कर्म्मठ = त्रि० कर्मणि घटते कर्म्मन् + अठच्। कर्म्मनिष्पादनार्थं घटमाने। “स कर्मठः कर्म्म सुतानुबन्धि” भट्टिः।
कर्म्मणि = स्त्री कर्म्म नयति समाप्तिम् नी–बा० डि णत्वम्। कर्म्मसमाप्तौ कर्त्तव्यायां प्रायश्चित्तेष्टौ। “कर्म्मणिरेव तत्र प्रायश्चित्तिः” शत० ६, ६, ४, ९।
कर्म्मण्य = त्रि० कर्म्मणा सम्पादि यत्। १ कर्म्मणा सम्पन्ने शौ र्य्येसि० कौ०। कर्म्मणि साधुयत्। २ कर्मकुशले सि० कौ०। “यतो वीरः कर्मण्यः सुदक्षः” ऋ० ३, ४, ९। “अकर्मण्यं तिथिमलं विद्यादेकादशीं विना” ति० त०। ३ वेतने स्त्री क्षीरस्वामी। वेतनेन हि कर्मसाधनात् तस्य तथात्वम्।
कर्म्मण्यभुज् = त्रि० कर्मण्यां वेतनं भुङ्क्ते भुज–क्विप् ६ त० ङ्यापोरिति ह्रस्वः। वेतनेन कर्मकारके भरण्यभुगित्यभरपाठान्तरमिति क्षीर०।
कर्म्मदेव = पु० कर्मणा देवः प्राप्तदेवभावः। १ त्रयस्त्रिंशद्देवभेदे। “स एकः कर्मदेवानामानन्दः ये कर्मणा देवानपि यन्ति श्रोत्रियस्य चाकामहतस्य ते, ये शतं कर्मदेवानामानन्दाः” तै० उ०। “कर्मदेवा ये वैदिकेनाग्निहोत्रादिना केवलेन देवानपि यन्ति, देवा इति त्रयस्त्रिशद्धविर्भुजः। इन्द्रस्तेषां स्वामी तस्याचार्य्यो बृहस्पतिः। प्रजापतिर्विराट्त्रैलोक्य शरीरो ब्रह्मा समष्टिव्यष्टिस्वरूपः संसारमरणानलव्यापी” शाङ्कर भा०। त्रयस्त्रिंशच्च देवाः आनन्दगिरिणा दर्शिताः। “अष्टौ वसवः एकादश रुद्राः द्वादशादित्याः इन्द्रः प्रजापतिश्चेति” २ कर्मणा देवलोकं गते च। “स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते अथ ये शतं कर्मदेवानामानन्दाः” शत० ब्रा० १४, ७, १, ३५। ये अग्निहोत्रादिश्रौत्रकर्मणा देवलोकं प्राप्नुवन्ति ते कर्मदेवाः” भा०। कर्मदेवताऽप्यत्र स्त्री। “ज्योतिष्टोमादिना स्वर्गं प्राप्ताः स्युः कर्मदेबताः” शब्दचि०। अस्मिन् कल्पेऽश्वमेधादि कर्म कृत्वा महत्पदम्। अवाप्याजानदेवैर्याः पूज्यास्ताः कर्मदेवताः” इति शब्दचि० पु०।
कर्म्मदोष = पु० कर्मैव दोषः, कर्म्मणि दोषः, कर्महेतुर्दोषो वा। १ दुष्टे पापजनके हिंसादौ कर्मणि। “संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन्” शरीरजैःकर्मदो षैर्याति स्थावरतां नरः” मनुः। २ कर्म्मजन्ये पापादौ “मनोवाग्देहजैर्नित्यं कर्मदोषैर्न लिप्यते” मनुः। “कर्मदोषैः पापैः” कुल्लू०। विहिताकरणाविहिताचरणरूपे ३ कर्मविषयदोषे च। “अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः” मनुः। “विहिताकरणाविहिताचरणरूपकर्मदोषजन्या गतीः” कुल्लू०। ६ सकलकर्महेतौ मिथ्याज्ञानजन्यवासनारूपे दोषे च। “दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम” इत्यादि० गौत० सू० मिथ्याज्ञानजन्यवासनारूपदोषस्य सकलप्रवृत्तिरूपकर्म्महेतुत्वोक्तेस्तस्य तथात्वम्।
कर्म्मधारय = पु० व्याकरणोक्ते समानाधिकरणपदघटिते समामाधीनलक्षणाशून्ये समासभेदे “समानाधिकरणस्तत्पुरुषः कर्मधारयः” पा०। तल्लक्षणादिकं शब्द० प्र० उक्तं यथा
“क्रमिकं यन्नामयुगमेकार्थेऽन्यार्थबोधकम्। तादात्म्येन, भवेदेष समासः कर्मधारयः। कमिकं यन्नामद्वयं तयोरेकस्य नाम्नोऽर्थे धर्म्मिणि० तादात्म्येनापरनाम्नोऽर्थस्यान्वयबोधं प्रति समर्थं तादृशं नामद्वयं कर्मधारयः नीलोत्पलमित्यादावुत्पलादिपदस्यार्थेनीलादिषदार्थस्य तादात्म्येनान्वयः, तथा पुरुषसिंहैत्यादावपि पुरुषादावुत्तरपदलक्ष्यस्य सिंहादिसदृशस्य पुरुषः सिंह इवेत्यादिविग्रहे प्रायेणोपमेयस्योंपमानैरिति कर्मधारयानुशासनात्। कुम्भस्य समीपमित्याद्यर्थकस्तूपकुम्भादिर्न तादात्म्येनान्वयबोधकः, प्रबलमपद्रव्यमित्यादेः संग्रहाय नामपदस्य धातुभिन्नोपलक्षकत्वात् सार्थकसामान्यपरत्वेऽपि क्षत्यभावाच्च। नीलमुत्पलमित्यादौ तु समानविभक्तिकं नामद्वयं स्वार्थयोरभेदान्वयं बोधयदपि न क्रमिकं विभक्त्याव्यवधानात्। यदि च तादात्म्येन नीलादिनामार्थस्यान्वयबुद्धौ नीलादिनामोत्तरनामोपस्थाप्यत्वं तन्त्रमतोन तत्रा भेदसम्बन्धेन नीलादेरन्वयः, परन्तुविशेषणविभक्त्युपस्थापिते तादात्म्यएवाधेयत्वेन, नीलघटपटावित्यादौ च नीलपदाव्यवहितेन घटपटेत्येवंद्वन्द्वात्मकनाम्नैवोस्थापिते घटे पटे च नोलस्य तादात्म्येनान्वयान्न व्यभिचारः। स्तोकं पचति धान्येन धनं, प्रकृत्या पटुरित्यादावपि स्तोकादेर्न धात्वाद्यर्थे तादात्म्येनान्वयः किन्तु द्वितीयाद्यर्थे तादात्म्यएवाधेयत्वेनेत्यादिकं विभाव्यते तदा क्रमिकत्वमनुपादेयमेव। राजपुरुष इत्यादिकस्तु तत्पुरुषोन पूर्व्वपदलक्षितराजसम्बन्धिनस्तादात्म्येनान्वयबोधकसमासविग्रहयोस्तुल्यार्थकत्वहान्यापत्तेः, परन्तु राजसम्बन्धस्यैव। अतएव राजपुरुषैत्यादौ पूर्व्वपदे षष्ठ्यर्थसम्बन्धे लक्षणेति मणिकृदुक्तमपि सङ्गच्छते। यथा च नामार्थयोर्भेदेनान्वयेऽपि न क्षतिस्तथोपरिष्टाद्वक्ष्य ते। किञ्चिद्विशिष्टसुबर्थानवच्छिन्नस्यैव वा तादात्म्येनान्वयबोधकत्वमुक्तनिरुक्तौ निवेश्यम्। नचैवमपि पञ्चपुल्यादिद्विगौ द्विगार्ग्यं गच्छत इत्यादिस्थलीये द्वितयाद्यभिन्नगार्ग्यादिबोधकाव्ययीभावे चातिव्याप्तिस्तदन्यत्वेनापि विशेषणीयत्वात्। अत्र च मानुषब्राह्मणो ब्राह्मणमानुषैत्याद्यप्रयोगाद्विशेषणविशेष्ययोर्यत्र मिथस्तादात्म्येन व्यभिचारस्तत्रैव कर्मधारयः साधुः प्रमेयधूमैत्यादौ तु नरस्य शरीरं राहोः शिर इत्यादाविव तादात्म्यसम्बन्धार्थकषष्ठ्या तत्पुरुषएवेति वृद्धाः। चन्दनतरुर्व्विन्ध्यगिरिर्वसन्तसमयैत्यादिप्रयोगस्य प्रामाणिकत्वात् विशेष्यस्यैव विशेषणव्यभिचारित्वं कर्मधारये तन्त्रं न तु विशेषणस्यापि तद्व्यभिचारित्वम्। पुरुषोत्तमैत्यत्र चोत्तमत्वं न नित्यज्ञानादिमत्त्वं किन्तु भ्रमविधुरत्वम्। अतएव तत्र पुरुषस्येव, पुरुषेऽपितस्य व्यभिचारसत्त्वादुत्तमपुरुषैत्यपि कर्मधारयः साधुरिति तु नव्याः। तदाद्युत्तरपदकः कर्मधारयः प्रायशोनेष्यते नीलतदस्तीत्यादितोजात्वपि नीलोत्पलादेरस्तित्वाद्यप्रतीतेः। “पक्वयद्भोजनं रम्यमामतद्भञ्जनं वृथा। नीलयद्रसआस्वाद्यः कटुतद्रूपमीक्ष्यते” इत्यादिप्रयोगात् क्वचिदिष्यतेऽपि। प्रयुक्तञ्च जुमरनन्दिना परमः स इत्याद्यर्थे परमसः परमतावित्यादि। तत्पुरुषोऽप्येते व्याख्यातः। ननु विशेष्यतया नामार्थप्रकारकान्वयबद्धिमात्रं प्रत्येव नामोत्तरविभक्त्युपस्थाप्यत्वं तन्त्रं नतु तादात्म्यसम्बन्धानवच्छिन्नतत्प्रकारताकबुद्धिं प्रति गौरवादतोनामार्थयोर्नीलोत्पलयोरन्वयासम्भवात् कर्मधारयादिकः समासोन यौगिकः किन्तु नीलोत्पलत्वादिविशिष्टे रूढएव तदुक्तं भर्त्तृहरिणा “अबुधान् प्रत्युपायाश्च विहिताः प्रतिपत्तये। शब्दान्तरत्वाद त्यन्तं भेदोवाक्यसमासयोः” इति वैयाकरणाः, तन्मन्दं नीलोत्पलमित्यादौ समुदाये रूढ्यप्रतिसन्धानेऽपि नीलादिप्रत्येकपदोपस्थित्या तयोस्तादात्म्येनान्वयबोधस्यानुभविकत्वेन गौरवस्य प्रामाणिकत्वादन्यघा नामार्थस्यान्वयबोधसामान्यं प्रत्येव नामोत्तरनामोपस्थाप्यत्वं तन्त्रमुरीकृत्य नीलमानयेत्यादौ नामार्थसुबर्थयोर्नान्वयबोधः, परन्तु सुबन्तभागस्य नीलविशिष्टकर्मत्वादौ रूढिरेवेत्यपि किन्न रोचयेः?। नच समासस्याशक्तत्वे नीलोद्रव्यञ्च घट इत्यादाविव नीलघटोद्रव्यमित्यादावपि घटे धर्मिण्येकत्र द्वयमिति न्यायेन नीलद्रव्ययोस्तादात्म्येनान्वयापत्तिरिति वाच्यम्, नामार्थस्य मुख्यविशेष्यताक इव तादात्म्याविच्छिन्नविधेयताकेऽपि बोधे नाम्नः प्रथमान्तत्वस्य तन्त्रत्वात्। विधेयत्वन्तु विषयतावच्छेदकतान्यप्रकारत्वं प्रकारताप्रभेदोवेत्यन्यदेतत् पटमित्यादौ तु पटादिर्न तादात्म्येन विधेय इति न तत्र व्यभिचारः। ननु भीलं पीतञ्चोत्पलं यत्र इत्यर्थे नीलपीतोत्पलं सरैत्यादिको बहुव्रीहिरिव नीलं पीतञ्चोत्पलमित्यर्थे नीलपीतोत्पलं पुष्पमित्यादिकः कर्मधारयोऽप्येकत्र द्वयमिति न्यायेन नीलपीताभ्यामवच्छिन्नोत्पलनिष्ठधर्मिताकधीजनकः कथं न स्यात्? इति चेन्न “बहुपदे बहुव्रीहिरेव नेतरोद्वन्द्वान्यः समास” इत्यनुशिष्टिबलेन बहुव्रीहेरेव स्वनिविष्टनामद्वयोपस्थाप्यार्थद्वयावच्छिन्नतादृशनामान्तरार्थनिष्ठविषयताकबोधं प्रति हेतुत्वेन समासान्तरस्य तादृशधियं प्रत्यसमर्थत्वात्। नीलपीतोत्पले रम्ये पीतनीलोत्पलाश्रितमित्यादौ तु नीलोत्पलं पीतोत्पलञ्च रम्यमित्याकारकएव बोधो नतु नीलं पीतञ्च यदुत्पलं तद्रम्यमित्याकारः। अतएव द्वन्द्वात् परस्य प्रत्येकामिसम्बन्धसूचनार्थं नीलपीते च ते उत्पले चेत्यादिकमेव तत्र विग्रहं वर्णयन्ति न तु नीलं पीतञ्च तदुत्पलञ्चेत्यादिकम्। घटस्य नाधिकरणमित्यादिविग्रहे घटानधिकरणमित्यादिकस्तु मध्यपदप्रधानस्तत्पुरुषोन बहुनामगर्भो नवैकत्र द्वयमितिन्यायेन स्वार्थस्य बोधक इति सम्प्रदायविदः”। अत्र समासे विशिष्टार्थे न शक्तिर्न वा लक्षणेति शब्दचि० स्थितौ यथा। “कर्मधारये तु न शक्तिर्नवा लक्षणा ताभ्यां विनापि विवक्षितार्थान्वयबोधोपपत्तेः ननु नीलघटयोः सामानाधिकरण्यप्रतीतेस्तत्र लक्षणैव अन्वयप्रकारत्वादिना तस्य भाने राजपुरुषादौ षष्ठ्यर्थोपस्थितिरपि तथास्तु अत्र ब्रूमः–कर्मधारये सामानाधिकरण्यं नामार्थयोरभेदो वा गुणगुणिनोः समवायो वानुभूयते सचान्वयएव नत्वन्वयप्रतियोगी अतोऽन्वयप्रतियोगिनोरुपस्थितिर्नामपदाच्छक्त्यैवेति न तदर्थं लक्षणा। राजपुरुष इत्यत्र तु राजसम्बन्धिपुरुषयोरन्वयोऽनुभूयते। राजसम्बन्धिनश्चान्वयप्रतियोगिन उपस्थितिर्नराजपदे षष्ठ्यर्थलक्षणां विना, राज्ञः पुरुषं राजसम्बन्धिनं पुरुषं राजपुरुषमानयेत्यादौ पर्य्यायत्वाद्राजसम्बन्धिनः पुरुषेऽन्वयोभासते राजसम्बन्धी अन्वयपतियोगित्वेन। एवञ्च बहुब्रीहौ सर्वत्रान्त्यपदस्य षष्ठीतत्पुरुषे पूर्ब्बपदस्या- परपरतया लाक्षणिकत्वात् ताभ्यां कर्मधारयो बलवान् सर्वेषां पदानां स्वार्थपरतया मुख्यत्वाद्। अतएव “एतयैव ऋचा निषादस्थपतिं याजयेत्” इत्यत्र कर्मधारय एव मुख्यत्वे शब्दस्वरसात् षष्ठीततपुरुषे च षष्ट्यर्थे लक्षणापत्तेः”। वैयाकरणास्तु समासमात्रे विशिष्टर्थेऽतिरिक्तां शक्तिं कल्पयन्तस्तदस्वीकारे दोषं वर्णयन्ति यथा वैया० भू०
“अपि च समासे विशिष्टशक्त्यस्व कारे राजपुरुषश्चित्रगुः नीलोत्पलमित्यादौ सर्व्वत्वानन्वयप्रसङ्गः। राजपदादेः सम्बन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौ कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिकार्थप्रकारकबोधं प्रति विभक्तिजन्योपस्थितेर्हेतुताया आवश्यकत्वात् पुरुषादेस्तथात्वाभावात्। तण्डुलः शुभ्र इत्यादौ च प्रातिप्रदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य च शुक्ले अभेदेनैवान्वयः। शुभ्रेण तण्डुलेनेत्यादौ च विशेषणविभक्तिरभेदार्था पार्ष्णिकोवान्वय इति नातिप्रसङ्गः। तथा च समासे परस्परमन्वयासम्भवादावश्यिकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः”। “तन्वस्तूक्तरीत्या सर्वत्र समासे शक्तिरस्तु च तथाविग्रहस्तथापि षष्ठीतत्पुरुषकर्मधारययोः शक्तिमत्त्वाविशेषान्निषादस्थपत्यधिकरणसिद्धान्तसिद्धिर्न स्यात् इत्यत आह। “पर्यवस्यच्छाब्दबोधाविदूरप्राक्क्षणस्थिते। शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तनम्”। “पर्य्यवस्यंश्चासौ शाब्दबोधश्च तस्मादविदूरश्चासौ प्राक्क्षणश्च तदानीन्तनलाघवमादायाधिकरणाविरोघ इत्यर्थः। अयं भावः–निषादस्थपतिपदं समासशक्तिपक्षे निषादरूपे निषादानाञ्च स्थपतौ निषादस्वामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्नानार्थकम्। तथा च “नानार्थे तात्पर्य्याद्विशेषावगतिः” इति न्यायेन तत्कल्पनायां पदद्वये पूर्वोपस्थितार्थे एवोपस्थित्यादिलाघवात् तत्कल्पनमिति। परेषामपि सति तात्पर्य्ये यष्टीः प्रवेशयेतिवल्लक्षणायादुर्व्वारत्वात्तात्पर्य्यमेव कल्प्यकोटौ अवशिष्यत इति दिक्”। “पुंवत्कर्म्मधारयजातीयदेशीयेषु” “तत्पुरुषेऽनञ्कर्म्मधारयः” पा०। “द्वन्द्वोद्विगुरपि चाहं सततमस्मद्गृहेऽव्ययीभावः। तत् पुरुष! कर्म धारय येन स्यां सदा बहुव्रीहिः” उद्भटः।
कर्म्मन् = पुंन० कृ–कर्मणि मनिन् अर्द्धर्चादि० पा० अमरे तु न०। व्याकरणपरिभाषिते कर्त्त्रा क्रियाफलाश्रयतयाप्तुमिष्टतमे पदार्थे “कर्त्तुरीप्सिततमं कर्म” पा०। व्याख्यातञ्चैतत् सि० कौ० यथा– “कर्त्तुः क्रियया आप्तुमिष्टतमङ्कर्म्मसंज्ञं स्यात्। कर्त्तुः किम्? माषेष्वश्वं बध्नाति। कर्मण ईप्सिता माषा न तु कर्त्तुः। तमब्ग्रहणं किम्? पयसा ओदनं भुङ्क्ते। कर्मेत्यनुवृत्तौ पुनःकर्मग्रहणमाधारनिवृत्त्यर्थम्, अन्यथा गृहं प्रविशतीत्यत्र व स्यात्”। विवृतञ्चैतदस्माभिः सरलायां यथा कर्त्तुरित्यादि। कर्त्त्राप्तुमिष्यमाणं कर्मेत्यर्थः। “धातूपात्तव्यापाराश्रयः कर्त्ता” इति वक्ष्यते। आप्तिश्च सम्बन्धः, स च कर्त्तृविशेषणीभूतक्रियारूपव्यापारद्वारकएवानुपस्थितकल्पने मानाभावात्, एवञ्च कर्त्त्रा स्वनिष्ठक्रियारूपव्यापारप्रयोज्यफलेन सम्बद्धुमिष्यमाणं कर्मेत्यर्थः, तदेतदाह कर्त्तुः क्रियया आप्तुमिति। क्रियया धातूपात्तव्यापारेण, आप्तुं धातूपात्तफलद्वारा सम्बन्धुम्। फलव्यापारयोर्धातूपात्तत्वन्तु “फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः” इत्यनेन सिद्धम्। तच्च कर्म्म सप्तविधम्, यथोक्तंहरिणा “निर्वर्त्यञ्च विकार्य्यञ्च प्राप्यञ्चेति त्रिधा मतम्। तच्चेप्सिततमं कर्म चतुर्द्धान्यत्तु कल्पितम्। औदासीन्येन यत् प्राप्यं यच्च कर्त्तुरनीप्सितम्। संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्” इति। तत्र निर्वर्त्त्यादीनां लक्षणादिकमपि तेनैवोक्तं यथा–“यदसज्जायते सद्वा जन्मना यत्प्रकाशते। प्रकृतेस्तु विवक्षायां विकार्य्यं कैश्चिदन्यथा। तन्निर्वर्त्त्यं विकार्य्यञ्च कर्मद्वेधा व्यवस्थितम्। प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्पवत्। किञ्चित् गुणान्तराधानात् सुवर्णादिविकारवत्। क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते। दर्शनादनुमानाद्वा तत् प्राप्यमिह कथ्यते” इति, “सती वा विद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वर्त्त्यत्वं प्रचक्षते” इति च। तदयं लक्षणनिष्कर्षः० प्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्योत्पत्तिरूपफलवत्त्वं निर्वर्त्त्यत्वम् यथा घटं करोतीत्यादौघटादेः क्रियाजन्योत्पत्तिमत्त्वान्निर्वर्त्त्यत्वम्। प्रतीयमानप्रकृतिविकृतिभावत्ये सति क्रियानिर्वाह्यविशिष्टासत्त्वोत्पत्तिरूपान्यतरफलवत्त्वं विकार्य्यत्वम्, यथा सुवर्णं कुण्डलं करोतीत्यादौ सुवर्णस्य पूर्वरूपविशिष्टासत्त्वफलवत्त्वात् कुण्डलस्य चोत्पत्तिमत्त्वादुभयोरपि विकार्य्यत्वम्। क्रियाकृतासाधारणधर्मप्रकारकप्रतीतिविषयतानाश्रयत्वे सति क्रियाजन्यफलवत्त्वेनोद्देश्यत्वम्, प्राप्यत्वं यथा ग्रामं गच्छतीत्यादौ ग्रामादेः कर्त्तृसाधारणसंयोगरूपफलवत्त्वेऽपि क्रियाकृतश्रमादिरूपासाधारणविशेषफलस्यानाधारत्वेन तादृशफलप्रकारकबोधाविषयत्वात् प्राप्यत्वम् निर्वर्त्यविकार्य्ययोस्तु क्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठतया असाधारण्येन तद्वत्त्वान्नातिप्रसङ्गैति बोध्यम्। कर्त्तुरनुद्देश्यत्वे सति क्रियाजन्यफलवत्त्वम्, औदासीन्य प्राप्तं यथा ग्रामं गच्छन् तृणं स्पृशतीत्यादौ तृणादेरनुद्देश्यत्वेऽपि क्रियाजन्यसंयोगरूपफलवत्त्वेनोदासीनकर्मता। द्विष्टसाधनत्वे सति क्रियाफलवत्त्वं, द्वेष्यंयथा अन्नं बुभुक्षुर्विषं भुङ्क्तेऽइत्यादौ विषस्य तथात्वम्। कारकविशेषसंज्ञान्तरेणाविवक्षितत्वे सति कर्मोपकारकत्वम्, संज्ञान्तरैरनाख्यातत्वम् यथा गां पयो दोग्धीत्यादौ गवादेः कारकान्तरसंज्ञाया अविवक्षया दुग्धोपयोगितया कर्मत्वम्। व्यक्तीभविष्यति चेदमुपरिष्टात्। कारकान्तरसंज्ञापूर्व्वकत्वं यथा ‘जलधिमधिशेते’ इत्यादौ जलधेराधारसंज्ञकतया प्राप्तत्वेऽपि “अधिशीङ्स्थासां कर्म” पा० इत्यादिनाकर्मसंज्ञयाकर्मत्वम्। पयसेति भुजिक्रियां प्रति पयसः प्रकृष्टोपकारकत्वविवक्षायां तस्यैप्सिततमत्वात् पयः पिबतीति स्यादेव। इह तु तथा विवक्षाविरहेणान्नभोजनं प्रति तस्याङ्गतया करणत्वमात्रं विवक्षितमिति न ओदनस्य कर्मत्वम्। सहार्थे तृतीयेति तु न्याय्यम्, तस्याप्रधानत्वात्तमपा बोधयितुमशक्यत्वात्”। कर्म्मताबोधनप्रकारलक्षणादिक शब्द० प्र० अन्यथोक्तं यथा “यगन्तधातोरर्थोयस्तिङा स्वार्थेऽनुभाव्यते। यत्रासौ कर्म्मता नाम कारकं कर्तृतेतरः” यगन्तस्य यद्धातोरुत्तरस्थतिङा यत्र स्वार्थे तदीयोयादृशोऽर्थोऽनुभावयितुं शक्यते, तद्धातूपस्थाप्यतादृशक्रियायां स तिङर्थः कर्तृताभिन्नः कर्मत्वं नाम कारकमित्यर्थः। ग्रामोगम्यत इत्यत्र गमधातूपस्थाप्या याः संयोगावच्छिन्नक्रियायाः स्वजन्यत्वसम्बन्धेन तिङ्पदोपस्थाप्ये संयोगे एवान्वयो न तु त्यज्यतैत्यादाविवविभागादौ धात्वर्थतावच्छेदकस्यैव फलस्य बोधने कर्मविहित प्रत्ययानां धातुसाकाङ्क्षत्वादतः संयोगस्यैव तत्र गतिक्रिया कर्मत्वं नतु विभागादेः, तेन तरोस्त्यागिनि स्वगे तरुं गच्छतीत्यादिकोन प्रयोगः। गम्यतेरथः स्वयमेवेत्यादौ (गम्यते इति त्वनुशासनविरुद्धं कर्त्तृस्थभावकतया कर्मवत् क्रियाया अप्रसक्तेः)। कर्मत्वमिवानुकूलव्यापारवत्त्वलक्षणं कर्त्तृत्वं धात्वर्थस्य धर्म्म्यपि न तत्कर्तृताभिन्नमिति तद्व्युदासः। ननु चैत्रकर्तृकगमनजन्यसंयोगस्य ग्रामैव चैत्रेऽपि सत्त्वाच्चैत्रेण गम्यते चैत्रैत्यपि प्रयोगः स्यात्, तिङर्थसंयोगस्य जन्यत्वस्वाश्रयप्रतियोगिकत्वोभयसम्बन्धेन धात्वर्थगतेः साकाङ्क्षत्वेन चैत्रकर्तृकगत्याश्रयप्रतियोगिकत्वविशिष्टस्य संयोगस्य चैत्रे वाधितत्वात्। अतएव चैत्रोग्राम गच्छति इतिवत् चैत्रश्चैत्र गच्छतीत्यपि न प्रयोगः, तत्रापि द्वितीयार्थसंयोगे प्रकृत्यर्थस्य स्वप्रतियोगिकत्वसम्बन्धेनैव साकाङ्क्षतया द्वितीयान्तलभ्यस्य चैत्रीयत्वविशिष्टसंयोनस्य जनकत्वस्वाश्रयवृत्तत्वोभयसम्बन्धेनैव क्रियायामन्वयेन चैत्रप्रतियोगिकसंयोगाश्रयवृत्तिगतेश्चैत्रे बाधितत्वात्। यत्तु फलमिव क्रियायामन्वितं परसमवेतत्वमपि कर्म्मतावाचिप्रत्ययस्यार्थः, परत्वञ्च तिङा स्वार्थफलान्वयिप्रतियोगिकं, द्वितीयादिसुपा तु प्रकृत्यर्थप्रतियोगिकं प्रत्याय्यते तथा च चैत्रकर्तृकस्य चैत्रान्यसनवेतगमनस्याप्रसिद्धत्वेन चैत्रे तज्जन्यसंयोमस्यासम्भवाच्चैत्रेण नम्यते चैत्रैत्यादिकोन प्रयोगः। एवं चैत्रान्यसमवेतस्य चैत्रे बाधाच्चैत्रश्चैत्रं गच्छतीत्यादिरपि। चैत्रेण नम्यते ग्रामैत्यादौ तु चैत्रकर्तृकस्य ग्रामभिन्नसमवेतस्य नमनस्य जन्योयः संयोगस्त द्वान् ग्रामैत्यन्वयबोधनेन किञ्चिद्बाधकमितिप्राच्यैरुक्तं तन्न युक्तम्, संख्याकालातिरिक्तस्य तिङर्थस्य धात्वंर्यविशेष्यत्वनियमेन तिङर्थस्य परसमवेतत्वादेर्धात्वर्थगत्यादावन्वयायोगात् प्रथमान्तोपस्थाप्यग्रामादेरभेदान्यसम्बन्धेनान्यत्र प्रत्ययार्थे तिङर्थे वान्वयस्यादृष्टचरत्वेनाव्युत्पन्नत्वात्, चैत्रेण गम्यते द्रव्यं, द्रव्यं, गच्छति चैत्रैत्यादौ द्रव्यान्य समवेतस्य मत्यादेरप्रसिद्धत्वेनायोम्यतापत्तेश्च। नव्यास्तु फलमिव भेदोऽपि कर्म्मत्ववाचिप्रत्ययस्यार्थस्तथा च चैत्रेण गम्यते ग्राम इत्यत्र तिङर्थभेदस्य सामानाधिकरण्यसम्बन्धेन धात्वर्थविशेष्यत्वात् प्रतियोगित्वसम्बन्धेन प्रथमान्तार्थे ग्रानादौ विशेषणत्वान्न व्युत्पत्तिविरोधो नवातिप्रसङ्गः चैत्रकर्तृकगमनाश्रयवृत्तिभेदप्रतियोगित्वस्य चैत्रे विरहात् चैत्रंनच्छतीत्यादावपि प्रतियोगित्वसम्बन्धेन चैत्रान्वितस्य द्वितीयार्थभेदंस्य सामानाधिकरण्यसम्बन्धेन धात्वर्थभतावन्वयात्तादृशनतेश्चैत्रे बाष्ठाच्चैत्रं गच्छति चैत्रैत्यादिकोन प्रयोगः। प्रतियोगित्वञ्च उभयावृत्तिधर्मावच्छिन्नं धर्मद्वयानवच्छिन्नं वा ग्राह्यमतोद्रव्यं गच्छतीत्यादौ गतौ द्रव्यभेदसामानाधिकरण्यविरहऽपि न क्षतिरिति प्राहुस्तच्चिन्त्यम्। वृक्षं खगस्त्यजतीत्यादौ विभागावच्छिन्नक्रिया त्यजेरर्थः द्वितीयायास्तु विभागस्तेन वृक्षावधिकविभागवती या विभागावच्छिन्नक्रिया तद्वान् स्वगैत्याकारस्तत्र बोधः। वृक्षावधिकविभागवत्त्वञ्च जनकत्वस्वाश्रयवृत्तित्वोभयसम्बन्धेनैव क्रियायां ग्राह्यमतः खगाद्यवधिकविभागस्य खगादावसत्त्वात् खगं त्यजति खगैत्याटिकोन प्रयोगः। खगेन त्यज्यते खगैत्यपि प्रयोगः प्रागुक्तरात्या निरसनीयः। प्राञ्चस्तु ग्रामं गच्छति त्यजतीत्यादौ सर्व्वत्र क्रियामात्रं धात्वर्थस्त्यजिगम्योः पर्य्यायत्वेऽपि न क्षतिः, गत्यर्थक्रियायां संयोगस्यैक त्यज्यर्थक्रियायाञ्च विनाभागस्यैव बोधकतायाः कर्मप्रत्ययेषु व्युत्पन्नत्वात् तरुं त्यजतीत्यादौ संयोगस्य तरुं गच्छतीत्यादौ च विभागस्य द्वितीयादितो नावगमः परैरपि समभिव्याहृतधात्वर्थतावच्छेदकफलस्यैव द्वितीयादिबोध्यताव्युत्पत्तेरभ्युपेतव्यत्वात् अन्यथातिप्रसङ्गात्। नचैवं स्पन्दोन स्पन्दैत्यादेरिव त्यागोन नतिरित्यादेरपि वाक्यस्य निराकाङ्क्षतापत्तिस्तत्र त्यजिगम्योर्विभागाद्यवच्छिन्नक्रियालक्षकत्वेनैवान्वययोग्यत्वासम्भवात्। द्वितीयासाकाङ्क्षतुमन्तधातुत्वप्रयुक्तएव च धातूनां सकर्मकत्वव्यवदेशोनतु फलावच्छिन्नक्रियावाचित्वप्रयुक्तः ज्ञाप्रभृतावव्याप्तत्वात्। स्मृत्यर्थधातूनां कर्मणि षष्ठ्या इव द्वितीयाया अपि साधुत्वात्। एवञ्च ग्रामं गच्छति तरुं त्यजतीत्यादौ ग्रामसंयोगजनकाक्रयावांस्तरुविभागजनकक्रियावानित्याकारक एव बोधो नतु ग्रामसंयोगजनकसंयोगावच्छिन्नक्रियावांस्तरुविभागजनकविभागावच्छिन्नक्रियावानित्याकारकः, संयोनविभागयोरुभयथाभानस्य नीलघटजनकदण्डवानित्यादौ घटादेरिव निराकाङ्क्षत्वेनासम्भवादनुभवबाधितत्वाच्चेत्याहुः। परे तु संयोगः क्रिया च द्वयमेव प्रत्येकं नमिशक्यं तयोर्जन्यजनकभावस्तु वाक्यार्थमर्य्यादया भासते एवार्थयोरन्ययोगव्यवच्छेदयोरिव, गम्यर्थयोः संयोगक्रिययोर्मिथएव साकाङ्क्षत्वाच्च नैकमात्रे गमिप्रयोगः। पुष्पवन्तपदे चन्द्रत्वसूर्य्यत्वाभ्यामिव विभिन्नरूपाभ्यां प्रकृतेऽपि संयोनत्वक्रियात्वाभ्यां नमधातोरेकशक्तिस्वीकारेऽपि न क्षतिः। इयांस्तु विशेषो यस्तत्र सूरशशिनोर्मिथोनान्वयः प्रकृते तु संयोगक्रिययोस्तथेति तथाच ग्रामं नच्छतीत्यत्र द्वितीयाया आथेयत्वं प्रतियोनित्वं वार्थस्तेन तदन्वितस्य संयोगस्य क्रियायामन्वयात् ग्रामवृत्तिस्तत्प्रतियोगिकोवा यः संयोगस्तद्विशिष्टक्रियावानित्यारकस्तत्र बोधः, तरुं त्यजतीत्यत्राप्याधेयत्वमबधित्वं वा द्वितीयार्थस्तेन तदन्वितस्य धात्वर्यविभागस्य धात्वर्थान्तरे क्रियायामन्वयात्तरुवृत्तिस्तदवधिकोवा योविभागस्तद्विशिष्टक्रियावानित्याकारकोबोधः संयीगादिवैशिष्ट्यञ्च जनकत्वस्वाश्रयवृत्तित्वोभयसम्बन्धेनैव ब्रागिव ग्राह्यमतोनातिप्रसङ्गः। सकर्मकत्वमपि धातोः स्वार्थफलावच्छिन्नस्वार्थक्रियान्वयबोधकत्वं जानातीत्यादौ सकर्मकत्वव्यवहा- राभाक्त इत्याहिः। (फलव्यापारयोर्धातुरित्यनुसारिणः)
तण्डुलं पचतीत्यत्र रूपादिपरावृत्तिफलकतेजःसंयोगावच्छिन्नक्रिया पचेरर्थः, तन्निविष्टे च निरुक्ते तेजःसंयोगे तण्डुलस्याधेयत्वेनान्वयः परमाणुं पचतीत्यपि प्रयुज्यतएव अतएव “स्वतन्त्राः परमाणवः पच्यन्ते” इति किरणाकल्यामाचार्य्याः। ओदनं पचतीत्यादौ तु तण्डुलादावोदनादिपदस्य लक्षणा तत्र क्रियायामन्वितमनुकूलत्वं द्वितीयार्थ इत्यपि कश्चित्। तृणं छिनत्तीत्यादावारम्भकसंयोगविरोधिविभागावच्छिन्नक्रिया छिदेरर्थस्तन्निविष्टे च संयोगे विभागे वा स्वावयववृत्तित्वसम्बन्धेन तृणादेरन्वयः। पुष्पेण विष्णुं यजतैत्यत्र प्रीत्यवच्छिन्नसमन्त्रकद्रव्यत्यांगोयजेरर्थः, प्रीतौ विष्णोराधेयत्वेन द्रव्ये च पुष्पादेरभेदेनान्वयस्तेन विष्णुनिष्ठप्रीतिहेतुर्य्योमन्त्रकरणकः पुष्पाभिन्नद्रव्यत्यागस्तद्वान् इत्याकारस्तत्र बोधः, स्वत्वध्वंसजनकेच्छापर्य्यवसन्नस्य त्यागस्यैकदेशे स्वत्वएव वा पुष्पादेराधेयत्वेन तत्रान्वयस्तेन द्रव्येण विष्णुं यजतैत्यादौ द्रव्यस्य द्रव्याभिन्नत्वेन शाब्दासत्त्वेऽपि न क्षतिः। पितरमाराधयति उपास्ते पूजयतीत्यादौ गौरवप्रयुक्तप्रीत्यवच्छिन्नक्रिया धात्वर्थस्तन्निविष्टयोर्गौरवप्रीत्योः क्रमेण विषयत्वाधेयत्वाभ्यां पित्रादेरन्वयस्तेन पितृगोचरगौवरप्रयुक्ता या पितृनिष्ठप्रीतिहेतुक्रिया तद्वानित्येवं तत्र बुद्धिः। गौरवं पुनराराध्यत्वावगाही ज्ञानप्रभेदोयेयं भक्तिरित्युच्यते। पित्रादिसेवायाश्च मन्त्रकरणकत्वाभावान्न तत्र पितरं यजतैत्यादिकः प्रयोगः। परमात्मानमुपात्वे इत्यादौ तु गौरकप्रयुक्तक्रियामात्रे धातुलक्षणा नातः परमेशितुः प्रीतिविरहादयोग्यत्वापत्तिः। घृतं जुहोतीत्यादौ वह्न्यादिकरणकपतनावच्छिन्नमन्त्रकरणकक्रिया हुधातोरर्थः, प्रोक्ते च पतने घृतस्याधेयत्वेनान्वयस्तेनाग्न्याधिकरणकस्य घृतवृत्तिपतनस्यानुकूलमन्त्रकरणकक्रियावानित्येवं तत्र बोधस्तादृशी च क्रिया सघृतस्य करादेः प्रसारणन्युब्जीकरणादिरेव। अतएव घृतादेः परित्यागित्वविरहादृत्विगादेर्न यष्टृत्वं किन्तु होतृत्वमेव। वह्नौ जुहोतीत्यत्र सप्तम्यन्तस्यार्थोन धात्वर्थनिविष्टे पतनेऽन्वेति वह्निवृत्तित्वविशिष्टपतने तद्वृत्तितिङर्थस्यान्वये निराकाङ्क्षतापत्तेः परन्तु तदवच्छिन्नक्रियायामेव। प्रतिमादौ घृतादिस्नपनं मन्त्रकरणकमपि नाग्न्यधिकरणकं वह्नौ घृतस्य प्रक्षेपमात्रमम्न्यधिकरणकतत्पतनानुकूलमपि न मन्त्रकरणकमतस्तदुभयं न होमः। प्राजापत्येऽपि होमे मानसएव मन्त्रः करणम्। यद्वा वह्निसंयोगावच्छिन्नपतनानुकूलमन्त्रकरणकक्रियैव जुहोत्यर्थस्तेन घृतं जुहोतीत्यत्र वह्निसंयोगजनकं यद् घृतस्य पतनं तदनुकूलमन्त्रकरणकक्रियाविशेषवानित्याकारकोबोधः। न चैवं हुधात्वर्थतावच्छेदकीभूतसंयोगात्मकफलशालित्वेन वह्न्यादेस्तदर्थकर्म्मतया वह्निं जुहोतीत्यादिकप्रयोगापत्तिः साक्षाद्धात्वर्थतावच्छेदकीभूतस्यैव फलस्यान्वयिनः कर्मत्वादन्यथा गगने लोष्ट्रमुत्क्षिपतीत्यादौ गगनादेरुत्क्षेपणादिकर्मतायादुर्ध्वारतापत्तेः ऊर्द्ध्वसंयोगफलकक्रियावच्छिन्नव्यापारस्यैवोत्क्षेपणत्वात्। नचोत्क्षेपणत्वादिकं जातिरेव तत्र धात्वर्थतावच्छेदकम्, प्रवेशनत्वादिना सङ्करेण तस्य जातित्वायोगात् लोष्ट्रादेस्तत्कर्मत्वाप्रसङ्गाच्च। अतएव परम्परया दुहाद्यर्थतावच्छेदकीभूतबहिः क्षरणशालित्वेन पयःप्रभृतेस्तत्कर्मत्वसम्पत्त्यर्थम् “अकथितञ्च” इति सूत्रान्तरस्य प्रणयनमपि पाणिनेः सङ्गच्छते। धनं प्रतिगृह्णातीत्यत्र पुण्यार्थकदानजन्यस्वत्वस्य जनकः स्वीकारः प्रतिग्रहैति फलीभूतस्वत्ववत्तया धनस्य कर्मत्वं, विक्रयादेर्दानविशेषत्वेऽपि न तस्य पुण्यजनकत्वमतस्तल्लब्धस्य स्वीकारोन प्रतिग्रहः। ग्रामं क्रीणातीत्यत्र मूल्यदानजन्यस्वत्वस्य जनकः स्वीकारः, स्वत्वजनकं मूल्यदानमेव वा क्रयस्तत्फले च स्वत्वे ग्रामस्याधेयत्वेनान्वयस्तेन ग्रामनिष्ठस्य मूल्यदानजन्यस्वत्वस्यानुकूलस्वीकारवान्, ग्रामनिष्ठं यत्स्वत्वं तदनुकूलमूल्यदाता वेति तत्र बोधः। ग्रामं विक्रीणातीत्यत्र मूल्यग्रहणजन्यस्य परस्वत्वस्य जनकमूल्यग्रहणमेव वा विक्रयस्तेन ग्रामनिष्ठस्य मूल्यग्रहणजन्यपरस्वत्वस्यानुकूलोयोग्रामस्य त्यागस्तद्वान्, ग्रामनिष्ठं यत् परस्वत्वं तदनुकूलमूल्यग्रहणवानिति वा तत्र बोधः। मूल्यञ्च पणपुराणादिकमेव राजनिर्दिष्टं नतु द्रव्यमात्रं तेन तिलादीन् दत्त्वा माषादीनां विनिमये विप्राणां तिलविक्रयादिदोषस्यानवकाश इत्युक्तमेव। नरकं पततीत्यत्र भोगावच्छिन्नं पातित्यमेव पतेरर्थस्तेन नरकभोगानुकूलप्रातित्यवानित्याकारकस्तत्र बोधः। नरकपतित इति द्वितीयातत्पुरुषोदाहरणमपि वृत्तिकारस्य, एतदभिप्रायकमेव पतनक्रियायास्तथात्वे तु नरके पततोत्यादिरेव युक्तः प्रयोगः। स्वर्गेगच्छतीत्यादौ स्वर्गादिपदस्येव प्रकृते नरकपदस्यापि तद्देशपरत्वात्। धनं लभते प्राप्नोतीत्यादौ स्वत्वावच्छिन्नोव्यापारोधात्वर्थः, तन्निविष्टे च स्वत्वे धनादेराधेयत्वेनान्वयः। ननु यगन्तधात्वर्थविशेष्यतापन्नस्तिङर्थोयटि कर्मत्वं तदा दुहादेर्मुख्यकर्मण्यव्याप्तिः। गोपेन गौः पयोदुह्यतैत्यादौ गोपकर्तृकव्यापारजन्यं यत् पयःकर्मकमोचनं तद्वती गौरित्येवमन्वये मोचनयहिः क्षरणयोर्द्वयोरेव दुहधात्वर्थतावच्छेदकफलत्वेऽपि गौणं यन्मोचनरूपं तस्यैव कर्मणस्तिङाद्यैर्बोधनात् “गौणं कर्म दुहादिभ्यस्तिङाद्यैरभिधीयते” इति व्युत्पत्तेरतः प्रकारान्तरेण कर्मत्वं निर्व्वक्ति। यस्य धातोर्य्यदर्थेयः प्रकारीभूय भासते। द्वितीयया स्मारितोऽर्थस्तद्वा तत्कर्मतोच्यते। यद्धातोर्यादृशार्थेद्वितीयया यादृशः स्वार्थोऽनुभाव्यते तद्धात्वर्थक्रियायां तत्कर्मत्वम्। तच्च गां दोग्धि पयैत्यादिप्रयोगात् पयःप्रभृतेरप्यक्षतम्। पाकं कुरुते इत्यादौ यत्ने प्रकारीभूतमपि विषयत्वं न यतेरर्थे। भवते ग्राममित्यादौ भूधात्वर्थेप्राप्तौ तथाभूतमपि संयोगत्वादिकं न तदर्थोत्पत्तौ प्रकारः। चौरं रुजन् पयः परिष्कुर्व्वन्नित्यादावेव रुजादिधात्वर्थहिंसादेर्द्वितीयार्थकर्मतायां विशेष्यत्वं सुलभं शतृपानजादेर्निष्ठादिगणान्तर्गतत्वेन तदन्तधातोः कर्मणि षष्ठ्याः प्रतिषिद्धत्वात्। दिवः करणस्य कर्मत्वोपदेशात् अक्षान् दीव्यतीत्यत्र द्वितीयार्थः करणत्वमपि गौणकर्मत्वमेव, अतएवाक्षा दीव्यन्ते द्यूतकारैरित्यादौ क्रीडाकरणतायामेव विहितास्तिङादिकर्मप्रत्ययाः। दुहादयस्तु फलावच्छिन्नक्रियाहेतुव्यापारवाचित्वादेव द्विकर्मकास्तेन गां पयोदग्धि गोपैत्यत्र दुहेर्मोचनानुकूलव्यापारोऽर्थैति तत्रत्यमोचने गोराधेयत्वेन पयसः कर्मत्वेनान्वयात् पयःकर्मताकं यद्गोवृत्तिमोचनं तदनुकूलव्यापारवान् इत्याकारकबोधस्तत्र बहिःक्षरणावच्छिन्नव्यापारोमोचनं तदनुकूलव्यापारोदोहनमतोधात्वर्थतावच्छेदकीभूतं बहिःक्षरणरूपं फलमादाय पयसोमोचनात्मकञ्च तदादाय गोः कर्मत्वमवसेयम्। एवं शिष्यं धर्मं वदति, वक्ति, ब्रूते, उपदिशत्याचष्टे, इत्यादौ प्रतिपत्त्यवच्छिन्नव्यापारोवदप्रभृतिधात्वर्थ इति तन्निविष्टायां प्रतिपत्तौ शिष्यस्याधेयत्वेन धर्मस्य च विषयत्वेनान्वयाद्धर्मविषयिणी या शिष्यनिष्ठा प्रतिपत्तिस्तदनुकूलव्यापारवान् इत्याकारकोबोधस्तादृशव्यापारश्च धर्मः सेव्यतामित्यादिकोगुर्व्वाद्यभिलापः। शत्रुं शतानि जयतीत्यत्र ग्रहणावच्छिन्नपराभवोजयतेरथः तथा च शतस्य ग्रहणानुकूलोयः शत्रुकर्मकपराभवस्तत्कर्त्तेत्येवं तत्र बोधः पराभवश्च तिरस्कारः। प्रजाः शतं दण्डयतीत्यत्र ग्रहणावच्छिन्नशासनं दण्ड्यर्थ स्तथा च शतग्रहणानुकूलं यत् प्रजानां शासनं तत् कत्त त्येवं तत्र बोधः। शासनं नियन्त्रणम्। सुधां समुद्रं मथ्नातीत्यत्र उत्थानावच्छिन्नोन्मन्थनं धात्वर्थस्तेन सुधोत्थानानुकूलं यत्समुद्रस्योन्मन्थनं तत्कर्त्तेत्यर्थः। उन्मन्थनमालोडनम्। पान्थं पन्थानं पृच्छतीत्यत्र अभिधानावच्छिन्नव्यापारः पृच्छा, तथाच पान्थनिष्ठं यत्पथोऽभिधानं तदनुकूलव्यापारवानित्येवं तत्र बीधः। अभिधानमभिलापस्तदनुकूलव्यापारश्चकेन पथा गन्तव्यमित्यादिप्रश्नः। नृपमर्थं प्रार्थयते याचते भिक्षते इत्यादौ दानाय प्रेरणं धात्वर्थस्तथा च नृपनिष्ठं यदर्थस्य दानं तत्प्रेरणावानित्यर्थः। प्रेरणा प्रवर्त्तना, सा च दीयतामित्याद्यभिलापरूपा। ग्राममजां बहति नयतीत्यादौ गत्यवच्छिन्नव्यापारोवहिप्रभृतेरर्थस्तेन ग्रामकर्मकं यदजादिनिष्ठं गमनं तदनुकूलव्यापारवानित्ये वं तत्र बोधस्तादृशव्यापारः प्रकृते गलरज्ज्वाकर्षणादिः। पुत्रं धर्ममनुशास्तीत्यादावनुशासनं देशनया प्रवर्त्तना, तथा च षुत्रनिष्ठस्य देशनया प्रवर्त्तनस्यानुकूलव्यापारवानित्यर्थः तथाविधोव्यापारः सन्ध्यां विधेहि समिधमाधेहीत्याद्युपदेशरूपः। शाखां ग्रामाकर्षतीत्यत्र गतिहेतुकर्षणं धात्वर्थस्तेन ग्रामकर्मकं यच्छाखागमनं तदनुकूलविकर्षणवानित्यर्थः। विकर्षणं नम्रीकरणम्। गामवरुणद्धि व्रज मित्यत्र गतिप्रतिरोधहेत्वावरणमवरुधेरर्थस्तेन गोगतिप्रतिरोधस्यानुकूलं यद्व्रजस्यावरणं तत्कृतिमानित्यन्वयधीः। वृक्षं फलान्यवविनोति इत्यत्र छिदाहेतुर्विघट्टनं चिनोतेरर्थस्तथा च फलकर्मकच्छिदानुकूलं यद्वृक्षस्य विघट्टनं चालनं तद्वानित्येवं तत्र बोधः। उत्क्षिपत्यादिकस्तु धातुः सफलक्रियाहेतुव्यापारवाच्यपि न दुहादिः। यदुक्तमभियुक्तैः “दुहिर्वदत्यर्थजिदण्डिमन्थिपृच्छार्थनार्थौ नयनार्थशासू। कृषीरुधिश्चिञ् च तथार्थवृत्तौ द्विकर्मकोऽयं कथितो दुहादिः”। तथार्थवृत्तौ निरुक्ततच दर्थवृत्तौ। “गतिभोजनधीप्राप्तिशब्दार्थध्रौव्यधातुषु। कर्तृत्वं हेतुविहितण्यन्तेष्वेतेषु कर्मतेति” शाब्दिकस्मृतः, गोपान् गमयति, द्विजान् गमयति, द्विजान् भोजयति, गुरूननुज्ञापयति, शिष्यान् पाठयति, सुतान् स्नापयतीत्यादौ मूलघात्वर्थस्य कर्तृत्वलक्षणं गौणमेव कर्मत्वं द्वितीयार्थः। तथा च गोपकर्तृकगत्यनुकूलव्यापारवानित्याकारस्तत्र बोधः। पुत्रान् प्रीतिम् प्रापयतीत्यादौ च प्राप्तिर्न गतिः चैत्रीग्रामं भावयते, ग्रामस्य भावक इत्यादौ प्राम्यर्यस्य भवतेः स्वार्थविहितण्यन्तस्य कर्त्तुः कर्मतानिरासायाणच हेनुनिहितत्वमनुसृतम्। “हिंसायामेव भुज्यर्थभक्षेरेवं वहेरपि। ण्यन्तस्य कर्त्तुः कर्मत्वं क्रियया वाहनंयदि” इति स्मरणाद्भक्षयति मूषिकान् मार्जारम्, भक्षयति लतां छागमित्यादेरेव भक्षेः कर्त्तरि कर्मता न तु भक्षयत्योदतं भृत्येनेत्यादौ, भक्षयति प्रजाः परिजनैः कुनृप इत्यादौ तु न भोजनं भक्षेरर्थः। वाहयति रथमश्वान् सारथिः वाहयति गोणीं वृषभान् वाहिक इत्यादाविव वाहयति भारं भृत्येन धनिकैत्यादौ स्वचेष्टया वाहकोन धनिकादिः। “हृक्रोस्तु कर्त्तुः कर्मत्वं ण्यन्तत्वे स्याद्विभाषया। अभिवादिदृशोरेवमात्मनेपदैष्यते” इत्यनशिष्टेर्हारयति कारयति वा पटं कुविन्देनेत्यत्रेय कविन्दमित्यतोऽपि कुविन्दस्य गौण कर्मत्वावगमः। तथा अभ्यवहारयत्योदनं तनयं तनयेन वा जननी, विकारयति न्वित्तं चित्तेन वा वसन्तैत्यपि प्रमाणम्। परन्तु पूर्व्वयोरप्राप्तावेतयोस्तु प्राप्तायेव कर्मत्वस्य वैकल्पिकोविधिः। गुरुमभिवादयते सुतं सुतेन वा गृहस्थः, ध्रुवं दर्शयते भार्य्यां भार्य्यया वा पतिरित्यादौ तु दृशेः प्राप्तावभिवादयतेस्त्वप्राप्तौ सः। अनात्मनेपदस्थले तु पन्थानं पथिकं दर्शयति, पुत्रेण मित्रमभिदादयतीत्यादौ यगाप्राप्तमेव कर्मत्वादिकम्। छात्रेणार्प्यं निर्णाययति, चैत्रेणौदनं खादयति, आदयति वा दारैः क्रन्दयति, पुत्रेण मित्रमाह्वाययतीत्यादौ तु नीप्रभृतेर्बुद्याद्यर्थकत्वेन तत्कर्त्तुः कर्मत्वं प्रसक्तमपि “न नीखाद्यादिशब्दायक्रन्दिह्वयतिषु क्वचित्। हेतुण्यन्तेषु कर्तृत्वं कर्मता स्यात्तिङादिष्विति” भर्त्तृहरिवचनान्निषिध्यते। अत्र च कचित्तिङादिष्वितिकथनाच्चैत्रेणार्थं निर्णाय्यमानस्तिष्ठति, मैत्रेण पूपं खाद्यमानोब्रूते इत्यादौ कर्मविहितस्य शानजादेर्नानुपपत्तिरिति वदन्ति। सुखं प्राप्नोतोत्यादौ प्राप्तिरुत्पत्तिः परम्परया तदाश्रयत्वञ्च तिङर्थः। घटं जानातीत्यत्र विषयत्वं विषयिता वा द्वितीयार्थः। दिवाकरस्तु संस्कारावच्छिन्नमेव ज्ञानं जानात्यर्थैत्युक्तस्थले भुख्यमेव कर्मत्वं घटादेरित्याह तन्मन्दं ज्ञानमित्यादितः संस्काराप्रतीतेर्लाघबेन ज्ञानत्वस्यैव जानात्यर्थतावच्छेदकत्वात् घटस्योपेक्षात्मकज्ञाने निर्विकल्पके वा घटं जानातीतिप्रयोगस्याप्रसङ्गाच्च। अतएव प्राकट्यावच्छिन्नज्ञानमेव तत्र धात्वर्थ इति तत्त्वावच्छेदकीभूतज्ञाततावत्त्वादेव घटादेर्ज्ञान- कर्मतेति भट्टमतमप्यनादेयं ज्ञानविषयतातिरिक्तायां ज्ञाततायां मानाभावादन्यथा ज्ञाततायाइव कृततादेरप्यतिरिक्तायाः कल्पनापत्तेः। वह्निमनुमिनोमि आपादयामीत्यादौ विधयतानामको विषयताप्रभेदएव द्वितीयार्थः पर्व्वतोवह्निमानित्याद्यनुमितावापत्तौ वा पर्व्वतमनुमिनोमीत्याद्यप्रयोगात् विषयनावच्छेदकत्वभिन्नप्रकारत्वमेव तत्र द्वितीयार्थैत्यपि वदन्ति। घटं पश्यति शब्दं शृणोत्यनुभवतीत्यादौ दर्शनाद्यर्थकधातुयोगे सा क्षात्कारत्वनिरूपितमेव विषयत्वं कर्मत्वं घटादेरुप नीतचाक्षुषादौ तादृशाप्रयोगात्। आकाशं न पश्यती त्यादौ पुनरन्वयोवक्ष्यते। तण्डुलपाकं करोतीत्यत्र चिकीर्षाजन्यतावच्छेदकः क्रियायासद्देश्यताख्योविषयताबिशेष एव द्वितीयार्थः कृतौ भासते, तेन तण्डुलपाकत्वप्रकारककृतेस्तण्डुलविषयत्रेऽपि पाकदशायां तण्डुलं करोतीत्यादिकोन प्रयोगः पाकदशायामोदनं करोतीत्यादौ च द्वितीयाया अनुकूलत्वे लक्षणा तण्डुलादिक्रयणकृतिस्तु नौदनादिजनिका प्रमाणाभाघात्। बर्द्धमानस्तूक्तस्यले धातुना उत्पत्त्यनुकूला कृतिरुच्यते इति तत्रौदनस्य मुख्यमेव कर्म त्वमतएव यत्र कृतिमात्रं धात्वर्थस्तत्र न द्विताया यथा घटाय यततैत्यादाविवेत्याह तन्न कृत्यादिपदाद्यत्नमात्रप्रतीत्या यत्नत्वावच्छिन्नस्यैव करोत्यर्थत्वात्। मीमांसामहाणवे तु पाककृतौ तण्डुलादेरुपादानविधयेव फलविधयोदनादेरपि विषयत्वमुक्तं यदाह वत्सेश्वरः “सिंद्धं साध्यं फलञ्चेति प्रवृत्तेर्विषयस्तिधा। तत्र सिद्धमुपादानं क्रिया साध्यं फलं सुखमिति” तथा च तन्मते तण्डुलपक्तृदशायामोदनं करोतीत्यादिप्रयोगे फलत्वेन विषयतैव द्वितीयार्थः। मासं जीवति, क्रोशं स्वपिति, गोदोहं तिष्ठति, कुरून् क्रीडतीत्यादावधिकरणत्वं गौणमेव कर्मत्वं सुपाऽनुभाव्यते “कालानामध्वमानानां क्रियाणां नीवृतामपि। आधारता ध्रौव्यधातोः कर्मता स्याद्विभाषयेति” स्मृतेः”। “कर्मणि द्वितीया” “कर्मण्यण्” पा०। सकर्मकः अकर्मक इत्यादि। २ वैशेषिकमतसिद्धे मूर्त्तद्रव्याश्रिते क्रियारूपे पदार्थभेदे। तल्लक्षणादि कणादसूत्रवृत्त्योर्दर्शितं यथा“एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम्” सू० “गुणानन्तरमुद्दिष्टस्य कर्मंणोलक्षणमाह एकमेव द्रव्यम् आश्रयो यस्य तदेकद्रव्यं न विद्यते गुणोऽस्मिंन्नित्यगुणं, संयोगविभागेष्वनपेक्षकारणमिति स्वोत् पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षमित्यर्थः तेन समवायिकारणापेक्षायां पूर्व्वसंयोगाभावापेक्षायाञ्च नासिद्धत्वम् खोत् पत्त्यनन्तरोत्पत्तिकानपेक्षत्वं वा विवक्षितं पूर्वसंयोगध्वंसस्य स्वोत्पत्त्यनन्तरानुत्पत्तिकत्वात् अभावत्वेन तस्या द्यक्षणसम्बन्धाभावात्। नित्यावृत्तिसत्तासाक्षाद्व्याप्यजाति मत्त्वं कर्मत्वं, चलतीति प्रत्ययासाधाणकारणतावच्छेदकजातिमत्त्वं वा, गुणान्यनिर्गुणमात्रदृत्तिजातिमत्त्वं स्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजातिमत्त्वं वा। स चायं चलतीति प्रत्ययसाक्षिकः पदार्थोनाविरलदेशोत्पादनादिनोपपाद्यः क्षणभङ्गस्याग्रे निराकरिष्यमाणत्वात्। लक्षणस्य इतरभेदसाधकताप्रकारः पूर्व्वोक्त एव” उपस्क० “संयोगविभागवेगानां कर्म समानम्” सू०। “क्वचिदेकस्य कर्मणोऽनेककार्य्यकारित्वमाह कारणमित्यनुषङ्गः यत्र द्रव्ये कर्मोत्पन्नं तेन समं यावद्द्रव्यं संयुक्तमासीत् तावत्सङ्ख्यकान् विभागान् जनयित्वा तावतः संयोगानपि पुनरन्यत्र जनयति वेगं पुनरेकमेव स्वाश्रये करोति वेगपदं स्थितिस्थापकसप्युपलक्षयति” उपस्क० “न द्रव्याणां कर्म” सू०। “ननु क्रिया यता द्रव्येणारम्भकसंयोगे जनिते तेन च द्रव्यमारब्ध यत्तदपि कर्मजन्यमेव कर्मणस्तत्पूर्व्ववर्त्तित्वादत आह कर्म द्रव्याणां न कारणमित्यर्थः। कुत एवमत आह” उपस्क० “व्यतिरेकात्” सू०। “व्यतिरेकादिति निवृत्तेरित्यर्थः उत्तरसंयोगेन कर्मणि विवृत्ते द्रव्यमुत्पद्यते इति न कर्मणोद्रव्यकारणत्वं विनश्यदवस्थञ्च कर्मन द्रव्यकारणम्। किञ्च कर्म द्रव्यस्यासमवायि कारणं वा भवेन्निमित्तकारणं वा, न तावदाद्यः, द्रव्यस्यासमवायिकारणनाशनाश्यत्वेन अवयवकर्मनाशादेव द्रव्यनाशापत्तेः। न द्वितीयः, महापटनाशेऽवस्थितसंयोगेभ्य एव खण्डप्रटोत्पत्तौ निष्कर्मणामेवावयवानां द्रव्यारम्भदर्शनाद्व्यभिचारात्” उपस्क०। “गुणवैधर्म्यान्न कर्मणां कर्म्म” सू०। “ननु यथा द्रव्याणां द्रव्यं कार्य्यं गुणानाञ्च गुणस्तथा किं कर्मणामपि कर्म कार्य्यम्? इत्यत आह कार्य्यमिति शेषः द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यमुक्तं “तत्र कर्म कर्मसाध्यं न विद्यते” इति सूत्रेण कर्मणां कर्मजनकत्वं प्रतिषिद्धमेव तदिहानूद्यते इति मावः” उपस्क०। “असमवायात् सामान्यकार्य्यं कर्म न विद्यते” सू० “असमवायादित्यत्र द्रव्ययोर्द्रव्येष्विति योज्यं, तथा च न द्रव्ययोरेकं कर्म- समवैति न वा द्रव्येष्वेकं कर्म समवैति तेन सामान्यस्य। दायस्य कार्य्यं कर्म न विद्यते। अत्रापि विदिर्ज्ञानाथो न सत्तावचनः यदि कर्मव्यासज्यवृत्ति स्यात्! एकस्मिन् चलति, द्वयोर्द्रव्ययोर्बहुषु च द्रव्येषु चलतीति प्रत्ययः स्यात्! नचैतत्, तस्मान्नकम व्यासज्यवृत्तीत्यर्थः। ननु शरीरतदवयवानां कर्म शरीरतदवयवैर्बहुभिरारभ्यत एव कथमन्यथा शरीरे चलति करचरणादावपि चलतीति प्रत्ययः, एवमन्यत्राप्यवयविनीति चेन्न अवयबिकर्मसामग्र्या अवयवकर्मसामग्रीव्याप्तत्वात् तथोपलब्धेः न तु वैपरीत्यम्, नह्यवयवे चलति सर्वत्रावयविनि चलतीति प्रत्ययः अन्यथा कारणाकारणसंयोगात् कार्य्याकार्य्यसंयोगोऽपि न स्यात्, कारणकर्मणैव कार्य्यस्यापि संयोगोपपत्तेः” उपस्क० “ननु मूर्त्तगुणानां कार्य्याणां कारणगुणपूर्वकत्वं स्वाश्रयगुणपूर्व्वकत्वञ्चोक्तं द्रव्यकर्मणोश्च न कर्म कारणमित्युक्तं, तथा च कर्मणः किमपि न कार्य्यमित्यायातं, तथाचातीन्द्रियाणां सूर्य्यादिगतीनाम् अनुमानमपि दुर्लभं, लिङ्गाभावात् अतः संयोगविभागवेगानां कर्मेति सूत्रोक्तमेव स्मारयन्नाह “संयोगविभागाश्च कर्मणाम्” सू० “जन्याइति शेषः व्यक्त्यभिप्रायेण बहुवचनं संस्कारोऽप्युषलक्षणीयः। ननु द्रव्यकर्मणी न कर्म कार्य्ये इति पूर्वमुक्तम्, संयोगविभागौ तु संयोमविभागकानांवेव, तथा चेदानीं कर्मणः कारणत्वाभिधानं विरुद्धामत्यत आह” उपस्क०। “कारणसामांन्ये द्रव्यकर्मणां कर्माकारणमुक्तम्” सू०। “कारण सामान्यपदेन तत्प्रकरणमुपलक्ष्याते तेन कारणसामान्याभिधानप्रकरणे द्रव्यकर्मणी प्रति कर्मणोऽकारणत्वमुक्तं न तु सर्वथाप्यकारणमेव कर्मेति विवक्षित येन “संयोगविभागाश्च कर्मणामिति” सूत्रंव्याहन्येतेति भावः” उपस्क०। तच्च कर्म पञ्चविधम् “उत्क्षेपणं तयावक्षेपणमाकुञ्चनं तथा। प्रसारणञ्च गमनं कर्माण्येतानि पञ्च च” भाषा० अत्रेदं बोध्यम्। कृञोयत्रार्थकत्वबादिमतेऽस्य यत्नार्थककृधातुनिष्पन्नत्वेऽपि उक्तलक्षणक्रियामात्रे रूढत्वं न तु यौगिकत्वम्। तच्च कर्त्तृशब्देप्रदर्शिते कर्मादिशब्दवत् कर्त्तृपदस्य रूढत्वप्रतिपादनपरे शब्दचि० वाक्ये उक्तम्। कृञ उत्पत्त्यनुकूलव्यापारमात्रार्थकत्ववादिमते तु यौगिकत्वमिति भेदः। व्याकरस्णमते ३ व्यापारमात्ररूपक्रियायाम् “व्यापारोभावना सैवोत्पादना सैव च क्रिया। कृञोऽकर्मकत्तापत्तेर्नहि यत्रोऽर्थ इष्यते” इति हरिणा कृञोयत्नार्थकत्वनिरासेन कर्मपर्य्यायक्रियाशब्दस्य व्यापारार्थकत्वस्योक्तेः। क्रिया च धातृपात्तव्यापारभेदः अधिकं क्रियाशब्दे वक्ष्यते। ४ शास्त्रविहिते अग्निहोत्रादियागादौ तच्च त्रिविधम् “नित्यं नैमित्तिकं काम्यं कर्म्म चैवं त्रिधा मतम्” इति व्यासोक्तेः। तत्र नित्यमकरणेप्रत्यवायानुबन्धि सन्ध्यावन्दनादि। नैमित्तिकं निमित्तनिश्चयाधीनकर्त्तव्यताकं जातेष्ट्यादि। काम्यं कामनावत्कर्त्तव्यमश्वमेधादि। पुनः प्रकारान्तरेण तत्त्रिविधं सात्विकराजसतामसभेदात्। तल्लक्षणन्युक्तानि गीतायां यथा “नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म्म यत्तत् सात्विकमुच्यते १। यत्तु कामेप्सुना कर्म्म साहङ्कारेण। वा पुनः। क्रियते बहुलायासं तद्राजसमुदाहृतम् २। अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म्म तत्तामसमुदाहृतम्” ३। “नियतं नित्यतया विहितं, सङ्गरहितमभिनिवेशशून्यम्। अरागद्वेषतः पुत्रादिप्रीत्या वा शत्रुद्वेषेण वां यत् कृतं न भवति फलं प्राप्तुमिच्छतीति फलप्रप्सुस्तद्विलक्षणेन निष्कामेण कर्त्रा यत् कृतं कर्म्म तत् सात्विकमुच्यते १। यत्तु कर्म कामेप्सुना फलं प्राप्तुमिच्छुना साहङ्कारेण वा मत्समः कोऽन्यः श्रोत्रियोऽस्तीत्येव निरूढाहङ्कारयुक्तेन च क्रियते तच्च पुनर्बहुलायासमतिक्लेशयुक्तम् तद्राजसमुदाहृतम् २। अनुबध्यत इव्यनुबन्धं पश्चाद्भावि शुभाशुभं क्षयं वित्तक्षयं हिंसां परपीडां पौरुषञ्च स्वसामर्थ्यमनपेक्ष्यापर्य्यालोच्य केवलं मोहादेव यत् कर्म्मारभ्यते तत्तामसमुदाहृतम्” ३ श्रीधरः। प्रकारान्तरेण तत्त्रिविधं शुक्लकृष्णकृष्णशुक्लभेदात् तत्र शुक्लं हिंसाद्यनपेक्षं पुण्यजनकं स्वाध्यायादि। क्रष्णं शास्त्रनिषिद्धं पापजनकं ब्रह्महत्यादि। कृष्णशुक्लम् हिंसादिसहितं वेदविहितं पुण्यापुण्यजनकं पशुयागादि। कर्मविपाकशब्दे उदा०। तच्च प्रकारान्त रेण द्विविधं प्रवृत्तं निवृत्तं च यथाह मनुः “इह चामुत्र वा काम्यं प्रवृज्ञं कर्म्म कीर्त्त्यते। निष्कामं ज्ञानपूर्वन्तु निवृत्तमुपदिश्यते। प्रवृत्तं कर्म्म संसेव्य देवानामेति सार्ष्टिताम्। निवृत्तं सेव्यमानन्तु भूतान्यत्येति पञ्च वै”। “कामनापूर्वकं कर्म्म शतीरप्रवृत्तिहेतुत्वात् प्रवृत्तं, तदेव कर्म कामनारहितं पुनर्ब्रह्मज्ञानाभ्यासपूर्बकं संसार, निवृत्तिहेतुत्वात् निवृत्तमुच्यते” मल० त० रघुन० विहितकर्माचरणप्रकारः कर्मयोगशब्दे दृश्यः। ५ कृषौ च “तद्यथेह कर्मचितोलोकः क्षीयते” श्रुतिः “फलस्य कर्मनिष्पत्तेर्लोकवत्” जै० सू०। अत्र कर्मशब्दः कृषिवैदिककर्मोभयपरः। “एष एव साधु कर्मकारयति तं यमेभ्य उन्निनीषते एषं उ एवासाधु कर्मकारयतीति” श्रुतिः। “फलं कर्मायत्तम्” मीमांसकाः।
कर्म्मनाशा = स्त्री कर्म न शयति नश–णिच्–अण्। कीकटदेशस्थेनदीभेदे, यस्या जलस्पर्शेन सर्वपुण्यकर्माणि नश्यन्ति। “कर्म्म नाशाजलस्तर्शादिना नाश्यस्त्वसौ मतः” भाषा०।
कर्म्मनिष्ठ = त्रि० कर्म्मणि निष्ठा यस्य। २ यागादिकर्मासक्ते “ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथाऽपरे। तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथा परे” मनुः। ७ त०। २ कर्म्मासक्तौ स्त्री।
कर्म्मन्द = पु० भिक्षुसूत्रकारके ऋषिभेदे कर्मन्देन प्रोक्तं भिक्षसूत्रमधीयते इनि। कर्मन्दिन् तत्प्रोक्तभिक्षुसूत्राध्यायिषु ब० व० सि० कौ०। इनेर्बहुष्वेव पा० विधानात् अमरे एकवचनप्रयोगश्चिन्त्यमूलः।
कर्म्मपथ = पु० कर्मणां कायिकादीनां पन्थाः अच समा०। “कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम्। मनसा त्रिविधम् चैव दश कर्मपथांस्त्यजेत्” भा० अनु० १३ अ० उक्तेषु दशसु शुभाशुभकर्ममार्गेषु ते च दशकर्मपथास्तत्रैवोक्ताः यथा “प्राणातिपातः स्तैन्यञ्च परदारमथापि वा। त्रीणि पापानि कायेन सर्वंतः परिवर्जयेत्। असत्प्रलापं पारुष्यं पैशुन्यमनृतन्तथा। चत्वारि वाचा राजेन्द्र! न जल्पेन्नानुचिन्तयेत्। अनभिध्या परस्वेषु सर्वसत्वेषु सौहृदम्। कर्मणां फलमस्तीति त्रिविधं मनसा चरेत्। तस्माद्वाक्याय मनसा नाचरेदशुभं नरः। शुभाशुभान्याचरन् हि तस्य तस्याश्नुते फलम्”।
कर्म्मप्रवचनीय = पु० कर्म क्रियां प्रोक्तवान् इति कर्मप्रवचनीयः कर्त्तरि भूते चानीयर्। “कर्मप्रवचनीयाः” इत्यविकृत्य पाणिन्युक्ते अन्वादिषु शब्देषु। ते हि संप्रति क्रियां न कथयन्ति नापि द्योतयन्ति किन्तु क्रियानिरूपितसम्बन्धविशेषं द्योतयन्तीति तेषां तथात्वं यथोक्तं हरिणा “क्रियाया द्योतकोनायं सम्बन्धस्य न वाचकः। नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः” इति “अधिपरी अनर्थका” वित्यादेस्तद्द्योतकत्वाभावेऽपि योग्य तया तथात्वम्। अन्वादयश्चार्थभेदे तत्संज्ञकाः स्युस्ते चार्था पा० दर्शिताः यथा “कर्मप्रवचनीयाः” इत्यधिकृत्य “अनुर्लक्षणे” “तृतीयार्थे” “हीने” “उपोऽधिकेच” “अपपरी वर्जने” “आङ्मर्यादावचने” “लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः” “अभिरभागे” “प्रतिः प्रतिनि- धिप्रतिदानयोः” “अधिपरी अनर्थकौ” “सुः पूजायाम्” “अतिरतिक्रमणे च” “अपिः पदार्थसंभावनान्ववसर्गगर्हा समुच्चयेषु” “अधिरोश्वरे” पा०। “कर्मंप्रवचनीययुक्ते द्वितीया” पा०।
कर्म्मन्यास = पु० कर्मणां विहितकमणां विधिना चासः त्यागः, कर्मणाम् ईश्वरार्पणबुद्ध्याऽनुष्ठीयमानानां फलस्य न्यासो वा। विहितकर्मणां विधानेन १ त्यागरूपप्रव्रज्यायाम् ईश्वरार्पणबुद्ध्यानुष्ठानेन २ कर्मफलत्यागे च। कर्मसंन्यासोऽप्यत्र।
कर्म्मफल = न० कर्मणां शास्त्रविहितानां निषिद्धानां वा फलम्। शुभाशुभकर्मणां १ सुखदुःखादिरूपे। फले तत्र विहितकर्मणां फलाभिसन्धौ तत्तत्फलप्राप्तिः अनभिसन्धाने परम्परया चित्तशुद्ध्या मुक्तिप्राप्तिरिति भेदः। यथाह मल० त० विष्णुपु० “विशिष्टफलदाः काम्या निष्कामाणां विमुक्तिदाः” गीतापि “युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् अयुक्तः कामकारण फले सक्तोनिबध्यते”। युक्तः ईश्वराय कर्माणि न फलायेत्येवं समाहितः, फलं त्यक्त्वा फलमनभिसन्धाय कर्म्माणि कुर्व्वन्नपीतिशेषः। शान्तिमाप्नोति सत्वशुद्धिपापक्षयसंन्यासनिष्ठां क्रमेण प्राप्नोतीत्यर्थः। अयुक्तस्तद्बहिर्मुखः कामकारेण कामप्रेरिततया कामतः प्रवृत्तेरितियावत्। फले सक्तः मम फलायेदं कर्म तत्करोमीत्येवं फले सक्तोनिबध्यते” म० त० रघु०। “विष्णुपुराणे। “कर्म्माण्यसङ्कल्पिततत्फलानि सन्न्यस्य विष्णौ परमात्मरूपे। अवाप्य तां कर्ममहोमनन्ते तस्मिल्ल~यं ते त्वमलाः प्रयान्ति”। तां कर्ममहीं भारतवर्षरूपाम् “पितॄन्नमस्ये दिवि ये च मूर्साः कामप्रदाः काम्यफलाभिसन्धौ–विमुक्तिदा येऽनभिसंहितेषु” प्रा० त० रुचिस्तवः अधिकं कर्मयोगशब्दे वक्ष्यते। कर्मफलानामीश्वरस्यैव दातृत्वमिति वेदान्तिनः। मीमासकमते धर्मादेव फलमिति भेदः। तच्च ईश्वरशब्दे दर्शिते “फलमत उपपत्तेः” इत्यादिके शा० सूत्रभाष्ये दर्शितम् “यस्तु कर्मफलत्यागी स त्यागी त्यभिधीयते” “न मे कर्मफले स्पृहा” गीता। कर्मरङ्गस्य फलम् शा० मध्यपदलोपः। (कामराङ्गा) २ फले मेदि०।
अथ कर्मणां फलमस्ति न वेति सन्देहे निरूप्यते, तत्र कर्म्मणः प्ररोचनार्थतया न फलमस्तीति श्रीभागवतवचनं श्रीधरव्याख्यानञ्चोपजीव्य म० त० निर्ण्णीतं यथा-
“वेदोक्तमेव कुर्वाणोनिःसङ्गोऽर्पितमीश्वरे। नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः” भाग० ११, ३, ४८। “वेदोक्तमेव कुर्वाणो न तु निषिद्धम्। ननु कर्म्मणि क्रियमाणे तस्मिन्नासत्तिस्तत्फलञ्च स्यात्, न तु नैष कर्मारूपा फलसिद्धिः। अतएवाह “निसःङ्ग इति अनभिनिवेशितवान् ईश्वरेऽर्पितं न फलोद्देशेन। फलस्य श्रुतत्वात् कर्मणि कृते फलं भवत्येवेत्यत आह “रोचनार्थां इति कर्मणि रुच्युतपादनार्था। अतएव तत्रैव “फलश्रुतिरियं नॄणां न श्रयोरोचनं परम्। श्रेयोविवक्षया प्रोक्ता यथा भैषज्यरोचनम्। उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च। आसक्तमनसोमर्त्या आत्मनोऽनथहेतुषु। न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि। कथं युञ्ज्यात् पुनस्तेषु तांस्तमोविशतोबुधः। एवं व्यवस्थितं केचिदविज्ञाय कुबुद्धयः। फलश्रुतिं कसुमितां न वेदज्ञा वदन्ति हि”। “इयं फलश्रुतिर्न श्रेय, परमपुरुषार्थपरा भवति किन्तु बाहर्मुखानां मोक्षविवक्षया अवान्तरकर्मफलैः कर्मसु रुच्युत्पादनमात्रम्। यथा भैषज्ये औषधे रुच्युत्पादनम्। यथा “पिब निम्बं प्रदास्यामि खलु ते खण्डलडडुकान्। पित्रैवमुक्तः पिबति तिक्तमप्यतिवालकः”। अत्र तिक्तनिम्बादिपानस्य न खलु खण्डादिलाभ एव प्रयोजनम्, किन्त्वारोग्यम्। तथा वेदोप्यवान्तरफलैः प्रलोभयन् मोक्षायैव कर्माणि विधत्ते। ननु कर्मकाण्डे मोक्षस्य नाभापि न श्रूयते, कुत एवं व्याख्यायते, यथाश्रुतस्यैवाघटनादित्याह उत्पत्त्येति, द्वाभ्याम्। उत्पत्त्या स्वभावत एव कामेषु पश्वादिषु प्राणेषु आयुरिन्द्रियबलवीर्य्यादिषु स्वजनेषु पुतृदारादिषु परिणामतोदुःखहेतुषु अतस्तान् स्वार्थं परमसुखमविदुषः अजानतः अतो नतान् प्रह्वीभूतान् बुधोवेदोयद्बोधयति तदेव श्रेय इति विश्वसितानित्यर्थः। तानेयंभूतान् वृजिनाध्वनि पापे वर्त्मनि देवादियोनौ वा भ्राम्यतः पुनस्तमोभूतवृक्षादियोनौ विशतः, “पशुकाम” इति चायुरिन्द्रियादिकाम इति च पुत्रादिकाम” इति च कथ पुनस्तेषु स्वयं बुधोवेदोयुञ्ज्यात्। तथासत्यनाप्तः स्यादिति भावः। कथं तहि कर्म्ममीमांसकाः कर्म्मफलपरां वदन्ति तत्राह एवमिति व्यवस्थितम्। वेदस्याभिप्रायमविज्ञाय कुसुमिताम् अवान्तरफलरोचनतया रमणीयां परं फलश्रुतिं वदन्ति कुतस्ते कुबुद्धयः? तदाह–हि यस्मात् वेदज्ञा व्यासादयः तथा न वदन्तीति अतएव निष्कामकर्म्मणात्मज्ञानमित्युक्तम्। यथा–“अयमेव क्रियायोगो ज्ञानयोगस्य साधकः। कर्म्मयोगं विना ज्ञानं कस्यचिन्नैव दृश्यते”। सोऽपि दुरितक्षयद्वारा न साक्षात्। तथा च “ज्ञानमुत् पद्यते पुंसां क्षयात् पापस्य कर्मणः। श्रुतिः “तमेतमात्मानं ब्राह्मणा विविदिषन्ति वेदानुवचनेन ब्रह्मचर्य्येण तपसा दानेन श्रद्धया यज्ञेनानशनेन चे” ति “अतएव यज्ञादीनां ज्ञानशेषताञ्चावधार्य निष्कामेषु कर्मसु प्रवर्त्तयते। पण्डितेनापि मूर्खः काम्ये कर्मणि न प्रवर्त्तयितव्यः इत्याह षष्ठस्कन्धे–“स्वयं निःश्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि। न राति रोगिणेऽपथ्यं वाञ्छतेऽपि भिषक्तमः”। राति ददाति”। म० त० रघु०। इदमपि ज्ञाननिष्ठाप्रशंसामात्रम् अन्यथा संसारस्य धर्म्माधर्म्ममूलकतया धर्म्मकार्य्यस्य फलाभावे कथं सुखादिभोगः, कथं वा संसारप्रवृत्तिः। किञ्च ईश्वरशब्दे दर्शिते “फलमत उपपत्तेः” इत्यादिके शा० सूत्रभाष्ये धर्म्मस्य फलदातृत्वमतनिवारणेनेश्वरस्यैव फलदातृत्वं यदुक्तं तद्विरुद्धं स्यात्। एकान्ततोऽसति कर्मणः फले कथमीश्वरस्य तद्दातृत्वोक्तिः सङ्गच्छते।
अतएव तत्रैव भाग० ११, ३, ४६। “परोक्षवादो वेदोऽसौ बालानामनुशासनम्। कर्ममोक्षाय कर्माणि विधत्ते त्वगदं यथा” इति पूर्व्वतरवाक्ये कर्मणां कर्ममोक्षस्यैव मुख्यफलत्वमुक्तं न तु फलाभावः। व्याकृतञ्चैतत् श्रीधरेण यथा–“ननु स्वर्गाद्यर्थं कर्माणि विधत्ते न कर्ममोक्षार्थं तत्राह बालानामनुशासनं यथा भवति तथा तत्र दृष्टान्तः अगदम् औषध यथा पिता बालमगदं पाययन् खण्डलड्डकादिभिः प्रलोभयन् पाययति ददाति च तानि, नैतावताऽगदपानस्य तल्लाभः प्रयोजनं अपि चारोग्यं तथा वेदोऽप्यवान्तरफलैः प्रलोभयन् कर्ममोक्षायैव कर्माणि विधत्ते”। तत्र दृष्टान्ते ददाति च तानीति वदता दार्ष्टान्तिकेऽपि खण्डलड्डुकादिदानवत् फलवत्त्वं सूचितं किन्तु तस्य न मुख्योद्देश्यत्वम् तच्चारोग्यस्थानीयमोक्षस्यैवेति सुस्थितं कर्म्मणः फलवत्त्वमिति दिक्।
कर्म्मबन्ध = न० कर्मणा बन्धः शरीरसंबन्धः। १ कर्मजन्यादृष्टेना पूर्बदेहसंबन्धरूपे संसारे “कर्मबन्धं प्रहास्यसि” गीता कर्मबन्धनमप्यत्र। कर्म बन्धनं बन्धसाधनं यस्य। कर्मरूपबन्धनसाधनयुक्ते त्रि०। “लोकोऽयं कर्म बन्धनः” गीता।
कर्म्मभीग = पु० कर्मणः कर्मजन्यसुखदुःखादेर्भोगः। कर्मजन्यसुखदुःखादेर्भोगे तत्साक्षात्कारे।
कर्म्मभू = स्त्री कर्मणः कृषिकर्मणो भूः। १ कृष्टभूमौ (चसाक्षेत) हेमच० २ भारतवर्षे च।
कर्म्ममूल = न० कर्मणोभूलमिव मूलमस्य। कुशतृणे शब्दच०। दीर्घमूलत्वात्तस्य तथात्वम्।
कर्म्ममीमांसा = स्त्री ६ त०। कर्म्मावेदकवाक्यमवलम्ब्य संशय पूर्बपक्षसिद्धान्तनिर्ण्णयात्मके कर्मविषयके विचारशास्त्रभेदे सा च “अथातोधर्मजिज्ञासा” इत्यादिका जैमिनिप्रणीता
कर्म्मयुग = न० कृ–हिंसायाम् आधारे मनिन् कर्मधा०। कलियुगे त्रिका० तस्य हिंसाप्रधानकर्माधारत्वात् तथात्वम्।
कर्म्मयोग = पु० कर्मसु योगः कौशलम्। फलसाधनस्यापि कर्मणोऽफलसाधनत्वापादानरूपे १ कौशंलभेदे २ फलसिद्ध्यसिद्ध्योः समत्वभावने च। यथा च तत्कौशलं तथा भावनं च कत्तव्यं तथा गीतायां नानास्थानेषु दर्शितं यथा
“एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु। बुद्ध्या युक्तोयया पार्थ! कर्मबन्धं प्रहास्यसि। नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतोभयात्। व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन!। बहुशाखाह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्। यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ! नान्यदस्तीतिवादिनः। कामात्मानः स्वर्गपराजन्मकर्म्मफलप्रदाम्। क्रियाविशेषवहुलां भोगेश्वर्य्यगतिं प्रति। भोगैश्वर्य्यप्रसक्तानां तयापहृतचेतसाम्। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते। त्रैगुण्यविषयावेदा निस्त्रैगुण्यो भवार्जुन!। निर्द्वन्द्वोनित्यसत्वस्थोनिर्योगक्षेम आत्मवान्। यावानर्थ उदपाने सर्वतः संप्लुतोदके। तावान् सर्व्वेषु वेदेषु ब्राह्मणस्य विजानतः। कर्म्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्म्म फलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्म्मणि। योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय!। सिद्ध्यसिद्ध्योः समोभूत्वा समत्वं योम उच्यते। दूरेण ह्यवरं कर्म्म बुद्धियोगाद्धनञ्जयः। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः। बुद्धियुक्तोजहातीह उभे सुकृतदुष्कृते। तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्। कर्मणो बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्”।
अधिकारिभेदेन कर्म्मयोगस्यानुष्ठानप्रकारमाह गोता “लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्तां मयाऽनघ!। ज्ञानयोगेन सांख्यानां कर्म्मयोगेन योगिनाम्। न कर्म्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते। न च सन्न्यसनादेव सिद्धिं समधिगच्छति। न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्य्यते ह्यवशः कमै सर्व्वः प्रकृतिजैर्गुणैः। कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इ न्द्रियार्थान् विसूढात्मा मिथ्याचारः स उच्यते। यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन!। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते। नियतं कुरु कर्म त्वं कर्म ज्यायोह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः। यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय! मुक्तसङ्गः समाचार। सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्। देवान् भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ। इष्टान् भोगान् हि वोदेवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्योयोभुङ्क्ते स्तेन एव सः। यज्ञशिष्टाशिनः सन्तोमुच्यन्ते सर्व्वकिल्विषैः। भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्। अन्नाद्भवन्ति भूतानि पर्ज्जन्यादन्नसम्भवः। यज्ञाद्भवति पर्ज्जन्योयज्ञः कर्मसमुद्भवः। कम ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्। एवं प्रवर्त्तितं चक्रं नानुवर्त्तयतोह यः। अघायुरिन्द्रियारामोमोघं पार्थ! स जीवति। यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च संतुष्टस्तस्य कार्य्यं न विद्यते। नैव तस्य कृतेनार्थोनाकृतेनेह कश्चन। न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः। तस्मादसक्तः सततं कार्य्यं कर्म समाचर। असक्तोह्याचरन् कर्म परमाप्नोति पूरुषम्। कर्मणैव हि संसिद्धिमास्थिताजनकादयः। लोकसंग्रहमेवापि संपश्यन् कर्त्तुमर्हसि। यद्यदाचरति श्रेष्ठस्तत्तदेवेतरोजनः। स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते। न मे पार्थास्ति कर्त्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त्त एव च कर्मणि। यदि ह्यहं न वर्त्तेयं जातु कर्मण्यतन्द्रितः। मम वर्त्मानुवर्त्तन्ते मनुष्याः पार्थ! सर्व्वशः। उत्सीदेयुरिमे लोका न कुर्य्यां कर्म चेदहम्। सङ्करस्य च कर्त्ता स्यामुपहन्यामिमाः प्रजाः। सक्ताः कर्मण्यविद्वांसो यथा कुर्व्वन्ति भारत!। कुर्य्याद्विद्वांस्तघाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्। न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत् सर्बकर्माणि विद्वान् युक्तः समाचरन्। प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्व्वशः। अहङ्कारविसूढात्मा कर्त्ताहमिति मन्यते। तत्त्ववित्तु महाबाहो! गुणकर्मविभागयोः। गुणा गुणेषु वर्त्तन्त इति सत्वा न सज्जते। प्रकृतेर्गुणसं- मूढाः सज्जन्ते गुणकर्मसु। तानकृत्स्नविदोमन्दान् कृत्स्नविन्नविचालयेत्। मयि सर्व्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा। निराशीर्निर्ममोभूत्वा युध्यस्व विगतज्वरः”। “एवं ज्ञात्वा कृतं कम पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरैः कृतम्। किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्। कर्मणोह्यपि बोद्धव्यं बोद्धव्यञ्च विकर्मणः। अकर्मणश्च बोद्धव्यं गहना कर्मणोगतिः। कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत्। यस्य सर्व्वे समारम्भाः कामसंकल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः। त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तोनिराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः। निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शरीरं केवलं कर्म कुर्वन्नाप्नोति किल्विषम्। यदृच्छालाभसन्तुष्टोद्वन्द्वातीतोविमत्सरः। समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते। गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः। यज्ञायाचरतः कर्म समग्रं प्रविलीयते। ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना”। कर्म्मणां त्याज्यकर्त्तव्यतायां विशेषोऽन्यत्राध्याये तत्रोक्तः। “सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते। ज्ञेयः स नित्यः संन्यासी यो न द्वेष्टि न काङ्क्षति। निर्द्वन्वो हि महावाहो! सुखं बन्धात् प्रमुच्यते। सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्। यत् सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते। एकं सांख्यञ्च योगञ्च यः पश्यति स पश्यति। संन्यासस्तु महाबाहो! दुःखमाप्तुमयोगतः। योगयुक्तोमुनिर्ब्रह्म न चिरेणाधिगच्छति। योगयुक्तोविशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्व्वत्रात्ममतिं कुर्वन् कुर्यन्नाप न लिप्यते। नैवकिञ्चित् करोमीति युक्तोमन्येत तत्त्ववित्। पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन् श्वसन्। प्रलपन् विसृजन् गृह्णन्नुन्मिमिषन्निमिषन्नपि। इन्द्रियाणीन्द्रियार्थेषु वर्त्तन्तैति धारयन्। ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा। कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि। योगिनः कर्म कुर्व्वन्ति सङ्गं त्यक्त्वात्मशुद्धये। युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तोनिबध्यते। सर्व्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्व्वन्नकारयन्। न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्त्तते”। एवं गीतायां नानास्थानेष फलाभिसन्धित्यागेनैव कर्मणां परम्परया मोक्षसाधनत्वमुक्तमनुपदं वक्ष्यमाण पात० भाष्ये चेश्वरार्पणबुद्ध्यानुष्ठीयमानानां योगसाघनत्वोक्तेश्च मुमुक्षुणा उक्तशास्त्ररीत्यैव कर्म करणीयमिति स्थितम्। कर्म्म क्रियैव योगो योगसाधनम्। तपःस्वाध्यायेश्वरप्रणिधानादिरूपे क्रियात्मके २ योगसाधने। यथा च तप आदीनां योगसाधनत्वं तथा साधनपादे पातञ्जल सूत्रभाष्यविवरणेषूक्तं यथा“तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” सू०। “उद्दिष्टः समाहितचित्तस्य योगः, कथं व्युत्थितचित्तोऽपि योगयुक्तः स्यादित्येतदारभ्यते। नातपस्विनो योगः सिद्ध्यति अनादिकर्मक्लेशवासनाचित्रा प्रत्युपस्थितविषयजाला चाशुद्धिर्नान्तरेण तपःसम्भेदमपोद्यते इति तपस उपादानं तच्च चित्तप्रसादनमबाधमानमनेनासेव्यमिति मन्यते, स्वाध्यायः प्रणवादिपवित्राणां जपोमोक्षशास्त्राध्ययनं वा। ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं तत्फलसन्न्यासो वा” भा०। “उद्दिष्ट इति। अभ्यासवैराग्ये हि योगोपायौ प्रथमे पादे उक्तौ, न च तौ व्यत्थितचित्तस्य द्रागित्येव सम्भवत इति द्वितीयपादोपदेश्यानुपायानपेक्षते सत्वशुद्ध्यर्थं, ततो हि विशुद्धसत्वः कृतरक्षासंविधानोऽभ्यासवैराग्ये प्रत्यहं भावयति। समाहितत्वमविक्षिप्तत्वं, कथं व्युत्थानचित्तोऽप्युपदेक्ष्यमाणैरुषायैर्युक्तः सन् योगी स्यादित्यर्थः। तत्र वक्ष्यमाणेषु नियमेषु आकृष्य प्राथमिकं प्रत्युपयुक्ततरतया प्रथमतः क्रियायोगमुपदिशति सूत्रकारः। तपः स्वाध्यायेत्यादि, क्रियैव योगः क्रियायोगो योगसाधनत्वात्। अतएव विष्णुपुराणे खाण्डिक्यकेशिध्वजसंवादे। “योगयुक् प्रथमं योगी युञ्जमानोऽभिधीयत” इत्युपक्रम्य तपः “स्वाध्यायादयो” दर्शिताः। व्यतिरेकमुखेन तपस उपायत्वमाह। नातपस्विन इति तपसोऽवान्तरव्यापारमुपायतोपयोगिनं दर्शयति अनादोति। अनादिभ्यां कर्मक्लेशवासनाभ्यां चित्रा अतएव प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता। अशुद्धीरजस्तमःसमुद्रेको नान्तरेण तपःसम्भेदमपोद्यते सान्द्रस्य नितान्तविरलता सम्भेदः, ननूपादीयमानमपि तपोधातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं तदुपाय इति अत आह–तच्चेति, तावन्मात्रमेव तपश्चरणीयं न यावता धातुवैषभ्यमापद्यत इत्यर्थः। प्रणवादयः पुरुषसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश्च ब्रह्मपारादयः, परमगुरुर्भगवानीश्वरस्तस्मिन्, यत्रेदमुक्तम्“कामतोऽकामतोवापि यत् करोमि शुभाशुभम्। तत्सर्यं त्वयि सन्न्यस्तं त्वत्प्रयुक्तः करोम्यहम्” इति “तत्फलसन्न्यासो वा” फलानभिसन्धानेन कार्य्यकरणम्। थत्रेदमुक्तम् “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्म फलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि” (गीता) विव०
“स हि क्रियायोगः” भा० “समाधिभावनार्थः क्लेशतनूकरणार्थश्च” सू० “स हि आसेव्यमानः समाधि भावयति, क्लेशांश्च प्रतनूकरोति, प्रतनूकृतान् क्लेशान् प्रसंख्यानाग्निना दग्धवीजकल्पानप्रसवधर्मिणः करिष्यतीति तेषां तनूकरणात् पुनः क्लेशैरपरामृष्टा सत्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यते इति” भा०। “तस्य प्रयोजनाभिधानाय सूत्रमवतारयति स हीति” ननु क्रियायोग एव चेत् क्लेशान् प्रतनूकरोति कृतं तर्हि प्रसङ्ख्यानेनेत्यत आह प्रतनूकृतानिति क्रियायोगस्य प्रतनूकरणमात्रे व्यापारो न तु बन्ध्यत्वे क्लेशानां, प्रसङ्ख्यानस्य तु तद्बन्ध्यत्वे, दग्धवीजकल्पानिति बन्ध्यत्वेन दग्धकलमवीजसारूप्यमुक्तम् स्यादेतत्प्रसङ्ख्यानमेव चेत् क्लेशान् अप्रसवधर्मिणः करिष्यति कृतमेषां प्रतनूकरणेनेत्यत आह तेषामिति। क्लेशानामतानवे हि बलवद्धिरोधिग्रस्ता सत्वपुरुषान्यताख्यातिरुदेतुमेव नोत्सहते किमु प्रागेव तद्बन्ध्यभावं कर्त्तुम्, प्रतनूकृतेषु तु दुर्बलेषु तद्विरोधिन्यपि वैराग्याभ्यासाभ्यामुपजायते उपजाता च तैरपरामृष्टा अनभिभूता नैव यावत् परामृश्यते सत्वपुरूवान्यतामात्रख्यातिसूक्ष्मप्रज्ञायन्त्रिततया सूक्ष्मोऽस्याविषय इति सूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते, कुतः? समाप्तोऽधिकारः कार्य्यारम्भणं गुणानां यया हेतुभूतया सा तथोक्तेति” विव०। क्रियायोगोऽप्यत्र।
कर्म्मरङ्ग = पुंन० कर्मणे हिंसायै रज्यते रन्ज–घञ् अश्वघासादिवत् निमित्तार्थे ६ त०। (कामराङ्गा) १ शिरालफलके वृक्षे शब्दच० २ तत्फले न० तद्गुणा भाव० उक्ताः “कर्मरङ्गं हिमं ग्राहि स्वाद्वम्लं कफवातहृत्” कफवात- हिंसकत्वाच्च तस्य कर्म्मरङ्गनामतेति बोध्यम्।
कर्म्मरी = स्त्री कर्म भैषज्योपयोगक्रियां राति–रा गौरा० ङीष्। घंशरोचनायाम् राजनि०।
कर्म्मवज्र = पु० कर्म श्रौतकर्म वज्रमिव यस्य। १ शूद्रे तस्य श्रौतकर्मानधिकारेण तदाचरणस्य तं प्रति वज्रतुल्यहिंसाहेतुत्वात्तथात्वम्।
कर्म्मवाटी = स्त्री कर्मणां विहितकर्मणां चन्द्रकलाक्रियाणां वा वाटीव। तिथौ हेमच०। तिथीनां सर्वकर्मनिमित्तत्वाच्चन्द्रकलाक्रियाक्रियारूपत्वाच्च तथात्वम्।
***