वाचस्पत्यम्
कला to कलाह
links:
Menu अ–ह
Prev कर्मव्य–कल
Next कलि
कला
कलाक
कलाप
UpasanaYoga
.org

कला = स्त्री कलयति कलते वा कर्त्तरि अच् कल्यते ज्ञायते कर्मणि अच् वा। चन्द्रमण्डलस्य षोडशे भागे यथा च चन्द्रस्य षोडशभागस्य कलाशब्दवाच्यत्वम्। तथा कालमा० उक्तं यथा स्कान्दे“अमा षोडशभागेन देवि! प्रोक्ता महाकला। संस्थिता परमा माया देहिनां देहधारिणी। अमादिपौर्णमास्यन्ता या एव शशिनः कलाः। तिथयस्ताः समाख्याताः षोडशैव वरानने!” इति “अयमर्थः या महामाया आधारशक्तिरूपा देहिनां देहधारिणी संस्थिता सा चन्द्रमण्डलस्य षोडशभागेन परिमिता चन्द्रदेहधारिण्यमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्या तिथिसंज्ञिकैव इतरा अपि पञ्चदश कला दिवसव्यवहारोपयोगिन्यः क्षयोदयवत्यः, पञ्चदश तिथयो भवन्तीति तिथयः षोडशैवेत्यविरुद्धं वचनमिति। श्रुतिस्त्वस्मिन्नर्थे पक्षनिर्णय एवोदाहृता। “तस्य रात्रय एव पञ्चदश कला ध्रुवैवास्य षोडशी कलेति”। एवञ्च सत्यत्र सामान्यविशेषरूपेण तिथिद्वैविध्यमुक्तं भवति तत्र येयममेत्युक्ता क्षयोदयविवर्जिता ध्रुवा षोडशी कला तद्युक्तः कालस्तिथिसामान्यं यास्त्ववशिष्टाः वृद्धिक्षयोपेताः पञ्चदश कलास्ताभिर्विशिष्टाः कालविभागास्तिथिविशेषाः। तासां पञ्चदशानामेकैकां कलां बह्न्यादयः प्रजापत्यन्ताः पञ्चदश देवताः क्रमेण पिबन्ति। तत्र वह्निना या कला प्रथमं पीयते मा प्रथमेत्युच्यते, तया युक्तः कालविशेषः प्राथ म्यवाचिना प्रतिपच्छब्देनाभिधीयते। एवं द्वितीयादीना पञ्चदश्यन्तानां तिथीनां नामान्यवगन्तव्यानि, ता एताः कृष्णपक्षे तिथयो भवन्ति। पुनश्च ताः पीताः कलास्तेनैव क्रमेण तत्र तथा वह्न्यादिदेवताभ्यो निर्गत्य चन्दमण्डलं पूरयन्ति ताभिर्युक्ताः कालविशेषाः शुक्लपक्षगताः प्रति पदाद्यास्तिथयो भवन्ति। बह्न्यादिदेवतानां कलापानं सोमोत्पत्तौ पठितम्, तथा हि “प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः। विश्वेदेवास्तृतीयान्तु चतुर्थीं सलिलाधिपः। पञ्चमीं तु वषट्कारः षष्ठी पिबति वासवः। सप्तमामृषयोदिव्या अष्टमीमज एकपात्। नवमीं कृष्णपक्षेऽस्य यमः प्राश्नाति वै कलाम्। दशमीं पिबते वायुः पिबत्येकादशीमुमा। द्वादशीं पितरः सर्वे समं प्राश्नन्ति भागशः। त्रयोदशीं धनाध्यक्षः कुवेरः पिबते कलाम्। चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः। निष्मीतः कलया शेषश्चन्द्रमा न प्रकाशते। कला षोडशिका या सा त्वपः प्रविशते सदा। अमायां तु सदा सोम ओषधीः प्रतिपद्यते। तमोषधिगतं गावः पिबन्त्यम्बुगतञ्च यत्। तत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः। हुतमग्निषु यज्ञेषु पुनराप्यायते शशी। दिने दिने कलावृद्धिः पौर्णमास्यां तु पूर्णतेति”।

एवं षोडशानां कलानामेका नित्या अन्या क्षयोदयशालिनी, तदेतत् स्पष्टमुक्तम् शत० ब्रा० १४, ४, ३, २२। यथा “प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदशकला ध्रुवैवास्य षोडशी कला स रात्रिभिरेवा च पूर्य्यतेऽप च क्षीयते सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्य” “योऽयमन्नात्मा प्रजापतिः प्रकृतः स एष संवत्सरात्मना विशेषतो निर्दिश्यते रात्रयः अहोरात्राणि तिथय एव प्रतिपदाद्याः ध्रुवैव नित्यैव व्यवस्थिता। एतासां वित्तत्वं वक्तुं तत्साधर्म्यमाह स चन्द्रात्मा प्रजापतीरात्रिभिरेव प्रतिपद्राद्याभिरुपचीयमानाभिः शुक्लपक्षे वर्धते कृष्णपक्षे ताभिरेवापचीयमानाभिः कलाभिरपक्षीयते अमावास्यायां ध्रुवैका कला व्यवस्थिता। एवं कलानां वित्तत्वे सिद्धे तदुपचयापचयौ कर्मेत्यभिप्रेत्याह स कलात्मा प्रजापतिरमावास्यां रात्रिं रात्रौ या ध्रुवा कलात्रावस्थितोक्ता एतया षोडश्या कलया सर्वमिदं प्राणिजातं स्थावरजङ्गमात्मकमनुप्रविश्य यदपः पिबति यच्चोषधीरश्नाति तत् सर्वमेवौषध्यात्मना व्याप्यामावास्यां रात्रिमवस्थाय ततोऽपरेद्युः प्रातर्जायते द्वितोयया संयुक्तो भवति एवमसौ प्रजापतिः पाङक्तात्मकः संवृत्तः एवं प्रजापतेः पाङ्क्तकर्मफलत्वमुक्त्वा प्रासङ्गिकमथमाह तस्मादिति प्राणिनं न प्रमापयेत् कृकलासस्यापि सरटस्यापि प्राणं न विच्छिन्द्यात्” भा०। चन्द्रकलानां नामभेदादिकमनुपदं वक्ष्यते। “सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते” “ज्योत्स्नान्तराणीव कलान्तराणि”। “कला च सा कान्तिमती कला(व)भृतः” कुमा०। “कलासमग्रेण गृहानमुञ्चता” “कलादधानः सकलाः स्वभाभिरुद्भासयन् सौधसिताभिराशाः” “निधिरम्भसामुपचयाय कलाः” इति च भाघः कलाधरः कलाभृत् कलानिधिः कलावान्। २ अवयवमात्रे च। “सोमसूर्य्याग्निभेदेन मातृकावर्ण सम्भवाः। अष्टत्रिंशत्कलास्तत्तन्मण्डलेषु व्यवस्थिताः” शा० ति०। “सोममण्डलस्य षोडशकलता सूर्य्यमण्डलस्य द्वादशकलता वह्निमण्डलस्य दशकलतोक्ता” तासां नामानि ध्येयरूपाणि च तत्र दर्शितानि यथा“अमृता मानदा पूषा तुष्टिःपुष्टोरतिर्धृतिः। शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा। पूर्णा पूर्णामृता कामदायिन्यः स्वरजाः कलाः १६। तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः। सुषुम्णा भोगदा विश्वा योधिनी धारिणी क्षमा। कञाद्या वसुदाः सौराः टठान्ता द्वादशेरिताः १२। “धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी। सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि। डादीनां दशवर्णानां कला धर्मप्रदा इमाः” १०। अभयेष्टकराध्येया श्वेतपीतारुणाः क्रमात्”।

तथा अकारोकारमकारनादविन्द्वात्मकप्रणवस्य पञ्चाशत्कलात्मकतामुक्त्वा तन्नामधेयरूपाण्यपि तत्रोक्तानि यथा“तारस्य पञ्चभेदस्य पञ्चाशद्वर्णगाः कलाः। सृष्टिरृद्धिःस्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा। स्थितिः सिद्धिरिति प्रोक्ता कचवर्नकलाः १० क्रमात्। अकाराद्ब्रह्मणोत्पन्नास्तप्तचामीकरप्रभाः। एताः करधृताक्षस्रक्पङ्कजद्वयकुण्डिकाः। जरा च पालिनी शान्तिरैश्वरी रतिकामिके। वरदाह्लादिनी प्रीतिर्द्दीर्घा स्वुष्टतवर्गजाः १०। उकाराद्विष्णुनोत्पन्नास्तमालदलसन्निभाः। अभीतिशङ्ख चक्रेष्टबाहवः परिकीर्त्तिताः। तीक्ष्णा रौद्री भया निद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया। उत्करी मुत्य रेताः स्युः कथिताः पयवर्गजाः १०। रुद्रेण मार्णादुत्पन्नाः शरच्चन्द्रसमप्रभाः। उद्वहन्त्योऽभयं शूलं कपालं बाहुभिर्वरम्। ईश्वरेणोदिता विन्दोःपीताश्वेताऽरुणाऽसिताः ४। अनन्तास्ताःषवर्गस्था जवाकुसुमसन्निभाः। अभयं हरिणं ठङ्कं दधाना बाहुभिर्वरम्। निवृत्तिः सुप्रतिष्ठा स्वाद्विद्या शान्तिरनन्तरम्। इन्धिका दीपिका चैव रेचिका मोचिकापरा। सूक्ष्मा सूक्ष्मामृता ज्ञानामृता चाप्यायिनी तथा। व्यापिनी व्योमरूपा स्युरनन्ताः स्वरसंगताः १६। सदाशिवेन संजातानादादेताः सितत्विषः। अक्षस्रक्पुस्तकगुणकपा लाट्यकराम्बुजाः। न्यासे तु योजयेदादौ षोडश स्वरजाः कलाः। इति पञ्चाशदाख्याताः कलाः सर्वसमृद्धिदाः” कल्यते ज्ञायतेऽनेन। अंशतुल्ये ३ उपाधिभेदे च। “तस्मै स होवाच। इहैवान्तः शरीरे सौम्य! स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति” पश्रोपनिषत्। “तस्मै स होवाच। इहैवान्तः शरीरे हृदयपुण्डरीकाकाशमध्ये हे सौम्य! स पुरुषो न देशान्तरे विज्ञेयो यस्मिन् एता उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्त्युत्पद्यन्त इति षोडशकलाभिरुपाधिरूपाभिः सकल इव निष्कलः पुरुषो लक्ष्यतेऽविद्ययेति” भाष्यम्। “पुरुषस्य षोडशकलत्वं न साक्षात्सावयवत्वेन, किन्तु कलाजनकत्वेन तदुपाधिमत्त्वादिति वक्तुंयस्मिन्नेता इति वाक्यतात्पर्य्यमाह षोडशकलाभिरिति” आनन्द०

यथा च पुरुषस्य वोडशकक्षत्वं तथोक्तं तत्रैव प्रश्नोपनिषदि शङ्कराचार्य्यकृततद्भाष्ये च यथा“स ईक्षाञ्चक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति” उप०। “तदुपाधिकलाध्यारोपापनयनेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते। प्राणादीनामत्यन्तनिर्व्विशेषे ह्यद्वये शुद्धे तत्त्वे शक्यतेऽध्यारोपमन्तरेण प्रतिपाद्यप्रतिपादनादिव्यवहारः कर्त्तुमिति कलानां प्रभवस्थित्यप्यया आरोप्यन्ते अविद्याविषयाश्चैतन्याव्यतिरेकेणैव हि कला जायमानास्तिष्ठन्त्यः प्रलीयमानाश्च सर्व्वदा लक्ष्यन्ते। अत एव भ्रान्ताः केचिदग्निसंयोगाद्घृतमिव घटाद्याकारेण चैतन्यमेव प्रतिक्षणं जायते नश्यतीति तन्निरोधे शून्यमिव सर्व्वमिति। अपरे घटादिविषयं चैतन्यं चेतयितुर्नित्यस्यात्मनोऽनित्यं जायते विनश्यतीति। अपरे चैतन्यंभूतधर्म्म इति लौकायतिकाः। अनपायोपजननधर्म्मकचैतन्यमात्मैव नामरूपाद्युपाधिधर्मैः प्रत्यवभासते। “सत्यं ज्ञानमानन्दं ब्रह्म” “विज्ञानघन एवेत्यादि” श्रुतिभ्यः। स्वरूपाव्यभिचारात् यथा यथा यो यः पदार्थो विज्ञायते तथा तथा ज्ञायमानत्वादेव तस्य तस्य चैतन्यस्याव्यभिचारित्वं वस्तु च भवति किञ्चिन्न ज्ञायत इति चानुपपन्नम्। रूपञ्च दृश्यते न चास्ति चक्षुरिति वत्। व्यभिचरति तु ज्ञानं, ज्ञेयं न व्यभिचरति कदाचिदपि। ज्ञेयाभावेऽपि ज्ञेयान्तरेभावाज्ज्ञानस्य। न हि ज्ञानेऽसति ज्ञेयं नाम भवति कस्यचित्सुषुप्तेऽदर्शनात् ज्ञानस्यापि सुषुप्तेऽभावाज्ज्ञेयाज्ज्ञानस्वरूपस्य व्यभिचार इति चेन्न। ज्ञेयावभासकस्य ज्ञानस्यालोकवज्ज्ञेयाभिव्यञ्जकत्वात् स्वव्यङ्ग्याभावे आलोकाभावानुपपत्तिवत् सुषुप्ने विज्ञानाभावानुपपत्तेः। न ह्यन्धकारे चक्षुषो रूपानुपलब्धौ चक्षुषोऽभावः शक्यः कल्पयितुमवैनाशिकेन। वैनाशिको ज्ञेयाभावे ज्ञानाभावं कल्पयत्येवेति चेत्? येन तदभावं कल्पयेत्तस्याभावः केन कल्प्यत इति वक्तव्यम् वैनाशिकेन। तदभावस्यापि ज्ञेयत्वाज्ज्ञानाभावे ज्ञानाभाव इति चेत्? न, अभावस्यापि ज्ञेयत्वाभ्युपगमादभावोऽपि ज्ञेयोऽभ्युपगम्यते वैनाशिकैः, नित्यञ्च तदव्यतिरिक्तञ्चेज्ज्ञानं नित्यं कल्पितं स्यात्तदभावस्य च ज्ञानात्मकत्वादभावत्वं वाङ्मात्रमेव न परमार्थतोऽभावत्वमनित्यत्वं च ज्ञानस्य। न च नित्यस्य ज्ञानस्याभावो- नाममात्राध्यारोपे किन्नश्छिन्नम्। अथाभावो ज्ञेयोऽपि सन् ज्ञानवदतिरिक्त इति चेन्न तर्हि ज्ञेयाभावे ज्ञानाभावः ज्ञेयं ज्ञानव्यतिरिक्तं न तु ज्ञानं ज्ञेयव्यतिरिक्तमिति चेन्न। शब्दमात्रत्वाद्विशेषानुपपत्तेः। ज्ञेयज्ञानयोरेकत्वञ्चेदभ्युपगम्यते–ज्ञेयं ज्ञानव्यतिरिक्तं न ज्ञेयव्यतिरिक्तं ज्ञानम् ज्ञेयव्यतिरिक्तं नेति तु शब्दमात्रमेव तद्वह्निरग्निव्यतिरिक्तोऽग्निर्न वह्निव्यतिरिक्त इति यद्वदभ्युपगम्य ज्ञेयव्यतिरेके तु ज्ञानस्य ज्ञेयाभावे ज्ञानाभावानुपपत्तिः सिद्धा। ज्ञेयाभावेऽदर्शनादभावो ज्ञानस्येति चेन्न सुष्प्तेरित्यभ्युपगमात्। वैनाशिकैरभ्युपगम्यते हि सुषुप्तेऽपि विज्ञानास्तित्वं, तत्रापि ज्ञेयसत्त्वमभ्युपगम्यते ज्ञानस्य स्वेनैवेति चेन्न भेदस्य सिद्धत्वात्। सिद्धं ह्यभावज्ञेयविषयस्य ज्ञानस्याभावज्ञेयव्यतिरेकाज्ज्ञेयज्ञानयोरन्यत्वम्। न हि तत्सिद्धं मृतमिवोज्जीवयितुं पुनरन्यथा कर्त्तुं शक्यते वैनाशिकशतैरपि ज्ञानस्य ज्ञेयत्वमेवेति। तदप्यन्येन तदप्यन्येनेति त्वत्पक्षेऽतिप्रसङ्ग इति चेन्न तद्विभागोपपत्तेः। सर्वस्य यदा हि सर्वं ज्ञेयं कस्यचित्तदा तद्व्यतिरिक्तं ज्ञानं ज्ञानमेवेति द्वितीयो विभाग एवाभ्युपगम्यतेऽवैनाशिकैः। न तृतीयस्तद्विषय इत्यनवस्थानुपपत्तिः ज्ञानस्य स्वे वाविज्ञेयत्वे सर्वज्ञत्वहानिरिति चेत्? सोऽपि दोषस्तस्यैवास्तु किन्तन्निवर्हणेनास्माकमनवस्थादोषश्च ज्ञानस्य ज्ञयत्वाभ्युपगमादवश्यञ्चैव वैनाशिकानां ज्ञानं ज्ञेयम् स्वात्मना चाविज्ञेयत्वेननवस्थाऽनिवार्य्या। समान एवायं दोष इति चेन्न ज्ञानस्यैकत्वोपपत्तेः। सर्व्वदेशकालपुरुषाद्यवस्थमेकमेव ज्ञानं नामरूपाद्यनेकोपाधिभेदात् सवित्रादिजलादिप्रतिविम्बवदनेकतयावभासत इति। नाऽसौ दोषः। तथा चेदिहेदमुच्यते। ननुश्रुतेरिहैवान्तः शरीरे परिच्छिन्नः कुण्डवदरवत्पुरुष इति, न प्राणादिकलाकारणत्वात्। न हि शरीरमात्रपरिच्छिन्नस्य प्राणस्य श्रद्धादीनां कलानां कारणत्वं प्रतिपत्तुं शक्नुयात्। कलाकार्य्यत्वाच्च शरीरस्य। न हि पुरुषकार्य्याणां कलानां कार्य्यं सच्छरीरं कारणकारणं स्वस्य पुरुषं कुण्डवदरमिवाभ्यन्तरं कुर्य्यात्, वीजवत्स्यादिति चेत्? यथा वीजकार्य्यो वृक्षस्तत्कार्य्यञ्च फलं स्वकारणकारणं वीजमभ्यन्तरीकरोत्याम्रादि तद्वत्पुरुषमभ्यन्तरीकुर्य्यात् शरीरं स्वकारणकारणमपीति चेन्न अन्यत्वात् सावयवत्वाच्च। दृष्टान्ते कारणवीजाद्वृक्षफलसंवृत्तान्यन्यान्येव वीजानि दार्ष्टान्तिके तु स्वकारणकारणभूतः स एव पुरुषः शरीरेऽभ्यन्तरीकृतः श्रूयते। वीजवृक्षादीनां सावयवत्वाच्च स्यादाधाराधेयत्वं निरवयवश्च पुरुषः सावयवाश्च कलाः शरीरञ्च एतेनाकाशस्यापि शरीराधारत्वमनुपपन्नं किमुताकाशकारणस्य पुरुषस्य तस्मादसमानो दृष्टान्तः। किन्दृष्टान्तेन वचनात् स्यादिति चेन्न वचनस्याकारकत्वात्। न हि वचनं वस्तुनोऽन्यथाकरणे व्याप्रियते किन्तर्हि यथाभूतार्थावद्योतने। तस्मादन्तः शरीर इत्येतद्वचनं अण्डस्यान्तर्व्योमेतिवच्च द्रष्टव्यम्। उपलब्धिनिमित्तत्वाच्च। दर्शनश्रवणमननविज्ञानादिलिङ्गैरन्तःशरीरे परिच्छिन्न इव ह्युपलभ्यते चात उच्यते–अन्तःशरीरे सोम्य! स पुरुष इति। न पुनराकाशकारणं सन् कुण्डवदरवच्छरीरपरिच्छिन्न इति मनसापीच्छति वक्तुं मूढोऽपि! किमुत प्रमाणभूता श्रुतिः। यस्मिन्नेताः षोडश कलाः प्रभवन्तीत्युक्तं पुरुषविशेषणाथं कलानां प्रभवः, स चान्योऽर्थोऽपि श्रुतः केन क्रमेण स्यादित्यत इदमुच्यते। चेतनपूर्विका च सृष्टिरित्येवमर्थे च पुरुषः षोडशकलः पृष्टो यो भारद्वाजेन, स ईक्षाञ्चक्रे ईक्षणं दर्शनं चक्रे कृतवानित्यर्थः। सृष्टिफलक्रमादिविषयं कथमित्युच्यते कस्मिन् कर्तृविशेषे देहादुत्क्रान्तो भविष्याम्यहमेव वा कस्मिन्वा शरीरे प्रतिष्ठितेऽहं प्रतिष्ठास्यामि प्रतिष्ठितः स्यामित्यर्थः”।

“स प्राणमसृजत प्राणाच्छ्रद्धां खंवायुर्ज्योतिरापः पृथिवीन्द्रियम्। मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोका लोकेषु च नाम च” उपनि०। “नन्वात्माऽकर्त्ता, प्रधानं कर्तृ, अतः पुरुषाथे प्रयोजनमुररीकृत्य प्रधानं प्रवर्त्तते महदाद्याकारेण, तत्रेदमनुपपन्नं पुरुषस्य स्वातन्त्र्येणेक्षापूर्व्वकं कर्तृत्ववचनं सत्वादिगुणसाम्ये प्रधाने प्रमाणोपपन्ने सृष्टिकर्त्तरि सति ईश्वरेच्छानुवर्त्तिषु परमाणुषु सत्स्वात्मनोऽप्येकत्वेन कर्तृत्वे साधनाभावादात्मन आत्मन्यनर्थकर्तृत्वानुपपत्तेश्च। न हि चेतनावान् बुद्धिपूर्व्वकार्य्यात्मनोऽनर्थं कुर्य्यात्, तस्मात्पुरुषार्थेन प्रयोजनेनेक्षापूर्व्वकमिव नियतक्रमेण प्रवर्त्तमानेऽचेतने प्रधाने चेतनवदुपचारोऽयं–स ईक्षाञ्चक्रे इत्यादिः। यथा राज्ञः सर्वार्थकारिणि भृत्ये राजेति इति चेत्? नात्मनो भोक्तृत्ववत्कर्तृत्वोपपत्तेः। यथा साङ्ख्यस्य चिन्मात्रस्यापरिणामिनोऽप्यात्मनो भोक्तृत्वं तद्वद्वेदवादिनाभीक्षादिपूर्वकं जगत्कर्तृत्वमुपपन्नं श्रुतिप्रामाण्यात्। तत्त्वान्तरपरिणामादात्मनोऽनित्यत्वाशुद्धत्वानेकत्वनिमित्त- चिन्मात्रस्वरूपविक्रियातः पुरुषस्यात्मन्येव भोक्तृत्वे चिन्मात्रस्वरूपविक्रिया न दोषाय। भवतां षुनर्वेदवादिनां सृष्टिकर्तृत्वे तत्त्वान्तरपरिणाम एवेत्यात्मनोऽनित्यत्वादिसर्वदोषप्रसङ्ग इति चेन्न, एकस्याप्यात्मनोऽविद्याविषयनामरूपोपाध्यनुपाधिकृतविशेषाभ्युपगमादविद्याकृतनामरूपोपाधिकृतो हि विशेषोऽभ्युपगम्यते आत्मनोबन्धमोक्षादिशास्त्रकृतसंव्यवहाराद्युपरमार्थं” परमार्थतीऽनुपाधिकृतञ्च तत्त्वमेकमेवाद्वितीयमुपादेयं सर्वतार्किकबुद्ध्यनवगाह्यमभय शिवमिष्यते न तत्र कर्तृत्वं भोक्तृत्वं वा क्रियाकारकफलञ्च स्यादद्वैतत्वात्सर्वभावानाम्। साङ्ख्यास्त्वविद्याध्यारोपितमेव पुरुषे कर्तृत्वं क्रियाकारकं फलञ्चेति कल्पयित्वाऽऽगमबाह्यत्वात्पुनस्ततस्त्रस्यन्तः परमार्थत एव भोक्तृत्वं पुरुषस्येच्छन्ति तत्त्वान्तरञ्च प्रधानं पुरुषात् परमार्थवस्तुभूतमेव कल्पयन्तोऽन्यतार्किकनिराकृतबद्धिविषयाः सन्तो विहन्यन्ते। तथेतरे तार्किकाः साङ्ख्यैरित्येवं परस्परविरुद्धार्थकल्पनात् आमिषाथिन इव प्राणिनोऽन्योन्यं विरुध्यमाना अर्थदर्शित्वात् परमार्थतत्त्वाद्दूरमेवापकृष्यन्तेऽतस्तन्मतमनादृत्य वेदान्तार्थतत्त्वमेकत्वदर्शनं प्रत्यादरवन्तो मुमुक्षवः स्युरिति तार्किकमते दोषदर्शनं किञ्चिदुच्यतेऽस्माभिः न तु तार्किकतात्पर्य्येण तथैतत् अत्रोक्तम्। “विवदन् खेऽवनिक्षिप्य विरोधोद्भवकारणम्। तैः संरक्षितसद्बुद्धिः सुखं निर्व्वाति वेददित्”। किञ्च–भोक्तृत्वकर्तृत्वयोर्विक्रिययोर्विशेषानुपपत्तिः। का नामासौ कर्तृत्वाज्जात्यन्तरभूता भोक्तृत्वविशिष्टा विक्रिया यतो भोक्तैव पुरुषः कल्प्यते न कर्त्ता। प्रधानन्तु कर्त्त्रेव न भोक्त्रिति ननूक्तं पुरुषश्चिन्मात्र एव स्वात्मस्थो विक्रियते भुञ्जानोऽनन्तान्तरपरिणामेन। प्रधानन्तु तत्त्वान्तरपरिणामेन विक्रियतेऽतोऽनेकमशुद्धमचेतनञ्चेत्यादिधर्म्मवत्तद्विपरीतः पुरुषः। नाऽसौ विशेषो वाड्मात्रत्वात्प्राग्भोगोत्पत्तेः। केवलचिन्मात्रस्य पुरुषस्य भोक्तृत्वं नाम विशेषो भोगोत्पत्तिकाले चेज्जायते निवृत्ते च भोगे पुनिषस्तद्वादशेभेतश्चिन्मात्र एव भवतीति चेन्महदाद्याकारेण च परिणम्य प्रधानं ततोऽपेत्य पुनः प्रधानं खरूपेणावतिष्ठत इति अस्यां कल्पनायां न कश्चिद्विशेष इति वाङ्मात्रेण प्रधानपुरुषयोर्विशिष्टविक्रिया कल्प्यते। अथ भोगकालेऽपि चिन्मात्र एव प्राग्वत्पुरुष इति चेत्? न तर्हि परमार्थतो भोगः पुरुषस्य। भोगकाले चिन्मात्रस्य विक्रिया परमार्थैव, तेन भोगः पुरुषस्येति चेन्न प्रधान- स्यापि भोगकालेऽविक्रियत्वाद्भोक्तृत्वप्रसङ्गः। चिन्मात्रस्यैव विक्रियाभोक्तृत्वमिति चेदौष्ण्यादसाधारणधर्म्मवतामग्न्यादोनामभोक्तृत्वे हेत्वनुपपत्तिः। प्रधानपुरुषयोर्युगपद्भोक्तृत्वमिति चेन्न प्रधानस्य पारार्थ्यानुपपत्तेः। न हि भोक्त्रोर्द्वयोरितरेतरगुणप्रधानभाव उपपद्यते प्रकाशयोरिवेतरेतरप्रकाशने। भोगधर्म्मवति सत्वाङ्गिनि चेतसि पुरुषस्य चैतन्यप्रतिविम्बादयोऽविक्रियस्य पुरुषस्य भोक्तृत्वमिति चेन्न पुरुषस्य कस्यापनयनार्थं मोक्षसा धनं शास्त्रं प्रणीयतेऽविद्याध्यारोपितानर्थापनयनाय शास्त्रप्रणयनमिति चेत्? परमार्थतः पुरुषो भोक्तैव न कर्त्ता प्रधानं कर्त्त्रेव न भोक्तृ परमर्थसद्वस्त्वन्तरं पुरुषाच्चेतीयं कल्पनाऽऽगमबाह्या व्यर्था निर्हेतुका च इति नादर्त्तव्या मुमुक्षुभिः। एकत्वेऽपि शास्त्रप्रणयनाद्यानर्थक्यमिति चेन्न अभावात्। न हि शास्त्रप्रणेत्रादिषु तत्फलार्थिषु च शास्त्रस्य प्रणयनमनर्थकं सार्थकञ्चेति कल्पना स्यात्। न ह्यात्मैकत्वे शास्त्रप्रणेत्रादयस्ततोऽभिन्नाः सन्ति तदभावे एवंविकल्पनैवानुपपन्नाः। अभ्युपगते आत्मैकत्वे प्रमाणार्थश्चाभ्युपगतो भवता यदात्मैकत्वमभ्युपगच्छता। तदभ्युपगमे च कल्पनानुपपत्तिमाह शास्त्रम्। “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्?” इत्यादिशास्त्रप्रणयनाद्युपपत्तिञ्चाह। अन्यत्र परमार्थवस्तुस्वरूपादविद्याविषये “यत्र हि द्वैतमिव भवतीत्यादि”। विस्तरतो वाजसनेयके। विभक्ते विद्याऽविद्ये परापरे इत्यादावेव शास्त्रस्यातो न तार्किकवादभटप्रवेशः वेदान्तराजप्रमाणबाहुगुप्ते इहार्त्मकत्वविषय इति। एतेनाविद्याकृतनामरूपाद्युपाधिकृतानेकशक्तिसाधनकृतभेदवत्त्वाद्ब्रह्मणः सृष्ट्यादिकर्तृत्वे साधनाद्यभावो दोषः प्रत्युक्तो वेदितव्यः परैरुक्त आत्मानर्थकर्तृत्वादिदोषश्च। यस्तु दृष्टान्तो राज्ञः सर्वार्थकारिणि कर्त्तृत्वाद्युपचाराद्राजा कर्त्तेति सोऽत्रानुपपन्नः। “स ईक्षाञ्चक्र” इति श्रुतेर्मुख्यार्थबाधनात्प्रमाणभूतायाः तत्र हि गौणी कल्पना। शब्दस्य, यत्र मुख्यार्थो न सम्भवति। इह त्वचेतनस्य मुक्तबद्धपुरुषविशेषापेक्षया कर्तृकर्म्मदेशकालनिमित्तापेक्षया च बन्धमोक्षादिफलार्था नियता पुरुषं प्रति प्रवृत्तिर्नोपपद्यते। यथोक्तसर्वज्ञेश्वरकर्तृत्वपक्षे तूपपन्ना, ईश्वरेणैव सर्वाधिकारी प्राणः पुरुषेण सृज्यते। कथं? स पुरुष उक्तप्रकारेणेक्षित्वा प्राणं १ हिरण्यगर्भाख्यं सर्वप्राणिकरणाधारमन्तरात्मानमसृजत सृष्टवान्, अत्रः प्राणात् श्रद्धां २ सर्वप्राणिनां शुभकर्म्मप्रवृत्तिहेतु- भूताम्। ततः कर्म्मफलोपभोगसाधनाधिष्ठानानि कारणभूतानि महाभूतान्यसृजत। खं ३ शब्दगुणं वायुं ४ स्वेन स्पर्शेन कारणगुणेन च विशिष्टं द्विगुणम्। तथा ज्योतिः ५ स्वेन रूपेण पूर्व्वाभ्याञ्च शब्दस्पर्शाभ्याम् विशिष्टं त्रिगुणं तथाऽऽपो ६ रसेन गुणेनासाधारणेन पूर्व्वगुणानुप्रवेशेन चतुर्गुणाः। तथा गन्धेन पूर्बगुणानुप्रवेशेन पञ्चगुणा पृथिवी ७। तथा तैरेव भूतैरारब्धमिन्द्रियं ८ द्विप्रकारं बुद्ध्यर्थं कर्म्मार्थञ्च दशसङ्ख्यम्। तस्य चेश्वरमन्तःस्थं संशयसङ्कल्पादिलक्षणं मनः ९। एवं प्राणिनां कार्य्यं करणञ्च सृष्ट्वा तत्स्थित्यर्थं व्रीहियवादिलक्षणमन्नम् १०। ततश्चान्नादद्यमानाद्वीर्य्यं ११ सामर्थ्यं बलं सर्वकर्म्मप्रवृत्तिसाधनम्। तद्वीर्य्यवताञ्च प्राणिनां तपः १२ विशुद्धिसाधनं सङ्कीर्य्यमाणानां, मन्त्रा १३ स्तपोविशुद्धान्तर्वहिःकरणेभ्यः कर्मसाधनमेता ऋग्यजुःसामाथर्वाङ्गिरसः। ततः कर्म्म १४ अग्निहोत्रादिलक्षणम्। ततो लोकाः १५ कर्म्मणां फलम्। तेषु च सृष्टानां प्राणिनां नाम १६ च देवदत्तो यज्ञदत्तैत्यादि। एवमेताः कलाः प्राणिनामविद्यादिदोषवीजापेक्षया सृष्टास्तैमिरिकदृष्टिसृष्टा इव द्विचन्द्रमशकमक्षिकाद्याः स्वप्नदृक्सृष्टा इव च सर्वे पदार्थाः पुनस्तस्मिन्नेव पुरुषे प्रलीयन्ते हित्वा नामरूपादिविभागम्” भा०। “स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते। एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते, स एषोऽकलोऽमृतो भवति, तदेष श्लोकः”

“कथं स दृष्टान्तः? यथा लोके इमा नद्यः स्यन्दमानाः स्रवन्त्यः समुद्रायणाः समुद्रोऽयनं गतिरात्मभावो यासां ताः समुद्रायणाः समुद्रं प्राप्योपगम्यास्तं नामरूपतिरस्कारं गच्छन्ति। तासाञ्चास्तं गतानां भिद्येते विनश्येते नामरूपे गङ्गायमुनेत्यादिलक्षणे। तद्भेदे समुद्र इत्येवं प्रोच्यते तद्वस्तूदकलक्षणमेव, यथाऽयं दृष्टान्तः। उक्तलक्षणस्य प्रकृतस्य पुरुषस्यपरिद्रष्टुः परि समन्ताद्द्रष्टुर्दर्शनस्य कर्त्तुः स्वरूपभूतस्य। यथार्कः स्वात्मप्रकाशस्य कर्त्ता तद्वद्, इमा षोडश कलाः प्राणाद्याः उक्ताः कलाः पुरुषायणा नदीनामिव समुद्रः पुरुषोऽयनमात्मभावगमनं यासां कलानां ताः पुरुषायणाः पुरुषं प्राप्य पुरुषात्मभावमुपगम्य तथैवास्तं गच्छन्ति। भिद्येते तासां नामरूपे कलानां प्राणाद्याख्या रूपञ्च। यथास्वभेदे च नामरूपयोर्यदनष्टं तत्त्वं पुरुष इत्येव प्रोच्यते ब्रह्मविद्भिः। य एवं विद्वान् गुरुणा प्रदर्शितकलप्रलयमार्गः स एष विद्यया प्रविलापितास्वविद्याकामकर्म्मजनितासु प्राणादिकलास्वकलोऽविद्याकृतकलानिमित्तो हि मृत्युस्तदपगमेऽकलत्वादेवामृतो भवति। तदेतस्मिन्नर्थे एष श्लोकः” भा०। “अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः। तं वेद्यं पुरुषं वेद यथा भा वो मृत्युः परिव्यथ” उप०। “अरा रथचक्रपरिकरा इव रथनाभौ रथचक्रस्य नाभौ यथा प्रवेशितास्तदाश्रया भवन्ति यथा तथेत्यर्थः। कलाः प्राणाद्या यस्मिन् पुरुषे प्रतिष्ठिता उत्पत्तिस्थितिलयकालेषु तं पुरुषं कलानामात्मभूतं वेद्यं वेदनीयं पूर्ण्णत्वात् पुरुषं पुरि शयनाद्वा वेद जानीयात्। यथा हे शिष्या वो युष्मान्मृत्युर्मा परिव्यथा मा परिव्यथयतु। व्यथामापन्ना दुःखिन एव यूयं स्थ अतस्तन्मा भूद् युष्माकमित्यभिप्रायः” भा०।

तथा च प्राणः १ श्रद्धा २ व्योम ३ वायुः ४ तेजः ५ जलं ६ पृथिवी ७ इन्द्रियं ८ मनः ९ अन्नम् १० वीर्य्यम् ११ तपः १२ मन्त्राः १३ कर्म १४ लोकः १५। नाम १६ इत्येता प्राणादिनामान्ताः षोडश कलाः पुरुषस्य उपाधय इति स्थितम्। “गताः कलाः पञ्चदश प्रतिष्ठाम्” श्रुतिः ३ अंशमात्रे च “प्राची दिक् कला दक्षिणा दिक् कलोदीचीदिक्कलैष सौम्य! चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम स य एतमेवं विद्वांश्चतुषकलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मि~ल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एत मेवंविद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते” “पृथिवी कलाऽन्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सौम्य! चतुष्कलः पादोब्रह्मणोऽनन्तवान्नाम। स य एतमेवंविद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मि~ल्लोके भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवंविद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते”। “अग्निः कला सूर्य्यः कला चन्द्रः कला विद्युत्कलैष वै सौम्य! चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम स य एतमेवंविद्वांश्चतुष्कलं पादं ब्रह्मणोज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिल्लो~के भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवंविद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते”। “प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सौम्य! चतु- ष्कलः पादोब्रह्मण आयतनवान्नाम स य एतमेव “विद्वां श्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते आयतनवानस्मिल्लो~के भवत्यायतनवतो लोकाञ्जयति य एतमेवंविद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते”। अवतारशब्दे भूरि उदाहरणम् दृश्यम्। पलद्वयात्मके ४ कालांशभेदे स च सि० शि० दर्शितोयथा“योऽक्ष्णोर्निमेषस्य खराम ३० भागः स तत्परस्तच्छतभाग उक्ता। त्रुटिर्निमेषैर्धृतिभि १८ श्च काष्ठा तत्त्रिंशता सद्गणकैः कलोक्ता। त्रिं शत्कलाऽऽर्क्षी घटिका क्षणः स्यान्नाडीद्वयं तैः खगुणै ३० र्दिनं च। गुर्वक्षरैः खेन्दुमितै १० रसुस्तैः षडिभः पलं तैर्घटिका खषड्भिः ६०। स्याद्वा घटीषष्टिरहखरामै ३० र्मासो दिनैस्तैर्द्विकुभि १२ श्च वर्षम्। क्षेत्रे समाद्येन समा विभागाः स्युश्चक्रराश्यंशकलाविलिप्ताः” शि०। “योऽक्ष्णोर्लोचनयोः पक्ष्मपातः स निमेषः। स यावता कालेन निष्पद्यते तावान् कालोऽपि निमेषशब्देनोच्यते उपचारात्। तस्य त्रिंशद्विभागस्तत्परसंज्ञः तत्परस्य शतांशस्त्रुटिरिति। अथ च निमेषैरष्टादशभिः काष्ठा। क्वचिच्छास्त्रान्तरे तिथिभिरिति पाठः। काष्ठात्रिंशता कलोक्ता। कलानां त्रिंशता घटिका। साचाक्षीं भभ्रमस्य षष्टिभाग इत्यर्थः। घटिकाद्वयेन क्षणो मुहूर्त्तः। क्षणानां त्रिंशता दिनम्। अथ प्रकारान्तरेण दिनमुच्यते। गुर्वक्षरैः खेन्दुमितैः १० असुरिति। एकमात्रोलघुः द्विमात्रो गुरुः। तथा “सानुस्वारी विसर्गान्तो दीर्घोयुक्तपरस्तु यः” इति छन्दोलक्षणे प्रतिपादितम् यदक्षरं सानुस्वारं विसर्गान्तं दीर्घं यस्याक्षरस्य परतः संयोगस्तल्लघ्वपि गुरुसंज्ञं ज्ञेयम्। गुर्वक्षरस्योच्चार्य्यमाणस्य यावान् कालस्तद्दशकेनैकोऽसुः प्राणः। प्रशस्तेन्द्रियपुरुषस्य श्वासोच्छ्वासान्तर्वर्त्ती कालैत्यर्थः। षड्भिः प्राणैरेकं पानीयपलम्। पलानां षष्ट्या धटी। घटीनां षष्ट्या दिनम्। त्रिंशद्दिनैरेकोमासः। मासैर्द्वादशभिर्वर्षमिति कालस्य विभागो दर्शितः” प्रमि०। “अह्नोऽस्तमयवेलायां कलामात्राऽपि या तिथिः” कालमा० व्यासः। “प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी” पठन्ति। “स च त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला एकैकस्मिन् धाताववतिष्ठते” इति सुश्रु०। “अष्टादश सहस्राणि संख्या चास्मिन् समुच्चये। कलानां नवतिः प्रोक्ता” सुश्रु०। “विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते। तत्त्रिंशता भवेद्राशिर्भगणोद्वादशैव ते” सू० सि०। उक्ते राशिचक्रस्य २१६००० मिते भागे च “क्षेत्रे समाद्येन समा विभागा इत्यादि” शि० क्षेत्रे कक्षायां समाद्येन वर्षाद्येन समास्तुल्याः क्षेत्रविभागा ज्ञेयाः। ते के। चक्रराश्यंशकलाविलिप्ताः। यथैकस्य वर्षस्व मासदिनादयो विभागा एवं भगणस्य राश्यंशादयः” प्रमि०। सि० शि० उक्ते दिनमानज्ञानोपयोगिनि दिनज्यागुणिते व्यासार्द्धभक्ते सूत्रात्मके ६ पदार्थे च यथा– “उक्ता प्रभाभिमतदिङ्नियमेन तावत् तामेव कालनियमेन च वचिम् भूयः। स्यादुन्नतं द्युगतशेषकयोर्यंदल्पं तेनोनितं दिनदलं नतसंज्ञकं च। अथोन्नतादूनयुताच्चरेण क्रमादुदग्दहिणगोलयोर्ज्या। स्यात् सूत्रमेतद्गुणितं द्युमौर्व्या व्यासार्धभक्तं च कलाभिधानम्” शि० “दिवसस्य यद्गतं यच्च शेषं तयोर्यदल्पं तदुन्नतसंज्ञं ज्ञेयं तेनोन्नतेनोनीकृतं दिनदलप्रमाणं तन्नतसंज्ञं भवति। अथोन्नतादुन्नतकालादुत्तरगोले चरेणोनितात्दक्षिणे युताद्या ज्या तत् सूत्रम् सा सूत्रसंज्ञेत्यर्थः। तत् सूत्रं द्युज्यया गुणितं त्रिज्यया भक्तं कलासज्ञं भवति। अत्रोपपत्तिः। यस्मिन् काले छाया साध्या तस्मिन् काले स्वाहोरात्रवृत्ते यावतीभिर्घटिकाभिः क्षितिजादुन्नतो रविस्तासामुन्नतसंज्ञा। येन कालेन मध्याह्नान्नतस्तस्य नतसं ज्ञा। अथ चरेण मध्याह्नान्नतयुतस्योन्नतकालस्य किल ज्या साध्या सा च ज्यामध्यावधिर्भवति। स च मध्यप्रदेशोऽहोरात्रवृत्तस्योन्मण्डलसंपाते भवति। यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्यार्धमधोऽर्धम्। अत उन्मण्डलावधिर्जीवा साध्या। क्षितिजोन्मण्डलयोरन्तरं चरार्धम्। अतश्चरार्धेन वर्जितादुन्नतादुत्तरगोले, दक्षिणे तु युतात्। यत उत्तरगोले क्षितिजादुपर्युन्मण्डलम्” दक्षिणेऽधः। तस्मात् कालाद् या ज्या साधिता सा त्रिज्यावृत्तपरिणता। सा च सूत्रसंज्ञा। अथ यदि त्रिज्यावृत्ते एतावती, तदा द्युज्यावृत्ते कियतीत्यनुपातेन द्युज्यावृत्तपरिणता। सा च कलासंज्ञा। इदानीं प्रकारान्तरेण कला तस्याश्चेष्टयष्टिमाह” प्रमि०। “सूत्रं कुजीवागुणितं विभक्तं चरज्यया स्यादथवा कला सा। कला पलक्षेत्रजकोटिनिघ्नी तत्कर्णभक्ता भवतींष्टयष्टिः” शि०। “अथवा तत् सूत्रं कुज्यया गुणितं चरज्यया मक्तं सत् कला मवति। सा कलाष्टधा पलक्षेत्रकोटिभिर्गुण्या स्वस्वकर्णेन भाज्या फलमष्टधेष्टयष्टिर्भवति। अत्रोपपत्तिः। अत्र चरज्याकुज्ये त्रिज्याद्युज्यापरिणते। अतस्ताभ्यां चानुपातः। यदि चरज्यया कुज्या लभ्यते तदा सूत्रेण किमिति। फलं कला। सा कलाऽहोरात्रवृत्ते ज्या। सा पलवशादक्षकर्णवत् तिरश्चींनां जाता। अथ तस्याः कोटिसूत्रमात्रमानेयम्। तत्रानुपातः। यदि पलक्षेत्रकर्णेन तत्कोटिर्लभ्यते तदा कलाकर्णेन किमिति। फलमुन्मण्डलशङ्कृग्रसमसूत्रादुपर्यर्कबिम्बादध ऊर्ध्वं कोटिरूपं भवति। तस्येष्टयष्टिसंज्ञा” प्रमि०। “स्नायुभिश्च प्रतिच्छन्नान् सन्ततांश्च जरायुणा। श्लेष्मणा वेष्टिताश्चापि कलाभागांस्तु तान् विदुः। धात्वाशयान्तरे धातोर्यःक्लेदस्त्वधितिष्ठति। देहोष्मणाभिपक्वश्च सा कलेत्यभिधीयते” भावप्र० उक्ते देहस्थे धात्वाशयान्तरस्थे ७ धातुक्लेदभेदे तद्भेदाश्च तत्रैवोक्ताः। “आद्या मांसधरा प्रोक्ता द्वितीया रक्तधारिणी। मेदोधरा तृतीया तु चतुर्थी श्लेष्मधारिणी। पञ्चमी च मलं धत्ते षष्ठी पित्तधरा मता। रेतोधरा सप्तमी स्यादिति सप्त कलाः स्मृताः” ८ एकमात्रात्मकलघुवर्ण्णे “षड्विषमेऽष्टौ समे कलास्ताश्च समेऽस्युर्नो निरन्तराः। न समात्र पराश्रिता कला” “सर्वगुर्वन्तमध्यादिगुरवोऽत्र चतुष्कलाः। ज्ञयाश्चतुर्लघूपेता पञ्चार्य्यादिषु संस्थिताः” इति च वृत्तर० “ऋणप्रयोगे मूलधनादधिके आयत्वेनाधमर्ण्णेन उत्तमर्णाय दीयमाने ९ वृद्धिरूपे (सुद) पदार्थे मेदि०। “मासे शतस्य यदि पञ्च कलान्तरं स्यात्” लीला० १० स्त्रीरजसि ११ नौकायां १२ कपटे च विश्वः। १३ गीतादिविद्याभेदे सा च चतुःषष्टि ६४ विधा शैवतन्त्रोक्ता यथा–१ गीतम् २ वाद्यम् ३ नृत्यम् ४ नाट्यम्। ५ आलेख्यम् ६ विशोषकच्छेद्यम् ७ तण्डुलकुसुमयलिविकाराः ८ पुष्पास्तरणम् ९ दशनवसनाङ्गरागाः १० मणिभूमिकाकर्म ११ शयनरचनम् १२ उदकवाद्यम् १३ उदकघातः १४ चित्रायोगाः १५ माल्यग्रथनविकल्पाः १६ केशशेखरापीडयोजनम् १७ नेपथ्ययोगाः १८ कर्णपत्रभङ्गाः १९ गन्धयुक्तिः २० भूषणयोजनम् २१ इन्द्रजालम् २२ कौचुमारयोगाः २३ हस्तलाघवम् २४ चित्रशाकापूपभक्ष्यविकारक्रिया २५ पानकरसरागासवयोजनम् २६ सूचीवापकर्म २७ वीणाडमरुकसूत्रक्रीडा २८ प्रहेलिका २९ प्रतिमा ३० दुर्वचकयोगाः ३१ पुस्तकवाचनम् ३२ नाटिकाख्यायिकादर्शनम् ३३ काव्यसमस्यापूरणम् ३४ पट्टिकावेत्रवाणविकल्पाः ३५ तर्कूकर्माणि ३६ तक्षणम् ३७ वास्तुविद्या ३८ रूप्यरत्नपरीक्षा ३९ धातुवादः ४० मणिरागज्ञानम् ४१ आकरज्ञानम् ४२ वृक्षायुर्वेदयोगाः ४३ मेषकुक्कुटलावकयुद्धविधिं ४४ शुकसारिकाप्रलापनम् ४५ उत्सादनम् ४६ केशमार्जनकौशलम् ४७ अक्षरमुष्टिकाकथनम् ४८ म्लेच्छितक विकल्पाः ४९ देशभाषाज्ञानम् ५० पुष्प शकटिकानिमित्तज्ञानम् ५१ (अत्र निमित्तज्ञानमिति पृथक् केचित् पठन्ति)। यन्त्रमातृका ५२ धारणमातृका ५३ सम्पाट्यम् ५४ मानसी काव्यक्रिया ५५ क्रियाविकल्पाः ५६ छलितकयोगाः ५७ अभिधानकोषच्छन्दोज्ञानम्। ५८ वस्त्रगोपनानि ५९ द्यूतविशेषः ६० आकर्षणक्रीडा ६१ बालकक्रीडनकानि ६२ वैनायिकीनां विद्यानां ज्ञानम् ६३ वैजयिकीनां विद्यानां ज्ञानम् ६४ वैतालिकीनां विद्यानां ज्ञानम् इति भाग० ९४५ अ० २८ श्लो० टीकायां श्रीधरलिखिताः। क्वचित् पुस्तके सूचीवापकर्म्मसूत्रक्रीडेत्येकं पदम् तदुत्तरं वीणाडमरुकवाद्यानीति। वैतालिकीनामित्यत्र वैयासिकीनामिति च पाठो दृश्यते। “अहोरात्रैश्चतुःषष्ट्या संयतौ तावतीः कलाः” भाग० १०, ४५, २८। “चतुःषष्ट्यङ्गमददत् कलाज्ञानं ममाद्भुतम्” भा० अनु० १८ अ०। “अधिगत कलाकलापकम्” कांद०। “चतुःषष्टिकलाविद्या ईश्वरीप्रीतिवर्द्धनम्” गायत्रीकवचम्।

कलाकुल = न० कलया मात्रयापि आकुलयति आकुलि– नामधा० अच्। हलाहलविषे राजनि०।

कलाकेलि = पु० कलेव केलिरस्य। कामदेवे त्रिका०।

कलाङ्कुर = पुंस्त्री कलस्याङ्कुरो यत्र। १ सारसपक्षिणि त्रिका० जातित्वात् स्त्रियां ङीष्। कलानामङ्कुरो यत्र। २ स्तेयशास्त्रप्रवर्त्तके मूलदेवे कर्ण्णीसुते त्रिका०। मूलदेवस्य स्तेयरूपशिल्पप्रवर्त्तकत्वात् कलाङ्कुरत्वम्। कंसासुरे इति शब्दकल्पद्रुमोक्तिश्चिन्त्या कर्ण्णीसुतशब्दे विवृतिः।

कलाङ्गला = स्त्री “सतोमराङ्कुशा राजन्! सशतघ्नीकलाङ्गलेति” भा० व० १५ अ० १६ श्लोके तादृशशब्दं कल्पयन् वोथलिङ् बुधो भ्रान्तः। तत्र शतघ्न्या सहितं सशतघ्नीकं “नद्यृतः कप्” पा० कप्। तादृशं लाङ्गलं यत्र सशतघ्नीकलाङ्गला इत्यर्थकतया न तस्य कलाङ्गलशब्दघटितत्वमिति बोध्यम्।

कलाची = स्त्री कलामचति गच्छति अच–गतौ अण् उप० समा० गौरा० ङीष् पा० मुग्धबो० षण् षित्त्वात् ईप्। इतिभेदः। प्रकोष्ठे कफोणेरधःस्थे मणिबन्धपर्य्यन्तहस्तावयबे। स्वार्थे कन्। कलाचिकाप्यत्र हेमच०।

कलाटीन = पुंस्त्री कलेनाटनम् आटः कलाटस्तत्र साधुः ख। कर्काङ्गे पक्षिभेदे हारा० जातित्वात् स्त्रियां ङीष्।

कलाजाजी = स्त्री कलायै जायते जन–ड तथा सतों आजायते जन–ड गौरा० ङीष्। (कलौञ्जा) (मङ्ग्रैला) पाश्चात्त्यभाषाप्रसिद्धे वृक्षभेदे शब्दचि०।

कलाद = पु० कलामंशमादत्ते आ–दा–क। स्वर्णकारे अमरः अलङ्कारगठनार्थं गृहीतधनस्यांशहरणात्तस्य तथात्वम्

कलादक = पु० कलामत्ति अद–ण्वुल् ६ त०। स्वर्णकारे शब्दच० गठनार्थं दत्तद्रव्यांशस्य भोजित्वात्तस्य तथात्वम्।

कलाधर = पु० कलाः धरति धृ–अच् ६ त०। १ चन्द्रे। २ चतुःषष्टिकलाधारकमात्रे त्रि०।

कलानिधि = क० कलानिधीयतेऽस्मिन् नि + धा–आधारे कि उपप० स०। चन्द्रे अमरः। “अहो महत्त्वं महतामपूर्व्वं विपत्तिकालेऽपि परोपकारः। यथाऽऽस्यमध्ये पतितोऽपि राहोः” “कलानिधिः पुण्यचयं ददाति” उद्भटः।

कलानुनादिन् = पु० कलमनुनदति अनु + नद–णिनि ६ त०। १ भ्रमरे २ चटके ३ कपिञ्जले ४ चातके च जातित्वात् स्त्रीत्वमपि तत्र नान्तत्वात् ङीष्।

कलान्तर = पु० अन्या कला अंशः मयू० स०। वृद्धिभेदे “मासे शतस्य यदि पञ्च कलान्तरं स्यादिति” लोलावती, २ अन्यस्यां चन्द्र कलायाञ्च, “ज्योत्स्नान्तराणीव कलान्तराणि” कुमा०।

कलान्यास = पु० कलानां न्यासः। तन्त्रोक्ते न्यासभेदे कलाश्च कलाशब्दे दर्शिताः शारदातिलकोक्तरीत्या तासां पूजाङ्गतया न्यासः। देहे कलाविशेषस्य न्यासश्च यथातन्त्रसारे “शिष्यशरीरे कलान्यासंकुर्य्यात्। तद्यथा ईशत्रयेण पादतलाज्जानुपर्य्यन्तम् ओं निवृत्त्यै नमः। जानुयनोनाभिपर्यन्तम् ओं प्रतिष्ठायै नमः। नाभेराकण्ठम् ओं विद्यायै नमः कण्ठादाललाटम् ओं शान्त्यै नमः ललाटाद्ब्रह्मरन्धपर्य्यन्तम् ओं शान्त्यतीतायैनमः। पुनर्ब्रह्मरन्ध्रादाललाटम् ओं शान्त्थतीतायै नमः ललाटादाकण्ठम् ओं शान्त्यै नमः। कण्ठान्नाभिपर्य्यन्तम् ओं विद्यायै नमः नाभेर्ज्जानुपर्य्यन्तम् ओं प्रतिष्ठायै नमः जानुनः पादपर्य्यन्तम् ओं निवृत्त्यैनमः।

कलाप = पु० कलां मात्रामाप्नोति आप्–अण्। १ समूहे, २ मयूरपिच्छे, ३ भूषणे, ४ काञ्च्याम्, ५ चन्द्रे, मेदिनि० तत्र समूहे “मुक्ताकलापीकृतसिन्धुवारम्” कुमा०। “अधिगतकला- कलापकम्” वर्हे आलम्बिभिश्चन्द्रकिणः कलापैः”। “दृष्ट्वेव निर्ज्जितकलापभरामधस्तात् व्याकीर्ण्णमाल्यकवरां कवरीं तरुण्याः” माघः। भूषणे “मुक्ताकलापस्य च निस्तलस्य” कुमा० “मुक्ताकलापस्य मुक्ताभूषणस्य” मल्लि०। काञ्च्याम् “रशनाकलापगुणेन बधूः” माघः। ६ तूणे तूणश्च शरपूर्ण्णः चर्म्ममयः भस्त्रारूपः यथाह “कलापिनः” कात्या० २२, ३, १८, व्या० “कलापशब्देन शरसूर्ण्णा चर्म्ममयी भस्त्रोच्यते” कर्कः। “कलापी चषालः” आश्व० श्रौ० ९, ७, १८, “सा मेधी अग्रप्रदेशे धान्यपूलैर्बद्धा तिष्ठति स एव चषाली भवति” नारा० वृत्त्युक्तेः धान्यपूलानां शरतुल्यत्वारोपेण बहुशरवत्त्वगुणयोगात्तूणवत्त्वम् इति तथा च गौण्या चषालस्य कलापित्वम्। ७ शरे “कलापिनौ धनुष्पाणी शोभमानौ दिशोदश” रामा० १, २२, ७, अत्रार्थे क्लीवत्वमपि “परीप्समानः पार्थानां कलापानि धनूंषि च” भा० व० १५७ अ०। ८ धनुषि। “हारिद्रवर्ण्णा ये त्वेते हेमपुङ्खाः शिलाशिताः (शराः)। नकुलस्यकलापोऽयं पञ्चशार्दूललक्षणः। “येनासौ व्यजयत् कृत्स्नां प्रतीचीं दिशमाहवे” भा० वि० ६५ अ० नकुलास्त्रकथने। ९ अर्द्धचन्द्राकारास्त्रभेदे च “खड्गांश्च दीप्तान् दीर्घांश्च कलापांश्च महाधनान्। विपाठान् क्षुरधारांश्च धनुर्भिर्निदधुः सह” भा० वि० ५ अ०। कलापः कार्त्तिकेयमयूरपिच्छः उत्पत्तिस्थानत्वेनास्त्यस्य अच्। १० व्याकरणभेदे कार्त्तिकेयमयूरपिच्छयोनित्वात्तस्य तथात्वम्। “अधुना स्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति। तद्वाहनकलापस्य नाम्ना कालापकं तथा” वृहत्कथा सारः। ११ ग्रामभेदे। “देवापिर्योगमास्थाय कलापग्राममास्थितः। सोमवंशे कलौ नष्टे कृतादौ स्थापयि ष्यति” भाग० ९, १२, १३, “सुदर्शनोऽथाग्निवर्ण्णः शीघ्रस्तस्य मरुः सुतः। योऽसावास्ते योगसिद्धः कलापग्राममास्थितः। कलेरन्ते सूर्य्यवंशं नष्टं भावयिता पुनः” भाग० ९, १२, ५, “सत्यभामा तथैवान्या देव्यः कृष्णस्य सम्मताः। वनं प्रविविशूराजंस्तपसे कृतनिश्चयाः। फलमूलादि भोजिन्यो हरिध्यानैकतत्पराः। हिमवन्तमतिक्रम्य कलापग्राममाविशन्” भा० मौ० ७ अ०। तेनास्य हिमचदुत्तरपार्श्वे सन्निवेश इति गम्यते। चन्द्रे तु कलामाप्नोति आप–अण् कलां पाति पा–क वा व्युत्पत्तिः। तस्य कलापतित्वात् कलाधारत्वाच्च तथात्वम् १४ विदग्धे त्रि० मेदि० विविधकलाधरत्वात्तस्य तथात्वम्।

कलापक = पु० कलाप + स्वार्थे कन्। १ कलापार्थे, २ हस्तिस्कन्धबन्धे, हेमच० एकवाक्यतापन्ने ३ श्लोकचतुष्के न०। “छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तकम्। द्वाभ्यां युग्मञ्च सन्दानितकं त्रिभिरिहेष्यते। कलापकं चतुर्भैश्च पञ्चभिः कुलकं मतम्” सा० द० उक्तेः किराते उदा०। “लोकं विधात्रा विहितस्य गोप्तुं क्षत्रस्य मुष्णन् वसु जैत्रमोजः। तेजस्विताया विजयैकवृत्तेर्निघ्नन् प्रियं प्राणमिवाभिमानम् १। व्रीडानतैराप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः। वितानभूतं विततं पृथिव्यां यशः समूहन्निव दिग्विकीर्णम् २। वीर्य्यावदानेषु कृतावमर्षस्तन्वन्नभूतामिव सम्प्रतीतिम्। कुर्वन् प्रयासक्षयमायतीनामर्कत्विषामह्न इवावशेषः ३। प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्त्तुंन शक्यः किमुताधिकर्त्तुम्। नवीकरिष्यत्युपशुष्यदार्द्रः स त्वद्विना मे हृदयं निकारः ४”। कलापिनोमयूरायस्मिन् काले सोऽपि कालः कलापी उपचारात् तस्मिन् काले देयमृणम् “कलाप्यश्वत्थयवबुसाद्वुन्” पा० वुन्। कलापक २ तत्काले देये ऋणे न० सि० कौ०।

कलापद्वीप = पु० कलापो ग्रामो द्वीप इव वृहत्त्वात्। कलापग्रामे स च ग्रामः हिमवन्तमतिक्रम्य उत्तरत्र वर्त्तमानः कलापशब्दे दर्शितः। “अग्निवर्णसुतः शोघ्रः शीघ्रस्य तु मरुः सुतः। मरुस्तु योगमास्थाय कलापद्वीपमास्थितः” हरिवं० १५ अ०। अस्यैव कलापग्रामत्वेन भाग० ९, १२, उक्तिः तच्च वाक्यं कलापशब्दे दर्शितम्।

कलापिन् = पु० कलापोवर्होऽस्यास्ति इनि। १ मयूरे तद्वर्हतुल्यशाखावति २ वटवृक्षे मेदि०। थाप–णिनि कलस्यापी ६ त०। ३ कोकिले। “ध्वनिहृष्टकूजितकलाः कलापिनः” माघः। “कलापिनामुद्धतनृत्यहेतौ” रघुः। ४ कलापशब्दार्थवति त्रि० कलापशब्दे रामायणादिवाक्यमुदाहृतम्। स्त्रियां ङीप्। ४ वैशम्पायनान्तिवासिभेदे पु० तदन्तेवासिनश्च आलम्बः लङ्गः कमलः ऋचामरुणि ताण्ड्यः श्यामायनः कठः कलापीति कलापिनोऽन्तेवासिनश्च हरिद्रुश्छगली तुम्बुरुरुलपश्चेति चत्वारः” मनो०। “कलापिवैशम्पायनान्तेवासिभ्यः” पा० तेन प्रोक्तमधीयते णिनि। कलापिनस्तत्प्रोक्ताध्येतृषु ब० व०।

कलापिनी = स्त्री कलापश्चन्द्रोऽस्त्यस्याम् इनि। १ रात्रौ राजनि० कलापतुल्याकारवत्त्वीः २ नागरमुस्तायां राजनि०।

कलापूर्ण्ण = पु० कलाभिः पूर्णः। १ चन्द्रे शब्दचन्द्रिका। २ कलाभिः पूर्णेत्रि०। “सदा भवान् फाल्गुनस्य गुणैरस्मान् विकत्थते। न चार्ज्जुनः कलापूर्ण्णः मम दुर्योधनस्य च” भा० वि० ३९ अ०।

कलाभृत् = कलां बिभर्त्ति भृ–क्विप् ६ त०। कलाधारके चन्द्रे हेम० “कला च सा कान्तिमती कलाभृ(व)तः” कुमा०। २ शिल्पादिधारके त्रि०। “दशाव्दाख्यं पौरसख्यं पञ्चाव्दाख्यं कलाभृताम्” मनुः।

कलाय = पु० कलामयते अय–अण्। (मटर) १ शमीधान्यभेदे। “कलायोमधुरः स्वादुः पाके रूक्षश्च शीतलः। कपायो वातलोग्राही कफपित्तहरो लघुः” भावप्र० तद्गुणाः। “कलायपरिमण्डलमुभयतोमुकुलाग्रम्” सुश्रु०। “विकसत्कलायकुसुमासितद्यते!” माघः २ गण्डदूर्व्वायां स्त्री।

कलायन = कलानामयनं यत्र। नर्त्तकमात्रे शब्दच०

कलालाप = पुंस्त्री कलमालपति आ + लप–अण् उप० स०। १ भ्रमरे। राजनि०। स्त्रियां जातित्वात् ङीष्। ६ त० २ कलस्यालापे पु०

कलावत् = पु० कला अमृतादिकाः सन्त्यत्र मतुप् मस्य वः। १ चन्द्रे “कला च कान्तिमती कलाव(भृ)तः” कुमा० २ गीतादिकलायुक्तमात्रे २ अंशवति च त्रि० स्त्रियां ङीप्

कलावती = स्त्री शा० ति० ४ पटलोक्ते दीक्षाभेदे। स च “अथ दीक्षां प्रवक्ष्यामि मन्त्रिणां हितकाम्यया। विवाऽनया न लभ्येत सर्व्वमन्त्रफलं ततः। ज्ञानं दिव्यं यतोदद्यात् कुर्य्यात् पापक्षयं यतः। तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तन्त्रवेदिभिः। चतुर्विधा सा सन्दिष्टा क्रियावत्यादिभेदतः। क्रियावती वर्ण्णमयो कलात्मा वेधवत्यपि। ताः क्रमेणैव कथ्यन्ते तन्त्रेऽस्मिन् सम्पदावहाः” इत्युपक्रम्य दर्शिता। तत्र कलात्मा कलाशब्ददर्शितशारदातिलकोक्तपञ्चाशत्कलावतीत्यर्थः। कलात्माप्यत्र।

कलाविक = पुंस्त्री कलेन सम्यक् विकायति विशेषेण शब्दायते आ + वि + कै–क ३ त०। कुक्कुटे त्रिका० तस्य रात्रिशेषे विशेषेण शब्दायमानत्वात् तथात्वम्। स्त्रियां जातित्वात् ङीष्।

कलाविकल = पुंस्त्री कलेनाविकलः। चटके शब्दर० स्त्रियां जातित्वात् ङीष्।

कलाहक = पु० कलमाहन्ति आ + हन् क्विप् संज्ञायां कन्। काहलवाद्ये शब्दरत्ना०।

***