औरग = न० उरगोदेवताऽस्य अण्। १ सर्पाधिष्ठातृदेवताके अश्लेषानक्षत्रे। तस्येदम् अण्। २ सर्प सम्बन्धिनि त्रि० स्त्रियां ङीप्।
औरभ्र = न० उरभ्रस्य मेषस्येदम् अण्। १ मेषलोमजाते कम्बले २ तत्सम्बन्धिनि त्रि०। “औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च बै” मनुः। “वृंहणं मांसमौरभ्रं पित्तशेष्मावहं गुरु” सुश्रु०। धन्वन्तरिं प्रति प्रश्नकारकर्षिमध्ये ३ ऋषिभेदे पु० औपधेनवशब्दे उदा०।
औरभ्रक = न० उरभ्राणां समूहः वुञ्। मेषसमूहे।
औरभ्रिक = त्रि० उरभ्रः पण्यमस्य ठञ्। मेषविक्रयोपजीविनि “औरभ्रिकोमाहिषिकः परपूर्ब्बापतिस्तथा” मनुः। स्त्रियांङीप्।
औरस = पु० उरसा निर्म्मितः यदभावे अण्। “सवर्ण्णायां संस्कृतायां स्वयमुत्पादयेत्तु यम्। औरसं तं विजानीयात् पुत्रं प्रथमकल्पितम्” मनूक्ते पुत्रभेदे “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च” मनुना द्वादशविधपुत्रमध्ये तस्य प्राथम्योक्तेः “अङ्गादङ्गात् सम्भवति” आत्मा वै जायते पुत्र” श्रुतेश्च स्वदेहजातत्वेनास्य तथात्वम्। १ उरसानिर्म्मितमात्रत्वेन असवर्ण्णागुत्रे परपूर्व्वापुत्रेऽपि औरसशब्दस्य वृत्तिः अतएव “अर्जुनस्य परपूर्व्वायां नागकन्यायामुत्पन्नमैरावतमभिप्रेत्य” भा० भी० ९१ अ० “अजानन् अर्जुनश्चापि निहतं पुत्रमौरसम्” ऐरावतस्य औरसत्वविशेषणम्। “एकएवौरस पुत्रः सर्व्वस्य वसुनः प्रभुः” मनुः “औरसः क्षेत्रजः पुत्रौ पितृरिक्थस्य भागिनौ” स्मृतिः औरसे पुनरुत्पन्ने तृतीयांशहराः सुताः” मनुः उरस इदमण्। २ हृदयभवे त्रि० उरसा नाम पुरोभेदः तत्र भवः सिन्ध्वा० अण्। ३ औरस उरसापुरोभवे त्रि०।
औरसिक = न० उरएव अङ्गुल्या० स्वार्थे ठक्। १ उरसि। इमुसुक्तान्तात् कः” पा० उक्तेरिसुसादिभिन्नचात् औरस्क इति शब्द कल्पनं प्रामादिकमेव।
औरस्य = न० उरसि भवः शरीरावयवत्वात् यत् ततः स्वार्थे अण्। उरसिभवे। “हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम्। औरस्यं तं विजानोयात्” शिक्षा “औरसपुत्रे तु उरस्य एव “उरसोऽण् चेति” सूत्रे चाद् यद्विधानात् अतएव औरसपर्य्याये उरस्यशब्द एवामरे बोध्यः तथैव टोकाकृद्भिर्व्याख्यानात्।
और्ण्ण(क) = त्रि० ऊर्ण्णायाः विकारः अञ् पक्षे वुञ्। मेषलोमविकारे कम्बलादौ।
और्ण्णावत = त्रि० उर्ण्णावतोऽयम् अण्। ऋषिभेदे ततः स्वार्थे प्यञ्। और्ण्णावत्योऽप्यत्र।
और्ण्णिक = त्रि० ऊर्ण्णायानिमित्तं संयोग उत्पातो वा ठञ्। तन्निमित्तादौ स्त्रियां ङीप्।
और्द्ध्वकालिक = त्रि० ऊर्द्धकाले भवः काश्या० ष्ठञ् ञिटच्। ऊर्द्धकालभवे। ष्ठञि स्त्रियां ङीविति भेदः।
और्द्ध्वदेह = त्रि० ऊर्द्धदेहस्येदम् अण्। ऊर्द्धदेहसम्बन्धिनि “और्द्धदेहनिमित्तार्थमवतीर्य्योदकं नदीम्” रामा०
और्द्ध्वदैहिक = त्रि० ऊर्द्ध्वदेहाय साषु–ठञ्। ऊर्द्ध्वदेहप्रापके शास्त्रोक्ते क्रियादौ मरणोत्तर हि मनुष्याणां प्रथममातिवाहिकदेहोत्पत्तिस्ततः पूरकपिण्डदानेन प्रेतदेहप्राप्तिः आद्यादिसपिण्डान्तक्रियाभिः प्रेतदेहनिवृत्त्या भोगदेहपाप्तिस्तत्र च पूर्ब्बोत्तरभवे क्रिये हेतू। तदेतत् शुद्धितत्त्वे निर्ण्णीतं यथा। “अत्रेदं वीजं पूर्ब्बक्रियायाआतिवाहिकदेहत्यागोत्तरदेहान्तरजननं, मध्यक्रियायाअपि प्रेतत्वपरिहारोत्तरदेहान्तरजननं ततश्चैकयैव तत्सिद्धौ पुनस्तत्करणं वचनाभावेऽनर्थकम्। तथाच विष्णुधर्म्मोत्तरम् “तत्क्षणादेव गृह्णाति शरीरमातिवाहिकम्। ऊर्द्ध्वं व्रजन्ति भूतानि त्रीण्यस्मात्तस्य विग्रहात्”। त्रीणि भूतानि त जोवाय्वाकाशानि, पृथिवीजले तु अधीगच्छतः। तत्क्षणात् मृत्युक्षणात्। तथा “आतिवाहिकसंज्ञोऽसौ देहोभवति भार्गव!। केवलं तन्मनुष्याणां नान्येषां प्राणिनां क्वचित्”। तथा “प्रेतपिण्डैस्तथा दत्तैर्देहमाप्नोति भार्गवः। भोगदेहमिति प्रोक्तं क्रमादेव न संशयः। प्रेतपिण्डा न दीयन्ते यस्य तस्य “विमोक्षणम्। श्माशानिकेभ्योभूतेभ्यआकल्वं नैव विद्यते। तत्रास्य यातना घोरा शीतवातातपोडवाः। ततः सपिण्डीकरणे बान्धवैस्तु कृते नरः। पूर्णे संवत् सरे देहमतोऽन्यं प्रतिपद्यते। ततः स नरके याति स्वर्गे वा स्वेन कर्म्मणा”। तथा वायुपुराणम् “पूरकेण तु पिण्डेन देहोनिष्पाद्यते यतः। कृतस्य करणायोगात् पुनर्नावर्त्तयेत् क्रियाम्”। अतएवातिवाहिकदेहपरित्यागाय तत्कालीनकर्म्मासमर्थपुत्रसत्त्वेऽप्यन्येन दाहादि क्रियते। “पितृमातृसपिण्डैस्तु समानसलिलैर्नृप। सं घातान्तर्गतैर्व्वापि राज्ञा वा धनहारिणा। पूर्व्वाः क्रि यास्तु कर्त्तव्याः पुत्त्राद्यैरेव चोत्तराः”। तत्र क्रियाश्च त्रिविधाः विष्णुपुराणे दर्शिता यथा “पूर्व्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः। त्रिप्रकाराः क्रिया ह्येतास्तासां भेदान् शृणुष्व मे। आदाहवार्य्यायुधादिस्पर्शाद्यन्ताश्च याः क्रियाः। ताः पूर्व्वामध्यमा मासिम्यस्येकोद्दिष्टसंज्ञिताः। प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु। क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः। पितृमातृसपिण्डैश्च समानसलिलैर्न्नृप। संघातान्तर्गतैर्व्वापि राज्ञा वा धनहारिणा। पूर्व्वाः क्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः। दौहित्रैर्वा नरश्रेष्ठ! कार्य्यास्तत्तनयैस्तथा। मृताहानि तु कर्त्तव्याः स्त्रीणामप्युत्तराः क्रियाः। प्रतिसंवत्सरं राजन्! एकोद्दिष्टं विधानतः”। आदाहेति दाहावध्रशौ चान्तविहितवार्य्यायुधादिस्पर्शाद्यन्तास्ताः पूर्ब्बाः, मासिमासीत्येकादशाहादिसपिण्डनान्तप्रेतक्रियोपलक्षणम्। सपिण्डनोत्तराः पार्ब्बणादिक्रिया उत्तराः। अत्र पुत्त्रादिसपिण्डादयः पूर्ब्बाः क्रिया अवश्यं कुर्य्युः। मध्यमक्रियायामनियमः। उत्तरक्रियायां पुत्त्रादयो भ्रातृसन्ततिपर्य्यन्तानियताः। श्राद्धविवेकेऽप्येवम्। दौहित्रैर्वेति वाशब्दः समुच्चयार्थः तेन दौहित्रोऽप्युत्तरक्रियायां नियताधिकारी”। अत्राधिकारिणश्च एकोद्दिष्टशब्दे १५ २५ पृ० उक्ताः “अकरोत् स तदौर्द्ध्वदैहिकम्” रघुः। अनुशतिका० द्विपदवृद्धिरिति मल्लि० अनुगतिकादिगणे तस्य पाठाभावेऽपि आकृतिगणत्वात् तत्सिद्धिरिति तस्याशयः। किन्तु बहुपु स्थलेषु एकपदवृद्धियुक्तंदृश्यते तेन उभयमपि साधु इति तत्त्वम्। “भृत्यानामुपरोधेन यत्करोत्यौर्द्धदेहिकम्। तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च” मनुः। उपानहौ च वस्त्रञ्च प्रतिगृह्यौर्द्धदेहिकम्” भारते अनु० पर्व्वणि ६२२९ श्लो०
और्द्ध्वदमिक = त्रि० ऊर्द्धदमे भवः “ऊर्द्धात् दमाच्च देहाच्च लोकोत्तरपदात्तथा” त्युक्तेः ठक्। ऊर्द्धदमभवे त्रि० स्त्रियां ङीप्
और्द्ध्वस्रोतसिक = त्रि० ऊर्द्धस्रोतसि ऊर्द्धरेतसि प्रसक्तः ठक्। शैवे शिवभक्ते त्रिका०।
और्व = पु० उर्व्वस्यापत्यम् ऋष्यण्। १ उर्व्वर्षेरपत्ये गोत्रापत्ये तु विदा० अञ्। २ उर्व्वगोत्रापत्ये उभयतः स्त्रियां ङीप्। उर्व्यां भवः अण्। ३ पांशुलवणे न० राजनि०। ४ उर्वीभवमात्रे त्रि०। उरुतोजातः ऊरु + अण् संज्ञापूर्व्वकविधेरनित्यत्वान्न गुणः। भूगुवंश्ये ५ ऋषिभेदे। तत्र भवः अण्। ६ बाडवानले। तदुत्पत्तिकथा ऊरुजशब्दे १३८५ पृ० उक्ता ततो बाडवनलोत्पत्तिकथा तु भा० आ० १८०१८१ अ० उक्ता यया “ब्राह्मण्युवाच। “नाहं गृह्णामि वस्ताता दृष्टीर्नास्मि रुषान्विता। अयन्तु भार्गवो नूनमूरुजः कुपितोऽद्य वः। तेन चक्षूंषि वस्ताता! व्यक्तं कोपान्महात्मना। स्मरता निहतान् बन्धूनादत्तानि न संशयः। गर्भानपि यदा नूनं भृगूणां घ्नत पुत्त्रकाः!। तदायमूरुणा गर्भो मया वर्षशतं धृतः। षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह। विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया। सोऽयं पितृबधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति। तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः। तमिमं तात याचध्वमौर्व्वं मम सुतोत्तमम्। अयं वः प्रणिपातेन तुष्टोदृष्टीः प्रमोक्ष्यति। वशिष्ठ उवाच। एवमुक्तास्ततः सर्व्वे राजानस्ते तमूरुजम्। ऊचुः प्रसीदेति तदा प्रसादञ्च चकार सः। अनेनैव च विख्यातो गाम्ना लोकेषु सत्तमः। स और्व्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत। चक्षूंषि प्रतिलब्ध्वा च प्रतिजग्मुस्ततो नृपाः”। “इच्छन्नपचितिं कर्त्तुं भृगूणां भृगुनन्दनः। सर्व्वलोकविनाशाय तपसा महतैधितः। तापयामास ताल्लो~कान् सदेवासुरमानुषान्। तपसोग्रेण महता नन्दयिष्यन् पितामहान्। ततस्तं पितरस्तात! विज्ञाय कुलनन्दनम्। पितृलोकादुपागम्य सर्व्व ऊचुरिदं वचः। पितर ऊचुः। और्व्व! दृष्टःप्रभावस्ते तपसोग्रस्य पुत्त्रक!। प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः। नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः। बधो ह्युपेक्षितः सर्व्वैः क्षत्रियाणां विहिंसताम्। आयुषा विप्रकृष्टेन यदा नः खेद आविशत्। तदास्माभिर्व्वधस्तात! क्षत्त्रियैरीप्सितः स्वयम्। निखातं यच्च वै वित्तं भृगुभिर्भृगुवेश्मनि। वैरायैव तदा न्यस्तं क्षत्त्रियान् कोपयिष्णुभिः। किं हि वित्तेन नः कार्य्यं स्वर्गेप्सूनां द्विजोत्तम। यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत्। यदा तु मृत्युरादातु न नः शक्नोति सर्वशः। तदास्माभिरयं दृष्ट उपायस्तात! सम्मतः। आत्महा च पुमांस्तात! न लोकाल्ल~भते शुभान्। ततोऽस्माभिः समीक्ष्यैवं नात्म नात्मा निपातितः। न चैतन्नः प्रियं तात! यदिदं कर्त्तुमिच्छसि। नियच्छेदं मनः पापात् सर्व्वलोकपराभवात्। मा बधीः क्षत्त्रियांस्तात! न लोकान् सप्त पुत्त्रक!। दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि”। “और्व्व उवाच। उक्तवानस्मि यां क्रोधात् प्रतिज्ञां पितरस्तदा। सर्व्वलोकविनाशाय न सा मे वितथा भवेत्। वृथारोषप्रतिज्ञो वै नाहं भवितुमुत्सहे। अनिस्तीर्णो हि मां रोषो दहेदग्नि रिवारणिम्। यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति। नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्। अशिष्टानां निहन्ता हि शिष्टानां परिरक्षिता। स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्व्वजिगीषुभिः। अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा। आरावं मातृवर्गस्य भृगूणां क्षत्त्रियैर्बधे। संहारो हि यदा लोके भृगूणां क्षत्त्रियाधमैः। आगर्भोच्छेदनात् क्रान्तस्तदा मां मन्युराविशत्। संपूर्णकोपाः किल मे मातरः पितरस्तथा। भयात् सर्व्वेषु लोकेषु नाधिजग्मुः परायणम्। तान् भृगूणां यदा दारान् कश्चिन्नाभ्युपपद्यते। माता तदा दधारेयमूरुणैकेन मां शुभा। प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते। तदा सर्व्वेषु लोकेषु पापकृन्नोपपद्यते। यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्। तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्म्मसु। जानन्नपि च यः पापं शक्तिमान्न नियच्छति। ईशः सन् सोऽपि तेनैव कर्म्मणा सम्प्रयुज्यते। राजभिश्चेश्वरैश्चैव यदि वै पितरो मम। शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम्। अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम्। भवताञ्च वचो नालमहं समतिवर्त्तितुमुं। ममापि चेद्भवेदेवमीश्वरस्य सतो महत। उपेक्षमाणस्य पुनर्लोकानां किल्वषाद्भयम्। नन्वद्यं मन्युजो मेऽग्निर्लोकानादातुच्छति। दहेदेष च मामेव निगृहीतः स्वतेजसा भवतां च विजानामि सर्वलोकहितेप्सुताम्। तस्माद्विदद्ध्व यच्छ्रेयो लोकानां मम चेश्वराः!। पितर ऊचुः। य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति। अप्सुतं सुञ्च भद्रन्ते लोका ह्यप्सु प्रतिष्ठिताः। आपोमयाः सर्वरसाः सर्व्वमापो- मयं जगत्। तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम!। अयं तिष्ठतु ते विप्र! यदीच्छसि महोदधौ। मन्युजोऽग्निर्द्दहन्नापो लोका ह्यापोमयाः स्मृताः। एवं प्रतिज्ञा सत्येयं तवान्घ! भविष्यति। न चैवं सा भरा लोका गमिष्यन्ति पराभवम्। वशिष्ठ उवाच। ततस्तं क्रोधजं तात! और्व्वोऽग्निं वरुणालये। उत्ससर्ज्ज स चैवाप उपयुङ्क्ते महोदधौ। महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः। तमग्निमुद्गिरन् वक्त्रात् पिबत्यापो महोदधौ”। बाडवानलस्य स्थितिस्थानम् सि० शि० उक्तम् भूमेर्याम्येऽर्द्धे सप्तद्वीपसमुद्राणां स्थितिकीर्त्तनान्ते “स्वादूदकान्तर्बडवानन्तोऽसौपाताललोकाः पृथिवीपुटानि” इति। और्वस्य च प्रवरर्षित्वम् आर्षेयशब्दे उक्तम्। “जामदग्नावत्सास्तेषां पञ्चार्षेयो भार्गवच्यावनाप्नवानौर्वजामदग्नेति च आश्व० श्रौ० १२, १०, ६, ९ और्वमधिकृत्य कृतोग्रन्थः अण्। भारतान्तर्गते और्वचरिताख्याने। “तापत्यमथवासिष्ठमौर्वं चाख्यानमुत्तमम्” भा० आ० १। तच्चाख्यानं भा० आ० १८९ अध्यायादौ दृश्यम्।
और्वश = पु० उर्व्वशी तच्छब्दोऽस्त्यत्र विमुक्ता० अण्। और्वशी शब्दयुक्ते १ स्वाध्याये २ अनुवाके च। उर्व्वश्या इदम् अण्। २ उर्व्वशीसम्बन्धिनि त्रि०।
और्वशेय = पु० उर्व्वश्या अपत्यम् ढक्। १ अगस्त्ये मुनौ हेमच० तस्य च उव्वशीं दृष्ट्वा मित्रावरणयोः स्खलितरेतोजा त तया तथात्वम् तत्प्रमाणञ्चागस्तिशब्दे ४७ पृ० उक्तम्। ऐलशब्दे दर्शितेषु उर्वशीगर्भजातेषु पुरूरवसः सुतेषु २ आयुरादिषु षट्सु च
औलपि = पु० उलपस्य कलाप्यन्तेवासिविशेषस्यापत्यम् इञ्। उलपापत्ये ततः स्वार्थे दामन्या० छ। औलपीय तदर्थे बहुगु तस्यलुक्। औलपय इत्यादि।
औलपिन् = पु० ब० व०। उलपेन प्रोक्तं छन्दोऽधीयते कलाअन्तेवासित्वात् णिनि। उलपप्रोक्तछन्दोध्यायिषु
औलान = न० अवलम्बनं वेदे पृषो०। अवलम्बने। “विद्वान् पथ ऋतुशोदेवयानानयौलानं दिविधे” ऋ० १०, ९८, ११।
औलूक = न० उलूकानां समूहः खण्डिका० अञ्। पेचकसमुदाये
औलूक्य = पु० उलूकर्षेरपत्यम् गर्गा० यञ्। उलूकनामर्षेररपत्ये कणादे वैशेषिकसूत्रकारे तस्य छात्रः कण्वादि० अण्। ततो यञो लुक्। औलूक औलूक्यच्छात्रे वैशेषिकसतामिज्ञे। उलूक इति ह्रखमध्यं केचिदाहुः औलूक्यदर्शनन्तु वैशेषिकदर्शनं तत्प्रतिपाद्यविघया उच्यन्ते “आथातो धर्म्मं व्याख्यास्यामः”। १ सू० “तापत्रयपराहता विवेकिनस्तापत्रयनिवृचिनिदानमनुसन्दधाना नानाश्रुतिस्मृतीतिहासपुराणेष्वात्मतत्त्वसाक्षात्कारमेव तदुपायमाकलयाम्बभूवुः। तत्प्राप्तिहेतुमपि पन्थान जिज्ञासामानाः परमकारुणिकं कणादं मुनिमुशसेदुरथ कणादो मुनिस्तत्त्वज्ञानवैराग्यैश्वर्य्यसम्पन्नः षण्णां पदार्थानां साधर्म्म्यवैधर्म्म्याभ्यां तत्त्वज्ञानमेवात्मतत्त्वसाक्षात्कारप्राप्तये परमः पन्था इति मनसिकृत्य तच्च निवृत्तिलक्षणाद्धर्मादेतेषामनायायेन सेत्स्यतीति लक्षणतः स्वरूपतश्च धर्ममेव प्रथममुपदिशाम्यनन्तरं षडपि पदार्थानुद्देशलक्षणपरीक्षाभिरुपदेक्ष्यामीति हृदि निधाय तेषामवधानाय प्रतिजानीते। अथातो धर्ममित्यादि” उप०
“यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्भः”। २ सू० “को धर्मः किंलक्षणश्चेति? सामान्यतः शिष्यजिज्ञासायां यतोऽभ्युदयनिश्रेयससिद्धिरित्युपतिष्ठते” तथा च यतोऽभ्युदयसिद्धिर्यतश्च निःश्रेयससिद्धिस्तदुभयं धर्मः एवं पुरुषार्थासाधारणकारणं धर्म इति वक्तव्ये परमपुरुषार्थयोः सुखदुःखाभावयोर्विशेषतः परिचयार्थ मभ्युदयनिःश्रेयससिद्धिरित्युक्तं स्वर्गापवर्गयोरेवान्येच्छानधीनेच्छाविषयत्वेन परमपुरुषार्थत्वात्। साधयिष्यते च दुःखाभावस्यापि पुरुषार्थत्वम्” उपस्करः।
“तद्वचनादाम्नायस्य प्राभाण्यम्”। ३ सू० “ननु निवृत्तिलक्षणी घर्मस्तत्त्वज्ञानद्वारा निःश्रेयसहेतुरित्यत्र श्रुतिः प्रमाणं श्रुतेरेव प्रामाण्ये वयं विप्रतिपद्यामहे अनृतव्यावातपुनरुक्तदोषेभ्यः, पुत्रेष्टौ कृतायामपि पुत्रानुत्पादादनृतत्वम् “उदिते जुहोति अनुदिते जुहोति समयाध्युषिते जुहोतीति” विधेः प्राप्त एवोदितादिकाले होमो व्याहन्यते “श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति योऽनुदिते जुहोति श्यावशवलावस्याहुतिमभ्यवहरतो यः समयाध्युषिते जुहोति” इत्यादिना। तथा “त्रिः प्रथमामन्वाह त्रिरुत्तमामन्वाह” इत्यनेन प्रथमोत्तमसामिधेन्योस्त्रिरुच्चारणाभिधानात् पौनरुक्त्यमेव। न चाम्नायप्रामाण्यप्रतिपादकं किञ्चिदस्ति प्रमाणम् नित्यत्वे विप्रतिपत्तौ नित्यनिर्द्दोषत्वमपि सन्दिग्धं पौरुषेयत्वे तु भ्रमप्रमादविप्रतिपत्तिकरणापाटवादिसम्भावनया आप्नोक्तत्वमपि सन्दिग्धमेवेति न निःश्रेयसं न वा तत्र तत्त्वज्ञानं द्वार न वा धर्म इति सर्वमेतदाकुलमत आह। तदुद्वचनादाम्नायस्येत्यादि। तदित्यनुपक्रान्तमपि प्रसिद्धिसिद्धतयेश्वरं परामृशति यथा “तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः” इति गौत मीयसूत्रे तच्छब्देनानुपक्रान्तोऽपि वेदः परामृश्यते। तथा च तद्वचनात्तेनेश्वरेण प्रणयनादाम्नायस्य वेदस्य प्रामाण्यं यद्वा तदिति सन्निहितं धर्म्ममेव परामृशति तथाच धर्म्मस्य वचनात् प्रतिपादनात् आम्नायस्य वेदस्य प्रामाण्यं यद्धि वाक्यं प्रामाणिकमर्थं प्रतिपादयति तत्प्रमाणमेव यत इत्यर्थः। ईश्वरस्तदाप्तत्वञ्च साधयिष्यते यच्चोक्तमनृतव्याघातपुनरुक्तदोषेभ्य इति तत्रानृतत्वे जन्मान्तरीयफलकल्पनं कर्मकर्तृसाधनवैगुण्यकल्पनं वा श्रौतात् साङ्गात् कर्मणः फलावश्यम्भावनिश्चयात् न च कारीरीवदैहिकमात्रफलकत्वं तत्र हि शुष्यच्छस्यसञ्जीबनकामस्याधिकारः पुत्रेष्टौ पुत्रकामस्येतिविशेषात् नच व्याघातोऽपि उदितादिहोमं विशेषतः प्रतिज्ञाय तदन्यकाले होमानुष्ठाने “श्यावोऽस्याहुतिमभ्यवहरति” इत्यादिनिन्दाप्रतिपादनात् न च पुनरुक्ततादोषोऽपि एकादशसामिधेनीनां प्रकृतौ पाठात् “पञ्चदशावरेण वाग्वज्रेणावबाधे तमिमं भ्रातृव्यम्” इत्यत्र सामिघेनीनां पञ्चदपत्वस्य प्रथमोत्तमसामिधेन्योस्त्रिरभिधानमन्तरेणानुपपत्तेस्तथाभिधानात्”। उपस्क० ३।
शिष्याकाङ्क्षानुरोधेन स्वरूपतोलक्षणतश्च धर्म्मं व्याख्यायाभिधेयसम्बन्धफलप्रतिप्रादानायाह “धर्म्मविशेषप्रसूतात् द्रव्यगुणकर्म्मसामान्यविशेषसमवायानां पदार्थानां माधर्ह्मवैधर्म्माभ्यां तत्त्वज्ञानान्नि श्रेयमम्” ४ सू। “एतादृशं तत्त्वज्ञानं वैशेषिकशास्त्राधीनमिति तस्यापि निःश्रेसमहेतुत्वंदण्डापूपायितम्। तत्त्वं ज्ञायतेऽनेनेति करणव्युत्पत्त्याशास्त्रपरत्वे धर्म्मविशेषपसूतादित्यनेनानन्वयापत्तेः। सर्व्वपदार्थप्रधानो द्वन्द्वश्चात्र समासः सर्वपदार्थतत्त्वज्ञानस्य निःश्रेयसहेतुत्वात् तदत्र शास्त्रनिःश्रयेसयोर्हेतुहेतुमद्भावः शास्त्रतत्त्वज्ञानयोर्व्यापारव्यापारिभावः निःश्रेयसतत्त्वज्ञानयोः कार्य्यकारणभावः द्रव्यादिपदार्थशास्त्रयोः प्रतिपाद्यप्रतिपादकभावः सम्बन्धोऽवगम्यते एतेषाञ्च सम्बद्धानां ज्ञानान्निःश्रेयसार्थिनामिह शास्त्रे प्रवृत्तिः। मोक्षमाणाश्च मुनेर्गृहीताप्तभावा एव शास्त्रे प्रवर्त्तन्ते। निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः। दुःखनिवृत्तेश्चात्यन्तिकत्वं समानाधिकरणदुःखप्रागभावासमानकालीनत्व युगपदुत्पन्नसमानाधिकरणसर्वात्मविशेषगुण- ध्वससमानकालीनत्वं वा। अशेषविशेषगुणध्वंसावधिकदुःखप्रागभावो वा मुक्तिः नचासाध्यत्वान्नायं पुरुषार्थः, कारणविघटनमुखेन प्रागभावस्यापि साध्यत्वात् नच तस्य प्रागभावत्वक्षतिः प्रतियोगिजनकाभावत्वेन तथात्वात्, जनकत्वञ्च स्वरूपयोग्यतामात्नम्, नहि प्रामभावश्चरमसामग्री येन तस्मिन् सति कार्य्यमवश्यम्भवेत् तथा सति कार्य्यस्याप्यनादित्वप्रसङ्गात् तथाच यथा सहक रिवितहादियन्तं कालं नाजीजनत् तथाग्रेऽपि तद्विरहान्न जनयिष्यति हेतूच्छेदे पुरुषव्यापारात् इत्यस्यापि प्रागभावपरिपालन एव तात्पर्य्यात्, अत एव गौतमीयद्वितीयसूत्रे “दुःखजन्म प्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्ततापाये तदनन्तरापायादपवर्गः” इत्यत्र कारणाभावात् कार्य्याभावाभिधानं दुःखप्रागभावरूपामेव मुक्तिं द्रढयति नहि दोषापाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्मापायः, जन्मापाये दुःय्यापाय इत्यत्रापायो ध्वंसः किन्त्वनुत्पत्तिः साध प्रागभाव एव न च प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्रसिद्धेः प्रायश्चित्तवत् तत्रापि प्रत्यवायध्वंसद्वारा दुःखाःनुत्पत्तेरेवापेक्षितत्वात् लोकेऽहिकण्टकादिनिवृत्तेर्दुःखानुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षावतां प्रवृत्तेः। केचित्तु दुःखात्यन्ताभाव एव मक्तिः सच यद्यपि नात्मनिष्ठस्तथापि लोष्टादिनिष्ठ एवात्मनि साध्यते सिद्धिश्च तस्य दुःखप्रागभावासहवर्त्तिदुःखध्वंस एव तस्य तत्सम्बन्धतयोपगमात् तस्मित् सति तत्र दुःखात्यन्ताभावप्रतीतेः एवञ्च सति “दुःखेनात्यन्तं विमुक्तश्चरति” इत्यादिश्रुतिरप्युपपादिता भवतोत्याहुः तन्न दुःखात्यन्ताभायस्यासाध्यत्वेनापुरुषार्थत्वात् दुःखध्वंसस्य च न तत्र सम्बन्धत्वं परिभाषापत्तेः “दुःखेनात्यन्तं विमुक्तश्चरति” इति श्रुतेर्दुःखप्रागभावस्यैव कारणविघटनमुखेनात्यन्ताभावसमानरूपत्वतात्पर्य्यकत्वात्। नन्द्वयं न पुरुषार्थः निरुपाधीच्छाविषयत्वाभावात् दुःखकाले सुखं तावन्नोत्पद्यते इति सुखार्थिनामेव दुःखाभावार्थं प्रवृत्तेरिति चेन्न वैपरीत्यस्यापि सुवचत्वात् सुखेच्छापि दुःखाभावौपाधिकीत्येव किं न स्यात् शोकाकुलानां सुखविमुखानामपि दुःखाभावमात्रमभिसन्धाय विषभक्षणोद्बन्धनादौ प्रवृत्तिदर्शनात्। ननु पुरुषार्थोऽप्ययं ज्ञायमान एव मुक्तेस्तु दुःखाभावस्य ज्ञायमानतैव नास्ति अन्यथा मूर्च्छाद्यवस्थार्थमपि प्रवर्त्तेतेरि चेन्न श्रुत्यनुमानाभ्यां ज्ञायमानस्यावेद्यत्वानुपपत्तेः। अस्ति हि श्रुतिः “दुःखेनात्यन्त विमुक्त- श्चरति” “तसेव विदित्वाऽतिमृत्युमेति” इत्यादिका। अनुमानमप्यस्ति दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदित्यादि चरमदुःखध्वंसस्य दुःखसाक्षात्कारेण क्षणं विषर्यकरणात् प्रत्यक्षवेद्यताऽपि। योगिनां योगजधर्म्मबलेनागामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाच्च। तथापि तुल्यायव्ययतया नायं पुरुषार्थो दुःखवत् सुखस्यापि ज्ञाने द्वयोरपि समानसामग्रीकत्वादिति चेत् उत्सगतो वीतरागाणां दुःखदुर्द्दिनभीरूणां सुखखद्योतिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः। ननु तथापि दुःखनिवृत्तिर्न पुरुषार्थः, अनागतदुःखनिवृत्तेरशक्यत्वात् अतीतदुःखस्यातीतत्यात् वर्त्तमानदुःखस्य पुरुषत्रयत्नमन्तरेणैव निवृत्तेरिति चेन्न हेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवत् तथाहि सवासनं मिथ्याज्ञानं संसारहेतुस्तदुच्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानं च योगविधिसाध्यमिति तदर्थं प्रवृत्त्युपपत्तेः” उपस्करः कियदन्तरे च “धर्मविशेषप्रसूतादिति तत्त्वज्ञानादित्यस्य विशेषणं तत्र धर्मविशेषो निवृत्तिलक्षणो धर्मः यदि तु तत्त्वं ज्ञायतेऽनेनेति तत्त्वज्ञानं शास्त्रमुच्यते तदा धर्मविशेष ईश्वरनियोगप्रसादरूपो वक्तव्यः श्रूयते हीश्वरनियोगप्रसादवधिगम्य कणादो महर्षिः शास्त्रं प्रणीतवानिति तत्त्वज्ञानमात्मतत्त्वसाक्षात्कार इह विवक्षितस्तस्यैव सवासनमिथ्याज्ञानोन्मूलनक्षमत्वात् “तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽनाय” इत्यत्र “द्वे ब्रह्मणी वेदि तव्ये” इत्यत्र च वेदनपदस्य साक्षात्कारपरत्वात् “पश्य त्यचक्षुः” इत्यत्रापि तथा। सच शास्त्रान्मनननिदिध्यासनादिपरम्परयेति हेतुपञ्चम्या तथैवाभिधानात्” उप० न्यायकन्दल्यां प्रयोजनसूत्रमित्थं विवृतं यथा “तच्चेश्वरनोदनाभिव्यक्ताद्धर्म्मादेवेति” भाष्यप्रतीकव्याख्यायाम् “यस्य वस्तुनो यो भावस्तत् तस्य तत्त्वम् साधारणोधर्म्मः साधर्म्यम् असाधारणोधर्म्मो वैधर्म्यं तयोस्तत्त्वज्ञानं निःश्रेयसहेतुः विषयसंयोगजं सुखं तावत् क्षणिकंविनाशि दुःखबहुल खर्गादिपदं प्राप्यमपि सप्रक्षयं, सातिशयञ्च तथा च कस्यचित्स्वर्गमात्रमपरस्य स्वर्गराज्यम् अतस्तदपि सततंप्रच्युतिशङ्कया परसमुत्कर्षोपतापाच्च दुःखाक्रान्तं न निश्चितं श्रेयः। आत्यन्तिकी दुःखनिवृत्तिरसह्यसंवेदननिखिलदुःखासवेदनारूपत्वादपरावृत्तेश्च निश्चितं श्रेयः तस्य कारणं द्रव्यादिस्वरूपज्ञानम्। एतेनैतत् प्रत्युक्त मण्डनेन यदुक्तं विशेषगुणनिवृत्तिलक्षणा मुक्तिरुच्छेद- पक्षान्न भिद्यत इति। विशेषगुणोच्छेदे हि सति आत्मनः स्वरूपेणावस्थानं नोच्छेदोनित्यत्वात् नचायमपुरुषार्थः समस्तदुःखोपरमस्य पुरुषार्थत्वात् समस्तसुखाभावादपुरुषार्थत्वमिति चेत् न सुखस्यापि क्षयितया बहुलप्रत्यनीकतया साधनप्रार्थनाशतपरिक्लिष्टतया च सदा दुःखाक्रान्तस्य विषमिश्रस्येव मधुनोदुःखपक्षे निक्षेपात्”। कियदन्तरे तत्रैव। “तत् निःश्रेयसं धर्म्मादेव भवति द्रव्यादि त त्त्वज्ञानं तस्य कारणत्वेन निःश्रेयससाधनम् इत्यभिप्रायः तत्त्वतोज्ञातेषु बाह्याध्यात्मिकेषु विषयेषु दोषदर्शनाद्विरक्तस्य समीहानिवृत्तावात्मज्ञस्य तदर्थानि कर्म्माण्यकुर्व्वतस्तत्परित्यागसाधनानि च श्रुतिस्मृत्युदितानि असकल्पित फलान्युपाददानस्यात्मज्ञानमभ्यस्य तः प्रकृष्टविनिवर्त्तकधर्म्मोपचये सति परिपक्वात्मज्ञानस्यात्यन्तिकशरीरवियोगसम्भवाद्दृष्टोहि विषयाणामहिकण्टकादीनां, परित्यागोविषयदोषदर्शनादभिसन्धिकृतनिवर्त्तकात्मविशेषगुणात् प्रयत्नात् तेन शरीरादीनामात्यन्तिकः परित्यागोविषयदोषदर्शनपूर्वकानभिसन्धिकृतनिवर्त्तकात्मविशेषगुणनिमित्तविघात इति मोक्षाधिकारे वक्ष्यामः। धर्म्मोऽपि केवलं न तावन्निश्रेयसं करोति यावदीश्वरेच्छया नानुगृह्यते तेनेदमुक्तम् ईश्वरनोदनेत्यादि। नोद्यन्ते प्रेर्य्यन्ते स्वकार्य्येषु प्रवर्त्त्यन्तेऽनया भावा इति नोदना ईश्वरस्य नोदना ईश्वरेच्छाविशेषः अभिव्यक्तिः कार्य्यारम्भं पत्याभिमुख्यम् ईश्वनोदनयाऽभिव्यक्तात् ईश्वरेच्छाविशेषेण कार्य्यारम्भाभिमुखीकृताद्धर्म्मादेव निःश्रेयसं भवतीति वाक्ययोजना”। एवं विषयप्रयोजनादिकं चतुःसूत्र्यामभिहितं तत्र प्रतिपाद्यविषयाश्च सर्वद० दर्शिता यथा
इह खलु निखिलप्रेक्षावन्निसर्गप्रतिकूलवेदनीयतया निस्विलसंवेदनसिद्धं दुःखं जिहासंस्तद्धानोपायं जिज्ञा सुः परमेश्वर साक्षात्कारमुपायमाकलयति “यदा चर्म्मवदाकाशं वेष्टयन्तीह मानवाः! तदा शिवमभिज्ञायदुःखस्यान्तोभविष्यति” इत्यादिवचननिचयप्रामाण्यात्। परमेश्वरसाक्षात्कारश्च श्रवणमननभावनाभिर्भावनीयः यदाह “आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति” तत्र भननमनुमानाधीनमनुमानञ्च व्याप्तिज्ञानाधीनं व्याप्तिज्ञानञ्च पदार्थविषेकापेक्षम्। अतः पदार्थषट्कम्”। “अथाटो धर्म्मं व्याख्यास्याम इत्यादिकायां दशलक्षण्यां कणभक्षेण भगवता व्यवस्थापि तत्राह्निकद्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनमकारि। तत्रापि प्रथमाह्निके जातिमन्निरूपणं, द्वितीयाह्निके जातिविशेषनिरूपणम्। आह्निकद्वययुक्ते द्वितीयेऽध्याये द्रव्यनिरूपणं, तत्रापि प्रथमाह्निके भूतविशेषलक्षणं, द्वितीये दिक्कालप्रतिपादनम्। आह्निकद्वययुक्ते तृतीये आत्मान्तःकरणलक्षणं, तत्राप्यात्मलक्षणं प्रथमे, द्वितीये अन्तःकरणलक्षणम्। आह्निकद्वययुक्तेचतुर्घे शरीरतदुपथोगिविवेचनं, तत्रापि प्रथमे तदुपयीगिविवेचनं द्वितीये शरीरविवेचनम्। आह्निकद्वयवति पञ्चमे कर्म्मप्रतिपादनं, तत्रापि प्रथमे शरीरसम्बन्धिकर्म्मचिन्तनं, द्वितीये मानसकर्मचिन्तनम्। आह्निकद्वयशालिनि षष्ठे श्रौतधर्मनिरूपणं, तत्रापि प्रथमे दानप्रतिग्रहधर्मविवेकः, द्वितीये चातुराश्रम्योचितधर्मनिरूपणम्। तथाविधे सप्तमे गुणसमवायप्रतिपादनं, तत्रापि प्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनं, द्वितीये तत्सापेक्षगुणप्रतिपादनं समवायप्रतिपादनञ्च। अष्टमे निर्विकल्पकसविकल्पकप्रत्यक्षप्रमाणचिन्तनम्। नवमे वुद्धिविशेषप्रतिपादनम्। दशमे अनुमानभेदप्रतिपादनम्। तत्र उद्देशो लक्षणं परीक्षा चेति त्रिविधास्य शास्त्रस्य प्रवृत्तिः। ननु विभागापेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमिति चेन्मैवं मंस्थाःविभागस्य विशेषोद्देश एवान्तर्भावात्। तत्र द्रव्यगुणकर्मसामान्यविशेषसमवाया भावा इति षडेवै ते पदार्था इत्युद्देशः। किमत्र क्रमनियमे कारणम्। उच्यते समस्तपदार्थायतनत्वेन प्रधानस्य द्रव्यस्य प्रथममुद्देशः। अनन्तरं गुणत्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य, तदनु सामान्यवत्त्वसाम्यात् कर्मणः, पश्चात्तत्त्रितयाश्रितस्य सामान्यस्य, तदनन्तरं समवायाधिकरणस्य विशेषस्य, अन्ते अवशिष्टस्य समवायस्येति क्रमनियमः। ननु षडेव पदार्था इति कथं कथ्यते, अभावस्यापि सद्भावादिति चेन्मैवं वीचः नञर्थानुल्लिखितधीविषयतया भावरूपतया षडेवेति विवक्षितत्वात् तथापि कथं षडेवेति नियम उपपद्यते विकल्पानुपपत्तेः तथाहि नियमव्यवच्छेद्यं प्रमितं न वा प्रमितत्वे कथं निषेधः अप्रमितत्वे कथन्तराम्, नहि कश्चित् प्रेक्षावान् मूषिकविषाणं प्रतिषेद्धं यतते, ततश्चानुपपत्तेर्नो नियम इति चेन्मैवं भाषिष्ठाः सप्तमतया प्रमिते अन्धकारादौ भावत्वस्य भावतया प्रमिते शक्तिसादृश्यादौ सप्तमत्वादेश्च निषेधादिति कृतं विस्तरेण।
तत्र द्रव्यादित्रितयस्य द्रव्यत्वादिर्जातिर्लक्षणम्। द्रव्यत्वं नाम गगनारविन्दसमवेतत्वे सति नित्यगन्धासमवेतम्। (गगनसमवेतत्वे सति पद्मसमवेतत्वेसति नित्यत्वे सति गन्धासमवेतत्वं द्रव्यत्वलक्षणम्। सत्तारूपजातिव्यवच्छेदाय गन्धासमवेतत्वमुक्तम् कालिकसम्बन्धेन द्रव्यत्वस्य गन्धवृत्तित्वादसम्भववारणाय गन्धसमवेतत्वमुक्तम् संयोगादेर्गन्धासमवेतत्वेन गगनादिसमवेतत्वेनातिप्रसङ्गवारणाय नित्यत्वे सतीति विशेषणम्। पद्मत्वपृथिवीत्वजातौ पद्मसमवेतत्वस्य नित्यत्वस्य गन्धासमवेतत्वस्य च सत्त्वादतिप्रसङ्गवारणाय गगनसमवेतत्वे मतीति विशेषणम् गगनपरिमाणस्य नित्यस्य गन्धासमनेतस्य तथात्ववारणायारविन्द समवेतत्वे सतीति विशेषणम् इतिबोध्यम्)। गुणत्वं नाम समवायिकारणासमवायिकारणभिन्नसमवेतसत्तासाक्षाद्व्याप्यजातिः। (सत्तासाक्षाद्व्याप्यस्य समवायिकारणद्रव्यसमवेतस्य द्रव्यत्वस्य, असमवायिकारणसमवेतस्य कर्मसमवेतस्य कर्म्मत्वस्य च तथात्ववारणाय तदुभयभिन्नसमवेतत्वं जातौ विशेषणम् गुणत्वस्य तु तथात्वम् गुणेषु ज्ञानादिषु असमवारिकारणभिन्नेषु समवेतज्ञानत्वादेः सत्तासाक्षाद्व्याप्यत्वेऽपि नातिप्रसङ्गः) कर्मत्वंनामानित्यसमवेतत्वसहितसत्तासाक्षाद्व्याप्यजातिः। (अनिमात्रसमवेतत्वे सति सत्तासाक्षाद्व्याप्यजातित्वम् कर्मत्व लक्षणम् द्रव्यत्वस्य गुणत्वस्य च नित्यमात्रसमवेतत्वाभावान्न तथात्वम्। संयोगत्वादेस्तथात्वेऽपि सत्तासाक्षाद्व्याप्यत्वाभावान्नातिप्रसङ्गः) सामान्यन्तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम्। (संयोगविभागादौ अनेकससवेतेऽतिप्रसङ्गवारणाय ध्वंसप्रतियोगित्वरहितेति अत्यन्ताभावे तथात्ववारणाय समवेतत्वं विशेषणम्)। विशेषो नामान्योन्याभावविरोधिसामान्यरहितः समवेतः। समवायस्तु समवायरहितः सम्बन्ध इति षण्णा लक्षणानि व्यवस्थितानि।
“द्रव्यं नवविधं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसीति। तत्र पृथिव्यादिचतुष्टयस्य पृथिवीत्वादिजातिर्लक्षणम्। पृथिवीत्वं नाम पाकजरूपसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिः। अप्त्वं नाम सरित्सागरसमवेतत्वे सति सलिलसमवेतं सामान्यम्। तेजस्त्वं नाम चन्द्रचामीकरसमवेतत्वे सति ज्वलनसमवेतं सामान्यम्। वायुत्वं नाम त्वगिन्द्रियसमवेतद्रव्यत्वसाक्षाद्व्याप्यजातिः। आकाशकालदिशामेकैकत्वादपरजात्यभावात् पारिभाषिक्यस्तिस्नः संज्ञा भवन्ति आकाशः कालो दिगिति। सयोगाजन्यजन्यविशेषगुणसमानाधिकरणविशेषाधिकरणमाका शम्। विभुत्वे सति दिगसमवेतपरत्वासमवायिकारणाधिकरणम् कालः। अकालत्वे सत्यविशेषगुणा महती दिक्। आत्ममनसोरात्मत्वमनस्त्वे। आत्मत्वं नाम अमूर्त्तसभवेतद्रव्यत्वापरजातिः। मनस्त्वं नाम द्रव्यसमवायिकारणत्वरहिताणुसमवेतद्रव्यचापरजातिः। रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृयक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्च कण्ठोक्ताः सप्तदश चशब्दसमुच्चिताः गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाःसप्तैवेत्येवं चतुर्विंशतिर्गुणाः। तत्र रूपादिशब्दान्तानां रूपत्वादिजातिर्लक्षणम्। रूपत्वं नाम नीलसगवेतगुणत्वापरजातिः। अनया दिशा शिष्टानां लक्षणानि द्रष्टव्यानि। कर्म पञ्चविधम् उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभेदात्। भ्रमणरेचनादीनां गमन एवान्तर्भावः। उत्क्षेपणादीनामुत्क्षेपणत्वादिजातिर्लक्षणम्। तत्र उत्क्षेपणं नाम ऊर्द्ध्वदेशसंयोगासमवायिकारणप्रमेयसमवेतकर्मत्वापरजातिः। एवमवक्षेपणादीनां लक्षणं कर्त्तव्यम्। सामान्यं द्विविधं परमपरञ्च परं सत्ता द्रव्यगुणसमवेता गुणकर्मसमवेता वा। अपरं द्रव्यत्वादि तल्लक्षणं प्रागेवोक्तम्। विशेषाणामनन्तत्वात् समवायस्य चैकचाद्विभागो न सम्भवति तल्लक्षणञ्च प्रागेवावादि। (सर्व्वत्रापरत्वं व्याप्यत्वम् अल्पदेशवृत्तित्वं वा)।
“द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे। यस्य न स्खलिता बुद्धिस्त्वं वै वैशेषिकं विदुरिति” आभाणकस्य सद्भावात् ष्ट्वित्वाद्युत्पत्तिप्रकारः प्रदर्श्यते। तत्र प्रथममिन्द्रियार्थसन्निकर्षस्तस्वादेकत्वसामान्यज्ञानं ततोऽपेक्षाबुद्धिः ततो द्वित्वोत्पत्तिस्ततो द्वित्वसामान्यज्ञानं तस्मात् द्वित्वगुणज्ञानं ततः संस्कारः”। तदाह “आदाविन्द्रियसन्निकर्षघटनादेकत्वसामान्यधीरेकत्वोभयगोचरा मतिरतो द्वित्वं ततो जायते। द्वित्वत्वप्रमितिस्ततोऽनु परतो द्वित्वप्रमानन्तरं द्वे द्रव्ये इति धीरिय निगदिता द्वित्वोदयप्रक्रियेति”।
द्वित्वादेरपेक्षाबुद्धिजन्यत्वे किं प्रमाणम्। अत्राहुराचार्य्याःअपेक्षाबुद्धिर्द्वित्वादेरुत्पादिका भवितुमर्हति व्यञ्जकत्वानुपपत्तौ तनानुविधीयमानत्वात् शब्दं प्रति संयोगवदिति”। वयन्तु ब्रूमः द्वित्वादिकमेकत्वद्वयविषयानित्यबुद्धिव्यङ्ग्यं भवात अनेकाश्रितगुणत्वात् पृथक्त्वादिवदिति।
निवृत्तिक्रमो निरूप्यते अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य द्वित्वोत्पत्तिसमकालनिवृत्तिः अपेक्षाबुद्धेर्द्वित्वसा- मान्यज्ञानात् द्वित्वगुणबुद्धिसमसमयं द्वित्वस्यापेक्षाबुद्धिनिवृत्तेर्द्रव्यबुद्धिसमकालं गुणबुद्धेः, द्रव्यबुद्धितः संस्कारोत्पत्तिसमकालं द्रव्यबुद्धेस्तदनन्तरसंस्कारादिति। तथाच संग्रहः “आदावपेक्षाबुद्ध्या हि नश्येदेकत्वजातिधीः। द्वित्वोदयसमं पश्चात् सा च तज्जातिबुद्धितः। द्वित्वाख्यगुणधीकाले ततो द्वित्व निवर्त्तते। अपेक्षाबुद्धिनाशेन द्रव्यधीजन्मकानतः। गुणबुद्धिर्द्रव्यबुद्ध्या संस्कारोत्पत्तिकालतः। द्रव्यबुद्धिश्च संस्कारादिति नाशक्रभो मतः” इति।
बुद्धेर्बुद्ध्यन्तरविनाश्यत्वे संस्कारविनाश्यत्वे च प्रमाणं विवादाध्यासितानि ज्ञानानि उत्तरोत्तरकार्य्यविनाश्यानि क्षणिकविभुविशेषगुणत्वात् शब्दवत्। द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मसमकालमेकत्वसामान्यचिन्तया आश्रयनिवृत्तेरेव द्वित्वनिवृत्तिः कर्मसमकालमपेक्षाबुद्धिचिन्तनादुभाभ्यामिति सक्षेपः। अपेक्षावुद्धिर्नाम विनाशकविनाशप्रतियोगिनी बुद्धिरिति बोद्धव्यम्।
अथ द्व्यणुकनाशमारभ्य कतिभिः क्षणैः पुनरन्यद् द्व्यणुकमुत्पद्य रूपादिमद्भवतीति जिज्ञासायामुत्पत्तिप्रकारः कथ्यते। नोदनादिक्रमेण द्व्यणुकनाशः नष्टे द्व्यणुके परमाणावग्निसंयोगात् श्यामादीनां निवृत्तिः निवृत्तेषु श्यामादिषु पुनरन्यस्मादग्निसंयोगाद्द्रव्यादीनामुत्पत्तिः उत्पन्नेषु रक्तादिषु अदृष्टवदात्मसंयोगात् परमाणौ द्रव्यारम्भणाय क्रिया तया पूर्व्वदेशाद्विभागः विभागेन पूर्ब्धदेशसंयोगनिवृत्तिः तस्मिन्निवृत्ते परमाण्वन्तरेण संयोगोत्पत्तिः संयुक्ताभ्यां परमाणुभ्यां द्व्यणुकारम्भः आरब्धे द्व्यणुके कारणगुणादिभ्यः कार्य्यगुणादीनां रूपादीनामुत्पत्तिरिति यथाक्रमं नव क्षणाः। दशक्षणादिप्रकारान्तरं विस्तरमयान्नेह प्रतन्यते। इत्थं पीलुपाकप्रक्रिया पीठरपाकप्रक्रिया तु नैयायिकधीसम्मता।
विभागजविभागो द्विविधः कारणमात्रविभागजः कारणाक रणविभागजश्च। तत्र प्रथमः कथ्यते कार्य्यव्याप्ते कारणे कर्मोत्पन्नं यदावयवान्तराद्विभागं विधत्ते न तदाकाशादिदेशाद्विभागः। यदा त्वाकाशादिदेशाद्विभागः न तदावयवान्तरादिस्थिति नियमः कर्म्मणो गगनविभागा कर्तृत्वस्य दव्यारम्भकसयोगविरोधिविभागारम्भकत्वेन धूमम्य धूमध्वजवर्गेणेव व्यभिचारानुपलम्भात ततश्चावयवकर्म अवयवान्तरादेव विभागं करोति नाकाशादिदेशात् तस्माद्विभागाद्द्रव्यारम्भकसयोगनिवृत्तिः ततः कारणाभावात् कार्याभाव इति न्यायादवयविनिवृत्तिः निवृत्तेऽवयविनि तत्का- रणयोरवयवयोर्वर्त्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्ता दाकाशदेशाद्विभागमारभते न निष्क्रियस्य, कारणाभावात्। द्वितीयस्तु हस्ते कर्म्मोत्पन्नमवयवान्तराद्विभागं कुर्व्वत् आकाशादिदेशेभ्यो विभागानारभते, ते कारणाकारणविभागाः। कर्म यां दिशं प्रति कार्य्यारम्भाभिमुखतामपेक्ष्य कार्य्याकार्य्यविभागमारभते यथा हस्ताकाशविभागाच्छरीराकाशविभागः न चासौ शरीरक्रियाकार्य्यस्तदा तस्य निष्क्रियत्वात् नापि हस्तक्रियाकार्य्यः व्यधिकरणस्य कर्मणो विभागकर्तृत्वानुपपत्तेः अतः पारिशेष्यात् कारणाकारणविभागस्य कारणत्वमङ्गीकरणीयम्।
यदवादि अन्धकारादौ भावत्वं निषिध्यत इति तदसङ्गतं तत्र चतुर्द्धा विवादसम्भवात् तथाहि द्रव्यं तम इति भाट्टाः वेदान्तिनश्च भणन्ति, आरोपित नीलरूपमिति श्रीधराचार्य्याः आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः आलोकाभाव इति नैयायिकादयः इति चेत्तत्र द्रव्यत्वपक्षो न घटते विकल्पानुपपत्तेः द्रव्यं भवदन्धकारं द्रव्याद्यन्यतममन्यद्वा नाद्यः यत्रान्तर्भावोऽस्य तस्य यावन्तो गुणास्तावद्गुण कत्वप्रसङ्गात् न च तमसो द्रव्यवहिर्भाव इति साम्प्रतं निर्गुणस्य तस्य द्रव्यत्वासम्भवेन द्रव्यान्तरत्वस्य सुतरामसम्मवात्। ननु तमालश्यामलत्वेनोपलभ्यमानं तमः कथं निर्गुणं, स्यादिति, नीलं नभ इतिवत् भ्रान्तिरेवेत्यलं वृद्धबीबधया। अत एव नारोपितनीलरूपं तमः अधिष्ठानप्रत्ययमन्तरेणारोपा योगात् बाह्यालोकसहकारिरहितस्य चक्षुषो रूपारोपे सामर्थ्यानुपलम्भाच्च। न चायमचाक्षुषः प्रत्ययः तदनुविधानस्यानन्यथासिद्धत्वात्। न च विधिप्रत्ययवेद्यत्वायो गो भावे इति साम्प्रतं प्रलयविनाशावधानादिषु व्यभिचारात्। अत एव नालोकज्ञानाभावः अभावस्य प्रतियोगिग्राहकेन्द्रियग्राह्यत्वनियमेन मानसत्वप्रसङ्गात्। तस्मादालोकाभाव एव तमः न चाभावे भावधर्माध्यारोपो दुरुपपादः दुःखाभावे सुखत्वारोपस्य संयोगाभावे विभागत्वाभिमानस्य च दृष्ठत्वात्। नचालोकाभावस्य घटाद्यभाववद्रूपवदभावत्वे नालोकसापेक्षचक्षुर्जन्यज्ञानविषयत्वं स्यादित्येषितव्यं, यद्ग्रहे यदपेक्षं चक्षुस्तदभावग्रहेऽपि तदपेक्षत इति न्यायेनालोकग्रहे आलोकापेक्षाया अभावेन तदभावग्रहेऽपि तदपेक्षाया अभावात्। न चाधिकरणग्रहणावश्यम्भावः अभावप्रतीतावधिकरणग्रहणावश्यंभावानङ्गीकारादपरथा निवृत्तः कोलाहल इति शब्दप्रध्व स- प्रत्यक्षो न स्यादिति अप्रामाणिकं तव वचनं परम्। तत्सर्व्वमभिसन्धाय भगवान् कणादः प्रणिनाय सूत्रं द्रव्यगुणकर्मनिष्पत्तिवैधर्म्म्यादभावस्तम इति प्रत्ययवेद्यत्वेनापि निरूपितम्।
अभावस्तु निशेधमुखप्रमाणगम्यः सप्तमो निरूप्यते। स चासम्बन्धत्वेसत्यसमवायः (अनुयोगित्वप्रतियोगित्वतादात्न्यान्यतमसम्बन्धेन समवायशून्यत्वमसमवायत्वम्) स च संक्षेपेतो द्विविधः संसर्गाभावान्योन्याभावभेदात् संसर्गाभावोऽपि त्रिविधः प्राक्प्रध्वंसात्यन्ताभावभेदात् तत्रानित्यः अनादितमः प्रागभावः, उत्पत्तिमान् विनाशो प्रध्वसः, प्रतियोग्याश्रयोऽभावोऽत्यन्ताभावः। नन्वन्योन्याभाव एवात्यन्ताभाव इति चेत् अहो राजमार्ग एव भ्रमः अन्योन्याभावो हि तादात्म्यप्रतियोगिकः प्रतिषेधः यथा घटः पटात्मा न भवतीति ससर्गप्रनियोगिकः प्रतिषेधोऽत्यन्ताभावो यथा वायौ रूपसम्बन्धो नास्तीति। न चास्य पुरुषार्थौपयिकत्वं नास्तीत्याशङ्कनीयं दुःखात्यन्तोच्छेदापरपय्यायनिःश्रेयसरूपत्वेन परमपुरुषार्थत्वात्”।
शास्त्रान्ते च १० अ० २ आह्निके “दृष्टानां दिष्टप्रयोजनानां दृष्टामावे प्रयोगोऽभ्युदयाय” ९ सू०। “दृष्टानां प्रमाणत उपलब्धानां यागदानस्नानादीनां दिष्टप्रयोजनानां दिष्टमुपदिष्टं प्रयोजनं येषां तेषाम् तथाहि “स्वर्गकामोयजेत” “अग्निहोत्रं जुहुयात् स्वर्गकाम” इत्यादौ विधिसमभिव्याहृतमेव फलम्, क्वचिदार्थवादिकं यथा “यएता रात्रीरधीयोत तस्य पितरोघृतकुल्यामधुकुल्याःक्षरन्ति” इत्यादौ, क्वचिच्चौपपादनिकम्, यथा “विश्व जिता यजेत” इत्यादौ, अत्र हि न विधिसमभिव्याहृत नाप्यर्थवादोपस्थितमित्यौपपादनिकं काल्पनिकं स्वर्गम्यैव स्वतः सुन्दरस्य फलस्य कल्पनीयत्वात्, तथाचाशुतरविनाशिनामेतेषां कर्म्मणां चिरभाविने फलाय कारणत्वमनुपपद्यमानमतएषां प्रयोगोऽनुष्ठानमभ्युदयायापूर्व्वायेत्यर्थः। ननु श्रुतिप्रामाण्ये सति स्यादेवं तदेव तु दुर्लभं नहि मीमांसाकानामिव नित्यनिर्द्दोषत्वेन श्रुतिप्रामाण्यं त्ववेष्यते पौरुषेयत्वेनाभ्युपगमात्, पुरुषस्य च भ्रमप्रमादविप्रलिप्सादिसम्भवादत आह दृष्टाभाव इति दृष्टं पुरुषान्तरेऽस्मदादो भ्रमप्रसादविप्रलिप्सादिकं पुरुषदूषणं तदभावे सतीत्यर्थः। क्षितिकर्तृत्वेन वेदवक्तृत्वेन वाऽनुमितस्य पुरुषधौरेयस्य निर्द्दोषत्वेनैवोपस्थितेः, तथा च तद्वचसां न निरभिधेयता न विपरीताभिधेयता न तिष्प्रयोजनाभिधे- वता, भूतेन्द्रियमनसां दोषात् भ्रमप्रमादकरणापाटवादिप्रयुक्ता एव वचसामविशुद्धसः सम्भाव्यन्ते, न चेश्वरवचसि तासां सम्भवः, तदुक्तम् “रागाज्ञानादिभिर्वक्ता ग्रस्तत्वादनृतं वदेत्। ते चेश्वरे न विद्यन्ते स ब्रूयात् कथमन्यथेति”।
ननु तेनेश्वरेण वेदस्य प्रणीत इत्यत्रैव विप्रतिपत्तिरतआह। उप० “तद्वचनादाम्रायस्य प्रामाण्यमिति” १० सू०।
“इति शास्त्रपरिसमाप्तौ। तद्वचनात्तेनेश्वरेण वचनात् प्रणयनादाम्नायस्य वेदस्य प्रामाण्यं तथाहि वेदास्तावत् पौरुषेया वाक्यत्वादितिसाधितं नचास्मदादयस्तेषां सहस्रशाखावच्छिन्नानां वक्तारः सम्भाव्यन्ते, अतीन्द्रियार्थत्वात्, नचातीन्द्रियार्थदर्शिनोऽस्मदादयः। किञ्चप्रोक्तावेदा महाजनपरिगृहीतत्वात् यन्नाप्तोक्तं न तन्महाजनपरिगृहीतं महाजनपरिगृहीतञ्चेदं तस्मादाप्तोक्तम्। स्वतन्त्रपुरुषप्रणीतत्वञ्चाप्तीक्तत्वम्। महाजनपरिगृहीतत्वञ्च सर्व्वदर्शनान्तःपातिपुरुषानुष्ठीयमानार्थत्वम्, क्वचित् फलाभावः कर्म्मकर्तृसाधनवैगुण्यादित्युक्तम्। कर्तृस्मरणाभावान्नैवमिति चेन्न कर्तृस्मरणस्य पूर्ब्बमेव साधितत्वात्, तत्प्रणितत्वञ्च स्वतन्त्रपुरुषप्रणीतत्वादेव सिद्धस्, न त्वस्मदादीनां सहस्रशाखवेदप्रणयने स्वातन्त्र्यं संभवतीत्युक्तत्वात्। किञ्च प्रमाया गुणजन्यत्वेन वैदिकप्रमायाअपि गुणजन्यत्वमावश्यकं तत्र च गुणोवक्तृयथार्थवाक्यार्थज्ञानमेव वाच्यस्तया च तादृश एव वेदे वक्ता, यः स्वर्गापूर्व्वादिविषयकसाक्षात्कारवान्, तादृशश्च नेश्वतादन्य इति सुष्ठु”।
औलूखल = त्रि० उलूखले क्षुण्णं शैषिकोऽण्। १ उलूखलेपिष्टयावकादौ। उलूखले भवः अण्। २ उलूखलभवे शब्दादौ च। “अभिषुणतौलूखलानुद्गायता” कात्या० १०, ३, ११,। “उलूखलेभंवा औलूखलाः ध्वनयः” कर्कः
औवेणक = न० “अपरान्तकमुल्लोप्यं मद्रकं प्रकरीं तथा। औवेणकं सरोविन्दुमुत्तरं गातकानि च” या० उक्ते गीतिभेदे
औशनस = न० उशनसा शुक्रेण प्रोक्तम् अण्। शुक्रेण प्रणीते १ उपपुराणे “तयैवोशनसेरितम्” कूर्म्मपु० २ दण्डप्रणयनरूपे शास्त्र च। ३ धर्म्मशास्त्रभेदे तच्च प्रतिलोमजातवर्ण्णसङ्कर विभागप्रतिपादकप्रायम्। उशनसा दृष्टं साम अण्। ४ उशनसा दृष्टे सामनि। तस्येदम् अण्। ५ तत् सम्बन्धिनि त्रि०। “व्युह्य चौशनसं व्यूहम्” भा० व० २८४ अ०। “लोकमौशनसं दिव्यं शक्रलोकञ्च गच्छति” षा० अनु० १०७ अ०। उशनसि भवः अण। ६ शुक्रभवे स्त्रियां ङीप् सा च ७ देवयान्याख्यायां तदीय दुहितरि “विद्ध्यौशनसि! भद्रन्ते न त्वमर्होऽस्मि भाविनि!” भा० आ० ८१ अ० देवयानीं प्रति कचोक्तिः।
औशिज = पु० उशिगेव प्रज्ञा० अण्। १ इच्छायुक्ते। “औशिजाय बणिजे दीर्घश्रवसे” ऋ० १, १११, ११। २ प्रवरर्षिभेदे “काक्षीवतामाङ्गिरसौचय्यगौतमौशिजकाक्षीवतेति” आश्व० श्रौ० १२, ११, ३।
औशीनर = पु० उशीनरस्यापत्यम् उत्सा० अञ्। उशीनरस्यापत्येषु शिविप्रभृतिषु। उशीनरनृपश्च १३७५ पृ० उशीनरशब्दे उक्तः। तत्सुताश्च “उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः। नृ गा कृमिर्नवा दर्वा पञ्चमी तु दृशद्वती। उशीनरस्य पुत्रास्तु पञ्च तासु कुलोद्वहाः। तपसा चैव महता जाता वृद्धस्य चात्मजाः। नृगायास्तु नृगःपुत्रः कृम्याः कृमिरजायत। नवायास्तु नवः पुत्रोदर्वायाः सुव्रतोऽभवत्। दृशद्वत्यास्तु संजज्ञे शिविरौशीनरो नृपः” हरिवं०३१ अ० उक्ताः तच्चरितञ्च भा० वन० १९६ अ०। “देवानां कथा संजाता महीतलं गत्वा महीपतिं शिविमौशीनरं साध्वेनं जिज्ञासिष्याम इति। एवं भो इत्युक्त्वा अग्नीन्द्रावुपातिष्ठेताम्। अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण। अथ कपोतो राज्ञो दिव्यासनासीनस्य उत्सङ्गं न्यपतत्। अथ पुरोहितो राजानमव्रवीत्। प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्यते। वसु ददातु अन्तवान् पार्थिवोऽस्य निष्कृतिं कुर्य्यात्। घोरं कपोतस्य निपातमाहुः। अथ कपोतो राजानमब्रवोत्। प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्ये। अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये। स्वाध्यायेन कर्षितं व्रह्मचारिणं मां विद्धि। तपसा दमेन युक्तमाचार्य्यस्याप्रतिकूलभाषिणम् एवं युक्तमपापं मां विद्धि। गदामि वेदान् विचिनोमि छन्दः सर्वे वेदा अक्षरशो मे अधीताः। न साधु दानं श्रोत्रियस्य प्रदानं मा प्रदाः श्येनाय न कपोतोऽस्मि। अथ श्येनो राजानभव्रवीत्। पर्य्यायेण वसतिर्म्मा भवेषु सर्गे जातः पूर्व्वमस्मात् कपोतात्। त्वमाददानोऽथ कपोतमेनं मा त्वं राजन्! विघ्नकर्त्ता भवेथाः। राजोवाच। केनेदृशी जातु पुरा हि दृष्टा वागुच्यमाना शकुनेन संस्कृता। यो वै कपोतोवदतेमाञ्च श्येन उभौ विदित्वा कथमस्तु साधु। नास्य वर्षति वर्षकाले नास्य वीजं रोहति काल उप्तम्। भीतं प्रपन्नं योहि ददाति शत्रवे न त्राणं लभते त्राणमिच्छन् स काले। जाता ह्रस्वा प्रजा प्रमीयते सदा न वै बासं पितरोऽस्य कुर्वते। भीतं प्रपन्न योहि ददाति शत्रवे नास्य देवाः प्रतिगृह्णन्ति हव्यम्। मोघमन्नं विन्दति चाप्रचेताः स्वर्गाल्लोकाद्भ्रश्यति शीघ्रमेव। भीतं प्रपन्नं यो हि ददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्। उक्षाणं पक्त्वा सह ओदनेन अस्मात् कपोतात् प्रति ते नयन्तु। यस्मिन् देशे रमसेऽतीव श्येन! तत्र मांसं शिवयस्ते वहन्तु। श्येन उवाच। नोक्षाणं राजन् प्रार्थयेयं न चान्यदन्यन्मांसमधिकं वा कपोतात्। देवैर्दत्तः सोऽद्य ममैष भक्ष्यस्तन्मे ददस्व शकुनानामभावात्। राजोवाच। उक्षाणं वेह तमनूनं नयन्तु ते पश्यन्तु पुरुषा ममैव। भयाहितस्य दायं ममान्तिकात्त्वां प्रापयन्तु त्वं ह्येनं मा हिंसीः। त्यजे प्राणान्नैव दद्यां कपोतं सौम्यो ह्ययं किन्नु जानामि श्येन!। यथा क्लेशं मा कुरुष्वेह सौम्य! नाहं कपोतमर्पयिष्ये कथञ्चित्। यथा मां हि वै साधुवादैः प्रसन्नाः प्रशंसेयुः शिवयः कर्म्मणा त। यथा श्येन! प्रियमेव कुर्य्यां प्रशाधि मां यद्वदेस्तत् करोमि। श्येन उवाष। ऊरोर्दक्षिणादुत्कृत्य स्वपिशित तावद्राजन्! यावन्मांसं कपोतेन समम्। तथा तस्मात् साधु त्रातः कपोतः प्रशंसेयुः शिवयः कृतञ्च प्रियं स्यान्ममेति। अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलया धारयन् गुरुतर एव कपोत आसीत्। पुनरन्यदुच्चकर्त्त गुरुतर एव कपोतः। एवं सर्व्वं समधिकृत्य शरीरं तुलायामारोपयामास तत्तथापि गुरुतर एव कपोत आसीत्। अथ राजा स्वयमेव तुलामारुरोह। न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्ट्वा त्रात इत्युक्त्वा प्रालीयत श्येनः। अथ राजा अव्रवीत् कपोतं विद्युः शिवयस्त्वां कपोत! पृच्छामि ते शकुने! को नु श्येनः। नानीश्वर ईदृशं जातु कुर्य्यादेतं प्रश्नं भगवन्मे विचक्ष्व। कपोत उवाच। वैश्वानरोऽहं ज्वलनो धूमकेतुरथैव श्येनो वज्र हस्तः शचीपतिः। साधु ज्ञातुं त्वामृषभं सौरथेयं नौ जिज्ञासया त्वत्सकाशं प्रपन्नौ। यामेतां पेशीं मम निष्क्रयाय प्रादाद्भवानसिनोत्कृत्य राजन्। एतद्वो लक्ष्म शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम्। एतासां प्रजानां पालयिता यशस्वी सुरर्षीणामथ सम्मतो भृशम्। एतस्मात् पार्श्वात् पुरुषो जनिष्यति कपोतंरोमेति च तस्य नाम। कपोतरोमाणं शिविनौद्भिदं पुत्त्रं प्राप्स्यति नृपवृषं संहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौर- थानाम्” उशीनरशब्दे दर्शिततच्चरितमेवंरूपं तच्च शिवेरेवेति बहुभिःकल्प्य ते तत्र पितापुत्रयोरभेदोपचारात् उशीनरशब्दप्रयोगात् इति। वस्तुतः कल्पभेदात् उशीनरस्य तत्पुत्रशिवेश्च तथा चरितमित्यविरोधः। अयञ्च ययातेर्दौहित्रः तेन च ययातेः पुणयक्षये स्वर्गात् पतने तस्मै स्वपुण्य दत्त्वाऽसौ पुनः स्वर्गलोकं प्रापितः तत्कथा यथा। “पृच्छामि त्वां शिविरौशीनरोऽहं ममापि लोकायदि सन्तीह तात!। यद्यन्तरोक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्म्मस्य मन्ये। यथातिरुवाच। यत्त्वं वाचा हृदयेनापि साधून् परीप्समानान्नावमंस्था नरेन्द्र!। तेनानन्तादिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तोमहान्तः। शिविरुवाच। तांस्त्वंलोकान् प्रतिपद्यस्व राजन् मयादत्तान्यदि नेष्टः क्रयस्ते। नचाहं तान् प्रतिपत्स्येह दत्त्वा यत्र गत्वा नानुशोचन्ति धीराः” “अन्ते च यजातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वानौमस्त्विहासम्। गुह्यं चार्थं मामकेभ्यो ब्रवीमि माताम होऽहं भवतां प्रकाशम्” भा० आ० ९३ अ०। उशीनरस्य गोत्रापत्यम् इञ्। औशीनरितद्गोत्रापत्ये पुंस्त्री स्त्रियां ङीप्। “शूद्रायां गौतमो यत्र महात्मा संशितव्रतः। औशीनर्य्यामजनयत् काक्षीवाद्यान् सुतान् मुनिः” भा० स० २० अ०। तस्यापत्यम् अत इञपि। औशीनरि शिविनृपे। “आर्ष्णिषेणो दिलीपश्च महात्मा चाप्युशीनरः। औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः” भा० स० ८। यमसभावर्णने।
औशीर = न० वश–ईरन् किच्च ततः स्वार्थे प्रज्ञाद्यण्। १ समुदितयोः शय्यापीठयोः क्षीरस्वामी। २ शय्यायाम् ३ आसने च पृथक् इति सुभूतिः। “अभ्यवहार्य्य परमान्नमौशीरेऽद्यकामचारः कृतोऽभूत्” दशकुमा०। उशीरमिवाकारो स्त्यस्य अण्। ४ चामरे तस्यनलदमूलाकारत्वात्तथात्वम्। औशीरं चामरमस्त्यस्य अच्। ५ चामरदण्डे अमरः। हेमच० दण्डार्थतोक्तिश्चामरदण्डपरा “छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च। यातयामानि देयानि शूद्राय परिचारिणे” भा० श० ६० अ०। उशीरस्येदमण्। ६ उशीरजे “स्तनन्यस्तौशीरम्” शकु०।
***