कर्त्त = शैथिल्येशिथिलीकरणे आरम्भसंयोगशिथिलतापादने अ० चु० सक० सेट्। कर्त्तयति ते मतान्तरे कर्त्तापयति ते अचकर्त्तत्–त कर्त्तयाम्–वमूव आस चकार चक्रे। कर्त्त यिता कर्त्यात् कर्त्तयिषीष्ट कर्त्तयिष्यति ते। कर्त्तनीयः कर्त्तयितव्यः। कर्त्तयिता कर्त्तितः। कर्त्तनं कर्त्तना। क र्त्तयितुम् कर्त्तयित्वा आकर्त्त्य। कर्म्मणि कर्त्त्यते अकर्त्तिं अकर्त्तयिषाताम्–अकर्त्तिवाताम् कर्त्तिताकर्त्तियिता कर्त्तयिष्यते कर्त्तिष्यते–“एवाहं सर्वं दुर्भूतं कर्त्रं कृत्या कृताकृतम्” अथ० १०, १, ३२। “अपि कर्त्तमवर्त्तयोऽयज्यून्” ऋ० १, १२१, १३।

कर्त्त = पु० कर्त्तयति शिथिलीकरोति कर्त्तं–अच्। १ कूपे “त्राध्वं कर्त्तादपपदो यजत्राः!” यजु० ३३, ५१, कर्त्तात् कूपात्” वेददी०। कृत–भावे घञ्। २ भेदे च। “सध्र्यङ्नियम्य यतयो यमकर्त्तहेतिम्” भाग० २, ७, ४९, कृत–चत्। ३ छेदके त्रि०। “वृकस्य कर्त्तादवपदोयजत्राः” ऋ० २, ३०, ६। “हे यजत्राः अवपदः आपदः कर्त्तात् कर्त्तुः” भा०।

कर्त्तन = न० कृत–भावे ल्युट्। १ छदने। “गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम्। पूर्व्वस्मृतादर्द्धदण्डः स्थानेषूक्तेषु कर्त्तने” “प्रातिलोम्ये बधः पुंसः स्त्रीणां नास दिकर्त्तनम्” याज्ञ० कर्त्त–ल्युट। २ शिथिलीकरणे करणे ल्युट्। ३ कर्त्तनसावने त्रि०। स्त्रियां ङीप् कर्त्तनी। कृत–कर्त्तरि ल्यु। ४ भेदकर्त्तरि त्रि०।

कर्त्तरी = स्त्री कृत–घञ् कर्त्तं राति रा–क गौरा० ङीष्। कृपाण्याम् पत्रीकृतहिरण्यादेः छेदनसाधने (कातारी) २ अस्त्रभेदे “ददर्शं कर्त्तरीयन्त्रममृतोपरिसंस्थितम्। मनःपवनवेगेन भ्रममाणं महारयम्। अपि स्पृशन्तं मशकं यत् खण्डयति कोटिशः” काशी०। केशादिकर्त्तनसाधने (का~चि) ३ अस्त्रे, “क्रूरमध्यगतश्चन्द्री लग्नं वा क्रूरमध्यगन्। कर्तरो नाम योगोऽयम्” इति ज्योतिषोक्ते ४ योगभेदे च। कर्त्तरोयोग उपयमशब्दे १२५९, ६० तत्प्रतिप्रसविशेषोऽपि उक्तः। कृत–अरि–कर्त्तरिरित्यप्यत्र स्त्री। “क्षरकर्त्तरिसंदशैस्तस्य रोमाणि निर्हरेत्” सुश्रु०। “पापो कर्त्तरिकारकौ” मूहु० चि०। अत्र “ङ्यपोरिति” पा० ह्रस्वः” पीयू०। वस्तुतः क्षुरकर्त्तरिसदंशैरित्यत्र द्वन्द्वे ह्रस्वाप्रसक्तेः ह्रस्वान्तोऽपि कर्त्तरिशब्दोऽस्तीति गम्यते। स्वार्थे कन्। कर्त्तरिकाप्यत्र स्त्री।

कर्त्तव्य = त्रि० कृ मवश्यार्ये तव्य। कर्तुं योग्ये। “हीनसेवा न कर्त्तंव्या कर्तव्यो महदाश्रयः” चाणक्यः। “शौचं यथार्हं कर्त्तव्यं क्षाराम्लोदकवारिभिः” “महाव्याहृतिभिर्होमः कर्त्तव्यः स्वयमन्वहम्” मनुः “मनस्याहितकर्त्तव्याः” कुमा०। कृत–कर्मणि तव्य। २ छेद्ये त्रि०। “पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः। रिपुस्थानेषु वर्त्तन्तः कर्त्तव्या भूतमिच्छता” भा० आ० १४० अ० उभयतो तव्य। ३ अवश्यकरणे ४ अवश्यच्छेदने च न०।

कर्त्तृ = त्रि० कृ–तृन् तृच् वा। १ क्रियानिष्पादके क्रियोत्पादकयत्नयुक्ते तृजन्तयोगकर्मणि न षष्ठीतिभेदः। स च कारकचक्रप्रयोजत्वात् स्वतन्त्रः यथाह पा० “स्वतन्त्रः र्कत्ता”। “क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः। कर्त्ता स्यात्” सि० कौ०। व्य कृतञ्चैतदस्याभिः सरलायाम् यथा “स्वतन्त्रैति शप्श्यनादिप्रत्ययसमभिव्याहृतधातूपात्तप्रधानीभूतव्यापाराश्रयत्वमितरव्यापारानधीनव्यापारवत्त्वम् वा कर्त्तृत्वं बोध्यम् कर्मबोधकप्रत्ययसमभिव्याहारे फलस्यैव प्रधानतया बोधस्वीकर्त्तृमते कर्मादिव्यावृत्त्यर्थं शप्श्यनादिसभिव्य हृतेति। णिजन्तस्थले प्रयोज्यस्य स्वातन्त्र्यवारणाय प्रधानव्यापारेति। हरिणा तु स्वातन्त्र्ये विशेषो दर्शितो यथा। “धातृपात्तिक्रिये नित्यं कारके कर्त्तृतेष्यते” इति सामान्यतोऽभिधाय “प्राधान्यतः शक्तिलाभात् प्राग्भावापादनादपि। तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्त्तनात्। अदृष्टत्वात् प्रतिनिधेः प्रविवेके च दर्शनात्। आराद- प्युपकारत्वात् स्वातन्त्र्यं कर्त्तुरिष्यते” इति अस्यायमर्थः इतरव्यापारात् प्रागपि प्राधान्येनात्मशक्तेः कर्त्तृव्यापारस्य सत्त्वात्, तथाच इतरव्यापारानधीनव्यापारवत्त्वादित्यर्थः इतरकारकाणाञ्चकर्त्तुः प्रयोज्यत्वात्, न तथा, दात्रादेः कुठारादिवत् कर्त्तुः प्रतिनिध्यसम्भवात् कारकान्तराप्रयोगेऽपि कर्त्तुः प्रयोगात्, आरात् साक्षाद्धातूपात्तफलजनकव्यापार वत्त्वाच्च स्वातन्त्र्यं कर्त्तुरिति। कौ० विवक्षितैति कर्मकरणादेरपि तत्तद्व्यापारस्य धातुनाभिधाने कर्त्तृत्वमिति द्योतनाय। “उत्पत्तिमात्रे कर्त्तुत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसम्भवः” इति हरिणा विवक्षावशात् सर्वेषां कर्त्तृत्वस्वीकारात्। भाष्यकृता तु “पर्य्याप्तं करणाधिकरणकर्मणामेव कर्त्तृत्वं निदर्शितमपादानादीनां कर्त्तृत्वानिदर्शनाय” इत्युक्तत्वात् करणाधिकरणकर्मणामेव विवक्षया कर्त्तृत्वमिति नापादानसंप्रदानयोरितिविवेकः”। कारकव्यापारभेदश्च मञ्जूषायां दर्शितः संक्षिप्य ततोऽस्माभिः शब्दार्थरत्ने दर्शिंतोयथा “कर्त्तुः कारकान्तरप्रवर्त्तनव्यापारः। करणस्य क्रियाजनकाव्याहितव्यापारः। क्रिमाफलेनोद्देश्यक्कव्यापारश्च कर्म्मणः। कर्त्तृकर्म्मव्यवहितक्रियाधारणव्यापारोऽधिकरणस्य। प्रेरणानुमत्याटिव्याप्रारः सम्प्रदानस्य, अवधि भावोपगमव्यापारोऽपादानस्येति। तत्र करणाधार कर्मकर्त्तॄणां क्रियाजनकत्वं सुव्यक्त तैर्व्विना क्रियानुत्पत्तेः फलरूपक्रियाजनकत्वेन विशिष्टक्रियाजनकत्वाच्च कर्म्मणस्तथात्वं घटं स्मरति कटं करोतीव्यादौ च वुद्धिस्थघटादेरपि पूर्व्वकालत्वेन स्माणादिहेतुत्वात्तथात्वमतएव तेषु कर्त्तृत्वविवक्षया काष्ठं पचति स्थाली पचति ओदनः पच्यते इत्यादिप्रयोगः। अपादानस्य अवधिभावोपगमेन हेतुत्वात् सम्प्रदानस्य च दातृबुद्धिस्थतया पूर्व्वकालत्वेन हेतुत्वाच्च कियानिर्ब्धाहकत्वेऽपि न कर्त्तृत्वविवक्षा अनभिधानात् तदुक्तं भाष्येऽपादानादीनां कर्त्तृत्वानिदर्शनायेत्यन्तमनुपदं सरलाग्रन्थांशे दर्शितम्। स च प्रवृत्तिनिवृत्त्योरुभयोरपि सम्पादकः “प्रवृत्तौ च निवृत्तौ च कारकाणां यईश्वरः। स कर्त्ता नाम विज्ञेयः कारकाणां प्रयोजकः” इत्युक्तेः। स च पञ्चविषः “क्रिया सुख्योमवेत् कर्त्ता हेतुकर्ता प्रयोजकः। अनुमन्ता ग्रहीता च कर्त्ता पञ्चविधः स्मृतः” गोपालभट्टा० अतएव मनुना “अनुमन्ता विशसिता नियन्ता क्रयविक्रयी। संस्कर्त्ता चोपहर्त्ता च षडेते स्प्रतकाः स्मृताः” इति षण्णां धातकर्त्तृत्वमुक्तम् काशीख० “खादकोषतकस्तथेति” चतुर्थचरणे पाठः। तेन अष्टानांकर्त्तृत्वमुक्तम्। स च प्रकारान्तरेण त्रिविधः “त्रिधेव ज्ञायते कर्त्ता विशेषेण क्रियां प्रति। योगत्वप्रतिषिद्धत्वविशेषणपदान्वयैः” भट्टका०। अस्यार्थः क्रियां प्रति प्रकारत्रयेण कर्त्ता विज्ञायते तस्य विवरणम् “स्वाध्यायोऽध्येतव्यः” इत्यत्र बोग्यत्वेन लब्धविद्यस्त्रैवर्णिकः, १। “अहरहर्दद्याद् दोक्षितो न ददाति इत्यत्र प्रतिषिद्धत्वेन दीक्षितेतरःपरः २। “स्वर्गकामो यजेत” इत्यत्र विशेषणपदान्वयेन स्वर्गकामः कर्त्ता ज्ञायते ३,। स च प्रकारान्तरेण त्रिविधः सात्त्विकादिभेदात् यथाह गीता “मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यऽसिद्ध्यो र्निर्विकारः कर्त्ता सात्विक उच्यते” “रागी कर्मफलप्रेप्सुर्लुब्धोहिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः” “अयुक्तः प्राकृतः स्तव्यः शठोनैकृतिकोऽलसः। विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते”। कर्त्तृपदञ्च क्रियाश्रये कृत्याश्रगे वा मतभेदेन रूढं न तु यौगिकमित्येतत् शब्दचि० भट्टमतदर्शमप्रस्तावे दर्शितं यथा

“अथ क्रियाजन्यत्वाविशेषेऽपि यत्नजन्यत्वाजन्यत्वाभ्यां घटाङ्क रषोः कृताकृतत्वव्यवहारात्तृजन्तकृघातुव्युत्पन्नकतृऐपदस्य कृत्याश्रयत्वबोधकत्वाच्च कृञोयत्रार्थत्वं, क्रियामात्रार्थत्वे कृञः, क्रियाश्रयः कर्तृपदार्थः स्यात्। तथा च कारकमात्रेऽतिप्रसङ्गः एवञ्च कृञो यत्नार्थत्वेन चाख्यातविवरणात् तस्यापि यत्नोऽर्थः। तदुच्यते। “कृताकृतविभागेन कर्तॄरूपव्यवस्थया। यत्नएव कृतिः पूर्वा परस्मिन् सैव भावना” सैवाख्यातार्थोभावनेति चेत्। वीजेनाङ्कुरः कृतः स्वर्गादिना सुखं कृतं वीजमङ्कुरं करोतीति यत्नं विनापि व्यवहारात्” “कर्तृपदञ्च न यौगिकं तथा हि कृञोयत्नार्थत्वे तिङः कृत्यर्थत्वे वा धातुप्रत्ययार्थयोः कृतिकृञोर्वा परस्परमनन्वयः कृतौ कृतिजन्यत्वस्य तद्विषयत्वस्य वाऽभावात् कृतिविशिष्टस्य कृतिनिराकाङ्क्षत्वादिति। एवं कृञः क्रियार्थत्वे तृचश्च क्रिया श्रयवाचकत्वे तयोः परस्परमन्वय एवेति उभयदर्शने कर्तृपदं कर्म्मादिपदवद्रूढमेव। रूढिश्च कृत्याश्रये क्रियाश्रये वेत्यन्यदेतत् तथा च कृताकृतविभागीन च कर्तृरूपव्यवस्थया च न कृञो यत्नार्थत्वमिति” किञ्चाख्यातस्य करोतेश्च न यत्नार्थत्वम् पाकाय यतते पाकं करोतोत्यादौ यत्नद्वयस्य यत्नविषयकयत्नस्य वाऽप्रतीतः प्रकृतिप्रत्ययार्थयोश्च सा० म्येनान्वयानुपपत्तेः पौनरुक्त्यात् एकत्रैव विध्यनुवाददोषाच्च” इत्यादिकम् भट्टमतम्। स्वमते तु कृञः यत्नार्थत्वमिति भेदः तच्च कृधातुशब्दे दर्शयिष्यते। शब्द० प्र० कर्तृपदं यौगिकमिति व्यवस्थाप्य तल्लक्षणमुक्तं यथा

“तिङा विकरणाक्तस्य धातोरर्थस्तु यादृशः। स्वार्थ यादृशि बोध्यस्तत्कर्तृत्वं तदिहोच्यते। सविकरणेन यद्वातुनोपस्थाप्योयादृशार्थ स्तदुत्तरतिङा स्वोपस्थाप्ययादृशार्थोऽनुभावयितुं शक्यस्तद्धातूपस्थाप्यस्य तस्य तदेव कर्तृत्वं कारकमित्यर्थः। कर्म्मत्वादौ धातुनोपस्थाप्योऽर्थस्तिङानुभाव्योऽपि न विकरणाक्तेनेति न तत्र प्रसङ्गः। पचति जानातीत्यादौ स्वोपस्थाप्यकृत्याश्रयत्वादौ घातूपस्थाप्यस्य पाकबुद्ध्यादेरन्वयः पचाद्युत्तरतिङा बोध्यतैति पाकस्य यत्नवत्त्वं, ज्ञानस्याश्रयत्वमेवं नश्यतीत्यत्र नाशस्य प्रतियोगित्वं प्रतिविम्बतैत्यत्र भ्रमात्मनः प्रतिविम्बस्य प्रकारत्वमेव कर्तृत्वम्। कर्तृशब्दस्तु अवयववृत्तिलभ्ये कृत्याश्रये यौगिकएव न तु शक्यार्थकः प्रकारान्तरालभ्यस्यैव शक्यत्वात् निरूढलक्षणया शक्त्यैव वाश्रयत्वस्य तृचा प्रत्यायनात्। घटस्य कर्त्तेत्यादौ चानुकूलत्वं षष्ठ्यर्थः फलस्य प्रायशः कृतिविषयत्वात् घटाद्युपभीगानुकूलकृतिश्च न घटाद्यनुकूला प्रमाणाभावात् अतोन घटादिभोक्तुस्तत्क र्तृत्वप्रसङ्गः। क्रियाश्रये कर्तृशब्दोरूढस्तेन रथादेर्गत्यादिकर्तृत्वमपि मुख्यमेवेति तु न युक्तम्। क्रिया हि नात्र स्पन्दश्चेतनस्य पाककर्तृत्वानुपपत्तेः प्रत्युत तण्डुलादेरेव तथात्वापत्तेः नापि धात्वर्थमात्रम् अतएव, नापि स्पन्दनानुकूलव्यापारः चलमानुकूलव्यापारवतः कारकमात्रस्य चलनकर्तृत्वापत्तेः। अत्तिजुहोतीत्यादावप्यदादेरुत्तरं लुप्तस्यैव विकरणस्य प्रतिसन्धाने भोजनकर्तृत्वादेरववगमैति। तदप्रतिसन्धानेऽपीति मतेनाह। यगन्तभिन्नधात्वर्थवत्तया योऽनुभाव्यते। लटा स्वार्थः स धात्वर्थः कर्तृतावा निगद्यते। यगन्तभिन्नधातूपस्थाप्ययादृशार्थप्रकारयदर्थधर्म्मिकान्वयबोधं प्रति लटः सामर्थ्यं स एवार्थो धातूपस्थाप्य तदर्थस्य कर्तृत्वम् पच्यत इत्यादौ धातोरर्थवत्तया स्वार्थकर्म्मत्वं लटानुभाव्यमपि न यगन्तभिन्नस्य, पक्ष्यते तण्डुलैत्यादौ तु तादृशस्य धातोरर्थवत्तया तिडैव स्वार्थकर्म्मत्वमनुभाव्यते न तद्विशेषेण लटेति तद्व्युदासः। अपादानत्वादिभेदेन षड्विधत्वमिवोक्तानुक्तत्वभेदेन कारकस्य द्वैविध्यमप्यस्तीति तदनुक्रपा न्यूनत्वमत आह। धात्वर्यस्य र्मितया तिङाद्यैरनुभाव्यते। यत्तदुक्तं धर्मतया त्वनुक्तं कारकं भवेत्। धात्वर्थस्य विशेष्यतया तिङाद्यनुभव्यत्वमेव कारकस्योक्तत्वं तद्विशेषणतया तदनुभाव्यत्वमेव चानुक्तत्वं नतु धातुसाकाङ्क्षप्रत्ययस्याभिध्नेयत्वमात्रमुक्तं तण्डुलं पचति इत्यादावपि कर्म्मत्वादेरुक्तत्वापत्तेः। पचति पच्यतैत्यादौ तिङा, पाचकः पच्यमानैत्यादौ च कृता, कर्तृत्वं कर्म्मत्वञ्च धात्वर्थविशेष्यत्वेनानुभाव्यते तथा पचनं काष्ठं, दानीयो द्विजः, भीमोगजः, शयनं गृहमित्यादौ यथाक्रमं करणत्वादि व्युत्पत्तिवैचित्र्येण पदार्थैकदेशेऽपि कर्तृत्वादौ धात्वर्थस्य पाकादेरन्वयात्। सेवितुं साम्प्रतं विज्ञैर्गुरुः परुषवागपि” “विषवृक्षोऽपि सम्बर्द्ध्व्यस्वयं छेत्तुममाम्प्रतम्” इत्यादौ निपातेन क्वचित् कर्म्मत्वकारकस्योक्तत्वम्। धातुभेदेन कर्म्मत्वकारकस्योक्ततायां नियममाह। दुहादिभ्यः प्रत्ययेन भुख्यकर्म्मत्वमुच्यते। णिजन्तेभ्यः कर्तृताख्या तदसत्त्वेऽन्यकर्म्मता। दुहाद्युत्तरप्रत्ययेन मुख्यं साक्षाद्धात्वर्थतावच्छेदकं यत्कर्मत्वं तदेवोच्यते धात्वर्थविशेष्यत्वेभानुभाव्यते तेन गौः पयो दुह्यते दुग्धा वेत्यत्र पयःकर्मकमोचनानुकूलव्यापारजन्यमोचनवती गौरित्येवं बोधः। तत्र मोचनावच्छिन्नव्यापारस्य धातुवाच्यतया मीचनस्यैव साक्षद्धात्वर्थतावच्छेदकफलत्वात्। वहिप्रभृतेर्गत्यवच्छिन्नव्यापारः। कृषेश्च गत्यवच्छिन्नविकर्षणं वाच्यमतः साक्षात् तद्वाच्यतावच्छेदकं गतिमत्त्वमेव फलं न तु तद्घटकसं योगादि। तथाच ‘भारोभवनं नीयते’ इत्यादौ शाखा ग्रामं कृष्यतेऽइत्यादौ च यथाक्रमं भवनकर्मकगत्यनुकूलव्यापारजन्यगतिमान् भारः, ग्रामकर्मकगत्यवच्छिन्नविकर्षणकर्म्मताश्रयः शाखेत्याकारकबोधयोरुत्पत्त्यैव मम्पत्तौ दुहादेर्गौणकर्मत्वं, नीवहादेः प्रधानत्वमित्याद्युक्तिभेदेन विघिद्वयं शाब्दिकानामनादेयम्। णिजन्तोत्तरं कर्म्मतावाचिप्रत्ययस्थले तु मूलधातोः कर्तृतायाङ्कर्मतातिदेशसम्भवे तादृशमेव कर्मत्वं घात्वर्थस्य विशे ष्यतया तिङाद्यैर्बोध्यते यथा चैत्रोग्रामं गम्यते गमितोवेत्यादौ ग्रामकर्मकव्यापारजन्यगमनस्य कर्त्ता चैत्रैत्यादि। यत्र तु न तदतिदेशस्तत्र मूलधातोः कर्मत्वमेव तदर्थविशेष्यतया तैरुच्यते यथा ‘ओदनः पाच्यते खाद्यते वा भृत्येन भर्त्त्रांइत्यादौ तत्र भर्तृकर्तृकव्यापाजन्यस्य मृत्यकर्तृकपाकादेः कर्भतयौदनादिरेव बोध्यते ‘मैत्रेण पूगं खाद्यमानश्चैत्रोव्रजतीत्यादौ’ कर्मणि शानजादिपत्ययः प्राक् परिचिन्तितः”। न्यायादिमते कृतिमानेव कर्त्तृशब्दवाच्यः इत्यतः कर्त्तृत्वमात्मधर्म्मः। सांख्यमते बुद्धेर्योऽयं कर्तृत्वाभिनिवेशस्तदुपरागादकर्त्तुः पुरुषस्यापि तदभिमानः। तदेतत् सां० प्र० सू० भाष्ययोर्दर्शितम् यथा “उपरागात् कर्त्तृत्वं चित्सान्निध्याच्चित्सान्निध्यात्” सू०। “अत्र यथायोग्यमन्वयः। पुरुषस्य यत् कर्त्तृत्वं तद्बुद्ध्युपरागात्। बुद्धेश्च या चित्ता सा पुरुषसान्निध्यात्। एतदुभयमवास्तवमित्यर्थः। यथाग्न्ययसोः परस्परं संयोगविशेषात् परस्परधर्मव्यवहार औपाधिको यथा वा जलसूर्ययोः संयोगात् परस्परधर्मारोपस्तथैव बुद्धिपुषयोरिति भावः” भा०। पुरुषस्य यथाऽकर्त्तृता तथा सां० कौ० व्यवस्थापितं यथा “तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य। कैवल्यं माध्यस्थ्यं दृष्टृत्वमकर्तृभावश्च” का०। “तस्माच्चेति चः पुरुषस्य बहुत्वेन सह धर्म्मान्तराणि समुच्चिनीति विपर्यासादस्मादित्युक्तौ त्रैगुण्यविपर्ययादित्यनन्तरोक्तं सम्बध्येत अतस्तन्निरासाय तस्मादित्युक्तम् अनन्तरोक्तं हि सन्निधानादिदमोविषयो विप्रकृष्टञ्च तद इति विप्रकृष्टं त्रिगुणमविवेकोत्यादि सम्बध्यते। तस्मात् त्रिगुणादेः यो विपर्य्यामः स पुरुषस्यात्रिगुणत्वं विवेकित्वमविषयत्वमसाधारणत्वं चेतनत्वमप्रसवधर्मित्वञ्च। तत्र चतनत्वन अविषयत्वेन च साक्षित्वद्रष्टृत्वे दर्शिते चेतनोहि द्रष्टा भवति नाचतनः साक्षी च दर्शितविषयोभवति यस्मै प्रदर्श्यते विषयः स साक्षी यथा हि लोके अर्थिप्रत्यर्थिनौ विवादविषयं साक्षिणे दर्शयतः एवं प्रकृतिरपि स्वरचितं विषयं पुरुषाय दर्शयतीति पुरुषः साक्षी। न चचितनोविषयो वा शक्योविषयं दर्शयितुमिति चैतन्यादविषयत्वाच्च भवति साक्षी अतएव द्रष्टापि भवति अत्रैगुण्याच्चास्य कैवल्यम् आत्यलिको दुःख त्रयाभावः कैवल्यं तच्च तस्य स्वाभाविकादेवात्रैगुण्यात्सुखदुःखमोहरहितत्वात्सिद्धम्। अतएवात्रैगुण्यान्माध्यस्थ्यं सुखी हि सुखेन तृप्यन्, दुःखी हि दुःखं द्विषन्न मध्यस्थोभवति तदुभयरहितस्तु मध्यस्थैत्युदासीन इति चाख्यायते। विवेकित्वादप्रसवधर्मित्वाच्चाकर्त्तेति सिद्धम्। स्यादेतत् प्रमाणन कर्त्तव्यमर्थमवगम्य चेतनोऽहं चिकीर्षन् करामीति कृतिचैतन्ययोः सामानाधिकरण्यमनुभवसिद्धं तदतस्मिन्मते नावकल्पते चेतनस्याकर्तृत्व त्कर्तुश्चाचंतन्यादित्यतआह” कौ० “तस्मरत्तत्सं योगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्तृत्वे च तथा कर्त्तेव भवत्युदासौनः” का०। “यतश्चैतन्यकर्तृत्वे मिन्नाधिककरणे युक्तितः सिद्धे तस्माद्भ्रान्तिरियमित्यर्यः। लिङ्गं महदादिसूक्ष्मपर्य्यन्तं वक्ष्यति भ्रान्तिवीजं तत्संयोगस्तन्निदानम् अतिरोहितार्थमन्यत्” कौ०। तदेतन्मतमुथाप्य मुक्तावल्यां निराकृतं यथा “एतेन प्रकृतिः कर्त्री पुरुषः षुष्करपलाशवन्निर्लेपः किन्तु चेतनः कार्य्यकारणयोरभेदात् कार्य्यनाशे कार्य्यरूपतया नाशः स्यादित्यकारणत्वं तस्य बुद्धिगतचैतन्याभिमानार्थानुपपत्त्या तद्कल्पनम्। बुद्धिश्च प्रकृतेः प्रथमः परिणामः। सैव महत्तत्त्वमन्तःकरणमप्युच्यते। तत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गौ। तस्या एवेन्द्रियप्रणालिकया परिणतिर्ज्ञानरूपा घटादिना सम्बन्धः। पुरुषे कर्तृत्वाभिमानो बुद्धौ चैतन्याभिमानश्च भेदाग्रहात्। ममेदं कर्त्तंव्यमिति मदंशः पुरुषोपरागो बुद्धेः स्वच्छतया चेतनप्रतिविम्बादतात्त्विको दर्पणस्येव मुखोपरागः। इदमिति विषयोपराग इन्द्रियप्रणालिकया परिणतिभेदस्तात्त्विको निश्वासाभिहतदर्पणस्येव मलिनिमा। कर्त्तव्यमिति व्यापारावेशः। तेनांशत्रयवती बुद्धिस्तत्परिणामेन ज्ञानेन पुरुषस्यातात्त्विकः सम्बन्धोदर्पणमलिनिम्नेव मुखस्योपलब्धिरुच्यते। ज्ञानादिवत् सुखदुःस्वेच्छाद्वेषप्रयत्नधर्म्माधर्म्मा अपि बुद्धेरेव कृतिसामानाधिकरण्येन प्रतीतेः। न च बुद्धिश्चेतना परिणामित्वादिति सांख्यमतमपास्तम् कृत्यदृष्टभोगानामिव चैतन्यस्यापि सामानाधिकरण्यप्रतीतेस्तद्भिन्ने मानाभावाच्चेतनोऽहं करोमोति प्रतीतेः। बुद्धेः परिणामित्वाच्चैतन्यांशे भ्रम इति चेत् कृत्यंशे किं नेष्यते। अन्यथा बुद्धेर्नित्यत्वे तत्पूब्बमसंसारापत्तिः। अचेतनायाः प्रकृतेः कार्य्यत्वात् बुद्धेरचैतन्यं कार्य्यकारणयोस्तादात्म्यादिति चेन्न असिद्धेः कर्त्तुर्जन्यत्वे मानाभावात् वीतरागजन्मादर्शनाद नादित्वम्। अमादेर्नाशासम्भवान्नित्यत्वम्” मुक्ता०। वेदान्तिमते आविद्यिकजीवस्यैवौपाधिकं कर्त्तृत्वं शा० सू० भा० व्यवस्थापितम् यथा। “कर्त्ता शास्त्रार्थवत्त्वात्”। तद्गुणसारत्वाधिकारेणैवापरोऽपि जीवधर्म्मः प्रपञ्च्यते। कर्त्ता चायं जीवः स्यात् कस्मात् शास्त्रार्थवत्त्वात् एवञ्च यजेत जुहुयात् दद्यादित्येवंविधं विधिशास्त्रमथवद्भवति अन्यथा तदनर्थकं स्यात्। तद्धि कर्त्तुः सतः कर्त्तव्यविशेषमुपदिशति न चा सति कर्तृत्वे तदुपपद्यते। तथेदमपि शास्त्रमेवमसर्णमद्धेवति “एष हि द्रष्टा श्रीता मन्ता बोद्धा कर्त्ता विज्ञानात्मा पुरुष” इति भा०। “विहारोवदेशात्” सू०। “इतश्च जीषस्य कर्तृत्वं यज्जीवप्रक्रियायां सन्ध्ये स्थाने विहारमुपदिशति “सईयतेऽमृमोयत्रकाममिति” “स्वे शरीरे यथाकामं परिवर्त्तते” इति च भा०। “उपादानात्” सू०। “इतश्चास्य कर्तृत्वंयज्जोवप्रक्रियायामेव करणानामुपादानं सङ्कीर्त्तयति। “तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति”। “प्राणान् गृहीत्वेति च” भा०। “व्यपदेशाच्च क्रियायां न चेन्निर्द्देशविपर्य्ययः” सू०। “इतश्च जीवस्व कर्तृत्वंयदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिश्यते “विज्ञानं यज्ञं तनुते कर्म्माणि तनुतेऽपिचेति”। ननु विज्ञानशब्दो बुद्धौ समधिगतः कथमनेन जीवस्य कर्तृत्वं सूच्येतेति नेत्युच्यते जीवस्यैवैषनिर्द्देशो न वुद्धेः न चेज्जीवस्य स्यात् निर्द्देशविपर्य्ययः स्यात् विज्ञानेनेत्येवं निरदेक्ष्यत्। तथा ह्यन्यत्र बुद्धिविववक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्द्देशो दृश्यते “तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति”। इह तु “विज्ञानं यज्ञं तनुत” इति कर्तृ समानाधिकरण्यनिर्द्देशात् बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः। अत्राह यदि बुद्धिव्यतिरिक्तो जीवः कर्त्ता स्यात् स स्वतन्त्रः सन् प्रियं हितं चैवात्मनोनियमेन सम्पादयेत् न विपरोतं, बिपरीतमपितु सम्पादयन्न, पलभ्यते। न च स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यते इति अतौत्तरं पठति” भा०। “उपलब्धिवदनियमः” सू०। यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽप्यनियमेनेष्टमनिष्टञ्च उपलभते एवमनियमेनैवेष्टमनिष्टञ्च सम्पादयिष्यति। उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतूपादानोपलम्भादिति चेन्न विषयविकल्पनमात्रप्रयोजनवत्त्वादुपलन्धिहेतूनाम् उपलब्धौ त्वनन्यापेक्षत्वमात्मनः चैतन्ययोगात्। अपिचार्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देशकालनिमित्तविशेषापेक्षत्वात्। न च सहायापेक्षस्य कर्त्तुः कर्तृत्वं निवर्त्तते। भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम्। सहकारिवैचित्र्याच्चेष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते” मा०। “शक्तिविपर्य्ययात्” सू०। “इतश्च बिज्ञानव्यतिरिक्तो जीवः कर्त्ता भवितु मर्हति। यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्त्री स्यात्ततः शक्तिविपर्य्ययः स्यात् करणशक्तिर्बुद्धेर्हीयेत कर्तृशक्तिश्चापद्येत। सत्याञ्च वुद्धेः कर्तृशक्तौ तस्या एवाहं प्रत्ययविषयत्वमभ्युपगकव्यम् अहकरणपूर्व्विकाया एव प्रवृत्तेः सर्व्वत्र दर्शनात् अहं गच्छाम्यहं भुञ्जेऽहं पिबाभीति च तस्याश्च कर्तृशक्तियुक्तायाः सर्व्वार्थकारिण्याः सर्व्वाथकारि करणमन्यत् कल्पयितव्य शक्तोऽपि हि सन् कर्त्ता करणमुपादाय क्रियासु प्रवर्त्तमानो दृश्यत इति। ततश्च संज्ञामात्रे विसवादः स्यात् न च वस्तुभेदः कश्चित् करणव्यतिरिक्तस्य कर्त्रत्वाभ्यवगमात” भा० “समाध्यभावाक्ष स्र०। “योऽप्ययमौपनिषदात्मप्रतिपत्ति प्रयोजनः समाधिरुपदिष्टो वेदान्तेपु “आत्मा वा अरेद्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” “सोऽन्वेष्टव्यः स विजिज्ञोसतव्यः” “ओमित्यवं ध्यायेत आत्मानम्” इत्येवं लक्षणः सोऽप्यसत्यात्मनः कर्तृत्वेनोपपोड्येत, तस्मादप्यस्य कर्तृत्वसिद्धिः” भा०। “यथा च तक्षीनयथा” सू० “एवं तावत् शास्त्रार्थवत्त्वादिभिर्हेतुभिः कतृ त्वं शारीरस्य प्रदर्शितं तत्पुनः खाभाविकं वा न्यादुपाधिनिमित्तं वेति चिन्त्यते। तत्र तैरेव शास्त्वार्थवत्त्वादिभिर्हेतभिः स्वाभाविकं कर्तृत्वम् अपवादहत्वभावादित्येवं प्राप्ते व्रूमः। न स्वाभाविक कर्तृत्वमात्मनः सम्भवति अतिर्म्मोक्षप्रसङ्गात्। कर्तृत्वस्वभावत्वे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः सम्भवति अग्नेरिवौष्ण्यात्। न च कर्त्रत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः कर्तृत्वस्य दुःखखरूपत्वात्। ननुस्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्य्यपरिहारात् पुरुषार्थः सेत्स्यति तत्परिहारश्च निमितपरिहारात् यथाग्नेर्दहनशक्तियु व्य्यापि काष्ठवियोगाद्दहनकार्य्या भावस्तद्वत् न, निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन सन्वद्धानामत्यन्तपरिहारासम्भवात्। ननु मोक्षसा धनविधनान्मोक्षः सेत्स्यति न साधनायत्तस्यानित्यत्वात्। अपि च नित्यशुषवुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभिहिता ताद्वगात्मप्रतिपादनञ्च न स्वाभाविके कर्तृत्वेऽवकल्पते। तस्मादुपाधिधर्म्माध्यासेनैवात्मनः कर्तृत्वं न स्वावाविकम्। तथा च श्रुतिः “ध्यायतीव लेलायतीव” इति। “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण” इति चोपाधि संयुक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति। न हि विवेकिनां परस्मादन्यो जीवोनाम कर्त्ता भोक्ता वा विद्यते “नान्योऽतोऽस्ति द्रष्टेत्यादि” श्रवणात्। परएव तर्हि संसारी कर्त्ता भोक्ता च प्रसज्येत परस्मादन्यश्चेच्चितिमान् युद्ध्यादिसंघातव्यतिरिक्तो न स्यात् न अविद्याप्रत्युपस्थापितत्वात् कर्तृत्वभोक्तृत्वयोः। तथा च शास्त्रं “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीति” अविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्व भोक्तृत्वे निवारयति “यत्र त्वस्य सर्व्वमात्मै वाभूत्तत् केन कं पश्येदिति”। तथा स्वप्नजागरितयोरात्मन उपाधिसम्पर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा तदभावं सुषुप्ते प्राज्ञेनात्मना सं परिष्यक्तस्य श्रावयति “तद्वा अस्यैतदाप्तकाममात्मकाममकासं रूपं शोकान्तर” मित्यारभ्य “एषास्य परमा गतिरेषास्य परमा संपत् एषाऽस्य परमोलीक एषोऽस्य परमानन्दः” इत्युपसंहारात्। तदेतदाहाचार्य्यः “यथा च तक्षोभयथेति”। तत्वर्थे चायञ्चः पठितः। नेवं मन्तव्यं स्वाभाविकमे वात्मनः कर्तृत्वम् अग्नेरिवौष्ण्यमिति। यथा च लोके तक्षा वास्यादिकरणहस्तः कर्त्ता दुखी भवति स एव स्वगृहं प्राप्तोविमुक्तवास्यादिकरणः स्वस्थोनिर्वृत्तोनिर्व्यापारः सुखी भवति एवमविद्याप्रत्युपस्थापितद्वैत संयुक्त आत्सा स्वप्नजागरितावस्थयोः कर्त्ता दुखी भवति स तच्छमापनुत्तये स्वमात्मानं परं प्रविश्य मुक्तकार्य्यकरणसंघातोऽकर्त्ता सुखो भवति संप्रसादावस्थायां, तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलोनिर्वृत्तः सुखा भवति। तक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्यः तक्षा हि विशिष्टेषु तक्षणादिषु व्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्त्ता भवति खशरारेण त्वकर्त्ता, एवमयमात्मा सर्व्वव्यापारेष्वपेक्ष्यै व मनआदीनि करणानि कर्त्ता भवति स्वात्मना खकर्त्तैवति नत्वात्मनस्तक्ष्णैवावयवाः सन्ति र्यहस्तादिभिरिव वास्या दीनि तक्षा मनआदीनिकरणान्यात्मोपाददीत न्यसेद्वा। यत्तूक्तं शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति तत्र विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्त्तव्यविशेषमुपदिशति स कर्तृत्वमात्मनः प्रतिपादयति। न च खाभाविकमस्य कर्तृत्वमस्ति ब्रह्मात्मत्वोपदेशादित्यवोचाम। तस्मादविद्याकृतं कर्तृत्व मुपादाय विधिशास्त्रं प्रवर्त्तिष्यते। कर्त्ता विज्ञानात्मा पुरुष इत्येवं जातीकमपि शास्नमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कतृ त्वमनुवदिष्यति। एतेन विहारोपादाने परिहृते तयोरप्यनुवादरूपत्वात्। सनु सन्ध्ये स्थानेसुषुप्तेषु करणेषु “स्वेशरीरे यथाकामं परिवर्त्तते” इति विहार उपदिश्यमानः केबलस्यात्मनः कर्तृमाव इति, तथोपादानेऽपि “तदेषां घाणानां विज्ञानेन विज्ञानमादायेति” करणेषु कर्म्मकरणविभक्ती श्रूयमाणे केबलस्यैवात्मनः कर्तृभावं गमयत इति। अत्रोच्यते न तावत् सन्ध्येस्थानेऽत्यन्तमात्मनः करणविरमणमस्ति “सधीः स्वप्नोभूत्वेमं लोकमतिक्रामतीति” तत्रापि धीसम्बन्धश्रवणात्। तथा च स्मरन्ति “इन्द्रियाणामुपरमे मनोऽनुपरतं यदि। सेवते विषयानेव तद्विद्यात् स्वप्नदर्शनमिति”। कामादयश्च मनसोवृत्तय इति श्रुतिः ताश्च स्वप्ने दृश्यन्ते तम्मात्समना एव स्वप्ने विहरति। विहारोऽपि तत्रत्योवासनामय एव न पारमार्थिकोऽस्ति। तथा च श्रुतिरिवकारानुबद्वमेव स्वप्नव्यापारं वर्णयति “उतेव स्त्रीभिः सह मोदमानो यक्षदुतेवापि भयानि पश्यन्निति”। लौकिकाअपि तथैव स्वस्वप्नं कथयन्ति (आरुक्षमिव गिरिशृङ्गम्) अद्राक्षमिव वनराजिमिति। तथोपादाने यद्यपि करणेषु कर्म्मकरणविभक्ति निर्देशस्तथापि तत्संयुक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यं केबलेकर्तृत्वासम्भवस्य दर्शितत्वात्। भवति च लोकेऽनेकप्रकारा विवक्षा (योधायुध्यन्ते) (योधै राजायुध्यते) इति च। अपि चास्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वाततन्त्य्रं कस्यचित्, अवुद्धिपूर्ब्बकस्यापि स्वापेकरणव्यापारोपरमस्य दृष्टत्वात्। यस्त्वयं व्यपदेशो दर्शितः “विज्ञानं यज्ञं तनुते” इति स बुद्धेरेव कर्तृत्वं प्रापयति विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् मनोऽनन्तर पाठाच्च “तस्य श्रद्धैव शिरः” इति विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसंकीर्त्तनात् श्रद्धादीनाञ्च वुद्धिधर्म्मत्वप्रसिद्धेः “विज्ञानं देवाः सर्व्वे ब्रह्मज्येष्ठमुपासते” इति च वाक्यशेषात् ज्येष्ठत्वस्य बुद्धौ प्रसिद्धत्वात् “स एष वाचश्चित्तस्योत्तरोश्वरक्रमो यद्यज्ञ” इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात्। न च बुद्धेः शक्तिविपर्य्ययः करणानां कर्तृत्वाभ्युपगमे भवति सर्व्वकारकाणामेव स्वव्यपारेषु कर्तृत्वस्यावश्यंभावित्वात्। उपलब्ध्यपेक्षं त्वेषां करणत्वं सा चात्मनः। न च तस्यामप्यस्य कर्तृत्वमस्ति नित्यापलब्धिस्वरूपत्वात्। अहङ्कारपूर्व्वकमपि कर्वृत्वं नोपलब्धुर्भवितुमर्हति अहङ्कारस्याप्युपलभ्यत्वात्। न चैवं सति करणान्तरकल्पनाप्रसङ्गः बुद्धेः करणत्वाभ्युपगमात्। समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिहृतः। यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात्। तस्मात् कर्तृत्वमप्यात्मन उपाधिनिबन्धनमेवेस्थितम्” भा०। “अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते” इति गीतया कर्त्तृत्वस्याहङ्काराधीनतयौपाधिकत्वं सूचितमिति द्रष्टव्यम्”। तथा चान्तःकरेणोपहितचैवतन्यमेव जीवः स एव वेदान्ति- मतेकत्तति तत्त्वम्। तस्य च ईश्वराधोनयैव कतृत्वं तदपि “परात्तु तच्छतेः” इत्यादिशा० सूत्रभाष्ययोर्व्यवस्थापितं तच्च ईश्वरशब्दे दर्शितमिति। स्त्रियां ङीप् कर्त्त्री। “कर्त्तरि कृत्” कर्तृकरणयोस्तृतीया” “अकर्त्तरि च कारके” “कर्त्तुरी प्सिततमं कर्म” “कर्त्तुरुपमानादाचारे क्यङ्” शेषात् कर्त्तरि परस्मैपदम्” पा० “कर्तृकर्मव्यहितामसाक्षाद्धारयत् क्रियाम्” हरिः २ तत्प्रयोजके “तत्प्रयोजकोहेतुश्च” पा० “अकर्त्तर्य्यृणे” पा०। कर्त्तुर्भावः त्व कत्तृत्व न० तल् कर्त्तृता स्त्री कृत्याश्रयत्वे क्रियाश्रयत्वे च। तत्र नैयायिकमते आख्यातस्य कृतौ शकिः वैयाककरणमते कर्त्तरि शक्तिः “कर्त्तरि कृत्” “लः कर्म्मणि भावे चाकर्मकेभ्यः” पा० सूत्राभ्यां तथैव प्रतिपादनात् “कर्त्तरि कृत्” इत्यतः कर्त्तृपदस्यैव परसूत्रेऽनुवृत्तेः लकारस्यापि तदर्थकतैवेत्याकरे स्थितम्। अघिकमाख्यातशब्दे उक्तम्। “न कर्त्तृत्वं न कर्म्माणि लोकस्य सृजति प्रभुः” गोता। ३ परमेश्वरे पु० तस्य सर्वकर्तृत्वात्” “एतेषां पुरुषाणां स कर्त्ता यस्य वैतत् कर्म स वै वेदितव्यः” इति श्रुतेस्तस्य तथात्वम् यथा च तस्य सर्वकर्त्तृत्वं तथा ईश्वरशब्दे दर्शितम्। “करणं कारणं कर्त्ता विकर्त्ता गहनो गुरुः” विष्णुस०। कृत–तृच्। ४ छेदके त्रि० स्त्रियां ङीप् “क्रोधहा क्रोधकृत्कर्त्ता” विष्णु स०। क्रोधकृतां देत्यानां कर्त्ता भेदकः इत्येकं नामेति” भा० (कात) ५ क्षुद्रखड्गे न०। तस्य कर्त्तनहेतुत्वात् तथात्वम् “चतुर्भुजां कृशाङ्गीं तु दक्षेण कर्तृखर्परौ” ताराध्यानम्। ६ शस्त्रिकायां स्त्री ङीष्। “कर्त्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम्” ताराध्यादम्। उभयमपि उग्रताराशब्दे दर्शितम्। (कातारो) ७ कर्त्तर्य्याम् शब्दरत्ना०। अल्पार्थे क। कर्तृकापि क्षुद्रखड्गे स्त्री “हास्ययुक्तां त्रिनेत्राञ्च कपालकर्तृकाकराम्” तन्त्रसा० श्यामाध्यानम्। किरति विक्षिपति कायम् कॄ–विक्षेपे तृच्। ज्वरादिहेतुके ८ दाहादौ। ततोऽस्त्यर्थे मतुप् कर्तृमत् कर्तृयुक्ते त्रि० स्त्रियां ङीप्। “ह्रस्वनुड्भ्यां मतुप्” पा० अस्य उदात्तत्वम्। कर्तृशब्दे उपपदे दिवाविभेत्यादिना कृञः टः। कर्तृकर कर्तृकारके तत्प्रयोजके। स्त्रियां ङीप्। इष्टे ईयसि च तृणोलोपः करिष्ठः करीयान्। तृचस्तु न लुक्। डिद्वद्भावे कर्त्तिष्ठः कर्त्तीयानिति भेदः।

कर्त्त्र = शैथिल्यकरणे अद० चुरा० उभय० सक० शैथिल्ये अक० सेट् कर्त्त्रयति ते कत्त्रापयतीत्येके अचकर्त्त्रत् त। कर्त्त्रयाम्- बभूव आसचकार चक्रे। कर्त्त्र्यते अक्वर्त्त्रि–अकर्त्त्रिषाताम्–अकर्त्त्रयिषाताम्। प्रनिकर्त्त्रयति। क्त कर्त्त्रितः।

कर्त्रभिप्राय = पु० कर्त्तारमभिप्रैति संबघ्नाति अभि + प्र + इण–अण् उप० स०। १ कर्त्तृसम्बन्धिनि। “स्वरितञितः कर्त्त्रभिपाये क्रियाफले” पा०। अत्र क्रियाफलस्वरूपञ्चास्माभिः शब्दार्थरत्ने निरूपितं यथा। “स्वरितञिद्धातूत्तरतङः कर्तृगामिन्येव सति क्रियाफले कर्तृवाचकत्वं नान्यथा तत्र फलञ्च न धातूपस्थाप्यं जानात्यादीनां ज्ञानरूपफलस्य समवायेन कर्तृनिष्ठतया मर्व्वदैव जानीते इत्येव प्रयोगापत्तेः जानातीत्यादेरपलापाषत्तेश्च नेष्यते तु तथा शास्त्रकारैः। नापि क्रियाजन्यवेतनदक्षिणादिरूपलाभादि गौर्ण फलमिह विवक्षितं तथा सति सूदादेस्तादृशफलवत्त्वेन सूदः पचते ऋत्विजोयजन्ते इत्यादिप्रयोगापत्तेः। किन्तु फलतीतिव्युत्पत्त्या प्रयोजनापरनामकक्रियाजन्यतृप्तिस्वर्गादिरूपमेव मुख्यं फलं ग्राह्यं यथोक्तं हरिणा “यस्यार्थंस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः। तत् प्रधानं फलं तासां न लाभादि प्रयोजनमिति”। प्रसिद्ध्यर्थं निष्पत्त्यर्थं पचादयः पाकादयःतासां पचादीनां प्रधानं फलं तदित्यर्थः फलस्य प्राधान्यञ्चेतरापेक्षया बोध्यं तेन इतरेच्छानधीनेच्छाविषयत्वस्य तस्य सुखादिष्वेव सत्त्वेऽपि क्वचित् साक्षात्सुखादिरूपप्रयोजनालाभे तत्साधनरूपेतरफलस्यापि ग्रहणमिति द्रष्टव्यम् तेन “अपाद्वदः” पा० इत्यादिसूत्रविहिततङः सुखादिरूपमुख्यप्रयोजनाभावेऽपि कर्तृवाचकत्वम्”। कर्त्तुरभिप्रायो यत्र। २ कर्त्तुरभिप्रायविषये त्रि० उक्त पाणिनिसूत्रस्य “आत्मनेपदमपि कर्त्रभिप्रेतक्रिया फलमात्रजनकत्वेनेति” शब्दचि० व्याख्यानात्तदर्थता अत एव पा० सूत्रस्योभयार्थता। तदेतत्शब्द० प्र० विवृतं यथा “अत्रोभयपदिधातूनां यत्र क्रियाफलं कर्तृनिष्ठं तत्रात्मनेपदं यत्र च कर्तृभिन्ननिष्ठं तत्र परस्मैपदं साधु “स्वरितञितः कर्त्रभिपाये क्रियाफले” इति सूत्रेण कर्त्त्रारमभिप्रौति सम्बध्नातीति व्युत्पत्त्या कर्तृसम्बद्धे क्रियाफलएवात्मनेपदस्य विधानात्। अतएव “स्वरिज्ञिण्ण्यन्तधातूनां कर्तृनिष्ठे क्रियाफले। आत्मनेपदमुद्दिष्टं तदनिष्ठे पदान्तरम्” इत्यापिशालीयाः पठन्ति। तदनुसृत्यैव दानादिस्थले स्वगते फले ददे इत्येवं, परगते तु ददानीत्येव वाक्यं प्रयुञ्जते वृद्धाः। “स्वर्गंकामोयजेत” इत्यादौ च सामान्यतः श्रुतमपि फलं कर्तृनिष्ठमेव “शास्त्रदेशितं फलमनुष्ठातरोति” मीमांसयोत्सर्गतस्तथा कल्पमादिति प्राञ्चः। चिन्तामणिकृतस्तु यत्र क्रिवाफले कर्त्तृरभिप्रायैच्छा तत्रैवात्मनेपदमिति सूत्रार्थस्तेन याजकाद्यैर्दक्षिणदिलाभेच्छयैव यागादिकरणे यजन्ति याजकाः पठन्ति पाठकाः इति परस्मैपदम्। परगतस्यापि याग दिफलस्येच्छया तत्करणे तु यजन्ते याजकाइत्यादिकः साधुरेव प्रयोगोऽतएव “पितृस्वर्गकामः पुष्करिण्या यजेत” इत्यादावप्यात्मनेपदम् “धनकामोगणपतिं मुक्तिकामोऽर्च्चयेद्धरिम्” इत्यादौ ८ परस्मैपदं सङ्गच्छते” इत्याहुः।

कर्द्द = कुत्सितरवे उदरशब्दे च भ्वा० पर० अक० सेट्। कर्द्दति अकर्द्दीत् चकर्द प्रनिकर्दति।

कर्द्द = पु० कर्द्द–अच्। कर्द्दमे। शब्दर०।

कर्द्दट = पु० कर्द्दं कर्दमं कारणत्वेनाटति प्राप्नोति अट–अच् ६ त० शक०। १ करहाटे पद्मकन्दे २ कर्द्दमगन्तरि त्रि०। मेदि०। कर्द्द–अटन्। ३ पङ्के पु० मेदि०।

कर्द्दन = न० कर्द्द–भावे ल्युट्। उदरशब्दे हेमच०।

कर्द्दम = पु० कर्द्द–अम। (कादा) १ पङ्के अमरः। “सरितः कुर्वती गाधाः पथश्चाश्यानकर्द्दमान्” रघुः। करणे अम। २ पापे उणादिकोषः। तस्य कुत्सितशब्दहेतुत्वात्तथात्वम्। ३ मांसे न० शब्दचि०। तत्सेवने हि उदरशब्दोजायते इति तस्य तथात्वम्। कर्दमश्छाया कारणत्वेनास्त्यस्य अर्श० अच्। ब्राह्मणेश्छायाजाते ४ प्रजापतिभेदे। “छायायाः कर्द्दमोजज्ञे देवहूत्याः पतिः प्रभुः” भाग० ३, १२, १४, “प्रजाः सृजेति भगवान् कर्द्दमो ब्रह्मणोदितः। सरस्वत्यास्तपस्तेपे सहस्राणां समा दश। ततः समाधियोगेन क्रियायोगेन कर्द्दमः। संप्रपेदे हरिं भक्त्या प्रपन्न वरदाशुषम्” भाग० ३, २१, अष्टमश्लोकादौ। ततः कपिलस्य प्रादुर्भावोवर्णितः। तन्नामनिरुक्तिः” ब्रह्मवै० पु० ब्र० ख० दर्शिता यथा। “वेदेषु कर्दमः शब्दश्छायायां वर्त्तते स्फुटम्। वभूव कर्दमाद्बालः कर्दमस्तेन कीर्त्तितः”। तेन ५ छायायामपि। ततः ॠश्यादि० चतुरर्थ्यां क। कर्दमक पङ्कसन्निकृष्टदेशादौ त्रि० कर्दमोजातोऽस्य तारका० इतच्। कर्दमित जातकर्दम त्रि०। अर्श० मत्वर्थे अच्। कर्दम ६ कर्दमयुक्ते त्रि०। काश्या० चतुरर्थ्यां ष्ठञ् ञिटौ कार्दमिक कर्दमसन्निकृष्टदेशादौ त्रि० ष्ठञि स्त्रियां ङीष्। मत्वर्थे इनि कर्द्दमिन् पु० तद्युक्ते त्रि० मुद्गवृक्षे पु० वैद्य० तस्य कर्दमसमीपजातत्वात्तथात्वम्। पृषी० कर्द्रमीत्यपि तत्रार्थे।

कर्द्दमक = पु० कर्दमे कायति प्रकाशते कै–क। शालिभेदे, तस्य पङ्के एव हि प्ररोह इति तस्य तथात्वम्। “रक्तशालिषष्टिककङ्गुकमुकन्दकपाण्डुकपीतकप्रमोदककालकाशनकपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणूयवादयः” सुश्रु०।

कर्द्दमाटक = पु० कर्द्दमे इव आटोगतिरत्र कप्। विष्ठादिनिक्षेपस्थाने शब्दरत्ना०।

कर्द्दमिनी = स्त्री कर्दमानां देशः पुष्करा० देशे इनि। प्रचुरकर्दमयुक्तदेशे।

कर्पट = पुंन० कॄ–कर्म्मणि विच्–कर्–पटः कर्म्म०। १ लक्तके जीर्ण्णवस्त्रखण्डे (लाताकानि), २ मलिनवस्त्रे। करस्थः पटः शक०। घर्म्मादिमार्ज्जनार्थं हस्तन्यस्त्रे। ३ वस्त्रखण्डे। ४ कषायरक्ते वस्त्रे च। “नीलशैलस्य पूर्बस्मिन् स्वरूपं प्रतिपादितम्। नाभिमण्डलपूर्वस्यां भस्मकूटस्य दक्षिणे। पूर्वस्यां कर्पटो नाम पर्वतोयमरूपधृक्” कालिका ८१ अ० उक्त। ५ पर्वतभेदे पु०।

कर्पटिक = त्रि० कर्पट–अस्त्यर्थेठन्। कर्पटवस्त्रयुक्ते भिक्षुकादौ शब्दरत्ना०।

कर्पण = पु० कृप–ल्युट् कृपा० लत्वाभावः। आयसे शस्त्रभेदे। “चापवक्रकणपकर्पणप्रासपट्टिशमुषलतोमरादिप्रहरणजालमुपयुञ्जानः” दशकु०।

कर्पर = पु० कृप्–अरन् लत्वाभावः। १ कपाले घटावयवे २ शीर्षोर्द्धास्थनि, अमरः (माथार खुली), ३ शस्त्रभेदे (कात) ४ कटाहे च मेदिनी ५ उदुम्बरे वृक्षे शब्दच०।

कर्परांश = पु० ६ त०। कपालांशे (खावरा) शब्दचि०।

कर्पराल = पु० कर्पर इवालति अण्–अच्। पर्वतपीलुभेदे। (आखरोट्) कन्दराले रमानाथः।

कर्पराशिन् = पु० कर्परेऽश्नाति अश–भोजने णिनि। वटुकभैरवे। “श्मशानवासी मांसाशी कपराशी मखान्तकृत्” वटुकस्तवः।

कर्परिकातुत्थ = कर्पर्य्येव स्वार्थे कन् कर्परिका सैव तुत्थम्। कर्परीरूपे तुत्थे हेम०।

कर्परी = स्त्री कृप–अरन्–लत्वाभावः गौ० ङीष्। १ दारुहरिद्राक्षारभबे तुये(तु~ते) अम०। २ रसके भावप्र० खर्परीति वाऽत्र पाठः। रसकञ्चोपरसभेदः उपरसभेदाश्च उपरसशब्दे उक्ताः भावप्र० तद्गुणाद्युक्तं यथा “क(ख)र्परीतु यकं तु थादन्यतद्रसकं स्मृतम्। ये गुणास्तुत्थके प्रोक्तास्ते गुणा रसके स्मृताः”। तु यसामान्यं तु नोपरस इति भेदः।

कर्पास = पुं न० कृ–पास। वस्त्रहेतुसूत्रयोनौ (कापास) वृक्षभेदे अमरः। गौरा० ङीष्। तत्रैव स्त्री भावप्र०। “कर्पासो तुण्डकेरी च समुद्रान्ता च कय्यते। कर्पासिका लघुः कोष्णा मधुरा वातनाशिनी। तत्पलाशं समीरघ्नं रक्तकृत्मूत्र- वर्द्धनम्। वल्कलं पिडकानाह पूयस्रावविनाशनम्। तद्वीजं स्तन्यदं वृष्यं स्निग्धं कफकरं गुरु” इति तत्रोक्तेः।

कर्पासफल = न० ६ त०। (माकाटो) कर्पासीवीजे।

कर्पूर = पु० न० कृप्–खर्जू० ऊर लत्वाभावः। स्वनामख्याते गन्धद्रव्ये, तद्गुणाः भावप्र० उक्ताः, यथा “कर्पूरः शीतलोवृष्यश्चक्षुष्यो लेखनोलघुः। सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः। दाहतृष्णास्यवैरस्यमेदोदौर्गन्ध्यनाशनः। कर्पूरोद्विविधः प्रोक्तः पक्कापक्वप्रभेदतः। पक्वात् कर्पूरतः प्राहुरपक्वं गुणवत्तरम्। (अथ चिनिआ कर्पूर) “चीनाकसंज्ञः कर्पूरः कफक्षयकरः स्मृतः। कुष्ठकण्डूवमिहरस्तथातिक्तरसश्च सः। कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णास्रदाहदः। चिरस्थोदाहशोषघ्नः स धौतः शुभकृत् परः”। तस्य च “पोतासः भीमसेनः सितकरः शङ्करावालुकसंज्ञःपांशुःपिञ्जः अब्दसारः हिमवालुकः जूतिका तुषारः हिमशीतलः पत्रिकाख्यभेदात् द्वादश भेदा राजनि०। ततः काशा० चतुरर्थ्याम् इल। कर्पूरिल तत्सन्निकृष्टदेशादौ त्रि०। शुभ्रादिपाठात् तन्नामके। २ नरभेदे तस्यापत्यं शुभ्रा० ढक्। कार्पूरेय तदपत्ये पुंस्त्री।

कर्पूरक = पु० कर्पूर इव कायति कै–क। (कचूर) नामद्रव्ये कर्चूरे शब्दच०।

कर्पूरतिलका = स्त्री उमासखीभेदे विजयायाम् शब्दमाला।

कर्पूरतैल = न० कर्पूरस्य तैलमिव स्नेहः। कर्पूरस्नेहरूपे हिमतैले तैलभेदे राजनि०। “कटूष्णं हिमतैलं स्यात् कफवातामयापहम्। दन्तदार्ढ्यकरं पित्तकारकं परिकीर्त्तितम्” राजनि०।

कर्पूरनालिका = स्त्री “घृताढ्यया समितया लम्बं कृत्वापुटं ततः। लवङ्गोल्वणकर्पूरयुतया सितयाऽन्वितम्। पचेदाज्येन सिद्धैषा ज्ञेया कर्पूरनालिका। संयावसदृशी ज्ञेया गुणैः कर्पूरनालिका” भावप्र० उक्ते पाकभेदसिद्धे भक्ष्यभेदे।

कर्पूरमणि = पु० कर्पूरवर्णो मणिः। रत्नभेदे, “कर्पूरमणिनामायं युक्त्या वातादिदोषनुत्” राजनि०। कर्पूराश्मादयोऽप्यत्र पु०।

कर्पूररस = पु० कर्पूर इव कृतोरसः पारदः। पाकविशेषेण कपूरवत्कृते पारदे रसकर्पूरे तत्पाकप्रकारः भावप्र० उक्तो यथा“अथ कर्पूररसस्य विधिः तत्र पारदस्य संक्षिप्तं शोधनं कत्तव्यम्। शुद्धसूतसमं कुर्य्यात् प्रत्येकं गैरिकं सुधीः। इष्टिकां खटिकां तद्वत्स्फटिकां सिन्धुजन्म च तल्मीकं क्षारलवणं भाण्डरञ्जकमृत्तिकाम्। सर्वाण्येतानि सञ्चूर्ण्य वास- सा चापि शोधयेत्। खटिका(खरी) (स्थटिका) (फट्किरी) सिन्धुजन्म सैन्धवम्। बल्मीकम् (रुइमाटी) क्षारलवणम् (खारिलोण) भाण्डरञ्जकमृत्तिका (काविसा)। एभिश्चूर्णैर्युतं सूतं यावद्यामं विमर्दवेत्। तच्चूर्णसहितं सूतं स्थालीमध्ये परिक्षिपेत्। तस्याः स्थाल्यामुखे स्थालीमपरां धारयेत् समाम्। सवस्त्रकुटितमृदा मुद्रयेदनयोर्मुखम्। संशोष्य मुद्रयेद्भूयोभूयः संशोष्य मुद्रयेत्। सम्यग्विशोष्य मुद्रां तां स्थालीञ्चुल्यां विधारयेत्। अग्निं निरन्तरं दद्याद्यावद्दिनचतुष्टयम्। अङ्गारोपरितद्यन्त्रं रक्षेद्यत्नादहर्निशम्। शनैरुद्घाटयेद्यन्त्रमूर्द्धस्थालीगतं रसम्। कर्पूरवत् सुविमलं गृह्णीयाद्गुणवत्तरम्। तदेव कुसुमचन्दनकस्तूरीकुङ्कुमै र्युक्तम्। खादन् हरति फिरङ्गव्याधिं सोपद्रवं सपदि। विन्दति वह्नेर्दीप्तिं पुष्टिं वीर्य्यंबलं विपुलम्। रमयति रमणीशतकं रसकर्पूरस्य सेवकः सततम्”।

कर्पूरस्तव = पु० कर्पूरशब्दघटितः स्तवः। “कर्पूरं मध्यमान्त्यस्वरपरिरहितम्” इत्यादिके तन्त्रोक्ते श्यामास्तवभेदे।

कर्पूरा = स्त्री कृप–खर्जू० ऊर–लत्वाभावः। हरिद्राभेदे। “दार्वी मेदास्रगन्धा च सुरभी दारुदारु च। कर्पूरा पद्मपत्रा स्यात् सुरीमत् सुरतावकाः” भावप्र० तत्पर्य्यायः। मदनपाले तु हरिद्रायाः पञ्चधा विभागमुक्त्वा तद्गुणाउक्ताः, यथा “दार्वी दारुहरिद्रा स्यात् पीतदारु च पञ्चधा। कटङ्कटेरी पीतद्रुः स्वर्णवर्णा कटङ्कटी। दार्वी तद्वद्विशेषात्तु मूत्रकर्णास्यरोगनुत्”।

कर्पूरिन् = त्रि० कर्पूरोऽस्त्यस्य इनि। कर्पूरयुक्ते ततः सुवास्त्वा० चतुरर्थ्याम् अण्। कार्पूर तस्यादूरभवदेशादौ त्रि०।

कर्फर = पु० कीर्य्यते विच् फल्यते फलः प्रतिविम्बः कः कीर्य्यमाणः फलः प्रतिविम्बं यत्र लस्य रः। दर्पणे जटाधरः तत्र हि प्रतिविम्बस्य पतनात् तस्य तथात्वम्।

कर्बगतौ = भ्वा० पर० सक० सेट्। कर्बति अकर्बीत्। चकर्ब।

कर्बु = पु० कर्ब–उ। १ चित्रवर्णे २ तद्वति त्रि० “अनन्ता रगस्यस्तस्य दीपवद्यः स्थितो हृदि। सितासिताः कर्बुनोलाः कपिलाः पोतलोहिताः” याज्ञ०। स्वार्थे कन् तत्रार्थे

कर्बुदार = पु० कर्बुः सन् दारयति मलं दृ–णिच्–अच् कर्म्म०। १ कोविदारवृक्षे २ श्वेतकाञ्चने च रत्नमा० ३ नीलझिण्ट्यां शब्दच०। “कोविदारकर्बुदारारिष्टेत्यादि” सुश्रु०। तस्य तैलन्तु मधुरम्। “पियालकर्बुदारसूर्य्यवल्लीत्रपुसैर्वारुक कर्कारुकुष्माण्डप्रभृतीनां तैलानि मधुराणि” सुश्रु०। “अच्चूयूथिकेत्याद्युपक्रमे कर्बुदारकोविदारप्रभृतीनि “कषायम्वादतिक्तानि रक्तपित्तहराणि च। कफघून्यनिलं कुर्य्युः संग्राहीणि लघूनि च” इति सुश्रुतेन कोविदारादस्य भेदस्य निर्द्देशात ततोऽस्य भेदः इति बोध्यम्।

कर्बुदारक = पु० कर्बुः सन् दारयति कफं दृ–णिच्–ण्वुल्। श्लेष्मान्तकवृक्षे राजनि०।

कर्बुर = पु० कर्ब–गतौ मद्गुरा० उरच्। १ चित्रवर्णे शवले इतरवर्णेन सह संपर्कादस्य तथात्वम्। २ तद्वति त्रि० “पवनैर्भस्य कपोतकर्बुरम्” कुमा०। ओष्ठमध्योऽप्ययं बवयोरभेदात् दन्त्यमध्योऽपीति शब्दचि०। ३ पापे नरकादिगतिहेतुत्वात्तस्य तथात्वम्। ४ नादेयनिष्पावधान्ये राजनि० कर्बुरवर्णत्वात्तस्य तथात्वम्। ५ जले न० मेदि० नीचगतित्वात्तस्य तथात्वम्। कर्व–दर्पे, मद्गुरा० उरच् दन्त्यमध्यः। ६ स्वण्णे न० मेदि० इतरधातुभ्यस्तस्योत्कर्षेण दर्पयोगात्तथात्वम्। तन्नामनामके ७ धूस्तूरे च अम०। ८ शठ्याम् अमरटीका ९ राक्षसे पु० अमरे पाठान्तरम् दर्पयुक्तत्वात्तस्य तथात्वम्। १० कृष्णपृक्कायां (पारुल) स्त्री टाप् मेदि० ११ वर्वरायां (वावुइ तुलसी) स्त्री जटा० गौरा० ङीष् कर्वुरी। १२ दुर्गायां स्त्री त्रिका०।

कर्बुरफल = पु० कर्बुरं फलमस्य। साकरुण्डवृक्षे राजनि०

कर्बू(र्वू)र = पु० कर्व–गतौ कर्ब–दर्पे वा खर्जूरा० ऊर। १ राक्षसे उणा०। २ शठ्यां च अमरः ३ कर्चूरे (काचा) हरिद्रायाम् शब्दर०। भावप्र० कर्च्चूर इत्येव पाठः। ४ स्वर्णे ५ हरिताले न० शब्दचि० वैजयन्त्याम् कर्चरमिति पाठः कर्चूरशब्दे उदा०। ६ चित्रवर्ण्णे पु० ७ तद्वति त्रि० अमरटीका स्वार्थे कः। कर्बूरकस्तत्रार्थेषु।

कर्म्मकर = त्रि० कर्म करोति भृत्यः कृ–ट। वेतनेन कर्मकारके स्त्रियां ङीप्। “प्रोचुः प्राञ्जलयः स्त्रियः वयं कर्मकरीस्तुभ्यम्” भाग० ३, २३, २६। जसः स्थाने शस् आर्षः। ताच्छील्ये ट। २ दासे कर्मकरणशीले “चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ। लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः?” भा० व० १२४ अ०। “नाभुक्तवति नास्नाते नासंविष्टे च भर्त्तरि। न संविशामि नाश्रामि सदा कर्मकरेष्वपि” भा० व० २३२। स्त्रियां ङीप्। कृ–हिंसायां मन् कर्म हिंसां करोति हेत्वादौ ट। ३ यमे पु० मेदि०। सर्वप्राणिहिंसायां तस्याधिकृततया च तस्य तथात्वम्। ४ मूर्वालतायाम् स्त्री मेदि०। कर्मकरश्च दासभेदस्तस्य भेदकर्मादिकं मिता० नारदेनोक्तं यथा। “शुश्रूषकः प्रञ्चविधः शास्त्रे दृष्टोमनीषिभिः। चतुर्व्विधः कर्मकरस्तेषां दासास्त्रिपञ्चकाः। शिष्यान्तेवासिभृतकाश्चतुथैस्त्वधिकर्मकृत्। एत कर्मकरा ज्ञेया दासास्तु गृहजादयः। सासान्यमस्वतन्त्रत्वमेषामाहुर्मनोषिणः। जातिकर्मकरस्तूक्तोविशेषोवृत्तिरेव च। कर्मापि द्विविघं ज्ञेयमशुभं शुभमेव च। अंशुभं दासकर्म्मोक्तं शुभं कर्म्मकृतां स्मृतम्। गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम्। गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम्। अशुभङ्कर्भ विज्ञेयं शुभमन्यदतः पर” मिति–“तत्र शिष्योवेदविद्यार्थी। अन्तेवासी शिल्पादिषु। मूल्येन यः कर्म्म करोति स भृतकः। कर्म्मकुर्वतामधिष्ठाता अधिकर्म्मकृत्। अशुचिस्थानम् उच्छिष्टप्रक्षेपणार्थं गर्तादिकम्। अवस्करः गृहमार्जितपांश्वादिनिचयस्थानम्। उज्झनं त्यागः। भृतकश्चात्र त्रिविधः। तदुक्तम् “उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः। अधमोभारवाही स्यादित्येवन्त्रिविधोभृतः” इति।

कर्म्मकर्त्तृ = पु० कर्नैव कर्त्ता। व्याकरणोक्ते कर्मणः कर्तृत्वविवक्षया प्राप्तकर्तृत्वभावे कर्मणि। “क्रियमाणन्तु यत् कर्म स्वयमेव प्रसिध्यति। सुकरैः स्वैर्गुणैः कर्त्तुः कर्मकर्त्तोत तद्विदुः” व्या० का०। कर्मकर्त्तरि च कार्य्यभेदातिदेशमाह “कर्मवत् कर्मणा तुल्यक्रियः” पा०। सि० कौ० विवृतमेतत् यथा

“कर्त्तरि तु कर्मस्थया क्रियया तुल्यक्रियः कर्त्ता कर्मवत्स्यात्। कार्य्यातिदेशोऽयम्। तेन यगात्मनेपदचिण्चिण्वदिटः स्युः। कर्त्तुरभिहितत्वात्प्रयमा। पच्यते ओदनः। भिद्यते काष्ठम्। अपाचि। अभेदि। ननु भावे लकारे कर्त्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न लकारवाच्य एव कर्त्ता कर्मवत्। लिङ्याशिष्यङिति द्विलकारका ल्ल इत्यनुवृत्तेः भावे प्रत्यये च कर्त्तुर्ल्लकारेणानुपस्थितेः। अतएव कृत्यक्तखलर्थाः कर्मकर्त्तरि न भवन्ति किन्तु भावे एव। भेत्तव्य कुसूलेन। ननु पचिभिद्योः कर्मस्था क्रिया विक्लित्तिर्द्विधाभवनञ्च। सैवेदानीङ्कर्त्तृस्था न तु तत्तुल्या? सत्यम्। कर्मत्वकर्त्तृत्वावस्थाभेदोषाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः। कर्मणेति किम्? करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत्। किञ्च–कर्त्तृस्थक्रियेभ्यो मा भूत्, गच्छति ग्रामः, आरोहति हस्ती, अधिगच्छति शास्त्राथः, अरति श्रद्दधाति वा। यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते, यथा पक्वेषु तण्डुलेषु, यथा वा च्छिन्नेष काष्ठेषु तत्र कर्मस्था क्रिया, नेतरत्र। न हि पक्वापकतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते। करोतिरुत्पादनार्थः। उत्पत्तिश्च कर्मस्था, तेन कारिष्यते घट इत्यादि। यत्नार्थत्वे तु नैतत्सिद्ध्येत्। ज्ञानेच्छादिवद्यत्नस्य कर्त्तृस्थत्वात् एतेन अनुव्यवस्यमानेऽथं इति व्याख्यातम् इदमस्माभिः सरलायां व्याख्यातम् यथा“उत्प्रवृत्तिमात्रे कर्त्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसम्भवः” इति वाक्यमनुरुन्धानः कर्त्तृत्वकर्मत्वादिकं व्यवस्थाप्य कार्य्यविशेषाय कर्मातिदेशकसूत्रमवतारयति कर्त्तरि त्विति। कर्मस्थया कर्ममात्रस्थया क्रियया फलेन “फलव्यापारयोर्धातुः” इत्युक्तेः “धातोरर्थः क्रियोच्यते” इत्युक्तेश्चेत्यर्थः। तुल्यक्रियः समानाधिकरणक्रिय इत्यर्थः। किञ्च कर्मस्थभावकएव कार्य्यातिदेशार्थं कर्मणेति पदम् “कर्मस्थेऽपि च धात्वर्थे कर्मकर्त्ता च कर्मवत्। कर्त्तृस्थेऽपि च धात्वर्थे कर्मकर्त्ता च कर्त्तृवत्” इत्युक्तेः “कर्मस्यः पचतेर्भावः कर्मस्थाश्च भिदादयः” इत्युक्तेः भिदादयः कर्ममात्रस्थाः। गमनादयस्तु कर्त्तृस्थाः “कर्त्तृस्थोबुध्यतेर्भावः कर्त्तृस्थाश्च गमादयः” इत्युक्तेः। “व्यत्ययोबहुलल्लिङ्याशिष्यङिति” सूत्रयोः सन्धिजातद्विलकारमध्ये एकलकारस्यानुवृत्तेरित्यर्थः। कृत्यक्तखलर्थाइत्यत्र क्तग्रहणं प्रायिकं सिनोग्रासैत्यादौ कर्मंकर्त्तंरि क्तस्य दर्शनादिति बोध्यम्। वास्तविकभेदाभावेऽप्यौपाधिकभेदोऽस्तीत्याह कर्मंत्वकर्त्तृत्वावस्थेति तथा चावस्थाभेदेन क्रियाभेदात् कर्त्तुः कर्मंस्थक्रियया तुल्यक्रियत्वमिति भावः। नेतरः त्रेति। “निर्वर्त्त्ये च विकार्य्ये च कर्म्मंवद्भाव इष्यते। न तु प्राप्ये कर्मंणीति सिद्धान्तोऽयं व्यास्थितः” इतिहर्य्युक्तेः क्रियाकृतविशेषवतोरेव निर्व्वर्त्त्यविकार्य्यंयोः कर्म्मवद्भावो न तु तद्रहिते प्राप्य इति सिद्धान्तो द्योतित इति भावः” अत्र च यथा बोधाधिकं तथा शब्द० प्र० उक्तं यथा

“अथ भिद्यते अभेदि कुशूलः स्वयमित्यादौ भिदाद्यनुकूलव्यापारवत्त्वरूपस्य तत्कर्तृत्वस्य कथं कुशूलादावन्वयः भिदादेः परस्मैपदित्वेन तदर्थधर्म्मितया कर्तृत्वबोधने पदान्तरस्यासामर्थ्यात् यगिणोर्विगुणत्वाच्चेत्यत आह। एकक्रियाधर्म्मितया कर्तृता कर्म्मतोभयोः। बोधने कर्म्मताकाङ्क्षैवापेक्ष्योत्सर्गतोभवेत्। कर्म्मंताकाङ्क्षा कर्म्मतान्वयस्यैवानुकूला आत्मनेपदयगादिसममिव्याहाररूपाकाङ्क्षा व्युत्पत्तिवैचित्र्यादपेक्षणीया न तु कर्तृत्वान्वयस्य परस्मैपदविकरणादिसन्दंशरूपा यद्येवं तण्डुलचैत्रौ पक्ष्येते इत्यपि प्रयोगः स्यात् सामग्य्रोर्मिथोविरोधेन विभिन्नकर्म्मावच्छिन्ने प्रत्ययानां युगपत्कर्तृताकर्म्मत्वयोरनुभावकत्वस्याव्युत्पन्नत्वात्। अतएव पचेलिमौ मैत्रतण्डुलावित्यादिकोन प्रयोगः “आत्मने ध्रौव्यधातूनां सनन्तण्यन्तयोः किरः। श्रन्थिग्रन्थ्योस्तथा ब्रूञः कर्तृकर्मत्वबोधने। यगिणौ न दुहेर्नो यगजन्तस्य च तस्य च। इण्वा स्यादुक्तधातूनां नित्यं तत्रात्मनेपद” मिति वृद्धस्मृतेः। स्वयं विकुरुते युवेत्यादौ, स्वयं चिकीर्षते कट इत्यादौ, स्वयं कटः कारयते गौरुत्पुच्छयते चिरयते इत्यादौ, स्वयमेव किरते करीत्यादौ, स्वयं श्रथ्नीते ग्रथ्नीते वा मालिकेत्यादौ, स्वयं ब्रूते कथेत्यादौ, स्वयं दुग्धे गौरित्यादौ, धात्वर्थकर्तृकर्म्मत्वयोर्युगपदन्वये कर्म्मत्वान्वयानुकूलस्य यकोनापेक्षा, तथा स्वयं व्यकृत युवा, स्वयमचिकीर्षत कट इत्यादौ, इणोऽपि एवं स्वयमलावि अलविष्ट वा केदारैत्यादौ, स्वरान्तस्य धातोः स्वयमदुग्ध अदोहि वा गौरित्यादौ, दुहेश्चार्थंस्य तदुभयभानार्थमिणोऽनावश्यकत्वमतौक्तमुत्सर्गतैति। “वि कारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः” (कुमा०) इत्यादौ तु यकोगतिश्चिन्त्या। ननु शाकः पचता भुज्यते इत्यादितः कुतः पाकादौ शाकादिकर्मत्वावगमः सुवर्थस्यैव कर्मत्वस्य धात्वर्थे धर्म्मिणि साकाङ्क्षत्वादतआह। स्वकर्मकैकधात्वर्थकर्तृकापरकर्मता। यत्रान्वेत्यस्य कर्मत्वे प्रथमैवानुशिष्यते। स्वकर्मताकत्वविशिष्टैकधात्वर्थकर्तृकर्तृकस्यापरस्य धातुनिपातयोरन्यतरार्थस्य कर्मत्वं यत्र धर्म्मिण्यन्वेति तदीयत्वेनानुभाव्ये कर्म्मत्वे प्रथमैवानुशिष्यते नतु द्वितीयादिरपेक्ष्यते तेन शाकः स्वकर्मताकपाककर्तृकर्तृताकभोजनकर्मतावानित्याद्यन्वयधीस्तत्र स्यात्। अतएव “प्रधानशक्त्यभिधाने गुणशक्तिरनिहितवत् प्रकाशते” इति पठन्ति। शक्तिः कारकमिति शाब्दिकाः। कर्मतामात्रन्तु ज्यायः, तेन हस्तेन पचता भुज्यते शाकैत्यादौ नाभिहिताधिकारीयप्रथमा शक्तिः”। अत्राभिहिताधिकारीयप्रथमाशक्तिरिति तु अनभिहिताधिकारीया न तृतीयाशक्तिरित्येतत् परम् अभिहिते प्रथमा इत्येवमधिकाराभावात् अनभिहिते इत्यस्यैवाधिकारादिति चिन्त्यम्। ६ त०। २ कर्मकारके त्रि०। स्त्रियां ङीप्। कृ–क्विप् ६ त०। कर्मकृदप्यत्र। कर्मकरशब्दे उदा०।

कर्म्मकाण्ड = न० कर्मणां कर्त्तव्यताप्रतिपादकं काण्डम्। कर्मणां कर्त्तव्यताप्रतिपादके वेदभाग कर्मकाण्डस्या रम्भप्रयोजनञ्च वृह० उ० भाष्ये दर्शितंयथा। “तत्रास्य कर्म्मकाण्डेन सम्बन्धोऽभिधीयते। सर्व्वोऽप्ययं वेदः प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रकाशनपरः सर्व्वपुरुषाणां निसर्गंत एव तत्प्राप्तिपरिहारयेरिष्टत्वात्। दृष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञानस्य प्रत्यक्षानुमानाभ्यामेव सिद्धत्वान्नागमान्वेषणा। न चासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टानिष्टप्राप्तिपरिहारेच्छा स्यात् स्वभाववादिदर्शनात्। तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारोपायविशेषे च शास्त्रं प्रवर्त्तते। “येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके” इत्युपक्रम्य “अस्तीत्येवोपलब्धव्यः” इत्येवमादिनिर्णयदर्शनात्। “यथा च मरणं प्राप्य” इत्युपक्रम्य “योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसयन्ति यथाकर्म्म यथाश्रुतम्” इति च, स्वयं ज्योतिरित्युपक्रम्य” तं विद्याकर्म्मणी समन्वारभेते पुण्योवै पुण्येन कर्म्मणा भवति”। ज्ञपयिष्यामीत्युपक्रम्य “विज्ञानमयः” इति च व्यतिरिक्तात्मास्तित्वम्। तत्प्रत्यक्षविषयमेवेति चेन्न वादिविप्रतिपत्तिदर्शनात्। न हि देहान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकायतिका बौद्धाश्च नः प्रतिकूलाः स्युः। नास्त्यात्मेति वदन्तः। न हि घटादो प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते नास्ति घट इति। स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत् न निरूपितेऽभावात्। न हि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्रतिपत्तिर्भवति। वैनाशिकस्त्वहमितिप्रत्यये जायमानेऽपि देहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते। तस्मात् प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षान्नात्मास्तित्वसिद्धिः। तथानुमानादपि। श्रुत्यात्मास्तित्वे लिङ्गस्यादर्शितत्वात् लिङ्गस्य च प्रत्यक्षविषयत्वान्नेति चेत् न जन्मान्तरसम्बन्धस्या ग्रहणात् आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिकलिङ्गविशेषैश्च तदनुसारिणो मीमांसकास्तार्किकाश्चाहम्प्रत्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवानीति कल्पयन्तो वदान्ति प्रत्यक्षश्चानुमेयश्चात्मेति। सर्व्वथाप्यस्त्यात्मा देहान्तरसम्यन्धीत्येवम्प्रतिपत्तुर्देहान्तरगतेष्टा निष्टप्राप्तिपरिहारोपायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्म्मकाण्डं समारब्धम्”। अधिकारिभेदेनैव कर्मकाण्डे प्रवृत्तिः “लोकेऽस्मितु द्विविधा निष्ठा पुरा प्रोक्ता मयानघ!। ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्” इति गीतायामपि द्वैविध्योक्तेः अतएव “तमेतं ब्राह्मणाविविदिषन्ति वेदानुवचनेन यज्ञेन तपसा नाशकेन” इति श्रुत्यैव कर्मणां विविदिषाहेतुतोक्तेः विविदिषायामेव कर्मकाण्डप्रतिपाद्यकर्मणामुपयोग इत्याकरे स्थितम्।

कर्म्मकार = त्रि० कर्म्म करोति अभृत्या अण् उप० स०। विना वेतनेन १ कर्म्मकारके (वेगार) (कामार) इति प्रसिद्ध सङ्कीर्णजातिभेदे जातिशब्दे विवृतिः। “हरिणाक्षि! कटाक्षेण आत्मानमवलोकय। नहि खड्गोविजानाति कर्म्मकारं स्वकारणम्” उद्भटः।

कर्म्मकारिन् = त्रि० कर्म्म करोति कृ–णिनि स्त्रियां ङीप्। कर्म्म कारके “तान् विदित्वा सुचरितैर्गूढैस्तत्कर्म्मकारिभिः” मनुः

कर्म्मकीलक = पु० कर्म्मणा कीलक इव। रजके जातिभेदे। त्रिका०।

कर्म्मक्षम = त्रि० कर्म्मणि क्षमः ७ त०। कर्मकरणसमर्थे “आत्मकर्म्मक्षमं देहं क्षात्रोधर्म्म इवाश्रितः” रघुः।

कर्म्मक्षेत्र = न० कर्म्मणां क्रियानुष्ठानानां क्षेत्रम्। जम्बुद्वीपान्तर्गते नवसु वर्षेषु अनुष्ठानदेशे भारते वर्षे। नववर्षाण्युक्त्वा “अत्रापि भारतमेव वर्षं कर्मक्षेत्रम्। अन्यान्यष्टवर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमस्वर्गपदानि व्यपदिशन्ति” भाग० ५, १७, १२, १३, कर्मभूमिरप्यत्र स्त्री। “उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद्भारतं नाम भारती यत्र सन्ततिः” इत्युपक्रम्य “कर्मभूमिरियं स्वर्गमपवर्गञ्च यच्छति”। “अत्र सप्राप्यते स्वर्गोमुक्तिमस्मात् प्रयान्ति च। तिर्य्यक्त्वं नारकित्वञ्च मध्यं चातश्च गम्यते। न स्वल्वन्यत्र मर्त्यानां कर्मभूमौ विधीयते” विष्णु पु० पराशरवाक्यम्।

कर्म्मग्रान्थ = पु० कर्मणां ग्रन्थिर्बन्धनमस्मात्। अज्ञानजन्य वासनारूपे दोषे तस्यैव सकलप्रवृत्तिहेतुत्वात्तस्य कर्मबन्धनहेतुत्वात्तथात्वम्।

कर्म्मचण्डाल = पु० कर्मणा चण्डाल इव। “असूयकः पिशुनश्च कतघ्नो दीर्घरोषकः। चत्वारः कर्मचण्डाला जन्मतश्चापि पञ्चमः” वसिष्ठोक्तेषु असूयकादिषु चतुर्षु। २ राहौ च। “उत्तिष्ठ गम्यतां राहौ! त्यज्यतां चन्द्रसङ्गमः। कर्मचण्डाल! योगोत्थं मम पापक्षयं कुरु” ग्रहणमुक्तिस्नानमन्त्रः। राहोश्च असूयकत्वाद्दीर्घदोषवत्त्वाच्च तथात्वम्।

कर्म्मचित् = त्रि० चितवान् चि–भूते क्विप् ६ त०। १ कृतकर्मणि। कर्मणि क्विप् ६ त०। २ कर्मणा चीयमाने च “कर्ममयान् कर्मचितस्ते कर्मणैवाधीयन्ते कर्मणा चीयन्ते” शत० ब्रा०। १०, ५, ३, ९।

कर्म्मचित = त्रि० कर्मणा चितः चि–क्त। कर्मानष्पाद्ये “तद्यथेह कर्मचितोलोकः क्षीयते एवममुत्र पुण्यचितः” वेदपरि० श्रुतिः

कर्म्मचेष्टा = स्त्री कर्मणि क्रियायै चेष्टा। क्रियानुष्ठानार्थं चेष्टायाम् “आत्मजन्या भवेदिच्छा, इच्छाजन्या भवेत् कृतिः। कृतिजन्या भवेच्चेष्टा, चेष्टाजन्या क्रिया भवेत्” इत्युक्तेः चेष्टायाः क्रियाहेतुत्वेन तथात्वम् “कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी” मनुः।

कर्म्मचोदना = स्त्री कर्मणि कर्मावबोधने चोदना विधिः। कर्मविषये १ प्रेरणारूपे विधौ “कर्मावरोधनं चोदना क्रियायाः प्रवर्त्तकं वचनमिति” मीमा० भा०। चोद्यते प्रवर्त्त्यतेऽनया बा० करणे अ ७ त०। २ कर्मप्रवृत्तिहेतौ ज्ञानज्ञेयज्ञातृरूपेऽर्थे च। “ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना” गोता। “ज्ञानमिष्टसाधनमितिबोधः, ज्ञेयमिष्टसाधनं कर्म, परिज्ञाता तज्ज्ञानाश्रयः त्रिविधा कर्मचोदना चोद्यते प्रवर्त्त्यतेऽनयेति चोदना ज्ञानादित्रितयं कर्मप्रवृत्तिहेतुरित्यर्थः। यद्वा चोदनेति विधिरुच्यते तदुक्त भट्टैः–“चोदना चोपदेशश्च विशिष्टैकार्थवाचिनः” इति ततश्चायमर्थः–उक्तलक्षणं त्रिगुणात्मकं ज्ञानादित्रयमवलम्ब्य कर्मविधिः प्रवर्त्तते इति” श्रीधरः।

कर्म्मज = त्रि० कर्मणो कर्मजन्यादृष्टात् जायते जन–ड। कर्महेतुके रोगादौ। रोगादिव्याधयो हि नानाविधाः यथोक्तं भावप्र०-

“तेष स्वाभाविकाः केचित्केचिदागन्तवः स्मृताः। मानसाः केचिदाख्याताः कथिताः केऽपि कायिकाः। तत्र स्वाभाविकाः शरीरस्वभाबादेव जाताः। क्षुत्पिपासा सुषुप्त्या च जरामृत्युप्रवृत्तयः। अथवा स्वस्वभावादुत्पत्ते र्जाता स्वाभाविकाः सहजा इति यावत्। ते च जन्मान्धत्वादयः। आगन्तवोऽभिघातादिजनिताः। अथवा जन्मोत्तरभाविनः कामक्रोधलोभमोहभयाभिमानदैन्यपैशुन्यशोकविषादेर्ष्यासूयामात्सर्य्यप्रभृतयः। अथ वोन्मादापस्मारमूर्च्छाभ्रममोहतमः संन्यासप्रभृतयः। कायिकाः पाण्डुरोगप्रभृतयः। कर्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे। कर्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः। तत्र कर्मजाः व्याधय यत्प्राक्तनन्दुष्कर्मभवङ्केवलभोगनाश्यम् प्रायश्चित्तनाश्य वा ततो जाताः न तु दुष्टवातादिदोषेण जनितास्तथा। यथाशास्त्रन्तु निर्णीतो यथाव्याधिचिकित्सितः। न शमं याति यो व्याधिः स ज्ञेयः कर्मजो बुधैः। दोषजाः मिथ्याहारविहारप्रकुपितवातपित्तकफजाः। ननु मिथ्याहारविहारिणामपि प्राक्तनसुकृतेन नैरुज्यं दृश्यत एव। ततो दोषजेष्वपि प्राक्तनं दुष्कर्मैव कारणम् तत् कथं दोषजा इत्युच्यन्ते?। दोषयेष्वपि वस्तुतः आदिकारणं दुष्कर्म वर्त्तत एव किन्तु तत्र मिथ्याहारविहारदूषिता दोषा हेतवो दृश्यन्त इति दोषजा इत्युच्यन्त इति समाधिः। कर्मदोषीद्भवाः। स्वल्पदोषा गरोयांसस्ते ज्ञेयाः कर्मदोषजाः। अत्रकारणं दुष्कर्मं प्रबलं यतो दोषाल्पत्वेऽपि व्याधेर्गंरीयस्त्वन्तत्कर्मक्षयादेव क्षीणं भवति। दोषाः स्वल्पा अपि निदानत्वनोक्ता दृश्यन्त एवेति दोषाणां कारणतां मन्यन्त इति। कर्मंक्षयात् कर्मकृता दोषजाः स्वस्वभेषजैः। कर्मंदोषोद्भवा यान्ति कर्मदोषक्षयात् क्षयम्। दोषजाः स्वस्वभषजैरिति दोपजेष्वादिकारणम् दुष्कर्म तद्भेषजार्थद्रव्यक्षयादिजनितं दुःखभोगेन कटुतिक्तकषायाद्यहृद्यभक्षणादिजनितदुःखभोगेन च क्षयं यान्ति। शेषा दुष्टा हेतवो दोषास्ते स्वस्वभेषजैः क्षयं यान्तीत्यर्थः। २ कायिकवाचिकमानसकर्मभवे स्थावरादिजन्मनि “शुभाशुभफलं कर्म्म मनोवाग्देहसम्भवम्। कर्मजागतयो नॄणामुत्तमाधममध्यमाः” ३ कर्म्मजातमात्रे पापादिदोषे च “तथा दहति वेदज्ञः कर्म्मजं दोषमात्मनः” मनुः। क्रियाजन्ये ४ संयोगे ५ विभागे च। “अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः। कीर्त्तितस्त्रिविधस्त्वेष आद्योऽन्यतरकर्मजः। तथोभयक्रियाजन्यो भवेत् संयोगजोऽपरः। आदिमः श्येनशैलादिसंयोगः परिकीर्त्तितः। नेषयोः सन्निपातो यः स द्वितीय उदाहृतः। कपालतरुसंयोगात् संयोगस्तरुकुम्भयोः। तृतीयः स्यात् कर्मजोऽपि द्विधैव परिकीर्त्तितः। अभिघातो नोदनञ्च शब्दहेतुरिहादिमः। शब्दाहेतुर्द्वितीयः स्याद्विभागोऽपि त्रिधा भघेत्। एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपरः। विभागजस्तृतीयः स्यात् तृतीयोऽपि द्विधा भवेत्” भाषा० ६ वेगाख्यसंस्कारे च “मूर्त्तमात्रे तु वेगः स्यात् कर्मजोवेगजः क्वचित्” भाषा० ७ वटवृक्षे पु० जटा०। ८ कलियुगे पु० शब्दर०। क्रियाजकर्मभवादयोऽप्यत्रार्थे। ९ धर्माधर्म्मरूपे गुणभेदे अदृष्टे वेदान्तिमते कर्मणः सूक्ष्मावस्थापन्ने १० संस्कारभेदे ११ स्वर्गे १२ नरके च अदृष्टद्वारा तयोः कर्मजन्यत्वात्तथात्वम्।

कर्म्मजित् = पु० जरासन्धवंश्ये मागधे नृपभेदे “अथ मागध- राजानो भाविनो ये वदामि ते” भविता सहदेवस्य (जरासन्धपुत्रस्य) मार्ज्जारिर्यच्छ्रुतश्रवाः। ततोऽयुतायुस्तस्यापि निरमिरत्रोऽथ तत्सुतः। सुनक्षत्रः सुनक्षत्रात् वृहत् सेनोऽथ कर्म्मजित्” भाग० ९, २२, ३०।

***