एकात्मन् = पु० कर्म्म०। १ एकस्मिन्नात्मनि। एक आत्मा स्वरूपम् स्वभावो वा यस्य। २ एकस्वरूपे ३ एकस्वभावे त्रि० स्त्रियां वा डाप्। एकोऽसहाय आत्मायस्य। ४ असहायात्मनि त्रि०। “नार्थन्यूनैर्नाबगणैरेकात्मभिरसाधनैः” भा० व० ८२ अ०। तस्यभावः ष्यञ्। ऐकात्म्य तद्भावे न०। “अवबोधरसैकात्म्यमानन्दमनुसन्ततम्” भाग० ४, १३, ८। “वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना” भाग० ४, २१, २९
एकादशन् = त्रि० एकाधिका दश नि० आत्। (एगार) १ संख्यान्विते २ तत्संख्यायाञ्च ततः पूरणे डट्। एकादश तत्पूरणे यत्संख्यया एकादशसंख्या पूर्य्यते तादृशसंख्यान्विते त्रि० स्त्रियां ङीप्। एकादशी सा च चन्द्रस्य सूर्य्यमण्डलप्रवेशनिर्गमक्रियायुक्तैकादशचन्द्रमण्डलकलाक्रियारूपे तत्क्रियोपलक्षिते वा तिथिभेदे स्त्री। डटि संख्या पूर्ब्बकादपि क्वचित् मुट्। एकादशम तदर्थे त्रि०। “मनुर्वै धर्मसावर्ण्णिरेकादशमआत्मवान्” भाग० ८, १३, १२। स्त्रियां ङीप्। एकादश परिमाणमस्य संघस्य कन्। एक दशक तत्संख्यामिते गणे। “एकादशकश्च गणस्तन्मात्मात्रपञ्चकश्चैव” “सात्विक एकादशकः प्रवर्त्तते वैकृतादहङ्कारात्” सा० का० स च गणस्तत्रैव दर्शितः “बुद्धीन्द्रियाणि चक्षुःश्रोतध्राणरसनत्वगाख्यानि। वाक्पाणिपादपायूपस्थानि कर्म्मेन्द्रियाण्याहुः। उभयात्मकमत्रमनः” सां० का०। एवं रुद्रगणः। एकादशानामवयवः कन्। एकादशक तत्संख्यायाम् न० “रुद्रैकादशकेऽधिकम्” मुग्ध०।
एकादशद्वार = न० एकादश द्वाराणि छिद्राण्यस्य। शरीरे तत्र नवद्वारत्वप्रसिद्धावपि क्वचिदेकादशद्वारत्वं स्मर्य्यते। सप्तशोर्षण्यानि नाभिसहितान्यधःस्थाने त्रीणि शिरस्येकं ब्रह्मरन्ध्रमित्येक दशच्छिद्रवत्त्वा तस्य तथात्वम्। नवद्वारव्यवहारस्तु नाभिशिरसोश्छिद्रस्य सूक्ष्मत्वात् “प्रधानेन व्यपदेशाभवन्तीति” न्यायात्। प्रधाननवच्छिद्रावलम्बनेन।
एकादशाह = पु० एकादशानामह्नां समाहारः टच् समाहारे नाह्नादेशः अहान्तत्वात् पुंस्त्वम्। एकादशानामह्नां समाहारे। ङौ तु एकादशाहे एकादशाह्नि एकादशाहनि रूपाणि। स साधनतयाऽस्त्य स्य अच्। एकादशाहसाध्ये यागभेदे “एकादशाहैरयजन् सदक्षिणैर्द्विद्वादशाहैरश्वमैधैश्च देव” भा० अनु० १०३ अ०। ब्राह्मणजातीनामेकादशाहकर्त्तव्ये ३ श्राद्धे च। तमधीष्टो भूतोभूतोवेत्यर्थे ख। एकादशाहीन उक्तार्थे त्रि०।
एकादशिन् = त्रि० एकादश संख्या परिमाणमस्य डिनि। एकादशसंख्यामितस्तोमादौ स्त्रियां ङीप्। “एकामेकादशिनीमपश्यत्” “स एकादशिन्येष्ट्वांप्रजापतिः पुनरात्मानम्” “तस्मै कमेकादशिन्या यजेत” शत० ब्रा० ३, ९, १, ४, ५। “यूपैकादशिनी स्यात्” ३, ७, १, २२। यद्यु पश्वेकादशिनी स्यात् ३, ९, १, २३।
एकादशी = त्रि० एकादशानां पूरणी उभयपक्षीयप्रतिपदादितः एकादेशपूरण्यां तिथौ। यत्र हि हरिवासरव्रतम्। अस्यां व्रतस्य नित्यत्वादिसमर्थनतद्व्रतकालव्यवस्थादि कालमा० दर्शितं यथा “अथैकादशी निर्णीयते। तत्रैकादश्यामुपवासविधिवाक्येषु नित्यशब्दसदाशब्दादीनां नित्यत्वसाधकानां स्मरणान्नित्यत्वसिद्धिः। तानि च साधकानि संग्रहकारेण संगृहीतानि। “नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत्। उपेत्याऽतिक्रमे दोषश्रुतेरत्यागनोदनात्। फलाश्रुतेर्वीप्सया च तन्नित्यमिति कीर्त्तितम्”। अत्र च नित्यशब्दादीन्यष्टौ नित्यत्वसाधकानि। नित्यशब्द उदाहृतो गारूडपुराणे “उपोष्यैकादशी नित्यं पक्षयोरुभयोरपीति”। सदाशब्द उक्तः सनत्कुमारसंहितायाम् “एकादशी सदोपोष्या पक्षयोः शुक्लकृष्णयोरिति” यावदायुःशब्द उक्तो विष्णु रहस्ये “द्वादशी न प्रमोक्तव्या यावदायुः सुवृत्तिभिरिति”। आग्नेयपुराणेऽपि “उपोष्यैकादशी राजन्! यावदायुः सुवृत्तिभिरिति” अतिक्रमनिषेधः कण्वेन दर्शितः “एकादश्यामुपवसेन्न कदाचिदतिक्रमेदिति” विष्णुनापि “एकादश्यां न भुञ्जीत कदाचिदपि मानवः” इति। अकरणे दोषमाह सनत्कुमारः “न करोति हि यो मूढ एक दश्यामुपोषणम्। स नरो नरकं याति रौरवन्तमसावृतम्। एकाटश्यां मुनिश्रेष्ठ! यो भुङ्क्ते मूढचेतनः। प्रतिमासं स भुङ्क्ते तु किल्विषं श्वादिविट्समम्। निष्कृतिर्म द्यपस्योक्ता धर्मशास्त्रे मनीषिभिः। एकादश्यन्नकामस्य निष्कृतिः क्वापि नोदिता। मद्यपानात् मुनिश्रेष्ठ! पातैव नरकं व्रजेत्। एकाश्यन्नकामस्तु पितृभिः सह मज्जतीति” नारदीये “पापानि कानि चिद् यानि ब्रह्महत्यासमानि च। अन्नमाश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे। तानि पापान्युपाश्नाति भुञ्जानो हरिवासरे” इति स्कान्दे “मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा। एकादश्यां तु यो भुङ्क्ते पक्षयोरुभयोरपीति” अकरण इवासमापने दोष उक्तो विष्णुरहस्ये। “परिगृह्य व्रतं सम्यगेकादश्यादिकं नरः। न समापयते तस्य गतिः पापीयसी भवेदिति” अत्यागनोदना दर्शिता विष्णुरहस्ये “परामापदमापन्नोऽहर्षे वा समुपस्थिते। सूतके मृतके चैव न त्यजेत् द्वादशीव्रतमिति” विस्पष्टं फलाश्रवणञ्च केषुचिद्वाक्येषु तत्र कात्यायनः “एकादश्यां न भुञ्जीत पक्षयोरुभयोरपीति” स्कान्देऽपि “उपोष्यैकादशी सम्यक् पक्षयोरुभयोरपीति” कूर्मपुराणेऽपि “वदन्तीह पुराणानि भूयोभूयो वरानने!। न भक्तोव्यं न भक्तीव्यं संप्राप्ते हरिवासरे” वोप्सामाह सनत्कुमारः “पक्षे पक्षे च कर्त्तव्यमेकादश्यामुपोषणमिति” नारदोऽपि “नित्यं भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः। पक्षे पक्षे च कर्त्तव्यमेकादश्यामुपोषणमिति” तदेवं नित्यशब्दादिभिर्हेतुभिरुपवासस्य नित्यत्वं सिद्धम्। काम्यत्वं च सायुज्यादिश्रवणादवगम्यते तदुक्तं विष्णुरहस्ये “यदीच्छेद्विष्णु सायुज्यं सुतान् सम्पदमात्मनः। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपीति”। कूर्मपुराणेऽपि “यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपीति” कात्यायनः “संसारसागरोत्तारमिच्छन् विष्णुपरायणः। ऐश्वर्य्यं सन्ततिं ख र्गं मुक्तिं वा यद्यदिच्छति। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपीति” स्कन्दपुराणे “यदीच्छेद्विपुलान् भोगान् मुक्तिं चात्यन्तदुर्लभाम्। एकादश्यामुपवसेत् पक्षयेरुभयोरपीति” नारदोऽपि “एकादशीसमं किञ्चित् पापत्राणं न विद्यते। स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रदायिनी। सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनीति”। तदेवं फलश्रवणात् काम्यत्वं सिद्धम्। ननु काम्यत्वमनित्यत्वमसति कामे परित्यक्तुं शक्यत्वात् तथा सत्येकस्य कर्मणोनित्यत्वकाम्यत्वाभ्यां द्वैरूप्याङ्गीकारे नित्यानित्यसंयोगविरोधः, नायं दोषः स्वादिरादिवत् प्रमाणद्वयेन द्वैरूप्योपपत्तेः। तथा हि। “खादिरो यूपो भवतीति” क्रतौ नित्यः खादिरो विहितः। “खादिरं वीर्यकामस्य यूपं कुर्वीतेति” तस्मिन्नेव क्रतौ काम्यत्वेनानित्यः खादिरोविहतः। तत्र यथा प्रमाणद्वयसम्बन्धादेकस्यापि खादिरस्य द्वैरूप्यमङ्गीकृतं तद्वदत्रापि द्विविधप्रमाणसद्भावादुपवासस्य द्वैरूप्यं किं न स्यात्?। ननु विषमोदृष्टान्तः नित्यः खादिरः क्रत्वर्थः काम्यस्तु पुरुषार्थः। उपवासस्तु नित्योऽपि पुरुषार्थ एव तस्य खादिरवत् क्रत्वङ्गत बोधकप्रमाणाभावात्, वाढम्। अस्तु एवं वैषम्यं, प्रयोजकं तु द्वैरूप्ये प्रमाण द्वयमस्त्येव। सूत्रकारेण प्रमाणद्वयस्यैव द्वैरूप्यसाधकत्वोपन्यासात्। तथा च सूत्रम् “एकस्य तूभयत्वे संयोगपृथक्त्वमिति” (जै०)। अतः केवलपुरुषार्थस्याप्युपवासस्य द्वैरूप्यमविरुद्धम्। यदि बुध्यारोहस्य सदृशो दृष्टान्तोऽ पेक्षितः तर्ह्यग्निहोत्रादिर्दृ ष्टान्तोऽस्तु। न ह्यग्निहोत्रं क्रत्वर्थं तस्य स्वयमेव क्रतुत्वात्। तस्य च नित्यकाम्यत्वेवाक्यद्वयादवगम्येते। “यावज्जीवमग्निहोत्रं जुहोतीति” नित्यत्वावगमकं वाक्यम्। “अग्निहोत्रं जुहुयात् स्वर्गकामः” इति च काम्यत्वावगमकम्। तस्य च क्रत्वर्थत्वाभावेन केवलपुरुषार्थतैव। अतोऽग्निहोत्रे नित्यत्वं काम्यत्वं चेति द्वैरुप्यमस्ति। तत्र शब्दान्तराभ्यासादिकर्मभेदहेत्वभावेनैकस्यैव कर्मणः सतः प्रयोगभेदोऽवगन्तव्यः। प्रयोगभेदश्च यावज्जीषाधिकरणे निर्णीतः। तस्य चाधिकरणस्य संग्राहकावेतौ श्लोकौ भवतः। “यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा। कालःपुरुषधर्मोऽतः काम्य एकः प्रयुज्यताम्। न कालो जीवनं तेन निमित्तप्रविभागतः। काम्यः प्रयेगभिन्नः स्याद्यावज्जीवप्रयोगतः” इति। अयमर्थः “अग्निहोत्रं जुहुयात् स्वर्गकाम” इति। काम्याग्निहोत्रं श्रूयते तथा वाक्यान्तरं पठ्यते “यावज्जीवमग्निहोत्रं जुहोतीति” तत्र संशयः। किं यावज्जीवमित्यनेनाधिकारान्तरं नोद्यते किं वा काम्याग्निहोत्रे गुणविधिरिति। यदर्थमर्थान्तरचिन्ता किं यावज्जीवमित्यस्यार्थः कर्मधर्मः उत पुरुषधर्म इति। यावज्जीवशब्देन पुरुषायुषपरिमितः कालोऽभिधीयते। काम्येन चाग्निहोत्रेण कालविशेष आकाङ्क्षितः। तस्य च कालस्यानेन स मर्पणदयं कर्मधर्मः। तस्मात्गुणविधिः। तथा चाग्निहोत्रस्य काम्यप्रयोगः एक एक न त्वन्योनित्यप्रयोग इति प्राप्ते, ब्रूमः यावज्जीवशब्दो न कालस्य वाचकः। किन्तु लक्षकः। वाच्यार्थस्तु कृत्स्नजीवनं तच्च न कर्म्मधर्मत्वेन विधातुं शक्यं पुरुषधर्मत्वादिति जीविधातुः प्राणधारणामभिधत्ते न तु कालम्। प्राणधारणं च पुरुषधर्मः कालस्य तदसम्भवात्। तेन स्वर्गकामनेव जीवनमपि किञ्चिन्निमित्तम्। तस्मादधिकारान्तरनोदना। तथा सति जीवननिमित्तो नित्यप्रयोगः कामनिमित्तः कादाचित्कप्रयो गश्च परस्परं भिद्येते इति सिद्ध्वान्तः। अनेनाग्निहोत्रन्यायेन प्रकृतस्याप्युपवासस्य निमित्तभेदेन नित्यप्रयोगः काम्यप्रयोगश्चास्तु। नन्वेकस्य कर्मणः कालभेदेन कर्त्तृभेदेन वा विना द्वौ प्रयोगौ न सम्भवतः। न चात्र कालभेदः संभवति नित्यकाम्योपवासयोरेकादश्यामेव विधानात्। नाप्यत्र कर्त्तृभेदोऽस्ति। यद्यपि काम्यं परित्यज्य केवलं नित्यमनुष्ठातुं शक्यं तथापि काम्यमनुतिष्ठासुना नित्यस्य परित्यक्तुमशक्यत्वात्। अतः कर्त्रैक्यात् कालैक्याच्च नित्यकाम्यरूपौ द्वौ प्रयोगौ न घटेते। नायं दोषः, विविदिषाधिकरणन्यायेन सकृदेवानुत्तिष्ठतः प्रयोगद्वयसिद्धेः। तस्य चाधिकरणस्य संग्राहकावेतौ श्लोकौ भवतः “विद्यार्थमाश्रमार्थं च द्विःप्रयोगोऽथ वा सकृत्। प्रयोजनविभेदेन प्रयोगोऽपि विभिद्यते। श्राद्धं भुक्त्या यथा तृप्तिर्विद्यार्थेनाश्रमस्तथा। अनित्यनित्य संयोग उक्तिभ्यां खादिरे मतः” इति। अयमर्थः “तमेतं वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसा नाशकेनेति” श्रुतिवाक्येन यज्ञादय आत्मविद्योदयाय विहिवाः गृहस्थाद्याश्रमधर्मत्वन्तु यज्ञादीनां सर्वश्रुतिस्मृतिषु प्रसिद्धम्। तत्र संशयः किं यज्ञार्दानां द्विःप्रयोग? उत सकृदिति?। तत्रप्रयोजनभेदात् प्रयोग भेद इतिपूर्वपक्षः। निमन्त्रितेन ब्राह्मणेन क्रियमाण भोजनेन यथा अन्यकर्तृकश्राद्धनिष्पत्तिः स्वतृप्तिश्च न च द्विर्भुज्यते। तद्वद्ब्रह्मविद्यार्थमनुष्ठितेन कर्मणा प्रयोजनद्वयं सिध्यति। न च नित्यानित्यसंयोगविरोधः खादिरवद्वाक्यद्वयेन तदुपपत्तेः। तच्च पूर्वमुपपादितं तस्मात् सकृदेव प्रयोग इति। एवमत्रापि सकृदेवोपवासं कुर्वतः काम्यप्रयोगोनित्यप्रयोगश्चेत्युभयं सिध्यति। ननु सकृदनुष्ठानेनानेकार्थसिद्धिर्द्वेधा भवति तन्त्रेण वा प्रसङ्गेन वा। तद्यथा दर्शपूर्णमासयोः षण्णां प्रधानयागानां मध्ये त्रयाणां सकृत्सकृदनुष्ठितेन प्रायाजाद्यङ्गेनोपकारः सिध्यति। तदिदं तन्त्रम्। पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्यपातिनः पशुपुरोडाशस्याप्युपकारः सिध्यति सोऽयं प्रसङ्गः। एवं सति प्रकृतेऽपि तन्त्रप्रसङ्गयोः कतरस्यो पादानमिति चेत्। प्रसङ्गस्येति ब्रूमः। काम्यप्रयोगेणैव नित्यप्रयोगस्यापि सिद्धत्वात् तथा च स्मृतिः। “काम्येऽपि नित्यसिद्धिः स्यात् प्रसङ्गेनोभयात्मकः इति” तदेवमेकादश्युपवासस्य नित्यत्वकाम्यत्वलक्षणद्वैरूप्ये विरोधाभावात् द्वैरूप्यमभ्युपेयमिति स्थितम्।
अत्रोपवासाङ्गतिथिनिर्णयस्य वेधाधीनत्वात् प्रथमं दशमीवेधो निरूप्यते। स च बेधस्त्रिविधः अरुणोदयबेधः सूर्य्योदयबेधः पञ्चदशनाडीवेधश्चेति। तत्रारुणोदयबेधो भविष्यत्पुराणे दर्शितः। “अरुणोदयकाले तु दशमी यदि दृश्यते। सा विद्धैकादशी तत्र पापमूलमुपोषणमिति”। “अरुणोदयवेलायां दिशो गन्धो भवेद्यदि। दुष्टं तत्तुप्रयत्नेन वर्जनीयं नराधिप!”। गारुडपुराणेऽपि “दशमीवेधसंयुक्तो यदि स्यादरुणोदयः। नैवोपोष्यं वैष्णवेन तद्विनैकादशीव्रतमिति”। अरुणोदयस्य प्रमाणं स्कान्दनारदाभ्यामुक्तम्। “उदयात् प्राक्चतस्रस्तु नाडिका अरुणोदय” इति। तस्मिन्नरुणोदये बेघा बहुविधा। ते च प्रश्रोत्तराभ्यां ब्रह्मवैवर्त्ते दर्शिताः। “कीदृशस्तु भवे- द्वेधो योगोविप्रेन्द्र! कीदृशः?। योगवेधौ समाचक्ष्व याभ्यां दुष्टमुपोषणम्। चतस्रोघटिकाः प्रातररुणोदयनिश्चयः। चतुष्टयविमागोऽत्र वेधादीनां किलोदितः। अरुणोदय वेधःस्यात्सार्द्धन्तु घटिकात्रयम्। अतिवेधोद्विघटिकः प्रभासन्दर्शनाद्रवेः। महाबेधीऽपि तत्रैव दृश्यतेऽर्को न दृश्यते। तुरीयस्तत्र विहितोयोगः सूर्य्योदये सतीति”। अयमर्थः बेधातिबेधमहाबेधयोगाश्चत्वारौपवासस्यदूषकाः। तत्र रवेः प्रभासन्दर्शनात्पूर्ब्बं सार्द्वघटिका त्रयमेकादश्या व्याप्तं ततः प्राचीने घटिकार्द्धे अरुणोदयसम्बन्धिनि दशमीसद्भावे वेध इत्युच्यते। यदा सूर्य्यदर्शनात्पूर्ब्बं घटिकाद्वयमुपरितनमेकादशीव्याप्तं पूर्ब्बं तु घटिकाद्वयं दशमीव्याप्तं तदाऽतिवेध इत्युच्यते। यदा सूर्य्योदयस्य दर्शनादर्शनसन्देहकाल मेकादशी व्याप्तोति ततः प्राक् कृत्स्नोऽरुणोदयकालो दशमीव्याप्तस्यदा महावेधः। यदा सूर्य्योदये स्पष्टे सति पश्चादेकादशी प्रवृत्ता ततः प्राच्यामुदयवेलायां दशमी विद्यते तदा योगशब्देनाभिधेयोदोषोभवति। स च वेधाद्यपेक्षया तुरीयोभवतीति। नन्वरुणोदयात्पूर्ब्बमपि यदि मध्यरात्रानन्तर दशमीकला विद्येत तदा नोप बासस्तदभावे तूपवास कर्त्तव्यः। तथा च स्मृतिः “अर्द्भरात्रात्परा यत्र एकादश्युपलभ्यते। तत्रोपवासः कर्त्तव्यो न तु वै दशमीकलेति” अतोयथानिर्दिष्टेभ्य स्त्रिभ्योऽन्योऽपि कश्चिद्वेधोऽस्तीति चेत् मैवम्। अर्द्धरात्र वेधोऽपि यदा वर्ज्यस्तदा किमु वक्तव्यम् अरुणोदयवेध इति वक्तुमर्धरात्रवेधौपन्यस्तो न तु वेधाभिप्रायेण। तदेव ब्रह्मवैवर्त्ते शौनकेन स्पष्टीकृतम्। “अर्द्धरात्रेतु के षाञ्चिद्दशम्या वेध इष्यते। अरुणोदयवेलायां नावकाशो विचारणे। कापालवेध इत्याहुराचार्या ये हरिप्रियाः! न तन्मम मतं यस्मात्त्रियामा रात्रिरिष्यत्” इति। य एते वेधातिवेधमहावेधयोगाःपूर्ब्बमभिहितास्तेषु त्रयोऽरुणोदयवेधाश्चतुर्थौदयवेधः। तञ्चोदयवेधङ्कण्वोऽप्याह “उ दयोपरिविद्धा तु दशम्यैकादशी यदा। दानवेम्यः प्रीणनार्थं दत्तवान्पाकशासन इति”। स्मृत्यन्तरेऽपि। “दशम्याः प्रान्तमादाय यदोदेति दिवाकरः। तेन स्पृष्टं हरिदिनं दत्तं जम्भासुराय त्विति”। पञ्चदशनाडीवेथस्तु स्कन्दपुराणे दर्शितः “नागोद्वादशनाडीभिर्दिक् पञ्च दवभिस्तथा। भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरान्तिथिमिति”। तदेवं बेधत्रयं निरूपितम्। तत्र पञ्च- दशनीडीवेधस्यं वेधान्तरस्य च विषयव्यवस्था निगमे दर्शिता। “सर्वप्रकारवेधोऽयमुपबासस्य दूषकः। सार्द्धसप्तमुहूर्त्तस्तु वेधोऽयं बाधते व्रतमिति”। सर्व्वप्रकार इत्यत्रं प्रकारशब्देन कलाकाष्ठादयोवेधातिवेधादयो वा गृह्यन्ते नात्र तिथ्यन्तरवत्त्रिमुहूर्त्तत्वं वेधेऽपेक्षितं किन्तु लवकलाकाष्ठादिकमपि ग्राह्यम्। तदुक्तं नारदीये। “लवादिवेधे विप्रेन्द्र! दशम्यैकादशीं त्यजेत्। सुराया विन्दुना पृक्तं गङ्गाम्भ इव निर्मलमिति”। स्कन्दपुराणेऽपि “कलाकाष्ठादिगत्यैव दृश्यते दशमी विभो,। एकादश्यां न कर्त्तव्यं व्रतं राजन्! कदाचनेति”। स्मृत्यन्तरेऽपि। “कलार्द्धेनापि विद्धा स्याद्दशम्यैकादशी यदि। तदाप्येकादशीं हित्वा द्वादशीं समुपोषयेदिति”। सोऽयं कलाकाष्ठादिवेधोऽरुणोदये सूर्य्योदये च समानः। तत्रारुणोदयवेधीवैष्णवविषयः। तच्च गारुडपुराणे विस्पष्टमवगम्यते। “दशमीशेषसंयुक्तोयदि स्यादरुणोदयः। नैपोपीव्यं वैष्णवेन तद्विनैकादशीब्रतमिति”। वैस्व न सपञ्चरात्रादिवैष्णवागमोक्तदीक्षां प्राप्तोवैष्णवः। अत एव स्कन्दपुराणे वैष्णवस्वरूपमभिहितम् “परामापदमापन्नोऽहर्षे वा समुपस्थिते। नैकादशीन्त्यजेद्यातु यस्य दीक्षाऽस्ति वैष्णवो। समात्मा सर्ब्बजीवेषु निजाचारादविच्युतः। विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते” इति। विष्णुपुराणेऽपि। “न चलति निजकर्मणोयः सममतिरात्मसुहृद्विपक्षपक्षे। न हरति न च हन्ति कञ्चिदुच्चैः सितमनसं तमवेहि विष्णुभक्तमिति”।
यथोक्तगुणसम्पन्नो वैष्णवदीक्षां प्राप्तोयस्तं प्रति तिथिवेधोनिर्णीयते। एकादशी द्विविधा अरुणोदयवेधवती शुद्धाचेति। तत्र वेधवती सर्व्वा त्याज्या। “तद्विनैकीदशीब्रतमिति” गारुडपुराणे सामान्येन प्रतिषेधात्। विशेष तस्तु संपृक्तादिभेदेन प्रतिषेधीद्रष्टव्यः य एते वेधातिवेधमहावेधयोगाख्यादोषाः पूर्वमुक्तास्तेषु सत्स्वेकादशी संपृक्तसंदिग्धसंयुक्तसंकीर्णनामभिर्व्यवह्रियते। अरुणोदयस्य प्रथमघटिकायां दशमीसद्भावे वेध इत्युक्तः। स च द्विविधः। घटिकाप्रारम्भे कृत्स्रघटिकायां च दशमीवृत्तिभेदात्। तत्र प्रारम्भमात्रदशमीयुक्तैकादशी संपृक्तेत्युच्यते। कृत्स्रघटिकावर्त्तिदशमीसद्भावयुक्तैकादशी सन्दिग्धा। अरुणोदयप्रथममुहूर्त्तादधोदशमोव्याप्तिरतिवेधस्तदुपेतैकादशी संयुक्तेत्युच्यते। सूर्य्यमण्डलदर्शनसन्देहवेलायां दशमीसद्भावे महावेधः तद्यु- क्तैदकाशी संकीर्णेत्युच्यते। ता एताः संपृक्तादयश्च तस्रोऽपि त्याज्याः। तथा च गोभिलः “अरुणोदयवेलायां यदिदशमीसङ्गता। संपृक्तैकादशी तान्तु मोहिन्यै दत्तवान् प्रभुरिति”। गारुडपुराणे “उदयात्प्राक् त्रिघटिकाव्यापिन्येकादशी यदि। संदिग्धैकादशी नाम वर्ज्येयं धर्म्मकाङ्क्षिभिः। उदयात्प्रागमुहूर्त्तेनव्यापिन्येकादशी यदा। संयुक्तैकादशी नाम वर्जयेद्धर्मवृद्धये। आदित्योदयवेलाया आरभ्य षष्टिनाडिका। संकीर्णैकादशी नाम त्याज्या धर्म्मफलेप्सुभिः। पुत्रपौत्रप्रवृद्ध्यर्थन्द्वादश्यामुपवासयेत्। तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणमिति”। यद्यपि पूर्व्वत्र वेधवाक्ये “सार्द्धं तु घटिकात्रयम्” इत्युक्तम् अत्र तु सन्दिग्धैकादशीवाक्ये त्रिघटिकेत्युक्तं तथापि नैतावता वैषभ्येण विरोधः शङ्कनीयः शास्त्रद्वयस्याऽपि दशमीवेधत्यागपरत्वात्। तदेवं सामान्यविशेषाभ्यां प्रतिषिद्धचादरुणोदयविद्धैकादशी वैष्णवेन परित्याज्या। यस्तु योगस ज्ञकश्चतुर्थो योगस्तस्य त्याज्यत्वमर्थात्सिद्धम्। अरुणोदयवेधोऽपि यदा त्यज्यते तदा किमु” वक्तव्यं सूर्य्योदयवेध इति। वचनन्त्वत्र कण्वप्रोक्तं पूर्व्वमेवोदाहृतम्। या तु चतुर्विध वेधरहिता शुद्धैकादशी सा द्विविधा। आधिक्येन युक्ता तद्रहिता चेति। आधिक्य च त्रिविधम् एकादश्याधिक्यं द्वादश्याधिक्यमुमयाधिक्यं चेति। त्रिष्वप्येतेषु पक्षेषु अरुणोदयमारभ्य प्रवृत्तां शुद्धामप्येकादशीं परित्यज्य परेद्युरुपवासः कर्त्तव्यः। तत्रैकादश्याधिक्ये नारदः “सपूर्णैकादशी यत्र द्वादश्यां वृद्धिगामिनी। द्वादश्यां लङ्घनं काय्य न्त्रयोदश्यां तु पारणमिति”। स्मृत्यन्तरेऽपि “एकादशी यदा पूर्णा परतः पुनरेव सा। पुण्यं क्रतुशतस्योक्तं त्रयोदश्यां तु पारणमिति” विष्णुरहस्येऽपि “एकादशीकलाप्राप्ता येन द्वादश्युपोषिता। तस्य क्रतुशतं प्रोक्तं त्रयोदश्यान्तु पारणमिति” द्वादश्याधिक्ये व्यास आह “एकादशो यदा लप्ता परतो द्वादशी भवेत्! उपोष्या द्वादशी तत्र यदीच्छेत् परमां गतिम्” उभयाधिक्ये गुरुराह “संपूर्णैकादशी यत्र प्रभाते पुनरेव सा। तत्रोपोष्या द्वितीया तु परतो द्वादशी यदीति” नारदोऽपि “संपूर्णैकादशी यत्र प्रभाते पुनरेव सा। सर्तैरेवोत्तरा कार्य्या परतो द्वादशी यदीति” स्मृत्यन्तरेऽपि “एकादशी यदा पूर्णा परतो द्वादशी यदि। एकादशीं परित्यज्य द्वादशीं समुप्रो- षयेदिति”। उभयाधिक्यरहितायां न कोऽपि सन्देहोऽस्ति। इति वैष्णवदीक्षायुक्तानामेकादशी निर्णीता।
अथ श्रौतस्मार्त्तपर्यवसितानां पञ्चरात्रादिदीक्षारहितानाम् एकादशी निर्णीयते। अरुणोदयवेधस्य वैष्णवविपयत्वे व्यवस्थिते सत्युदयवेधः स्मार्त्तानुष्ठानविषयत्वेन परिशिष्यते। अतएव स्मर्यते “अतिवेधा महावेधा ये वेधास्तिथिषु स्मृताः। सर्वेऽप्यवेधा विज्ञेया वेधः सूर्य्योदये मतः” इति। एवञ्च सति सूर्य्योदय वेधमपेक्ष्यैकादशी द्विधा भिद्यते शुद्धा विद्वा चेति। तत्र श्रुद्धायां पूर्ववच्चत्वारोभेदा भवन्ति एकदश्याधिक्यंद्वादश्याघिक्यमुभयाधिक्यमनुभयाधिक्यं चेति। एवं विद्ध्वायामपि चत्वारोभेदा उन्नेयाः। शुद्धायामेकादश्याधिक्ये द्वयोस्तिथ्योरुपवासयोग्यतामाह वृद्धवशिष्टः “संपूर्णेकादशी यत्र प्रभाते पुनरेव सा। लुप्यते द्वादशी तस्मिन्नुपवासः कथम्भवेत्?। उपोष्ये द्वे तिथी तत्र विष्णु प्रीणनतत्परैरिति”। उभयोग्धिकारिभेदेन व्यवस्था स्कन्दपुराणे दर्शिता “प्रथमेऽहनि संपूर्णा व्याप्याहोरात्रसंयुता। द्वादश्यां च तथा तात! दृश्यते पुनरेव च। पूर्व्वाकार्या गृहस्थैस्तु यतिभिस्तूत्तरा तिथिरिति” एतच्च परेद्युर्द्वादश्यभावविषयम् तथा च स्मृत्यन्तरे। “पुनः प्रभातसमये घटिकैका यदा भवेत्। अत्रोपवासो विहितश्चतुर्थाश्रमवासिनाम्। विधवायाश्च तत्रैव परतो द्वादशी न चेदिति”। गारुडपुराणेऽपि “पुनः प्रभातसमये घटिकैका यदा भवेत्। अत्रोपवासो विहितो वनस्थस्य यतेस्तथा। विधवायाश्च तत्रैव परतो द्वादशी न चेदिति”। पुराणान्तरे “एकादशी यदा पूर्णा परतः पुनरेव सा। पुण्यं क्रतुशतस्योक्तं त्रयोदश्यान्तु पारणमिति” एवमेकादश्याधिक्यपक्षे गृहितत्योर्व्यवस्थाऽभिहिता। द्वादश्याधिक्ये पूर्वेद्युरुपवासमाह नारदः “न चेदेकादशी विष्णौ द्वादशी परतः स्थिता। उपोष्यैकादशी तत्र यदीच्छेत् परमं पदमिति”। स्कन्द पुराणेऽपि “शुद्धा यदा समा हीना समहीनाऽधिकोत्तरा। एकादश्यामुपवसेन्न शुद्धां वैष्णवीमपीति” दशमीवेधरहिताशुद्धैकादशी यदा परेद्युरुदयादूर्द्धं नास्ति किन्तुदये समा ततोन्यूना वा द्वयोरपीत्यर्थः। एवं च सति प्रकृते द्वादश्याधिक्येऽपि एकादशी समन्यूनयोरन्यतरत्वात् प्रथमैवोपोष्येत्युक्तं भवति। उभयाधिक्ये परेद्यु रुपवासो गारुडपुराणे दर्शितः “संपूर्णैकादशो यत्र अपाते पुनरे- व सा। तत्रोपोष्या पराऽऽयुष्या परतो द्वादशी यदीति” वराहपुराणेऽपि। “एकादशी विष्णुना चेत् द्वादशी परतः स्थिता। उपोष्या द्वादशी तत्र यदीच्छेत् परमं पदमिति” स्मृत्यन्तरेऽपि “संपर्णैकादशी यत्र प्रभाते पुनरेव सा। वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते। गृहस्थोऽपि परां कुर्यात् पूर्वां नोपवसेतदा। पूर्णाप्येकादशी त्यज्या वर्द्धते द्वितयं यदीति” एवमेकैकाधिक्ये द्वितयाधिक्येऽपि निर्णयो दर्शितः। अनुभयाधिक्ये तु नास्ति सन्देहः। इति शुद्धायां चत्वारोभेदाव्यवस्थिताः। अथ विद्वायां चत्वारोभेदा व्यवस्थाप्यन्ते। तत्राप्येकादश्याधिक्ये पूर्ववद्गृहियत्यार्व्यवस्था द्रष्टव्या। तदाह प्रचेताः “एकादशी विवृद्धा चेच्छुक्ले कृष्णेऽविशेषतः। उत्तरान्तु यतिः कुर्यात् पूर्वामुपवसेद्गृहीति” नचैतद्वाक्यं शुद्धाधिक्ये चरितार्थमिति शङ्कनीयम् बाधकाभावेन विद्धाधिक्येऽपि तद्वननप्रवृत्तेर्निवारयितुमशक्यत्वात्। द्वादश्याधिक्ये परेद्युरुपवासः। तदाह व्यासः “एकादशी यदा लुप्ता परतो द्वादशी भवेत्। उपोष्या द्वादशी तत्र यदीच्छेत् परमां गतिमिति” लुप्ता आदौ दशमीमिश्रितत्वात् परतोवृद्ध्यभावाच्च क्षयं गतेति यावत्। उभयाधिक्येऽपि परेद्युरुपवासः। तदुक्तं भविष्यपुराणे “एकादशीं दिशा युक्तां वर्द्धमाने विवर्ज्जयेत्। क्षयमार्गस्थिते सोमे कुर्वीत दशमी युतामिति” उभयानाधिक्ये तु नैवास्ति सन्देहः कोट्यन्तराभावात्। न च विद्धत्वादस्ति सन्देह इति वाच्यं कोट्यन्तराभावे विद्धाया अप्युपादेयत्वात्। तथा च विष्णुरहस्ये “एकादशी भवेत् काचिद्दशम्या दूषिता तिथिः। वृद्धिपक्षे भवेद्दोषः क्षयपक्षेऽतिपुण्यदेति”। इति विद्धाभेदाव्यवस्थापिताः। अत्र शुद्धाविद्धयोरप्येष निर्णयसंग्रहः। एकादशीद्वादश्योरुभयोरपि वृद्धौ परेद्यु रुपवासः। द्वयोरप्यवृद्धौ पूर्वेद्युः। एकादशीमात्रवृद्धौ गृहियत्योर्व्यवस्था। द्वादशीमात्रवृद्धौ शुद्धायां सर्वेषां पूर्वेद्युः विद्धायां परेद्युरिति” तदेवं शास्त्रार्थे व्यवस्थिते यावन्ति मुनिवाक्यानि विधायकानि निषेधकानि सर्वाणि तान्यविरोधेन व्यवस्थापनीयानि। तत्र व्यवस्थापनप्रकारं दर्शयामः स्कन्दपुराणे “प्रतिपत्प्रभृयः सर्वा उदयादोदयाद्रवेः। संपूर्णा इति विख्याता हरिवासरवर्जिताः” इति हरिवारेषु तु संपूर्णत्वं प्रकारन्तरेणोक्तं गारुडपुराणे “उदयात् प्राग्यदा विप्र! मुहूर्त्तद्वयसंयुता। संपूर्णैकादशी ज्ञेया तत्रैवोपवसेद्गृहीति” भविष्यपुराणे-ऽपि “आदित्योदयवेलायां प्राङ्मुहूर्त्तद्वयान्विता। एकादशी तु संपूर्णा विद्धाऽन्या परिकल्पितेति”। तदेतद्वचनद्वयमरुणोदयवेधोपजीवनेन प्रवृत्तत्वाद्वैष्णवविष यम्। दशमीवेधे निन्दकानि तु वचनानि द्विविधान्युपलभ्यन्ते। कानिचिदरुणोदयानुवादेन प्रवृत्तानि, कानिचित्तदननुवादेनेति। यथा भविष्यपुराणे “अरुणोदयकाले तु दशमी यदि दृश्यते। तत्र नैकादशी कार्या धर्मकामार्थनाशिनीति” कौत्सः “अरुणोदयवेलायां विद्धा गान्धार्य्युपोषिता। तस्याः पुत्रशतं नष्टं तस्मात् तांपरिवर्जयेदिति” एतादृशानि सर्वाणि वैष्णवविषयाणि द्रष्टव्यानि। अरुणोदयानुवादमन्तरेण दशमीविद्धानिन्दकानि च कानिचिद्वचनान्युपलभ्यन्ते तद्यथा नारदः “दशम्यनुगता यत्र तिथिरेकादशी भवेत्। तत्रोपवासे नाशश्च परेत्य नरकं व्रजेदिति” ब्रह्मवैवर्त्ते “दशमीशेषसंयुक्तां यः करोति विभूढधीः। एकादशी फलं तस्य नश्येत् द्वादशवार्षिकमिति” बिष्णुरहस्येऽपि “दशमीशेषसंयुक्तामुपोष्यैकादशीं किल। संवत्सकृतेनेह नरोधर्मेण मुच्यते” इति ईदृशानि सर्वाण्यपि वेधविषये वैष्णवविषयाण्यण्यविषये तूभयाधिक्ये द्वादश्याधिक्ये च सर्वपुरुषविषयाणि द्रष्टव्यानि। दशमीविद्धाभ्यनुज्ञापकानि च कानिचिद्वचनान्युपलभ्यन्ते तद्यथा स्कन्दपुराणे “त्रयोदश्यां न लभ्येत द्वादशी यदि किञ्चन। उपोर्ष्यकादशी तत्र दशमीमिश्रितापि चेति” स्मृत्यन्तरे “उपोष्यैकादशी तत्र द्वादशी न भवेद्यदि। दशम्यापि हि मिश्रैव एकादश्येव धर्मकृदिति” वृहद्वशिष्ठः “द्वादशी स्वल्पस्वल्पापि यदि न स्यात् परेऽहनि। दशमीमिश्रिता कार्या महापातकनाशिनीति” ऋष्यशृङ्गः “एकादशी न लभ्येत सकला द्वादशी भवेत्। उपाष्यैकादशी विद्धा ऋषिरुद्दालकोऽब्रवीदिति” हारीतोऽपि “त्रयोदश्यां यदा नष्ट द्वादशीघटिकाद्वयम्। दशम्यैकादशी विद्धा सैवोपोष्या सदा तिथिरिति” एतादृशानि वाक्यानि सर्वाणि अनुभयाधिक्ये सर्वपुरुषविषयाणि एकादश्याधिक्ये तु स्मार्त्तगृहस्थविषयाणि द्रष्टव्यानि नत्वेतानि वैष्णबविषयाणि वैष्णवप्रकरणेषु विद्धाभ्यनुज्ञाया अदर्शनात्। संपूर्णेकादशीपरित्यागविषयाणि कानिचिद्वचनाम्युपलभ्यन्ते। तद्यथा स्कन्दपुराणे “एकादशी भवेत् पूर्णा परतो द्वादशी यदि। तदा ह्यैकादशीं त्यक्त्वा द्वादशीं समुपोषयेदिति” तथा कालिकापुराणे “एकादशी यदा पूर्णा परतो द्वादशी भवेत्। उपोष्या द्वादशी तत्र तिथिवृद्धिः प्रशस्यत इति” गारुडपुराणे “पूर्णा भवेद् यदा नन्दा भद्रा चौ विवर्द्धते। तदोपोष्या तु भद्रा स्यात् तियिवृद्धिप्रशस्तिव इति”। एवादृशानि सर्वाणि वैष्णवविषयाणि। दिनत्रयविषयाणि कानिचिद्वचनान्युपलभ्यन्ते। यदाह नारदः “यदि दैवात्तु संसिध्येदेकादश्यां तिथित्रयम्। तत्र क्रतु शतं पुण्यं द्वादशीपारणे भवेदिति” कूर्मपुराणेऽपि “द्विसृगेकदाशी यत्र तत्र सन्निहिवो हरिः। तामेवोपवसेत् काममकामो विष्णुतत्परः” इति अत्राद्यन्तयोर्दशमीद्वादश्यौ मध्ये एकादशीत्येतद्दिनत्रय यदाप्रोति तदा परतो द्वादश्या वृद्धिरवृद्धिश्चेत्युभयं सम्भवति। तत्र यद्यवृद्धिस्तदा यथोक्तं दिनत्रयमुपोष्यम्। तदुक्तं पुराणान्तरे “दिनत्रयमृते! देवि नोपोष्या दशमी युता। सैवोपोष्या मदा पुण्या परतश्चेत् त्रयोदशीति” द्वादशीवृद्धौ “एकादशी यदा लुप्ता” इत्यनेन व्यासवचनेन परेद्युरुपवास इति पूर्वमेव निर्णीतं यदा त्वाद्यन्तयोरेकादशी त्रयोदश्योर्मध्ये द्वादशीत्येतादृशं दिनत्रयं तदा नारदेन स्मर्य्यते “एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्”। “एकादशी द्वादशी च रात्रिशषे त्रयोदशी। त्रिस्पृशा नाम सा प्रोक्ता ब्रह्महत्यां व्यपोहतीति”। तदेतद्वैष्णवविषयं यतिविषयं वा द्रष्टव्यम्। गृहस्थे तु तन्निषिद्धम् तथा च कूर्मपुराणे “एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। उपवास न कुर्वीत पुत्रपौत्रसमन्वितः” एति पद्मपुराणे “एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। त्र्यहस्पृग्यदहोरात्रं नोपोष्यं तत् सुतार्थिभिरिति” यत्तु ऋष्यशृङ्गेणोक्तम्। “अविद्धानि निषिद्धैश्च न लभ्यन्ते दिनानि तु। मुहूर्त्तौ पञ्चभिर्विद्धा ग्राह्यैवैकादशी तिथिः। तदर्द्ध विद्धान्यन्यानि दिनान्युपवसेद्बुधः। पूर्ब्बविद्धा न कर्त्तव्या षष्ठ्येकादश्यथाष्टमी। एकादशीं तु कुर्वीत क्षीयते द्वादशी यदीति” अत्र निंषेधो यतिविषयः, विधिर्गृहस्थविषयः वेधवाहुल्ये हेयत्वशङ्का मा भूदिति पञ्चभिर्भुहूर्त्तौरित्युक्तम्। तदेवं नानाविधवचनस्य व्यवस्थापनप्रकारी व्युत्पादितः। अनया व्युत्पत्त्या मन्दबुद्धिरपि व्यवस्थापयितुं शक्लोत्येव। इत्युपवासतिथिर्निरूपिता।
अथाधिकारी निरूप्यते तत्र नारदः “अष्टाव्दादधिको मर्त्योह्यपूर्णाशीतिहायनः। भुङ्क्ते यो मानवो मोहादेकादश्यां स पापकृदिति” कात्यायनोऽपि “अष्टवर्षाधिको मर्त्यो ह्यशीतिन्यूनवत्संरः। एकादश्यामुपवसेत् पक्षयोरुभयोरपीति”। गृहस्थस्य तु शुक्लैक्वादश्यामेव नित्योपवासः यथा कूर्मपुराणे “एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि। वानप्रस्थो यतिश्चैव शुक्लामेव सदा गृहीति” भविष्योत्तरेऽपि “एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि। ब्रह्मचारी च नारी च श्रुक्लामेव सदा गृहीति” नारी विधवा तस्या एव यतिधर्मत्वात्। पतिमत्यास्तू पवासं निषेधति विष्णुः “पत्यौजीवति या नारी उपोष्य व्रतमाचरेत्। आयुष्यं हरते भर्त्तुर्नरकं चैव गच्छतीति” मनुः “नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणमिति” मार्कण्डेयपुराणे “नारी खल्वननुज्ञाता भर्त्त्रा पित्रा सुतेन वा। निष्फलं तु भवेत् तस्या यत्करोति व्रतादिकमिति” आदिशब्दाद्वस्त्रालङ्कारगन्धधूपाञ्जनानामुपसंग्रहः मनुः “पुष्पालङ्कारवस्त्राणि गन्धधूपानुलेपनमिति” पत्युरनुमत्या व्रतादिष्वधिकारिणी भवति तदाह कात्यायनः। “भार्या पत्युर्मतेनैव व्रतादीनाचरेत् सदेति” शुक्लामेवेत्येवकारः कृष्णैकादश्य मुपवासनिषेधपरः। तथा च कूर्मपुराणे “संक्रान्त्यां कृष्णपक्षे च रविशुक्रदिने तथा। एकादश्यां न कुर्वीत उपवासञ्च पारणमिति” गौतमोऽपि “आदित्येऽहनि संक्रान्त्यामसितैकादशीषु च। व्यतीपाते कृते श्राद्धे पुत्री नोपवसेद्गृहीति”। अत्रपुत्रीति विशेषणं पुत्रवतो दोषविशेषप्रतिपादनार्थम् तथा च पद्मपुराण~ “संक्रान्त्यामुपवासेन पारणेन युधिष्ठिर!। एकादश्यां च कृष्णायां ज्येष्ठःपुत्रोविनश्यति” नारदीयेऽपि “इन्दुक्षयेऽकसंक्रान्त्यामेकादश्यां सितेतरे। उपवासं न कुर्वीत यदीच्छेत्सन्ततिन्धुवामिति”। अत्र संक्रान्त्यादिषूपवासस्य निषेधः संक्रान्त्यादिनिमित्तकस्य। तथाच कात्यायनः “एकादर्शीषु कृष्णासु रवि संक्रमणे तथा। चन्द्रसूर्य्योपरागे च न कुर्य्यात्पुत्रवान् गृही। तत्प्रयुक्तोपवासस्य निषेधोऽयमुदाहृतः। निभित्तान्तरयुक्तस्य न विधिर्ननिषेधनमिति” जैमिनिरपि “तन्निमित्तोपवासस्य निषेधोऽयमुदाहृतः। नानुषङ्गकृतोग्राह्योयतोनित्यमुपोषणमिति”। अयमर्थः एकादश्युपवासस्य नित्यत्वात्स क्रान्त्याद्यपवासस्य च काम्यत्वात्काम्योपवासनिषेधे सति न नित्योपयासनिषेथः सिध्यतीति। संक्रान्त्यादिनिमित्तश्चोपवासः संवत्तेनीक्तः। “अमावास्याद्बादशी च संक्रान्तिश्च पिशेषतः। एताः प्रशस्तास्तिथ- यो भानुव रस्तथैव च। अत्र स्नानं जपोहोमो देवतानां च पूजनम्। उपवासस्तथा दानमेकैकं पावनं स्मृतमिति”। गृहस्थस्य तु शुक्ल यामेव नित्योपवास इत्युक्तम्। नैमित्तिककाम्योपवासौ तु कृष्णायामपि कर्त्तव्यौ। तत्र नैमित्तिकः स्मृत्यन्तरे पठ्यते। “शयनीबोधनीमध्ये या कृष्णैकादशी भवेत्। सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचनेति”। काम्यस्तु स्कन्दपुराणे “पितॄणां गतिमन्विच्छन् कृष्णायां समुपोषयेदिति” सनत्कुमारः “भा नुवारेण संयुक्ता कृष्णा संक्रान्तिसंयुता। एकादशी सदोपोष्या सर्वसंपत्करी तिथिरिति”। मत्स्यपुराणेऽपि “एकादश्यां तु कृष्णायामुपोष्य बिधिवन्नरः। पुत्रानायुः समृद्धिं च साम्राज्यं च स गच्छतीति”। दिनक्षये पुत्रवतो गृहस्थस्योपवासोऽपि निषिद्धः तथा च पितामहः “एकादश्यां दिनक्षये उपवासं करोति यः। तस्य पुत्राविनश्यन्ति मघायां पिण्डदोयथेति”। मत्स्यपुराणेऽपि “दिनक्षयेऽर्कसंक्रान्तौ ग्रहणे चन्द्रसूर्य्ययोः। उपवासं न कुर्वीत पुत्रपौत्रससन्वितः” इति। दिनक्षयलक्षणं पद्मपुराणे “द्वौ तिथ्यन्तावेकवारे यस्मिन् स स्याद्दिनक्षयः” इति। वशिष्ठोऽपि “एकस्मिन् सावने त्वह्नि तिथीनां त्रितयं यदा। तदा दिनक्षयः प्रोक्तस्तत्र साहस्रिकं फलमिति”। फलमत्रोपवासव्यतिरिक्तदानादिजन्यं द्रष्टव्यम् उपवासस्य निषिद्धत्वात्। ईदृशे विषये किं कर्त्तव्यमित्याकाङ्क्षायां वायुपुराणे पठ्यते “उपवासे निषिद्धे तु भक्ष्यं किञ्चित्प्रकल्पयेत्। न दुष्यत्युपवासेन उपवासफलम्भवेत्”। “नक्तं हविष्यान्नमनोदनं वा फलन्तिलाः क्षीरमथाम्बु वाज्यम्। यत्पञ्चगव्यं यदि वापि वायुः प्रशस्तमत्रोत्तरमुत्तरं चेति”। उपवासासमर्थस्त्वेकभक्तादीनि कुर्य्यात् तथा च स्मृतिः। “उपवासेत्व शक्तानामशीतेरूर्ध्वजीविनाम्। एकभक्तादिकं कार्यमाह बौधायनो भुनिरिति”। मार्कण्डेयपुराणे “एकभक्तेन नक्तेन तथैवायाचितेन च। उपवासेन दानेन न निर्द्वादशिकोभवेदिति”। कूर्म्मपुराणेऽपि “एकभक्तेन नक्तेन क्षीणवृद्धातुरःक्षिपेत्। नातिक्रामेद्द्वादशीन्तु उपवासव्रतेन चेति”। स्मृत्यन्तरेऽपि “एकभक्तेन नक्तेन बालवृद्धातुरः क्षिपेत्। पयोमूलं फलं वाऽपि न निर्द्वादशिकोभवेदिति”। भविष्येपुराणेऽपि “एकादश्यातुपवसेन्नक्तं वापि समाचरेदिति”। नित्यकाम्ययोरशक्तास्तु प्रतिनिधिभिर्व्र तङ्कारयेयुः। तथा च विष्ण रहस्ये “असामार्थ्ये शरीरस्य व्रते च समु पस्थिते। कारयेद्धर्मपत्नीं वा पुत्रं वा विनयान्वितमिति”। पैठीनसिः “भार्य्या पत्युर्व्रतं कुर्य्याद्भार्य्यायाश्च पतिर्व्र तत्। असामर्थ्ये परस्ताभ्यां व्रतभङ्गो न जायते” इति। स्कन्दपुराणे “पुत्रं वा विनयोपेतं भगिनीं भ्रातरन्तथा। एषामभावएवान्यं ब्राह्मणं विनियोजयेत्”। अन्यत्रापि “भ्रातरं भगिनीं शिष्यं कारयेद्ब्राह्मणादिभि रिति”। स्मृत्यन्तरेऽपि “पितृमातृपतिभ्रातृश्वश्रूगुर्वार्य्यभूभुजाम्। अदृष्टार्थमुपोषित्वा स्वयञ्च फलभाग्भवेदिति” कात्यायनः। “पितृमातृस्वसृभ्रातृगुर्वर्थे च विशेषतः। उपवासं प्रकुर्बाणः पुण्यं शतगुणं लभेत्। दक्षिणा नात्र दातव्या शुश्रूषा विहिता च सा। नारी च पतिमुद्दिश्य एकादश्यामुपोषिता। पुण्यं शतगुणं प्राहुर्मुनयः पारदर्शिनः। उपपासफलंतस्याः पतिः प्राप्तोत्यसंशयम्। राज्यस्थक्षत्रियार्थे च एकादश्यामुपोषितः। पुरोधाः क्षत्रियस्यार्द्धं फलं पाप्रोति निश्चितम्। पितामहादीनुदिश्य एकादश्यामुपोषणे। कृते ते तु फलं विप्राः! समग्रंसमवाप्नुयुः। कर्त्ता दशगुणं पुण्यं प्राप्नोत्यत्र न संशयः। यमुदिश्य कृतंसोपि संपूर्णं फलमाप्नुयादिति”। प्रतिनिधौ च कश्चिद्विशेषः स्मृतौ “काम्ये प्रतिनिधिर्नास्ति नित्ये नैमित्तिके च सः। काम्येऽप्युपक्रमादूर्द्ध्वं क्वचित्प्रतिनिधिं विदुरिति”। अयमर्थः नित्यं नैमित्तिकं च प्रतिनिधिनाप्युपक्रम्य कारयेत् काम्यं तु स्वसामर्थ्यं परीक्ष्य स्वयमेबोपक्रम्य कुर्य्यात् असामर्थ्ये उपक्रमादूर्द्धं प्रतिनिधिनापि तत् कारयेत्।
उपवासाकरणे प्रायश्चित्तं स्मर्य्यते “अष्टम्याञ्च चतुर्दश्यां दिवा भुक्त्वैन्दवं चरेत्। एकादश्यां दिवा रात्रौ नक्तञ्चैव तु पर्वणीति” स्मृत्यन्तरे “अर्के पर्वद्वये रात्रौ चतुर्दश्यष्टमीदिवा। एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणञ्चरेत्”। अथ काम्योपवासक्रमः तत्राङ्गिराः “सायमाद्यन्तयोरह्नोः सायं प्रातश्च मध्यमे। उपवासफलं प्रेसुर्जह्याद्भक्तचतुष्टयम्” इति। देवलः “दशम्यामेकभक्तस्तु मांसमैथुनवर्जितः एकादशीमुपवसेत् पक्षयोरुभयोरपि। देवतास्तस्य तुष्यन्ति कामितं चास्य सिध्वतीति” वृहस्पतिरपि “दिवानिद्रा परान्नं च पुनर्भोजनमैथुने। क्षौद्रं कांस्यामिषं तैलं द्वादश्यामष्ट वर्जयेदिति” कूर्मपुराणे “कांस्य मांसं मसूरांश्च चणकान् कोरदूषकान्। शाकं नधु परान्नञ्च त्यजेदुपवसन् स्त्रियमिति” स्मृत्यन्तरेऽपि “शाकं मांसं मसूरांश्च पुनर्भोजनमैथुने। द्यूतमन्यम्बुपानञ्च दशम्यां वैष्णवस्त्यजेदिति” विष्णुधर्मोत्तरे “असम्भाष्यान् हि सम्भाष्य तुलस्य तसिकादलम्। आमलक्याः फलं वापि पारणे प्राश्य शुध्यति” “असकृज्जलपानं च दिवास्वापञ्च मैथुनम्। ताम्बूलचर्वणं मांसं वर्ज्जयेत् व्रतवासरे” इति च। वसिष्ठः “उपवासे तथा श्राद्धे न खादेद् दन्तधावनम्। दन्तानां काष्ठसंयोगोहन्ति सप्त कुला नि चेति” दन्तधावने प्रायश्चित्तं च विष्णुरहस्ये “श्राद्धोपवासदिवसे खादित्वा दन्तधावनम्। गायत्र्याः शतसंपूतमम्बु प्राश्य विशुद्ध्यतीति” हारीतः “पतितपाषण्डिनास्तिकसम्भाषणमनृताश्लीलादिकमुपवासादिषु वर्जयेदिति” कूर्मपुराणे “बहिर्ग्रामान्त्यजान् सूतिं पतितञ्च रजस्वलाम्। न स्पृशेन्नामिभाषेत नेक्षेत व्रतवासरे” इति विष्णुरहस्ये “स्मृत्यालोकनगन्धादिस्वादनं परिकीर्त्तनम्। अन्नस्य वर्जयेत् सर्वं ग्रासानाञ्चाभिकाङ्क्षणम्। गात्राभ्यङ्गं शिरोऽभ्यङ्गं ताम्बूलं चानुलेपनम्। व्रतस्थो वर्ज्जयेत् सर्वं यच्चान्यत्र निराकृतभिति” ब्रह्माण्डपुराणे “कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम्। व्यायामञ्च प्रवासञ्च दिवास्वप्नं तथाञ्जनम्। तिलपिष्टं मसूरांश्च द्वादशैतानि वैष्णवः। द्वादश्यां वर्ज्जयेन्नित्यं सर्वपापैः प्रमुच्यते” इति।
एकादश्यां श्राद्धं कृत्वापि न भोक्तव्यं तदाह कात्यायनः “उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत्। उपवासं तदा कुर्य्यादाघ्राय पितृसेवितमिति” तथा “मातापित्रोः क्षये प्राप्ते भवेदेकादशी यदां। अभ्यर्च्य पितृदेवांस्तु आजिघ्रेत् पितृसेवितमिति” यत्तु वचनम् “श्राद्धं कृत्वा तु यो विप्रो न भुङक्ते पितृसेवितम्। हविर्देवा न गृह्णन्ति कव्यञ्च पितरस्तथेति” तदेकादशीव्यर्तिरिक्तविषयम् आघ्राणेनापि भोजनकार्य्यं सिध्यति तस्य भोजनकार्य्ये विधानात्”
सूतकादौ दानार्चनरहितमुपवासमात्रं कुर्य्यात् तदुक्तं कूर्म्मपुराणे “काम्योपवासे प्रक्तान्ते त्वन्तरा मृतसूतके। तत्र साम्यं ब्रतं कुर्य्यात्दानार्चनविवर्जितम्” इति वराहपुराणे “सूतके च नरः स्रात्वा प्रणम्य मनसा हरिम्। एकादश्यां न भुञ्जीत व्रतमेवं न लुप्यते। मृतके न च भुञ्जीत एकादश्यां सदा नरः। द्वादश्यान्तु समश्रीयात्स्रात्वा विष्णुं प्रणम्य चेति”। तत्र परित्यक्तं देवार्चनं सूतकान्ते कुर्य्यात् तदुक्तं मत्स्यपुराणे “सूतकान्ते न स्रात्वा पूजायित्वा जनार्द्दनम्। दानं दत्त्वा विधानेन व्रतस्य फलम- श्नुते” इति। स्त्रीणां रजोदर्शनेऽपि न व्रतत्यागः किन्तु देवतार्च्चनादिरहितं सूतकादाविवोपवासमात्रं कर्य्यं तदाह पुलस्त्वः “एकादश्यां न भुञ्जीत नारी दृष्टे रजस्यऽपि” इति। ऋष्यशृङ्गः “संप्रवृत्तेऽपि रजसि २ त्याज्यं द्वादशीव्रतमिति”। सत्यव्रतोऽपि “प्रारब्धदीर्घतपसां नारीणां चेद्रजोभवेत्। न तत्रापि व्रतस्य स्यादुपरोधः कदाचनेति” शुद्ध्यनन्तरं देवतार्च्चनादिकं कुर्य्यात् तथा च स्मृतिः “स्रात्वा भर्तुश्चतुर्थेऽह्नि शुद्धा स्यात्परिचारणे। पञ्चमेऽहनि शुद्धा स्याद्दैवे पित्र्ये च कर्म्मणीति”
नित्योपवासप्रकारो विष्णुरहस्येऽभिहितः “अथ नित्योपवासी चेत्सायं प्रातर्भुजिक्रियाम्। वर्जयेन्मतिमात् विप्रः संप्राप्ते हरिवासरे” इति ब्रह्मवैवर्त्तेऽपि “इति विज्ञाय कुर्वीत नित्यमेकादशीव्रतम्। विशेषनियमाशक्तोऽहोरात्रं भुक्तिवर्जितः। निगृहीतेन्द्रियः श्रद्धासहायोविष्णुतत्परः। उपोष्यैकादशीं पापान्मुच्यते नात्र संशयः”। शक्तौ सत्यां नियमानाचरेत् तथा च कात्यायनः “शक्तिमांस्तु ततः कुर्य्यान्नियमं सविशेषणमिति”।
यदा द्वादश्यां श्रवणनक्षत्रम्भवेत् तदा शुद्धैकादशीमपि परित्यज्य द्वादश्यामेवोपवसेत् तथा च नारदीये “शुक्ला वा यदि वा कृष्णा द्वादशी श्रवणान्विता। तयोरेवोपवासश्च त्रयोदश्यां च पारणमिति” तथा “एकदश्यान्त्वविद्धायां संप्राप्ते श्रवणे तदा। उपोष्याद्वादशी शुद्धा सर्व्वपापक्षयावहेति” यदा पारणपर्याप्ता द्वादशी स्यात्तदा तस्यामेव पारणा कार्य्या न तु त्रयोदश्यां तदुक्तम् “भवेद्यत्र त्रयोदश्यां द्वादश्यास्तु कलाद्वयम्। द्वादश द्वादशीर्हन्ति त्रयोदश्यां तु पारणम्। कलाद्वयं त्रयं वापि द्वादशीं न त्वतिक्रमेत्। पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृतेति” ननु द्वादश्यतिक्रमेऽपि नास्ति दोषः “सा तिथिः सकला ज्ञेयेति “वचने साकल्यविधामादिति चेत् मैवं साकल्यस्य स्नानादिविषयत्वात् वाक्यशेषे “स्नानदानजपादिषु” इत्यभिधानात्। पारणे तु साकल्यवचनं न प्रवर्त्तते “तिथिस्तात्कालिकी ज्ञेयेत्युक्तेः
अल्पद्वादशीकाले यदा पारणन्तदा सद्भिः प्रागेवसर्व्वाः क्रियाः कर्त्तव्याः तदुक्तं नारदीये “अल्पायामध विप्रेन्द्र! द्वादश्यामरुणोदये। स्नात्वार्चनाक्रियाः कार्य्यादानहोमादिसंयुताः। एतस्मात्कारणाद्विप! प्रत्यूषेस्नानमाचरेत्। पितृतर्पणसंयुक्तं स्वल्पां दृष्ट्वा च द्वादशीम्। महाहानिकरी ह्येषा द्वादशी लङ्घिता नृ णाम्। करोति धर्म्महरणमस्नातेव सरस्वतीति” गरुडपुराणेऽपि “यदा स्वल्पा द्वादशी स्यादपकर्षोभुजेर्भवेत्। प्रातर्मध्याह्निकस्यापि तत्र स्यादपकर्षणमिति”। स्कन्दपुराणेऽपि “यदा भवेदतीवाल्पा द्वादशी पारणादिने। ऊषःकाले द्वयं कुर्य्यात् प्रातर्मध्याह्निकञ्चयदिति”। तत्र पारणा सम्भवे अद्भिः पारणङ्कुर्य्यात् तदाह कात्यायनः “सन्ध्यादिकम्भवेन्नित्यं पारणन्तु निमित्ततः। अद्भिस्तु पारयित्वाथ नैत्यिकान्ते भुजिर्भवेदिति” देवलोऽपि “सङ्कटे विषमे प्राप्ते द्वादश्यां पारयेत्कथम्?। अद्भिस्तु पारणङ्कुर्यात्पुनर्भुक्तं न दोषकृदिति”। यथा कलयापि द्वादशी नास्ति तदात्रयोदश्यामपि पारणङ्कुर्य्यात् तदुक्तं नारदाये “त्रयोदश्यां तु शुद्धायां पारणं पृथिवीफलम्। शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयमिति”। पारणञ्च नैवेद्यमिश्रितङ्कुर्य्यात् तदुक्तं स्कन्दपुराणे “कृत्वा चैवोपवासन्तु योऽश्नाति द्वादशादिने। नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनमिति”।
अस्यामेकादश्यां यान्युपवासप्रतिनिधिरूपाणि एकभक्तनक्तायाचितदानानि तेषां प्रतिपद्युक्तन्यायेनोपवासतिथावेवानुष्ठानं, य नि तु स्वतन्त्राण्येकभक्तनक्ता दीनि तेषां पूर्ब्बोक्तन्यायेन मध्याह्नादिव्यापितिथिग्रहणप्राप्नौ दशमीविद्धा प्रतिषिध्यते द्वादशीकल्पे “पूर्णाविद्धांदिनार्द्धेन नन्दां पूर्णामपि त्यजेत्। यदीच्छेदात्मसन्तानं नियमेषु चतुर्ष्वपि। नोपोषितं च नक्तञ्च नैकभक्तमयाचितम्। गन्दायां पूर्णविद्धायां कुर्य्यादैश्वर्य्यमोहितः। एकादशी युता शस्ता द्वादश्या समुपोषणे। नक्ते चायाचिते नित्यमेकभक्ते तथाऽनघ!। नक्तञ्चायाचितं तात! नैकभक्तमुपाहरेत्। दशमीसहिते दानमनर्थं हरिवासरे” इति दिनार्द्धेन सार्द्धसप्तमुहूर्त्तैरित्यर्थः। एतदेवाभिप्रेत्य “दिक्पञ्च दशमिस्तथेति” उदाहृतम्। तथा “सार्द्धसप्तमुहूर्त्तेस्तु वेधोऽयं बाधते व्रतमिति” एतदूनवेधे तु तिय्यन्तरवन्मध्याह्नादिव्याप्तिर्ग्रहीतव्या”।
अत्राधिकारिविशेष हरि० भ० आग्नेये “गृहस्थोव्रह्म चारी वा आहिताग्निर्यमिस्तथा। एकादश्यं न भुञ्जीत पक्षयो रुमयोरपि”। पाद्मोत्तरखण्डे “वर्णानामाश्रमाणाञ्च स्त्रीणाञ्च वरवर्णिनि! एकादश्युपवासस्तु कर्त्तव्योनात्र संशयः”। “एतस्मात् कारणाद्विप्र! एकादश्य मुपेषणम्। कुर्य्यान्नरोवा नारी वा पक्षयोरुभयोरपि” विष्णुधर्म्मोत्तरीयम् “वैष्णवों वाथ शैवोवा कुर्य्यादेकादशीव्रतम्”। सौरपुराणम् “वैष्णवोवाथ शैवोवा सौरोऽप्येतत् सेमाचरेत्”। स्कान्दम्। “न शैवोन च सौरोवांनाश्रमी तीर्थसेवकः। योभुङ्क्ते वासरे विष्णोः श्वपचादधिको हि सः। विप्रिथं तेन मे गोरि! कृतं दुष्टेन पापिना। मद्भक्तिबलमाश्रित्य येन भुक्तं हरेर्दिने”। “विधवा या भवेन्नारी भुञ्जीतैकादशीदिने। तस्यास्तु सुकृतं नश्येत् भ्रूणैत्या दिनेदिने” कात्या०। एकादशीं विना रण्डा यतिश्च सुमहातपाः। पच्यते ह्यन्धतामिस्रे यावदाहूतसंप्लवम्” नारदीयम्। “सधवायास्तु पत्यनुमत्या सह वाधिकारः। “सपुत्रश्च सभार्य्यश्च स्वजनै र्भक्तिसंयुतः। एकादश्यामुपवसेत् पक्षयोरुभयोरपि” विष्णुध०। तदनुमत्या सधवाया अधिकारिता कालमा० दर्शिता।
“वैष्णवस्योभयपक्षयोर्निंत्याधिकारः यथाह तत्त्वसागरे। “यथा शुक्ला तथा कृष्णा यथा कृष्णा तथेतरा। तुल्ये ते मनुते यस्तु सवै वैष्णव उच्यते” एवमेव ए० त० रघु०। “व्याधिभिः परिमूतानां पित्ताधिकशरीरिणाम्। त्रिंशद्वषांधिकानाञ्च नक्तादिपरिकल्पनम्” मार्क० पु०। प्रागुक्तकालमाधवमतानुसारिण्येकादशीव्रतकालादिव्यवस्था सर्वदेशवासिभिः प्रायेणाद्रियते। गीडनिवासिभिस्तु रघुनन्दनोक्ता व्यवस्थाद्रियते। तन्मतसिद्धव्यवस्था तु एकादशी त० धृतवचनजातादनुसन्धेया तत्र संक्षेपस्तत्रं दर्शितो यथा “तत्र संक्षेपः पारणादिने द्वादशीलाभे सर्व्वएव पूर्णां त्यक्त्वा खण्डामुपवसेत् तदलाभे गृहो पूर्ब्बां तदन्यःपरां विधवापि। यदा तु पूर्ब्बदिने दशम्या उत्तरदिने द्वादश्या युक्तैकादशी तदोत्तरामुपोष्य द्वादश्यां पारणं कुर्य्यात्। परदिने द्वादशानिर्गमे त्रयोदश्यामपीति। यदा तु सूर्य्योदयानन्तरं दशमीयुतैकादशी अथ च परदिने न निःसरति तदा तां विहाय द्धादश मुपवसेत्। (अत्रमाधवमते भेदः) यदा तु सूर्य्योदयात् प्राक् कालीनदशमीविद्धैकादशी परदिने न नि सरति तदा तामुपवसेत्। यदा तु तथाविधा सती परदिनेऽपि निःसरति तत्परदिने च द्वादशी तदा तां विहाय खण्डामुपोष्य द्वादश्यां पारयेत्। यदा तु पूर्व्वदिने तद्विद्धैकादशी परदिने च द्वादशी तदा षष्टिदण्डात्मिकां विद्धामुपोष्य परदिने द्वादश्याः प्रथमपादमुत्तीर्प्य पारयेत्। वैष्णवस्तु तत्रापि शुक्लपक्षे परामुपोष्य त्रयोदश्यां वारयेदिति।
सर्व्वस्यां कृष्णैकादश्यां वैष्णवानां सपुत्त्राणां गृहस्त्रानामप्युपवासोनित्यः। ब्राह्मणस्य तु विशेषतोनित्यः। वैष्णवेतरेषान्तु तादृशानां हरिशयनमध्यवर्त्तिनीषु कृष्णैकादशीषूपवासोनित्यः। अपुत्त्रवतां गृहिणान्तु सर्व्वास्वेव नित्याधिकारः। काम्योपवासे तु अविशेषेणैव सर्व्वेषामधिकारः। नित्योपवासे तु रविसंक्रमादिदोषोनास्ति अष्टाब्दादधिकोमर्त्योह्यपूर्ण्णाशीतिवत्सरोनित्याधिकारी विधवायास्तु सर्व्वास्वेव निव्याधिकारः।
अत्र मलमासादिदोषोनास्ति। यथा ज्योतिः पराशरः “अनादिदेवतार्च्चासु कालदोषोन विद्यते। नित्यस्वाध्याययोगे च तथैवैकादशीव्रते” एका० त० रघु०।
अत्र विशेषोहेमाद्रौ स्कान्दे। “एकादशी कला यत्र द्वादशी च क्षयं गता। नक्तं तत्र प्रकुर्व्वीत नीपवासं गृहाश्रमी”। अत्रोपवासविधायकसामान्यशास्त्रस्य नक्तविधायकविशेषशास्त्रेण बाधः। “एकादशी कलाप्येका द्वादशी यत्र लुप्यते। तत्रोपवासं कुर्वीत निष्कामोविष्णुतत्परः” तत्रैव स्कान्दम्। “तत्र पूर्वापरवचनपर्य्यालोचनया नक्तविधानं कामिनः काम्योपवास व्रतविषयं, निष्कामस्य, नित्योपवासार्थिनो विष्णुपरायणस्य गृहस्थस्याप्युपवासः” ए० त० रघु०। वाचस्पतिमते “निष्कामस्तु गृही कुर्य्यादुत्तरैकादशीं तथा। सकामस्तु तदा पूर्वां कुर्य्याद्बौधायनोऽब्रवीत्” विष्णुरहस्यात् सकामेन तत्र दशमीविद्धा कार्य्या निष्कामेण द्वादशीयुक्तोपोष्येतिभेदः।
वेधविषये हेमाद्रो तु सार्द्धघटिकात्रयोक्तिरष्टाविंशतिमानरात्रिविषया महत्तरास्तु रात्रीरपेक्ष्य चत्रस्रोधटिकाग्राह्या “निशःप्रान्ते तु यामार्द्धे देववादित्रवादने। सारस्वतानध्ययने चारुणोदय उच्यते इति” स्मृतेरित्युक्तम्। हेमाद्रिमतानुसारेण निण्ण० सि० एकादशीभेदा अष्टादशेत्युक्त्वा तद्व्यवस्था तत्रोक्ता यथा “शुद्धा विद्धा द्वयी नन्दा त्रेधा न्यूनसमाधिकैः। षट्प्रकाराः पुनस्त्रेधा द्वादश्यूनसमाधिकाः” इत्यष्टादशैकादशी भेदाः तत्र शुद्धाधिकन्यूनद्वादशिका शुद्धाधिकसमद्वादशिका च सकामैः पूर्वा निःकामैरुत्तरा कार्या “प्रथमेऽहनि संपूर्णेति” पूर्वोक्तस्कान्दात् “ऊनद्वादशिकायां तु विष्णुप्रीतिकार्मैरुपवासद्वयं कार्य्यम् “संपूर्णैकादशी यत्र प्रभाते पुनरेव सा। लुप्यते द्वादशी तस्मिन्नुपवासः कथं भवेत्?। उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परैरिति” वृद्धवसि- ष्ठोक्तेः। “शुद्धन्यूना शुद्धाधिका शुद्धसमा विद्धन्यूना विद्ध समाधिकद्वादशिका च सर्वेषां परैवेति” हेमाद्रिः मदनरत्नं तु शुद्धाधिका परा। “संपूर्णैकादशी यत्रेति” पूर्वोक्तेः। “शुद्धा यदा समा हीना समा हीबाधिकोत्तरा। एकादशी मुपवसेन्न शुद्धां वैष्णवीमपीति” स्कान्दात् अत्र शुद्धा एका दशी, उत्तरा दृदशी “नचेदेकादशी विष्णाविति” नारदोक्तेश्च। यत्तु “अविद्धापि च विद्धा स्यादिति” पद्मम् तच्छुद्धाधिकापरम्। यत्तु “संपूर्णैकादशी त्याज्या परतो द्वादशो यदि। उपोष्या द्वादशी शुद्धा द्वादश्य मेव पारणम्” इत्यादि तद्वैष्णवपरम्। स्मार्त्तानां तु पूर्वैवेत्युक्तम्। विद्धन्यूना समद्वादशिका तु मुमुक्षूणां पुत्रवतां च परा अन्येषाञ्च पूर्वा। पुत्रवतोऽपि पूर्वोति मदनरत्ने। विद्धसमा समद्वादशिकोनद्वादशिका च मुमुक्षुभिः पराऽन्यैः पूर्वा कार्या। “दशमी मिश्रिता पूर्वा द्वादशी यदि लुप्यते। शुद्धैव द्वादशी राजन्नुपोष्या मोक्षकाङ्क्षिभिरिति” व्यासोक्तेः मोक्षकाङ्क्षिग्रहणादन्येषां पूर्वैव। “पारणाहे न लभ्येत द्वादशी कलयापि चेत्। उदानीं दशमीविद्धाप्युपोष्यैकदशी तिथिरिति” ऋष्यशृङ्गोक्तेश्च। विद्धाधिका समद्वादशिका च सर्वेषां परैव माधवमते त्वत्र गृहिणः पूर्वा यतेरुत्तरा “सर्वत्रैकादशी कार्य्या द्वादशीमिश्रिता नरैः। प्रातर्भवतु वा मा वा यतो नित्यमुपोषणमिति” पाद्मोक्तेः। विद्धाधिका न्यूनद्वादशिका मोक्षपरैः विष्णुप्रीतिकामैः परा कार्य्या गृहस्थेन तु नक्त कार्य्यम् “एकादशी द्वादशी च रात्रिशेषे त्रयोदशी। उपवासं न कुर्वीत पुत्रपौत्रसमन्वित” इति कौर्मे दिनक्षये उपवास निषेधात्। “दशम्यैकादशी विद्ध्वा द्वादशी च क्षयं गता। क्षीणा सा द्वादशी ज्ञेया नक्तं तु गृहिणः स्मृतमिति” वृद्धशातातपोक्तेश्च गृहिणः पूर्वत्रोपवासः। एकादश्याः शुद्धन्यूनत्वे शुद्धसमत्वे वा द्वादश्या न्यूनसमत्वयोरेकादश्यामुपवासः। यानि तु “दशम्यनुगता हन्ति द्वादशद्वादशीफलम्। धर्मापत्यधनायूंषि त्रयोदश्यां तु पारणमिति” कौर्मादीनि दशमीवेधत्रयोदश पारणयोर्निषेधकानि तानि विहितभिन्नपराणि अत्र मूलवचनानि तद्व्यवस्था चाकरे ज्ञेया। यत्तु कालहेमाद्रौ “बहुवाक्यविरोधेन सन्देहो जायते यदा। द्वादशी तु तदा ग्राह्या त्रयोदश्यां तु पारणमिति” मार्कण्डेयोक्तेः “सन्दिग्धेषु च वाक्येषु द्वादशीं समुपोवयेत्। विवादेषु च सर्वेषु द्वादश्यां समुपोषणम्। पारणं च त्रयोदश्यामाज्ञेयः मा- मकी मुने!” इति पाद्मोक्तेश्च वेधसन्देहे ज्योतिर्विदां वि प्रतिपत्तौ वा परा कार्य्येत्यक्तम्। तद्वैष्णवविषयम्”
“अथात्रोपयुक्तं किञ्चिदुच्यते। तत्र दशम्यामेकादशीयोगे दशमीमध्य एव भोजनम्। “एकादश्यां न भुञ्जीतेति” तस्या एव निमित्तत्वात्, “निषेधस्तु निवृत्तात्मा कालमात्रमपेक्षत” इति देवलोक्तेश्च। केचित्तु एकादशी व्रताङ्गत्वेन पूर्वेद्युरेका क्तविधानाद्विधिस्पृष्टे च विषये निषेधानवकाशेन काम्यव्रताङ्गे न भोजननिषेध प्रवर्त्तते ते नैकादशीमध्येऽपि पूर्वदिने भोजनमित्याहुः” निर्ण्ण० सि०। तत्रैकादशीदिवसे श्राद्धप्राप्तौ विशेषः नि० सि० उक्तः
माधवीये “उपवासो यदा नित्यः” इत्यादि प्रागुक्त कात्यायनवाक्यमाश्रित्य उपवासदिनेश्राद्धं कृत्वा श्राद्धशेष घ्राणं कार्य्यमिति व्यवस्थाप्योक्तम्। “हेमाद्र्यादिसर्वनिबन्धेष्ववम्। एतेनैकादशीनिमित्तकं व्वाद्धं द्वादश्यां कार्य्यमिति” वदन्तः परास्ताः किञ्च, महालये। “स पक्षः सकलः पूज्यः श्राद्धषोडशकं प्रतीति, श्रुतं षोडशत्वम्। पौषैकादश्यां च मन्वादिश्राद्धं, क्षयाहापरिज्ञाने च कृष्णैकादश्यां विहितं श्राद्धं बाधितमेव स्यात्। यदपि स्मृतिचन्द्रिकास्थं पठन्ति। “अन्नाश्रितानि पापानि तद्भोक्तुर्दातुरेव वा। मज्जन्ति पितरस्तस्य नरके शाश्वतीः समा” इति। तस्यापि रागप्राप्तभुजिगोचरस्य वैधं श्राद्धं गोचरयतां महत्साहसमित्यलम्। योऽपि “अकृतश्राद्धनिचया जलपिण्डविनाकृताः” इति लघुनारदीये एकादश्यां श्राद्धादिनिषेधः स मातापितृभिन्नविषयः पूर्ववाक्ये तद्ग्रहणात्”
हरिभक्तिविलासानुसारिणस्तु वैष्णवदीक्षावतां तद्दिने श्राद्धनिषेधः द्वादश्यां तत् करणीयमिति वदन्ति यथा “अथोपवासदिने श्राद्धनिषेधः। पाद्मे पुष्करखण्डे “एकादश्यां यदा राम! श्राद्धं नैमित्तिकं भवेत्। तद्दिनं तु परित्यज्य द्वादश्यां श्राद्धमाचरेत्”। तत्रैवोत्तरखण्डे “एकादश्यान्तु प्राप्तायां मातापित्रोर्मृताहनि। द्वाददश्यां तत् प्रदातव्यं नोपवासदिने क्वचित्। गर्हितान्नं नचाश्नन्ति पितरश्च दिसौकसः”। स्कान्दे “एकादशी यदा नित्या श्राद्धं नैमित्तिकं भवेत्। उपवासं तदा कुर्य्यात् द्वादश्यां श्राद्धमाचरेत्”। ब्रह्मवैवर्त्ते। “ये कुर्व्वन्ति महीपाल! श्राद्धं त्वेकादशीदिने। त्रयस्ते नरकं यान्ति दाता भोक्ता परेतकः”। हरिभक्ति० धृतवाक्यानि। “एकादश्यां यदा रामेत्यादिना उपवासदिने श्राद्धं निषिद्धम्। यच्च स्कान्दादौ “श्राद्धदिनं समासाद्य उपवासो यदा भवेत्। तदा कृत्वा तु वै श्राद्धं भुक्तशेषन्तु यद्भवेत्। तत् सर्व्वं दक्षिणे पाणौ गृहीत्वान्नं शिखिध्वज!। अवजिघ्रेदनेनाथ भवेत् श्राद्धं शिखिध्वज!। पितॄणां तृप्तिदं तात! व्रतभङ्गो न विद्यते” इत्यादि। तच्च वैष्णवेतरविषयं मन्तव्यम् वैष्णवपितॄणामपि श्रीविष्णुदिने श्राद्धभक्षणायोगादिति” तट्टीका। अत्रेदं बोध्यं स्मृतिचन्द्रिकास्थवचनेन हरिभक्तिविलासधृतचवनचतुष्टयेन च उपवासदिने श्राद्धनिषेधात् प्रागुक्त कात्यायनस्कान्दादिवचनेन श्राद्धशेषभोजनासम्भवेऽपि आघ्राणमात्राङ्गकतया श्राद्धविधानात् परस्परं विरोधस्तयोर्विरोधपरिहाराय कर्त्तृभेदविषयकत्वमवश्य कल्पनीयं तद्विना तदपरिहारात् तत्र वैष्णवेतरविषतया आघ्राणाङ्गश्राद्धस्य, वैष्णवविषयकतया च श्राद्धनिषेधस्य कल्पनं युक्त न च विनिगमनाविरहेण वैपरीत्यं शङ्कनीयं वैष्णवस्य सत्वगुणाधिकविष्णोः सेवकत्वेन सात्विकपुराणीक्तविधेरेव ग्राह्यतया सात्विकपुराणेषु च पाद्मस्य कीर्त्तनात् वैष्णवैः पाद्मोक्तविधेरेव ग्रह्यतौचित्येन स्कान्दस्य तामसत्वेन तदुक्तविधेस्ततरैर्ग्राह्यतौचित्येन च विनिगमनासम्भवात्” पाद्मस्कान्दयोर्यथा सात्विकतामसत्वं तथोक्तम्” मात्स्यं कौर्म्मं तथा लैङ्गं शैवं स्कान्दं तथैव च। आग्नेयञ्च षडेतानि तामसानि निबोधत। बैष्णवं नारदीतञ्च तथा भागवतं शुभम्। गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने। सात्विकानि पुराणानि विज्ञेयानि शुभानि षट्” पद्मपु०। एवञ्च सति पाद्मवाक्यस्य वैष्णवविषयकत्वनिश्चये स्कान्दकात्यायनादिवाक्यस्य तदितरविषयत्वं निर्श्चीयते। निर्ण्णयसिन्धुकृता श्राद्धनिषेधवाक्यस्य मातापितृश्राद्धव्यतिरिक्तविषयकत्वं यत्कल्पितं तन्न मनोरयमं पाद्मोक्तवाक्ये गर्हितान्नं न गृह्णन्ती पितरैति पितृमात्रस्याग्रहणोक्तेः सर्व्वश्राद्धस्यैव निषेधात् मातापित्रोर्मृताहनात्यादिपाद्मोत्तरवचने तयोरपि श्राद्धनिषेधात्। तेन कैमुतिकन्यायेनेतरश्राद्धस्यापि निषेधः सूपपन्न एव। किञ्च शेषभोजननिमित्तकालयोरुभयोप्यरङ्गतया स्मार्त्तानां शेषभोजनरूपार्ङ्गबाधः वैष्णवानां तु कालबाध इत्युभयोरपिएकतरबाधस्य शास्त्रबोधिततया न दूषकत्वम्। स्मार्त्तैरपि ग्रस्तोदया दिनिमित्तकोपवासदिने श्राद्धं निषिध्य ग्रहणात् परेद्युः श्राद्धविधानेन कालरूपाङ्गवाधस्य तत्र स्वीकारात तद्ध- दत्रापि एकादश्युपवासदिनसम्भविमृताहरूपकालबाधेनोत्तरदिने श्राद्धविधानेनावैष्भ्यम्। तथा च “ग्रस्तोदये यदा चन्द्रे प्रत्यव्द समुप्रस्थितम्। तद्दिने चोपवासः स्यात् प्रत्यव्दं तु परेऽहनि” “ग्रस्तावेवास्तमानं तु रवीन्दू प्राप्नुतो यदि। प्रत्यव्दं तु तदा कार्य्यं परेऽहन्येव सर्व्वदा” नि० सि० धृतवचनैः निमित्तकालबाधेनापरेद्युः श्राद्धकालः। एतेन एकादशीव्रतदिवसे श्राद्धनिषेधे विघ्नपतितश्राद्धस्य कृष्णैकश्यां विधानम् अश्वयुक्कृष्णपक्षनिमित्तकषोडशश्राद्धविधानञ्च निर्विषयं स्यादित्यापत्तिरपास्ता विषयभेदेन व्यवस्थासम्भवात्। तथाहि विघ्नपतितश्राद्धे श्राद्धकालव्याप्तैकादशीतिथिमात्रस्य निमित्तता तस्य व्रतदिवसात् पूर्ब्बेद्युरपि कदाचित् सम्भवेन तद्रूपविषयलाभेन निर्विषयत्वाभावात् क्वचिदेकदिने तत्प्रसक्तावपि सामान्यमुखेन प्रवृत्तशास्त्रस्य उपवासदिनव्यतिरिक्ततिथिखण्डविषयकत्वकल्पनेनाविरोधः। किञ्चात्र कर्त्तृभेदेनव्यतस्थाप्युपपद्यते वैष्णवेतरसपुत्रगृहस्थस्य कृष्णैकादश्युपवासस्य नित्यत्वाभावेन तत्परं श्राद्धविधानं, वैष्णवविषयः श्राद्धनिषेध इति कर्त्तृभेदसम्भवात्। अश्वयुक्कृष्णपक्षनिमित्तकषोडशश्राद्धविधानमपि न निर्विषयं तिथिह्रासादिवशादेकसावनदिवसे तत्रविहितश्राद्धद्वयवद् वैष्णवैः द्वादश्यां श्राद्धद्वयकरणेन षोडशसंख्यापूर्त्तिसम्मवात्। पौषैकाकाशारूपमन्वादिनिमित्तकश्राद्ध स्यापि नैमित्तिकतया मन्वादिकृत्यत्वेन पूर्व्वाह्णे विहितत्वेन उपवासदिन एव तत्खण्डस्यैव लाभसम्भवेन पूर्ब्बदिवसे च तदसम्भवेन विरोधप्रसङ्गेऽपि वैष्णवानां द्वाद श्यामेव मृताहश्राद्धस्येव तस्य कर्त्तव्यता वैष्णवेतरगृहस्थस्य तद्दिने कर्त्तव्यतेति कर्त्तृभेदात् व्यवस्थाया नानुपपत्तिः।
पाद्मे नैमित्तिकमित्युक्तेः ब्रह्मवैवर्त्ते परेतक इत्युक्तेश्च आद्यश्राद्धमपि एकादश्युपवासदिवसे वैष्णवैर्न कर्त्तव्यमेव। “एकोद्दिष्टं तु यत् श्राद्धं तन्नैमित्तिकमुच्यते। तदप्यदैवविकं कार्य्यमयुग्मानाशयेद् द्विजान्” इति भविष्य पु० एकोद्दिष्टस्य नैमित्तिकत्वेन परिभाषितत्वात्प्रेतोद्देश्यकश्राद्धस्य च एकोद्दिष्टत्वाच्च तस्यापि तद्दिने निषेध एव प्रेतश्राद्धस्य यथैकोद्दिष्टत्वं तथैकोद्दिष्टशब्दे वक्ष्यते इत्थं स्मार्त्तवैष्णवकर्त्तृभेदात् व्यवस्थाभेदः।
एकादशगुरु = पु० एकदशमिता गुरवः। “आचार्य्यश्च पिता ज्योष्ठोभ्राता चैव महीपतिः। मातुलः श्वशुरस्त्राता मातामहपितामहौ। वर्ण्णज्यष्ठः पितृव्यश्च पुंस्वेते गुरवोमताः” इति देवलोक्तेषु आचार्य्यादिषु। त्राता त्राणकत्तां। वर्ण्णज्येष्ठः क्षत्रियादीनां ब्राह्मणादिः। “अनेनैकादश गुरवःसङ्केतिताः। कथमनेकेषामेकगुरुशब्द बाच्यत्वमेकस्य प्रवृत्तिनिमित्तस्याभावात् इति चेन्न “गुरुरनुगन्तव्यः” इत्यादि श्रुत्या सदापरितोषणीयत्वादि धर्म्मात्मकस्योपाधित्वात् यद्यप्याचार्य्यस्यैव परितोषणीयता श्रूयते तथापि तदन्येष्वतिदिश्यते अतोऽतिदिष्टधर्म्मोऽप्येकपदप्रवृत्तावुपाधिर्भवति इष्टिशब्दप्रवृत्ताविव तद्धर्म्मसंबन्धः शास्त्रीयगुरुपदप्रवृत्तिविषयत्वं वोपाधिर्भव तु विशेषाग्रहादक्षादिशब्दवदनेकार्थतैव कोदोषः” प्रा० वि०। अयञ्च शब्द एकादशिन्शब्दात् पूर्ब्बं बोध्यः प्रमादात्तत्र न लिखितोऽतोऽत्र लिखितः।
एकादशराशिक = न० एकादश राशीनधिकृत्य प्रवृत्तं गणनम् कन्। लीलावत्युक्ते गणनप्रकारभेदे तत्प्रकारश्च तत्रैव यथा “पञ्चसप्तनवराशिकादिकेऽन्योन्यपक्षनयनं फलच्छिदाम्। संविधाय बहुराशिये बषे स्वल्पराशिबधभाजिते फलम्” इत्युक्तदिशा फलानयनम्। तत्रोदा० “पिण्डे येऽर्कमिताङ्गुलाः किल चतुर्वर्गाङ्गुलाविस्तृतौ पि० १२ ८ पट्टादीर्घतया चतुर्द्दश करास्त्रिंशन्मिताः” वि० १६ १२ “एता विस्तृतिदीर्घपिण्डमितयो येषां दी० १४ १० चतुर्वर्जिताः” इति नवराशिके उक्त्वा। मि० ३० १ ४
“पर्ट्टाये प्रथमोदितप्रमितयोगव्यूतिमात्रे गतास्तेषावि० १२ ८ मानमनाय चेच्छकटिनां द्रस्माष्टकं भाटवि० १६ १२ कम्। अन्ये ये तदनन्तरं निगदितामाने दी० १४ १० चतुर्वर्जितास्तेषां का भवतीति भाटकमि० ३० १४ मितिर्गव्यूतिषट्के वद”। अत्र फलस्येतरग० १ ६ पक्षनयने तस्य बहुराशिकत्वं तद्रहितपक्षस्य भा० ८० स्वल्पराशिता तेन समानाङ्केनोभयपक्षयोरपवर्त्तने फलसहितबहुराशिपक्षस्याङ्कस्य परस्परगुणने जाताः ४८ अङ्काः फलरहितपक्षाङ्कानां परस्परघातनिष्पन्नेन ६ षडङ्केन भाजिते लब्धाः ८ अष्टौ अङ्कास्तेन अष्ट द्रस्मास्तत्र भाटकमितिरिति तत्र निश्चयः। अत्रेदमवधेयम् फलच्छिदामित्युक्तावपि फलच्छेदभिन्नराशिच्छेदस्यैव अन्योन्यपक्षनयनम् न तु फलच्छेदस्येति। अयञ्च शब्दः एकादशद्वारशब्दात् परं बोध्यः प्रमादात्तत्र न लिखितोऽतोऽत्रोक्तः।
***