्तर्गतयुगाङ्घ्रीणां विशेषतो मानाश्रवणात् “समं स्यादश्रुतत्वादिति” न्यायेन प्रत्येकं महायुगचतुर्थांशो मानमिति चतुर्युगमित्यनेन फलितं निषेधति। कृतादीनामिति। कृतत्रेताद्वापरकलियुगानाम् धर्मपादव्यवस्थया धर्मचरणानां स्थित्या। इयं वक्ष्यमाणा व्यवस्था स्थितिर्ज्ञेया न तु समकालप्रमाणं स्थितिः। अयमर्थः–कृतयुगे चतुश्चरणो धर्म इति तस्य मान मधिकम्। ततस्त्रेतायां घर्मस्य त्रिपादवत्त्वात् तदनुरोधेन त्रेतामानं न्यूनम्। एवं द्वापरकल्योर्धर्मस्य क्रमेण द्व्येकचरणवत्त्वात् कृतत्रेतामानाभ्यां क्रमेणोक्तानुरोधान्न्यूनमानम्। न तु समं मानमिति। अथ सर्वधर्मचरणयोगेन दशमितेन यदि महायुगं भवति तर्हि स्वस्वधर्मचरणैः किमत्यनुपातेन पूर्बोक्तफलितेन कृतादियुगानां मानज्ञानं सविशेषणमाह”। रङ्ग०। तेन ४३२००० वर्षास्तन्मानम्। “युगस्य दशमो भागश्चतुस्त्रिद्व्येकसङ्गुणः। क्रमात् कृतयुगादीनां षष्ठांशः सन्ध्ययोःस्वकः” सू० सि०। “प्रागुक्तदिव्यवर्षद्वादशसहस्रमितस्य युगस्य दशमो भागो दशांश इत्यर्थः। चतुर्द्धा क्रमेण चतुस्त्रिद्व्येकैर्गुणितः। गुणक्रमात् कृतयुगादोनां कृतत्रेताद्वापरकलियुगानां मानं स्यादिति शेषः। ननु मनुग्रन्थे कृतादिमानं दिव्यवर्षप्रमाणेन ४०००। ३०००। २०००। १००० उक्तम्। अत्र तु तन्मानं तद्वर्षप्रमाणेन ४८००। ३६००। २४००। १२००। इति विरोध इत्यत आह। षष्ठ इति। स्वकः स्वसम्बन्धी षष्ठो विभागः सन्ध्ययोराद्यन्तसन्ध्ययोरैक्यकाल इति शेषः। तथा च मदुक्तमानानि ४८००। ३६००। २४००। १२००। एषां षडंशाः ८००। ६००। ४००। २००। एते स्वस्वयुगानामाद्यन्तयोः सन्ध्ययोर्योग इत्येषामर्धं सन्धिकालः। प्रत्येकमाद्यन्तयोः सन्धिकालः ४००। ३००। २००। १००। अनेन प्रत्येकं मदुक्तमानं न्यूनीकृतं ग्रन्थान्तरोक्तं केवलं मानं भवति न स्वसन्धिभ्यां सहितम्। यथा कृतादिसन्धिः ४००। कृतमानम् ४००० कृतान्तसन्धिः ४००। योगे ४८०० त्रेतादिसन्धिः ३०० त्रेतामानं ३००० त्रेतान्तसन्धिः ३००। ३६०० द्वापरादिसन्धिः २०० द्वापरमानं २००० द्वापरान्तसन्धिः २०० २४००। कल्यादिसन्धिः १०० कलिमानम् १००० कल्यन्तसन्धिः १००। १२०० एवं च स्वसन्धिभ्यां सहितं मयोक्तं स्वसम्बन्धात् सन्ध्ययोस्तदन्तर्गतत्वाच्चेति न विरोध इति भावः” रङ्ग०।
कलौ यथा प्राणिनां दुःशीलत्वम् धर्म्मादिहानिश्च तथा वर्णितम् भा० व० १९० अ० “कृते चतुष्पात् सकलो निर्व्याजोपाधिवर्जितः। वृषः प्रतिष्ठिती धर्म्मो मनुष्ये भरतर्षभ!। अधर्म्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः। त्रेतायां द्वापरेऽर्द्धेन व्यामिश्रो धर्म उच्यते। त्रिभिरंशैरधर्मस्तुलोकानाक्रम्य तिष्ठति। तामसं युगमासाद्य तदा भरतसत्तम!। चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति। आयुर्व्वीर्य्यमथो बुद्धिर्बलन्तेजश्च पाण्डव!। मनुष्याणामनुयुगं ह्रसतीति निबोध मे। राजानो ब्राह्मणा वैश्या शूद्राश्चैव युधिष्ठिर!। व्याजैर्धर्मञ्चरिष्यन्ति धर्मवैतंसिका नराः। सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः। सत्यहान्या ततस्तेषामायुरल्पं भविष्यति। आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपजीवितुम्। विद्याहीनानविज्ञानाल्लो~भोऽप्यभिभविष्यति। लोभक्रोधपरा मूढाः कामासक्ताश्च मानवाः। वैरबद्धा भविष्यन्ति परस्परबधैषिणः। ब्राह्मणाः क्षत्रिया वैश्याः संकीर्य्यन्ते परम्परम्। शूद्रतुल्या भविष्यन्ति तपः- सत्यविवर्ज्जिताः। अन्त्या मध्या भविष्यन्ति, मध्याश्चान्त्या न संशयः। ईदृशो भविता लोको युगान्ते पर्य्युपस्थिते। वस्त्राणां प्रवरा शाणी, धान्यानां कोरदूषकाः। भार्य्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये। मत्स्यामिषण जीवन्तो दुहन्तश्चाप्यजैडकम्। गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः। तेऽपि लोभसमायुक्ता भविष्यन्ति युगक्षये। अन्योऽन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः। अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये। सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः। ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये। श्राद्धे दैवेऽपि पुरुषा येऽपि नित्यं धृतव्रताः। तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम्। पिता पुत्रस्य भोक्ता च, पितुः पुत्त्रस्तथैव च। अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये। न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः। न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः। निम्नेष्वीहां करिष्यन्ति हेतुवादविमोहिताः। निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः। एकहायनवत्सांश्च योजयिष्यन्ति मानवाः। पुत्रः पितृबधं कृत्वा पिता पुत्त्रबधं तथा। निरुद्वेगो वृहद्वादी न निन्दामुपलप्स्यते। म्लेच्छभूतं जगर्त्सर्वं निष्क्रियं यज्ञवर्ज्जितम्। भविष्यति निरानन्दमनुत्सवमथो तथा। प्रायशः कृपणानां हि तथा बन्धुमतामपि। विधवानाञ्च वित्तानि हरिष्यन्तीह मानवाः। स्वल्पवीर्य्यबलाः स्तब्धा लोभमोहपरायणाः। तत्कथादानसन्तुष्टा दुष्टानामपि मानवाः। प्रतिग्रहं करिष्यन्ति मायाचारपरिग्रहाः। समाह्वयन्तः कौन्तेय! राजानः पापबुद्ध्वयः। परस्परबधोद्युक्ता, मूर्खाः पण्डितमानिनः। भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः। अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः। केवलं दण्डरुचयो भविष्यन्ति युगक्षये। आक्रम्याक्रम्य साधूनां दारांश्चापि धनानि च। भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत!। न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते। स्वयंग्राहा भविष्यन्ति युगान्ते समुपस्थिते। राजानश्चाप्यसन्तुष्टाः परार्थान् मूढचेतसः। सर्वोपायैर्हरिष्यन्ति युगान्ते पर्य्युपस्थिते। म्नेच्छीभूत जगत्सर्व्वं भविष्यति न संशयः। हस्ताहस्ति परिमुषेद्युगान्ते समुपस्थिते। सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः। स्थविरा बालमतयो बालाः स्थविरबुद्धयः। भीरुस्तथा शूरमानी शूरा भीरुविवादिनः। न विश्वसन्ति चान्योऽन्य युगान्ते पर्य्युपस्थिते। एकहार्य्यं युगं सर्वं लोभमोहव्यवस्थितम्। अधर्म्मो वर्द्धते तत्र न तु धर्मः प्रवर्त्तते। ब्राह्मणाः क्षत्त्रिया वैश्या न शिष्यन्ते जनाधिप!। एकवर्णस्तदा लोको भविष्यति युगक्षये। न क्षंस्यति पिता पुत्त्रं, पुत्त्रश्च पितरं तथा। भार्य्याश्च पतिशुश्रूषां न करिष्यन्ति संक्षये। ये यवान्ना जनपदा गोधूमान्नास्तथैव च। तान् देशान् संश्रयिष्यन्ति युगान्ते पर्य्युपस्थिते। स्वैराचाराश्च पुरुषा योषितश्च विशाम्पते!। अन्योऽन्यं न सहिष्यन्ति युगान्ते पर्य्युपस्थिते। म्लेच्छीभूतं जगत्सर्वं भविष्यति युधिष्ठिर!। न श्राद्धैस्तर्पयिष्यन्ति दैवतानीह मानवाः। न कश्चित् कस्य चिच्छ्रोता न कश्चित् कस्यचिद्गुरुः। तमोग्रस्तस्तदा लोको भविष्यति जनाधिप!। परमायुश्च भविता तदा वर्षाणि षोडश। ततः प्राणान् विमोक्ष्यन्ति युगान्ते समुपस्थिते। पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते। सप्तवर्षाऽष्टवर्षाश्च प्रजास्यन्ति नरास्तदा। पत्यौ स्त्री तु तदा राजन्! पुरुषो वा स्त्रियं प्रति। युगान्ते राजशार्दूल! न तोषमुपयास्यति। अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति। न कश्चित् कस्यचिद्दाता भविष्यति युगक्षये। अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः। केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये। म्लेच्छाचाराः सर्व्वभक्षा दारुणाः सर्वकर्म्मसु। भाविनः पश्चिमे काले मनुष्या नात्र संशयः। क्रयविक्रयकाले च सर्व्वः सर्वस्य वञ्चनम्। युगान्ते भरतश्रेष्ठ! वित्तलोभात् करिष्यति। ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियान्तथा। आत्मच्छन्देन वर्त्तन्ते युगान्ते समुपस्थिते। स्वभावात् क्रूरकर्म्माणश्चान्योऽन्यमभिशंसिनः। भवितारो जनाः सर्व्वे संप्राप्ते तु युगक्षये। आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः। भविता संशयो लोके जीवितस्य हि देहिनाम्। तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप!। ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः। हाहाकृता द्विजाश्चैव भयार्त्ता वृषलार्द्दिताः। त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम्। जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसकाः। यदा भविष्यन्ति नरास्तदा सङ्क्षेप्स्यते युगम्। आश्रयिष्यन्ति च नदीः पर्व्वतान् विषमाणि च। प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह!। दस्युभिः पीडिता राजन्! काका इव द्विजोत्तमाः। कुराजभिश्च सततं करभारप्रपीडिताः। धैर्य्यं त्यक्त्वा महीपाल! दारुणे युगसंक्षये। विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः। शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्य्युपासकाः। श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः। विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः। एडूकान् पूजयिष्यन्ति वर्ज्जयिष्यन्ति देवताः। शूद्राः परिचरिष्यन्ति न द्विजान् युगसंक्षये। आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च। देवस्थानेषु चैत्येषु नागानामालयेषु च। एडूकचिह्ना पृथिवी न देवगृहमूषिता। भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम्। यदा रौद्रा धर्महीना मांसादाः पानपास्तथा। भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम्। पुष्पं पुष्पे यदा राजन्! फले वा फलमाश्रितम्। प्रजास्यति महाराज! तदा सङ्क्षेप्स्यते युगम्। अकालवर्षी पर्ज्जन्थो भविष्यति गते युगे। अक्रमेण मनुष्याणां भविष्यन्ति तदा क्रियाः। विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह। मही म्लेच्छजनाकीर्णा भतिष्यति ततोऽचिरात्। करभारभयाद्विप्रा भजिष्यन्ति दिशो दश। निर्व्विशेषा जनपदास्तदा विष्टिकरार्द्दिताः। आश्रमानुपलप्स्यन्ति फलमूलोपजीविनः। एवं पर्य्याकुले लोके मर्य्यादा न भविष्यति। न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः। आचार्य्योऽपनिधिश्चैव भत्र्स्यते तदनन्तरम्। अर्थयुक्त्या प्रवत्स्यन्ति मित्रसम्बन्धिबान्धवाः। अभावः सर्व्वभूतानां युगान्ते सम्भविष्यति। दिशः प्रज्वलिताः सर्व्वा नक्षत्राण्यप्रभाणि च। ज्योतींषि प्रतिकूलानि वाताः पर्य्याकुलास्तथा। उत्कापाताश्च बहवो महाभयनिदर्शकाः। षडमिरन्यैश्च सहितो भास्करः प्रतपिष्यति। तुमुलाश्चापि निर्ह्रादा दिग्दाहश्चापि सर्वशः। कबन्धान्तर्हितो भानुरुदयास्तमने तदा। अकालवर्षी भगवान् भविष्यति महस्रदृक्। शश्यानि च न रोक्ष्यन्ति युगान्ते पर्य्युपस्थिते। अभीक्ष्ण क्रूरवादिन्यः परुषा रुदितप्रियाः। भर्त्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः। पुत्त्राश्च मातापितरौ हनिष्यन्ति युगक्षये। सूदयिष्यन्ति च पतीन् स्त्रियः पुत्त्रानपाश्रिताः। अपर्व्वणि महाराज! सूर्य्यं राहुरु- पैष्यति। युगान्ते हुतभुक् चापि सर्वतः प्रज्वलिष्यति। पानीयं भोजनञ्चापि याचमानास्तदाऽध्वगाः। न लप्स्यन्ते निवासञ्च निरस्ताः पथि शेरते। निर्घातवायसा नागाः शकुनाः समृगद्विजाः। रूक्षा वाचो विमोक्ष्यन्ते युगान्ते पर्य्युपस्थिते। मित्रं सम्बन्धिनश्चापि सन्त्यक्ष्यन्ति नरास्तदा। जनं परिजनञ्चापि युगान्ते पर्य्युपस्थिते। अथ देशान् दिशश्चापि पत्तनानि पुराणि च। क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते। हा तात! हा सुतेत्येवं तदा वाचः सुदारुणाः। विक्रोशमानश्चान्योऽन्यं जनो गां (पृथ्वीं) पर्यटिष्यति। ततस्तुमुलसंघाते वर्त्तमाने युगक्षये। द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति। ततः कालान्तरेऽन्यस्मित् पुनर्लोकविवृद्धये। भविष्यन्ति पुनर्द्दैवमनुकूलं यदृच्छया। यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यवृहस्पती। एकराशौ समेष्यन्ति प्रवत्र्स्यति तदा कृतम्। कालवर्षी च पर्ज्जन्यो नक्षत्राणि शुभानि च। प्रदक्षिणा ग्रहाश्चाप्रि भविष्यन्त्यनुलोमगाः। क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम्। कल्की विष्णुयशा नाम द्विजःकालप्रणोदितः। उत्पत्स्यते महावीर्य्यो महाबुद्धिपराक्रमः। सम्भूतः शम्भलग्रामे ब्राह्मणावसथे शुभे। मनसा तस्य सर्व्वाणि वाहनान्यायुधानिंच। उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च। स धर्म्मविजयी राजा चक्रवर्त्ती भविष्यति। स चेमं सङ्कुलं लोकं प्रसादमुपनेष्यति। उत्थियो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः। संक्षेपको हि सर्वस्य युगस्य परिवर्त्तकः। स सर्वत्र गतान् क्षुद्रान् ब्राह्मणैः परिवारितः। उत्सादयिष्यति तदा सर्व्वम्लेच्छगणान् द्विजः”।
कलियुगंस्य विशेषप्रवृत्तिरुक्ता भाग० १२, २ अ०।
“सप्तर्षीणान्तु पूर्व्वौ यौ दृश्येते उदितौ दिवि। तयोस्तु मध्ये नक्षत्रं दृश्यते यत् समं निशि। तेनैव ऋषयोयुक्तास्तिष्ठन्त्यव्दशतं नृणाम्। ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाः। विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः। तदाविशत् कलिर्लोकं पापे यद्रमते जनः। यावत् स पादपद्माभ्यां स्पृशन्नास्ते रमापतिः। तावत् कलिर्वैपृथिवीं पराक्रान्तुं न चाशकत्। यदा देवर्षयः सप्त मघासु विचरन्ति हि। तदा प्रवृत्तस्तु कलिर्द्वादशाव्दशतात्मकः। यदा मघाभ्यो यास्यन्ति पूर्व्वाषाढा महर्षयः। तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति। यस्मिन् दिने दिवं यातस्तस्मिन्नेव तदाऽहनि। प्रतिपन्नं कलियुगमिति प्राह पुराविदः”। कलिदोषमुक्त्वा तच्छमनोपायः भाग० १२, ३ अ० उक्तो यथा “केनोपायेन भगवन्! कलेर्दोषान् कलौ जनाः। विधमिष्यन्त्युपचितांस्तन्मे ब्रूहि यथा मुने!। युगानि युगधर्म्मांश्च मानं प्रलयकल्पयोः। कालस्येश्वररूपस्य गतिं विष्णोर्म्महात्मनः। श्रीशुकौवाच। कृते प्रवर्त्तते धर्म्मश्चतुष्पात्तु जनैर्भृतः। सत्यंदया तपोदानमिति पादा विभो! नृप!। सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास्तितिक्षवः। आत्मारामाः समदृशः प्रायशः श्रमणा जनाः। त्रेतायां धर्म्मपादानां तुर्य्यांशोहीयते शनैः। अधर्म्मपादैरनृतहिंसाऽसन्तोषविग्रहैः। तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटाः। त्रैवर्गिकास्त्रयीवृद्धावर्णा ब्रह्मोत्तरा नृप!। तपःसत्यदयादानेष्वर्द्धंह्रसति द्वापरे। हिंसाऽतुष्ट्यनृतद्वेषैर्धर्म्मस्याधर्म्मलक्षणैः। यशस्विनोमहाशोलाः साध्यायाध्ययने रताः। आढ्याः कुटुम्बिनोहृष्टाः वर्णाः क्षत्रद्विजोत्तराः। कलौ तु धर्म्महेतूनां तुर्य्यांशोऽधर्म्महेतुभिः। एधमानैः क्षीयमाणोह्यन्ते सोऽपि विनङ्क्ष्यति। तस्मिल्लु~ब्धादुराचारानिर्दयाः शुष्कवैरिणः। दुर्भगा भूरितर्षाश्च शूद्रदासोत्तराः प्रजाः। सत्वं रजस्तमैति दृश्यन्ते पुरुषे गुणाः। कालसंनोदितास्ते वै परिवर्त्तन्तआत्मनि। प्रभवन्ति यदा सत्वे मनोबुद्धीन्द्रियाणि च। तदा कृतयुगं विद्याज्ज्ञाने तपसि यद्रुचिः। यदा कर्म्मसु काम्येषु भक्तिर्यशसि देहिनाम्। तदा त्रेता रजोवृत्तिरिति जानीहि बुद्धिमन्!। यदा लोभस्त्वसन्तोषो मानोदम्भोऽथ मत्सरः। कर्म्मणाञ्चापि काम्यानां द्वापरं तद्रजस्तमः। यदा मायाऽनृतं तन्द्रा निद्रा हिंसा विषादनम्। शोकमोहोभयंदैन्यं स कलिस्तामसः स्मृतः। यस्मात् क्षुद्रदृशोमर्त्याः क्षुद्रभाग्या महाशनाः। कामिनोवित्तहीनाश्च स्वैरिण्योहि स्त्रियोऽसतीः। दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः। राजानश्च प्रजाभक्ष्याः शिश्नोदरपरा द्विजाः। अव्रता वटवोऽशौचा भिक्षवश्च कुटुम्बिनः। तपस्विनोग्रामवासा न्यासिनोऽत्यर्थलोलुपाः। ह्रस्वकाया महाहाराभूर्य्यपत्या गतह्रियः। शश्वत्कटुकभाषिण्यश्चौर्य्यमायोरुसाहसाः। पणयिष्यन्ति वै क्षुद्राः किराटाः (बणिजः) कूटकारिणः। अनापद्यपि मंस्यन्ते वार्त्तां साधुजुप्सिताम्। पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्यखिलोत्तमम्। भृत्यं विपन्नं पतयः, कौलं गाश्चापयस्विनीः। पितन् भ्रातॄन् सुहृज्ज्ञातीन् हित्वा सौरतसौहृदाः। ननन्दृश्यालंसवादा दीनास्त्रैणाः कलौ नराः। शूद्राः प्रतिग्रहीष्यन्ति तपोवेशोपजीविनः। धर्म्मं वक्ष्यन्त्यघर्म्मज्ञाअधिरुह्योत्तमासनम्। नित्यमुद्विग्नमनसोदुर्भिक्षकरकर्षिताः। निरन्ने भूतले राजन्ननावृष्टिभयातुराः। वासोऽन्नपानशयनव्यवायस्नानभूषणैः। हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः। कलौ काकिणिकेऽप्यर्थे विगृह्य त्यक्तसौहृदाः। त्यक्ष्यन्तीह प्रियान् प्राणान् हनिष्यन्ति स्वकानपि। न रक्षिष्यन्ति मनुजाः स्थविरौ पितरावपि। पुत्रान् भार्य्याञ्च कुलजां क्षुद्राः शिश्नोदरम्भराः। कलौ न राजन्! जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम्। प्रायेण मर्त्या भगवन्तमच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतसः। यन्नामयेयं ग्नियमाण आतुरः पतन् स्खलन् वा विवशोगृणन् पुमान्। विमुक्तकर्म्मार्गलौत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः। पुंसां कलिकृतान् दोषान् द्रव्यदेशानुसम्भवान्। सर्व्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः। श्रुतः संकीर्त्तितोध्यातः पूजितस्त्वादृतोऽपि वा। नॄणां क्षिणोति भगवान् हृत्स्थोजन्मायुताशुभम्। यथा हेम्नि स्थितोवह्निर्दुर्व्वर्णं हन्ति धातुजम्। एवमात्मगतोविष्णुर्योगिनामशुभाशयम्। विद्यातपःप्राणनिरोधमैत्रीतीर्थाभिषेकव्रतदानजप्यैः। नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्ते। तस्मात् सर्व्वात्मना राजन्! हृदिस्थं कुरु केशवम्। म्रियमाणोह्यवहितस्ततोयाति परां गतिम्। म्रियमाणैरपि ध्येयो भगवान् परमेश्वरः। आत्मभावं नयत्यद्धा सर्व्वात्मा सर्व्वसम्भवः। कलेर्दोषनिधेराजन्नस्ति ह्येकोमहान् गुणः। कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परिव्रजेत्। कृते यद्ध्यायतो विष्णुं त्रेतायां यजतोमखैः। द्वापरे परिचर्य्यायां कलौ तद्धरिकीर्त्तनात्”।
विश्वेश्वरसरस्वतीकृते कलिधर्मे नानाप्रमाणात्तद्दोषो पशमनमुक्तं यथा–विष्णुपुराणाग्निपुराणयोः। “धर्मोत्कर्षमतीवाशुप्राप्नोति पुरुषः कलौ। स्वल्पासेन धर्मज्ञास्तेन तुष्टोऽस्म्यहं कलेः। धन्ये कलौ भजेद्द्विप्रोह्यल्पक्लेशैर्महाफलम्। अत्यन्तदुष्टस्य कलेरयमेको महान् गुणः” ब्रह्माण्डपुराणे। “त्रेतायामाव्दिको धर्मोद्वापरेमासिकः स्मृतः। यथाशक्ति परं प्राज्ञस्तदह्ना प्राप्नुयात् कलौ”। विष्णुपुराणब्रह्मपुराणयोः “यत् कृते दशभिर्वर्षैः त्रेतायां हायनेन तत्। द्वापरे तत्तु मासेन अहो- रात्रेण तत् कलौ। तपसो ब्रह्मचर्यस्य जपादेश्च फल द्विजाः!। प्राप्नोति पुरुषस्तेन कलिः साध्विति भाषितम् तथाल्पेनैव यत्नेन षुण्यस्कन्धमनुत्तमम्। करोति यः कृतयुगे क्रियते तपसा हि सः। स्कान्दे काशीखण्डे। “कलौ विश्वेश्वरोदेवः कलौ वाराणसी षुरी। कलौ भागीरथी गङ्गा कलौ दानं विशिष्यते”। अग्निपुराणे “नास्ति श्रेयस्करं नॄणां विष्णोराराधनान्मुने!। युगेऽस्मिंस्तामसे घोरे यज्ञवेदविवर्जिते। कुर्वीताराधनं राजन्! वासुदेवे कलौ युगे। यदभ्यर्च्य हरिं भक्त्या कृते वर्षशतं नृप! विधानेन कलौ लेभे अहोरात्रात् कलौ हि तत्” नारदीये। “अहोऽतीव सभाग्यास्ते सकृद्ये केशवाचर्काः। घोरे कलियुगे प्राप्ते सर्व्वधर्मबहिष्कृते। शिवपूजापरा ये तु शिवनामपरायणाः। त एव शिवतुल्याश्च घोरे कलियुगे द्विजाः”। स्कन्दपुराणे “ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः। द्वापरे भगवान् विष्णुः कलौ देवो महेश्वरः”। मत्स्यपुराणस्कन्दपुराणयोः “ज्ञात्वा कलियुगं घोरं हाहाभूतमचेतनम्। अविमुक्तं न मुञ्चन्ति कृतार्थास्ते नरा भुवि। नान्यं पश्यामि जन्तूनां मुक्त्वा वाराणसीं पुरीम्। सर्व्वपापोपशमनं प्रायश्चित्तं कलौ युगे”। भविष्यपुराणे “कृते सर्वाणि तीर्थानि त्रेतायां पुष्करं परम्। द्वापरे तु कुरुक्षेत्रं कलौ गङ्गैव केवलम्। ध्यानं कृते मोक्षहेतु स्त्रेतायां तच्च वै तपः। द्वापरे तद्द्वयं यज्ञाः कलौ गङ्गैव केवलम्”। स्कन्दपुराणनारदीयपुराणयीः “भुक्तिमुक्तिफलप्रेप्सुरल्पोपायेन चेन्नरः। तीर्थान्येवाश्रयेद्विद्वान् कलौ गङ्गां विशेषतः”। मनुपाराशरौ“तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञमित्याहुः दानमेकं कलौ युगे”। महाभारते “तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञमेवाहुः कलौ दानं दया दमः। गीता गङ्गा तथा भिक्षुः कपिलाश्वत्थसेवनम्। वासरं पद्मनाभस्य सप्तमं न कलौ युगे”।
एवमुक्तानां विष्णुमहादेववाराणसीगङ्गादानानां कलौ विशेषतः सेवायां यानि फलानि तान्त्युत्तरत्र क्रमेण प्रदश्यन्ते। तत्रादौ विष्णोराराधनफलं कथ्यते। “कलौ कलिमलध्वंसं सर्वपापहरं परम्। येऽर्चयन्ति हरिं नित्यन्तेऽपि वन्द्यायथा हरिः” नारदीये “तीर्थान्वश्वत्थतरवोनावो विप्रास्तथा भुवि। मद्भक्ताश्चेति विज्ञेयास्तनवोमम पञ्चधा। तेषां पुण्यात्मनां भोतोभृशं कलिरघात्मकः। मन्दीभवत्खविभवो निःशङ्कं न प्रवर्द्धते। पूजिताः प्रणताः स्पृष्टाः स्तुता दृष्टाः स्मृता अपि। नॄणां सर्व्वाघहन्तारः सततं ते हि मन्मयाः”।
कलौविष्णोर्नामसं कीर्त्तनेन आराधनं कर्त्तव्यम् उक्तञ्च भागवते। “कलिं सभाजयन्त्यार्या गुणज्ञाः सव (यज्ञ) भागिनः। यत्र संकीर्त्तनेनैव सर्वः स्वार्थोऽपि लभ्यते। नास्त्यतः परमोलाभो देहिनां भ्राम्यतामिह,। यतोविन्देत परमां शान्तिं, नश्यति संसृतिः”। कलेर्टोषोपशमनोपाये भागवतवाक्यमनुपदं दर्शितम्। स्कन्दपुराणे “गोविन्दनामा यः कश्चिन्नरो भवति भूतले। कीर्त्तनादेव तस्यापि पापं याति सहस्रधा” विष्णुधर्मोत्तरे “येऽहर्निशं जगद्धातुर्वासुदेवस्य कीर्त्तनम्। कुर्वन्ति तान्नरव्याघ्र! न कलिर्बाधते नरान्। चक्रायुधस्य नामानि सदा सर्व्वत्र कीर्त्तयेत्। नाशौचं कीर्त्तने तस्य स पवित्र करोयतः। अज्ञानादथ वा ज्ञानादुत्तमश्लोकनाम यत्। संकोर्त्तितमघं पुंसोदहेदेधो यथाऽनलः”। विष्णुरहस्ये “सा हानिस्तन्महच्छिद्रं स मोहः स च विभ्रमः। यन्मूहूर्त्तं क्षणं वापि वासुदेवं न चिन्तयेत्”। मोहोऽविवेकः विभ्रमो विपरीतज्ञानम्। स्कान्दे “अभक्ष्यभक्षणात् पापमगम्यागमनादिजम्। नश्यते नात्र संदेहो गोविन्दस्य च कीर्त्तनात्। स्वर्णस्तेयं सुरापाणं गुरुदाराभिमर्शनम्। गोविन्द कीर्त्तनात् सद्यः पापं याति महामुते!। तावत्तिष्ठति देहेस्मिन् कलिकल्मषसंभवम्। गोविन्दकीर्त्तनं यावत् कुरुते मानवोन हि” “गोविन्देत्युक्तिमात्रेण हेलया कलिवर्द्धितम् पापौघो विलयं याति दानमश्रोत्रिये यथा। गोविन्देति तथा प्रातर्मध्याह्ने वा निशागमे। कीर्त्तनात् पुण्यमाप्नोति जन्मकोटिशतोद्भवम्। गवामयुतकोटीनां कन्यानाम युतायुतैः। तीर्थकोटिसहस्राणां तुल्यं गोविन्दकीर्त्तनम्। तन्नास्ति कर्मजं लोके वाग्जं मानसमेव वा। यत्तुन क्षीयते पापं कलौ गोविन्दकीर्त्तनात्। प्रमादादपि संस्पृष्टो यथाऽ नलकणोदहेत्। तथौष्ठपुटसंस्पृष्टं हरिनाम हरेदघम्”। वामनपुराणे। “अश्वमेधादिभिर्यज्ञैः नरमेधैस्तथैव च। याजितं तेन, येनोक्तं हरिरित्यक्षरद्वयम्। महाभारते “प्राणप्रयाणपाथेयं संसारव्याधिभेषजम्। दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम्”। विष्णुपुराणे “ध्यायन् कृते यजन् यज्ञैः त्रेतायां, द्वापरेऽर्चयन्। यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम्। अवशेनापि यन्नाम्नि कीर्त्तिते सर्व्वपातकैः। पुमान् विमुच्यतेसद्यः सिंहत्रस्त्रैर्मृगैरिव”।
अथ कलिदोषोपशमनाय शिवपूजनादि विहितं यथा- लिङ्गपुराणे “कलौ रुद्रो महादेवः शङ्करो नीललोहितः। प्रकाशते प्रतिष्ठार्थं धर्मस्य विकटाकृतिः। ये तं विप्राश्च सेवन्ते येन केनापि शङ्करम्। कलिदोषं विनिर्जित्य प्रयान्ति परमां गतिम्” वृहन्नारदीये “शिव! शङ्कर! रुद्रेश! नीलकण्ठ! त्रिलोचन!। इतीरयन्ति ये नित्यं न हि तान् बाधते कलिः। महादेव! विरूपाक्ष! गङ्गाधर! मृडाव्यय!। इतीरयन्तिये नित्यं ते कृतार्थो न संशयः। हरिस्मरणनिष्ठानां शिवनामरतात्मनाम्। सत्यं समस्तकर्माणि यान्ति संपूर्णतां द्विजाः!। शिवपूजापरा ये तु शिवनामपरायणाः। तएव शिवतुल्याश्च घोरे कलियुगे द्विजाः” महाभारते “यस्त्वों नमः शिवायेति मुच्यते स कलौ नरः। शाट्येनापि नमस्कारः प्रयुक्तः शूलपाणये। संसाररोगसंघानामुन्मूलनकरः कलौ। यदा कदा तं यजते श्रद्धया मुनिपुङ्गव!। लिङ्गेऽथ स्थण्डिले वापि कौतुके विधिपूर्वकम्। पुरा दोषं विनिर्जित्य रुद्रलोके महीयते!”। शिवपुराणे “ध्यानं परं कृतयुगे त्रेतायां यजनं परम्। द्वापरे लिङ्गपूजा च कलौ शङ्करकोर्त्तनम्” स्कन्दपुराणे “ब्रह्मा कृतयुगे देवः त्रेतायां भगवान् रविः। द्वापरे भगवान् विष्णुः कलौ देवो महेश्वरः”।
अथ कलौ काशीवासस्य तथात्वमाह स्म स्कन्दपुराणे व्यासः। “इदं कलियुगं घोरं संप्राप्तं पाण्डुनन्दन!। ततो गच्छामि देवस्य पुरीं वाराणसीं शुभाम्। अस्मिन् कलियुगे घोरे नराः पापानुवर्त्तिनः। भविष्यन्ति महाबाहो! वर्ण्णाश्रमविवर्जिताः। नान्यत् पश्यामि जन्तूनां मुक्त्वा वाराणसीं पुरीम्। सर्वपापप्रशमनम् प्रायश्चित्तं कलौ युगे। ये विप्रास्तां पुरीं प्राप्य न मुञ्चन्ति कदाचन। विजित्य कलिजान् दोषान् यान्ति तत् परमं पदम्” लिङ्गपुराणे “कलौ युगे तु मर्त्त्यानां स्थानं मोक्षप्रदायकम्। भक्त्या चाराधनेनैव स्नानतर्पणपूजनैः। ज्ञात्वा कलियुगं घोरं अल्पायुषमधार्मिकम्। सिद्धक्षेत्रं न सेवन्ते जायन्ते च म्रियन्ति च” मत्स्यपुराणे “ज्ञात्वा कलियुगं घोरं हाहाभूतमचेतनम्। अविमुक्तं न मुञ्चन्ति कृतार्थास्ते नरा भुवि। जप्यध्यानविहीनानां ज्ञानविज्ञानवर्जिनाम्। तपस्युत्साहहीनानां गतिर्वाराणसी नृणाम्” स्कान्दे काशीखण्डे “न सिध्यति कलौ योगो न सिध्यति कलौ तपः। न्यायार्जितधनोत्सर्गैः सद्यः सिध्येत् कलौ परः। न व्रतं न तपो ज्ञानं न जपोन सुरार्चनम्। दानमेव कलौ मुक्त्यै, काशी दानेन चाप्यते। कलिस्तानेव बाधेत कालस्तांश्च जिघांसति। एनांसि ता~श्च बाधन्ते ये न काशीं समाश्रिताः। कलिक लकृतं कर्म त्रिकण्टकमितीरितम्। एतत्त्रयं न प्रभवेदानन्दवनवासिनाम्”
अथ गङ्गायास्तथात्वमाह तुः काशीखण्डभविष्यपुराणे “कृते सर्वत्र तीर्थानि त्रेतायां पुष्करं परम्। द्वापरे तु कुरुक्षेत्रं कलौ गङ्गैव केवलम्। ध्यानं कृते मोक्षहेतुस्त्रेतायां तच्च वै तपः। द्वापरे तद्द्वयं यज्ञाः कलौ गङ्गैव केवलम्”। विष्णु धर्मोत्तरे “पुषकरं तु कृते सेव्यं त्रेतायां नैमिषं तथा। द्वापरे तु कुरुक्षेत्रं, कलौ गङ्गां समाश्रयेत्”। स्कन्दपुराणे “भक्तिमुक्तिफलप्रेप्सुरल्पोपायेन चेन्नरः। तीर्थान्येवाश्रयेद्विद्वान् कलौ गङ्गां विशेषतः”। नारदीये कलौ तत्परमब्रह्मप्राप्तये सत्वरं नृणाम्। गङ्गाभजनमेवाहुर्महोपायं महर्षयः। लैङ्गे “कृते युगे पुष्कराणि त्रेतायां नैमिषं तथा। द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत्” कामिकसंहितायाम् “न भवेद्वेदमन्त्राणां संशुद्धिः, शुद्धिवर्जितैः। मन्त्रैर्विना न सिध्यन्ति यज्ञाः, शुद्धिः सुदुर्लभा। काले कलौ विशेषेण शुद्धं वस्तु न दृश्यते। कलौ युगे हि तमसा नष्टधर्म्मे भयङ्करे। अनेकच्छिन्नसन्तानो धर्म्मतन्तुर्हि जाह्नवी। विना गङ्गां धर्म्ममयीं कथं स्याच्च गतिः कलौ। शिरसः कर्त्तनं तस्य प्राणत्यागोपि वा वरः। समर्थस्तु कलौ काले गङ्गां यो नाभिगच्छति” भविष्यपुराणे “कलौ कलुषचित्तानां पापद्रव्यरतात्मनाम्। विधिहीनक्रियाणाञ्च गतिर्गङ्गां विना नहि। अनाश्रित्य तु गङ्गां हि मुक्तिमिच्छति यः कलौ। सूर्य्यं द्रष्टुमिहोद्युक्तो जात्यन्धसदृशस्तु सः। वृथाकुलं, वृथा विद्या, वृथायज्ञा, वृथा तपः। वृथा दानानि तस्येह कलौ गङ्गां न याति यः” कूर्म्मपु० “गङ्गामेव निषेवेत प्रयागे तु विशेषतः। नान्यत् कलियुगोद्भूतं मलं हन्ति सुदुस्तरम्”।
अथ कलियुगे दानस्य श्रेष्ठत्वम् अतएव मनुः “अन्ये कृतयुगे धर्म्मास्त्रेतायां द्वापरे परे। अन्ये कलियुगे नॄणां युगह्रासानुरूपतः” इति युगभेदेन धर्मभेदमाह स्म। मनुपाराशरौ “तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे”। महाभारते “तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञमेवाहुः कलौ दानं दया दमः” वृहस्पतिः “त्रयीधर्म्मः कृतयुगे, ज्ञानं त्रेतायुगे स्मृतम्। द्वापरे चाध्वरः प्रोक्तः, कलौ दानं दया दमः”। लिङ्गपुराणे “ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते। प्रवृत्तं द्वापरे युद्धं, दानमेकं कलौ युगे”। अग्निपुराणे “देवतावेश्ममूर्त्त्यादिनगराणि कलौ युगे। कर्त्तव्यानि महीपालैः स्वर्गलोकमभीप्सुभिः” इत्येवं कलौ विशेषधर्माः सेव्या इति दर्शितम्।
सामान्यतः कलौ सेव्यधर्मानाह स्म पराशरः। “अस्मिन्मन्वन्तरे धर्म्माः कृतत्रेतादिके युगे। सर्व्वे धर्म्माः कृते जाताः सर्व्वे नष्टाः कलौ युगे। चातुर्वर्ण्यसमाचारं किञ्चित् साधारणं वद। व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः। धर्मस्य निर्णय प्राह सूक्ष्मं स्थूलञ्च विस्तरात्। शृणु पुत्र! प्रवक्ष्येऽहं शृण्वन्तु ऋषयस्तथा। कल्पे कल्पे क्षयोत्पत्तौ ब्रह्मविष्णुमहेश्वराः। श्रुतिः स्मृतिः सदाचारा निर्णेतव्याश्च सर्व्वदा। न कश्चिद्वेदकर्त्ता च वेदस्मर्त्ता चतुर्मुखः। तथैव धर्मं स्मरति मनुः कल्पान्तरान्तरे। अन्ये कृतयुगे धर्म्मास्त्रेतायां द्वापरे परे। अन्ये कलियुगे नॄणां युगरूपानुसारतः। तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते। द्वापरे यज्ञमित्यूचुर्द्दानमेकं कलौ युगे। कृते तु मानवोधर्म्मस्त्रेतायां गौतमः स्मृतः। द्वापरे शङ्खलिखितः कलौ पाराशरः स्मृतः। त्यजेद्देशं कृतयुगे, त्रेतायां ग्राममुत्सृजेत्। द्वापरे कुलमेकन्तु कर्त्तारञ्च कलौ युगे। कृते सम्भाषणात् पापं, त्रेतायाञ्चैव दर्शनात्। द्वापरे चान्नमादाय, कलौ पतति कर्म्मणा। कृते तु तत्क्षणाच्छापस्त्रेतायां दशभिर्द्दिनैः। द्वापरे मासमात्रेण, कलौ संवत्सरेण तु। अभिगम्य कृते दानं, त्रेतास्वाहूय दीयते। द्वापरे याचमानाय, सेवया दीयते कलौ। अभिगम्योत्तमं दानमाहूतञ्चैव मध्यमम्। अधमं याच्यमानं स्यात्, सेवादानञ्च निष्फलम्। कृते चास्थिगताः प्राणास्त्रेतायां मांससंस्थिताः। द्वापरे रुधिरं यावत्, कलावन्नादिषु स्थिताः। धर्मोजितोह्यधर्मेण, जितः सत्योऽनृतेन च। जिताभृत्यैस्तु राजानः, स्त्रीभिश्च पुरुषा जिताः। सीदन्ति चाग्निहोत्राणि, गुरुपूजा प्रणश्यति। कुमार्य्यश्च प्रसूयन्ते तस्मिन् कलियुगे सदा। युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः। तेषां निन्दा न कर्त्तव्या युगरूपा हि ते द्विजाः। युगे युगे च सामर्थ्यं शेषैर्मुनिभिर्भाषितम्। पराशरेण चाप्यकं प्रायश्चित्तं प्रदीयते। अहमद्यैव तद्धर्म्ममनुस्मृत्य ब्रवामि वः। चातुर्व्वर्ण्यंसमाचारं शृणुध्वं मुनिपुङ्गवाः। पराशरमतं पुण्यं पवित्रं पापनाशनम्” इत्यारभ्य कलियुगे कर्त्तव्यास्तत्तद्धर्स्मास्तत्रोक्तास्ते च तत एवावसेयाः। कलिस्वभाववर्ण्णनेनागमोक्तैवोपासना कलौ कार्य्येति महानिर्वाणतन्त्रे निरूपितं यथा
“आयाते पापिनि कलौ सर्व्वधर्मविलोपिनि। दुराचारे दुष्प्रपञ्चे दुष्टकर्मप्रवर्त्तके। न वेदाः प्रभवस्तत्र स्मृतीनां स्मरणं कुतः। नानेतिहासयुक्तानां नानामार्गप्रदर्शिनाम्। बहुलानाम्पुराणानां विनाशो भविता विभो!। तदा लोका भविष्यन्ति धर्मकर्मबहिर्मुखाः। उच्छृङ्खला मदोन्मत्ताः पापकर्मरताः सदा। कामुका लोलुपाः क्रूरा निष्टुरा दुर्मुखाः शठाः। स्वल्पायुर्मन्दमतयो रोगशोकसमाकुलाः। निःश्रीका निर्बला नीचा नीचाचारपरायणाः। नाचसंसर्गनिरताः परवित्तापहारकाः। परनिन्दापरद्रोहपरीवादपराः खलाः। परस्त्रीहरणे पापशङ्काभयविवर्जिताः। निर्धना मलिना दीना दरिद्राश्चिररोगिणः। विप्राः शूद्रसमाचाराः सन्ध्यावन्दन वर्जिताः। अयाज्ययाजकालुब्धा दुर्वृत्ताः पापकारिणः। असत्यभाषिणोमूर्खा दाम्भिकाः दुष्प्रवञ्चकाः। कन्याविक्रयिणो व्रात्यास्तपोव्रतपराङ्मुखाः। लोकप्रतारणा र्थाय जपपूजापरायणाः। पाषण्डाः पण्डितम्मन्याः श्रद्धाभक्तिविवर्जिताः। कदाहाराः कदाचाराभृतकाः शूद्रसेवकाः। शूद्रान्नभोजिनः क्रूरा वृषलीरतिकामुकाः। दास्यन्ति धनलोभेन स्वदारान्नीचजातिषु। ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम्। नैव पानादिनियमोभक्ष्या भक्ष्यविवेचनम्। धर्मशास्त्रे सदा निन्दा साधुद्रोहो निर न्तरम्। सत्कथालापमात्रञ्च न तेषां मनसि क्वचित्। त्वया कृतानि तन्त्राणि जीवोद्धारणहेतवे। निगमागमजातानि भुक्तिमुक्तिकराणि च। देवीनां यत्र देवानां मन्त्रयन्त्रादिसाधनम्। कथिता बहवोन्यासाः सृष्टिस्थित्यादिलक्षणाः। बद्धपद्मासनादीनि गदितान्यपि भूरिशः। पशुवीरदिव्यभावा देवतामन्त्रसिद्धिदाः। शवासनं चितारोहोमुण्डसाधनमेव च। लतासाधनकर्माणि त्वयोक्तानि सहस्रशः। पशुभावदिव्यभावौ स्वयमेव निवारितौ। कलौ न पशुभावोऽस्ति दिव्यभावः कुतो भवेत्। पत्रं पुष्पं फलं तोयं स्वययेवा हरेत् पशुः। न शूद्रदर्शनं कुर्यान्मनसा न स्त्रियं स्मरेत्। दिव्यश्च देवताप्रायः शुद्धान्तःकरणः सदा द्वन्द्वातीतोवीतरागः सर्वभूतसमः क्षमी। कलिकल्मपयुक्तानां सर्वदाऽस्थिरचेतसाम्। निद्रालस्यप्रसक्तानाम्भावशुद्धिः कथम्भवेत्?। वीरसाधनकर्माणि पञ्चतत्त्वानि यानि तु। मद्यं मांसं तथा मत्स्यो मुद्रा मैथुनमेव च। एतानि पञ्च तत्त्वानि त्वया प्रोक्तानि शङ्कर!। कलिजा मानवा लुब्धाः शिश्नोदरपरायणाः। लोभात् तत्र पतिष्यन्ति न करिष्यन्ति साधनम्। इन्द्रियाणां सुखार्थाय पीत्वा च बहुलं मधु। भविष्यन्ति मदोन्मत्ता हिताहितविवर्जिताः। परस्त्रीधर्षकाः केचिद् दस्यवो बहवो भुवि। न करिष्यन्ति ते मत्ताः पापयोनिविचारणम्। अतिपानादिदोषेण रोगिणो बहवः क्षितौ। शक्तिहीना बुद्धिहीना भूत्वा च विकलेन्द्रियाः। ह्रदे गर्त्ते प्रान्तरे च प्रासादात् पर्वतादपि। पतिष्यन्ति मरिष्यन्ति मनुजा मदविह्वलाः। केचिद्विवादयिष्यन्ति गुरुभिः स्वजनैरपि। केचिन्मौना मृतप्राया अपरे बहुजल्पकाः। अकार्यकारिणः क्रूरा धर्ममार्गविलोपकाः। हिताय यानि कर्माणि कथितानि त्वया प्रभो!। मन्ये तानि महादेव! विपरीतानि मानवे। के वा योगं करिष्यन्ति न्यासजातानि केऽपि वा। स्तोत्रपाठं यन्त्रलिपिं पुरश्चर्य्यां जगत्पते!। युगधर्मप्रभावेन स्वभावेन कलौ नराः। भविष्यन्त्यतिदुवृऐत्ताः सर्वथा पाप कारिणः। तेषामपायं दीनेश! कृपया कथय प्रभो!। आयुरारोग्यवर्चस्यं बलवीर्य्यविवर्द्धनम्। विद्याबुद्धिप्रदं नॄणामप्रयत्नशुभङ्करम्। येन लोका भविष्यन्ति महाबलपराक्रमाः। शुद्धचित्ता परहिताः मातापित्रोः प्रियङ्कराः। स्वदारनिष्ठाः पुरुषाः परस्त्रीषु पराङ्मुखाः। देवतागुरुभक्ताश्च पुत्रस्वजनपोषकाः। ब्रह्मज्ञा ब्रह्मविद्याश्च ब्रह्मचिन्तनमानसाः। सिद्ध्यर्थं लोकयात्रायाः कथयस्व हिताय यत्। कर्त्तव्यं यदकर्त्तव्यं वर्णाश्रमविभेदतः। विना त्वां सर्वलोकानां कस्त्राता भुवनत्रये” १ उल्ला० देवीप्रश्नः
“इति देव्या वचः श्रुत्वा शङ्करो लोकशङ्करः। कथयामास तत्त्वेन महाकारुण्यवारिधिः। सदाशिव उवाच। साधु पृष्टं महाभागे! जगतां हितकारिणि!। एतादृशः शुभः प्रश्नो न केनापि कृतः पुरा। धन्यासि सुकृतज्ञासि हितासि कलिजन्मनाम्। यद् यदुक्तं त्वया भद्रे! सत्यं सत्यं यथार्थतः। सर्वज्ञा त्वं त्रिकालज्ञा धर्मज्ञा परमेश्वरि!। भूतम्भवद्भविष्यञ्च धर्ममुक्तं त्वया प्रिये!। यथातत्त्वं यथान्यायं यथायोग्यं न संशयः। कलिकल्मषदीनानां द्विजादीनां सुरेश्वरि!। मेध्याऽमेध्याविचाराणां न शुद्धिः श्रौतकर्मणाम्। न संहिताद्यैः स्मृतिभिरिष्टसिद्धिर्नृणां भवेत्। सत्यं सत्यं पुनः सत्यं सत्यं सत्यं मयोच्यते। विनाह्यागममार्गेण कलौ नास्ति गतिः प्रिये!। श्रुतिस्मृतिपुराणादौ भयेवोक्तं पुरा शिवे!। आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः। कलावागममुल्लङ्घ्य योऽन्यमार्गे प्रवर्त्तते। त तस्य गतिरस्तीति सत्यं सत्यं न संशयः। सर्वैर्वेदैः पुराणैश्च स्मृतिभिः संहितादिभिः। प्रतिपाद्योऽस्मि नान्योऽस्ति प्रभुर्जगति मां विना। आमनन्ति च ते सर्घे मत्पदं लोकपावनम्। मन्मार्गविमुखा लोकाः पाषण्डा ब्रह्मघातिनः। अतो मन्मतमुत्सृज्य यो यत् कर्म समाचरेत्। निष्फलं तद्भवेद्देवि! कर्त्तापि नारकी भवेत्। मूढो मन्मतमुत्सृज्य योऽन्यमतमुपाश्रयेत्। ब्रह्महा पितृहा स्त्रीघ्नः स भवेन्नात्र संशयः। कलौ तन्त्रोदिता मन्त्राः सिद्धास्तूर्णफलप्रदाः। शस्ताः कर्मसु सर्वेषु जपयज्ञक्रियादिषु। निर्वीर्याः श्रौतजातीया विषहीनोरगाइव। सत्यादौ सफला आसन् कलौ ते मृतका इव। पञ्चालिका यथा भित्तौ सर्व्वेन्द्रियसमन्विताः। अमूरशक्ताः कार्य्येषु, तथाऽन्ये मन्त्रराशयः। अन्यमन्त्रैः कृतङ्कर्म बन्ध्यास्त्रीसङ्गमो यथा। न तत्र फलसिद्धिः स्याच्छ्रम एव हि केवलम्। कलावन्योदितैर्मार्गैः सिद्धिमिच्छति योनरः। तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः। मद्वक्त्रादुदितं धर्मं हित्वान्यधर्ममीहते। अमृतं स्वगृहे व्यक्त्वा क्षीरमार्कं स वाञ्छति। नान्यःपन्थामुक्तिहेतुरिहामुत्र सुखाप्तये। यथा तन्त्रोदितोमार्गो मोक्षाय च सुखाय च। तन्त्राणि बहुधोक्तानि नानाख्यानान्वितानि च। सिद्धानां साधकानाञ्च विधानानि च भूरिशः। अधिकारिविभेदेन पशुबाहुल्यतः प्रिये! कुलाचारोदितं धर्मं गुप्त्यर्थं कथितं क्वचित्। जीवप्रवृत्तिकारीणि कानिचित् कथितान्यपि। देवा नानाविधाः प्रोक्ता देव्योऽपि बहुधा प्रिये!। भैरवाश्चैव वेतालावटुका नायिका गणाः। शाक्ताः शैवा वैष्णवाश्च सौरा गाण सतादयः। नानामन्त्राश्च यन्त्राणि सिद्ध्युपायाह्यनेकशः। नूरिप्रयाससाध्यानि यथोक्तफलदानि च। यथा यथा कृताः प्रश्ना येन येन यदा यदा। तदा तस्योपकाराय तथैवोक्तंमया प्रिये। सर्व्वलोकोपकाराय सर्व्व प्राणिहिताय च। युगधर्मानुसारेण याथातथ्येन पार्वति!। त्वया यादृक्कृतः प्रश्नो न केनापि पुरा कृतः। तव स्नेहेन वक्ष्यामि सारात् सारं परात् परम्। वेदानामागमानाञ्च तन्त्राणाञ्च विशेषतः। सारमुद्धृत्य देवेशि! तवाग्रे कथ्यते मया। यथा नरेषु तन्त्रज्ञाः सरितां जाह्नवी यथा। यथाहं त्रिदिवेशानामागमानामिदं तथा। किं वेदैः किंपुराणैश्च किं शास्त्रैर्बहुभिः शिवे!। विज्ञातेऽस्मिन्महातन्त्रे सर्व्वसिद्धीश्वरोभवेत्। यतो जगन्मङ्गलाय त्वयाहं विनियोजितः। अतस्ते कथयिष्यामि यद्विश्वहितकृत्भवेत्” २ उल्ला०। “कलौ पापयुगे घोरे तपोहीनेऽतिदुस्तरे। निस्तारवीजमेतावद्व्रह्ममन्त्रस्य साधनम्। साधनानि बहूक्तानि नानातन्त्रागमादिषु। कलौ दुर्बलजीवानामसाध्यानि महेश्वरि!। अल्पायुषः खल्पवृत्ता अन्नाधीनासवः प्रिये! लुब्धा धनार्जने व्यग्राः सदा चञ्चखमानसाः। समाधावस्थिरधियो यो गक्लेशासहिष्णवः। तेषां हिताय मोक्षाय ब्रह्ममार्गोऽयमीरितः। कलौ नास्त्येव नास्त्येव सत्यं सत्यंमयोच्यते। ब्रह्मदीक्षां विना देवि। कैवल्याय सुखाय च। यदा तु वैदिकी दीक्षा दीक्षा पौराणिकीतथा। न स्थास्यति वरारोहे! तदैव प्रबलः कलिः। यदा तु पुण्यपापानां परीक्षा वेदसम्भवा। न स्थास्यति शिवे! शान्ते! तदैव प्रबलः कलिः। क्वचिच्छिन्ना क्वचिद्भिन्ना यदा सुरतरङ्गिणी। भविष्यति कुलेशानि! तदैव प्रबलः कलिः। यदा तु म्लेच्छजातीया राजानोधनलोलुपाः। भविष्यन्ति महाप्राज्ञे! तदैव प्रबलः कलिः। यदा स्त्रियोऽतिदुर्दान्ताः कर्कशाः कलहे रताः। गर्हिष्यन्ति स्वभर्त्तारं तदैव प्रबलः कलिः। यदा तु मानवा भूमौ स्त्रीजिताः कामकिङ्कराः। द्रुह्यन्ति गुरुमित्रादीन् तदैव प्रवलः कलिः। यदा क्षौणी स्वल्पफला तोयदाः स्तोकवर्षिणः। असम्यक्फलिनोवृक्षास्तदैव प्रबलः कलिः। भ्रातरः स्वजनामात्या यदा धनकणेहया। मिथः सम्प्रहरिष्यन्ति तदैव प्रबलः कलिः। प्रकटे मद्यमांसादौ निन्दादण्डविवर्जिते। गूढपानं चरिष्यन्ति तदैव प्रबलः कलिः” ३ उल्ला० इत्युपक्रम्य ब्रह्मसाधनप्रकारस्तत्र दर्शितः स च तत एवावसेयः। उपासनायां विशेषः। कुब्जिकातन्त्रे १ पटले। “श्रुतिस्मृतिविधानेन पूजा कार्य्या युगत्रये आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः। न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः”। पुरश्चरणरसोल्लासतन्त्रे ३ पटलेऽपि। “तन्त्रोक्तं ध्यानमन्त्रञ्च प्रशस्तं भारते कलौ। वेदोक्तञ्चैव स्मृत्युक्तं पुराणोक्तं वरानने!। न शस्तं चञ्चलापाङ्गि! कदाचिद्भारते कलाविति”। “श्रौतोधर्म्मः कृतयुगे त्रेतायां स्मार्त्त एव तु। द्वापरे च पुराणोक्तः कलावागमसम्मतः” पठन्ति। अत्रेदमभिदध्महे। वेदेषु काण्डत्रयमस्ति कर्म्मोपासना ब्रह्मरूपप्रतिपाद्यभेदात्। तत्र कर्म्मकाण्डमधिकृत्य जैमिनिप्र भृतिभिः सम्यक्तया कर्त्तव्यातादि विवेचि। तम् उपासनाकाण्डमधिकृत्य शाण्डिल्यनारदादिभिः, ब्रह्मकाण्डमधिकृत्य च व्यसादिरभिः प्रपञ्चो दर्शितः। तत्र उपासनाकाण्डमधिकृत्यैवागमशास्त्रप्रव्र्त्तिः तन्मूलञ्च रामतापनीयमृसिंहतापनीयप्रभृति। इत्यागमशास्त्रस्य प्रामाण्यम्। अनुपलभ्यमानमूलकागमस्यापि स्मृतिवत् श्रुतिकल्पकत्वेन प्रामाण्यम्। तत्र कर्म्मकाण्डे सर्व्वेऽप्यधिकारिणः मुमुक्षोरपि तत्त्वज्ञानपर्य्यन्तं चित्तशुद्ध्यर्थं प्रत्यवायपरिहारार्थं च कर्म्मकरणविधानात् “तमेतमात्मानं विविदिषन्ति वेदानुबचनेन यज्ञेन तपसा नाशकेनेति” श्रुत्या तथोक्तेः। उपासनाकाण्डेऽपि तथैव सर्व्वेषामधिकारः “तपसा किल्विषं हन्ति विद्ययाऽमृतमश्नुते” इति स्मृतेः। तत्र सति कामे कर्म्मकाण्डविहितकर्म्माचरणे स्वर्गः फलम्। कामनाऽभावे मोक्ष एव फलम्। एवमुपासनायामपि। तत्रापि सत्यां कामनायां स्वर्गादि नानाफलम् असत्याञ्च तस्यां क्रममुक्तिः फलम्। ब्रह्मकाण्डे तु मुमुक्षोरेवाधिकारः। इत्येवं विषय विभागे स्थिते श्रौतीपौराणिकीस्मार्त्तीतान्त्रिकीषूपासनासु मध्ये कलौ आगमोक्तैवोपासनादर्त्तव्येति प्रदर्शितागमवाक्येभ्यो निश्चीयते। अन्यत्र च “हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्। कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा” “कलौ जागर्त्ति गोपालः कलौ जागर्त्ति कालिका” पठन्ति। अथ कलियुगे राजविशेषोत्पत्तिः कलेर्वृद्धिरन्ते कल्किरूपभगवदवतारप्रादुर्भावश्च भाग० १२१, २ अ० उक्तो यथा“योऽन्त्यःपुरञ्जयोनाम भविष्योवारहद्रथः। तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम्। प्रद्योतसंज्ञं राजानं कर्त्ता यत् पालकः सुतः। विशाखयूपस्तत्पुत्रोभविता राजकस्ततः। नन्दिवर्द्धनस्तत्पुत्रः पञ्च प्रद्योतनाइमे। अष्टत्रिंशोत्तरशतं १३८ भोक्ष्यन्ति पृथिवीं नृपाः! शिशुनागस्ततो भव्यः काकवर्णस्तु तत्सुतः। क्षेमधर्म्मा तस्य पुत्रः क्षेत्रज्ञः क्षेत्रधर्म्मजः। विधिसारः सतस्तस्या जातशत्रुर्भविष्यति। दर्भकस्तत्सुतो भव्यो दर्भकस्याजयः स्मृतः। नन्दिवर्द्धन आजेयो महानन्दिस्तु तत्सुतः! शैशुनागा दशैवैते षष्ट्युत्तर शतत्रयम् ३६०। समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ! कलौ नृपाः। महानन्दिसुतो राजन्! शूद्रागर्मोद्भवो बली। महापद्मपतिः कश्चित् नन्दः क्षत्रविनाशकृत्। ततोनृपा भविष्यन्ति शूद्रप्रायाअधार्म्मिकाः। स एकच्छत्रां पृथिवीमनुलङ्घित शासनः। शासिष्यति महापद्मो द्वितीय इव भार्गवः। तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखाः सुताः। य इमां भोक्ष्यन्ति महीं राजानश्च शतं समाः १००। नव नन्दान् द्विजः कश्चित् प्रपन्नानुद्धरिष्यति। तेषामभावे जगतीं मौर्य्या भोक्ष्यन्ति वै कलौ। स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति। मत्सुतो वारिसारस्तु ततश्चाशोकवर्द्धनः। सुयशा भविता तस्य सङ्गतः सुयशः सुतः। शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति। शतधन्वा सुतस्तस्य भविता तद्वृहद्रथः। मौर्य्यास्त्वेते दश नृपाः सप्तत्रिंशच्छतोत्तरम् १३७। समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह!। अग्निमित्रस्ततस्तस्मात् सुज्येष्ठो भविता ततः। वसुमित्रो भद्रकश्च पुलिन्दो भविता सुतः। ततो घोषसुतस्तस्माद्वज्रमित्रो भविष्यति। ततो भागवतस्तस्माद्देवभूतिः कुरुद्वह!। शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् ११२। ततः कण्वानियं भूमिर्य्यास्यत्यल्पगुणान्नृप!। शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस्तु स्वामिनम्। स्वयं करिष्यते राज्यं वासुदेवो महामतिः। तस्य पुत्रस्तु भूमित्रस्ततो नारायणः सुतः। काण्वायना इमे भूमि चत्वारिंशच्च पञ्च च। शतानि त्रीणि ३४५ भोक्ष्यन्ति वर्षाणाञ्च कलौ युगे। हत्वा काण्वं सुशर्माणं तद्भृत्योवृषलोबली। गां भोक्ष्यत्यन्धजातीयः कञ्चित् कालमसत्तमः। कृष्णनामाथ तद्भ्राता भविता पृथिवीपतिः। श्रीशान्तकर्णस्तत्पुत्रः पौर्णमासस्तु तत्सुतः। लम्बोदरस्तु तत्पुत्रस्त स्माच्छिविलकोनृपः। मेघस्वांतिः शिविलकात् दृढमानन्तु तत्सुतः। अनिष्टकर्मा हानेयस्तलकस्तस्य चात्मजः। पुरीषभेरुस्तत्पुत्रस्ततो राजा सुनन्दनः। चकोरो वटको यत्र शिवस्वातिररिन्द मः। तस्यापि गोमतीपुत्रः पुरीमान् भविता ततः। मेदशिराः शिवस्कन्धो यज्ञश्रीस्तत्सुतस्ततः। विजयस्तत्सुतो भव्यश्चन्द्रवीर्य्यश्च सोमधिः। एते त्रिंशन्नृपतयश्चत्वार्य्यव्दशतानि च। षट् पञ्चाशच्च ४५६ पृथिर्वी भोक्ष्यन्ति कुरुनन्दन!। सप्ताभीरा आवभृत्या दश गर्द्धभिनो नृपाः। कङ्का षोडश भूपाला भविष्यन्त्य- तिलोलुपाः। ततोऽष्टौ यवना भव्याश्चतुर्द्दश तुरुष्ककाः। भूयो दश गुरुण्डाश्च मौला एकादशैव तु। एते भोक्ष्यन्ति पृथिवीं दश वर्षशतानि च। नवाधिकाञ्च नवतिं १०९९ मौला एकादश क्षितिम्। भोक्ष्यन्त्यव्दशतान्यङ्ग! त्रीणि ३०० तैः संस्थिते ततः। किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरः। शिशुनन्दि स्तु तद्भ्राता यशोनन्दिः प्रवीरकः। भोक्ष्यन्त्येते वर्षशतं भविष्यन्त्यधिकानि षट् १०६। तेषां त्रयोदश सुता भवितारश्च वाह्लिकाः। पुष्पमित्रोऽथ राजन्यो दुर्मित्रोऽस्य तथैव च। एककाला इमे भूपा सप्तान्ध्राः सप्त कोशलाः। वैदूरपतयो भव्या नैषधास्तत एव हि। मागधानाञ्च भविता विश्वस्फूर्जिः पुरञ्जयात्। करिष्यत्यपरान् वर्णन् पुलिन्द यदुमद्रकान्। प्रजाश्चाब्रह्मभूयिष्ठाः स्थापयिष्यति दुर्मतिः। वीर्य्यवान् क्षत्रमुत्सार्य्य पद्मवत्यां स वै पुरि। अनुगङ्गमाप्रयागं गुप्तां भोक्ष्यति मेदिनीम्। सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमानवाः। व्रात्याद्विजा भविष्यन्ति शूद्रप्राया जनाधिपाः। सिन्धोस्तटं चन्द्रभागां कान्तीं काश्मीरमण्डलम्। भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छा अब्रह्मवर्चसः। तुल्यकाला इमे राजन्! म्लेच्छप्रायाश्च भूभृतः। एतेऽधर्मानृतपराः फल्गुदास्तीव्रमन्यवः। स्त्रीबालगोद्विजघ्नाश्च परदारधनादृतः। उदितास्तमितप्राया अल्पसत्वाल्पकायुषः। असंस्कृताः क्रियाहीना रजसा तमसाऽऽवृताः। प्रजास्ते भक्षयिष्यन्ति म्लेच्छराजन्यरूपिणः। तन्नाथास्ते जनपदास्तच्छीलाचारवादिनः। अन्योऽन्यतो राजभिश्च क्षयं यास्यन्ति पोडिताः” १ अ०।
“ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया। कलिना बलिना राजन्! नङ्क्ष्यन्त्यायुर्ब्बलं स्मृतिः। वित्तमेव कलौ नॄणां जन्माचारगुणादयः। धर्मन्यायव्यवस्थायां कारणं बलमेव हि। दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके। स्त्रीत्वे पुंस्त्वे च हि रतिर्विप्रत्वे सूत्रमेव हि। लिङ्गमेवाश्रमख्यातावन्योन्याप्रत्तिकारणम्। अवृत्त्या न्यायदौर्बल्यं, पाण्डित्ये चापलं वचः। अनाट्यतैवासाधुत्वे साधुत्वे दम्भ एव च। स्वीकार एव चोद्वाहे, स्नानमेव प्रसाधनम्। दूरे वार्य्ययनं तीर्थं लावण्ये केशधारणम्। उदरम्भरता स्वार्थः सत्यत्वे धार्ष्ण्यमेव हि। दाक्ष्ये कटुम्बभरणं, यशोऽर्थे धर्मसेवनम्। एवं पजाभिर्दुष्टाभिराकीर्णे क्षिंतिमण्डले। ब्रह्मविट्क्षत्र- शूद्राणां यो बली भविता नृपः। प्रजा, हि लुब्धै राजन्यैर्निर्घृणैर्दस्युधर्मिभिः। आच्छन्नदारद्रविणा यास्यन्ति गिरिकाननम्। शाकमूलामिषक्षौद्रफलपुष्पाष्टि (आ~टि) भोजनाः। अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्षकरपीडिताः। शीतवातातपप्रावृठिमैरन्योन्यतः प्रजाः। क्षुत्तृड्भ्यां व्याधिभिश्चैव सन्तप्स्यन्ते च चिन्तया। त्रिंशद्विंशति वर्षाणि परमायुः कलौ नृणाम्। क्षीयमाणेषु देहेषु देहिनां कलिदीषतः। वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम्। पाषण्डप्रचुरेऽधर्म दस्युप्रायेषु राजसु। चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु। शूद्रप्रायेषु वर्णेषु छागप्रायासु धेनुषु। गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु। अणुप्रायेष्वोषधीषु शमीप्रायेषु स्थास्नुषु। विद्य्त्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु। इत्थं कलौ गते प्रायें जनेषु खरधर्मिषु। धर्मत्राणाय सत्वेन भगवानवतरिष्यति। चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः। धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये। शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः। भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति। अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः। असिनाऽसाधुदमनमष्टैश्वर्य्यगुणान्वितः। विचरन्नाशुना क्षौण्यां हयेनाप्रतिमद्युतिः। नृपलिङ्गच्छदोदस्यून् कोटिशोनिहनिष्यति। अथ तेषां भविष्यन्ति मनांसि विशदानि वै। वासुदेवाङ्गरागाभिपुण्यगन्धानिलस्पृशाम्। पौरजानपदानां वै हतेष्वखिलदस्युषु। तेषां प्रजा विसगश्च स्थविष्ठः सम्भविष्यति। वासुदेवे भगवति सत्वमूर्त्तौ हृदि स्थिते। यदाऽवतीर्णो भगवान् कल्किर्धर्मपति र्हरिः। कृत भविष्यति तदा प्रजासूतिश्च सात्विकी। यदा सूर्य्यश्च चन्द्रश्च तथा तिष्यवृहस्पती। एकराशौ समेष्यन्ति भविष्यति तदा कृतम्। येऽतीतावर्त्तमाना ये भविष्यन्ति च पार्थिवाः। ते ते उद्देशतः प्रोक्तावंशजाः सोमसूर्य्ययोः। आरभ्य भवतो जन्म यावन्नन्दाभिषेचनम्। एतद्वर्षसहस्रन्तु शतं पञ्चदशोत्तरम्” “यदा यदा सतां हानिर्वेदमार्गानुसारिणाम्। तदा तदा कलेर्वृद्धिरनुमेया विचक्षणैः”। अनुपदमधिकमुक्तम्। अधिकं कलिखभावादिकं कल्किशब्दे वक्ष्यते। कलियृगे च शककर्त्तारः षट् यथोक्तं ज्योतिर्विदाभरणे “युधिष्ठिरो विक्रमशालिवाहनौ धराधिनाथौ, विजयाभिनन्दनः। इमेऽनु नागार्ज्जुनमेदिनीपतिर्बलिः क्रमात् षट् शककारकाः कलौ”। तेषां शककालश्च शकशब्दे वक्ष्यते। कलौ वर्ज्यधर्म्माः निर्ण्णयसिन्धावुक्ता यथा-
“वृहन्नारदोये। “समुद्रयात्रास्वीकारः कमण्डलुविधारणम्। द्विजानामसवर्णासु कन्यासूपयमस्तथा। देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्बधः। मांसदानं तथा श्राद्धे वानप्रस्थाश्रमस्तथा। दत्ताऽक्षतायाः कन्यायाः पुनर्दानं परस्य च। दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ। महाप्रस्थानगमनं गोमेधश्च तथा मखः। इमान् धर्मान् कलियुगे वर्ज्यानाहुर्मनीषिणः”। कमण्डलुः “सोदकञ्च कमण्डलुम्” इत्युक्तः मृण्मयो वा। दत्ता ऊढा। “ऊढायाः पुनरुद्वाहं ज्येष्ठांशं गोबधं तथा। कलौपञ्च न कुर्वीत भ्रातृजायां कमण्डलुमिति” हेमाद्रौ वचनात्। “ऊढा पुरुषसंयोगात् सृते देयेति केचन” इत्यादिभिर्विवाह्यतोक्ता। हेमाद्रौ बाह्मे “गोत्रान्मातुः सपिण्डाच्च विवाहो गोबधस्तथा। नराश्वमेधौ मद्यञ्च कलौ वर्ज्यं द्विजातिभिः”। गोत्रात् गोत्रजायाः पितृष्वसुः, मातुः सपिण्डात् मातुलात्, तत्कन्याया विवाहः कलौ न कार्य्यः। तेन यानि तद्विधायकानि तानि युगान्तरविषयाणि। तथा च व्यासः। “तृतीयां मातृतः कन्यां, तृतीयां पितृतस्तथा। शुक्लेन चोद्वहिष्यन्ति विप्राः पापविमोहिताः” इति कलौ निन्दामाह। मातृतस्तृतीयां मातुलकन्यामित्यर्थः। उक्तञ्चैतत् प्राक्। मद्यं “स्त्रीभ्यः सुरामाचामम्” इत्यादिना विहितमपि वर्ज्यम्” हेमाद्रौ आदित्यपुराणे “विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम्। बालायाः क्षतयोन्याश्च वरेणान्येन सस्कृतिः। कन्यानामसवर्ण्णानां विवाहश्च द्विजातिभिः। आततायिद्विजाग्र्याणां धर्मयुद्धेन हिंसनम्। द्विजस्याब्धौ तु नौयातुः शोधितस्यापि संग्रहः। महाप्रस्थानगमनम्, गोसंज्ञप्तिश्च गोसवे। सौत्रामण्यामपि सुराग्रहणस्य च संग्रहः। अग्निहोत्रहवन्याश्च लेहोलीढापरिग्रहः। वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा। प्रायश्चित्तविधानञ्च विप्राणां मरणान्तिकम्। संसर्गदोषस्तेयान्यमहापातकिनिष्कृतिः। वरातिथिपितृभ्यश्च पशूपाकरणक्रिया। दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः। सवर्ण्णान्याङ्गनादुष्टैः संसर्गः शौधितैरपि। अयोनौ संग्रहे वृत्ते परित्यागो गुरुस्त्रियाः। परोद्देशात्मसंत्याग उद्दिष्टस्यापि वर्ज्जनम्। प्रतिमाभ्यचनाऽर्थाय, संकल्पश्च सधर्मकः। अस्तिसञ्चयनादूर्द्ध्वमङ्गस्पर्शनमेव च। शामित्रं चैव विप्राणां सोमविक्र- यणं तथा। षड्भक्तानशने चाथ हरणं हीनकर्म्मणः। पृथ्वीचन्द्रादये “शूद्रेषु दासगोपालकुलमित्रार्द्धसीरिणाम्। भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः। शिष्यस्य गुरुदारेषु गुरुवद्वृत्तिशीलता। आपद्वृत्तिर्द्विजाग्र्याणामश्वस्तनिकता तथा। प्रजार्थं तु द्विजाग्र्याणां परजायापरिग्रहः। ब्राह्मणानां प्रवासित्वं मुखाग्निधमनक्रिया। बलात्कारादिदुष्टस्त्रीसंग्रहो विधिनोदितः। यतेश्च सर्ववर्णेषु भिक्षाचर्य्या विधानतः। नवोदके दशाहश्च दक्षिणा गुरुणोदिता। ब्राह्मणादिषु शूद्रस्य षच नादिक्रियापि च। भृग्वग्निपतनैश्चैव वृद्धादिमरणं तथा। गोतृप्तिशिष्टपयसि शिष्टैराचमनक्रिया। पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम्। यतेः सायंगृहत्वं च सूरिभिस्तत्त्वदर्शिभिः। एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः। निवर्त्तितानि विद्वद्भिर्व्यवस्थापूर्वकं बुधैः”। सुराग्रहणस्य तत्कर्तुः संग्रहो व्यवहारः। न च मद्यं चेति सामान्येन निषिषेधेनास्योपसंहार इति शङ्क्यम्। निषेधस्य निवृत्तिफलत्वेन विशेषानपेक्षत्वात्, मा हिंस्यादित्यस्य न ब्राह्मणं हन्यादित्यनेनोपसंहारे हिंसान्तरस्या दोषापत्तेश्च। निरूपितं चैतद्धेमाद्रिणान्यत्रेत्थुपरम्यते। “एकाहाद्ब्राह्मणः शुध्येद्योऽग्निवेदसमन्वितः” इत्युक्तेः अघस्य अशौचस्य सङ्कोचः “न तस्य निष्कृतिर्दृष्टा भृग्वग्निपतनादृते” इत्युक्तस्य प्रायश्चित्तस्य विधानम् उपदेशः। “कलौ कर्त्तैव लिप्यत” इति व्यासोक्तेः पतितसंसर्गदोषे सत्यऽपि पातित्यं नेत्यर्थः इति केचिदाहुः। ते मूर्खाः मानाभावात्। तेनायमर्थः। तत्संसर्गी तु पञ्चमः स्तेयञ्च इति तदन्यानि महापातकानि ब्रह्मबधसुरापाणगुरुतल्पाभिगमनानि त्रीणि, तेषां कामकृतानां प्रायश्चित्तं कलौ न, तेषु कामतोमरणान्तस्यैवोक्तेः। तत्स्थाने द्वादशावदं, द्वैगुण्ये आत्मनो ब्रह्मबधनिमित्ते च चतुर्विं शत्यव्दमिति चतुर्गुणद्वादशाब्दापत्तेस्तस्य च “चतुर्थे नास्ति निष्कृतिरिति” निषेधात्संसर्गिणो व्रतस्यैवौक्तेः। “स्तेये च राज्ञो बध कर्तृत्वान्नात्मब्रह्मबधापत्तिः। अतो द्वैगुण्यै युक्तोऽधिकारः। न च विघित्वं, निषेधबाधात्। आत्मबधदोषापवादेऽपि ब्रह्मबधाभावात् युगान्त रदोषसाम्येऽपिकलौ दोषाधिक्यात्। एतद्विप्रपरम्। असवर्ण्णान्या सवर्ण्णा क्षत्रियादिस्तया दुष्टैः। अयानौ शिष्यादौ। “स्त्रियस्तथा परित्याज्याः शिष्यगा गुरुगाश्च याः” इत्युक्तेस्त्वागः। परोद्देशेन ब्राह्मणाद्यर्थ आत्मत्यागः। यद्वा परो- द्देशात्मा त्यागोदानं मनसा पात्रमुद्दिश्येत्युक्तम्। उद्दिष्टस्य त्यक्तस्य वर्ज्जनम् प्रतिग्रहसमर्थोऽपीत्युक्तम्। वेतनग्रहणेन प्रतिमापूजा। “स्वाशौचकालाद्विज्ञेयं स्पर्शनन्तु त्रिभागतः” इत्युक्तः स्पर्शः। षडिति “उपोषितस्त्र्यहं स्थित्वा धान्यमब्राह्मणाद्धरेत्” इत्युक्तमन्नचौर्य्यम्। आपदि क्षत्रादिवृत्तिः, मुखेनैव धमेदग्निमित्युक्तं धमनम्। “दशाहेनैव शुध्येत भूमिष्ठं च नवोदकम्” इत्युक्ता दशाहः। “गुरवे तु वरं दत्त्वा” इत्युक्ता दक्षिणा। शूद्रेषु दासगोपालेति। “कन्दुपक्वं स्नेहपक्वं यच्च दुग्धेन पाचितम्। एतान्यशूद्रान्नभुजो भोज्यानि मनुरब्रवीत्” इत्यपरार्के सुमन्तूक्ता शूद्रस्य पाकक्रिया। “पितापुत्रविवादे तु साक्षिणां त्रिपणोदमः” इत्युक्तः। सायंगृहत्वम् “विधूमे सन्नमुषले” इत्युक्तम्। पृथ्वी चन्द्रण तु। “अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च। अनिकेता निराहारा ये तु सायंगृहास्तु ते” इति पुराणोक्तो निषिद्धः, तेनाज्ञातशीलपान्थादेः श्राद्धादौ विनियोगो न कार्य्यः। कलौ एतानि वर्ज्यानीत्यर्थः। निगमः। “अग्निहोत्रं नवालम्भं संन्यासं पलपैतृकम्। देवराच्च सुतोत्पत्तिं कलौ पञ्च विवर्जयेत्”। अग्निहोत्रं तदर्थमाधानम्। एतच्च सर्वाधानपरम्। “अर्द्धाधानं स्मृतं श्रौतं स्मार्त्ताग्न्योस्तु पृथक्कृतिः। सर्वाधानं तयोरैक्यकृतिः पूर्वयुगाश्रितेति” लौगाक्षिवचनादिति स्मृतिचन्द्रिकायाम् एतेन “चत्वार्यव्दसहस्राणि चत्वार्यब्दशतानि च। कलेर्यदा गमिष्यन्ति तदा त्रेतापरिग्रहः। संन्यासश्च न कर्त्तव्यो ब्राह्मणेन विजानतेति” व्यासवचनं व्याख्यातम्। सर्वाधानेऽपि विशेषमाह देवलः “यावद्वर्ण्णंविभानोऽस्ति यावद्वेदः प्रवर्त्तते। संन्यासञ्चाग्निहोत्रञ्च तावत्कुर्य्यात् कलौ युगे” इति। संन्यासस्त्रिदण्डः केचित्”।
दत्तौरसेतरेषान्त्वित्यत्र दत्तपदं कृत्रिमस्याप्युपलक्षणम् “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च” कलिधर्म्मे पराशरस्मरणात् इति दत्तकमीमांसादिमतम्। दत्तकशब्दे चन्द्रिकामतं वक्ष्यते। समुद्रयात्रास्वोकारोऽप्यत्र तीर्थयात्रारूपधर्मपरः तथा हि
“शोधितस्यापीत्यनेन कृतप्रायश्चित्तस्यैव संग्रहपदवाच्यव्यवहार्य्यतानिषेधेन यत्र विषये समुद्रनौयानं निषिद्धं तत्रैव विषये कृतप्रायश्चित्तस्याप्यसग्रह इति प्रतिपादितम्। अत्र शोधितत्वोक्त्यैव प्रायश्चित्तनिमित्तीभूतपापनि- श्चय आक्षिप्यते तन्निश्चयश्च पापावेदकशास्त्रादेव, समुद्रगमनमात्रे च कुत्रापि शास्त्रे प्रायश्चित्ताद्यदर्शनात् न तस्य निषिद्धता, किन्तु तद्ग मनकाले म्लेच्छादिस्पृष्टजलान्नसेवन एव, तत्पापापनोदनाय तु कृतेऽपि प्रायश्चित्ते न तद्यातुः संग्रह इत्येव कल्पयितुमुचितम् शोधितस्यापीति पदस्वारस्यात्। अन्यथा समुद्रनौगमनमात्रे संग्रह इत्येवाभिदध्यात्। न च तथाभिहितम्। न च “समुद्रयात्रास्वीकारः कमण्डलुर्विधारणम्। इत्युपक्रम्य “इमान् धर्मान् कलियुगे वर्ज्यानाहुर्मनीषिणः” इति वृहन्नारदीयवचने समुद्रयात्रास्वीकारस्य कलौ निषिद्धतयोक्तेः निषिद्धातिक्रमे च “विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्। अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” इतिया० स्मृतौ क्रमशस्तथाचरणे पातित्यप्रतिपादनात् तद्विषय एव प्रायश्चित्ताचरणसम्भवेन तत्रैय शोधितस्यापीत्यस्यावकाश इति वाच्यम् वृहन्नारदीयवचने उपसंहारे “इमान् धर्मान्” इत्युक्तेः धर्म्मारूपसमुद्रयात्रास्वीकारस्यैव कलौ निषेधात् बाणिज्यराजाज्ञादिनिमित्तकस्य तस्य निषेधाभावेन तद्विषयकत्वासम्भवात्। स्मर्य्यते च ब्रह्महत्यादिपापापनोदनार्थं समुद्रगमनं पराशरेण,प्रायश्चित्तप्रकरणे “शतयोजनविस्तीर्ण्णं शतयोजनमायतम्। रामचन्द्रस–मादिष्ट–नल–सञ्चय–सञ्चितम्। सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति” इत्यन्तेन। न चाप्यत्र समुद्रसेतुदर्शनस्यैव ब्रह्महत्यानाशकत्वं शङ्क्यं समुद्रयात्रास्वीकारं विना शतयोजनाय तस्य सेतोर्दर्शनासम्भवेन आक्षेपेणैव तद्गमनलाभात्। अन्यथा सेतोर्यत्किञ्चिदंशमात्रस्य तथात्वे “शतयोजनमायतम्” इति विशेषणमनर्थकं स्यात्, तथा च शतयोजनविस्तारायतसेतुबन्धदर्शनस्यैव प्रकृतब्रह्महत्यापापनाशकत्वं न तु यत्किञ्चिन्मात्रदर्शनस्य, पापप्राबल्येन परिश्रमप्राबल्यस्यापेक्षितत्वात् किन्तु एकादश्यादिव्रतस्येव यत्किञ्चिन्मात्रदर्शनस्यातिदिष्टब्रह्महत्यानाशकत्वम् युक्तम्। अतएव “यो भूय आरभते तस्य फले विशेषः” इति जैमिनिना सम्यगायास फलबाहुल्यं निर्णीतम्, निर्णीतञ्च ऋग्वेदभाष्ये माधवाचार्य्येण सम्यगायासादिना अनुष्ठिताश्वमेधाद्यषेक्षया तत्तद्यज्ञविद्याबोधकवेदाध्यायिनोऽतिदिष्टब्रह्मवधादिनाशकत्वम्। एवञ्च प्रकृतब्रह्महत्यायाः अपनोदनार्थं शतयोजनदीर्घविस्तारसेतुदर्शनं स्मृतौ विहितम्। तेनैव च समुद्रनौगमनमर्थापत्तिलभ्यम् एवं द्वारवत्यादितीथ यात्राङ्गमपि समुद्रयान- गमनमर्थापत्तिप्रमाणलभ्यम्। एवञ्च ईदृशसमुद्रयानस्यैव धर्मरूपतया विहितस्य कलौ निषेधः वृहन्नारदीयवचने कमण्डलुविधारणादिभिः पुण्यापरपर्य्यायधर्मसाधनत्वेन धर्मरूपैः समभिव्याहारेण पठितत्वात् धर्मरूपस्यैव समुद्रयानस्य निगिद्धत्वौचित्यात् “प्रायेण समानरूपाः सहचरा भवन्ति” इति न्यायात्। एतेन वृहन्नारदीये “समुद्रयात्रास्वीकार” इति पाठे रघुनन्दनमाधवाचार्य्यादिबहुनिबन्धकारसम्मते स्थिते निर्णयसिन्धौ समुद्रयातुः स्वीकार इति क्वाचित्कपाठस्तु अनाकरोऽनुचितश्च, तथा सति समुद्रयातुर्जनस्य स्वीकाररूपव्यवहारस्य धर्मरूपत्वाभावेन “इमान् धर्मान्” इत्यभिधानस्यायुक्तत्वापत्तेः। ततश्च धर्मार्थसमुद्रयात्रा–खीकारस्यैव निषिद्धतया बाणिज्यराजाज्ञादिनिमित्तकस्य तस्य कुत्राप्यनिषेधात् तत्समये म्लेच्छादिगुरुतरसंसर्गे सन्ध्याबन्दनादित्यागे च तत्पापापनोदनार्थं शोधितस्यापि (कृतप्रायश्चित्तस्य) न संग्रह इत्यत्रैव आदित्यपुराणवचनतात्पर्य्यम्। यथा च “कामतोऽव्यवहार्यस्तु यचनादिह जायते, इति याज्ञवल्क्येन पातकविशेषे प्रायश्चित्ताचरणेऽपि अव्यवहार्यताऽभिहिता, तत्समानन्यायादत्रापि प्रायश्चित्ताचरणेऽपि न व्यवहार्यतेति युक्तमुत्पश्यामः। एवञ्च समुद्रनौगमनकाले सन्ध्यादिकर्तुः। म्लेच्छादिभिर्गुरुतरं संसर्गमकुर्वतश्च प्रायश्चित्तज्ञापकशास्त्राभावात् न अव्यहार्य्यता, नापि प्रायश्चित्ताचरणम्। ततश्च “उषित्वा यत्र कुत्रापि स्वधर्म्मं प्रतिपालयन्। षट् कर्माणि प्रकुर्वीरन्निति धर्म्मस्य निश्चयः” इति स्मृतौ यत्र कुत्वापि वासेऽपि स्वधर्म्मानुष्ठाने पापशून्यत्वमुक्तं सूपपन्नम्। अतएव कलौ वाणिज्याद्यर्थसमुद्रयाने शिष्टाचारोऽपि दृश्यते। तथा हि कलियुग नृपवत्सराजामात्ययोर्यौगन्धरायणबाभ्रव्ययोर्युद्धार्थं वत्सराजाज्ञया समुद्रयानं रत्नावलीनाटके वर्णितम्, वर्णितञ्च भाषाचण्डीपुस्तके श्रीमन्ताभिधबणिजस्तत्पितुश्च इतो वङ्गदेशात् सिंहलगमननम्। नंच तद्गमनं तदा केनाषि विगीतम्। यदि तद्विगीतं स्यात् तदा ते हि शिष्टाः कथं तत् कुर्युः। इदानीन्तनानां विगानन्तु म्लेच्छमूरिसंसर्गाशङ्कयैवेति एतन्मूलकमेव इदानीमपि अन्यैर्दाक्षिणात्य शिष्टैर्बाणिज्याद्यर्थं सिंहलादिगमनमनुष्ठीयते। अतः समुद्रयानगमनमात्रं निषिद्धमिति तु रिक्तं वचः! ततश्च धर्मार्थसमुद्रयानगमनमेव कलौ निषिद्धमित्यायातम्। तद्गमनकाले च यदा म्लेच्छादिभिर्गुरुतरसंसर्गः सन्ध्यादित्यागश्च तदैव प्रायश्चित्ताचरणेऽपि द्विजानामव्यवहार्यता शूद्राणान्तु प्रायश्चित्ताचरणे व्यवहार्यतैव द्विजपदस्वारस्यात् अन्यथा लोकस्याब्धौ त्वित्यभिदध्यात्। इत्येव द्विजेभ्यः शूद्राणां विशेष इति दिङ्मात्रमुपदर्शितम्” २ कलिकालाधिष्टातृदेवभेदे च तस्योत्पत्तिर्यथा “प्रलयान्ते जगत्स्रष्टा ब्रह्मा लोकपितामहः ससर्ज घोरं मलिनं पृष्ठदेशात् स पातकम्। सचाधर्म्म इति ख्यातस्तस्य वंशानुकीर्त्तनात्। श्रवणात् स्मरणाल्लोकः सर्व्वपापैः प्रमुच्यते। अधर्भस्य प्रिया रम्या मिथ्या मार्ज्जारलोचना। तस्याः पुत्रोऽतितेजस्वी दम्भः परमकोपनः। स मायायां भनिन्यान्तु लोमं पुत्रञ्च कन्यकाम्। निकृतिं जनयासास तयोः क्रोधः सुतोऽभवत्। स हिंसायां भनिन्यान्तु जनयामास तं कलिम्। वामहस्तधृतोपस्थं तैलाभ्यक्ताञ्जनप्रभम्। काकोदरं करालास्यं लोलजिह्वं भयानकम्। पूतिनन्धिं द्यूतमद्यस्त्रीसुवर्ण्णकृताश्रयम्। भगिन्यान्तु दुरुक्त्यां स भयं पुत्रञ्च कन्यकाम्। मृत्युं र्सजनयामास तयोस्तु निरयोऽभवत्। यातनायां भगिन्यान्तु लोभपुत्रायुतायुतम्। इत्थं कलिकुले जाता बहवो धर्मनिन्दकाः” इति कल्किपुराणे १ अ०। तस्य नलं प्रति द्वेषभावस्तच्छरीरे प्रवेशश्च भा० व० ५८, ५९ अ० वर्ण्णितः। यथा “ततोऽब्रवीत् कलिः शक्रं दमयन्त्याः स्वयंवरम्। मत्वा हि वरयिष्ये तां मनो हि मम ताङ्गतम्। तमब्रवीत् प्रहस्येन्द्रो निर्व्वृत्तः स स्वयंवरः। वृतस्तया नलो राजा पतिरम्मत्समीपतः। एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः। देवानामन्त्र्य तान् सर्व्वानुवाचेदं कचस्तदा। देवानां मानुषं मध्ये यत् सा पतिमविन्दत। तत्र तस्या भवेन्न्याय्यं विपुलं दण्डधारणम्। एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः। अस्माभिः समनुज्ञाते दमयन्त्या नलो वृतः। का च सर्व्वगुणोपेतं नाश्रयेत नलं नृपम्। यो वेद धर्म्मानखिलान् यथावच्चरितव्रतः। योऽधीते चतुरो वेदान् सर्व्वानाख्यानपञ्चमान्। नित्यं तृप्ता गृहे यस्य देवा यज्ञेषु धर्म्मतः। अहिंसानिरतो यश्च सत्थवादी दृढव्रतः। यस्मिन् सत्यं धृतिर्ज्ञानं तपः शौचं दमः शमः। ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे। एवं रूपं नलं यो वै कामयेच्छपितुं कले!। आत्मानं स शपेन्मूढो हन्यादात्मानमात्मना। एवंगुणं नलं यो वै कामयेच्छपितुं कले!। कृच्छ्रे स नरके मज्जेदगाधे विपुले ह्रदे। एवमुक्त्वा कलिं देवा द्वापरञ्च दिवं ययुः। ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्। संहर्त्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर!। भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते। त्वमप्यक्षान् समाविश्य साहाय्यं कर्त्तमर्हसि” ५८।
“एवं स समयं कृत्वा द्वापरेण कलिः सह। आजगाम ततस्तत्र यत्र राजा स नैषधः। स नित्यमन्तरं प्रेप्सुर्निषधेष्ववसच्चिरम्। अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्। कृत्वा मूत्रमुपस्पृश्य सन्ध्यामन्वास्त नैषधः। अकृत्वा पादयोः शौचं, तत्रैनं कलिराविशत्। स समाविश्य च नलं समीपं पुष्करस्य च। गत्वा पुष्करमाहेदमेहि दीव्य नलेन वं। अक्षद्यूते नलं जेता भवान् हि सहितो मया। निषधान् प्रतिपद्यस्व जित्वा राज्यं नलं नृपम्। एवमुक्तस्तु कलिना पुष्करो नलमभ्यगात्। कलिश्चैव वृषोभूत्वा गवां पुष्करमभ्यगात्। आसाद्य तु नलं वीरं पुष्करः परवीरहा। दीव्यावेत्यब्रवीद्भुत वृषेणेति मुहुत्मुहुः। न चक्षमे ततो राजा समाह्वानं महामनाः। वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत। हिरण्यस्य सुवर्णस्य यानयग्यस्य वाससाम्। आविष्टः कलिना द्यूते जीयते स्म नलस्तदा” ५९। अधिकं कर्कोटकशब्दे उक्तम् “कर्कोटकस्य नागस्य दमयन्त्या नलस्य च। ऋतपर्ण्णस्य राज्ञश्च कीर्त्तनं कलिनाशनम्”। भा० व०। ३ विभीतकवृक्षे (वयडा) तस्य नलप्रधर्षणार्थं कलिनाश्रितत्वात्तथात्वम्। “विभीतकमधिष्ठाय यथा भूतेन तिष्ठता। तेन भीमभुवो भीरुः स राजर्षिरधर्षि न। तमालम्बनमासाद्य वैदर्भीनिषेधेशयोः। कलुषं कलिरन्विष्यन्नवात्सीद्वसरान बहून्” नैष०। ४ कलहे। मुहुरुप्रहसितामिवालनादैर्वितरसि नः कलिकां किमर्थभेनाम्। वसतिमुपगतेन धाम्नि तस्याः शठ! कलिरेष महांस्त्वयाऽद्य दत्तः” माघः। ५ शूरे ६ युद्धे च हमच०। द्यूतविषये ७ एकाङ्कयुक्तपार्श्वकपाशके। यस्मिन् अक्षपार्श्वे एकाङ्कचिह्नमस्ति तस्मिन् अक्षभागे। कलिना दृष्टं साम कलेरपत्यादि वा ढक्। कालेय तद्दृष्टे सामनि तदपत्यादौ। ७ कोरके स्त्री अमरटीका वा ङीप्।
***