वाचस्पत्यम्
एकादे to एकौ
links:
Menu अ–ह
Prev एकादि
Next एज–ऐ
एकादे
एकाशी
एकोद
एकोन
UpasanaYoga
.org

एकादे = पु० कर्म०। पाणिन्युक्ते उभयस्थानिप्रभवे एकस्मिन्नादेशे। एकादेशश्च यथा मुरारिरित्यत्र मुरशब्दस्य अन्त्याकारस्य अरिशब्दादिभूताकारस्य चेत्युभयोः स्थाने दीर्घभूत एक आकारः एवमन्यत्रापि। “एकादेश उदात्तेनोदात्तः” पा०।

एकाद्न(न्न)विंशति = स्त्री एकेन न विंशतिः। एक + न + आदुक् दस्य वा न। १ एकोनविंशतिसख्यायां, २ तद्युक्ते च एवमेका(द्न)न्नत्रिंशदादयः।

एकानंशा = स्त्री एको न अंशोयस्याः असमर्थसमा०। अनेकशांवत्यां दुर्गायां सा च यशोदागर्भसंभूता प्रजापतेरशजाता। तथोक्तं हरिवं० ६० अ० यथा “नन्दगोपस्य भार्य्यैका वसुदेवस्य चापरा। तुल्यकालं हि गर्भिण्यौ यशोदा देवकी तथा। देवक्यजनयद् विष्णुं यशोदा तान्तु कन्यकाम्” इत्युपक्रम्य “वसुदेवस्तु संगृह्यदारकं क्षिप्रमेव च। यशोदायागृहं रात्रौ विवेश सुतवत्सलः। यशोदायास्त्वाविज्ञातस्तत्र निक्षिप्य दारकम्। गृहीत्वा द रिकां ताञ्च देवकीशयने न्यसत्। परिवर्त्ते कृते ताभ्यां गर्भाभ्यां भयविक्लवः। वसुदेवः कृतार्यो वै निर्जगाम निवेशनात्। उग्रसेनसुतायाथ कंसायानकदुन्दुभिः। निवेदयामास तदा कन्यां तां वरवर्णिनीम्। तच्छ्रुत्वा त्वरितः कंसोरक्षिभिः सह वेगितः। आजगाम गृहद्वारं वसुदेवस्य वीर्य्यवान्। स तत्र त्वरितं द्वारि किं जातमिति चाब्रवीत्। दीयतां शीघ्रमित्येवं वाग्भिः समभितर्ज्जयन्। ततो हाहाकृताः सर्व्वा देवकीभवने स्त्रियः। उवाच देवकी दीना वाष्पविक्लवया गिरा। दारिका पुत्त्र! जातेति कंसं समभियाचती। श्रीमन्तो मे हताःसप्त पुत्त्रगर्भास्त्वया विभो!। दारिकेयं हतैवैषा पश्यस्व यदि मन्यसे। दृष्ट्वा कंसस्तु तां कन्यामकृष्यत मुदा युतः। हतैवैषा यदा कन्या जातेत्युक्त्वा वृथामतिः। सा गर्भशयनक्लिष्टागर्भाम्बुक्लिन्नमर्द्धजा। कंसस्थ पुरतोन्यस्ता पृथिव्यां पृथिवीसमा। पादे तां गृह्य पुरुषः समाविध्यावधूय च। उद्यच्छन्नेव सहसा शिलायां समपीथयत्। साऽवधूता शिला- पृष्ठे निष्पिष्टा दिवमुत्पतत्। हित्वा गर्भतनुं सा तु सहसा मुक्तमूर्द्धजा। जगामाकाशमाविश्य दिव्यस्रगनुलेपना। कन्यैव चाभवत् सा तु दिव्या देवैरभिष्टुता। नीलपीताम्बरधरा गजकुम्भोपमस्तनी। रथविस्तीर्णजघना चन्द्रवक्त्रा चतुर्भुजा। विद्युद्विस्पष्टवर्णाभा बालार्कसदृशेक्षणा। पयोधरस्वनवती सन्ध्येव सपयोधरा। सा वै निशितमोग्रस्ते सर्व्वभूतगणाकुले। नृत्यन्ती हसती चैव विपरीते नभस्वति। विहायसि गता रौद्री पपौ पानभनुत्तमम्। जहास च म हाहासं कंसञ्च रुषिताऽब्रवीत्। कंस कंसात्मनाशाय यदहं घातिता त्वया। सहसा च समुत्क्षिप्य शिलायामभिपोथिता। तस्मात्तवान्तकालेऽहं कृष्यमाणस्य शत्रुणा। पाटयित्वा करैर्द्देहमुष्णं पास्याभि शोणितम्। एवनुक्त्वा वचो घोरं सा यथेष्टेन वर्त्मना। खं सा देवालयं देवी सगणा विचवार ह। सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता। पुत्रवत् पाल्यमाना सा देवदेवाज्ञया तदा। विद्धि चैनामथोत्पन्नामंशाद्देवीं प्रजापतेः। एकानंशां योगकन्यां रक्षार्थं केशवस्य च। तां वै सर्व्वे सुमनसः पूजयन्ति स्म यादवाः। देवीञ्च दिव्यवपुषं कृष्णः संरक्षितो यया। तस्यां गतायां कंसस्तु तां मेने मृत्युमात्मनः”। “सा कन्या ववृधे तत्र वृष्णिसन्मनि पूजिता। पुत्रवत् पाल्यमाना वै वसुदेवाज्ञया तदा। एकानंशा तु यामाहुरुत्पन्नां मानवाभुवि। योगकन्यां दूराधर्षाम्” इति च। वृहत्सं० मूर्त्तिलक्षणे “एकानंशा कार्य्या देवी बलदेवकृष्णयोर्मध्ये”।

एकानुदिष्ट = त्रि० एकमनु दिष्टम् “सहसुपा” पा०। एकोद्देशैन दत्तश्राद्धे। “यावदेकानुदिष्टस्य गन्धोलोश्च तिष्ठति। विप्रस्य विदुषोदेहे तावद्ब्रह्म न कीर्त्तयेत्” मनुः।

एकान्त = त्रि० एकः अन्तः निश्चयः सीमा वा। २ अत्यन्ते अतिशये “तेजःक्षमा वा नैकान्तंकालज्ञस्य महीपतेः” माघः। “शकुन्तमेकान्तमनोविनोदिनम्” नै०। क्रियाविशेषणत्वेनात्र न०। “एकान्तविध्वंसिषु मद्विधानाम्” रघु० “नात्यश्नतस्बु योगोऽस्ति नचैकान्तमनश्नतः” गीता। तद्वति ३ द्रव्ये त्रि०। “एकान्तपाण्डुस्तनलम्बिहारम्” रघुः। “एकान्तशैत्यात् कदलीविशेषाः” कुमा०। एक एवान्तो यत्र। निर्जने ४ रहसि। “तस्माद्ध्वान्ते हर्म्यस्यान्तः शय्यैकान्ते कर्त्तव्या” ज्यो० त०। “वासे बहूनां कलहेभवेद्वार्त्ता दयोरपि। तस्मादेकान्तमास्थाय चिन्तयेत् नित्यसंयुतः, पुरा०। ततः तसिल्। एकान्ततस् एका- न्ते इत्याद्यर्थे। “दृष्टे साऽपार्था चेन्नैकान्ततोऽत्यन्ततोऽभावात्” सां० का०। तत्र भवः ठञ्। ऐकान्तिक एकान्तभवे त्रि० स्त्रियां ङीप्। “ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्पते” पुरा०। एक एवान्तः स्वभावो यस्य। एकरूपताप्राप्ते त्रि०। “विलोक्यैकान्तभूतानि मूतान्यादौ प्रजापतिः। स्त्रियं चक्रे स्वदे हार्द्धं यया पुंसां मतिर्हता” भाग० ६, १८, २२।

एकान्तत्यागवाद = पु० वस्तुनः एकान्तता एकस्वरूपता अस्तीत्यादिसम्बन्धरूपता तस्य त्यागप्रतिपादकोवादः। अर्हद्विशेषोक्तवादभेदे। सच वादः अर्हच्छब्दे स्याद्वाद प्रकरणे ३८६ पृ० दर्शितः।

एकान्तदुःषमा = स्त्री दुष्टा समा वर्षोदुःषमा सुषमा० षत्वम् एकान्तं दुःषमा २ त०। बौद्धकल्पिते कालभेदे हेमच०। यथा “कालो द्विविधोऽवसर्पिर्ण्युत्सर्पिणीषु भेदतः। सागरकोटिकोटीनां विंशत्या स समाप्यते। अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः। एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम्। तत्रैकान्तसुषमारश्चतस्रः कोटिकोटयः। सागराणां सुषमा तु तिस्रस्तूत्कोटिकोटयः। सुखमदुःखमाने द्वे दुःखमसुखमा पुनः। सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता। अथ दुःखमैकविंशतिरव्दसहस्राणि तावती तु स्यात्। एकान्तदुःषमापि ह्येतत्संख्याः परेऽपि विपरीताः। प्रथमारत्रये मर्त्त्यास्त्रिद्व्येकपल्यजीविताः। त्रिद्व्येकगव्यूत्युच्छ्राया स्त्रिद्व्येकदिनभोजनाः। कल्पद्रुफलसंतुष्टाश्चतुर्थे त्वरके नराः। पूर्ब्ब कोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः। पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः। षष्ठे पुनः षोडशाव्दायुषोहस्तसमुच्छ्रयाः एकान्तदुःस्वप्रचिता उत्सर्पिण्यामपीदृशाः। पञ्चानुपूर्व्व्या बिज्ञेया अरेषु किल षट्स्वपि”।

एकान्तर = त्रि० एकमन्तरं व्यवधानम्। १ एकव्यवधाने “एकान्तरे त्वानुलोम्बादम्बष्ठोग्रौ तथा स्मृतौ” मनुः। वहु०। २ एकान्तरवर्त्तिनि त्रि०। “एकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम्” मनुः। एकदिनव्यवधानेन भोजनरूपे ३ व्रतभेदे न० एकदिनव्यवधानेन जायमाने ४ ज्वरभेदे पु०।

एकान्तसुषमा = सुष्ठुसमावर्षः सुषमा सुषमादि० षत्वम् २ त०। बौद्धमतसिद्धे कालभेदे एकान्तदुःषमाशब्दे विवृतिः।

एकान्तिन् = त्रि० एकान्तमस्त्यस्य इनि स्त्रियां ङीप्। १ अतिशययुक्ते एकान्तः एकस्वरूपः उपास्यत्वेनास्त्यस्य इनि। स्त्रियां ङीप्। २ भगवद्भक्तविशेषे त्रि०। “एकान्तेना- समोविष्णुयेस्मादेवं परायणः। तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः” गरुडपु० १३१।

एकान्न = त्रि० एककालमेवान्नं भक्ष्यं यत्र। १ एककालिकभक्षणे एकभक्तरूपे व्रते कर्म्म०। २ एकमात्रभक्ष्ये अन्ने न०। “ऊर्ज्जे यवान्नमश्नीयादेकान्नमथ वा पुनः। वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्जयेत्” काशी०। “भक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेत् व्रती” मनुः। “क्रीत्वा लब्ध्वा प्राप्य गृहमेकान्नमलवणमेकरात्रं त्रिरात्रं वा भोक्तव्यमिति” शु० त० स्मृतिः। एकस्मिन् स्थाने पचनीयमन्नं यस्य। अविभक्ते भ्रात्रादौ “एकान्नवर्त्तिनाञ्चैव एकोदिष्टं न पार्वणम्। एकपाकेन वसतां पितृदेवद्विजार्च्चनम्। एकं भवेद्विभक्तानां तदेव स्यात् गृहेगृहे” वृह०

एकायन = त्रि० एकमयनं विषयोऽवलम्बनं वा यस्य। १ विषयान्तरव्यावृत्तचित्ते एकाग्रमनस्के २ एकाबलम्बने च। “तानि वा एतानि संकल्पैकायनानि संकल्पप्रतिष्ठितानि” छा० उ०। एकमयनमबलम्बनीयं यस्य। ३ एकाबलम्बनीये त्रि०। “एवमेकायनं धर्ममाहुर्वेदविदोजनाः” भा० शा० ७८७२ श्लो०। एकस्यायनं गतिर्यत्र। ४ एकमात्रगमनयोग्ये त्रि० “भ्रातरं भोमसेनन्तु विज्ञाय हनुमान् कपिः। दिवङ्गमं रुरोधाथ मार्गं भीमस्य कारणात्। अनेन हि पथा मा वै गच्छेदिति विचार्य्य सः। आस्त एकायने मार्गे कदलीखण्डमण्डिते। भ्रातुर्भीमस्य रक्षार्थम्” भा० व० १४६ अ०। कर्म्म०। ५ एकस्थाने न०। “यः स्यादेकायने लीनस्तूष्णीं किञ्चिदचिन्तयन्” भा० अनु० ५३२ श्लो०।

एकार्थ = पु० एकः अर्थः प्रयोजनमभिधेयम् पदार्थो वा। एकस्मिन् १ प्रयोजने २ अभिधेये ३ पदार्थे च। “वर्ण्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः” सा० द०। बहु०। ४ एकाभिधेये शब्दभेदे एकार्थश्च एकशक्त्योपस्थापितार्थकः। ५ एकप्रयोजनयुक्ते त्रि०। अभूततद्भावे च्वि + मू–घञ्। एकार्थीभाव अनेकार्थानामेकार्थताप्राप्तौ पु० “समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत्। बहूनां वृतिधर्माणां वचनैरेव साधने। स्यान्महत् गौरवं तस्मादेकार्थीभाव आश्रितः” इति भर्तृहरिः। कर्त्तरि क्त। एकाथींमूत परस्परमन्विते एकस्मिन् विशिष्टार्थे च “एकार्थमनेकशब्दं वाक्यम्” निरु०। वै० मते वाक्येऽपि शक्तिः अखण्डवाक्यस्फोटस्यैव वाचकत्वात् “पदे न वर्णाविद्यन्ते वर्णेष्ववयवा न च। वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन। व्राह्मणार्थोयथा नास्ति कश्चिद् ब्राह्मणकम्बले। देवदत्तादयो वाक्ये तथैव स्युर्निरर्थकाः” इति “वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतोति मतस्थितिरिति च” हरिः।

एकावली = स्त्री एकाऽद्वितीया आवली माला मणिश्रेणी। (एकनर) हारभेदे, सा० द० उक्तेऽर्थालङ्कारभेदे अलङ्कारशब्दे ३९८ पृ० विवृतिः।

एकाब्दा = स्त्री एकः अब्दो वयोमानं यस्याः। १ एकहायन्यां स्त्रीगव्याम्। “एकाव्दा त्वेकहायनी” अमरः। २ एकवर्षयुक्ते त्रि०। एकवर्षादयोऽप्यत्र। “एकवर्षे गवि हते कृच्छ्रपादो विधीयते” स्मृतिः। एकहायनोऽप्यत्र हायनस्य वयोवाचित्वेतु संख्यापूर्ब्बकत्वात् स्त्रियां ङीप् इति भेदः। “अरुणया पिङ्गाक्ष्यैकहायन्या गवा सोमं क्रीणातिं श्रुतिः।

एकाशीतिपद = न० एकाशीतिः पदान्यत्र। गृहारम्भप्रवेशादौ वास्तुपूजार्थं कर्त्तव्ये तावन्मितकोष्ठके वास्तुमण्डलभेदे। तच्च मण्डलं तिर्य्यगूर्द्ध्वस्थाभिर्दशभीरेखाभिः एकाशीतिकोष्ठात्मकं गृहारम्भाद्यर्थं वास्तुयागे लेख्यम् यथाह देवीपु०। “प्रासादे च चतुःषष्टिरेकाशीतिपदं गृहे” तल्लेखनप्रकारादि वास्तुमण्डलशब्दे वक्ष्यते।

एकाश्रय = त्रि० एक आश्रय आधारोऽवलम्बनं वा यस्य। १ अनन्यगतिके। २ एकाधारवृत्तौ ३ वैशेषिकोक्तगुणभेदे च ते च गुणाः अनेकाश्रितगुणभिन्नाः। “संयोगश्च विभागश्चसंख्याद्वित्वादिकास्तथा। द्विपृथक्त्बादयस्तद्वदेतेऽनेकाश्रिता गुणाः। अतः शेषगुण्णाः सर्वे मता एकैक वृत्तयः” भाषा० दर्शिताः। एवं च रूपरसगन्धस्पर्शशब्दाः एकत्वमेकपृथक्त्वं परिमाणपरत्वापरत्वानि बुद्धिसुखदुःखेच्छाद्वेषयत्नगुरुत्वस्नेहसंस्कारादृष्टानि च तादृशाः, तेषां प्रत्येकस्य एकैकवृत्तित्वात् संयोगादीनान्तु एकैकस्यैव द्विवृत्तित्वमिति न तथात्वम्। एकाधिकरणादयोऽप्यत्र। कर्म०। ४ एकस्मिन् आधारे पु० “हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता” भाषा०।

एकाष्टका = स्त्री एका अष्टका। १ माघकृष्णाष्टम्याम् २ तत्कर्त्तव्ये श्राद्धे च। अष्टकानां तासु कर्त्तव्यश्राद्धानां च त्रित्वेऽपि आ० श्रौ० सू० “हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका एकस्यां वेति” एकस्या अपि कर्त्तव्यतया विधानात्तथा। सा च मध्यत्वेन माघकृष्णाष्टमी ग्राह्या। अत एव “गवामयनायैकाष्टकायां दीक्षा” कात्था० १३, १, २, सू० व्या० “एकाष्टाका नाम माघस्य कृष्णाष्टमी प्रसिद्धेः” कर्केणोक्तम्। ३ तदभिमानिदेव्यां शच्याम् “एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम्। तेन देवा असहन्त शत्रुन् हन्तासुराणामभवच्छचीभिः” सा० ब्रा० २ प्र० ३ क०। शचीभिरित्यत्र शचीपतिरिति” अथ० ६, १०, १२, पाठः। “एकाष्टके! सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम्” अथ० ३, १०, ५

एकाष्ठील = पु० एकमस्थीव काण्डं तद्वत्कठिनत्वात् लाति ला–क पृषो० षत्वं दीर्घश्च। वकवृक्षे अमरः पाठायां स्त्री। (आकनादी) राजनि०।

एकाह = पु० एकमहः टच्समा० एकशब्दोत्तरत्वात् माह्नादेशः। “अह्नाहान्ताःपुंसि” पा० पुंस्त्वम्। “एकस्मिन् दिवसे “एकाहेनैव निर्वपेत्” ऋष्य० स्मृतिः “सब्रह्मचारिण्येकाहः” मनुः। “अश्वस्यैकाहगमः” पा०। उपचारात्। २ एकाहसाध्ये अग्निष्टोमादौ यागभेदे च। “उक्तप्रकृतयोऽहीनैकाहाः” आश्व० ९, १, १। “उक्तो ज्योतिष्टोम एकाहाहीनसत्राणां प्रकृतिभूतः उक्तानि पञ्चविंशतिरहानि सात्रिकाणि एतेभ्य एव सात्रिकेभ्योऽहोभ्योऽहीनैकाहा व्याख्यायन्त इत्युक्तम् इदानीं तानेकाहाहीनान् वक्तुकामेनाचार्य्येण “उक्त प्रकृतयोऽहीनैकाहा” इत्युक्तम्। तस्यायमर्घः उक्ता प्रकृतिर्येषां ते इमे उक्तप्रकृतयोऽहीनैकाहाः। प्रकृतिः प्रकारो न रूपान्तरमित्यनर्थान्तरं ज्योतिष्टोमोहि सर्वेषामेकाहा हीनसत्राणां प्रकृतिरिति सिद्धम्” नारा०। “अनतिदेशे त्वेकाहो ज्योतिष्टोमो द्वादशशतदक्षिणस्तेन शस्यमेकाहानास्” ९, १, ३।

एकाहगम = पु० एकाहेन गम्यते गम–कर्म्मणि घञ्। एकाहगम्ये देशे “अश्वस्यैकाहगमः” पा०।

एकाहार = पु० एकस्मिन् दिने एक आहारः। एकस्मिन् दिने सकृद्भोजने “एकाहारस्तया (विधवया) कार्य्यो न द्वितीयः कथञ्चन” शु० त० पुरा०। “मुनिभिर्द्विरशनमुक्तम्” इत्यादिना द्विर्भोजनस्य विधानेऽपि एककालमात्रभोजनं तस्या विहितम्। एकाहारे च परिसंख्यैवआहारस्य रागप्राप्तेः न द्वितीय इत्यनेन तथैव प्रतिपादनात्। एक आहारो यस्य। एकस्मिन्नह्नि सकृद्भोक्तरि त्रि० “प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः” भा० अनु० १०६ अ०।

एकीकरण = न० एक + अभूततद्भावे च्वि–कृ–अनुप्रयोगः ल्युट्। अनेकधाम्यादेः राशिकरणेनं एकतापादने। कर्म्मणि क्त। एकीकृत तथापादिते धान्यादौ त्रि० एकी + भू–घञ्। एकीभाव अनेकधान्यादेः राशिताप्रापणरूपे व्यापारे पु०। कर्त्तरि क्त। एकीभूत एकत्वप्राप्ते अनेकधान्यादिराश्यादौ। कृ–ल्यप्। एकीकृत्य तथापादनं कृत्वेत्थर्थे अव्य० भूल्यप्। एकीभूय एकत्वं प्राप्येत्यर्थे अव्य०।

एकीय = त्रि० एक + भवार्थे तस्येदमित्यर्थे वा छ। १ एकपक्षभवे सहाये, २ एकसम्बन्धिनि च।

एकेक्षण = पु० एकमीक्षणं यस्य। १ काके २ एकचक्षुर्युतमात्रे काणे त्रि०। ३ शुक्राचार्य्ये पु०। बलिना वामनाय दीयमानत्रिपदभूमिं प्रतिषेधतः शुक्रस्य वचनमनादृत्य तद्दानाय प्रवर्त्तमानं बलिं वीक्ष्य दानार्थगृहीतजलपात्रद्वारं सूक्ष्ममूर्त्त्या प्रविश्य रुन्धतस्तस्य छलं बुद्धा जलद्वारावरणनिवारणच्छलेन कुशेन तस्यैकं नेत्रं वामनेन विदारितमिति तस्य तत्कालादेकनेत्रतेति पौराणिकी कथाऽत्रानुसन्धेया।

एकैक = त्रि० सुबन्तस्य एकस्य वीप्सार्थे द्वित्वम् “एकं बहुब्रीहिवत्” पा० द्विरुक्त एकशब्दो बहुब्रीहिवत् तेन सुब्लोपपुंवत्भावौ। प्रत्येकपदार्थे इह द्वयोरपि सुपोलुकि कृते सति बहुब्रीहिवद्भावादेव प्रातिपादकत्वात् समुदायात् पुनः सुप्। स्त्रियां टाप्। एकैका आहुतिः। “न बहुब्रीहौ” पा० सर्वनामसंज्ञानिषेधः मुख्यबहुव्रीहिपरस्तेन एकैकस्मै एकैकस्मात् इत्यादौ सर्व्वनामकार्य्यम्। “दश दश वा एकैकस्मिन् प्राणाः” श० ब्रा० ८, १, १, २। ततः कारकार्थे शस्। एकैकशस् कारकरूपप्रत्येके अव्य०। “एकैकशश्चरेत् कृच्छ्रं द्विजः पापापनुत्तये” प्रा० त० विश्वा० “ब्राह्मणस्य क्षयाहस्य यत् प्रमाणं समासतः। एर्ककशोयुगानां तु क्रमशस्तान् निबोधत” मनुः। स्वार्थे यत्। एकैकश्य तदर्थे न० “एकैकश्येनानुपूर्व्या भूत्वा भूत्वेह र्जायते” भा० ७, १५, ४२ “एकैकश्यं तदा योधा धार्त्तराष्ट्रस्य भारत। पर्य्यवर्त्तन्त गन्धर्वैर्दशभिर्दशभिः सह” भा० व०। २४०। नीलकण्ठेन “एकैकस्येति पठित्वा एकैकमिति व्याख्यातम्” एकैकशो भावः यत्। एकैकश्य “एकैकराशिभवने “एकैकश्येन यथानुपूर्व्यम्” भाग० ५, १, ३५।

एकैषिका = स्त्री नित्यकर्म्मधा०। (आकनादी) वृक्षे रत्नमाला। “एकैषिकाजशृङ्गी च प्रलेपे श्लेष्मशोषहृत्”। “एकैषिकातैलं सघृतमतिशीत पित्तहरमनिलप्रकोपणं श्लेष्माभिहरणम्” इति च सुश्रु०। क्वचित् रत्नमालायाम् एकोषिकेतिपाठं दृष्ट्वा शब्दकल्पद्रुमे तादृशशब्दोलिखितः।

एकोक्ति = स्त्री एका उक्तिः अभिधाशक्तिः। उभयपदार्थवि षयिण्यामेकस्यां शक्तौ। यथा पुष्पवन्तौ इत्यादौ पुष्पवत्पदेन दिवाकरनिशाकरयोरुभयोरेव बोधः न तु अक्षपदा दिवत् प्रत्येकपदार्थबोध इत्याकरे दृश्यम्। एवं “जात्याकृतिव्यक्तयः पदार्थः” गौ० सू० जात्यादीनांमेकशक्त्यैव बोध इति व्युत्पत्तिवादे गदाधरः।

एकोत्तर = त्रि० एकैकमुत्तरं यत्र वृत्तौ सप्तच्छदवत् संख्याशब्दस्य वीप्सार्थता। एकैकाधिके। “एकाद्व्येकोत्तरा अङ्का व्यस्ताभाज्याः क्रमस्थितैः” लोला०। “सर्गादौ तु यथा काशं वायुं ज्योतिर्जलं महीम्। सृज्यत्येकोत्तरगुणां स्तथादत्ते भवन्नपि”। “तन्मात्रादीन्यहङ्कारादेकोत्तरगुणानि च” इति च याज्ञ०। “यथासंख्यमेकोत्तरपरिवृद्धाः शब्दस्पर्शरूपरसगन्धाः” सुश्रु० एकाधिकादयोऽप्यत्र त्रि०।

एकोदक = पुंस्त्री एकं समानमुदकं यस्य। समानोदके सप्तमपुरुषादूर्द्ध्वं चतुर्द्दशपुरुषपर्य्यन्ते गोत्रजे “समानोदकभावस्तुं निवर्त्तेताचतुर्दशात्” स्मृतेस्तत्पर्य्यन्तानामेकोदकत्वम्। “जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते” मनुः।

एकोदर = पु० एकं समानमुदरं गर्भस्थानं यस्य। समानोदरे १ भ्रातरि स्त्रियां टाप्। कर्म्म०। २ समाने उदरे न०। “एकोदरप्रसूतानाम्” स्मृतिः।

एकोद्दिष्ट = न० एक प्रेतः उद्दिष्टोयत्र। प्रेतोद्देश्यके श्राद्धभेदे तस्य इतिकर्त्तव्यातादिकं श्रा० त० निरूपितं यथा। गोभिलः। “अथैकोद्दिष्टमेकं पवित्रमेकोऽर्घ एकः पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्वदितमिति तृप्तिप्रश्नः सुस्वदितमिति प्रत्युत्तरम् उपतिष्ट तामित्यक्षय्यस्थाने, अभिरम्यतामिति विसर्गे, अभिरतोऽस्मीति प्रतिवचनमेतत् प्रेतश्राद्धमिति”। अथेत्यनेनैकोद्दिष्टस्य पार्व्वणानन्तर्य्याभिधानं तयोः प्रकृतिविकृतित्वं सूचयति। अतएवैकोद्दिष्टे पार्व्वणधर्म्मप्राप्त्यावाहनादिप्राप्तौ नावाहनमित्यादिनिषेध उपपद्यते अन्यथा प्राप्त्यभावान्निषेधोऽनुपपन्नः स्यात्। एतत् प्रेतश्राद्धमित्युपसंहारात् एकं प्रेतमुद्दिश्य यद्दीयते श्राद्ध तदेकोद्दिष्टमिति वैदिकप्रयोगाधीनयौगिकम्। अतएव प्रतिसांवत्सरिकस्य नैकोद्दिष्टत्वं किन्त्वेकोद्दिष्टविधिकत्वम्। अत्रार्व्यैक्याद्द्विदलरूपसङ्केतितपवित्रैक्यप्राप्तौ एकं पवित्रमिति पुनरभिधानसार्थकत्वाय तदवयवैकदलपरम्। आज्योत्पवनप्रकरणे “बर्हिषः प्रादेशमात्रे पवित्रे कुरुते” इति गोभिलसूत्रे पवित्रपदस्य दलपरत्ववत्। अत्र नावाहनं नाग्नौकरणमिति निषेधयोः पौर्व्वापर्य्यादग्नौकरणपूर्व्वकालीनं प्रधानसम्बन्धि श्राद्धसूत्रोदितं श्राद्धाङ्गावाहनमेव निषिध्यते नत्वप्रधानसम्बन्धि पितृयज्ञवदित्यतिदेशप्राप्तं पिण्डाङ्गावाहन मिति। एतेन पिण्डाङ्गावाहननिषेधोमैथिलोक्तो हेयः। अत्राग्नौकरणनिषेधेन हुतशेषस्यालाभे “हुतशेषं दत्त्वा पात्रमालभ्य जपति पृथिबीत्यादि स्वाहाइत्यन्तसूत्रोक्तपात्रालम्भनस्यापि बाधः आनन्तर्य्याभावात् अमृतमिति मन्त्रलिङ्गविरोधाच्च। स्वदितमिति तृप्तिप्रश्न इति तृप्ताःस्थ इति तृप्तिप्रश्ने, स्वदितमित प्रश्नः। कुशमयव्राह्मणपक्षे तु प्रतिवचनानुपपत्त्या प्रश्नस्यापि निवृत्तिः अक्षय्यशब्दस्थाने उपतिष्ठतामिति प्रयोगः अत्रोपतिष्ठतामित्यनेनान्नादिकमित्यस्यान्वये अस्त्वित्यस्यान्वयानुपपत्त्या तस्याप्यप्रयोगः। अतएव पितृदयितायामन्नादिकमुपतिष्ठतामिति लिखितम्। ततश्च “प्रेतायाक्षय्यमस्तु च” इति ब्रह्मपुरणीयं “ततो वदेत् पुनर्धीमानक्षय्यमुपतिष्ठताम्” इति मार्कण्डेयपुराणीयञ्च गोभिलविरुद्धत्वात् शाख्यन्तरीयम्। अभिरम्यतामिति “वाजेवाजे” इति स्थानेऽभिरम्यतामित्यनेन विसर्जनमिति। एतेन “प्रेतत्याद्धेषु सर्वेषु न स्वधा नाभिरम्यताम्। स्वस्त्यस्तु विसृजेदेवं सकृत् प्रणववजितम्” "इत्याश्वलायनगृह्यपरिशिष्टात् एकोद्दिष्टे प्रणववर्जितस्वस्त्यस्त्वित्यनेन यद्विसर्जनं तत्प्रेतश्राद्धविषयम् अभिरम्यतामिति तु सांवत्सरिकविषयमिति कल्पतरुश्रीदत्तवाचस्पतिमिश्राद्युक्तं निरस्तम्। वह्वृचानामेव पार्व्वणेऽभिरम्यतामिति विसर्जनस्य प्राप्तत्वादेकोदिष्टेऽपि तथात्वात् सर्व्वशाखिसाधारणनिषेधानुपपत्तेश्च। एतदिति पूर्व्वोक्तेतिकर्त्तव्यताकश्राद्धमित्यर्थः। प्रेतश्राद्धं नतु पार्व्वणविकृतित्वेन प्राप्तपितृलोकरूपपितुः श्राद्धम् अकृतसपिण्डीकरणस्य तथाविधपितृत्वाभावात्। अतएवतन्न्यायमूलकमेवाश्वलायनगृह्यपरिशिष्टेऽपि “पितृशब्दं न युञ्जोत पितृहा चोपजायते” इत्युक्तम्। अतएव विष्णुना “प्रेतस्य नामगोत्राभ्यां दत्त्वाक्षय्योदकेषु” च इत्यत्र प्रेतनामगोत्राभ्याभित्यनेन प्रेतस्येत्युक्त नतु सम्बन्धिन इत्युक्तम् ततश्च मन्त्रे प्राप्तपितृलोकोपाधिकएव पितृपदस्थाने प्रेतपदोहो नतु अग्निष्वात्ताद्युपाधिके। एवमभिलापवाक्ये सम्बन्धित्वे न नोल्लेस्यः किन्तु प्रेतत्वेन असम्बन्धिनोऽपि मठब्राह्मणादेरपि प्रेतश्राद्धाधिकारित्वात्। अतएव शातातपेनापि “प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम्” इत्युक्तम्। अत्र प्रेतस्यान्तः प्रेतान्तो नतु सम्बन्धिवाचकस्यान्तः नवा मैथिलोक्तो बहुब्रीहिस्तस्य तत्पुरुषापेक्षया जघन्यत्वात्, प्रेतपदस्य सम्बन्धिस्थानीयत्वेन तत्पुरुषस्यैव युक्तत्वाच्च। ततश्च प्रेतान्तनाम च गोत्रञ्च इति द्वन्द्वः अतएव तर्पणे विष्णुः “ततश्च सर्व्वे शवस्पर्शिनोगत्वा पितृपदस्थाने प्रेतपदोहेन द्वितीयान्तं तर्पयेयुः पितृशब्दोच्चारणे पितृहाभवति” इति। एतेषां वचनानां न्यायमूलक्त्वात् सांवत्सरिकश्राद्धे एकोदिष्टविकृतीभूतेऽपि प्राप्तपितृलोकोपाधिकपितृपदवन्मन्त्रेऽभिलापे च सम्बन्धिबोधकपितृत्वेनैवोल्लेखः। एवञ्च देवताभ्यः पितृभ्यश्चेत्यत्र न प्रेतपदोहः तत्र पितृपदस्य दिव्यपितृपरत्वात् एवं नैकवचनोहोपि तथा “मधु द्यौरस्तु नः पिता” इत्यस्य द्यौः स्वर्गः पिता पितेव सर्व्वस्याधिगम्यत्वात् मध्वस्तु मधुमयी भवत्विति भाष्यव्याख्याने द्यौरिति पितेतिपदयोः सामानाकरण्यं प्रतीयते अत्र च द्युत्वपितृत्वयोर्भेदेऽपि धर्मिणोः सामानाधिकरण्येनाभेदावगमात् दिवः पितृसाधर्म्म्यप्राप्तिरिति पितृपदं पितृतुल्यपरं नतु जनकपरंप्राप्तपितृलोकपरं वेति तेनात्र मन्त्रे पितेत्येव वक्तव्यं नतु प्रेतपदो हः नवा “पितृशब्दं न युञ्जीत” इत्यनेन निषेधः। एवम् आमावेति मन्त्रे पितरेत्यत्र नोहः यदाऽहं श्राद्धं करोमि तदा मातरपितरावागच्छतामित्यदुव्रजने क्रियमाणे श्रा द्धफलस्य प्रार्थनीयत्वात्। एवं वृद्धिश्राद्धेऽप्येतेषु नान्दीमुखविशेषणं न देयमेवेति अन्यत्र सर्व्वत्रोत्सर्गवाक्ये मन्त्रे च पितृपदप्रयोगनिषेधात् प्रेतपदोहः कार्य्यः।

“अत्रैकोदिष्टे गोभिलानुक्तोविशेषोऽभिधीयते। यथाह विष्णुः “एकवन्मन्त्रानूहेतैकोदिष्टे” इति एकवत् एकवचनवद्यथा स्यात्तथोहेत “अपूर्व्वोत्प्रेक्षणमूहः” (जै०) इत्युक्तेन पूर्ब्बाप्राप्तैकवचनान्तत्वकल्पनेन बहुवचनान्तान्मन्त्रान् विकृतान् कुर्य्यात् एकस्मिन् पितरि बहुवचनस्यासमवेतार्थत्वात् प्रकृतावर्थप्रकाशनाख्यदृष्टप्रयोजनकस्य मन्त्रस्य विकृतौ बहुवचनस्थाने एकवचनोहः कर्त्तव्य इति न्यायमूलमिदं वचनम्। यद्वा “पवित्रे स्थो वैष्णव्यावित्यत्र “पुवित्रासि वैष्णवी” इति न चात्र पवित्रमसि वैष्णवम् इति पितृदयितोक्तं युक्तं “पवित्रे स्थो वैष्णव्याविति” मन्त्रस्य हे पवित्रे युवां विष्णुदेवताके स्थः भवथः स्त्रीलिङ्गत्वं छान्दसमिति सायनाचार्य्यव्याख्याने गुण- विष्णुनापि तथा व्याख्याने सम्बुद्ध्यन्तताप्रतीतेः। एवं “विष्णोर्मनसा पूते स्थः” इत्यत्रापि पूतमसीति। “अत्र पितरो मादयध्वं यथाभागमावृषायध्वम्” इति मन्त्रे अत्र प्रेत! मादयस्व यथाभागमावृषायस्वेत्युह्यम्। प्रार्थनार्थकतृतीयलकारीयमध्यमपुरुषबहुवचनस्थाने तदेकवचनस्यैव उह्यत्वात् न तु भूतार्थकचतुर्थलकारीयमावृषायथा इत्यनिरुद्धभट्टोक्तो युक्तः अतएव श्रीदत्तादिभिरपि “मादयस्वेत्युक्तम् “अमीमदन्त पितरः” इत्यत्र अमीमदत्प्रेतेति वृषायिषतेत्यत्र वृषायिष्टेति। एत पितर इत्यादिपिण्डाङ्गावाहनमन्त्रे एहि प्रेतेति सौम्यासैत्यत्र सौम्येति दत्तास्मभ्यमित्यत्र देह्यस्मभ्यमिति, नियच्छतेत्यत्र निय च्छेति, नमोवैत्यादिमन्त्रेषु पितर इति स्थानचतुष्टये प्रेतेत्युह्यम्। एवं वैत्यत्र ते इति। आशीःप्रार्थने च येभ्य इत्यत्र यस्मै इति तेषामित्यत्र तस्येत्युह्यम्। एतद्वः पितरैत्यत्र तु प्रेता इति विकृतावूहो न तु बहुषचनस्य “एतद्वः पितरो वास इति जल्पन् पृथक् पृथक्” इति ब्रह्मपुराणेन प्रकृतावेव पार्व्वणे पित्रादिषु प्रत्येकमेतद्वः पितर इति बहुवचनान्तमन्त्रप्रयोगात् अत्रानर्थक्येन तद्विकृतावेकोदिष्टेऽप्यसमवेतार्थबहुवचनस्यैव युक्तत्वात्। ततश्च प्रकृतौ समवेतार्थस्यैव विकृतावूहः।

सांवत्सरिके त्वेकवचनान्ततयैवोहो न तु पितृपदस्य तत्र प्राप्तपितृलोकत्वेन तथैव युक्तत्वात्” श्रा० त० रघुनन्दनः।

एकोद्दिष्टञ्च “द्वादश प्रतिमास्यानि आद्यं षाण्मासिके तथा” इत्युक्त पञ्चष्टशश्राद्धात्मकम्। अत्र द्वादशपदं त्रयोदशानामप्युपलक्षणम् “संवत्सरे विवृद्धेऽपि प्रतिमासञ्च मासिक मिति” काल० मा० कौथुमिना वत्सरघटकप्रतिमासे तस्य विधानात् अत एव “द्वादश मासाः संवत्सरः क्वचित् त्रयोदश मासाः संवत्सरः” इति श्रुतौ वत्सरस्य त्रयोदशमासात्मकत्वमुक्तम्।

अथैकोद्दिष्टनिमित्तकालोनिरूप्यते स च श्रा० त० रघुनन्दनेन दार्शतो यथा याज्ञवल्क्य। “मृताहान तु कर्त्तव्यं प्रतिमासन्तु वत्सरम्। प्रतिसंवत्सरञ्चैवमाद्यमेकादशेऽहनि”। एकादशेऽहनीति स्यस्वाशौचान्तद्वितीयदिनोपलक्षणम्। “क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान्” इति मत्स्यपुराणैकवाक्यत्वात्। आद्यं षोडशश्राद्धानामादिभूतम्। तथा च छन्दोगपरिशिष्टम्। “श्राद्धमग्निमतः कुर्य्यात् दाहादेकादशेऽहनि। ध्रुवाणि तु प्रकुर्व्वीत प्रमिताहनि सर्वदा। द्वादश प्रतिमास्यानि आद्यं षाण्मासिके तथा। सपिण्डीकरणञ्चैव इत्येव श्राद्धषोडशम्। एकाहेन तु षण्मासा यदा स्युरपि वा त्रिभिः। न्यूनाः संवत्सरश्चैव स्यातां षाण्मासिके तदा”। अग्निमतःश्रौताग्निमतो दाहादेकादशेऽहनि श्राद्धं कर्त्तव्यं तस्य दाहावधिदशाहाशौचित्वात्। अन्येषान्तु मरणावधि तथा च शङ्खः “मरणादेव कर्त्तव्यम् संयोगो यस्य नाग्निना। दाहादूर्द्ध्वमशौचं स्याद्यस्य वैतानको विधिः”। वैतानिकः श्रौतो होमः तस्मादग्निपदं श्रौताग्निपरम्। ततश्च केवलस्मार्त्ताग्निमतो निरग्नेश्च मरणादेवाशौचम्। ध्रुवाणि एतानि षोडश श्राद्धानि नित्यानि सर्वदा मृतधनालाभेऽपि। प्रमिताहनि मृततिथौ आद्यश्राद्धषाण्मासिकश्राङ्गद्वयेतरश्राद्धानि कार्य्याणि आद्यश्राद्धस्यैकादशाहे विधानात् षाण्मासिकयोस्तु कालान्तरविधानात्। अत्राशौचान्तद्वितीयदिवसोयाद्यश्राद्धस्यादिभवत्वसमाख्यानुरोधेन तदुत्तरकर्त्तव्यमासिकतिथेर्मृततिथित्वानुपपत्त्या तत्सजातीयत्वमेव प्रतीयते। तेन प्रथममृततिथिं विहायान्यमृततिथिमादाय मासिकादिसिद्धिरिति। एवञ्च एकाहेन तु षण्मासान्यूना इत्यनेन मृततिथिपूर्व्वतिथिः प्रतीयते। एवं त्रिभिरित्यत्रापि तथा संवत्सरस्याप्येकाहादिन्यूने। अत्र संवत्सरकर्त्तव्यस्यापि षाण्मासिकत्वं द्वितीयषण्मासभवत्वान्नानुपपन्नम्। संवत्सराभिधानन्त्वादिमध्याधिमासयुक्तप्रथमाब्दस्य। “द्वादश मासाः संवत्सरः क्वचित्त्रयोदश मासाः संवत्सरः” इति श्रुत्यनुसारेण त्रयोदशमासघटितत्वात् त्रयोदशमासएव द्वितीयषाण्मासिककरणाय कालः सप्तममासकर्त्तव्यस्यु षाण्मासिकत्वं “षष्ट्या तु दिवसैर्मासः कथितो वादराथणैः” इत्यनेनाविरुद्धम्। ननु षोडशश्राद्धगणने द्वादशमासिकत्वमुक्तं कथंमलमासयुताव्दे त्रयोदशमासिकत्वमिति चेन्न “संवत्सरस्य मध्ये तु यदि स्यादधिमासकः। तदा त्रयोदशश्राद्धं कार्य्यं तदधिकं भवेत्” इतिसत्यव्रतवचनेन द्वादशमासिकादधिकं त्रयोदशमासिकं श्राद्धमित्युक्तेः। एतद्वचनं न्यायमूलकम्। “एवं मृताहनि प्रतिमासं श्राद्धं कुर्य्यादतन्त्रितः” “मृताहनि तु कर्त्तव्यं प्रतिमासन्तु वत्सरम्” इति वचनद्वयेन पूर्व्वोक्तश्रुतिप्राप्तत्रयीदशमासात्मकं संवत्सरं व्याप्य मृततिथेर्मृततिथिं यावच्चान्द्र इत्युक्ततत्प्रतिमासकर्त्तव्यमासिकानुरोधेन तत्पक्षीयतत्तत्तिथिषु श्राद्धमिति बोधयता अर्थापत्त्या वैशाखादि भूतस्यान्त्यमासिकं तन्मासीयतत्पक्षीयतत्तत्तिथिषु कर्त्तव्यमिति बोधनात् मध्येऽधिमासपाते द्वादशे मासि मृतमासीयतिथ्यप्राप्त्या वर्षान्तविहितस्य मासिकस्य सपिण्डनस्य चाप्राप्तेः। एवमाद्याधिमामेऽपि अतएवाद्याव्देऽधिमासपातेऽपि लघुहारीतेन द्वादशमासे यद्द्वादशमासिकमित्युक्तं तदन्त्याधिमासविषयम् तत्र द्वादशमासे मृतमासीयतत्तत्तिथिप्राप्तेः। यथा लघुहारीतः “प्रत्यव्दं द्वादशे मासि कार्य्या पिण्डक्रिया द्विजैः। क्वचित्त्रयोदशेऽपि स्यादाद्यं मुक्त्वा तुवत्सरम्। चक्रवत् परिवर्त्तेत सूर्य्यः कालवशाद्यतः। अतः सांवत्सरं श्राद्धं कर्त्तव्यं मासचिह्नितम्। मासचिह्नन्तु कर्त्तव्यं पौषमाघाद्यमेव हि। यतस्तत्र विधानेन मासः स परिकीर्त्तितः। असंक्रान्तेऽपि कत्तव्यमाविदकं प्रथमं द्विजैः। तथैव मासिकं पूर्व्वं सपि ण्डीकरणन्तथा। गर्भे वार्द्धुषिकृत्ये च मृतानां पिण्डकर्म्मसु। सपिण्डीकरणे चैव नाधिमासं विदुर्बुधाः”। सपिण्डीकरणादूर्द्ध्वं यत् किञ्चित् श्राद्धिकं भवेत्। इष्टं वाप्यथ वा पूर्त्तं तन्न कुर्य्यान्मलिम्लुचे” श्रा० त० रघुनन्दनः।

एकोद्दिष्टञ्च मध्याह्नकालव्यापितिथौ कर्त्तव्यं यथाह “आमश्राद्धं तु पूवाह्णे एकोद्दिष्टन्तु मध्यतः। पार्वणं चापराह्णे तु प्रातर्वृद्धिनिमित्तकम्” हारी०। “पूर्वाह्णे दैविकं श्राद्धमपराह्णं तु पार्वणम्। एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्” मनुः। “यो यस्य विहितः कालस्तत्कालव्यापिनी तिथिः। तया कर्म्माणि कुर्वीत ह्रास वृद्धी न कारणम्” याज्ञ०। मध्याह्नकालश्च त्रिधा विभक्तदिन तृतीयभागरूप एव। तत्रापि कुतपप्रथमभागस्यैव तदारम्भकालः “कुतपे प्रथमे भागे एकोद्दिष्टमुपक्रमेत्। आवर्त्तनसमीपे वा तत्रैव नियतात्मवान्” काल० व्यासोक्तेः आवर्त्तनं पश्चिमदिगवस्थितच्छायायां पूर्वदिग्गमनारम्भकालः तत्समोपे कुतपशेषदण्डे। गौतमोऽपि “आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणं बुधः। विधिज्ञो विधिमास्थाय रोहिणन्तु न लङ्घयेत्” अत्र कुतपस्यारम्भकालतयोक्तेः पर्वेद्युः रोहिणमात्रलामे परदिने कुतपमात्रलाभेऽपि परेद्युरेव श्राद्धं “योयस्यः विहितःकालः कर्म्मणस्तदुपक्रमे। तिथिर्याभिमता सा तु ग्राह्या नोपक्रमोज्झिता” बौधायनेनोपक्रमयोग्यतिथेरव ग्राह्यतोक्तेः। उभयदिने नुतपालाभे रोहिणमात्रलाभे तु तत्रैव श्राद्धम् “रोहिणन्तु क लङ्घयेदित्युक्तेः। उभयदिने तयोरलाभे सप्तममुहूर्त्ते कार्व्यं तस्यालाभे तयोर्लाभे वा पक्षभेदेन व्यवस्था “शुक्ल- पक्षेतिथिर्ग्राह्या यस्यामभ्युदितोरबिः। तया कर्म्माणि कुर्व्वीत ह्रासवृद्धी न कारणम्। कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितोरविः। तया कर्माणीत्यादि स्कन्दपु० उक्तेः। “द्वितीयादिकयुग्मानां पूज्यता नियमादिषु। एकोद्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिदेशना” व्यासोक्तेश्च। तत्र स्कान्दवाक्ये ह्रासवृद्धिशब्दः तिथिविषयः व्यासवाक्ये चन्द्रह्रासवृद्धिपरस्तेन कृष्णशुक्लपक्षभेदेन व्यवस्थेति स्थितम्। तदेतत् कालमा० निर्ण्णीतम् यथा। “नन्वत्र क्षयवृद्ध्युपजीवनेन निर्णयः क्रियते। सचानुपपन्नः। व्यासवाक्ये ह्रासवृद्धिनोदनायाः पित्र्याविषयत्वाभिधानात्। “एकोद्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिनोदनेति” हि पूर्वमुदाहृतम्। “दानव्रते चैतदेवेति” च अतः कथमनयोर्वृद्धिक्षयाभ्यां निर्णयः। किंचोदाहृतयाज्ञवल्क्यस्कन्दपुराणगार्ग्यवचनेषु “ह्रासवृद्धी न कारणमित्युक्तं तत्कथमत्र ह्रासवृयोर्निर्णयकारणत्वम्। अत्रोच्यते। सन्ति ह्यन्यानि ह्रासवृद्धिवाक्यानि। तत्रोशनाः, “खर्वोदर्पस्तथा हिंस्रस्त्रिविधं तिथिलक्षणम्। खर्वदर्पौ परौ कार्य्यौ हिंसा स्यात् पूर्वकालिकी”। पितामहोऽपि “खर्वोदर्पस्तथा हिंस्रस्त्रिविधं तिथिलक्षणम्। खर्वदर्पौ परौ पूज्यौ हिंस्रं पूर्वत्र पूजयेदिति” भविष्योत्तरे “खर्वोदर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम्। खर्वदर्पौ परौ कार्य्यौ हिंसा स्यात् पूर्वकालिकीति”। खर्वः साम्यमल्पक्षयो वा। दर्पो वृद्धिः। हिंसाधिकक्षयः। एतैः खर्वादिवाक्यैः सह यस्मिन्विषये युम्मादिवाक्यस्य विरोधः प्राप्नोति तत्र दैवपित्र्यभेदेन व्यवस्थापकं व्यासवाक्यम् ननु प्रकृतयोः क्षयवृद्ध्योः पित्र्यविषयत्वप्रतिपादकयाज्ञवल्क्यादिवचनेष्वपि कर्म्मकालव्याप्तिशास्त्रस्य खर्वदर्पादि शास्त्रस्य च विरोधेप्राप्ते सति कर्मकालव्याप्तिशास्त्रस्य प्राबल्यमुच्यते न तु प्रकृतयोः क्षयवृद्ध्योः निर्णयहेतुत्वं प्रतिषिध्यते। न तु व्यासः खर्व्वादिवाक्यानि पित्र्यविषयत्वेन संकोचयामास, याज्ञवल्क्यादयस्त पित्र्येऽपि कर्मकालव्याप्त्या खर्व्वादिवाक्यान्यबाधन्त, हन्तैवं निर्बिषयत्वमेषां प्रसज्येतेति चेत् मैवं यदा पूर्ब्बोत्तरदिनयोपित्र्यविषयकर्म्मकालव्याप्तिः समाना यदा वा दिनद्वयेऽपि कर्म्मकालव्याप्त्यभावः तत्रोभयत्र खर्व्वादिवाक्यैर्निणे तुमशक्यत्वात्”। तत्रैवास्य विषयलाभ इति भावः।

“एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्रजायते मासेऽन्यस्मिन् तिथौ तस्मिन् तदा दद्यात् विचक्षणः देवलः”। एकोद्दिष्टविविकत्वात् सांवत्सरिकं श्राद्धमपि एकोद्दिष्टशब्देन शास्त्रे व्यवह्रियते। “एकेदिष्टं सुता दश” “एकोद्दिष्टं न पार्वणम्” इति च स्मृत्यीः सांवत्सरिकेऽपि तथा प्रयोगात्। एकोद्दिष्टाधिकारिणस्तु निर्ण० सि० दर्शिताः यथा “चन्द्रिकायां सुमन्तुः “मातुः पितुः। प्रकुर्वीत संस्थितस्यौरसः सुतः। पैतृमेधिकसंस्कारं मन्त्रपूर्व्वकमादृतः”। तत्रैव हेमाद्रौ शङ्खः “पितुः पुत्रेण कर्त्तव्या पिण्डदा नोदकक्रिया। पुत्राभावे तु पत्नी स्यात्तदभावे तु सोदरः। अत्र पुत्रपदं यद्यपि क्षेत्रजादिद्वादशविघपुत्रपरम्। ते च द्वादशपुत्रा याज्ञवल्क्येनोक्ताः “औरसो धर्म्मपत्नीजस्तत्समः पुत्रिकासुतः। क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेणवा। गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः। कानीनः कन्यकाजातो मातामहसुतःस्मृतः। अक्षतायां क्षतायां वा जातः पौनर्भवः स्मृतः। दद्यान्माता पिता वा यं स पुत्रोदत्तकोभवेत्। क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः। दत्तात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः। उत्सृष्टो गृह्यते यस्तु सोऽपविद्धोभवेत्सुतः। पिण्डदोऽंशहरश्चैषां पूर्ब्बाभावे परःपरः”। इति तथापि “दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः” इति हेमाद्रावादित्यपुराणे कलावितरेषां पुत्रत्वनिषेधादौरसदत्तपरमेव। यद्यपि “पिण्डदोऽंशहरश्चैषां पूर्ब्बाभावे परःपरः” इति याज्ञवल्क्योक्तेरौरसाभावे दत्तकप्राप्तिस्तथाप्यौरसाभावे पौत्रः प्रपौत्रस्तदभावे दत्तकादश इति ज्ञेयम्। “पुत्रेण लोकान् जयति पौत्रेणानन्त्यमश्नुते” इति “अथ पुत्रेण पौत्रेण ब्रध्नस्याप्नोति विष्टपमिति” जीमूतवाहनधृतहारीतवसिष्ठशङ्खलिखितोक्तेः “लोकानन्त्यन्दिवःप्राप्तिः पुत्रपौत्रप्रपौत्रकैरिति” याज्ञवल्क्योक्तेश्च। “पुत्रः पौत्रश्च तत्पुत्रः पुत्रिकापुत्र एव च। पत्नी भ्राता च तज जश्च पिता माता स्रुषा तथा। भगिनी भागिनेयश्च सपिण्डःसोदकस्तथा। असन्निधाने पूर्ब्बेष मुत्तरे पिण्डदाः स्मृताः” इति स्मृतिसंग्रहे प्रबौत्रानन्तरं पुत्रिकापुत्रीक्तेस्तत्समत्वाच्च दत्तकस्य। यद्यपि वृहस्पतिना “पौत्रश्च पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ। रिक्थे च पिण्डदाने च समौ तौ परिकीर्त्तिताविति” पौत्रसाम्यमुक्तम्। याज्ञवल्क्येन च “औरसोधर्मपत्नीजस्तत्समः पुत्रिकासुतः” इत्यौरससाम्यमुक्तम् “तथापि लोके राजसमोमन्त्रीत्यादौ किञ्चिन्न्यूने समशब्दप्रयोगाद्गौण मुख्ययोः साम्यायोगाच्च स्तुत्यर्थन्तत् न तु समविकल्प इति भ्रमितव्यम्। “पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः। सपिण्डः सन्ततिर्वापि क्रियार्हा नृप। जायते। एषामभावे सर्वेषां समानोदकसन्ततिः। मातृपक्षः सपिण्डेन सम्बद्धो यो जलेन वा। कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्य्या क्रिया नृप!। तत्सङ्घान्तर्गतैर्वापितद्रिक्थात्कारयेन्नृपः” इति विष्णुपुराणाच्च प्रपौत्रानन्तरन्दत्तकादयः इति पृथ्वीचन्द्रमदनरत्नकालादर्शादयः। मदनपारिजातेऽप्येवम्। वोपदेवरुद्धधरादयस्तु “पुत्रेषु विद्यमानेषु नान्योवै कारयेत्स्वधाम्” इति सुमन्तूक्तेः “पितामहः पितुः पश्चात्पञ्चत्वं यदि गच्छति। पौत्रेणैकादशाहादि कर्त्तव्यं श्राद्धषोडशम्। नैतत्पौत्रेण कर्त्तव्यं पुत्रवांश्चेत्पितामहः” इति छन्दोगपरिशिष्टे च पुत्रशब्दस्य द्वादशविधसुतपरत्वात् पूर्ब्बाभावे परःपर इत्यस्यानन्यपरत्वाच्च दत्तकाद्यभावे पौत्रादीनामधिकार इत्याहुः। अतएव निषेधादुपनीतपौत्रसत्त्वेऽप्यनुपनीतपुत्रस्यैवाधिकारः। औरसश्चाप्यनुपनीतोऽपि कुर्य्यादित्याह पृथ्वीच० सुमन्तुः। “श्राद्धं कुर्य्यादवश्य तु प्रमीतपितृकोद्विजः। व्रतस्थो वाऽव्रतस्थो वा एकएव भवेद्यदि” वृद्धमनुः। “कुर्य्यादनुपनीतोपि श्राद्धमेको हि यः सुतः। पितृयज्ञाहुतिं पाणौ जुहुबाद्ब्राह्मणस्य सः” मनुः “नह्यस्मिन् युज्यते कर्म्माकञ्चिदामौञ्जिबन्धनात्”। सुमन्तुरपि नाभिव्याहारयेद्ब्रह्म यावन्मौञ्जी निबध्यते। मन्त्राननुपनीतोऽपि पठेदेवैक औरसः”। ब्रह्म वेदम् मन्त्रपाठस्त्रिवर्षकृतचूडस्यैव। “अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमेधिकम्। यद्यसौ कृतचूडःस्याद्यदि स्याच्च त्रिवत्सरः” इति सुमन्तूक्तेः। यत्तुव्याघ्रः “कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च। स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेदिति” यच्च स्मृतिसंग्रहे “कृतचूडोऽनुपेतश्च पित्रोः श्राद्धं समाचरेत्। उदाहरेत्स्वधाकारं न तु वेदाक्षराण्यसाविति”। तत्प्रथमवर्षचूडाविषयमिति माधवमदनरत्नपृथ्वीचन्द्राः। त्रिवर्षोर्द्ध्वं मन्त्रवत्त्वस्य विकल्प इति चन्द्रिका वोपदेवश्च। मदनरत्नेस्कान्दे। “यज्ञेषु मन्त्रवत्कर्म पत्नी कुर्य्याद्यथा नृप!। तथौद्ध्वदैहिकं कर्म कुर्य्यात् सा धर्मसंस्कृता”। अशक्तौ तु कात्यायनः। “असंस्कृतेन पत्न्या च अग्निदानं समन्त्रकम्। कर्त्तव्यमितरत्सर्बं कारयेदन्यमेव हि”। पुत्रश्च न जन्मतोऽधिकारी किन्तु वर्षोत्तरमिति कालादर्शः “चौलादाद्याविद- कादर्वाक् न कुर्य्यात्पैतृमेधिकम्” इत्युक्तेः। मदनरत्ने सुमन्तुरपि “पुत्रश्चोत्पत्तिमात्रेण संस्कुर्य्यादृणमोचनात्। पितरं नाविदकाच्चौलात्पितृमेधेन कर्मणा”। एतच्चौरसस्यैव दत्तकादीनां तूपनीतानामेवाधिकारः इति कालादर्शः। पृथ्वीच० स्कान्दे “पित्रोरनुपनीतोऽपि विदध्या दौरसः सुतः। और्द्ध्वदेहिकमन्येनु संस्कृताः श्राद्धकारिणः” इति। अन्यत्रापि दर्शमहालयादावनुपनीतस्याधिकारोऽस्माभिः पूर्बमुक्तः। प्रपौत्राभावे दत्तकादयो द्वादश पुत्राः। तदभावे भर्त्तुः पत्नी तस्याश्च सः “अपुत्रा शयनं भर्त्तुः पालयन्तो व्रते स्विता। पत्न्येव दद्यात् तत्पिण्डं कृत्स्नमंशं लभेत चेति” वृद्धमनूक्तेः। “भार्य्यापिण्डं पतिर्दद्याद्भर्त्तुर्भार्य्या तथैव च। श्वश्र्वादेश्च स्नुवा चैव तदभावे सपिण्डकाः” इति। पुत्राभावे तु पत्नी स्यात्पत्न्यभावे सहोदरः” इति च हेमाद्रौ शङ्खोक्तेः। देवयाज्ञिकस्तु “कानीनगूढसहजपुनर्भूतनयाश्च ये। पत्न्यभावेऽपि कुर्य्युस्ते अप्रशस्ताः स्मृताः हि ते” इति स्मृतिसंग्रहात् पत्न्यभावे कानीनादय इत्याह। पत्युरपि सपत्नी पुत्रे सति नाधिकारः। “पितृपत्न्यः सर्वामातरः” इति सुमन्तूक्तेः। “विदध्यादौरसः पुत्रो जनन्या और्द्ध्वदेहिकम्। तदभावे सपत्नीजः क्षेत्रजाद्यास्तथा सुताः। तेषामभावे नृपतिस्तदभावे सपिण्डकाः” इति मदनरत्ने कात्यायनोक्तेः “बह्वीनामेकपत्नीनामेष एव विधिः स्मृतः। एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः” इति वृहस्पतिवचनाच्च। अपरार्कोऽप्येवम्। तेन यच्छ्राद्धविवेके उक्तम् “सत्यपि सपत्नीपुत्रे पत्युरेवाधिकार इति तन्निरस्तम्। यच्च तत्रैव कात्यायनः “न भार्य्यायाः पतिर्दद्यादपुत्राया अपि क्वचित्”। यच्च विष्णुपु० “कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्य्या क्रिया नृपेति”। यच्च मार्क० पु० “सर्वाभावे स्त्रियः कुर्य्युः स्वभर्त्तृणाममन्त्रकमिति”। तदासुरादिविवाहोढाविषयम् “धर्म्म्यैर्विवाहैरूढा या मा पत्नी परिकीर्त्तिता। क्रयक्रीता तुया नारी न सा पत्न्यभिधीयते। न सा दैवे न सा पित्र्ये दासीं तां मुनयो विदुरिति” माधवोये शातातपोक्तेः। यत्तु शुद्धिरत्नाकरः शूलपाणिश्च “अपुत्रस्य च या पुत्री सैव पिण्डप्रदाभवेत्। तस्य पिण्डान् दशैकं वा एकाहेनैव निःक्षिपेत्, इति जावालोक्तेः “भर्त्तुर्धनहरा पत्नी तां विना दुहिता स्मृता। अङादङ्गात् सम्भवति पुत्रवद्दुहि- ता नृणामिति” वृहस्पतिना दुहितुर्द्धनहारित्वोक्तेश्च पुत्राभावे कन्या तदभावे पत्नी इत्याहतुः। तत् पूर्बविरोधात् “मातुर्दुहितरः शेषमृणात्ताभ्यऋतेऽन्वयः” इति दुहितुर्मातृधनहारित्वेन पुत्रस्य तच्छाद्धानधिकारापत्तेश्चोपेक्ष्यम्। वचनं भ्रातृपुत्राद्यभावविषयम्। पत्न्यभावे अविभक्तस्य सोदरः पूर्बोक्तशङ्खवचनात्। विभक्तस्य तु दुहिता धनहारित्वात् पूर्बोक्तजाबाल वचनाच्च। तत्राप्युढानूढासमवायेऽप्यूढैव “दुहिता पुत्रवत् कुर्य्यान्मातापित्रोस्तु संस्कृता। अशौचमुदकं पिण्डमेकोद्दिष्टं सदा तयोरिति” भरद्वाजोक्तेः। तदभावे दौहित्रः धनहारित्वात्। “मातापित्रोरुपाध्यायाचार्य्ययोरौर्द्ध्वदेहिकम्। कुर्वन्मातामहस्यापि व्रती न भ्रश्यते व्रतादिति” चन्द्रिकायां वृद्धमनूक्तेः “यथा व्रतस्थोऽपि सुतः पितुः कुर्य्यात्क्रियां नृप!। उदकाद्यां महाबाहो! दौहित्रो दुहितार्हतीति” अपरार्के भविष्योक्तेश्च। एतद्धनहारिण आवश्यकं नान्यस्येत्याह तत्रैव स्कन्दः “श्राद्धं मातामहानां तु अवश्यं धनहारिणा। दौहित्रेणार्थनिष्कृत्यै कर्त्तव्यं पूर्वमुत्तरमिति”। तेन दौहित्रोऽत्र पुत्रीकृत इति देवयाज्ञिकोक्तिः परास्ता। अत्र पत्नीदौहित्रसमवायेऽशंहरत्वात्पत्न्येव कुर्य्यात्। दौहित्रभ्रातृपुत्रसत्त्वे विभक्तस्य दौहित्रः। अविभागे भ्रातृपुत्रः। भ्रातृतत्पुत्रसत्त्वे कनिष्ठश्चेद्भ्रातैव। ज्येष्ठश्चेत्तत्पुत्रः कुर्य्यादिति दाक्षिणात्यग्रन्थः। हारलतादौ तु “भ्रातुर्भ्राता स्वयं चक्रे तद्भार्य्या चेन्न विद्यते। तस्य भ्रातृसुतश्चक्रे यस्य नास्ति सहोदरः” इति ब्राह्मोक्तेः “पत्नी कुर्य्यात् सुताभावे पत्न्यभावे सहोदरः” इति कौर्माच्च। ज्येष्ठभ्रातैव कुर्य्यान्न तत्पुत्रः। यत्तु “नानुजस्य तथा ग्रजः” इति, तत्कनिष्ठभ्रातृसत्त्वविषयम्। यच्च मनुः “स र्वेषामेकजातानामेकश्चेत्पुत्रवान् भवेत्। सर्वास्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत्” इति तत् सोदराभाववि षयमित्युक्तम्। एतेन पुत्रत्वातिदे शोऽयम् अतस्तस्मिन सत्येकादश पुत्राः प्रतिनिधयो न कार्य्याः। स एव पिण्डदोंऽशहरश्च” इत्यत्रापीति वाचस्पतिमनुटीकाकृत्य रत्नाकरादयः परास्ताः। मदनरत्ने स्मृतिसंग्रहे “पुत्रः कुर्यात्पितुः श्राद्धं पत्नी च तदसन्निधौ। धनहार्य्यपि दौहित्रस्ततोभ्राता च तत्सुतः। भ्रात्रोः सहोदरोभ्राता। कुर्य्याद्दाहादि तत्सुतः। ततस्त्वसोदरभ्राता तद- भावे च तत्सुतः” इति। भ्रातृपुत्राभावे क्रमेण पितृमातृस्नुषास्वसृतत्पुत्रादयः धनहारित्वात्। “भगिनीतत्सुतयोर्विशेषमाह मदनरत्ने कात्यायनः “अनुजो ह्यग्रजो वापि भ्रातुः कुर्वीत संस्क्रियाम्। ततस्त्वसोदरस्तद्वत्क्रमेण तर्पयेत्तयोः” अपरार्के कार्ष्णाजिनिः। “पुत्रः शिष्योऽपि वा पत्नी पिता भ्राता स्नुषा गुरुः। स्त्रीहारी धनहारीयः कुर्य्यात्पिण्डोदकक्रियाम्”। मार्कण्डेयपुराणे “पुत्रोभ्राता च तत्पुत्रः पत्नी माता तथा पिता। वित्ताभावे तु शिष्यश्च कुर्वीरन्नौर्ध्वदेहिकम्”। तेन धनहारी एतद्भिन्न इति कालादर्शः। अत्र पाठक्रमो न विवक्षितः पूर्ब्बवाक्येषु अथ ततःशब्दादिभिः श्रौत क्रमोक्तेः “अथ जिह्वाया अथ वक्षसः” इति वत्। कृथ्वीयन्द्रोदये वृद्धमनुः। “स्नुषास्वस्रीयतत्पुत्रज्ञाति सम्बन्धिबान्धवाः। पुत्राभावे तु कुर्वीरन् सपिण्डान्त यर्था विधि”। मार्कण्डेयपुराणे “पुत्राद्युच्छिन्नबन्धोश्च सखापि श्वशुरस्य च। जामाता स्नेहवत् कुर्य्यादखिलं पैतृमेधिकम्”। चन्द्रिकायां वृद्धशातातपः “मातुलोभागिनेयस्य स्वस्रीयो मातुलस्य च। श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च। एतेषाञ्चैव भार्य्याणां श्वशुर्मातुः पितुस्तथा। श्राद्धमेषां तु कर्त्तव्यमिति वेदविदोबिदुः”। शुद्धिविवेके ब्राह्मे “दत्तानां वाप्यदत्तानां कन्यानां कुरुते पिता। चतुर्थेऽहनि तास्तेषां कुर्वीरन् सुसमाहिताः”। दत्ता वाग्दत्ताः। “मातामहानां दौहित्राः कुर्व्यन्त्यहनि चापरे। तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि सर्वदा। जामातुः श्वशुराश्चक्रुस्तेषान्तेऽपि च संयताः। मित्राणां तदपत्यानां श्रोत्रियाणां गुरोस्तथा। भागिनेयसुतानां च सर्वेषान्त्वपरेऽहनि। राज्ञोऽसति सपिण्डे तु निरपत्ये पुरोहितः। मन्त्री वा तदशौचान्ते पुरा चीर्त्वाकरोति सः”। अत्र द्वितीयाहादौ श्राद्धविधानमस्थिसञ्चयनपरम्। कालादर्शे “दाहादि मन्त्रवत्पित्रोर्विदध्यादौरसः सुतः। तदभावे तु पौत्रश्च प्रपौत्रः पुत्रिकासुतः। दौहित्रोधनहारी च भ्राता तत्पुत्र एव च। पिता माता स्नुषा चैव स्वसा तत्पुत्र एव च। सपिण्डः सोदकोमातुः सपिण्डश्च सहोदकः। स्त्री च शिष्यर्त्विगाचार्य्या जामाता च सखाऽपि च। उच्छिन्नबन्धोरिक्थेन कारयेदवनीपतिः”। गौतमः “पुत्राभावे सपिण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्य्यौ”। यत्तु चन्द्रिकाया वृद्धशातातपः “प्रीत्या श्राद्धं प्रकर्त्तव्यं सर्वेषां व- र्णिलिङ्गिनामिति” तत्सवर्णविषयम्। “ब्राह्मणस्त्वन्यवर्ण्णानां न कुर्य्यात्कर्म्म किञ्चन। कामाल्लोभाद्भयान्मोहात् कृत्वा तज्जातिनां व्रजेत्” इति ब्राह्मोक्तेः “न ब्राह्मणेन कर्त्तव्यं शूद्रस्याप्यौर्ध्वदेहिकम्। शूद्रेण वा ब्राह्मणस्य विना पारसवात् क्वचित्” इति पारस्करोक्तेश्च। पारसवः ऊढशूद्धापुत्नः। अत्रेदन्तत्त्वं सर्व्वपुत्रादेः पूर्ब्बस्याभावे पत्न्यादेरधिकार उक्तः। तत्राभावोऽसन्निधिः नाशश्चोच्यते। अतएव पूर्व्वत्र “असन्निधाने पूर्ब्बेषाम्” इत्युक्तम्। तत्रासन्निधौ पत्न्यादेः सर्वत्राधिकारे प्राप्ते “प्रोषितावसिते पुत्रः कालादतिचिरादपि। एकादशाद्याः क्रमशोज्येष्ठस्यविधिवत्क्रियाः” “ज्येष्ठ नैव च यत्कृतम्” इत्याद्यैर्देशान्तरेऽपवादात्पुत्रनाश एव पत्र्यादेः सपिण्डनादावधिकारः। असन्निधौ तु पूर्वमेव नोर्द्ध्वम्। अतोऽनधिकारिणा भ्रात्रादिना कृतमप्यकृतमेवेति पुनरावर्त्तनीयम्। मासिकापकर्षोऽप्यावर्त्तनीयः। एकादशाहमासिकानि नावर्त्त्यन्ते “तज्ज्यायसापि कर्त्तव्यं सपिण्डीकरणं पुनरिति” वदावृत्तिविधानाभावादिति केचित्। तन्न अस्य निर्मूलत्वात्। अतस्तदपि कनिष्ठकृतमावर्त्त्यते वृद्धिश्रौतपिण्डपितृयज्ञार्थं तु कृतं नावर्त्त्यते। नासपिण्डेऽग्निमान् पुत्रः पितृयज्ञं समाचरेत्। न पार्वणं नाभ्युदयिकं कुर्वन्न लभते फलमिति” वृद्ध्युत्तरनिषेधनादिति “भ्राता वा भ्रातृपुत्रो वा” इत्यादिहारीतादिवचोभ्यः कनिष्ठादेरप्यधिकारात् तथा चात्र ज्येष्ठकर्तृकत्वबाधः। सपिण्डने तु बहु वक्तव्यं तन्निर्ण्णये वक्ष्यामः। अधिकारिविशेषेण क्रियाव्यवस्थोक्ता विष्णुपुराणे (पूर्ब्बादिक्रियाः शुद्धितत्त्वे दर्शयिष्यमाणाः)। “प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु। क्रियन्ते याः क्रया पुत्रै प्रोच्यन्तेतानृपोत्तराः। पितृमातृसपिण्डैश्च समानसलिलैस्तथा। तत्सङ्घान्तर्गतैश्चैव राज्ञा वा धनहारिणा। पूर्व्वा मध्याश्च कर्त्तव्याः पुत्राद्यैरेवचोत्तराः। दौहित्रैर्वा नरश्रेष्ठ! कार्य्यास्तत्तनयैस्तथा। मृताहनि तु कर्त्तव्या स्त्रीणामप्युत्तराः कियाः”। दौहित्रतत्पुत्रयोर्द्धनहारिणोरिदम्। एवमन्यत्व धनहर्त्तुः। “यश्चार्थहरः स पिण्डदायी स्यात्” शङ्खोक्तेः। “प्रेतस्य प्रेतकार्य्याणि अकृत्वा धनहारकः। वर्ण्णानां यद्बधे प्रोक्तं तद्व्रतं प्रयतश्चरेदिति “पृथ्वीचन्द्रोदयेव्याघपादोक्तेः। मदनरत्ने स्कान्देऽपि “मलमेतन्मनुष्याणां द्रविणं यत्प्रकीर्त्तित” मित्युक्त्वा “ऋषिभिस्तस्य निर्दिष्टा निष्कृतिः पावनी परा। आदेहपतनात्तस्य कुर्यात्पिण्डोदकक्रियाम्” इत्युक्तम्। क्रियानिबन्धे कात्यायनः “न च माता न च पिता कुर्य्यात्पुत्रस्य पैतृकम्। नाग्रजश्च तथा भ्राता भ्रातॄणां तु कनीयसाम्”। पृथ्वीचन्द्रोदये बौधायनः। “पित्रा श्राद्धं न कर्त्तव्यं पुत्राणां तु कथञ्चन। भ्रात्रा चैव न कर्त्तव्यं भ्रातॄणाञ्च कनीयसाम्। यदि स्नेहेन कुर्वीत सपिण्डीकरणं विना। गयायां तु विशेषेण ज्यायानपि समाचरेत्”। अन्याभावे पित्रादिरपि कुर्य्यात्। “उच्छिन्नबान्धतं प्रेतं पिता भ्राताथ वाऽग्रजः। जननी वापि संस्कुर्य्यान्महदेनोऽन्यथा भवेदिति” सुमन्तूक्तेः। ब्रह्मचारिणां तु शुद्धिद्धिविवेके ब्राह्मे “असमाप्तव्रतस्यापि कर्त्तव्यं ब्रह्मचारिणः। श्राद्धं तु मातापितृमिर्न तु तेषां करोति सः”। श्राद्धं मासिकाव्दिकादि सर्वं कार्य्यमित्यर्थः। नत्विति निषेधोऽन्यसत्त्वे। यत्तुच्छन्दोगपरिशिष्टे “न त्यजेत्सूतके कर्म्म ब्रह्मचारी स्वयं क्वचित्। न दीक्षणात्परं यज्ञे न कृच्छ्रादितपश्चरन्। पितर्य्यपि मृते नैषां दोषोभवति कर्हिचित्। अशौच कर्म्मणां न स्यात् त्र्यहं वा ब्रह्मचारिणाम्”। यच्च याज्ञवल्क्यः “न ब्रह्मचारिणः कुर्य्युरुदकम्पतितास्तथेति”। तदप्यन्यसत्त्वे। अन्यागावे तु ब्रह्मचारिणापि कार्य्यम् पूर्व्वोक्तवृद्धमनु घचनात्। “आचार्य्यपित्रुपाध्यायान् निर्हृत्याऽपि व्रतीव्रती। स तदन्नं च नाश्नीयान्नच तैः सह संवसेदिति” तेनैबोक्तेः। “ब्रह्मचारिणः शवकर्मिणोव्रतान्निवृत्तिः अन्यत्र मातापित्रोरिति” वसिष्ठोक्तेः। अत्राशौचमेकाहं वक्ष्यामः। प्रागुपनयनात्तु पञ्चवर्षोत्तरं सपिण्डीकरणवर्ज्जं षोडशश्राद्धादि सर्व्वं कार्य्यमित्युक्तं देवजानीये “असंस्कृतानां भूमौ पिण्डं दद्यात्संस्कृतानां कुशेष्विति” प्रचेतोवचनात्। एतच्चाग्रे वक्ष्यामः। अविभक्तानां विशेषमाह पृथ्वीचन्द्रोदये मरीचिः। “बहवः स्युर्यदा पुत्राः पितुरेकत्रवासिनः। सर्वेषां तु मतङ्कृत्वा ज्येष्ठेनैव तु यत्कृतम्। द्रव्येण चाविभक्तेन सर्वैरेव कृतम्भवेत्”। ज्येष्ठस्य कर्त्तव्येऽपि सर्वे फलभागिन इत्यर्थः। तेन ये ब्रह्मचर्य्यपरान्नवर्ज्जनादयः कथिताः संस्कारास्ते सर्बेषां भवन्तोति सिद्धम् संसृष्टिनामप्येवम् तुल्यत्वात्। विभक्तानां विशेषमाहोशनाः। “नवश्राद्धं सपिण्डत्वं ब्राद्धान्यपि च षोडश। एकेनैव तु कार्याणि संविभक्त धनेष्वपि”। लघुहारीतः “सपिण्डीकरणान्तानि यानि श्राडानि षोडश। पृथङ्नैव सुताः कुर्युः पृथग्द्रव्या अपि क्वचित्। ऊर्द्ध्वं सपिण्डीकरणात् सर्वे कुर्युः पृथक्पृथक्”। मदनरत्ने “विभक्तास्त पृथक्कुर्युः प्रतिसंवत्सराव्दिकम्। एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम्” एतेनाब्दिकादिष्वविभक्तानामनियम इति वदन् शूलपाणिः परास्तः”। अयमधिकारिक्रमोदाक्षिणात्यप्रचलितः।

गौडदेशवासिभिस्तु रघुनन्दनमतानुसारिणी व्यवस्थाद्रियते सा च व्यवस्था शुद्धितत्त्वे तेन दर्शिता यथा व्याघ्रः “कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च”। एतच्च पुत्रेतरपरम् “असंस्कृतः सुतः श्रेष्ठोनापरोवेदपारगः” इति दायभागधृतात्। अन्यथा सुतत्वेन विशेषोपादानं व्यर्थं स्यात्। श्राद्धेऽनुपनीतस्य मन्त्रपाठाधिकारमाह मनुः। “नाभिव्याहारयेद्व्रह्म स्वधानिनयनादृते। शूद्रेण हि समस्तावद्यावद्वेदे न जायते”। अभिव्याहारयेत् वदेदिति यावत् स्वार्थेणिच्। तत्र प्रथमतोज्येष्ठपुत्रः यथाह मरीचिः “मृते पितरि पुत्रेण क्रिया कार्य्या विधानतः। बहवः स्युर्यदा पुत्राः पितुरेकत्र वासिनः। सर्वेषास्तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम्। द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्”। तदभावे यथाक्रमं कनिष्ठपुत्रपौत्रप्रपौत्राः। तथाच विष्णुपुराणम् “पुत्रः पौत्रः प्रपौत्रो वा तद्वद्वा भ्रातृसन्ततिः। सपिण्डसन्ततिर्वापि क्रियार्हा नृप! जायते”। एतच्च षोडशश्राद्धपर्य्यन्तम् तथाच छन्दोगपरिशिष्टम् “पितामहः पितुः पश्चात् प्रेतत्वं यदि गच्छति। पौत्रेणैकादशाहादि कर्त्तव्यं श्राद्धषोडशम्। नैतत् पौत्रेण कर्त्तव्यं पुत्रवांश्चेत् पितामहः”। सपिण्डीकरणपर्य्यन्तमपृथक्कर्त्तव्यमाह लघुहारीतः “सपिण्डीकरणान्तानि यानि श्राद्धानि षोडश। पृथङ्नैव सुताः कुर्य्युः पृथग्द्रव्या अपि क्वचित्”। एषामभावे पत्नी तथाच शङ्खः “पितुः पुत्रेण कर्त्तव्या पिण्डदानोदकक्रिया। तदभावे तु पत्नी स्यात्तदभावे सहोदरः। भार्य्यापिण्डं पतिर्दद्यात् भर्त्रेभार्य्या तथैव च”। इति “अपुत्रधनं पत्न्यभिगामि तदभावे दुहितृगामीत्यादि” विष्ण्वादिवचनेन धनाधिकारश्रुतेः। तदभावे इति प्रपौत्रपर्य्यन्ताभावपरं पार्वणपिण्डदातृत्वेन धनाधिकारित्वेन च तेषां बलवत्त्वात्। “अपुत्रा स्त्री यथा पुत्रः पुत्रवत्यपि भर्त्तरि। पिण्डं दद्यात् जलञ्चैव जलमात्रन्तु पुत्रिणी” इति निर्मूलं समूलत्वेऽपि बालदेशान्तरितपुत्रसद्भावविषयमिति श्राद्धविवेकप्रभृतयः। पत्न्यभावे कन्या। “अपुत्रस्य तु या पुत्री सैव पिण्डप्रदा भवेत्। तस्य पिण्डान् दशैवैतानेकाहेनैव निर्वपेत्” इति ऋष्यशृङ्गवचनात् “गोत्रऋक्थानुगः पिण्डः” इति मनुवचनेन दत्ताद्यपेक्षया तस्याबलवत्वात्। कन्याभावे यथाक्रमं वाग्दत्तादत्तादौहित्राः “दत्तानां चाप्यदत्तानां कन्यानां कुरुते पिता। चतुर्थेऽहनि मास्तेषां कुर्वीरन् सुसमाहिताः” इति ब्रह्मपुराणवचनात्। ननु “दुहिता पुत्रवत् कुर्य्यान्मातापित्रोश्च संस्कृता। अशौवमुदकं पिण्डमेकोद्दिष्टं सदा तयोः” इति शङ्खवचनात् पुत्रानन्तरमेव दुहित्रधिकारश्रुतेः इति चेन्न पत्न्याः प्रथमं धनाधिकारश्रुतेः यथा याज्ञवल्क्यः। “पत्नी दुहितरश्चैव पितरौ भ्रातरस्तया। तत्सुतोगोत्रजोबन्धुः शिष्य सुब्रह्मचारिणः। एषामभावे पूर्वेषां धनभागुत्तरोत्तरः” इति। तथा “मातामहानां दौहित्राः कुर्वन्त्यहनि चापरे”। इति ब्रह्मपुराणात्। “पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धम्मतः। तयोर्हि माता पितरौ संभूतौ तस्य देहतः”। इति मनुचनेन “पौत्रदौहित्रसयुक्ता ये तथा चिरजीविनः। प्रियङ्कराश्च बालानां ते नराः स्वर्गगामिनः” इति विष्णुधर्म्मोत्तरेण पौत्रतुल्यताभिधानाच्च। तेन यथा पुत्राभावे पौत्रस्तथादुहित्रभावे दौहित्रः। न च दत्तकन्यादौहित्राभ्यां प्राक्सगोत्रत्वात् सोदराधिकार इति वाच्यम् गोत्रबलापेक्षया पिण्डदानादेर्धनसाध्यत्वात् ऋक्थग्राहिणोर्दुहितृदौहित्रयोर्बलवत्त्वात्। अत एव दुहितृधनाधिकारे तद्धनेनं मृतोपकारकरणं हेतुरित्याहापस्तम्बः। “अन्तेवास्यार्थांस्तदर्थेषु धर्म्मकृत्येषु प्रयोजयेत् दुहिता वेति” तदर्थेषु मासिकादिना तद्भोगार्थं धर्मकृत्येष्वदृष्टार्थमिति। “गोत्रऋक्थानुगः पिण्डः” इति मनूक्तेः। “अनंशौ क्लीवपतितौ जात्यन्धवधिरौ तथा। उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः”। इति मनूक्तानां “पितृद्विट्पतितः षण्डोयश्च स्यादौपपातिकः। औरसाअपि नैतेऽंशं लभेरन् क्षेत्नजाः कुतः” इति नारोदोक्तानाञ्च भागानधिकारिणां पिण्डदानानधिकारः। जात्यन्धबधिरौ जन्मप्रभृतिअन्धबधिरौ निरिन्द्रियाः पङ्ग्वदयः श्रौतस्मार्त्तकर्म्मानधिकारिणोऽपि गृह्यन्ते इति रत्नाकरः। तथाच वृद्धशातातपः। “चाण्डालं पतितं व्यङ्गमुन्मत्तं शवहारकम्। सूतिकां सूयिकां नारीं रजसा च परिप्लुताम्। श्वकुक्वुटवराहांश्च ग्राम्यान् संस्पृश्य मानवः। सचेलं सशिरःस्नात्वा तदानीमेव शु- ध्यति”। व्यङ्गः पाण्यादिविकलः। व्यङ्गोन्मत्तयोः सदाचारहीनत्वात् अस्पृश्यतेति प्रायश्चित्तविवेकः। श्रौतस्मार्त्तक्रियानधिकारित्वं सदाचारहोनत्वञ्च मूत्रपुरीषाद्यशौचापनयनासमर्थत्वेनेति बोध्यम्। सूयिकां प्रसवकारयित्रीम्। पितृद्विट् पोषणौर्द्ध्वदेहिकविमुखः। औपपातिकः उपपातकैः संस्पृष्टः। उपपातकेति प्रकाशकारपाठेऽपि सएवार्थः। अपपात्रित इति पाठे तु राजबधादिदोषेण बान्धवैर्यस्य घटापवर्ज्जनं कृतमिति कल्पतरुः। व्यक्तं याज्ञबल्क्येनोक्तम् “न ब्रह्मचारिणः कुर्य्युरुदकं पतिता न च। पाषाण्डमाश्रितास्तनान व्रात्या न विकर्मणः। गर्भभर्त्तृद्रुहश्चैव सुरापाश्चैव योषितः”। पाषण्डं त्रयीबाह्यधर्मम्। स्तेनाः सततं चौर्य्यवृत्तयः। व्रात्याःषोडशवर्षपर्य्यन्तमप्राप्तोपनयनाः, विकर्मणः आलस्येनाश्रद्दधानतया स्वधर्म्माननुष्ठायिनः व्यङ्गत्वादिना स्वधर्म्मानुष्ठानासमर्थाश्च बोध्या इति “कश्चित् क्षिपति सत्पुत्रोदौहित्रोवा सहोदरः। गृहीत्वास्थीनि तद्भस्म नीत्वा तोये विनिःक्षिपेत्” इत्यादिपुराणे क्रमदर्शनादत्रापि दौहित्राभावे सोदरः पूर्व्योक्तशङ्खवचनेऽप्येवं क्रमोबोध्यः। अत्र ज्येष्ठः कनिष्ठश्चाविशेषात्। “नानुजस्य तथाग्रज” इति छन्दोगपरिशिष्टं कनिष्ठभ्रातृसद्भावविषयं तयोरभावं तथाविधौ वैमात्रेयौ। “भ्रातुर्भ्राता स्वयं चक्रे तद्भार्य्या चेन्न विद्यते। तस्य भ्रातृसुतश्चक्रे यस्य नास्ति सहोदरः” इति ब्रह्मपुराणाद्वैमात्रेयस्यापि एकजातत्वेन भ्रातृत्वात्। “देशान्तरस्थक्लीवैकवृषणानसहोदरान्” इत्यादिछन्दोगपरिष्टेन परिवेदने वैमात्रेयस्य भ्रातृत्वप्रसक्तावसहोदरानित्यनेन प्रतिप्रसवाच्च। पितृव्यपुत्रादौ भ्रातृपदप्रयोगो गौणः। गुणश्च वीजिपुरुषापेक्षया समानसंख्यजनकजम्यत्वमिति। धनिपित्रादि पिण्डद्वयद तुः सोदरपुत्राद् धनिपित्रादिपिण्डत्रयदा तृत्वाद्वैमात्रेयस्य धनाधिकारित्वेन बलवत्त्वाच्च। ततश्च सहोदरैति पूर्व्वार्द्ध्वानुरोधात् वैमात्रेयपरमपि अन्यथा सहोदराभावे वैमात्रेयसत्त्वे वैमात्रेयपुत्र घिकारापत्तेः। तेन वैमात्रेयाभावे सोदरवैमात्रेयभ्रातृक्रमवत् सोदरपुत्रस्तदभावे वैमात्रेयपुत्रः। तन्मातृभोम्यपिण्डदातृतया प्रथमाधिकारित्वेन बलवत्त्वात् तस्यातिदिष्टपुत्रत्वाच्च। तदभावे पिता। “पुत्रोभ्राता पिता वापि मातुलोगुरुरेवच। एते पिण्डप्रदाज्ञेयाः सगोत्राश्चैव बान्धवाः” इति प्रचेतोवचनात्। “न पुत्रस्य पिता दद्यात्” इति छन्दोग- परिशिष्टं भ्रातृपुत्रपर्य्यन्तसद्भावविषयम्। तदभावे माता। “पुत्रोभ्राता पिता वापि” इत्यत्रापिशब्देन मातुः समुच्चयात्। “पितरौ भ्रातरस्तथेत्यादौ धनाधिकारे तथा दर्शनाच्च। अतएव श्राद्धविवेके पितुरभावे तुल्यन्यायतया मातापीत्युक्तमिति। तदभावे पुत्रबधूः। तथाच शङ्खः “भार्य्यापिण्डं पतिर्दद्यात् भर्त्त्रे भार्य्या तथैव च। श्वश्र्वादेश्च स्नुषा चैव तदभावे द्विजोत्तमः”। अत्रादिप दात् श्वशुरादेरपि परिग्रहः इतरत्र स्नुषात्वाभावात्। द्विजोत्तमैत्यत्र सपिण्डक इति मैथिलानां पाठः। स्वस्वपदोपात्तसपिण्डविशेषाभावे “अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्” इति धनाधिकारे तथादर्शनादत्रापि सन्निधितारतम्येन माता पुत्रबधूः पौत्री पौत्रबधूः प्रपौत्री प्रपौत्रबधूः पितामहः पितामही पितृव्यादयः सपिण्डाश्चाधिकारिणः” “पुत्रामावे स पिण्डाः” इति वक्ष्यमाणवचनात्। शङ्खवचनस्थमैथिलपाठाच्च। तदभावे समानोदकाः! “सपिण्डसन्तनितिर्वापि” इति वक्ष्यमाणात्। सपिण्डसन्ततिः समानोदकाइत्यर्थः। तदभावे सगोत्राः “सगोत्राश्चैवेति” “गोत्रऋक्थानुगःपिण्डः” इत्युक्तत्वात् “एषामभावे सर्व्वेषां समानोदकसन्ततिरिति” वक्ष्यमाणाच्च। तदभावे मातामहः “दातामहाना दौहित्राः कुर्वन्त्यहनि चापरे। तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि सर्वदा” इति ब्रह्मपुराणात्। तदभावे मातुलः तदभावे भागिनेयः “मातु लोभागिनेयस्य स्वस्रीयोमातुलस्य च” इति शातातपीयपाठक्रमात्। तदभावे सन्निधिक्रमेण मातामहसपिण्डाः। तदभावे मातामहसमानोदकाः। “सपिण्डसन्ततिर्व्वापि क्रियाहानृप! जायते। एषामभावे सर्वेषां समानोदकसन्ततिः। मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा” विष्णुपुराणात्। तदभावे श्वशुरः तदभावे जामाता “जामातुः श्वशुराश्चक्रुस्तेषां तेऽपि च संयताः” इति ब्रह्मपुराणपाठक्रमात्। तदभावे पितामहीभ्राता। “भागिनेयसुतानाञ्च सर्व्वेषान्त्वपरेहऽनि। श्राद्धं कार्य्यञ्च प्रथमे स्नात्वा कृत्वा जलक्रियाम्” इति ब्रह्मपुराणात्। अपरेऽहनि इत्यत्राशौचान्तदिनस्येति शेषः। तदभावे यथाक्रमं शिष्यर्त्विगाचार्य्याः गौतमेन “पुत्त्राभावे सपिण्डाः मातृसपिण्डा वा शिष्या वा दद्युः तदभावे ॠत्विगाचार्य्यौ” इत्युक्तत्वात्। तदभावे सुहृत्पितृसुहृदौ “मित्राणां तदपत्यानामिति” व्रह्मपुराणपाठक्रमात्। तदमावे एकग्रामवासी। “संघातान्तर्गतैर्वापि कार्य्या प्रेतस्य- सत्क्रिया” इति विष्णुपुराणात् तदभावे तद्धनं गृहीत्वा यः कश्चित् सवर्णः। “उच्छन्नबन्धुश्चेच्छ्राद्धं कारयेदवनीपतिः” इति विष्णुपुराणात्। और्द्ध्वदेहिकमधिकृत्य शिष्णुपुराणं “व्राह्मणस्त्वन्यवर्णानां न करोति कदाचन। कामाल्लोभाद्भयान्मोहात् कृत्वा तज्जातितामियात्”।

स्त्रियास्तु यथाक्रमं पुत्त्रपौत्त्रप्रपौत्राः विष्णुपुराणे “पुत्रः पौत्रः प्रपौत्रो वा” इत्यविशेषश्रुतेः। तदभावे कन्या। “अपुत्रस्य च या पूत्री” इतस्योद्देश्यगतलिङ्गाविवक्षया स्त्री पुंसाधारणत्वात् धनाधिकारित्वाच्च। तदभावे वाग्दत्ता “दत्तानामप्यदत्तानाम्” इत्यत्रापि पितृपदस्य मातृपदोपलक्षकत्वात्। तदभावे दत्ता “दुहिता पुत्रवत् कुर्य्यान्मातापित्रोश्च संस्कृता” इति मनुवचनात्। तदभावे दौहित्रः प्रागुक्तब्रह्मपुराणे तथा दर्शनात्। “पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्म्मतः। तयोर्हि मातापितरौ सम्भूतौ तस्य देहतः” इत्यनेन यथा पुत्राभावे पौत्रः तथा दुहित्रभावे दौहित्रः इति प्रागेव उक्तत्वात्। “मातुलोभागिनेयस्य स्वस्रीयोमातुलस्य च। श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च। एतेषां चैव भार्य्याभ्यः स्वमुर्मातुः पितुस्तथा। पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः” इति वृद्धशातातपवचनेन मातामह्याश्च साक्षात् दौहित्रेण पिण्डदानश्रुतेः धनाधिकारित्वाच्च। दौहित्राभावे सपत्नीपुत्रः। तस्य पुत्र त्वस्मरणात्। यथाह मनुः। “सर्व्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत्। सर्व्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः”। एकपत्नीनामिति एक्वः पतिर्यासामिति अत्र सपत्नीपुत्रस्य पुत्रत्वातिदेशात् तत्सत्त्वेऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्तं तन्न “पुत्रेणैव तु कर्त्तव्यं सपिण्डीकरणं स्त्रियाः। पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्रादयोपि ये” इति लघुहारीतवचने एवकारेणातिदिष्टपुत्रनिषेधात्। अतएवोत्तरार्द्धे म्नातृपुत्रोपादानं सङ्गच्छते। अन्यथा पुंसां तत्र पुत्रत्वातिदेशात् पुत्रत्वेनैव प्राप्तेः भ्रातृपुत्रोपादानं व्यर्थं स्यात्। तथाह मनुः। “भ्रातॄणामेकजातनामेकश्चेत् पुत्रवान् भवेत्। सर्वे ते तेन पुत्रेण पुत्रिणोमनुरब्रवीत्” एकजातानामेकपितामातृजातानां तथाच “वृहस्पतिः। यद्येकजातावहवोभ्रातरः स्युः सहोदराः। एकस्यापि सुते जाते सर्व्वेते पुत्रिणोमताः”। एतन्यायमूलं तदिति चेन्न आदिपदग्राह्येषु “भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्यएव वा। सहपिण्डक्रियां कृत्वा कुर्य्यादभ्युदयन्ततः” इति लघुहारीतीक्तेषु न्यायानुपपत्तेः। भ्राता वेति वाशब्दात् पूर्वेषां दौहित्रादीनां तदपेक्षया प्रधानाधिकारिणां समुच्चयः। अत एव सपिण्डत्वेनैव भ्रातृतत्पुत्रयोरधिकारसिद्धौ पृथगुपादानं प्राधान्यज्ञापनार्थम्। पुत्रत्वातिदेशफलन्तु पुन्नामनरकनिस्तारः। अतस्तत्सत्त्वे क्षेत्रजाद्यकरणञ्च। तथाहि “पुन्नाम्नोनरकाद्यस्मात्त्रायते पितरं सुतः। मुखसन्दर्शनेनापि तदुत्पत्तौ यतेत सः” इति मनुवचने पुन्नामनरकत्राणाय पुत्त्रोत्पादनं विहितम्। तच्च फलं यद्यतिदिष्टपुत्राभ्यां भ्रातृसपत्नीजाभ्यां निष्पन्नं तदा सिद्धे इच्छाविरहात् तदुपायान्तरपुत्रप्रतिनिधीभूतक्षेत्रजादेर्नोपादानम्। पुत्रोत्पादनन्तु तथापि कार्य्यं पुत्रसत्त्वेऽपि पुत्रान्तरेच्छाविधानेन तत्कर्त्तव्यताप्रतीतेः यथा मत्स्य पुराणम्। “एष्टव्याबहवः पुत्रायद्यप्येकीगयां व्रजेत्। यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्”। एवमेव कल्पतरुपारिजातशूलपाणिमहामहोपाध्यायरत्नाकरवाच स्पतिमिश्रादयः। स्त्रीणामपि पुत्त्रात् पुन्नामनरक निस्तारणमाहतूरत्नाकरे शङ्खलिखितौ “आत्मा पुत्त्र इति प्रोक्तः पितुर्मातुरनुग्रहात्। पुन्नाम्नस्त्रायते पुत्त्रस्तेनापि पुत्त्रसंज्ञितः”। पूर्वोक्तलघुहारीतवचने पुत्त्रेणेति तत्सत्त्वमात्रं विवक्षितम्। “सपिण्डीकरणन्तानाम् पुत्त्राभावे न विद्यते” इति मार्कण्डेयपुराणैकवाक्यत्वात्। “यानि पञ्चदशाद्यानि अपुत्त्रस्येतराणि च। एकस्यैव तु दातव्यमपुत्त्रायाश्च योषितः” इति छन्दोगपरिशिष्टेनापुत्त्राया एवाद्यपञ्चदशश्राद्धैः प्रेतत्वपरिहारोक्तत्वाच्च। एतत् पत्युरभावे द्रष्टव्यम्। “अपुत्त्रायां मृतायान्तु पतिः कुर्य्यात् सपिण्डनम्। श्वश्र्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत्” इति पैठीनसिवचनात्। ततश्च यथा शिशौ पुत्रेऽन्येन्यापि सपिण्ड्यते। एवं पतिसत्त्वेऽपि। अतएव मैथिलैरवीवरायाः सपिण्डनं नास्तीत्युक्तम् तदमावे पतिः। “भार्य्यापिण्डं पतिर्दद्यात्” इति शङ्खवचनात्। “न जायायाः पतिः कुर्य्यादपुत्राया अपि क्वचित्” इति छन्दोगपरिशिष्टवचनम् मपत्नीपुत्रपर्य्यन्तसद्भावविषयम्। पत्यभावे स्नुषा “श्वश्र्वादेश्च स्नुषा चैव” इति यमवचनात्। तदभावे सान्निध्यक्रमेण सपिण्डाः। शङ्खवचने “तदभावे सपिण्डकाः इति मैथिलपाठात्”। “तदभावे सपिण्डः” इति पूर्वोक्तगोतमवचने सामान्यतः श्रुतेश्च। तदभावे सनानीदकाः। “सपिण्डसन्ततिर्वेत्यविशे- षश्रुतेः। तदभावे सगोत्राः। समानोदकसन्ततिरिति वक्ष्यमाणात्। श्राद्धविवेकेऽप्येवम्। एषामभावे पिता। “दत्तानाञ्चाप्यदत्तानां कन्यानां कुरुते पिता” इत्युक्तत्वात्। तदभावे भ्राता। “पुत्रोभ्राता पिता वापि” इत्यविशेषश्रुतेः। तदभावे यथाक्रमं दायभागोक्तोपकारतारतम्येन “मातुलोभागिनेयस्थ स्वस्रीयोमातुलस्य च। श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च। एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा। पिण्डदानन्तु कर्त्तव्यमिति वेदविदां स्थितिः” इति शातापबचनात् भगिनीपुत्रभर्त्तृभागिनेयभ्रातृपुत्रजामातृभर्त्तृमातुलभर्त्तृशिष्याः पत्यपेक्षया पौत्रादिवत् पिण्डदामतारतम्येन क्रमेणा धिकारिणः। तथाहि तत्पिण्डतत्पुत्रदेयतत्पित्रादिपिण्डत्रयदातृत्वात् भगिनीपुत्रः। तदभावे भर्त्तृभागिनेथः। पुत्राद्भर्त्तुर्दुबलत्वेन तत्स्थानपातिनोऽपि तथैवा। बलाबलस्य न्याय्यत्वेन तद्भर्त्तृदेयपुरुषत्रयपिण्डतद्भर्त्त पिण्डदत्वात्। तदभावे भ्रातृपुत्रः। तत्पिण्डतत्पुत्रदेयतत्पित्रादिपिण्डद्वयदत्वात्। तदभावे जामाता। “मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा। श्वश्रूः पूर्व्वजपत्नी च मातृतुल्या प्रकीर्त्तिता” इति वृहस्पतिबचनेन मातृष्वस्रादीनां मातृतुल्यत्वाभिधानात्। स्वस्रीयाद्यैः सह जामातुः पुत्रतुल्यत्वप्रतीतेः। अतएव तेषां धनभागित्वमाह वृहस्पतिः। “यदासामौरसोन स्यात् सुतोदौहित्रएव वा। तत्सुतोवा धनं तासां खस्रीयाद्याः समाप्नुयुः”। धनग्राहित्वेनापि पिण्डदातृत्वमाह मनुः। “गोत्रऋक्थानुगःपिण्डः” इति। तदभावे भत्तृमातुलभर्त्तृशिष्याः क्रमेणाधिकारिणः शातातपीयपाठक्रमानुरोधात्। प्रातिस्विकानामभावे पितृवंश्यमातृवंश्यौ। “पितृमातृसपिण्डैश्च समानसलिलेर्नृप!” इति ब्रह्मपुराणेऽविशेषश्रुतेः। तयोरभावेऽसम्बन्धी द्विजोत्तमः पूर्व्वोक्तशङ्खवचने द्विजोत्तम इति गौडीयपाठात् संघातान्तर्गतैर्व्वापीति अविशेषश्रुतेः।

त्रिधाक्रियाकर्त्तॄनाह विष्णुपुराणम् “पुत्रः पौत्रः प्रपौत्रोवा तद्वद्वा भ्रातृसन्ततिः। सपिण्डसन्ततिर्वापिक्रियार्हा नृप! जायते। एषामभावं सर्वेषां समानोदकसन्ततिः। मातृपक्षस्य पिण्डेन सम्बद्धांये जलेन वा। कुलद्वयेऽपि वोत्सन्ने स्त्रीभिः कार्य्या क्रिया नृप। संघातान्तर्गतैवापि कार्य्या प्रेतस्य सत्क्रिया। उत्सन्नबन्धोरृक्थाद्वा कारयदेवनीपतिः। पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः। त्रिप्रकाराः क्रियाह्येतास्तासां भेदान् शृणुष्व मे। आदाहवाय्यांयुधादिस्पर्शाद्यन्ताश्च याः क्रियाः। ताः पूर्वामध्यमामासिमास्येकोद्दिष्टसंज्ञिताः। प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु। क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते तानृपोत्तराः। पितृमातृसपिण्डैश्च समानसलिलैर्नृप!। संघातान्तर्गतैर्वापि राज्ञा वा धनहारिणा। पूर्वक्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः। दौहित्रैर्वा नरश्रेष्ठ! कार्य्यास्तत्तनयैस्तथा। मृताहनि तु कर्त्तव्याः स्त्रोणामप्युत्तराः क्रियाः। प्रतिसंवत्सरं राजन्। एकोद्दिष्टं विधानतः”। आदाहेति दाहावधेरशौचान्तविहितवार्य्यायुधादिस्पर्शाद्यन्तास्ताः पूर्वाः। मासिमासीत्येकादशाहादिसपिण्डनान्तप्रेतक्रियोपलक्षणम्। सपिण्डनोत्तराः पार्वणादिक्रिया उत्तराः। अत्र पुत्रादिसपिण्डादयः पूर्वाः क्रिया अवश्यं कुर्य्युः। मध्यमक्रियायामनियमः। उत्तरक्रियायां पुत्रादयो भ्रातृसन्ततिपर्य्यन्तानियताः। श्राद्धविवेकेऽप्येवम्। दौहित्रैर्वेति वाशब्दः समुच्चयार्थः तेन दौहित्रोऽप्युत्तरक्रियायां नियताधिकारी। दौहित्रतनयैरिति पुत्रिकापुत्रविषयमिति कल्पतरुः। कर्त्तृप्रकरणात् स्त्रीणामिति “वा कर्त्तरि कृत्ये” इति कर्त्तरि षष्ठी। उत्तरक्रियायां प्रतिसंवत्सरमेकोद्दिष्टविधाननियमात्। न पार्वणवृद्धिश्राद्धादौ स्त्रीणामधिकारः। मार्कण्डेयपुराणम् “सर्वाभावे स्त्रियः कुर्य्युः स्वभर्तॄणाममन्त्रकम्। तदभावे च नृपतिः कारयेत् स्वकुटुम्बवत्। स्त्रीणामप्येवममेवंतदेकोद्दिष्टमुदाहृतम्। मृताहनि यथान्यायं नॄणां यद्वदिहोदितम्”। स्त्रियोऽत्रासवर्णोढाऽपरिणीता वेति श्राद्धविवेकः। सवर्णोढायाःपुत्रपौत्रपर्य्यन्ताभावएव विधानात्। स्त्रीणामिति तु संप्रदानपरम्। एवमेवामन्त्रकमिति श्राद्धविवेकः। अत्र स्त्रियैत्यस्यासवर्णोढाऽपरिणीतापरत्वव्याख्यानात् स्त्रीणां मन्त्रतिषेधोऽपि तत्संप्रदानकश्राद्धएवावगम्यते। नतु स्त्रीमात्रसंप्रदानके। एतच्च विप्रेतरपरं तस्य हीनवर्णश्राद्धनिषेधात्। कल्पतरौ तु स्त्रीणामप्येवमिति सम्बन्धेन स्त्रीणामेतत् कर्त्तव्यमिति एतद्व्यख्यने स्त्रीसम्प्रदानकश्राद्धे सुतरां मन्त्राः पाठ्याः। याज्ञवल्क्येनापि समन्त्रकमेकोद्दिष्टं सपिण्डीनञ्चोक्त्वा। एतत् सपिण्डकरणमेकोद्दिष्टं स्त्रियाअपि इत्यनेन स्त्रियाअपि तथैवेत्युक्तम्। “मातुः सपिण्डीकरणं पितामह्या सहोदितम्। यथोक्तेनैव कल्पेन पुत्रिकाया न चेत् सुतः” इति छन्दोगपरिशिष्टेनापि यथोक्तेनैव कल्पेनेत्यनेन मन्त्रादिकमतिदिष्टम्। व्यवहारोऽपि तथेति।

तदयसंक्षेपः। ज्येष्टपुत्रकनिष्ठपुत्रपौत्रप्रपौत्रापुत्रपत्नीकम्मासमर्थपुत्रयुक्तपत्नीकन्यावाग्दत्तादत्तकन्यादौहित्रकनिष्ठसहोदरज्येष्ठसहोदरकनिष्ठवैमात्रेयज्येष्ठवैमात्रेयकनिष्ठस होदरपुत्रज्येष्ठसोदरपुत्रकनिष्ठवैमात्रेयपुत्रज्येष्ठवैमात्रेयपुत्त्रपितृमातृपुत्त्रबधूपौत्रीपौत्रबधूप्रपौत्रीप्रपौत्रबधूपितामहपितामहीपितृव्यादिसपिण्डसमानोदकसगोत्रमातामहमातुलभागिनेयमातृपक्षसपिण्डतत्समानोदकासवर्णभार्य्याऽपरिणीतस्त्रीश्वशुरजामातृपितामहीभ्रातृशिष्यर्त्विगाचार्य्य मित्रपितृमित्रैकग्रामवास्यगृहीतवेतनसजातीयाः अष्टचत्वारिंशत्प्रकाराः क्रमेणाधिकारिणः।

स्त्रियास्तु ज्येष्ठपुत्रकनिष्ठपुत्रपौत्रप्रपौत्रकन्यावाग्दत्तादत्तादौहित्रसपत्नीपुत्रपतिस्नुषासपिण्डसमानोदकसगोत्रपितृभ्रातृभगिनीपुत्रभर्त्तृभागिनेयभ्रातृपुत्रजामातृभर्त्तृमातुलभर्त्तृशिष्यपितृसमानोदकपितृवंश्यमातृसमानोदकमा तृवंश्यद्विजोत्तमाश्चतुर्विंशतिप्रतिकाराः” इति

अथाविदकश्राद्धरूपैकोदिष्टे विशेषः श्रा० त० निर्ण्णीतः यथा गोभिलः। “अतऊर्द्ध्वं संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यादिति”। अतऊर्द्ध्वं सपिण्डीक रणान्तश्राद्धनिमित्तादाद्यसंवत्सरादूर्द्ध्वं संवत्सरे संवत्सरे प्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्नहनि मृताय दद्यात्। व्याघ्रः। “प्रतिमंवत्सरञ्चैवमेकोद्दिष्टं मृताहनि”। एतेन सपिण्डीकरणापकर्षे आद्यसंवत्सरेऽपि मृताहे श्राद्धान्तरं कर्त्तव्यमिति मैथिलोक्तं हेयम्। व्यक्तमाह हेमाद्रिधृतवचनम्। “पूर्णे संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम्। तेनैव च सपिण्डत्वं तेनैवाविदकमिष्यते”। अत्र पूणसवत्सरक्रियमाणश्राद्धाद्यथीभयनिर्व्वाहस्तथापकृष्टसपिण्डीकरणश्राद्धादप्युभयनिर्व्वाहो न पूर्णसंवत्सरे आव्दिकान्तरम् एवं पञ्चदशश्राद्धेऽप्युन्नेयम्। मत्स्यपुराणम् “ततःप्रभृति संक्रान्तावुपरागादिपर्व्वसु। त्रिपिण्डमाचरेत् श्राद्धमेकोद्दिष्टं मृताहनि”। ततः प्रेतत्वपरीहारात् त्रिपिण्डं त्रैपुरुषम्। निरुपपदमृताहशब्दः मृतसम्बन्धिमासपक्षतिथिविशेषपरः। उपपदात्तु क्वचित्तिथिविशेषमात्रपरः। यथा मृताहे प्रतिमासम् कुर्य्यादित्यादौ। शङ्खः “सपिण्डीकरणादूर्द्ध्वं यत्रयत्र प्रदीयते। तत्र तत्र त्रयम् कुर्य्यात् वर्जयित्वा मृताहनि। अमावस्याम् क्षयो यस्य प्रेतपक्षेऽथवा पुनः। सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्व्वणो विधिः”। त्नयं सम्प्रदानानां त्रयं कुर्य्यात् त्रिभ्यो दद्यादित्यर्थः। मृताहपर्य्युदस्तत्रिदेवतत्वस्य प्रतिप्रसवमाह अमावस्यामिति प्रेतपक्षोऽत्र पितृपक्षः अश्वयुक्कृष्णपक्ष इति यावत् न तु कृष्णपक्षमात्रं कृष्णपक्षसामात्यपरत्वेऽमावास्यापदवैयर्थ्यापत्तेः। पितृपक्षं विशेषयति हेमाद्रिमाधवाचार्य्यधृतं नागरखण्डम् “नभोवाथ नभस्योवा मलमासो सदा भवेत्। सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः”। अत्र श्रावणभाद्रयोरन्यतरस्य मलमासत्वे आषाढ्यपेक्षया सप्तमपक्षस्य पितृपक्षत्वम्। अत्रमृतस्यैव प्रेतपक्षमृतत्वं न तु मलमासभाद्रकृष्णपक्षमृतस्य। ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक्कृष्णपक्षेऽपि तच्छ्राद्धकरणे न पार्व्वणं किन्त्वेकोद्दिष्टमिति। अत्र पार्व्वणोविधिः पार्व्वणेतिकर्त्तव्यताकैकोद्दिष्टविधिरिति नव्यवर्द्धमानप्रभृतयः। तन्न पूर्व्ववचनोक्तत्रैपुरुषिकस्य मृताहे पर्य्युदस्तस्य पार्वणो विधिरित्यनेन प्रतिप्रसवात् तस्मात् सदैवकैकोद्दिष्टं त्रैपुरुषिकं नतु षाट्पौरुषिकं “कर्षूसमन्वितं मुक्त्वा त थाद्यं श्राद्धषोडशम्। प्रत्याब्दिकञ्च शेषेषु पिण्डाः स्युःषडितिस्थितिः” इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दिकव्यतिरेकेण षट्संख्यानियमात्। एवममावास्यादिमरणनिमित्तेन मातुरपि प्रत्याव्दिकं पार्व्वणविधिनैव “अपुत्रा ये मृताः केचित् स्त्रियोवा पुरुषाश्च ये। तेषामपि च देयं स्यादेकोद्दिष्टं न पार्व्वणम्” इति आपस्तम्बवचने अपुत्त्रा इति विशेषणीपादानात् सपुत्राणां पार्व्वणाभ्यनुज्ञानात्। एतच्च मात्रादित्रितयदैवतं कार्य्यम्। “मात्रेपितामह्यैप्रपितामहह्यै च पूर्व्ववत् व्राह्मणान् भोजयित्वा” इत्यन्वष्टकायां तथादर्शनात् अवसानदिनमिमित्तत्वेन पार्वणविधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धं कर्त्तव्यं “न येषिद्भ्यः पृथग्दद्यादवसानदिनादृतें इति छन्दोगपरिशिष्टवचने विशेषतः प्रतिप्रसवात्। एवं सपिण्डीकरणेऽपि। एतच्च। मृताहपार्व्वणं मातापित्रोरेव। तथाच हेमाद्रिघृतं कात्यायनबचनम्। “सपिण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्व्वणम्। पितृव्यभ्रातृमातॄणामेकोद्दिष्टं स दैव तु”। मातृपदं सपत्नीमातृपरम्। सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादित्वात् परनिपातः। ततश्च वाक्ये मातृसपत्नीति न प्रयोज्यं किन्तु सपत्नीमातरित्यादिकम्। एवं साग्निकौरसक्षेत्रजाभ्यां मृताहे पार्वणं कर्त्तव्यम्। “औरसक्षेत्रजौ पुत्रौ विधिपा पार्वणेन तु। प्रत्यवदमितरे कुर्य्युरेकोद्दिष्ट सुता दश” इति जावलिवचनस्य “यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम्। पार्वणेन विधानेन देयमग्निमता सदा” इति मत्स्यपुराणवचनस्य चैकवाक्यत्वात्। उशना च “प्रत्यव्दं दर्शवच्छाद्धं साग्निः कुर्वीत बै द्विजः। एकोद्दिष्टं सदा कुर्य्यान्निरग्निः श्राद्धदः सुतः”। अत्र प्रागुक्तयुग्त्या प्रेतश्राद्धस्य एकोद्दिष्टत्वाभिघानात् सांवत्सरिकश्राद्धे तदेकोद्दिष्टपदमुक्तं तत् प्रेतश्राद्धधर्म्मग्राहित्वार्थम्। ततण योग्यत्वादेकार्घ्यादिलाभः न च यथा प्रेतश्राद्धे पितृशब्दस्थाने प्रेतपदोहः तथात्रापीति वाच्यं सांवत्सरिके प्रेतत्वाभावात्तथाबिधानानुपपत्तेः। एवं प्रतिसांवत्सरिकश्राद्धे सम्बन्धार्थकपदं आशीःप्रार्थनं शेषभोजनद्य कर्त्तव्यम्।

रजखलायां विशेषयति गोतमः “अपुत्रा तु यदा भार्य्या सम्पाप्ते भर्त्तुराव्दिके। रजस्वला भवेत् मा तु कुर्य्यात्तत्पञ्चमे दिनें। कुर्य्याच्छ्राद्धमिति शेषः। यत्तु श्राद्धचिन्तामणौ “एकोद्दिष्टं त्रैवर्णिकेन सिद्धान्नेन जर्त्तव्यम्। “एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम्। अभावे पाकपात्राणां तदहः समुपोषणम्” इति कघुहारीतवचनात् पाकपात्राभावः पाकसामग्र्यभाबोपलक्षणं तदापि नामश्राद्धं किन्तूपोषणमेव श्राद्धस्थानीयमित्यर्थः। स्वयमित्यभिधानादपाटवादिनापि नान्यद्वारा कारयितव्यम् अतएव उपवासेनैब श्राद्धस्थानीयेन तदकरणप्रायश्चित्तेन बा कृतकृत्यतया श्राद्धविघ्नैत्यादिवचनादपि नैकादश्यामनुष्ठानमिति” तन्न पितृतृप्तेरजातत्वेनैकादश्यां तदनुष्ठानस्य युक्तत्वात्। अन्यथा षोडशश्राद्धाधिकारिणः कदाचित्तथात्वे “यस्यैतानि न दीयन्ते प्रेतश्राद्धानि षोडश। पिशाचत्वं ध्रुवं तस्य दत्तैः श्राद्धशतैरपि” इति यमचनेन षोडशश्राद्धाभावे प्रेतत्वपरीहारो न स्यात्। तस्मादुपवासोन श्राद्धार्थः किन्तु तदानीन्तनाकरणप्रायश्चित्तार्थः यथा स्वकालाकृतसंस्कारे प्रायश्चित्तं कृत्वा कालान्तरे तत् करणं तथात्रापि तद्दिने उपवासं कृत्वा एकादश्यां श्राद्धं कर्त्तव्यमिति। एकोद्दिष्टं नान्यद्वारा कार्य्यमित्यत्रापि गोत्रजेतरत्वेन विशेषणीयं “न कदाचित् सगोत्राय श्राद्धं कार्य्यमगोत्रजैः” इति प्रेतश्राद्धे ब्रह्मपुराणात्। अत्र हि नागोत्रजस्य साक्षात् कर्त्तृत्व निषिध्यते सगोत्रायेत्यसम्बन्धापत्तेः तस्मादगोत्रजैर्द्वारभूतैः सगोत्राय त्रातं न क्वार्य्यमित्यर्थः। तथाच पर्य्युदासपक्षे गोत्रजद्वारा कारयि तव्यमिति सुव्यक्तमेव प्रसज्यपक्षे तु अगोत्रजविशेषणस्वरसात् गोत्रजलाभः। प्रेतश्राद्धधर्म्मग्राहित्वात् सवित्सरिकमपि तथेति श्राद्धविवेकः। कल्पतरुरत्नाकरयोस्तु स्वगोत्रायेति पठितं स्वमात्मीयं गोत्रं यस्य स स्वगोत्रः विद्यमानगोत्रैत्यर्थः। यस्मै श्राद्धं कर्त्तव्यं तस्य स्वगोत्रजे विद्यमानेऽन्यगोत्रजेन संघातान्तर्गतेन राज्ञा श्राद्धं न कारयितव्यमिति व्याख्यातञ्च। एतन्मतेऽप्यूढदुहित्रादीनामसगोत्रत्वेऽपि न निषेधः। वस्तुतस्तु तत्पाठेऽपि कम्मै धारयापेक्षया बहुव्रीहेर्जघन्यत्वात् स्वमात्मीयञ्च तत् गोत्रञ्चेते तस्मै अन्यगोत्रजद्वारा श्राद्धंन कार्य्यमित्यर्थः। अतोलघुहारीतवचने स्वयंपदं स्वगोत्र परम्। अन्यथा ब्रह्मपुराणोक्तागोत्रजपदवैयर्थ्यापत्तेः। एवञ्च भविष्यपुराणप्रभासखण्डयोः “मृताहनि पुतुर्यस्तु न कुर्य्यात् श्राद्धमादरात्। मातुश्चैव वरारोहे! वत्सरान्ते सृताहनि। नाहन्तस्य महादेवि! पूजां गृह्णाभि नोहरिः”। मरीचिः। “पतिताऽज्ञानिनोमूर्खास्त्रियोऽथ ब्रह्मचारिणः। मृताहं समतिक्रम्य चाण्डालेष्वभिजायते”। इत्याभ्यां कालमाधवीयधृताभ्यां वचनाभ्यां सांवत्सरिक श्राद्धस्य मृताहकर्त्तव्यत्वेनावश्यकत्वात् भविष्यन्मृताहे स्वयं कर्त्तव्यत्वसम्भावनारहितेन मृताहात् पूर्वकालेऽपि प्रतिनिधायते। “प्रक्षिप्याग्नि स्वदारेषु परिकल्प्यर्त्विजं तथा। प्रवसेत् कार्य्यवान् विप्रोवृथैव न चिरं क्वचित” इति छन्दोगषरिशिष्टोक्तसाय प्रातर्होमप्रतिनिधिवत्। एवं सति प्रतिनिध्यकरणएव एकादश्यां क्रियते। नच पाकस्याङ्गत्वेन प्रधानतिथिकर्त्तव्यतानियम इति वाच्यम्। “व्रतोपवासनियमे घटिकैका यदा भवेत्। सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकी” इति वचनेन मुहूर्त्त मात्रलाभेऽपि कर्त्तव्यतोपदेशात् तदानीं पाके तदसम्भवात्। एवमुदीच्याङ्गशेषभोजनेऽपि न तन्नियम इति”। एतच्च पुत्रदुहित्रोर्नित्यं प्रागुक्तवचनेभ्यः। मृतपितृकपौत्रस्यापि तथा। “सृतमासस्य यः पक्षस्तत्तिथौ प्रतिवत्सरम्। “यावत्स्मरति पौत्रोऽपि एकमुद्दिश्य दापयेत्” प्रचेतोवाक्यात्

लघुहारोतवाक्येन द्विजानां सिद्धान्नेर्नवेकोद्दिष्टकरणविधानात् तत्पाकेधिकारिविशेषोनिरूप्यते। तत्र श्रा० त० देवलः “तथैवामन्त्रितोदाता प्रातः स्नातः सहाम्बरः। आरभेत नवैः पात्रैरन्नारम्भं सबान्धवः”। अत्र सबान्धव इत्यक्तेः सपिण्डानामपि पाकाधिकारः इति गोडाचारः। नि० सि० बिशेष उक्तः। हेमा० आश्वला० “समानप्रवरैर्मित्रैः सपिण्डैश्च गुणान्वितैः। कृतोपकारिभिश्चैव पितृकार्यं प्रशस्यते”। व्यासः “महिला चैव सुस्नाता पाकं कुर्यात् प्रयत्नतः। निष्पन्नेषु च पाकेषु पुनः स्नानं समाचरेत्” पृथ्वीचन्द्रोदये ब्राह्मे। “रजस्वलाञ्च पाषण्डां पुंश्चलीं पतितां तथा। त्यजेच्छूदां तथा बन्ध्यां विधवाम् चान्यगोत्रजाम्। व्यङ्गकर्ण्णां चतुर्याहस्नातामपि रजस्वलाम्। वर्ज्जयेच्छाद्धपाकार्थममातृपितृवंशजाम्” स्मृतिसारे “न पाकं कारयेत् पुत्रीमन्यां वाप्यसगोत्रजाम्! मृतबन्ध्यां पुंश्चलीं च गर्भिणीञ्चैव दुर्मुखाम्”।

एकोनचत्वारिंशत् = स्त्री एकेनोना चत्वारिंशत्। (ऊनचल्लिश) १ संख्यायां २ तत्संख्यान्विते च एवम् एकोनविंशत्यादयोऽपि एकेनोनतत्संख्यासंख्येययोः स्त्री।

एकौघ = पु० एकः अविच्छिन्नओघः प्रवाहः। अविच्छिन्नप्रवाहे “एकौघेन स्वर्ण्णपुङ्खैर्द्विषन्तः” माघः।

***