औषणशौण्डी = स्त्री ऊषण एव स्वार्थेऽण् औषणे कटुरसे शौण्डी ७ त०। शुण्ठ्याम् तस्याः कटुरसत्वात्तथात्वम्।
औषदश्वि = पु० ओषदश्वस्य नृपस्यापत्यम् इञ्। ओषदश्वि नृपभेदापत्ये वसुमति यथातिदौहित्रे। “पृच्छामि त्वां बसुमानौषदश्विर्य्यद्यस्ति लोके यदि मे नरेन्द्र।” भा० आ० ९३ अ०। अग्य च यथा ययातिर्मातामहस्तथा औशीनरिशब्दे दर्शितः। तत्र भवच्छब्देनैतस्यापि परामर्शात् ध न० ओषधेरिदम् “ओषधेरजातौ” पा० अण्। ओषधिजाते १ अन्नादौ २ रोगनाशके द्रव्यभेदे। स्वार्थेऽण्। ३ ओषधौ च। औषधशब्दार्थश्च सुश्रुते दर्शितः “एवमेतत्पुरुषोव्याधिरौषधम् क्रियाकाल इति चतु ष्टयं व्याख्यातम्” इत्युक्त्वा “औषधग्रहणात् द्रव्यगुणरस वीर्य्यविपाकप्रभवानामादेशः” इत्युक्तम्। तेन द्रव्यमात्रसाध्यस्यौषधत्वम्। अतएव तैलघृतजलविषविशेषाणामप्यौषधत्वम्। “रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्। ततः कर्म्म मिषक् पश्चात् ज्ञानपूर्ब्बं समाचरेत्” चक्रद० परि पाटीमुक्त्वा रोगभेदेन औषधविशेषा उक्तास्तत एव तेऽधिगम्याः। तदुपयोगिभूम्यादिकं सुश्रुते दर्शितं यथा
“अथातो भूमिप्रविभागविज्ञानीयमध्यायं व्याख्यास्यामः श्वभ्रशर्कराश्मविषमवल्मीकश्मशानाद्यायतनदेवतायतनसिकताभिरनुपहतामनूषरामभङ्गुरामदूरोदकां स्निग्धां प्ररोहवतींमृर्द्वी स्थिरां समां कृष्णां गौरीं लोहितां वा भूमिमौषधार्थं परीक्षेत तस्यां जातमपि कृमिविषशस्त्रातपपवनदहनतोयसम्बाधमार्गैरनुपहतमेकरसं पुष्टंपृघ्वगाढमूलमुदीच्यां चौषधमाददीतेत्यौषधभूमिपरीक्षाविशेषः सामान्यः। विशेषतस्तु तत्राश्मवती स्थिरा गुर्व्वी श्यामा कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा। स्निग्धा शीतला सन्नोदका स्निग्धशष्यतृणकोमलवृक्षप्राया शुक्लाऽम्बुगुण मूयिष्ठा। नानावर्ण्णा लघ्वश्मवती प्रविरलाल्पपाण्डुवृक्षप्ररोहाऽग्निगुणभूयिष्ठा। रूक्षा भस्मरासभवर्णा तनुरूक्षकोटराल्परसवृक्षप्रायाऽनिलगुणभूयिष्ठा। मृद्वी सभा श्वभ्रवत्यव्यक्तरसजला सर्वतोऽसारवृक्षा महापर्वतदृक्षप्राया श्यामा चाकाशगुणभूयिष्ठा। तत्र केचिदाहुराचार्य्याः। प्रावृड्वर्षाशरद्धेमन्तवसन्तग्रीष्मेषु यथासंख्यं मूलपत्रत्वक्क्षीरसारफलान्याददीतेति तत्तु न सम्यक् कस्मात्सौम्याग्नेयत्वाज्जगतः। सौम्यान्यौषधानि सौम्येषु ऋतुष्वाददीताग्नेयान्याग्नेयेष्वेवमव्यापन्नगुणानि भवन्ति। सौम्यान्यौषधानि सौम्येषु ऋतुषु गृहीतानि सोमगुणभूयिष्ठायां भूमौ जातान्यतिमधुरस्रिग्धशीतानि जायन्ते। एतेन शेषं व्याख्यातम्। तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि विरेचनद्रव्याण्याददीताग्न्याकाशमारुतगुणभूयिष्ठायां वमनद्रव्याणि। उभयगुणभूयिष्ठायामुभयतोभागानि। आकाशगणभूयिष्ठायां संशमनान्येवं बलवत्तराणि भवन्ति। सर्वाण्येव चाभिनवान्यन्यत्र मधुघृतगुडपिप्पलीविडङ्गेभ्यः। सर्वाण्येव सक्षीराणि वीर्य्यवन्ति तेषामसम्पत्तावनतिक्रान्तसंवत्सराण्याददीतेति। भवन्ति चात्र। गोपालास्तापसा व्याधा ये चान्ये वनचारिणः। मूलाहाराश्च ये तेभ्यो भेषजव्यक्तिरिष्यते। सर्वावयवसाध्येषु पलाशलवणादिषु। व्यवस्थितो न कालोऽस्ति तत्र सर्वो विधीयते। गन्धवर्णरसोपेता षड्विधा भूमिरिष्यते। तस्माद्भूमिस्वभावेन वीजिनः षड्रसैर्युताः। अव्यक्तः किल तोयस्य रसो नित्यं विनिश्चितः। रस एव सचाव्यक्तो व्यक्तो भूमिरसाद्भवेत्। सर्वलक्षणसम्पन्ना भूमिः साधारणा स्मृता। द्रव्याणि यत्र तत्रैव तद्गुणानि विशेषतः। विगन्धेनापरामृष्टमविपन्नं रसादिभिः। नवं द्रव्यं षुराणं वा ग्राह्यमेव विनिर्दिशेत्। विडङ्गं पिप्पली क्षौद्रं सर्प्पिश्चाप्यनवं हितम्। शेषमन्यत्त्वभिनवं गृह्णीयाद्दोषवर्जितम्। जङ्गमानां वयःस्थानां रक्तरोमनखादिकम्। क्षीरमूत्रपुरीषाणि जीर्णाहारेषु संहरेत्। प्लुतमृद्भाण्डफलकशङ्कुविन्यस्तभेषजम्। प्रशस्तायां दिशि शुचौ भेषजागारमिष्यते”। औषघग्रहणे परिभाषादिकमुक्तं भावप्र० यथा “प्रशस्तदेशे सञ्जातं प्रशस्तेऽहनि चोद्धृतम्। अल्पमात्रं बहुगुणं गन्धवर्णरसान्वितम्। दोषघ्नमग्लानिकरमधिकं न विकारि यत्। समीक्ष्य काले दत्तञ्च भेषजं स्याद्गुणावहम्। आग्नेया विन्ध्यशैलाद्याः सौम्यो हिमगिरिः स्मृतः। अतस्तदौषधानि स्युरनुरूपाणि हेतुभिः। आग्नेयाः अधिकाग्न्यंशाः सौम्यः अधिकसोमांशः। औषधयो एवौषधानि। अत्र स्वार्थेअण्। अनुरूपाणि सदृशानि। अन्वेष्वपि प्ररोहन्ति वनेषूपवनेषु च। गृह्णीयात्तानि सुमनाः शुचिः प्रातः सुवासरे। आदित्य सम्मुखो मौनी नमस्कृत्य शिवं हृदि। साधारणधराद्रव्यं गृह्णीयादुत्तराश्रितम्। साधारणधराद्रव्यम् सर्वभूमिभवन्द्रव्यम्। उत्तराश्रितं स्वस्मात् उत्तरदिग्भवम्। वल्मीककुत्सितानूपश्मशानोषरमार्गजाः। जन्तुवह्निहिमव्याप्ता नौषध्यः कार्य्यसाधिकाः। शरद्यखिलकार्य्यार्थं ग्राह्यं सरसमौषधम्। विरेकवमनार्थन्तु वसन्तान्तः समाहरेत्। वसन्तान्तः वसन्तमध्ये समाहरेत् संगृह्णीयात्। अतिस्थूलजटा याः स्युस्तासां ग्राह्यास्त्वचो ध्रुवम्। गृह्णीयात् सूक्ष्ममूलानि सकलान्यपि बुद्धिमान्। अन्यच्च। महान्ति येषां मूलानि काष्ठगर्भाणि सर्व्वतः। तेषान्तु वल्कलं ग्राह्यं ह्रस्व मूलानि सर्ब्बशः। न्यग्रोधादेस्त्वचो ग्राह्या सारःस्या द्वीजकादितः। तालीसादेश्च पत्राणि फलं स्यात् त्रिफलादितः। क्वचिन्मूलं क्वचित् कन्दः क्वचित् पत्रं क्वचित् फलम्। क्वचित् पुष्पं क्वचित् सर्ब्बं क्वचित् सारः क्वचित् त्वचः। चित्रकं शूरणं निम्बो वाला च त्रिफला क्रमात्। धातकी कण्टकारी च खदिरः क्षीरपादपः। क्वचिन्निम्बस्य गृह्णीयात् पत्राभावे त्वचामपि। बालम्फलन्तु विल्वस्य पक्वमारम्बधस्य च। अङ्गेऽनुक्ते जटा ग्राह्या भागेऽनुक्तेऽखिलं समम्। पात्रेऽनुक्ते मृदः पात्रं कालेऽनुक्ते त्वहर्मुखम्। नवान्येव हि योज्यानि द्रव्याण्यखिलकर्मसु। विना विडङ्गकृष्णाभ्यां गुडधान्या ज्यमाक्षिकैः। धान्यमन्नम्। पुराणन्तु प्रशस्तं स्यात्ताम्बूलङ्काञ्जिकन्तथा। शुष्कन्नवीनद्रव्यन्तु योज्यं सकलकर्मसु। आर्द्रन्तु द्विगुणं युञ्ज्यादेष सर्व्वत्र निश्चयः। गुडूची कुटजी बाला कूष्माण्डश्च शतावरी। अश्वगन्धा सहचरी शतपुष्या प्रसारिणी। प्रयोक्तव्या सहैवार्द्रा द्विगुणं नैव कारयेत्। सहचरी कुरण्टकः (कटरै आ) इतिलोके। वासानिम्बपटोलकेतकलबला कुष्माण्डकेन्दी वरी वर्षाभूः कुटजाश्च कन्दसहिता सा पूतिगन्धा मृता। ऐन्द्री नागबला कुरुण्टक पुरी छत्रामृता सर्व्वदा। सार्द्रा एवतु कुत्रचित् द्विगुणिता कार्य्येषु योज्या बुधैः। ऐन्द्री इन्द्रवारुणी। वरी शतावरी पूतिमन्धा गन्धप्रसादनी नागबला (गुलशकरि) कुरण्टकः (पीतपुष्पझा~टि) (कटसरैआ) पुरी गुग्गुलुः। घृतन्तैलञ्च पानीयं कषायं व्यञ्जनादिकम्। पक्त्वा शीतीकृतं चोष्णं तत्सर्व्वं स्याद्विषोपमम्।
द्रव्याणां परीक्षा। सूक्ष्मास्थिमांसला पथ्या सर्वकर्म्मणि पूजिता। क्षिप्ताम्भसि निमज्जेद्या भल्लातक्य स्तथोत्तमाः। वराहमूर्द्धवत्कन्दो वारहीकन्दसंज्ञकः। सौवर्चलन्तु काचाभं सैन्धवं स्फटिकप्रभम्। सुवर्णच्छविकं ज्ञेयं स्वर्णमाक्षिकमुत्तमम्। इन्द्रपुष्पप्रतीकाशा मनोह्वा चोत्तमा मता। श्रेष्ठं शिलाजतु ज्ञेयं प्रक्षिप्तं न विशीर्य्यते। तोयपूर्णे कांस्यपात्रे प्रतानेन विवर्द्धते। कर्पूरस्तुवरः स्निग्धः एला सूक्ष्मफला वरा। श्वेषचन्दनमत्यन्तं सुगन्धि गुरु पूजितम्। रक्तचन्दनमत्यन्तं लोहितम्प्रवरं मतम्। काकतुण्डानिभः स्निग्धोऽगुरुः श्रेष्ठो गुरुर्मतः। सुगन्धि लघु रूक्षञ्च सुरदारु वरं मतम्। सरलं स्लिग्धमत्यर्थं सुगन्धि च गुणावहम्। अतिपीता प्रशस्ता तु ज्ञेया दारुनिशांबुधैः। जातीफलं गुरु स्निग्घं समं शुभ्रान्तरं वरम्। मृद्धीकासोत्तमा ज्ञेया या स्याद्गोस्तानसन्निभा। करमर्द्दफलाकरा मध्यमा सा प्रकीर्त्तिता। गोस्तनसन्निभा। (मुनक्वा) इति लोके। करमर्द्दफलाकारा। (करोन्दीदाख) इति लोके। खण्डन्तु विमलं श्रेष्ठं चन्द्रकान्तसमप्रभम्। गव्याज्यसदृशं रुच्यगन्धं मधु वरम्मतम्। अथ स्वभावतो हितानि। शालीनां लोहितः षालिः षष्ठिकेषु च यष्टिका। शूकधान्येष्वपि यवोगोधूमः प्रवरो मतः। शिम्बीधान्ये वरो मद्गो मसूरश्चाढकी तथा। रसेषु मधुरः श्रेष्ठो लवणेषु च सैन्धवम्। दाडिमामलकन्द्राक्षास्वर्ज्जूरञ्च परूषकम्। राजादनं मातुलङ्गं फलवर्गेषु शस्यते। परूषकं (फालसा) इति लोके। राजादनं (खिरिणी) इति लोके। मातुलुङ्गं (वीजपूरा) इतिलौके। पत्रशाकेषु वास्तूकं जीवन्ती पोतिका वरा। पटीलं फलशाकेषु कन्दशाकेषृ शूरणम्। एणः कुरङ्गो हरिणो जाङ्गलेषु प्रशस्यते। पक्षिणां तित्तिरिर्लावो वरो मत्स्येषु रोहितः। हरिणस्ताम्रवर्णः स्यादेणः कृष्णतया मतः। कुरङ्गस्ताम्र उद्दिष्टो हरिणः कृत्तिको महान्। जलेषु दिव्यं दुग्धे षु गव्यमाज्येषु गोभवम्। तैलेषु तिक्तजन्तैलमैक्षवेषु सिता हिता। अथ स्वभावादहितानि। शिम्बीषु माषान् ग्रीष्मर्त्तौ, लवणेष्वौषरं त्यजेत्। फलेषु लकुचं शाके सार्षपं न हितम्मतम्। गोमांसं ग्राम्यसांसेषु नहितं महिषीवसा। मेषीपयः कुसुम्भस्य तैलन्त्याज्यञ्च फाणितम्। इक्षुरसः परिपक्वो योऽर्द्धघनःत त्फाणितम् तद्धि (छोयाराव) इति लोके। अथ संयोगविरुद्धानि। मत्स्यमानू पमांसञ्च दुग्धयुक्तं विवर्ज्जयेत्। कपोतं सर्षपस्नेहभर्ज्जितं परिवर्जयेत्। मत्स्यानिक्षोर्विकारेण तथा क्षौद्रेण वर्ज्जयेत्। सक्तून् मांसपथोयुक्तानुष्णैर्दधि विवर्ज्जयेत्। उष्णैर्न्नभोऽम्बुना क्षौद्रं पायसं कृशरान्वितम्। रम्भाफलं त्यजेत् तक्रं दधि विल्वफलान्वितम्। दशाहमुषितं सर्पिः कांस्ये, मधुघृतंसमम्। कृतान्नञ्च कषायञ्च पुनरुष्णीकृतं त्यजेत्। एकत्र बहुमांसानि विरुध्यन्ते परस्परम्। म धुसर्पिर्वसातैलं पानीयं वा पयस्तथा। अथ भेषजग्रहणसङ्केतः। लवणं सैन्धवं प्रोक्तं चन्दनं रक्तचन्दनम्। चूर्णलेहासवस्नेहाः साध्या धवलचन्दनैः। कषायले पयोः प्रायो युज्यते रक्तचन्दनम्। अन्तःसम्भार्ज्वने ज्ञेया ह्यजमोदा यवानिका। बहिःसम्भार्ज्जने सैव विज्ञातव्याजमोदिका। पयः सर्पिः प्रयोगेषु गव्यमेवहि गृह्यते। अथ प्रतिनिधिः। चित्रकाभावती दन्ती क्षारः शिखरिजोऽथवा। अभावे धन्वयासस्य प्रक्षेप्तव्या दुरालभा। शिस्वरी अपामार्गः। तगरस्याप्यभावे तु कुष्ठं दद्याद्भिषम्बरः। मूर्वाभावे त्वचो ग्राह्या जिङ्गिनीप्रभवा बुधैः। अहिंस्राया अमावे तु मानकन्दः प्रकीर्त्तितः। लक्षणाया अभावे तु नीलकण्ठशिखा मता। नीलकण्ठशिखा मयुरशिखा। बकुलाभावतो देयं कल्हारोत्पलपङ्कजम्। नीलोत्पलस्याभावे तु कुसुदं देयमिष्यते। जातिपुष्यं न यत्रास्ति लवङ्गं तत्र दीयते। अर्क्कपर्णादि पयसो ह्यभावे तद्रसो मतः। पौष्कराभावतः कुष्ठं तथा लाङ्गल्यभावतः। स्थौणेयकस्याभावे तु भिषग्भिर्दीयतेऽ गदे। चविकागजपिप्यल्यौ पिप्यलीमूलवत् स्मृतौ। अभावे सोमराज्यास्तु प्रपुन्नाटफलं मतम्। यदि न स्याद्दारुनिशा तदा देया निशा बुधैः। सोमराजी वाकुची। प्रपुन्नाटफलं चक्रमर्द्दफलम्। दारुनिशा दारुहरिद्रा निशा हरिद्रा। रसाञ्जनस्याभावे तु सम्यग्दार्व्वी प्रयुज्यते सौराष्ट्र्यभावतो देया स्फटिका तद्गुणा जनैः। सौरष्ट्री (सोरटीमाटी) इति लोके। स्फटिका (फटिकारी) इति लोके। तालोशपत्रकाभावे स्वर्णताली प्रशस्यते। भार्ग्यभावे तु तालीसं कण्टकारी जटाऽथ वा। रुचकामावतो दद्याल्लवणं पांशुपूर्व्वकम्। अभावे मधुयष्ट्यास्तु घातकीञ्च प्रयोजयेत्। रुचकं(चीहार) इति लोके पांशुलवणं (खारी) अथ वा (रेह इति लोके। अम्लवेतसकाभावे चुक्रं दातव्यसिष्यते। द्राक्षा यदि न लभ्येत प्रदेयं काश्मरीफलम्। तयोरभावे कुसुमं बन्धूकस्य मतं बुध्रैः। लवङ्गकुसुमं देयं नखस्याभावतः पुनः। कस्तूर्प्यभावे कक्कोलं क्षेपणीयं विदुर्बुधाः। कक्कोलस्याप्य भावे तु जातीपूष्पं प्रदीयते। सुगन्धीमुस्तकं देयं कर्पूराभावतो बुधैः। कर्पूराभावतो देयं ग्रन्थिपर्णं विशेषतः। कुङ्कुमाभावतो दद्यात् कुसुम्भकुसुमं नवम्। श्रीखण्डचन्दनाभावे कर्पूरं देयमिष्यते। अभावेत्वेतयोर्वैद्यः प्रक्षिपेत् रक्तचन्दनम्। रक्तचन्दनकाभावे नवोशीर विदुर्बुधाः। मुस्ता चातिविषाभावे शिवाभावे शिवा मता। अभावे नागपुष्यस्य पद्मकेशरमिष्यते। मेदा जीवककालोली ऋद्धिद्वन्द्वेऽपि वा सति। वरी विदार्य्य श्वगन्धा वाराही च क्रमात् स्मृता। वरी शतावरी। वारह्याश्च तथाभावे चम्मकारालुको मतः। वाराहीकन्द संज्ञस्तु पश्चिमे गृष्टिसंज्ञकः। वाराहीकन्दएवान्य- श्चर्म्मकारालुको मतः। अनूपसम्भवे देशे वराह इव लोमवान्। भल्लातकासम्भत्वे तु रक्तचन्दनमिष्यते। भल्लाताभावतश्चित्रं नलश्चेक्षोरभावतः। सुवर्णाभावतः खर्णमाक्षिकं प्रक्षिपेत् बुधः। श्वेतन्तु माक्षिकं ज्ञेयं बुधैः रजतवत् ध्रुवम्। माक्षिकस्याप्यभावे तु प्रदद्यात् स्वर्णगैरिकम्। सुवर्णमथ वा रौप्यं मृतं यत्र न लभ्यते। तत्र कान्तेन कर्म्माणि भिषक्कुर्य्याद्विचक्षणः। कान्ताभावे तौक्ष्णलोहं योजयेद्वैद्यसत्तमः। अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत्। मधु यत्र न लभ्येत तत्र जीर्णगुडो मतः। मत्स्याण्ड्यभावतो दद्युर्मिषजः सितशर्क्कराम्। असम्भवे सितायास्तु बुधैः खण्डं प्रयुज्यते। क्षाराभावे रसो मौद्गो मासूरो वा प्रदीयते। अत्र प्रो क्तानि वस्तूनि यानि तेषु च तेषु च। योज्यमेकतराभावे परं वैद्येन जानता। रसवोर्थ्यविपाकाद्यैः समं द्रव्यं विचिन्त्य च। युञ्ज्याद्विविधमन्यच्च द्रव्याणान्तु रसादिवित्। योगे यदप्रधानं स्यात्तस्य प्रतिनिधिर्म्मतः। यत्तु प्रधानं तस्यापि सदृशं नैव गृह्यते। याधेरयुक्तं यत् द्रव्यं गुणोक्तमपि तत् त्यजेत्। अनुक्तमपि युक्तं यत् यौजयेत् तद्रसादिवित्। द्रव्यगतपञ्चपदार्थकर्म्माण्याह। द्रव्ये रसो गुणो वीर्य्यविपाकः शक्तिरेव च। पदार्थाः पञ्च तिष्ठन्ति स्वंस्वं कुर्व्वन्ति कर्म्म च”। “वीर्य्यवन्त्यौषधिनीव विकारे सान्निपातिके” कुमा०। “द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” रघुः। “विषस्य विषमौषधम्” उद्भटः “भवौषधात् श्रोत्रमनोऽभिरामात्” भाग० १, १, “औषधं जाह्नवीतोयं वैद्योनारायणः खयम्” पुरा०। संसाररूपदुःखदायकरोगनिवारके ४ परमेश्वरे च “औषधं जगतां सेतुः” विक्ष्णु० सं०।
औषधि = स्त्री आ + ओषधि–प्रा० स०। सम्यगोषधौ। “विरमन्ति न ज्वलितुमौषधयः” किरा० वा ङीप्। औषधी।
औषर = न० उषरे भवः अण्। पांशुलवणे राजनि०।
औषरक = न० औषरमिव कन्। (खारी) लवणभेदे राजनि०
औषस = न० उससि भवः सन्धिवेलेत्यादिना योगविभागात् अण्। १ उषसिभवे। वस्तुतः भवार्थे “कालाट्ठञ्” पा० उक्तेः ठञ् स्यात् तेन ऊषस इदम् इत्यण् इत्युचितम्। २ उषः सम्बन्धिनि। “अनुदितौषसरागेति “औषसातपभयादपलीनम्” इति च” किरा० स्त्रियां ङीप्। “या मोषाः पत्न्यौषसी सा” शत० ब्रा० ६, १, ३, ८, उ षस् + बा० यत् स्वार्थे अण्। औषस्य उषोभवे त्रि०।
औष(स्त)स्त्य = त्रि० उषस्तेरिदम् अण् ष्यञ् वा। उषस्तिचरितात्मके छा० उ० ब्राह्मणकाण्डभेदे। तच्च “उषस्तिर्हचाक्रायणः” इत्यादि, तत्रत्यं ब्राह्मण “औषस्ते(स्त्ये) काण्डेऽविदुषामपि आर्त्विज्यदर्शनात्” छा० उ० भा०।
औषसिक = त्रि० उषसा चरति ठक् टिलोपः। १ उषसाचारिणि। उषसि भवः कालाट्ठज्” पा० ठञ्। २ उषसिभवे च।
औषिक = त्रि० उषा उषसि भवः ठञ्। उषाभवे स्त्रियां ङीप्
औष्ट्र = न० उष्ट्रस्येदम् अण्। उष्ट्रदुग्धादौ। “औष्ट्रं दुग्वं लघु स्वादु लवणं दीपनं तथा। कृमिकुष्ठकफानाहशोथो दरहरं सरम्” भावप्र०। “अनिर्द्दशायाः गोः क्षीरमौष्ट्रमैकशफं तथेति” मनुः उष्ट्रशब्देविवृतिः।
औष्ट्रक = न० उष्ट्राणां समूहः गोत्रोक्षोष्ट्रेत्यादिना वुञ्। उष्ट्रसमूहे। उष्ट्रस्य विकारोऽवयवोवा वुञ्। २ उष्ट्रविकारे ३ तदवयवे च त्रि०।
औष्ट्ररथ = न० उष्ट्ररथस्येदम् “पत्रपूर्व्वादञ्” पा० रथादित्यनुवृत्तौ अञ्। उष्ट्रवाह्यरथसम्बन्धिनि।
औष्टायण = पुंस्त्री उष्ट्रस्यापत्यम् बा० फक्। उष्ट्रापत्ये ततः चतुरर्थ्याम् अरोहणादि० वुञ्। औष्ट्रायणक तत्सन्निकृष्टदेशादौ त्रि०।
औष्ट्रिक = त्रि० उष्ट्रेभवः ठक्। उष्ट्रभवे दध्यादौ “विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि” सुश्रुतः।
औष्ठ = त्रि० ओष्ठ ओष्ठाकारोस्त्यस्य प्रज्ञा० अण्। ओष्ठाकारकाष्ठाबयवयुक्ते आश्विनग्रहपात्रे। “औष्ठमाश्विनम्” कात्या० ९, २, ७, “औष्ठावयवयुक्तमाश्विनग्रहपात्रम्” कर्कः “तद्दिदेबत्यमौष्ठमाश्विनपात्रम्” शत० ब्रा० ४, १, ५, १९।
औष्ठ्य = त्रि० ओष्ठे भवः यत् स्वार्थे अण्। ओष्ठभवे उवर्ण्ण पवर्गयोः “ओष्ठजावुपू” इतिशिक्षोक्तेस्तयोस्तथात्वम्
औष्णिज = न० उष्णिज् + प्रज्ञा० स्वार्थेऽण्। उष्णिगर्थे।
औष्णिह = त्रि० उष्णिहि भवः उत्सा० अञ् तस्येदमण् वा। १ उष्णिक्छन्दोमवे २ तत्सम्बन्धिनि च। उष्णिहा स्तुत्यः अण्। ३ उष्णिक्छन्दसा स्तुत्ये सवितरि “सवित्र उष्णिहाय” यजु० १९, ६।
औष्णीक = त्रि० उष्णीषे शोभते अण् पृषो०। १ उष्णीषधारिणि २ तद्धारिजनपदविशेषे ३ तन्नृपे च “औष्णीकानन्तवासांश्च योधकान् पुरुषादकान्” भा० स० ५०।
औष्ण्य = न० उष्णस्य भावः गुणवचनत्वात् ष्यञ्। उष्णस्पर्शे स च “उष्णस्पर्शस्तु तेजसः” इत्युक्तेः तेजसएव स्वाभाविकधर्म्मः ततसंयोगादितरेषामौपाधिकः। सुश्रुते तत्कार्य्यपित्तस्य धर्म्मैत्युक्तं यथा “औष्ण्यतैक्ष्ण्यरौक्ष्यलाघववैशद्यगुणलक्षणं पित्तं तस्य समानयोनिः कटुकोरसः सोऽस्यौष्ण्यादौष्ण्यं वर्द्धयति” सुश्रु०।
औष्म्य = न० ऊष्णणोभावः ऊष्मैव वा ष्यञ्। उष्णस्पर्शे। “पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतोहतम्” रघुः। उष्णस्पर्शो यद्यपि तेजोयोगात् भवति तथापि देहस्य तथा स्पर्शः सशदशाङ्गसूक्ष्मदेहसंयोगादेव तथोक्त शा० सूत्रभाष्ययोः “अस्यैव चोपपत्तेरेष ऊष्मा” सू० “अस्यैव च सूक्ष्मशरीरस्यैष ऊष्मायमेतस्मिन् जीवच्छरीरे संस्पर्शेनोष्णिमानं विजानाति तथाहि मृतावस्थायामवस्थितेऽपि देहे विद्यमानेष्वपि च रूपादिषु देहगुणेषु नोष्मोपलभ्यते जीवदवस्थायामेव तूषलभ्यते इत्यत उपपद्यते प्रसिद्धशरीरव्यतिरिक्तव्यापाश्रय एवैष ऊष्मेति तथा च श्रुतिः “उष्ण एव जीविध्वञ्छीतोमरिष्यन्निति” भा०। तदुपाधिकत्वात् जीवस्यापि ऊष्मत्वं व्यवह्रियते इत्युक्तं प्राक्। इति वाचस्पत्ये औकारादिशब्दार्थसङ्कलनम्। इति श्रीतारानाथ–तकवाचस्पति–भट्टाचार्य्य–विरचिते वाचस्पत्येऽभिधाने स्वरवर्ण्णादिशब्दार्थसङ्कलनं समाप्तम्। ओं तत्सत्
। वर्णः । स्वरः । कालः । स्थानम् । आभ्यन्तरप्रयत्नः । बाह्यप्रयत्नाः।
। अ । उदात्तानुदात्तस्वरिताः । एकमात्रोह्रस्वः । कण्ठः । विवृतम् । संवारनादघोषाः अल्पप्राणश्च
। आ । उदा० ३ । द्विमात्रोदीर्घः । कण्ठः । विवृतम् । संवारनादघोषाः अल्पप्राणश्च
। अ ३ । उदा० ३ । त्रिमात्रःप्लुतः । सः । तत् । ते सच
। इ । उदा० ३ । एकमात्रोह्रस्वः । तालु । तत् । ते सच
। ई । उदा० ३ । २ द्विमात्रोदीर्घः । तत् । तत् । ते सच
। इ ३ । उदा० ३ । त्रिमात्रःप्लुतः । तत् । तत् । ते सच
। उ । उदा० ३ । एकमात्रोह्रस्वः । ओष्ठौ । तत् । ते सच
। ऊ । उदा० ३ । द्विमात्रोदीर्घः । तौ । तत् । ते सच
। उ ३ । उदा० ३ । त्रिमात्रःप्लुतः । तौ । तत् । ते सच
। ऋ । उदा० ३ । एकमात्रोह्रस्वः । मूर्द्धा । तत् । ते सच
। ॠ । उदा० ३ । द्विमात्रोदीर्घः । सः । तत् । ते सच
। ऋ ३ । उदा० ३ । त्रिमात्रःप्लुतः । सः । तत् । ते सच
। ऌ । उदा० ३ । एकमात्रोहस्वः । दन्तमूलम् । तत् । ते सच
। ऌ ३ । उदा० ३ । त्रिमात्रःप्लुतः । तत् । तत् । ते सच
। अस्य दीर्घाभावेऽपि लकारद्वययोगात् द्विमात्रता । दन्तमूलम् । तत् ईषत्स्पृष्टं च । ते सच
। ए । उदा० ३ । द्विमात्रोदीर्घः । कण्ठतालुनी । विवृतम् । ते सच
। ए ३ । उदा० ३ । त्रिमात्रःप्लुतः । कण्ठतालुनी । तत् । ते सच
। ऐ । उदा० ३ । द्विमात्रोदीर्घः । कण्ठतालुनी । तत् । ते सच
। ऐ ३ । उदा० ३ । त्रिमात्रःप्लुतः । कण्ठतालुनी । तत् । ते सच
। ओ । उदा० ३ । द्विमात्रोदीर्घः । कण्ठोष्ठौ । तत् । ते सच
। ओ ३ । उदा० ३ । त्रिमात्रःप्लुतः । कण्ठौष्ठौ । तत् । ते सच
। औ । उदा० ३ । द्विमात्रोदीर्घः । कण्ठौष्ठौ । तत् । ते सच
। औ ३ । उदा० ३ । त्रिमात्रःप्लुतः । कण्ठौष्ठौ । तत् । ते सच
। एषामनुनासिकत्वे । उदा० । यथाप्राप्तम् । यथास्थानं नासिकाऽपि । तत् । यथप्राप्तं बाह्याः
। अनुस्वारस्य । ० । ० । नासिका । स्पृष्टम् । संवारनादघोषा महाप्राणश्च
। : विसर्गस्य । ० । ० । कण्ठः । स्पृष्टम् । विवारश्वासाघोषा महाप्राणश्च
। + क + ख । ० । ० । जिह्वामूलम् । स्पृष्टम् । विवारादयः महाप्राणश्च
। प~ फ~ । ० । ० । औष्ठौ । स्पृष्टम् । विवारादयः महाप्राणश्च
। क । ० । अर्द्धमात्रा । कण्ठमूलम् । स्पृष्टम् । विवारश्वासाघोषा अल्पप्राणश्च
। ख । ० । अर्द्धमात्रा । तत् । तत् । विवारादयः महाप्राणश्च
। ग । ० । सा । तत् । तत् । संवारनादघोषा अल्पप्राणश्च
। घ । ० । सा । तत् । तत् । संवारादयः महाप्राणश्च
। ङ । ० । सा । तत् नासा च । तत् । संवारादयः अल्पप्राणश्च
। च । ० । अर्द्धमात्रा । तालु । तत् । विवारादयः अल्पप्राणश्च
। छ । ० । सा । तत् । तत् । विवारादयः महाप्राणश्च
। ज । ० । सा । त । तत् । संवारादयः अल्पप्राणश्च
। वर्णः । स्वरः । कालः । स्थानम् । आभ्यन्तरप्रयत्नः । बाह्यप्रयत्नाः।
। झ । ० । अर्द्धमात्रा । तालु । स्पृष्टम् । संवारादयः महाप्राणश्च
। ञ । ० । साः । तालु नासा च । तत् । संवारादयः अल्पप्राणश्च
। ट । ० । सा । मूर्द्धा । तत् । विवारादयः अल्पप्राणश्च
। ठ । ० । सा । सः । तत् । विवारादयः महाप्राणश्च
। ड । ० । सा । सः । तत् । संवारादयः अल्पप्राणश्च
। ढ । ० । सा । सः । तत् । संवारादयः महाप्राणश्च
। ण । ० । सा । सः नासा च । तत् । संवारादयः अल्पप्राणश्च
। त । ० । सा । दन्तमूलम् । तत् । विवारादयः अल्पप्राणश्च
। थ । ० । सा । तत् । तत् । विवारादयः महाप्राणश्च
। द । ० । सा । तत् । तत् । संवारादयः अल्पप्राणश्च
। घ । ० । सा । तत् । तत् । संवारादयः महाप्राणश्च
। न । ० । सा । तत् नासा च । तत् । संवारादयः अल्पप्राणश्च
। प । ० । सा । औष्ठौ । तत् । विवारादयः अल्पप्राणश्च
। फ । ० । सा । तौ । तत् । विवारादयः महाप्राणश्च
। ब । ० । सा । तौ । तत् । संवारादयः अल्पप्राणश्च
। भ । ० । सा । तौ । तत् । संवारादयः महाप्राणश्च
। म । ० । सा । तौ नासा च । तत् । संवारादयः अल्पप्राणश्च
। य । ० । सा । तालु । ईषत् स्पृष्टम् । विवारादयः अल्पप्राणश्च
। र । ० । सा । मूर्द्धा । ईषत् स्पृष्टम् । विवारादयः अल्पप्राणश्च
। ल । ० । सा । दन्तमूलम् । तत् । ते सच
। व । ० । सा । दन्तोष्ठौ । तत् । ते सच
। यवलानामनुनासिकत्वे । ० । यथास्थानं नासाऽपि । तत् । ते सच
। श । ० । सा । तालु । अर्द्धस्पृष्टम् । विवारादयः महाप्राणश्च
। ष । ० । सा । मूर्द्धा । तत् । ते सच
। स । ० । सा । दन्तमूलम् । तत् । ते सच
। ह । ० । सा । कण्ठः । अर्द्धस्पृष्टम् । संवारादयः महाप्राणश्च
। क~ ख~ ग~ घ~ रूपयमानाम् । सा । यथास्थानं नासिका च । स्पृष्टम् । यथाप्राप्तं बाह्याः
। ह्ण ह्न ह्म ह्य ह्र ह्ल ह्व । उरः यथास्थानञ्च । यथाप्राप्तम् । संवारादयः महाप्राणश्च उदात्तादीनां सूचक चिह्नानि तु ऊर्द्ध्वरेखाचिह्नितः अकरादिवर्ण उदात्तः, अधोरेखाचिह्नितः अनुदात्तः, ऊर्द्ध्वाधोरेखारहितः खरित इति। तत्र अचामेव स्वरकृतविभागः, न तु व्यञ्जनानां तेषामुदात्तादिस्वराभावात्।
स्वरवर्णविभागादि।
स्वरवर्ण्णा अकारादयः औकारान्ताः शिक्षाभते द्वारिंशतिस्त्रयोविंशतिर्वा “स्वरा विंशतिरेकश्च “दुःस्पृष्टश्चेति विज्ञेय ऌकारःप्लुत एव चेति” च शिक्षोक्तेः। तथाहि ह्रस्वदीर्घप्लुतभेदेन अ, इ, उ, ऋ, इत्येते द्वादश ऌकारः ह्रस्व एव तस्य दीर्घाभावात्। ए, ऐ, ओ औ, इत्येते दीर्घप्लुतभेदात् अष्टौ इत्येकविंशतिः ऌकारस्य लकारद्वययुक्तत्वेन ईषत्स्पृष्टतया दुष्पृष्टत्वेन द्वाविंशतिः प्लुतत्वे त्रयोविंशतिर्भेदाः स्थूलाः। तेषां च प्रत्येकमुदात्तानुदात्तस्वरितभेदैः त्रैविध्येन ६६ भेदाः ६९ वा भेदाः। पुनस्तेषामनुनासिकाननुनादिकभेदाभ्यां द्वैविध्यात् १३२। १३८ वा सूक्ष्मा भेदाः सर्व्वेषाञ्चैषां स्वयं राजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वरशब्दवाच्यता।
तन्त्रमते तु अनुस्वारविसर्गसहिताः अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ॡ, इत्येते दश ए, ऐ, ओ, औ, इत्येते चत्वारः इत्येते षोडश। पाणिनीयमते ऌकारस्य यथा दीर्घत्वामावेऽपि लकारद्वययुक्त ह्रस्वऌकारैकमात्रया द्विमात्रत्वसाम्यात् दीर्घत्वव्यवहारस्तथा ऌकारादिशब्दे उक्तः। अनुस्वारविसर्गयोश्च अक्षरसमाम्नायसूत्रेषु अ, इ, उण्, इत्यादिष्र माहेश्वरेषु चतुर्द्दशसु सूत्रेषु आम्नानाभावेऽपि भाष्यकृता अट्सूपसंख्यानेऽपि न स्वरवर्ण्णत्वम् “अयोगवाहा विज्ञेया आश्रवस्थानभागिनः” इत्युक्त्या स्वयंविराजमानत्वाभावात् उदात्तादिस्वरवत्त्वाभावाच्च। तयोः स्वरवर्ण्णत्वाभावेऽपि अट्सूपसंख्यानञ्च षत्वणत्वकार्य्यार्थम्। तेन हवींषि इत्यादौ अनुस्वारव्यवधानेऽपि षत्वम्। अत्र च नुम्स्थानिकानुस्वारस्यैव निमित्तता न तद्भिन्नस्य, तेन सुहिंसु पुंसु इत्यादौ न षत्वम्। णत्वं तु सर्व्वानुस्वारव्यवायेऽपि तेन तृंहणं वृंहणमित्यादौणत्वम् “अट्कुप्वाङ्नुम्व्यवायेऽपीत्युक्तेः तत्र अड्ग्रहणेनैवानु स्वारप्राप्तेरनुस्वारमात्रव्यवाये णत्वार्थं नुम् ग्रहणम् न तु षत्वैव नुम्स्थानिकस्यैव ग्रहणमित्युक्तोदाहृतौ णत्वम्। सर्व्वेषां स्वरवर्ण्णोच्चारणे विवृतं दूरावस्थानरूपम् आभ्यन्तरप्रयत्नः “विवृतमूष्मणां खरणाञ्च” इति “अचोऽस्पष्टाः इति चोक्तेः। एषां बाह्यप्रयत्नास्तु घोषनादसंवाराः “कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः” इत्युक्तेः। यथा चैषां दूरावस्थानं तथा सरलायामस्माभिरुक्तं तच्च आभ्यन्तरप्रयत्नशब्दे उक्तम्। एतेषामुच्चारण- स्यानानि प्रदर्श्यन्ते। अ इति वर्णः कण्ठमूलोच्चार्य्यः “जिह्वामूले तु कुः प्रोक्तः” इत्युक्तेः। तत्र अ इति ह्रस्ववर्ण्णः एकमात्रत्वात्। स च उदात्तानुदात्तस्वरितभेदात्त्रिधा, त्रिविधोऽपि अनुनासिकाननुनासिकरूपद्वैविध्यात् षड्विधः। एवं आ इति दीर्घः द्विमात्रत्वात् तस्य च तथैव षड्विधत्वम्। अ ३ प्लुतवर्ण्णः त्रिमात्रत्वात् तस्यापि उक्तरीत्या षाड्विध्यम् तथा च ऐत्येतत् अष्टादशानां संज्ञा पारिभाषिकी कारतकारपरत्वे स्वरूपपरता। एवम् इ, इति तालव्यः “इचुयशानां तालु” इत्युक्तेः। तस्यापि इ, ई, इ ३ इति ह्रस्वदीर्घप्लुतसंज्ञा एकमात्रद्विमात्र त्रिमात्रताभेदात् तेषाञ्च प्रत्येकमुक्तरीत्या षाड्विध्यमित्यष्टादशविधता। तथाच इ, इति अष्टादशानां संज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता। उ इति वर्ण्ण ओष्ठोचार्य्यः “ओष्ठजावुपू” इत्युक्तेः स च ह्रस्वदीर्घप्लुतरूपः एकमात्रद्विमात्रत्रिमात्रताभेदात् त्रिविधः तेषां प्रत्येकमुक्तरीत्या षाड्विध्यमित्याष्टादशविधता। एवञ्च उ, इत्यष्टादशानां संज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता। ऋ, इति मूर्द्धस्थानोच्चार्य्यं “ऋढुरसानां मूर्द्ध्वा” इत्युक्तेः स च ह्रस्वदीर्घप्लुतरूपः त्रिधा एकमात्रत्वादिभेदात्। तेषाञ्च प्रत्येकमुक्तरीत्या षाडिध्यात् अष्टादशविधता। “ऋऌवर्णयोर्मिथः सावर्ण्यम्” इत्युक्तेः ऌकारस्य वक्ष्यमाणद्वादशभेदसहिता अष्टादशभेदाः तेन ऋ इति त्रिं शतां संज्ञा इति भेदः। तपरत्वे कारपत्ये च स्वरूपपरता। ऌवर्णः दन्तमूलोच्चार्य्यः “ऌतुलसानां दन्तः” इत्युक्तेः तस्य दीर्घाभावात् ह्रस्वप्लुतभेदेन द्वैविध्यम् तयोश्च प्रत्येकमुक्तरीत्या षाड्विध्यात् द्वादशविधतेति ऌवर्णः द्वादशानां संज्ञा तपरत्वे कारपरत्वे च स्वरूपपरता। अ, इ, उ, ऋ, ऌ, इत्येषां वर्ण्णपरत्वे अष्टादशादीनामुक्तानां संज्ञा। अधिकं सूचीपत्रे दृश्यम् एप्रभृतीनां विभागादि तत्तच्छब्दादौ उक्तः
अकारादीनामनुक्ता वाचकशब्दाः तन्त्रोक्ता वर्ण्णाभिधाने दर्शितास्तेऽत्र क्रमेणोच्यन्ते यथा
अ = “अःश्रीकण्ठः सुरेशश्च ललाटं चैकमातृकः। पूर्णो दरी सृष्टिमेषौ सारखतप्रियंवदः। महाब्राह्मी वासुदेवोधनेशः केशवोऽमृतम्। कीर्त्तिर्निवृत्तिर्वागीशो नरकारिर्हरोमरुत्। ब्रह्मा रामानुजोह्रस्व कामश्च प्रणवाद्यकः। ब्रह्माणी कामरूपश्च कामेशीवासिनी वियत्। विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरश्विनी। अर्कमण्डलं वर्णाद्यो ब्राह्मणः कामकर्षिणी”।
आ = “आकारोविजयोऽनन्तोदीर्घच्छायोविनायकः। क्षीरोदधिपयोदश्च पाशोदीर्घास्यवृत्तके। प्रचण्डएकजोरुद्रोनारायणैभेश्वरः। प्रतिष्ठा मानदा कान्तो विश्वान्तकगजा न्तकौ। पितामहोद्विठान्तोभ्रूः क्रिया कान्तिश्च सम्भवः। द्वितीया मानदा काशी विघ्नराजः कुजीवि यत्। सुरान्तकश्च हृदयञ्चाङ्गुष्ठोभगमालिनी।
इ = “इःसू क्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः। सुमित्रः सुन्दरोधीरः कोटरी कोटरःपयः। भ्रुमध्योमाधवस्तुष्टिर्दक्षनेत्रञ्च नासिका। शान्तः कान्तिः कामिनी च कामोविघ्नविनायकः। नेपालो भरणीरुद्रोनित्यक्लिन्ना च पोवकः”।
ई = “ईर्मूर्त्तिः स्त्री महामाया लोलाक्षी वामलोचनम्। गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः। विष्णुर्लक्ष्मीर्महेशश्च वह्निशुद्ध्वःपरापरः। कालोत्तरी भेरुरण्डा रतिश्च पाण्डुवर्द्धनः। शिवोत्तमः शिवा तुष्टिश्चतुर्थी विन्दुमालिनी। वैष्णवी वल्लवी जिह्वा कामकला सनादिका। पावकः कोटरः कीर्त्तिर्मोहिनी कालकारिका। कुचद्वन्द्वं तर्ज्जनीशो शात्तिस्त्रिपुरसुन्दरी।
उ = “उः शङ्करोवर्त्तुलाक्षो भूतःकल्याणवाचकः। अमरेशोदक्षकर्ण्णः षड्वक्त्रोमोहनः शिवः। उग्रःप्रभुर्धृतिर्विष्णुः विश्वकर्म्मा महेश्वरः। शत्रुघ्नश्च कटिः पुष्टिः पञ्चमी वह्निवासिनी। कामघ्नः कमलावेशो मोहिनी विघ्नहृन्मही। तटसूः कुटिला श्रोत्रं पारहीनो वृषोहरः”।
ऊ = “ऊःकण्टकोरतिः शान्तिः क्रोधनोमधुसूदनः। कामः राजकुजेशश्च महेशोवामकर्णकः। अर्घोशीभैरवः सूक्ष्मो दीर्घषोणा सरस्वती। विलासिनी विघ्नकर्त्ता लक्षणो रूपकर्षिणी। महाविद्येश्वरी षष्ठी षण्डोभूःकान्यकुब्जकः”।
ऋ = “ऋःसुदीर्घमुखी रुद्रोदेवमाता त्रिविक्रमः। भारभूतिः क्रिया हारोरेचिका नासिका धृतिः। एकपादः शिरोमाला मण्डना शान्तिनी जलम्। कर्णः कामलता मेघोनिवृत्तिर्गणनायकः। रोहिणी शिवदूवी च पूर्ण्णा गिरिश्च सप्तमी”।
ॠ = “ॠःक्रोधी तिथीशोवाणीवामनो गोमुखी धृतिः। ऊर्द्ध्वमुखो निशानाथः पद्ममाला विनष्टधीः। शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता। एकदन्ताह्वयोमातात्वरिता मिथुनोदया। कोमला श्यामला मेधा तारकापतिरष्टमी। ब्रह्माण्यमरकीलाले पावकोगन्धक षणा।
ऌ = ऌःस्थाणुः श्रीधरः शुद्धो मेघोधूम्रो वकोवियत्। देवयोनिर्दक्षगण्डोरुद्रः काकोदरी शुभा। शान्तिकृत् स्वस्तिका शक्रो माया च भ्रामरी शुभा। विश्वेश्वरो दीर्घजिह्वा महास्त्री लाङ्गली परा। चन्द्रिका पार्थिवोघूम्या द्विदन्तः कामवर्द्धनः। शुचिस्मिता च नवमी कान्तिरायतकेश्वरः। चित्तस्याकर्षणकरी तुरीया कुलसुन्दरी”।
ॡ = ॡकारः कमलाकर्षी हृषीकेशोमधुव्रतः। सूक्ष्मा कान्तिर्वामगण्डोरुद्रःकामोदरी शुभा। दशमी सुस्थिरोमाता नीलपीतोगजाननः। कामिनी विश्वपः कालोनित्यशुद्धः शुचिः कृती। सूर्य्योधैर्य्याकर्षिणी च एकाक्षी दनुजप्रसूः”। एकारादीनां वाचका तत्तच्छब्दे उक्ता। एषामधिष्ठातृदेवताश्च तत्रैवोक्ता यथा “अकारे भीषणा कीर्त्तिर्विद्युज्जिह्वेति कीर्त्तिता। आकारे तामसी कालजिह्वाग्रा कालभैरवी। इकारे गजिनी चण्डा ज्ञेया रुद्रभयङ्करी। ईकारे सूचिनी ख्याता चण्डीग्रा धूम्रभैरवी। उकारे कालरक्ताख्या प्रचण्डा चण्डवल्लभा। विद्या ह्यूकारगा प्रोक्ता तालजङ्घा कपालिनी। ऋकारे कालिका देवी पितृकालो भयङ्करो। ऋकारे स्यान्महारीद्री ज्वालिनी योगिनीत्यपि। संहारिणी ऌकारे स्यान्मेघनादोग्रवासिनी। रुद्रचण्डा कालरात्री ॡकारे च कपालिनी”। एकारादीनमधिष्ठातृदेवताश्च एकारादिशब्दानामादौ दर्शिताः अकारादीना ध्येयरूपञ्च कामधेनुतन्त्रे दर्शितं यथा
अ = “शृणु तत्त्वमकारस्य अतिगोप्यंवरानने!। शरच्चन्द्रप्रतीकाशं पञ्चकोशमयं सदा। पञ्चदेवमयं वर्णं शक्तित्रयसमन्वितम्। निर्गुणं त्रिगुणोपेतं स्वयं कैवल्यमूर्त्तिमत्। विन्दुतत्त्वमयं वर्णं स्वयंप्रकृतिरूपकम्”।
आ = “आकारं परमाश्चर्य्यं शङ्खज्योतिर्मयं प्रिये!। ब्रह्मविष्णु मयं वर्णं तथा रुद्रमयं प्रिये!। पञ्चप्राणमयं वर्णं स्वयं परमकुण्डलीम्”।
इ = “इकारं परमानन्दं सुगन्धकुसुमच्छविम्। हरिब्रह्ममयं वर्णं सदारुद्रयुतं प्रिये।। सदा शक्तिमयं देवि! गुरुब्रह्म मयं तथा। सदाशिवमयं वर्णं परं ब्रह्मसमन्वितम्। हरिब्रह्मात्मकं वर्णं गुणत्रयसमन्वितम्। इकारं परमेशानि! स्वयं कुण्डलीमूर्त्तिकम्”।
ई = “ईकारं परमेशानि स्वयं परमकुण्डलीम्। ब्रह्मावष्णुमयं वर्णं तथा रुद्रमयंसदा। पञ्चदेवमयंवर्णं पीत विद्युल्लताकृतिम्। चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा”।
उ = “उकारं परमेशानि! अधःकुण्डलिनीं स्वयम्। पीतचम्पकसङ्काशं पञ्चदेवमयंसदा। पञ्चप्राणमयं देवि! चतुर्वर्गप्रदायकम्।
ऊ = “शङ्खकुन्दसमाकारमूकारं परकुण्डलीम्। पञ्चप्राण मयं वर्णं पञ्चदेवमयं सदा। पञ्चप्राणयुतं वर्णं पीत विद्युल्लतां यथा। धर्मार्थकाममोक्षस्य सदा सुखप्रदायकम्”।
ऋ = “ऋकारं परमेशानि कुण्डलीमूर्त्तिधारकम्। अत्र व्रह्मा च विष्णुश्च रुद्रश्चैव वरानने!। सदाशिवमयं वर्णं सदाईश्वरसंयुतम्। पञ्चवर्णमय वर्णंचतुर्ज्ञानमयं तथा। रक्त विद्युल्लताकारमूकारं प्रणमाम्यहम्।
ॠ = “ॠकारं परमेशानि! स्वयं परमकुण्डलीम्। पीतविद्युल्लताकारं पञ्चदेवमयम् सदा। चतुर्ज्ञानमयं वर्णं पञ्चप्राणयुतं सदा। त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये।
ऌ = “ऌकारं चञ्चलापाङ्गि! कुण्डलीं परदेवताम्। अत्र ब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये!। पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा। पञ्चप्राणयुतं वर्णं तथा गुणत्रयात्मकम्। विन्दुत्रयात्मकं वर्णं पीतविद्युल्लतां यथा।
ॡ = ॡकारं परमेशानि! पूर्णचन्द्रसमप्रभम्। पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं सदा। गुणत्रयात्मकं वर्णं तथा विन्दुत्रयात्मकम्। चतुर्ब्बर्गप्रदं देवि! स्वयं परमकुण्डलीम्। एकारादीनां ध्येयरूपाण्येकारादिशब्देषु उक्तानि”। इति वाचस्पत्ये स्वरविभागादि। व्यञ्जनवर्ण्णविभागादि
व्यञ्जनवर्ण्णाः त्रिविधाः स्पर्शान्तस्थोष्मभदात् तत्र कादयो मावसानाः स्पर्शाः, यरलवा अन्तःस्था शषसहा ऊष्माणः। “आत्मा बुद्ध्या समेत्यार्थान् मनोयुङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्। सोदीर्ण्णोमूर्द्ध्न्यभिहतो वक्त्रमापद्य मारुतः। वर्ण्णान् जनयते तेषां विभागः पञ्चधा मतः। स्वरतः कालतः स्थानात् प्रयत्नानुपदानतः” इति शिक्षोक्तेः सर्वेषां वर्ण्णाना प्राणवायुजन्यत्वम्। तथाहि चेतनेन ज्ञातार्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरण मूलाधारस्थितमनलं चालयति तच्चालितश्चानलस्तत्स्थलस्थानिलचालनाय प्रभवति तच्चालितेन चानिलेन तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभिधीयते। ततोनाभिदेशपर्य्यन्तं चलितेन तेन तद्द श संयोगादुत्पादितः शब्दः पश्यन्तीति कीर्त्त्यते एतद्द्वयस्य सूक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्मदीयश्रुतिगोचरता। ततस्तेनैव हृदयदेशं परिसरता हृदयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा च स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्माकमपि समधिगम्या। ततो मूर्द्धपर्य्यन्तमाक्रमता तेन आहत्य मूर्द्धानं तत्प्रतिघातेन ततः परावृत्य मुखविवरे कण्ठादितत्तत्स्थानेषु स्वाभिघातेनोत्पादितः शब्दो वैखरीत्युच्यते। इत्येवं वर्ण्णोत्पत्तिस्तेषाञ्च विभागः पञ्चधा तद्यथा स्वरतः १ उदात्तानुदात्तस्वरितभेदात् अचां त्रैविध्यम् तथाकालतोऽपि २ त्रैविध्यम् “उदात्तमनुदात्तञ्च स्वरितञ्च स्वरास्तथा। ह्रस्वोदीर्घः प्लुतश्चेति कालतो नियमा अचि” इत्युक्तेः अचामेव स्वरवत्त्वात्तथात्वम् कालस्तु उच्चारणकालभेदः स च यद्यपि अचामेवोक्तस्तथापि “एकमात्रोभवेद् ह्रस्वोद्विमात्रोदीर्घ उच्यते। त्रिमात्रस्तु प्लुतोज्ञेयो यञ्जनञ्चार्द्धमात्रकम्” इत्युक्तेः व्यञ्जनानामप्यर्द्धमात्राकालेनोच्चार्य्यत्वात् कालकृतविभागोऽस्त्येव। मात्राकालस्तु “दशगुर्वक्षरैः पाणःषड्भिः प्राणैर्विनाडिका” इत्युक्तेः विनाडिकायाः पलात्मिकायाः षष्टितमभागरूपकालार्द्धभागो मात्रा “द्विमात्रो दीर्घ उच्यते” इत्युक्तेः दीर्षस्य गुरुतया पलषष्टितमभागत्वात् तथा च १५ पञ्चदशानुपलात्मककालः अर्द्धमात्राकालः त्रिंशदनुपलात्मकः कालः एकमात्राकालः, विपलात्मकः कालः द्विमात्रकालः सार्द्धविफलात्मक कालः त्रिमात्रकालः। तत्तत्कालोच्चार्य्यत्वात् वर्ण्णानां कालकृतविभागवत्त्वम्। इत्यास्तु विशेषः स्वराणामिव व्यञ्जनानां न ह्रस्वादिविभागः किन्तु सर्वेषामर्द्धमात्रत्वमेवेति। स्थानतो(३)विभागो यथा “कष्टौ स्थानानि वर्ण्णानामुरः कण्ठः शिरस्तथा। जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु चेति” सामान्यत उक्त्वा वर्णभेदेन स्थानविशेषः शिक्षायामुक्तः यथा “हकारं पञ्चमैर्य्युक्तमन्तःस्थाभिश्च संयुतम्। औरस्यन्तं विजानीयात् कण्ठ्यमाहुरसंयुतम्। कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू। स्युर्मूर्द्धन्या ऋट्रषा हन्त्या ऌतुलसाः स्मृताः। जिह्वामूले तु कुः प्रोक्तः दन्तोष्ठ्यो वः स्मृतो वुधैः। ए ऐ तु कण्ठ्यतालव्यावोऔ कण्ठो ष्ठजौ स्मृतौ। अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयो र्भवेत्। ओकारौकारयोस्तद्वदिति” “अनुस्वारयमानाञ्च नासिका स्थानमुच्यते। अयोगवाहा विज्ञेया आश्रयस्थानभागिनः” इति च। यद्यपि सर्ब्बेषां वर्णानामुच्चारणे कण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वादिव्यापारोऽधिकोऽप्यपेक्षित इति तन्मात्रामात्रकृतत्वेन वर्णानां वैलक्षण्यम्। “जिह्वामूले तु कुः प्रोक्तः” इति पाणिनिशिक्षाभिधानात् कवर्गस्य कण्ठमूलीयत्वम् कण्ठ्यत्वव्यवहारस्तु कण्ठशब्दस्य कण्ठमूलपरतया भाक्त एव तवर्गस्य दन्तभूलीयत्वेऽपि दन्त्यत्ववत् अन्यथा भग्नदन्तस्य तदनुच्चारापत्तेः। जिह्वामूलीयस्य आश्रयस्थानभागित्वेनोक्तेः तदाश्रयस्य कोरपि जिह्वामूलस्थानत्वौचित्यात्। दन्तोष्ठ्योवैत्यादाबुभयोरेव वकारस्थानत्वं नतु प्रत्येकस्थ तथासति दन्त्यौष्ठ्यैत्येव परिशिक्ष्येत। अतस्तस्य दन्तौष्ठोभवकार्य्यभाक्त्वम् एवमग्रेऽपि द्रष्टव्यम्। यमानां प्रातिशाख्यप्रसिद्धानां क~ख~ग~घ~ इत्येषां यम्प्रत्त्याहारसंज्ञाबोधितानाञ्च नासिकापि स्थानमधिकमुपदिश्यते। तत्र च यमेत्युपलक्षणम् “अमोऽनुनासिका नह्रौ” इत्युक्त्या हकाररकारभिन्नानाम् अम्प्रत्याहारबोधितानाम् नासिकास्थानत्वविधानात् नासामनुगतः स्थानत्वेनेत्यनुनासिक शब्दव्युत्पत्त्या नासिकास्थानत्वप्राप्तेश्च। तत्र नह्राविति पुनः हकाररकारयोः पर्य्युदासः। “मुखनासिकावचनोऽनुनासिकः” पा० सूत्रे मुखपदस्य कण्ठादितत्तत्स्थानपरतया यमानामुभयस्थानत्वम्। अयोगवाहा अनुस्वाराः विसर्गाश्च जिह्वामूलीयोपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थान भागित्वम्। आश्रयस्थानभागित्वञ्च यमाश्रित्यैते उच्चार्य्यन्ते तत्स्थानभागित्वमतः विसर्गस्य कखयोः परयोर्जिह्वामूलोच्चार्य्यमाणयोराश्रयत्वेन तत्स्थानभागित्वात् जिह्वामूलीयरूपान्वितनामता समुन्नेया। पफयोः परयोरोष्ठोच्चार्य्यमाणायोराश्रयत्वेनोपाध्मानीयता। उश्च पश्च आध्मायेते अनेन स्थानेनेति व्युत्पत्तेः उपाध्मानशब्द ओष्ठवचनः। तत्स्थानोच्चार्य्यत्वादन्वितनामता चावधेया। अतएव कौमुद्यां “जिहुमूलीयस्य जिह्वामूलमुपाध्मानीयस्योष्ठौ” इत्युक्तम्। यद्यपि सर्व्वेषां वर्णानामाकाशस्थानत्वं करणत्वञ्च कण्ठादीनां तदुत्पत्तौ युक्तं तथापि तेषां स्थानत्वव्यवहारः ताल्वादौ वर्णाभिव्यञ्जकवर्णजनकवायुसंयोगाधारे वर्णाधारत्वारोपेण भाक्त एव। तत्तत्स्थानेषु जिह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वाग्रादिस्थिते तत्सम्बन्धजनकप्रयत्नविशेषे आभ्यन्तरप्रयत्नवाच्ये स्पृष्टता- दावेव करणत्वव्यवहारः इति मञ्जूषायां स्थितम्। प्रयत्नाः ४ आभ्यन्तरप्रयत्नाः अनुप्रदानानि ५ बाह्यप्रयत्नास्त रपि वर्ण्णानां विभागः। तत्र वर्ण्णभेदे प्रयत्नभेदादिकं बाह्याभ्यन्तरप्रयत्नस्वरूपनिरूपणपूर्व्वशं शब्दार्थरत्नेऽणाभिर्निरूपितं यथा आभ्यन्तरप्रयत्नास्तु वर्णोत्पत्तेः प्राग्भाविनः, बाह्यास्तु तदुत्पत्तेः पश्चाद्भाविन इति विवेकः। तथा हि नाभिदेशात् प्रयत्नप्रेरितः प्राणवायुरूर्द्ध्वमाक्रमन्नुरःप्रभृतीनि स्थानान्याहत्य वर्णान् तदभिव्यञ्जकध्वनींश्च उत्पादयति तत्र वर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्ति तदा स्पृष्टता प्रयत्नः, यदा ईषत् स्पृशन्ति तदा ईषत्स्पृष्टता, तेषां समीपावस्थाने संवृतता, दूरावस्थाने विवृतता इत्येवनाभ्यन्तरप्रयत्नभेदैः वर्णानां भेदाः। अतएव इचवर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्त्तव्ये तालुस्थाने जिह्वाग्रादीनां सम्यक्स्पर्शः, यकारोच्चारणे तु ईषत्स्पर्शः, शकारोच्चारणे समीपावस्थानम् इवर्ण्णोच्चारणे दूरावस्थानमिति भेदः। एतेषां चाभ्यन्तरत्वम् ओष्ठप्रभृतिकाकलीध्वनिजनककाकलस्थानपर्य्यन्तरूपास्यान्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां प्रागुक्तस्पर्शादिचतुष्टयरूपाभ्यन्तरकार्य्यकारित्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च बोध्यम्। विवारसंवारौ तु गलबिलस्य विकाशाविकाशात्मकौ बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नायेव तयोः समीपदूरावस्थानात्मकत्वादिति विवेक्तव्यम्। अथ वर्ण्णभेदेनाभ्यन्तरप्रयत्नभेदस्तावदभिधीयते। तत्र कादिमावसानानां स्पृष्टता, अतएव तेषां सम्यक्स्पर्शवत्त्वेन स्पर्शपदवाच्यता। यणः ईषत्स्पृष्टता। तेषाञ्च स्पृष्टविवृतयोर्म्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपि शषसहानां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थाशब्दवाचाता। शसषहानाम् अचाञ्च विवृतता। शषसहानाञ्च ऊष्मशब्दाभिधेयवायुप्रधानत्वात् ऊष्मशब्दवाच्यता। अचाञ्च स्वयंराजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता “अचः स्वयं विराजन्ते” इत्युक्तेः “उदात्तमनुदात्तञ्च स्वरितञ्च स्वरास्त्रयः। ह्रस्वोदीर्घः प्लुतश्चेति कालतो नियमा अचि” इति चोक्तेः। तत्र ह्रस्वस्य संवृतता। “संवृतं त्वेकमात्रंस्यात् विवृतन्तु द्विमात्रकम्” इत्युक्तेः ह्रस्वस्यैकमात्रतया प्रयोगे संवृतता प्रक्रियायान्तु विवृततैव। तत्र मूलं “अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शतस्तथा। शेषाः स्पृष्टा हलः प्रोक्ता” इति शिक्षावाक्यमेव वोध्यम्। अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यरलवास्त्वीषत् पृष्टा इत्यर्थः नेमैत्यर्द्धवाची। शलः शषसहा नेमस्पृष्टा अर्द्धस्पृष्टा अर्थादर्द्धविवृताः “स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम्” इत्येकवाक्यत्वात्। एते च स्थानप्रयत्नाः सवर्णसंज्ञायामुपयुक्ताः। बाह्यप्रयत्नास्तु आन्तरतम्यपरीक्षायामेवोपयोगिनैति “तुल्यास्यप्रयत्नं सवर्णमिति” पा० सूत्रभाष्यादौ स्पष्टम्। तेन तकारस्थाने विवारश्वासघोषाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटकारादेश इति “स्थानेऽन्तरतमः” इति सूत्रभाष्ये स्पष्टम् बहुसमानधर्म्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम्। बाह्याः प्रयत्नाश्चाष्टविधाः काकलकाधास्थलगलबिल सङ्कोचविकाशश्वासोत्पादकध्वनिविशेषघोषाल्पघोषप्राणाल्पचमहत्त्वरूपकार्य्यकरा यथाक्रमं विवारसंवारश्वासनादघोषाघोषाल्पप्राणमहाप्राणनामानो मन्तव्याः। प्रयत्नप्रेरितो बायुर्व्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलबिलविकाशादीनपि सम्पादयति अतो गलबिलविकाशादिकरत्वादास्यवहिर्द्देशकार्य्यकरत्वात् चैते बाह्या इति। ते च “खयां यमाः खयः + क~पौ विसर्गः शरएव च। एतेश्वासानुप्रदाना अघोघाश्च बिवृण्वते। कण्टम्, अन्ये तु घोषाः स्युः संवारा नादमागिनः। अयुग्मा वर्गयमगायणश्चाल्पासवः स्मृताः” इतिसिद्धान्तकौमुद्युक्तदिशावसेयाः। खयां स्थाने जाता ये यमाः क~ ख~ ग~ घ~ इत्येते प्रातिशाख्यप्रसिद्धाः स्वयः, जिह्वामूलोयोपध्मानीयविसर्गाः शरः शषसाश्च एते श्वासा अघोषाः कण्ठं विवृण्वत च। अन्ये एतद्भिन्नाः सर्वेवर्णा घोषसंवारनादरूपबाह्यप्रयत्नवन्तः। वर्गीयप्रथमतृतीयपञ्चमवर्णाः पूर्व्वोक्ताः प्रथमतृतीयवर्गजातयमाश्च यणः यरलवाः एते अल्पप्राणास्तद्भिकाः सर्व्वे महाप्राणाः इति विवेकः। तदेवं परस्परविभाजकैर्बाह्याभ्यन्तरप्रयत्नैः स्वरकालविशेषैर्वर्ण्णानां परस्परविलक्षणरूपता। प्रासद्धा हि वर्ण्णाः पुरस्कृत्यैव कञ्चिद्विशेषम् विलक्षणतामासादयन्ति तत्र वर्ण्णविभाजकानि सूचोपत्रे दृश्यानि ताव्यादौ विन्यस्तवर्ण्णानां फलमुक्तं वृत्तरत्ना० टी० यथा गणप्रसङ्गेनाक्षरशुद्धिरप्यभिधीयते “अक्षरे परिश्रुद्धे च नायको भूतिमृच्छात इत्युक्तेरक्षरश्रुर्द्धेरावश्यकत्वात्। “अवणात् सस्पत्तिर्भवति शमिवर्णाद्धनशतान्युवर्णादख्यातिः, सरभसमृवर्णात् वराहतात्। तथाह्येचः सौख्यं ङ्ञणरहितादक्षरगणात् पदादौ विन्यासात् भरबहलपूर्बैर्विरहितात्”। भरबहलास्तत्पूर्वाणि यान्यच राणि तैर्विरहितादित्यर्थः। हल्वर्णानां फलान्युक्तानितत्रैव। “कः खो गो घश्च लक्ष्मीं वितरति, वियशोङ, स्तथा चः सुखं छः प्रीतिं, जोमित्रलाभं, भयमरणकरौ झ्ञो, टठौ खेददुःखे,। डः शोभां, ढो विशोभां, भ्रमणमथ च णस्तस्तु ख, थस्तु युद्धं, दो, धः, सौख्यं, मुदं, नः, सुखभयमरणक्लेशदुःखं पवर्गः। या लक्ष्मीं, रस्तु दाहं, व्यसनमथ लवौ शः सुखं, षस्तु खेदं, सःसौख्यं, हस्तु खेदं, विलयमपि च लः, क्षः समृद्धिं करोति। संयुक्तं चेह न स्यात् सुखभरणपटुर्वर्णविन्यासयोगं पद्यादौ, गद्यवक्त्रे, वचसि च सकले, प्राकृतादौसमोऽयम्”। एतेषां फलाधारनिरूपणमपि तत्रैव “नायको वर्ण्यते यत्र फलं तस्य समादिशेत्। अन्यथा तु कृते काव्ये कवेर्दोषावहं फलम्”। तस्य प्रतिप्रसवोऽप्युक्तः। “देवता वर्ण्यते यत्र क्वापि काव्ये कवीश्वरैः। मित्रामित्रविचारा वा न तत्र फलकल्पना। देवतावाचकाः शब्दा ये च भद्रादिवाचकाः”। इति वाचस्पत्ये व्यञ्जनवर्णविभागादि।
***