एकपक्ष = पु० एकः पक्षो यस्य। १ सहाये कर्म०। एकत्र २ पक्षे पु०

एकपत्नी = स्त्री एकः समानः अनन्योवा पतिर्य्यस्याः नान्तादेशः नान्तत्वात् ङीप् १ सपत्न्याम् “सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत्। सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः” मनुः २ पतिव्रतायाञ्च। “यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम्” मनुः “ताञ्चावश्यं दिवसगणनातत्परामेकपत्नीम्” मेघ०। “कामेकमत्नीं व्रतदुःखशीलाम्” कुमा०। एकःपतिरीशो यस्य वा कप्। एकपतिक एकस्वामिके त्रि० स्त्रियां टाप्। “पत्युर्नोयज्ञसम्बन्ध” इत्यधिकारात् भर्त्रर्थकस्यैव नादेशङीपौ नेतरस्य।

एकपत्रिका = स्त्री एकं गन्धयुक्ततया श्रेष्ठं पत्रं यस्याः कप् टापि अत इत्त्वम्। गन्धपत्रावृक्षे राजनि०।

एकपद = न० एक पदं पदीच्चारणयोग्यकालो यत्र। एकपदोच्चारणयोग्यकाले १ तत्काले। कर्म०। एकस्मिन् २ स्थाने ३ सुप्तिङन्तरूपे पदे च “निहन्त्यरोनेकपदे य उदात्तः स्वरानिव” माघः। “अनुदात्तं पदमेकवर्जम्” पा० एकपदे अन्यस्वरस्य उदात्तेन निघातविधानात्तेन सादृश्य मिहोक्तमिति बोध्यम् “क्वथमेकपदे निरागसम्” रघुः। एकं पदं चरणो यस्य। ४ एकवरणमनुष्ये ५ तद्युक्ते देशभेदे पु० स च देश वृहत्सं० कूर्म्मविभागे प्राच्यामुक्तः। अथ पूर्वस्यामञ्जन इत्याद्युपक्रम्य “एकपदतामलिप्तिककोशलकावर्द्धमानश्चेति” एकं पदं कोष्ठं पूजास्थान यस्य। वास्तुमण्डले एककोष्ठपूंज्ये ६ देवभेदे पु० “भृगुश्चैकपदोज्ञेयः” वास्तु० त० देवीपु०। एकं पदं कोष्ठरूपं स्थानम्। कर्म्म०। वास्तुमण्डलस्थे ७ एककोष्ठात्मकस्थाने न० “इन्द्रश्चेन्द्रात्मजश्चोभावेकैकपद संस्थिता” तत्रैव। तत्कोष्ठलिखनादिप्रकारोवास्तुशब्दे वक्ष्यते। एकं पदं चरणोऽस्य। ८ मृगभेदे पुंस्त्री। स्त्रियां जातित्वात् ङीष्। “कर्णौर्णेकपदाश्वास्यैर्निजुष्टं वृकलालिभिः” भाग० ४, ६, १५। एकं सुवन्तं पदं वाचकं यस्य। ९ एकपदवाच्ये त्रि० “किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः। किंस्वेदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम्”। यक्षप्रश्ने “दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः। सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम्” भा० व० ३१२ अ०। युधिष्ठिरेणैकपदबोध्यदाक्ष्याद्युत्तरे उक्तम् एकं पद पदविन्यासविशेषो यत्र। १० रतिबन्धभेदे पु० “पादमेकं हृदि स्थाप्य द्वितीयं स्कन्धसंस्थितम्। स्तनौ धृत्वा रमेत् कामी बन्धस्त्वेकपदः स्मृतः” रत्नमालोक्तेः।

एकपदि = अव्य० एकः पादः साधनं यस्मिन् प्रहरणे। द्विदण्ड्यादि० इच्समा० मत्वात् पद्भावश्च। पादसाधने प्रहरणे।

एकपदी = स्त्री एकं गन्तुः समानं पदं तच्चिह्नमत्र गौ० ङीष्। पथि अमरः। तत्र हि गन्तुः पदसमानचिह्नं दृश्यते इति तस्य तथात्वम्। एकः पादो यस्याः संख्यापूर्वकत्वात् पाद्भावः कुम्भपद्या० ङीष् पद्भावश्च। २ एकचरणयुक्तायां स्त्रियाम् ३ एकवृत्तचतुर्थांशयुक्तायामृचि च “गायत्र्यस्येकपदी द्विपदी त्रिपदी” श्रुतिः। “एकपदीं द्विपदीं त्रिपदीं चतुष्पपदीमष्टापदीम्” यजु० ८, ३१।

एकपरि = अव्य० एकेन विपरीतं वृत्तम् “अक्षशलकासंख्याः परिणा” पा० अव्ययी०। एकेन विपरीततया पतनेन पराजये द्यूते व्यवहारेचायं प्रयोगः। यस्य यथा पातने जयोभवति तस्य एकस्यान्यथाक्षादेः पातने एवं प्रयोजनः एवं व्यवहारेऽपि।

एकपर्ण्णा = स्त्री एकं पर्ण्णं तपःसाधनतया आहारो यस्याः। शैल राजस्य मेनायादुत्पन्नदृहितृत्रयमध्ये १ दुहितृमेदे। “तिस्रः कत्यास्तु मेनायां जनयामास शैलराट्। अपर्ण्णामेकपर्ण्णाञ्च तृतीयामेकपाटलाम्” इत्युपक्रम्य। “आहारमेकपर्ण्णेन एकपर्ण्णा समाचरत्” हरि० १८ अ०। स्वार्थे कन् बहु० कप् वा अत इत्त्वम् अपर्ण्णिकाप्यत्र। “अप्यपर्ण्णा निराहारा एकाशा एकपर्ण्णिका” देवीपु० ४५ अ०। अस्य पूर्वोक्तवाक्येनैकवाक्यतया हिमवत्क याभेदपरत्वम् न तु दुर्गापर त्वमिति बोध्यम्। एकमात्रं पर्ण्णमस्य। एकपत्रावशेषेवृक्षादौ त्रि०

एकपर्व्वतक = पु० पर्वतभेदे “कुरुभ्यः प्रस्थितास्ते तु (कृष्णभीमार्ज्जुनाः) मध्येन कुरुजाङ्गलम्। रम्यं पद्मसरोगत्वा कालकूटमतीत्य च। गण्डकीञ्च महाशोणं सदानीरां तथैव च। एकपर्वतके सद्यः क्रमेणेत्याव्रजन्त ते। उत्तीर्य्य सरयूं रम्यां दृष्ट्वा पूर्वाञ्च कोशलाम्” भा० स २१९ अ०।

एकपलाश = पु० एकःपलाशो यस्य। एकपत्रमात्रवृक्षे तत्र भवः तस्येदं वा गहा० छ। एकपलाशीय तत्रभवे तदीये च त्रि०

एकपाटला = स्त्री एकं पाटलं पुष्पं तप्रःसाधनतया आहारो यस्याः। हिमवतोमेनायामुत्पन्नदुहितृत्रयमध्वे दुहितृभेदे एकपर्ण्णाशब्दे मूलं दृश्यं तत्रैवैतन्नामनिरुक्तिर्यथा। “पाठलापुषपमेकञ्च आदधावेकपाटला”।

एकपातिन् = त्रि० एकः सन् पतति पत–णिनि “सहसुपेति” स०। एकाकितया १ पतनशीले अतिरात्रयागसंस्थे २ अहर्विशेषे न० “एकपातीनि त्वहानान्यतिरात्राः” आश्व० श्रौ० १२, ६, ३२। “चतुर्विंशाभिजिद्विषुवन्महाव्रतादीनि एकपातीन्यहानि तानि अतिरात्रसंस्थानि भवन्ति” नारा०। ३ ऋग्भेदे स्त्री ङीप्। “धाय्याश्चात्रैकपातिनिः” आश्व० श्रौ० ५, १९, ११। “अग्निर्होता गृहपतिः स राजेति प्रतिपदेकपातिनी पच्छः” ६, ५, ६।

एकपाद् = त्रि० एकः पादोऽस्य अन्त्यलोपः समा०। १ विष्णौ “चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्” विष्णुसं०। “एकः पादोऽस्येत्येकपात् पादोऽस्य विश्वाभूतानीति” श्रुतेः “विष्टभ्याहमिदं कृत्स्नकेकांशेन स्थितो जगत्” गीतोक्तेश्च” भा०। परमेश्वराभिन्नत्वेन एकपादयुक्तत्वेन वा २ शिवे च। स च रुद्रभेदः। “अजैकपादहिर्बुध्नोविरूपाक्षश्च रेवतः। हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः। रुद्राएकादश प्रोक्ता जयन्तश्चापराजितः” विष्णुध० अन्यनामानोऽपि रुद्राः सन्ति तुलादानादौत्वेत एव पूज्याः। अजेतिनामान्तरं तेन एकादशसं ख्यापूर्त्तिः अतएव विष्णुध० “अजनामा महारुद्रः” इत्यादिना तद्ध्यानमुक्तम् “एकपादभिधो विप्र! क्ष्वेडादः स्याद्वहन् शरम्। चक्रं डमरुकं शूलं मुद्गरं तदधोवरम्। अक्षं सूत्रं मेखलावान् खट्वाङ्गवांश्च मस्तके। धनुर्घण्टां कपालञ्च कौमुदीं तर्ज्जनीघटम्। परशुं चक्रमाधत्ते क्रमाद्वामाष्टके करे। अनेकभोगसम्पत्तिं कुरुते यज्वनः सदा” इति तत्रैव एकपदोध्यानान्तरमुक्तम्। ३ एकपादयुक्ते त्रि० स्त्रियां ङीषि पद्भावः एकपदीति भेदः एकपदीशब्दे उदा०।

एकपाद = पु० कर्म०। “एकमात्रचरणे “व्युत्तिष्ठदकपादेन परमं योगमास्थितः” भा० अनु ०८३ अ०। “उत्तिष्ठदेकपादेन ददृशे विबुधर्षभान्” भाग० ४, १, १९, “एकःपादोऽस्य समासान्तविधेरनित्यत्वात् नान्त्यलोपः। एकपादयुक्ते २ परमेश्वरे। “पादोऽस्य विश्वाभूतानीत्युक्तेः तस्य सर्वभूतरूपैकपादत्वात् तथात्वम् “तत्र शिश्रियेऽज एकप्रादः” अथ० १३, १, ६, ३, एकचरणयुक्तमात्रे त्रि० स्त्रियां स्वाङ्गत्वात् ङीष् टाप् वा। “द्व्यक्षीं त्र्यक्षीं विशालाक्षीं दीर्घजिह्वा- मजिह्विकाम्। त्रिस्तनीमेकपादाञ्च त्रिजटामेकलोचनाम्” भा० व० २७९ अ० “एकपादांश्च पुरुषान् केरलान् वनवासिनः” भा० स० ३० अ० सहदेवदक्षिणदिग्विजये” “एकपादांश्च तत्राहमपश्यं द्वारि वारितान्” ५० अ०। ४ असुरभेदे “एकपादमहोदरौ” भा० आ० असुरगणनायाम्। एकपादोऽवलम्बनत्वेनास्त्यस्य अच्। ५ एकपादमात्रालम्बके। “पर्वतारोहणं कृत्वा एकपादो विभावसुम्। निरीक्षेत निराहार ऊर्द्ध्व बाहुः कृताञ्जलिः” भा० आ० १२५ अ०

एकपादिका = स्त्री एकः पादोऽवलम्बनत्वेनास्त्यस्याः ठन्। एकपादावलम्बनेन खगानां स्थितिभेदे “अथावलम्ब्य क्षणमेकपादिकाम् तदा निदद्रावुपपल्वलं खगः” नैष०।

एकपिङ्ग = पु० एकं पिङ्गं नेत्रमस्य। कुवेरे। तस्य क्रूरदृष्ट्या पार्व्वतीदर्शने वामनेत्रस्य स्फुटने शिववाक्येन प्रसन्नायास्तस्या वरेण पिङ्गलं वामनेत्रं जातमिति तस्य तथात्वम् तत्कथा काशी० यथा

“प्रसार्य्य नयने पूर्ब्बमुमामेव व्यलोकयत्। शम्भोः समीपे का योषिदेषा सर्वाङ्गसुन्दरी। अनया किं तपस्तप्तं? ममापि तपषोऽधिकम्। अहो रूपमहो प्रेम सौभाग्य श्रीरहो भृशम्। क्रूरदृग्वीक्षते यावत् पुनः पुनरिदं वदन्। तावत् प्रस्फोटितं नेत्रं वामं वामविलोकनात्। अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः। असकृद्वीक्ष्य मां वक्ति न्यक्कुर्व्वन्मे तपःप्रभाम्। असकृद्दक्षिणेनाक्ष्णा पुनर्मामेष पश्यति। असूयमानो मे रूपं प्रेमसौभाग्यसम्पदः। इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः। उमे! त्वदीयपुत्रोऽयं न च क्रूरेण चक्षुषा। संपश्यते तपोलक्ष्म्यां तव किन्त्वधिवर्णयन्। इति देवीं समाभाष्यतमीशः पुनरब्रवीत्। वरं ददामि ते वत्स! तपसाऽनेन तोषितः। निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः। यक्षाणां किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत!। पतिःपुण्यजनानाञ्च सर्वेषां धनदोभव। मया सख्यञ्च ते नित्यं वत्स्यामि च तवान्तिके। अलकां निकषा मित्र! तव प्रीतिं विवर्द्धयन्। आगच्छ पादयोरस्याः पत ते जननी त्वियम्। इति दत्त्वा वरान् देवः पुनराह शिवः शिवाम्। प्रसादं कुरु देवेशि! तपस्विन्यङ्गजे तव। देव्युवाच। वत्स! ते निर्म्मला भक्तिर्भवे भवतु सर्व्वदा। भवैकपिङ्गोनेत्रेण वामेन स्फुटितेन च। देवदत्तास्तु ये तुभ्यं वरास्सन्तु तथैव ते। कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत!” एकपि- ङ्गलोऽप्यत्र। एकपिङ्गलवर्णनेत्रयुक्तत्वात्तस्य तथात्वम्।

एकपिण्ड = त्रि० एकःसमानः पिण्डः देहः श्राद्धदेयपिण्डो वा यस्य। १ सपिण्डे तस्य एकदेहारब्धदेहकत्वात् दातृत्वभोक्तृत्वान्यतरसम्बन्धेनैकपिण्डवत्त्वाद्वा तथात्वम्। “त्रयाणामुदकं कार्य्यं त्रिषु पिण्डः प्रवर्त्तते। चतुर्थः संप्रदातैषां पञ्चमोनोपपद्यते “इति मनूक्तेः। लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः” इत्युक्ते “जीवति यत्पिण्डदाता स मृतः सन् तत्पिण्डभोक्तोत्युक्तेश्च सप्तानामेव सपिण्डत्वमिति दायभागानुसारिणः।

एकपुरुष = पु० एकः श्रेष्ठः पुरुषः। १ पुरुषोत्तमे परमेश्वरे तस्य श्रेष्ठत्वमुक्तं गीतायाम् “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः” तस्य च पुरुषत्वमन्तर्यामितया सर्व्वदेहे पुरि वासात्। “द्वा सुपर्ण्णा सयुजा सखाया समानवृक्षं वृक्षंपरिषष्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्ति अन्योअनश्नन्नभिचाकशीति” श्रुतौ वृक्षरूपदेहे वासोक्तेश्च पुरुषत्वम्। २ प्रधानपुरुषे च। एकः पुरुषो यस्मिन्। ३ एकपुरुषान्धिते त्रि०। “तथैकपुरुषं राष्ट्रं विलम्बादृष्टनिर्गमम्” भाग० ६, ५, ७, “एकः पुरुषोभोक्ता यत्र। ४ एकपुरुषभोक्तृके भोगभेदे तत्रायं भेदः प्रपितामहादीनां त्रयाणां जीवित्वे एकपुरुष एव भोगः यथाह दा० त० व्यासः “पिता पितामहो यस्य जीवेच्च प्रपितामहः। त्रयाणां जीवतां भोगोविज्ञेयोह्येकपुरुषः”। “युगसद्भोगे षष्टिवर्षेऽपि न त्रेपुरुषिकः प्रपितामहस्य तत्र स्वातन्त्र्यात् तस्यैव भोगस्तेन तत्रैकपुरुषो भोगः” दाय० त० रघु०

एकपुष्कल(र) = पु० एकं पुष्करं मुखं यस्य रस्य वा लः। काहले वाद्यभेदे। “अथ प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्क(रा)लाः” भा० उ० ९३ अ० एकपुष्कराः काहलाः” नीलकण्ठः

एकपुष्पा = स्त्री एकं पुष्पं यस्याः। वृक्षभेदे यस्यैकमात्रं पुष्पं जायते तस्मिन् जातित्वेऽपि अजा० टाप्।

एकप्रस्थ = पु० कर्म०। १ एकन्मिन् प्रस्थे धान्यमानभेदे मालादि० आद्युदात्तोऽयम्। एकः प्रस्थोऽस्य। २ एकप्रस्थयुक्ते पर्वते पु०

एकफला(ली) = स्त्री एकं फलमस्याः मुग्धबोधमते टाप्। पा० मते ङीष्। एकमात्रफलके औषधिभेदे

एकभक्त = न० एकं भक्तं भोजनं यत्र। स्मृत्युक्ते व्रतभेदे तत्स्वरूपकालादिनिरूपणं कालमाधवीये यथा “अथैभक्तनिर्णयः। ब्रह्मपुराणे वैश्वानरव्रते पठ्यते “प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः” इति। तत्रादा- वेकभक्तव्रतं त्रिविधम स्वतन्त्रमन्याङ्गमुपवासप्रतिनिधिरूपं चेति। तेष्विदानीमुदाहृतं स्वतन्त्रम्। तत्रेदं चिन्त्यते। किमुपवासवत् तिथिरस्मिन् ग्रहीतव्या? उत प्रकारान्तरेणेति?। उपवासवदिति तावत् प्राप्तम् “दैवं पित्र्यं तथा कार्य्यम्” इति वचनेन उपवासैकभक्तादिकृत्स्नदैवस्य विवक्षितत्वात्। न च कर्मकालव्याप्त्या तन्निर्णयैति शङ्कनीयम्। तत्कालस्य व्याप्त्यनिर्णीतत्वात्। किञ्च तन्निर्णये कर्मकालव्याप्तिवचनस्य पित्राविषयत्वेनीपपत्तेः। तस्मादुपवासवत्तन्निर्णय इति प्राप्ते ब्रूमः। कर्मकालव्याप्तिरेवात्र निर्णयहेतुः। कर्मकालस्तत्कर्मस्वरूपं चेत्युभयं स्कन्दपुराणे दर्शितम्। “दिनार्द्धसमवेऽतीते भुज्यते नियमेन यत्। एकभक्तमिति प्रोक्त मतस्तत् स्यद्दिवैव हीति”। देवलीऽपि “दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत्। एकभक्तं तु तत् प्रोक्तं न्यूनं ग्रासत्रयेण त्विति”। अत्र च दिनार्द्ध स्योपरि सार्द्धमुहूर्त्तपरिमितीमुख्यः कालः पञ्चधा विभागे मध्याह्नस्यापरभाग एकभक्तस्य कालः दिनार्द्धेऽतीते सति समनन्तरत्वात्। अस्तमयात् प्राचीनीऽवशिष्टोगौणः कालः दिवेत्यभ्य नुज्ञानात् एवंस्थिते सति मुख्यकालव्यापिनी तिथिर्ग्रहीतव्या अतएव पद्मपुराणम्। “मध्याह्नव्यापिनी ग्राह्या एकभक्ते सदा तिथिरिति”। बौधायनोऽपि “उदये तूपवासस्य नक्तस्यास्तमये तिथिः। मध्याह्नव्यापिनी ग्राह्या एकभक्तव्रते तिथिरिति” नचात्रोपवासन्यायो युक्तः तत्र पूर्वविद्वायामेव विशेषशास्त्रपर्य्यवसानात्। द्विविधं हि विशेषशास्त्रं तिथिप्रयुक्तमेकं कर्नप्रयुक्तमपरम्। तत्र “पौर्वाह्लिकास्तु तिथयोदैव” इत्यनेन कर्मविषयेण सामान्यशास्त्रेणोत्तरविद्वायां प्राप्तायाम् “उपोष्याः परसंयुक्ताः पराः पूर्ब्बेण संयुताः” इत्यनेन कर्मविषयेण विशेषशास्त्रेण पूर्वविहिततिथिविषये अपि सामान्यविशेषशास्त्रे उदास्येते “पूर्वाह्णिकास्तु तिथय” इति तिथिमात्रमुपजीव्य प्रवृत्तत्वात् सामान्यशास्त्रम् “प्रतिपत् सम्मुस्वी कार्येति” तिथिविशेषमुपजीव्य प्रवृत्तत्वाद्विशेषशास्त्रम्। तथा सति द्विविधेनापि विशेषशास्त्रेण पूर्वविद्धायामेवोपवासः सुस्थितः। अत्र तुमध्याह्नव्यापिनीत्येतत्कर्मविषयं विशेषशास्त्रम्। अतस्तदनुसारेण निर्णयो युज्यते! ननु प्रतिपत्सम्मुखी कार्य्येत्यनेन तिथिविषयेण विशेषशास्त्रेण कुतो न निर्णय इति चेत् उपवासविषयत्वेनापि तस्योपपत्तेरिति ब्रूमः। ननु मध्याह्नव्याप्तिवचनमपि तिथ्यन्तरैकभक्तविषयत्वेनोप- पादयितुं शक्यम् अतः कर्मविशेषशास्त्रतिथिविशेषशास्त्रयोः समानबलत्वमिति चेत् अस्तु नाम किं नश्छिन्नं मध्याह्नव्यापित्वसंसुखत्वयोः पूर्वविद्वायामापादयितुं शक्यत्वेन विरोधाभावात्। यदा तूत्तरविद्वायामेव मध्याह्नव्यापित्व तदा विरोध इति चेत्। वाढम्। तथा पि तिथिविषयविशेषशास्त्रात् कर्मविषयविशेषशास्त्रं प्रबलं मध्याह्नतिथेर्गुणत्वात् कर्मणश्च प्रधानत्वात्। तस्मादेवंविधैर्विषयैः कर्मकालव्याप्त्यैव निर्णेतव्यम्। अत्र निर्णेतव्योविषयोभिद्यते। पूर्वेद्युरेव मध्याह्नव्यापित्वम् परेद्यरेव तद्व्यापित्वम्। उभयत्र तद्व्यापित्वम् उभयत्र तदव्यापित्वम् उभयत्र साम्येन तदेकदेशव्यापित्वम्। उभयत्र वैषम्येण तदेकदेशव्यापित्वं चेति। तत्र प्रथमद्वितीययोर्मध्याह्नव्यापित्वस्य निर्णायकत्वम्। तृतीये पूर्वविद्वा ग्राह्या मुख्यकालव्याप्त्योः समत्वेऽपि गौणकालव्याप्नेरधिकत्वात्। अनेनैव न्यायेनोभयत्र मुख्यकालव्याप्त्यभावेऽपि गौणकालव्याप्तिलाभात्पूर्व्वविद्वैव। पञ्चमेऽप्ययमेव न्यायो योज्यः। षष्ठे तु यदा पूर्व्वेद्युर्मध्याह्नैकदेशमधिकं व्याप्नोति तदाधिकगौणकालव्याप्तेश्च पूर्व्वेद्युर्ग्राह्या। यदा परेद्युर्मध्याह्नैकदेशमधिकं व्याप्नोति तदा गौणकालव्याप्त्यभावेऽपि मुख्यकालव्याप्त्याधिक्यानुसारेण परेद्युर्ग्राह्या! नन्वस्त्वेवं स्वतन्त्रैकभक्ते निर्णयः अन्याङ्गे तु कथम्?। तत्र कानुपपत्तिः? इति चेत्। “पूजाब्रतेषु सर्वत्र मध्याह्नव्यापिनी तिथि”। “मध्याह्ने पूजयेन्नृपेत्यादि” शास्त्रैरङ्गिनः पूजादेर्मध्याह्ने विहितत्वेनाङ्गस्यैकभक्तस्यापराह्णादौ मुख्यकालासम्भवः। मा भूदीदृशविषये मुख्यःकालः। प्रधानानुसारेण गुणस्य नेतव्यत्वात्। यदा स्वतन्त्रैकमक्तेऽपि केनचिन्निमित्तेन मुख्यकालासम्भये गौणकालोऽभ्यनुज्ञायते तदा किमु वक्तव्यम् अन्याङ्गे। यत्तूपवासप्रतिनिधि रूपमेकभक्तं तदुपवासतिथौ कार्य्यं तस्य गौणेऽभ्यनुज्ञात त्वात्। अतएव सुमन्तुः “तिथौ यत्रोपवासः स्यादेक मक्तेऽपि सा तथेति” नच तादृशमेव नास्तीति शङ्कनीयम्। उपवासब्रतं प्रक्रम्य रोगादिना तदशक्तौ गुर्व्वनुज्ञयातस्यैकभक्तस्य सम्भावितत्वात्। “अष्टौ तान्यव्रतघ्नानि आपोमूलं फलम्पयः! हविर्ब्राह्मणकाम्या च गुरोर्ववनमौषधमिति” शास्त्रात्”। “एकभक्तं न नक्तेन तथैवायाचितेन च” या० एकस्मिन् नान्यस्मिन् भक्तः। २ नितान्तभक्ते ३ अन्यस्मिन्नभक्ते च त्रि० “प्रौष्याम चैकभ- क्तासु” मनुः। एकभक्तासु अन्यानासक्तास्वारुद्धासु।

एकभक्ति = स्त्री एका अनन्यविषया भक्तिः। १ नितान्तभक्तौ २ अनन्यभक्तौ एकस्मिन् अनन्यस्मिन् भक्तिरस्य। २ नितान्तभक्ते त्रि० “एकभक्तिर्विशिष्यते” गीता।

एकभङ्गीनय = पु० एका भङ्गी रीतिस्तस्त्र तामधिकृत्य नयः। एकरूपाणां बहूनां मध्ये एकस्य यथा प्रवृत्तिरन्यस्यापि तथा प्रवृत्तिरित्येवं ज्ञापके न्यायभेदे “सर्वेषामेकरूपाणामेकस्यापि यदुच्यते। सर्वेषामेव तत्कुर्य्यादेकरूपाहि ते स्मृताः” इत्युक्तेस्तथात्वम्।

एकभार्य्या = स्त्री एकस्यैव भार्य्या। १ अनन्यपतिकायां साध्व्यां स्त्रियां “तामेकभार्य्यां परिवादभीरोः” रघुः। “एकभार्य्याम् सध्वीम्” मल्लि०। एका भार्य्या यस्य। २ अन्यस्त्री रहिते पु०। एकेन भार्य्यः। ३ एकभर्त्तव्ये त्रि०।

एकभाव = पु० एको भावः। अनन्यविषये १ रागे २ एकस्वभावे ३ एकाशये “स्त्रीणाशत्रोः कुमित्रस्य पण्यस्त्रीणां विशेषतः। यो भवदेकभावेन न स जीवति मानवः” इति पञ्चत०। एकस्य भावः ६ त०। ४ अभिन्नत्वे अभेदे “स्वतेजसा सत्वगुणप्रबाहमात्मैकभावेन भजध्वमद्धा” भाग० ४, ३१, १६, एकोभावोयस्य। ५ तुल्यभावके त्रि० “या वै यूयं सोहमद्यैकभावः” भा० अनु० ७६ अ०।

एकभूत = त्रि० अनेक एको भूतः च्व्यर्थे श्रेण्या० त० स०। १ एकीभूते। एकस्मिन् भूतः। २ एकासक्ते च “नियतेनेकभूतेन मनसा वरदर्षभम्” भा० शा० ४३ अ०।

एकभूम = पु० एका भूमिर्यत्र अ समा० मुग्ध०। एकभूमिरस्त्यस्य अर्श० अच् पा०। (एकतला) प्रासादभेदे एवं द्विभूमादयोऽपि (दोताला) (तेतला) इत्यादि प्रासादभेदे।

एकमति = स्त्री एका मतिः। एकस्यां मतौ “तथा मनुर्वोभग वान् पितामहोयमेकमत्या पुरुदक्षिणैर्मखैः” ४, १, २४, ए का मतिर्यस्य। २ एकविषयमतियुक्ते “तैरेकमतिभिर्भूत्व यच्चोक्तं शास्त्रमुत्तमम्” भा० शा० ३३७ अ०। मतेरेक त्वञ्च एकरूपविषयावलम्बनं विरीतविषयानवलम्बनञ्च तस्य भावः ष्यञ्। ऐकमत्य एकविषयज्ञाने विसंवादि ज्ञानाभावे च “क्वैकमत्यं महाधियाम्” पुरा०।

एकमुख = न० एकं मुखं प्रधानं यत्र। १ एकप्रधाने द्यूतादौ “द्यूतमेकमुखं कार्य्य तस्करज्ञानकारणात्” या०। एकं मुखं द्वारं यत्र। २ एकद्वारे मण्डपभेदे। “मण्डपं कारवेत्तत्र प्राङमुखं वाप्युदङ्मुखम्” पुरा० अन्नाचलादौ एकमुखमण्डपं विहितम् अन्यत्र तु चतुर्मुखमिति भेदः। एकं मुखमिवोन्नताकारविशेषोऽस्य। एकवक्त्राकारोन्नतांशचिह्नयुक्ते ३ रुद्राक्षफलभेदे। तत्फलस्य एकादिचर्दशमुखता शास्त्रे उक्ता। तन्मुखन्तु “रुद्राक्षस्योन्नतं प्रोक्तं मुखं पुच्छन्तु निम्नगम्” तन्त्रसा० स्वच्छन्दमहेश्वरे उक्तम्। रुद्राक्षशब्दे विवृतिः। एकवक्त्रादयोऽप्यत्र।

एकमूला = स्त्री एकं मूलमस्त्यस्य अच्। एकं मूलमस्याः बहु० तु जातौ ङीष् स्यात्। (शालपान) १ शालपर्ण्याम् अतस्याञ्च वैद्यकम्। २ एकमूलयुक्ते त्रि०।

एकयष्टिका = स्त्री एका यष्टिरिवावली यस्याः ब० कप्। (एकनर) एकावलीहारभेदे।

एकयोनि = त्रि० एका समा योनिर्जातिरस्यं। १ समानजातौ “एतद्विधानं विज्ञेयं विभागमेकयोनिषु” मनुः “समानजातिषु” कुल्लू० कर्म०। २ एकस्मिन्नुत्पत्तिस्थाने स्त्री एका योनिरुत्पत्तिस्थानं यस्य। ३ समानोत्पत्तिस्थानके त्रि०।

एकरज = पु० एकं श्रेष्ठतया रज्यते केशोऽनेन रन्ज–घञर्थे करणे क। भृङ्गराजे जटा०। स च केशरञ्जनद्रव्यम्।

एकरम = त्रि० एकोऽनन्यविषयकोरसः रागः अभिप्रायः एकोऽभिन्नः खभावो वाऽस्य। १ एकरागे २ एकाभिप्राये ३ अभिन्नस्वमावे च “अस्थूलमनण्वह्रस्वमदेर्घममनन्तमनपरमबाह्यं प्रज्ञानघनमेकरसम्” इति श्रुतिः “चिदेकरसवस्तुनि वेदा०। एकोरसोयत्र। ४ एकरागविषये त्रि० “तपस्येक रसे रतम्” रामा०। एकोरसोवर्ण्यत्वेन यत्र। प्राधान्येन एकरसयुक्ते ५ नाटके न०। “एकएव भवेदङ्गी शृङ्गारो वीरएव वा। अङ्गान्यन्येरसास्तत्र” इति सा० द० उक्तेः नाटकस्य प्राधान्येन शृङ्गारवीररसान्यतरवत्त्वेन वर्णनीयत्वात्तथात्वम्।

एकराज् = पु० एको राजते क्विप्। १ सार्वभौमे “हिरण्यकशिपूराजन्नजेयमजरामरम्। आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत” भाग० ७, ३, १, “तस्मिन् महेन्द्रभवने महाबलो महासुरोनिर्ज्जितलोकएकराट्” भाग० ७४, ११, “यावदीशो महानुर्व्यामाभिमन्यव एकराट्” भाग० १, १८, ६, “एकएव राजते राज–क्विप्। २ परमेश्वरे तस्यैव भासा सर्वस्य भासनात् तस्य तथात्वम्। तथा हि “तमेव भ्रान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” श्रुत्या “यदादित्यगतं तेजो जगद्भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत्तेजा विद्धि मामकम्” गीतोक्तेः “अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्। आद्यं त्रिकं ब्रह्मरूपं मायारूपं ततो द्वयम्” इत्युक्तेश्च तस्य सर्वेषां भानप्रयोजकत्वात् “एष स्वयंज्योतिरिति श्रुतेस्तस्य स्वयंप्रकाशमानत्वात् स्वप्रकाशे अन्यानपेक्षणाच्च तथात्वम्। “स वा एष द्रष्टा नापश्यद्दृश्यमेकराट्” भाग० ३, ५, २०,

एकराज = पु० एको राजा टच्सा०। एकस्मिन् श्रेष्ठे च राजनि

एकरात्र = न० एका रात्रिः–नि० अच् संख्यापूर्वकतया रात्रान्तत्वेऽपि न पुंस्त्वम्। एकाहोरात्रे। “एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः” “यत् करोत्येकरात्रेण वृषलीसेवनात् द्विजः”। “एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतः” मनुः। रात्रिपदमहीरात्रपरम्। “कललं त्वेकरात्रेण” भाग० ३, ३१, २। एकरात्रभोजने पर्य्याप्तम् ठन्। एकरात्रिक एकदिनभोजननिर्वाहपर्य्याप्ते त्रि० “आददीताममेवास्मादवृत्तावेकरात्रिकम्” मनुः।

एकराशि = पु० कर्म्म०। १ एकस्मिन् मेषादौ राशौ। “एकराशिगतौ स्यातामेकर्क्षविषये यदा” ज्यो०। २ एकस्मिन् धान्यादेः स्तूपे च। “एकराशिं पञ्चधा कुरुते” सि० कौ०।

एकरिक्थिन् = त्रि० एकस्य पितुः रिक्थमस्त्यस्य इनि। एकपित्र्यांशहरे। “यद्येकरिथ्थिनौ स्यातामौरसक्षेत्रजौ सुतौ” मनुः। एकं समानं ऋक्थमस्त्यस्य इनि। २ अविभक्ते ३ संसृष्टे च। स्त्रियां ङीप्।

एकरूप = त्रि० एकं समानं रूपमस्य। १ तुल्यरूपे “सर्वेषामेकरूपाणामेकस्यापि यदुच्यते। सर्वेषामेव तत् कुर्य्यादेवरूपाहि ते स्मृताः” स्मृतिः। कर्मधा०। २ एकस्मिन् रूपे। “पुरुषार्थं प्रति विमोचयत्येकरूपेण सां० का०। एकरूपस्य भावः ष्यञ्। ऐकरूप्य तुल्यरूपे न०। त्वएकरूपत्व न० तल्, एकरूपता स्त्री तत्रार्थे।

एकरूप्य = त्रि० एकस्मात् एकस्या वा आगतःरूप्यप्। १ एकत आगते। कर्म्म०। २ केवलरजते न० बहु०। ३ तद्वति त्रि०।

एकर्च = पुंन० एका ऋक् अ समा० अर्द्धर्चादि। १ एकस्यामृचि एका ऋक् यत्र। २ एकर्चयुक्ते सूक्ते न०। “चतुरुत्तराण्येकर्चानि” शत० ब्रा० १०, १, २, ९, ३ एकर्चस्तुत्ये देवभेदे “त्रृ चेभ्यः स्वाहा एकर्चेभ्यः स्वाहा” अथ० १९, २३, २०,

एकल = त्रि० इण–विट् एर्गता कला यस्य। १ अनवयवे एकत्रवलायते गृह्यते ज्ञायते ला–घञर्थे क “सह सुपेति” स०। २ असहाये एकके “अथ ऊर्द्ध्व उदेत्य नैवेदेता नास्तमेतैकल एव मध्ये स्थाता” छा० उ० “एकलोऽद्वितीयोनवयवो वा” भा० “जायेत चैकलः प्राणीप्रणीयेत तथैकलः। एकलः सुकृतं भुङ्क्तेऽश्नीयादृष्कतमेकलः” काशी० एकमेकत्वं लाति ला क। एकत्वाश्रये “तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने” भाग० ५, ७, १२।

एकलव्य = पु० निषादराजस्य हिरण्यधनुषः पुत्रे तत्कथा भारते आ० १३४ अ०। “ततो निषादराजस्य हिरण्यधनुषः सुतः। एकलव्यो महाराज। द्रोणमभ्याजगाम ह। न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्। शिष्यं धनुषि धर्म्मज्ञस्तेषामेवान्ववेक्षया। स तु द्रोणस्य शिरसा पादौ गृह्य परन्तप!। अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम्। तस्मिन्नाचार्य्यवृत्तिञ्च परमामास्थितस्तदा। इष्वस्त्रे योगमातस्थे परं नियममास्थितः। परया श्रद्धयोपेतो योगेन परमेण च। विमोक्षादानसन्धाने लघुत्वं परमाप सः। अथ द्रोणाभ्यनुज्ञाताः कदाचित् कुरुपाण्डवाः। रथैर्विनिर्ययुः सर्व्वे मृगयामरिमर्द्दन!। तत्रो पकरणं गृह्य नरः कश्चिद्यदृच्छया। राजन्ननुजगामैकः श्वानमादाय पाण्डवान्। तेषां विरचतां तत्र तत्तत् कर्म्मचिकीर्षया। श्वा चरन् स वने गूढो नैषादिं प्रतिजग्मि वान्। स कृष्णमलदिग्धाङ्कं कृष्णाजिनजटाधरम्। नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके। तदा तस्याथ भषतः शुनः सप्त शरान्मुखे। लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा। स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह। तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः। लाघवं शब्दवेधित्वं दृष्ट्वा तत् परमं तदा। प्रेक्ष्य तं व्रीडिताश्चासन् प्रशशंसुश्च सर्व्वशः। तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्। ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्। न चैनमभ्यजानंस्ते तदा विकृतदर्शनम्। अथैनं परिपप्रच्छुः को भवान् कस्य वेत्युत। एकलव्य उवाच। निषादाधिपतेर्व्वीरा! हिरण्यधनुषः सुतम्। द्रोणशिष्यञ्च मां वित्त धनुर्व्वेदकृतश्रमम्। वैशम्पायन उवाच। ते तमाज्ञाय तत्त्वेन पुनरागप्य पाण्डवाः। यथावृत्तं वने सर्व्वं द्रोणायाचख्युरद्भुतम्। कौन्तेयस्त्वर्ज्जुनो राजन्नेकलव्यमनुस्म रन्। रहो द्रोणं समासाद्य प्रणयादिदंमब्रवीत्। अर्ज्जुन उवाच। तदाहं परिरभ्यैकः प्रीतिपूर्व्वमिदं वचः। भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति। अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्य्यवान्। अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः। वैशम्पायन उवाच। मुहूर्त्तमिव तं द्रोणश्चिन्तयित्वा विनिश्च- यम्। सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्। एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्। एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्। अभिगम्योपसंगृह्य जगाम शिरसा महीम्। पूजयित्वा ततो द्रोणं विधिवत् स निषादजः। निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः। ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः। यदि शिष्योऽसि मे वीर! वेतनं दीयतां मम। एकलव्यस्तु तत् श्रुत्वा प्रीयमाणोऽब्रवीदिदम्। एकलव्य उवाच। किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः। न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम!। द्रोण उवाच। यद्यवश्यं त्वया देयमेकलव्य! प्रयच्छ मे। एकाङ्गृष्ठं दक्षिणस्य हस्तस्येति मतं मम”। “एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्। प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः स दा। तथैव हृष्टवदनस्तथैवादीनमानसः। छित्वाऽविचार्य्य तं प्रादात् द्रोणायाङ्गुष्ठमात्मनः। ततः शरन्तु नैषादिरङ्गुलीभिर्व्वप्रकर्षत। न तथा च स शीध्रोऽभूद्यथा पूर्ब्बं नराधिप!”। अयञ्च निषादराजस्य पालित पुत्रः श्रुतदेवपुत्रः यथोक्तं हरिवं० ३५ अ०। “श्रुतदेवात् प्रजातस्तु नैषादिर्यः प्रतिश्रुतः। एकलव्योमहाराज! निषादैः परिवर्द्धितः” अतएवांशावतारे “रुक्मी च नृपशार्द्दूल! राजा च जनमेजय”! इत्युपक्रम्य एकलव्यप्रभृतीन् कतिचिन्नृपानुक्त्वा “गणात् क्रोधवशादेष राजपूगोऽभवत् क्षितौ” आ० ६७ अध्याये तस्य राजवंशत्वेन राजपूगान्तर्गनतोक्तिः। “एकलव्यमिव जन्मान्तरगतम्” काद-

एकलिङ्ग = न० एकं पञ्चक्रोशमध्ये लिङ्गं यत्र। १ सिद्धिसाधन क्षेत्रभेदे “पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते। तदेक लिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा” आगमः। एकं लिङ्गं पुंस्त्वादि यस्य। २ नियतैकलिङ्गे शब्दे पु०। एकं लिङ्गमिन्द्रियं चक्षुर्यस्य। ३ कुवेरे शब्दरत्ना०।

एकलू = पु० एकं लुनाति लू० क्विप् ६ त०। ऋषिभेदे ततः गोत्रे गर्गा० यञ्। ऐकलव्य तद्गोत्रापत्ये पुंस्त्री बहुत्वे यञो लुक्। एकल्व इत्येव स्त्रियां न लुक् ऐकलव्यः स्त्रियः

एकवक्त्र = पु०। १ असुरभेदे “एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसन्निभः” हरिवं २६३ अ०। २ एकमुखे रुद्राक्षफले न०।

एकवचन = न० एकमेकत्वमुच्यतेऽनेन वच–करणे ल्युट् ६ त०। व्याकरणोक्ते एकत्वसंख्यावाचके “द्व्येकयोर्द्विवचनैकवचने” पा० उक्ते स्वादौ तिङादौ च। “एकत्वबोधकाश्च सु अम् टा ङे ङसि ङस् ङि इत्येवं रूपाः तिप् सिप् मिप् ते से इ इत्येवं रूपाश्च प्रत्ययभेदाः “अथोनेदेकवचनेन बहुवचनं व्यवायामेति” शत० ब्रा० १३, ५, १, १८।

एकवत् = अव्य० एकस्येव वति। १ एकताश्रयस्य सदृशे कार्य्ये “नपुंसकमपुंसकेनैकवचच्चान्यतवस्याम्” पा०। शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रम् इत्येवंवाक्ये नपुंसकमात्रशेषे विकल्पेन एकवत् कार्य्यविधानात् इदं शुक्लम् इमानि शुक्लानीति वा” सि० कौ०। २ एकवचनवदित्यर्थे च। “एकवन्मन्त्रानूहेतैकोद्दिष्टे” विष्णुः। “एकवत् एकवचनवत् यथा स्यात्तयोहेत” श्रा० त० रघु०। एकेन तुल्यक्रिवति। ३ एकेन तुल्यक्रियायाम् अव्य०।

एकवद्भाव = पु० एकेन तुल्योभावः भवनम्। एकत्वाश्रयस्वाद्येकवचनान्ततारूपे शब्दनिष्ठे कार्य्यभेदे।

एकवर्ण = त्रि० एकोवर्णो रूपं यस्य। अन्यरूपामिश्रितवर्णयुक्ते। एकोवर्णः जातिभेदो यत्र। २ ब्राहुणादिवर्णविभागशून्ये कलियुगावशेषस्थलोके। “एकवर्णस्तदा लोको भविष्यति युगक्षये” भा० व० १९० अ०। वर्ण्यतेऽनेन वर्णः एकः वर्णः स्वरूपं यस्य। ३ एकस्वरूपे। “य एकवर्णं तमसः परम्” (उपासते) भाग० ८, ५ १८। एकवर्णमेकस्वरूपं ज्ञानम् एकरूपमित्यर्थः। कर्मधा०। एकस्मिन् ४ शुक्लादौ रूपे एकस्मिन् ५ ब्राह्मणादौ जातिभेदे एकस्मिन्नक्षररूपे ६ शब्दे च। ७ श्रेष्ठवर्णे ८ श्रेष्ठजातौ च पु०। तमर्हति ठक्। ऐकवर्णिक असाधारणे ब्राह्मणवर्णमात्रार्हे ऋतधर्मादौ त्रि०। “द्विजातीनामृतं धर्मोह्येकश्चेवैकवर्णिकः। यज्ञाध्ययनदानानि त्रयःसाधारणाः स्मृताः” भा० व० १५० अ०। ९ वीजगणितोक्ते सजातीये तुल्यवर्णे द्रवभेदे च।

एकवर्णसमीकरण = न० एकवर्णौ तुल्यरूपौ समीक्रियेते अनेन करणे ल्युट् ६ त०। वीजगणितोक्ते वीजचतुष्टयान्तर्गतवीजभेदे अव्यक्तशब्दे तद्गणितप्रकारो दर्शितः “प्रथममेकदवर्णसमीकरणं वीजं, द्वितीयमनेकवर्णसमीकरणं वीजम्, यत्रैकवर्णयोर्द्वयोर्बहूनां वा वर्गादिगतानां समीकरणं तन्मध्यमाहरणम्, यत्र भावितस्य तद्भावितमिति वीजचतुष्टयं वदन्त्याचार्य्याः” भास्कराचार्य्यः। अस्योदाहरणम्। “एकस्य रूपत्रिंशती षडश्वा अश्वादशान्यस्य तु तुल्यमूल्याः। ऋणं तथा रूपशतञ्च तस्य तौ तुल्यवित्तौ च किमश्वमूल्यम्” एतच्चाब्यक्तशब्दे व्याख्यातम्। अत्र तुल्यमूल्यस्याश्वरूपस्यैकविधस्यैव पृष्टसंख्यान्वितस्य समीकरणात् एकवर्ण्णसमीकरणमित्यनुगतार्थसंज्ञा।

एकवर्ण्णी = स्त्री एकमसहायं यथा तथा वर्ण्यते शब्द्यतेऽनया वर्ण–करणे अच् २ त० गौरा० ङीष्। करतालीरूपे वाद्ये शब्दरत्ना०। कराभ्यामितरकारणानपेक्षया तद्वाद्यवादनात् तथात्वम्।

एकवर्षिका = स्त्री एको वर्षो वयःकालोयस्याःकप् अत–इत्त्वम्। एकहायन्यां स्त्रीगव्याम् हेम० एकवर्षभवे त्रि०।

एकवस्त्र = त्रि० एकं वस्त्रं यस्य। १ उत्तरीयवस्त्रशून्ये २ एकजातीयवस्त्रान्विते च एकवासःप्रभृतयोऽप्यत्र। कर्म्म०। एकस्मिन् वस्त्रे उत्तरीयरहितपरिधानमात्रवस्त्रे न०। तन्मात्रे स्नाननियेधमाह आ० त० गौतमः “एकवस्त्रेण यत्स्नानं सूच्या विद्धेन चैव हि। स्नातस्तु न च विशुद्धः स्यात् श्रिया च परिहीत्यते” अतएव “स्नानं तर्पणपर्य्यन्तं कुर्य्यादेकेन वाससा”। इति यदि समूलं तदा प्रेततर्पणपरमिति। तत्र “एकवस्त्रा ज्ञातयः” इत्यादिना एकवस्त्रत्वविधानात् “एकेन एकजातीयेन इति” वाचस्पतिमिश्रः “येन वाससा स्नानं कृतं जलस्थस्य तेनैव तर्पणम्” इति कृत्यतत्त्वार्णवः। न च “स्नानशाठ्यान्तु दातव्यामृदस्तिस्रोविशुद्धये। जलमध्ये तु यः कश्चित् द्विजातिर्ज्ञानदुर्बलः। निप्पीडयति तद्वस्त्रं स्नानं तस्य वृथा भवेत्”। इति वशिष्टवचने स्नानशाट्यामिति तद्वस्त्रमिति एकवचननिर्देशेन च स्नानेऽप्येकवस्त्रत्व मिति वाच्यम्। अत्र विशुद्धय इत्यभिधानेनाधोधृतवस्त्रस्यैव मृत्त्रयेण प्रक्षालनं नतृत्तरीयस्य एतदर्थमेकवचनम्। अतएव “मृत्त्रयेणाधरीयवस्त्र प्रक्षाल्य” इत्याह्निकचिन्तामणिः। वशिष्टवचनैकवाक्यतया “स्नातोनाङ्गानि निर्मृज्यात् स्नानशाठ्या न पाणिना” इति विष्णुपुराणीयेनाधरीयवस्त्रेणैव गात्रमार्ज्जनं निषिध्यते। एतेन “निष्पीड्य स्नानवस्त्रमिति” कात्यायनवचने एकत्वमविक्षितमिति निरस्तम्। अतएव सर्वत्रैकवचननिर्द्देशः” आ० त० रघु०। एवं वैदिककर्म्ममात्रे एकवस्त्रतानिषेधः उत्तरोयशब्दे दर्शितः

एकवाक्य = न० एकम् एकार्थं वाक्यम्। वाक्यार्थाकाङ्क्षिताकाङ्क्षापूरणेण बिशिष्टैकार्थबोधके १ वाक्यभेदे तच्च द्विविधं पदैकवाक्यं वाक्यैकवाक्यञ्च तच्च वेदा० प० निरूपितं यथा “एवमर्थवाद्वाक्यानां प्रशंसापराणां प्राशस्त्ये लक्षणा, सोऽरोदीदित्यादिनिन्दार्थवादवाक्यानां निन्दितत्वे लक्षणा अर्थवादगतपदानां प्राशस्त्यादिलक्षणाभ्युपगमे एकेन पदेन लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयर्थ्यं स्यात् एवञ्च विध्यपेक्षितप्राशस्त्य रूपपदार्थप्रत्यायकतया अर्थवादपदसमुदायस्य पदस्थानीयतया विधिपदेनैकवाक्यता भवतीत्यर्थवादवाक्यानां पदैकवाक्यता। क्व तर्हि वाक्यै कवाक्यता? यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकाङ्क्षावशेन महावाक्यार्थ बोधकत्वं यथा “दर्शपौर्ण्णमासाभ्यां स्वर्गकामोयजेत” इत्यादिवाक्यानां “समिधोयजति” इत्यादिवाक्यानाञ्च परस्पराङ्गाङ्गिभावबोधकतयैकवाक्यता। तदुक्तम् भट्टपादैः “स्वार्थबोधे समाप्तामामङ्गाङ्गित्वाद्यपेक्षया। वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते इति”। एकमविसंबादितया तुल्यरूपं वाक्यम्। अविसंवादितया तुल्यरूपे २ वाक्ये च। “श्रवणकटु नृपाणामेकवाक्यं विवब्रुः” रघुः। “एकमविसंवादिवाक्यमेकवाक्यम्” मल्लि०।

एकवाद = पु० एकेन हस्तेन वाद्यते वाद–कर्मणि अच्। १डिण्डिम वाद्ये शब्दरत्ना० तस्यैकहस्तेन वादनात् तथात्वम्। वादः कथाभेदः एकस्य एकत्वस्य ब्रह्माभिन्नत्वस्य वादः। २ वेदान्तिभिरुक्ते वादभेदे सर्वेषां ब्रह्माभिन्नत्वेनैकत्वस्य प्रतिपादनात्तद्वादस्य तथात्वम्।

एकविंशत् = स्त्री एकाधिका विंशतिः पृ०। (एकुश) १ संख्याभेदे २ तदन्विते च एकविंशतिशब्दोऽप्यत्र स्त्री। एकविंशतः एकविंशतेर्वा पूरणः डट्। एकविंश तत्संख्यापूरणे स्वार्थे कन् तत्रैवार्थे “दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम्” मनुः। पूरणार्थे डटि वा तमटि तु एकविंशत्तम एकविंशतितम इतिभेदः तत्पूरणार्थे स्त्रियामुभयतो ङीप्। तदस्मिन्नधिकं शते सहस्रे वेत्यर्थे कन्। एकविंशतिक एकविंशदक एकविंशत्यधिकशतादौ वृद्ध्यायलाभोपदारूपेण दीयते इत्यर्थे कन्। एकविंशतिक एकविंशत्क वृद्ध्यादिरूपेण दीयमानविंशतिके शते। अवयवे कन् रूपमुक्तवत् एकविंशतिसंख्यायां न०। एकविंशतिर्मन्त्राः परिमाणमस्य स्तोमस्य ड। एकविंश १ तावन्मन्त्रके स्तोमभेदे एकविंशस्तोभशब्दे तिवृतिः। “शत्शनोडिनिर्वक्तव्यः” “विंशतेश्च” वार्त्ति० डिनि। एकविंशिन् एकविंशतिसंख्यायुक्ते त्रि० स्त्रियां ङीप्। प्रकारे धा एक विंशतिधा एकविंशतिप्रकारे अव्य०। एकाधिका विंशतिः संख्येया डच् समा०। एकाधिकविंशतिसंख्येये। एकविंश संख्यातः स्तोमोऽस्त्यस्य मतुप् मस्य वः। एकविंशवत् एकविंशस्तोमान्विते त्रि० स्त्रियां ङीप्। “त्रिवृद्वतीं पुरस्तादुपदधात्येकविंशवतीं पश्चात्” शत० ब्रा० ८, ४, ४, १।

एकविंशस्तोम = पु० कर्म्म०। एकविंशतिमन्त्रपरिमिते स्तोमभेदे “एकविंशस्तोमेन ऋषभो याज्ञतुरईजे” शत० ब्रा० १३, ५, ४, १५, स्तोमश्च सोमादियागेषु सामगैः क्रियमाणः पृष्ठ्यादिसंज्ञः स्तुतिभेदः। एकविंशस्तोमस्य विष्टुतिप्रकारः ताण्डम० ब्रा० भा० दर्शितो यथा “एकविंशस्तोमस्य चतस्रो विष्टुतयः। तत्र सप्तसप्तिन्याख्यां प्रथमां विष्टुतिं दर्शयति” भा०। “सप्तभ्यो हिङ्करोति स तिसृभिस्य तिसृभिस्स एकया, सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः, सप्तभ्यो हिङ्करोति स तिसृभिस्स एकया स तिसृभिः, सप्तसप्तन्येकविंशस्य विष्टुतिः” ब्रा०। “अथास्यैव स्तोमस्य उद्यत्याख्यां द्वितीयां विष्टुतिमाह” भा०। “पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकवा, सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः, नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिरुद्यत्येकविंशस्य विष्टुतिः” ब्रा०। “अथास्यैव स्तोमस्य प्रतिष्टुतिर्नाम तृतीता विष्टुतिः प्रदर्श्यते” भा०। “नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिङ्करोति स तिसृभिः स एकया सतिसृभिः, प्रतिष्टुतिः” ब्रा०। “त्रिवृदादिस्तीमचतुष्टयप्रतिरूपकत्वात् अस्याः प्रतिष्टुतिरिति संज्ञा यौगिकी अथास्यैव स्तोमस्य सूर्म्याख्यां चतुर्थी विष्टुति दर्शयति” भा०। “नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः सतृसृभिः, तिसृभ्यो हिङ्करोति स पराचीभिः, नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः सूर्म्युभयत आदीप्ता” ब्रा०। “उभयत आद्यान्त्ययोः पर्य्याययोरृङ्नवकान्तेन त्रिवृत्त्वादुभयतः आदीप्ता त्रिवृतश्चाग्नंश्च प्रजापतिमुखात् सहोत्पत्तेरादीप्ता सूर्मी कृशा मध्ये स्थूलेतरा तत्सादृश्यादस्या अप्येषा संज्ञा। अस्या अपि मध्यमपर्य्यायस्य ऋक्त्रयात्मकत्वेन ऋङ्नवकाभ्यामल्पत्वात्” भा०। अत्र उद्यतीशब्दे दर्शिततद्भाष्यानुसारेण एतदर्थोदर्श्यते एकैककस्य साम्नः पञ्च भक्तयः प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनाख्याः तत्र हिङ्कारस्तु त्रिभिस्त्रिभिरुद्गातृभिः कर्त्तव्यः “साम्ने साम्ने हिंकुर्य्युरिति” सूत्रकृतोक्तेः। तथा च सप्तभ्य इति चतुर्थी सप्त ऋचोगातुं हिङ्कुर्य्युरित्यर्थः। तत्र एकैकं सूक्तं त्रिरावर्त्तनीयम्। तत्राद्यावृत्तौ आद्याया द्वितीयायाश्च त्रिरभ्यासः। द्वितीयावृत्तौ द्वितीयाया अन्त्यायाश्च त्रिरभ्यासः। तृतीयावृत्तौ आद्यान्त्ययोस्त्रिरभ्यासः। एवं सप्तसप्तिनी नाम विष्टुतिः। पर्य्यायत्रयेऽपि सप्तर्चैः स्तवनात् तथात्वम् सप्त सप्त ऋच प्रतिपर्य्यायं परिमाणमस्यां “शन्शतो डिनि” वात्ति० डिनि ङीप्। सप्तसप्तिनीति व्युत्पत्तेरन्वर्थसंज्ञा। पञ्चऋचोगातुं हिङ्कुर्य्युरित्यर्थः। तत्र पञ्चानां मध्ये आद्यावृत्तौ आद्याया स्त्रिरावृत्तिः। द्वितीयावृत्तौ सप्तर्चोगातुं हिङ्कुर्य्युः तत्र मध्यमान्त्ययोस्त्रिरावृत्तिः। तृतीयावृत्तौ नवर्चो गातुं हिङ्कुर्य्युः तत्र च सर्वासां त्रिरावृत्तिः इयमुद्यत्येकविं शस्तोमस्य विष्टुतिः। पञ्चर्चसप्तर्चनवर्चानां यथोत्तरमुत्कर्षाधिक्येन उद्यतीतिसंज्ञाऽन्वर्था। नवर्चो गातुं हिङ्कुर्य्युः तत्राद्यावृत्तौ सर्वासां त्रिरभ्यासः। ततः पञ्चर्चो गातुम् हिङ्कुर्य्युः। तासु द्वितीयायाः त्रिरावृत्तिः। ततः सप्तर्चोगातुं हिङ्कुर्य्युः। तृतीयावृत्तौ तासु आद्यान्त्ययोस्त्रिरभ्यासः। इयं प्रतिष्टुतिर्नाम तस्य स्तोमस्य विष्टुतिः। नवर्चोगातुं हिङ्कुर्य्युः आद्यावृत्तौ तासु सर्वासां त्रिराभ्यासः। ततस्त्रिस्रऋचोगातुं हिङ्कुर्य्युः। द्वितीयावृत्तौ तासां कस्याअपि न त्रिरावृत्तिः। ततो नवर्चो गातुं हिङ्कुर्य्युः तत्र तृतीयावृत्तौ सर्वासां त्रिरावृत्तिः। इयमस्य स्तोमस्य सूमीं नाम विष्टुतिः तत्संज्ञानिमित्तं भाष्ये उक्तम्।

एकविध = त्रि० एका विधा प्रकारोऽस्य। एकप्रकारे “मानुष्यश्चैकविधः समासतो भौतिकः सर्ग” सां० का।

एकविलोचन = त्रि० एकं विलोचनं यस्य १ काणे। २ तत्प्रधानदेशभेदे च स च देशः वृहत्स० कूर्मविभागे पश्चिमोत्तरस्यामुक्तः। पश्चिमोत्तरस्यामित्युपक्रम्य एकविलोचनशूलिकदीर्घग्रीवास्यकेशाश्च”। ३ कुवेरे पु० तस्य वामने त्रस्य स्फोटनात् तथात्वम्। एकपिङ्गशब्दे विवृतिः। ४ काके पुंस्त्री स्त्रियां जातित्वात् ङीष्। तस्योभवगोलकसत्त्वेऽपि एकमेव नेत्रेन्द्रियमुभयगोलके सञ्चरतीति तस्य तथात्वम्। एकलोचनादयोऽत्र। कर्म्म०। ५ एकस्मिन् लोचने न० वौद्धभेदैर्हि। एकमेव लोचनं नासास्थिभेदेन व्यवधानाद्द्वित्वेन प्रतीयते इत्यङ्गीक्रियते तदेतन्मतमुत्थाप्य गौत० सू० वृत्त्योः खण्डितं यथा “नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात्” सू० एकमिर्दं चक्षुर्मध्ये नासास्थिव्यवहितं तस्यान्तौ गृह्यमाणौ द्वित्वाभिमानं प्रयोजयतः मध्यव्यवहितस्य दीर्घस्येव” वृ०। “एकविनाशे द्वितीयाविनाशान्नैकत्वम्” सू० “एकस्मिन्नुपहते चोद्धृते वा चक्षुषि द्वितीयमवितिष्ठते चक्षुर्विषयग्रहण- लिङ्गम् तस्मादेकस्य व्यवधानानुपपत्तिः” वृ०। “अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः” सू० “एकविनाशे द्वितीयाविनाशादित्यहेतुः कस्मात् वृक्षस्वहि कासुचिच्छाखासु छिन्नासूपलभ्यत एव वृक्षः” वृ०। “दृष्टान्तविरोधादप्रतिषेधः” सू० “न कारणद्रव्यस्य विभागे काय्यैद्रव्यमवतिष्ठते नित्यत्वप्रसङ्गात् बहुष्ववयविषु यस्य कारणानि विभक्तानि तस्य विनाशः। येषां कारणान्यविभक्तानि तान्यवतिष्ठन्ते अथवा दृश्यमानार्थविरोधो दृष्टान्तविरोधः मृतस्य हि शिरःकपाले द्वाववटौ नासास्थिव्यवहितौ चक्षुषः स्थाने भेदेन गृह्येते न चैतदेकस्मिन्नासास्थिव्यवहिते सम्भवति। अथ वैकविनाशस्यानियमात् द्वाविमावर्थौ तौ च पृथगावरणोपघातौ अनुमीयेते विभिन्नाविति अवपीडनाच्चैकस्य चक्षुषो रश्मिविषमसन्निकर्षस्य भेदाद् दृश्यभेद इव गृह्यते तच्चैकत्वे विरुद्ध्यते अवपीडननिवृत्तौ चाभिन्नप्रतिसन्धानमिति तस्मा देकस्य व्यवधानानुपपत्तिः” अवपीडनं चिपिटीकरणम्।

एकवीर = पु० कर्म्म० वा० एकशब्दस्य पूर्वनि०। १ श्रेष्ठवीरे “यस्त्वेकवीरोऽतिरथो विजिग्ये” भाग० ३, १, ४०। “गोप्तैकवीरो नरदेवनाथः” ४, १६, १९। ३ महावीरे “मादकोऽत्युष्णकटुकस्तोदवातादिनाशकः। चटुलीकटिपृष्ठादिचलपक्षादिघातकः” इति वैद्यकोक्तगुणके ४ वृक्षभेदे वीरैक इत्यपि साषुः वस्तुत एकशब्दस्य संख्यापरत्वे वीरैकः श्रेष्ठपरत्वे एकवीर इति व्यवस्था।

एकवीराकल्प = पु० एकः प्रधानं वीरः कुलाचारी यस्याः तादृश्याः तारादिविद्यायाः कल्पः उपासनाज्ञापक शास्त्रम्। तन्त्रभेदे यत्र वीराचारसेव्यायाः देव्या रहस्यादिकमुक्तं तस्मिन् तन्त्रशास्त्रभेदे।

एकवृक्ष = पु० एकोवृक्षोयत्र। “चतुः क्रोशान्तरे यत्र न वृक्षान्तरमीक्ष्यते। एकवृक्षः स विज्ञेयोदेशः सिद्धिप्रदायकः” इत्यागमोक्ते १ देशभेदे। कर्म्म०। २ एकस्मिन् वृक्षे “एकवृक्षो पञ्च नौका मवतीति” सारमञ्जरी।

एकवृत् = स्त्री एकधैव वर्त्त्यते अजर्भूतण्यर्थे वृत–भावे क्विप्। १ एकधावर्त्तने एकावृत्तौ “एकवृत्स्तरणम्” कात्या० ८, २, ३८। कर्त्तरि क्विप्। २ एकधा वर्त्तमाने। एकधा वर्त्ततेऽत्र आधारे क्विप्। ३ स्वर्गलोके। “एकोत्तराजुहोत्येकवृद्वै स्वर्गो लोकएकधैवैनं स्वर्गं लोकं गमयति” शत० ब्रा० १३, २, १, ५।

एकवृन्द = पु० “वृत्तोन्नतोयः श्ययथुःसदाहः कण्ड्वन्वितोऽपाक्य मृदुर्गुरुश्च। नाम्नैकवृन्दः परिकल्पितोऽसौ” इति सु- श्रुतोक्ते १ रोगभेदे स च कण्ठगतो मुखरोगभेदः। “मुखरोगाः पञ्चषष्टिः” इत्युपक्रम्य तेषां मध्ये सप्तदश कण्ठमूले इत्युक्त्वा “अथ कण्ठगतास्तु रोहिण्यः पञ्च कण्ठशालूकमधिजिह्वो बलयोबलास एकवृन्दोवृन्दः शतघ्नीगिलायुर्गलविद्रधिर्गलौघःस्वरघ्नो मांसतानोविदारी चेति” इति कण्ठ गतान् विभज्य तेषां लक्षणाभिधाने एतल्लक्षणस्योक्तेस्तस्य मुखरोगत्वम्। “एकवृन्दं तु विस्राव्य विधिं शोषणमाचरेत्” सुश्रु०। कर्म्म०। एकस्मिन् वृन्दे २ एकराशौ न।

एकवृष = पु० कर्म्म०। १ एकस्मिन् वृषे तस्य स्वामिनोऽनिष्टदायकत्वम् यथा “एकोवृषस्त्रयोगावः सप्ताश्वा नवदन्तिनः। सिंहप्रसूतिका गावः कथिताः स्वामिघातकाः” पुरा० बहु०। २ एकवृषयुक्ते त्रि० “एकवृष इन्द्रसखा जिगीवान्” अथ० ४, २२, ६ “इमं विशामेकवृषं कृणु त्वम्” अथ० ४, २२, १।

एकवेणि(णी) = स्त्री एकीभूता संस्काराभावेन जटावत् संहतिं प्राप्ता वेणी। प्रोषितभर्त्तृकायाः स्त्रियः केशसंस्कारराहित्येन एकोभूततां प्राप्तायां जटाकारायां वेण्याम्। “गण्डाभोगात् पतनविषयामेकवेणीं करेण” मेघ०। “एकवेणीम् एकीभूतां वेणीम्” मल्लिः। वेणीनां संस्काराभावेन एकीभूतत्वेन गुम्फितत्वम् “प्रोषितेषु पतिषु द्युयेषि ताम् गुम्फिताः शिरसि वेणयोऽभवन्” इति माघे वर्ण्णितम्। “ततः प्रविशत्येकवेणीधरा शकुन्तला” शकु०।

एकशत = न० एकाधिकं शतम् शा० त०। १ एकाधिकशते एकमितं शतम्। २ एकमिते शते ३ तत्संख्यान्विते च। तत्र संख्येये “विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप!” भाग० ९, १६, १७। संख्यायाम् “प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम्” मनुः ततः पूरणेडट् तमट् च। एकशततमः तत्पूरणे त्रि० स्त्रियां ङीप्। एकशतं परिमाणमेषाम् कन्। एकशतक तत्परिमाणे त्रि०। अवयवे कन्। एकशतक तत्संख्यायां न०। प्रकारे धाच्। एकशतधा एकशतप्रकारे अव्य० वीप्सार्थे कारकार्थवृत्तेः शस्। एकशतस् एकशतमेकशतमित्याद्यर्थे अव्य०।

एकशफ = पु० एकं शफं खुरो यस्य। एकखुरयुक्ते खरादौ ते च “खरोऽश्वोऽश्वतरो गारः शरभश्चमरी तथा। एते चैकशफाः क्षत्तः! शृणु पञ्चनखान् पशून्” भा० ३, १०, २२ उक्ताः। “अजाविकं चैकशफं न जातु विषमं भजेत्” मनुः अविक्रेयमध्ये “मद्यं नीलीञ्च लाक्षाञ्च सर्वांश्चैकशफांस्तथः” मनुः अभक्ष्यमध्ये “अनिर्दिष्टांश्चैकशफान् टिट्टि- भञ्च विवर्जयेत्” मनुः “कार्पासकीटजोर्ण्णानां द्विशफैकशफस्य च” “एकशफो वा एष पशुर्यदश्वः” शत० ब्रा० ७, ५, २, २३। “इमं मा हिंसीरेकशफं पशुं कनिक्रदं वाजिनं वाजिनेषु” यजु० १ १३, ४८ “एकविंशत्यास्तुवतेकशफाः पशवोऽसृज्यन्त वरुणोऽधिपतिरासीत्” यजु० १४, ३०। “एकबिंशत्यास्तुवतैभिः। दशहस्त्या अङ्गुल्यः दश पाद्याः आत्मैकविंशस्तेनैतदस्तुवतैकशफाः पशवोऽसृजनैकशफाः पशवोऽत्रासृज्यन्त वरुणोऽधिपतिरासीत्” शत० ब्रा० ८, ४, १३। एकशफमांसगुणाः “वृंहणं मांस मौरभ्रं पित्तश्लेष्मावहं गुरु। मेदः पुच्छोद्भवं वृष्यमौरभ्र सदृशं गुणैः। औरभ्रवत्स लवणं मांसमेकशफोद्भवम्” सुश्रुते उक्ताः।

एकशाख = त्रि० एका तुल्या शाखा वेदशाखा यस्य। १ तुल्यशखे “एकाशाखोद्भवोदत्तो गृहीतश्चोपनायितः” स्मृतिः। एका शाखा यस्य। एकशास्वके २ वृक्षे च। ततः गहादि० भवादौ छ। एकशाखीय तद्भवादौ त्रि०।

एकशाला = स्त्री कर्म०। एकस्यां शालायाम्। सेव ठन्। एकशालिक वाठक् ऐकशाखिक तत्सदृशे त्रि०।

एकशितिपाद् = पु० एकः शितिः कृष्णः पादोऽस्य। अश्वभेदे। स च अश्वमेधे वरुणदैवत्यः पशुः। “वारुणः कृष्णः एकशितिपात्पेत्वा” यजु० २९, ५८। अस्य युक्तारोह्यादि० आद्युदात्तता। तद्गणे हलन्तपाठात् नि० अन्तलोपः।

एकशुङ्ग = त्रि० एकं शुङ्गं मञ्जर्य्यग्रं यस्य। (एकशुङ्गो) “ओषधिभेदे “प्रस्तृणतीस्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरावदामि” अथ० ८, ७, ४,

एकशृङ्ग = पु० एकमेकत्वं शृङ्गं प्रधान्यमत्र। एकत्वस्वभावे १ विष्णौ त्रिका०। २ पितृगणभेदे। “पितॄणाञ्च गणान् विद्धि सप्त वै पुरुषर्षभ!। मूर्त्तिमन्तो वै चत्वारस्त्रयश्चाप्यशरीरिणः। वैराजाश्च महाभागा अग्निष्वात्ताश्च भारत!। गार्हपत्या नाकचराः पितरोलोकविश्रुताः। सोमपा एकशृङ्गाश्च चतुर्वेदकलास्तथा। एते चतुर्षु वर्ण्णेषु पूज्यन्ते पितरो नृप!। एतैश्चाप्यायितैः पूर्ब्बं सोमश्चाप्यायते पुनः” भा० स० ११ अ०। ३ शुकदेवमहिष्माम् स्त्री। शृङ्गशब्दस्य प्राधान्यवाचकतया अस्वाङ्गवाचित्वात् न ङीष्। “तवैव वंशे या दत्ता शुकस्य महिषी प्रिया। एकशृङ्गेति विख्याता साध्वीनां कीर्त्तिवर्द्धिनी” हरिवं० ११८ अ०। एकं शृङ्गं शिखरमस्य। ४ एकशिखरे पर्वते पु०। एकं शृङ्गसस्य। ५ एकशृङ्गयुक्ते पशौ पुंस्त्री० स्त्रियां ङीष्।

एकशेप = पु० एकः शेपोमूलमस्य। (एकशिकडयुक्त) एकमूले वृक्षभेदे

एकशेष = पु० एकः शिष्यतेऽन्योल्युप्यते यत्र शिष–आधारे घञु। “सरूपाणामेकशेष एकविभक्तौ” इत्यादिना पा० उक्ते वृत्तिभेदे। अस्ये समासत्वतदभावौ मतभेदे न सरलायामस्माभिर्दर्शितौ यथा सरूपाणां समानार्थानां समानानुपूर्ब्बीकाणां च मध्ये एक एव शिष्यमाणस्तत्तत्समुदाय व्यक्तिबोधकः” तत्र अपरांशीलुप्यते इति बोध्यम्। अयञ्चैकशेषः “प्रत्यर्थशब्दनिवेशः” इति मते व्यक्तिभेदापेक्षया द्वन्द्वप्राप्तौ तदपवादकः। एष च सुबुत्पत्तेः पूर्ब्बमेवोत्पद्यतेऽतः पदनिमित्तकद्वन्द्वबाधकैत्येके। सुवुत्पत्त्यनन्तरमुत्पद्यत इत्यन्ये। तत्र पदनिमित्तकत्वाभावे समासत्वं नास्तीत्यतः कृत्तद्धितसमासैकशेषेत्यादिवृत्तिभेदगणने पृथन्निर्द्देशस्तथा च समासत्वामावेन पन्थानावित्यत्र न समासान्त इति एकपक्षः। अस्य पदनिमित्तकत्वेऽपि गोवलीवर्द्ध न्यायेन वृत्तिभेदगणने पृथग्ग्रहणं समासान्ताभावश्च तत्तत्सूत्रे एकशेषभिन्नत्वेन निवेशनान्नेति पक्षान्तरम्। “विरूपाणामपि समानार्थानामिति” वार्त्ति० घटश्च कलसश्च घटौ कलसौ वा। तथा च समानानुपूर्वीकाणां भिन्नानुपूर्वीकाणाञ्च समानार्थानामेकशेषः। स प्रकारान्तरेण द्विविधः समानार्थकानां भिन्नार्थकानाञ्चेति भेदात्। तत्र घटौ इत्यादौ समानार्थकानामेकशेषः। भिन्नार्थकैकशेषः यथा पितरौ श्वश्वरौ भ्रातरावित्यादि। एकः प्रधानं शेषोऽन्तः। २ एकान्ते पु० बहु०। अतिशयिते त्रि०। “कृत्तद्धितसमासैकशेषस। नाद्यन्तधातवः वृत्तयः पञ्च” सि० कौ०।

एकश्रुति = त्रि० एका श्रुतिर्यस्य। १ उदात्तानुदात्तस्वरितानामविभागेनैकस्वरश्रवणायोच्चारिते शब्दभेदे कर्म्म०। २ तथैकस्वरश्रुतौ स्त्री। कुत्रकुत्रेकश्रुतिर्भवतीति पा० उक्तं यथा “एकश्रुति दूरात् सम्बुद्धौ” पा० दूरात् सस्वुद्धौ वाक्यमेकश्रुति स्यात्। उदात्ताद्यपवादः। “यज्ञकर्मण्यजपन्यूङ्खासामसु” पा० यज्ञक्रियायायां मन्त्र एकश्रुतिः स्यात् जपादीन् वर्ज्जयित्वा। यज्ञेत्युक्तेः स्याध्यायकाले यथोक्तस्वराः प्रयोक्तव्याः। जपोनाम उपांशुप्रयोगः। यथा जले निमग्नस्य। न्यूङ्खानाम षोडश ओकाराः सामानि गीतयः। एषु यथोक्तस्वरा नैकश्रुतिरिति बोध्यम्। “उच्चैस्तरां वा वषट्कारः” पा० यज्ञकर्मणि वषट्शब्द उदात्तो वा स्यात् पक्षे एकश्रुतिः। “विभाषा छन्दसि” पा० व्यवस्थाविकल्पः संहितायां यथोक्त स्वराः ब्राह्मणे तु एकश्रुतिर्बह्वृचानाम् अन्येषान्तु यथासम्प्रदायात् व्यवस्था। अस्यापवादः। “न सुब्रह्मण्यायां स्वरितस्य तूदात्तः” पा० सुब्रह्मण्याख्ये निगदे “यज्ञ कर्मणीति” “विभाषा छन्दसीति” प्राप्ता एकश्रुति र्न स्यात् स्वरितस्योदात्तश्च स्यात्। “स्वरितात् संहितायामनुदात्तानाम्” पा० स्वरितात् परेषामनुदात्तानानामेकश्रुतिः स्यात् एकश्रुतेरेव प्रचयनाम” सि० कौ०। एकश्रुतेर्भावः ष्यञ् ऐकश्रुत्य “उदात्तामुदात्तस्वरितानां परःसन्निकर्ष ऐकश्रुत्यम्” आश्व० श्रौ० १, २, ९ उक्ते उच्चारणभेदे “उदात्तानुदात्तस्वरितानामभिव्यञ्जका ये प्रयत्ना आयामविश्रम्भाक्षेपास्तेषामन्यतमस्यैकस्यैवात्यन्तसन्निकर्षेणासजातीयप्रयत्नाव्यवधानेन यदुच्चारणं तदैकश्रुत्यम्” नारा०। कतिचिदृच उक्त्वा “ता एकश्रुतिसन्ततमनुब्रुयात्” आश्व० श्रौ० १, २, ८। एका श्रुतिः कर्णो यत्र। क्षेत्रव्यवहारे भुजकोटिवर्गयोगस्य मूलमितकर्णयुक्ते त्रिकोणादौ ३ क्षेत्रे ४ एककर्णयुक्ते त्रि०। एका श्रुतिर्वेदः कर्म्म०। एकस्मिन् ५ वेदवाक्ये। “उभयोरेकश्रुतिमूलकत्वादिति” स्मृतिनिबन्धेषु भूरिप्रयोगः।

एकषष्ट = त्रि० एकषष्ट्याः पूरणः डट् संख्यापूर्बकत्वात् डटि न तमट्। एकषष्टिपूरणे यत्संख्यया एकषष्टिः पूर्य्यते तत्संख्यान्विते स्त्रियां ङीप्। एकषष्ट्या युतं शतादि डट् मुग्ध०। २ एकषष्ट्या युते शते सहस्रे च तेन स्वयं कविकल्पद्रुमे उक्तम् “इति स्फीतः सप्तदशशत्या षट्कोनषष्टया”। पा० मते तु नात्र डट् तेन दशान्तात् शदन्तात् विंशतेश्च तदस्मिन्नधिकमित्यर्थे डटोविधानादिति भेदः। तेन तन्मते एकषष्टिरस्त्यस्याधिकतया अर्श० अच्। तेन तद्रूपसिद्धिः स्वरे भेदः। इदन्त्ववधेयम् येषाम् अच्प्रत्ययेन न रूपसिद्धिस्तेषामेव सूत्रकृता दशान्तस्य शदन्तस्य विंशतेश्च ग्रहणं कृतम् षष्टिसप्तत्यशीतिनवत्य न्तानां तु अच्प्रत्ययेनैव तद्रूपसिद्धेर्न तेषां ग्रहणमिति। एवमेकसप्ततादयोऽपि तत्तत्संख्यापूरणे त्रि० तत्तत्संख्याधिके शते सहस्रे च न०। एकषष्ट्यादि परमाणमेषां ड। एकषष्ट्येकसप्ततादि तत्तत्संख्यामिते त्रि० एकषष्ट्यादि अधिकमस्मिन् शते सहस्रे वा कन् एकषष्टिकैसप्ततिकादितत्तत्संख्याधिके, शते सहस्रे च। अवयवे कन्। एकषष्टिकैकसप्ततिकादयस्तत्तत्संख्यायां न०।

एकसभ = त्रि० एका सभा गोष्ठी समुदायो यत्र। जगदात्मैकगोष्ठीयुक्ते “भ्रमसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकसभमसि” शत० ब्रा० १४, ९, ३, ९। “याखल्वेका सभा जगदात्मिका सा त्वदात्मिकैवेति त्वमेकसभमसीति” भा०।

एकसर्ग = पु० एक एकविषयः सर्गः चित्तवृत्तिः यत्र। १ एकाग्रे एकताने एकमात्रासक्तचित्ते अमरः। कर्म्म०। २ एकसृष्टौ पु०

एकसूत्र = पु० एकं सूत्रं वादनस धनं यत्र। डमरुरूपे वाद्ये शब्दरत्ना०। तस्य एकसूत्रवेष्टनेन वादनात् तथात्वम्।

एकस्थ = त्रि० एकस्मिन् तिष्ठति स्था–क ७ त०। एकत्रस्थिते “एकस्थसौन्दर्य्यदिदृक्षयेव” कुमा०। “तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे” भा० व० ३७ अ०। “हन्तैकस्थं क्वचिदपि न ते चण्डि! सादृश्यमस्ति” मेघ०। स्था–क्त ७ त०। एकस्थितादयोऽप्यत्र त्रि०।

एकहंस = म० एकः श्रेष्ठो हंसोऽत्र। सरोभेदरूपे तीर्थभेदे “एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत्। कृतशौचं समासाद्य तीर्थसेवी नराधिप!। पुण्डरीकमवाप्नोति कृतशौचो भयेच्च सः” भा० व० ८३ अ०। “हन्ति गच्छति जाग्रदाद्यवस्था इहलोकपरलोकौ वा हंसः कर्म०। २ जीवे। “शुक्रमादाय पुनरैति स्थानं हिरण्मयः पौरुष एकहंसः” “स ईयते अमृतो यत्र कामं हिरण्मयः पौरुष एक हंसः” शत० ब्रा० १४, ७, १, १२, १३। “शुक्रं शुद्धंज्योतिष्मदिन्द्रयादिमात्रारूपं गृहीत्वा पुनः स्वप्तहेतुकर्मोपरमानन्तरं जाग्रद्भोगहेतुकर्मणा जागरितं स्थानमागच्छति हिरण्म यश्चैतन्यज्योतिःस्वभावः पौरुषः पुरुषएव स्वार्थे अण् एकहंसः एकश्चासौ हसश्चेत्येकहंसः एक एव जाग्रत्स्वप्नाविहलोकपरलोकौ च हन्ति गच्छति हिनस्तीति वा एकहंसः” भा० जीवस्योपाविकृतजाग्रदाद्यवस्थाभिर्न किञ्चिद्विकृतत्वमिति द्योतनार्थमेकत्वविशेषणम्।

एकहायनी = स्त्री एकोहायनो वयेमानं यस्याः ङीप्। एकवर्षवयस्कायां स्त्रीगव्यादौ। एकहायन एकवर्षवयस्के पशुमात्रे त्रि०। “अजमेषावनड्वाहं स्वरं ञ्चैवैकहायनम्” मनुः। ३ एकवर्षोत्पन्ने धान्यादौ त्रि० तत्र वयोवाचित्वाभावेन स्त्रियां न ङीबिति भेदः एकहायना इत्येव

एका = स्त्री सर्वत्र अभिन्नत्वेन स्थितायां १ दुर्गायाम् “एका सा तु पृथक्त्वेन विना सर्वत्र विश्रुता। यथा तु व्यज्यते वर्णैर्विचित्रैःस्थटिकोमणिः। तथा गुणवशाद्देवी नानाभावेषु वर्ण्यते” देवीपु० ४५ अ०। २ द्वितीथरहितस्त्रियाम्। “एकैवाहं जगत्यत्र का द्वितीया ममापराः” देवीमा०। ३ एकत्वान्वितस्त्रियाञ्च “अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः” इति श्रुतिः “एका सुमित्रा सह लक्षणेनेति” भट्टिः। पुत्रयोरेकत्रोत्पत्तिकथनार्थमेकेति विशेषणम्। अन्ये तु ए विष्णौ कायति अभिरमते कै–क अलुक् स०। विष्णुरतेत्यर्थमाहुस्तेन ४ तदर्थे त्रि०।

एकाकिन् = त्रि० एक + असहाये पक्षे आकिनि। सजातीयसहचररहिते “एकाकी हयमारुह्य जगाम गहनं वनम्” देवीमा०। अत्र हयस्य विजातीयत्वात् तत्सहायत्वेऽपि न क्षतिः। असहायत्वञ्च एकजातीयक्रियाकरणे अन्यसहायरहितत्वम् तेन हयस्य स्वगतिक्रियां प्रति सहचरत्वाभावात् नानुपपत्तिः। तत्रन्यत्वं प्रकृत्यर्थसंख्यान्वितपदार्थभिन्नत्वम् तेन “एकाकिनोऽपि परितः पौरुषेयकृता इव” माघे प्रत्येकमेकत्वसंख्यान्वितानां रामकृष्णोद्ध्ववानामन्यासहायकत्वात् एकाकिन इति प्रयोगः। “एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानोहि परं श्रेयोऽधिगच्छति” मनुः। “एकाकिना चात्ययिके” मनुः। स्त्रियां ङीप्। “एक किन्यपि यामि सत्वरमतः स्रोतस्तमालावलम्” सा० द०।

एकाक्ष = पु० एकमक्षि यस्य षच् समा०। १ काके। २ काणे त्रि०। स्त्रियां ङीष्। काकस्य यथा तथात्वं तथोक्तं रामा० अ० का० १०५ अ० यथा “एवमुक्तस्तु रामेण संप्रधर्य्य स वायसः। अध्यगच्छद्द्वयोरक्ष्णोस्त्यागमेकस्य पण्डितः। सोऽब्रवीद्राघवं काको नेत्रमेकं त्यजाम्यहम्। एकनेत्रोऽपि जीवेयं त्वत्प्रसादान्नराधिप! रामानुज्ञातमेकं तत् (इषोकास्त्रम्) काकनेत्रमशातयत्”। तज्जातीयत्वादन्येषामपि तथात्वम्। एकनेत्रादयोऽप्युभयत्र। स्त्रियामुभयार्थे टाप।

एकाक्षर = न० एकमद्वितीयमक्षरम्। १ एकमात्रवर्णे “एकाक्षरद्व्यहराण्येव प्रथमं वदन् कुमारो वदति” शत० ब्रा० ११, ११६, ४। २ एकस्वरवर्णे ““एकाक्षरात् कृतोजातेः सप्तम्याञ्च न तौ स्मृतौ” व्या० का० ओमित्येकाक्षरमुद्गीथमुपासीत” छा० उ०। “एकाक्षरं परं ब्रह्म इति” मनः। “एकाक्षरम् ओङ्कारः” कुल्लू०। ओङ्कारस्य द्विवर्णत्वेऽपि एकस्वरवर्णवत्त्वात् एकाक्षरत्वम्। अष्टाक्षराऽनुष्टुब दौ स्वरवर्णेनैवक्षरत्वव्यवहारात् स्वरवर्णमनुच्चार्य्य केवलव्यञ्जनवर्णस्य प्राक् अनुचार्य्यत्वात् तस्य सर्वत्र उच्चारणे क्षरणाभावात् अक्षरत्वम्। एकमक्षरं यत्र। ३ एकाक्षरयुक्ते त्रि० स्त्रियां गौरा० ङीष्। “शिरो मे कालिका पातु क्रीङ्कारेकाक्षरी परा” श्यामाकवचम्।

एकागार = न० एवकसहायमगारम्। द्वितीयजनानधिष्ठित गृहे तत्प्रयोजनमस्य ठञ् ऐकागारिक चौरे त्रि० स्त्रियां ङीप् “केनचित्तु हस्तवतैवागारिकेण” दशकुमा०। चौरादन्यत्र वृद्धत्वात् छ। एकागारीय मुन्यादौ त्रि०।

एकाग्र = त्रि० एकमग्रं विषयप्रवणता यस्य। १ विषयान्तरव्यावृत्तैकमात्रविषयकचित्तवृत्तिके २ विक्षेपरहितज्ञाने च। “मनुमेकाग्रमासीनमभिगम्य महर्षयः” मनुः। स्वार्थे अण्। ऐकाग्र अत्रार्थे त्रि०। तस्य भावः ष्यञ् ऐकाग्र्य तद्भावे न० “मनसश्चेन्द्रयाणाञ्चाप्यैकाग्र्यं निश्चितं तपः” भा० व० २५ अ०। “तद्गीतिश्रवणैकाग्र्या संसदश्रुमुखो बभौ” रघु०। तल् एकाग्रता स्त्वी, त्व एकाग्रत्व न० तत्रार्थे।

एकाग्रता च चित्तस्य धर्म्मविशेषः विषयान्तरावलम्ब नरूपसंसर्गशून्यः। एकविषयकधारावाहिकवृत्तिरूपः स च त्रिगुणात्मकस्य चित्तस्य सत्वगुणोद्रेके रजोगुण कृतविक्षेपाभावात् तमोगुणकृततन्त्राद्यभावाच्च उदेति। तत्र बाह्याभ्यन्तरकारणाग्युक्तानि” पात० सू० भाष्यविवरणेषु यथा “यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म्म निर्द्दिश्यते, तत्कथम्? भा०। “मैत्रीकरुण मुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्” सू०। “तत्र सर्व्वप्राणिषु सुखसम्भीगापन्नेषु मैत्रीं भावयेत् दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम्, अपुण्यशीलेषूपेक्षाम्। एवमस्य भावयतः शुक्लोधर्म्मौपजायते ततश्चित्तं प्रसीदति प्रसन्नमेकाग्रं स्थितिपदं लभते” भा०। “अपरिकर्म्मितमनसोऽसूयादिमतः समाधितदुपायसम्यत्त्यनुत्पादात् चित्तप्रसादनोपायानसूयादिविरोधिनः प्रतिपादयितुमुपक्रमते–यस्य,–चित्तस्यावस्थितस्येदमिति। मैत्रीकरुणेत्यादि प्रसादनान्तम्। सुखितेषु मेत्रीं सौहार्द्दं भावयत ईर्षाकालुष्यं निवर्त्तते चित्तस्य। दुःखितेषु च करुणामात्मनीव परस्मिन् दुःखप्रहाणेच्छां भावयतः परापकारचिकीर्षाकालुष्यं चेतसोनिवर्त्तते। पुण्यशीलेषु प्राणिषु मुदितां हर्षं भावयतः असूयाकालुष्यं चे तसो निवर्त्तते। अपुण्यशीलेषु चोपेक्षां माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसोनिवर्त्तते। ततश्चास्य राजसतामसधर्म्मनिवृत्तौ सात्विकः शुक्लोवर्म्म उपजायते। सत्वोत्कर्षसम्पन्नः सम्भवति। वृत्तिनिरोधपक्षे तस्य प्रसादस्वाभाव्याच्चित्तं प्रसीदति प्रसन्नञ्च वक्ष्यामाणेभ्य उपायेभ्यः एकाग्रं स्थितिपदं कमते। असत्यां पुनर्मेत्र्या- दिभावनायां न ते उपायाः स्थित्यै कल्पन्ते–तानिदानीं स्थित्युपायानाह” वाचस्पतिविवरणम्। “प्रच्छर्द्दनविधारणाभ्यां वा प्राणस्य” सू०। “कोष्ठ्यस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषात् वमनं प्रच्छर्द्दनं, विधारणं प्राणायामः ताभ्यां वा मनसः स्थितिं संप्रसादयेत्” भा० “वाशब्दो वक्ष्यमाणोपायान्तरापेक्षी विकल्पार्थो न, मैत्र्या दिभावनापेक्षया तया सह समुच्चयात्। प्रच्छर्द्दनं विवृणोति–कोष्ठ्यस्येति। प्रयत्नविशेषात् योगशास्त्रविहितात् येन कोष्ठ्योवायुर्नासिकापुटाभ्यां शनैरेच्यते। विधारणं विवृणोति विधारणं प्राणायामः रेचितस्य कोष्ठ्यस्य वायोर्यदायामो बहिरेव स्थापनं न तु सहसाप्रवेशनं तदेताभ्यां प्रच्छर्द्दनविधारणाभ्यां वायोर्लधूकृतशरीरस्य मनः स्थितिपदं लभते। अत्र चोत्तरसूत्रगतात् स्थितिनिवन्धनीतिपदात् स्थितिग्रहणमाकृष्य सम्प्रसादयेदित्यर्थप्राप्तेन सम्बन्धनीयः” विव०। “स्थित्युपायान्तरमाह” भा० “विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनि वन्धनी” सू० “नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित्सा गन्धप्रवृत्तिः, जिह्वाग्रे रसंवित्, तालुनि रूपसंवित्, जिह्वामध्ये स्पर्शसंवित्, जिह्वामूले शब्दसंवित्, इत्येताः प्रवृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति संशयं विधमन्ति समाधिप्रज्ञायाञ्च द्वारीभवन्तीति” भा०। “व्याचष्टे–नासिकाग्रे धारयत इति। धारणाध्यानसमाधीन् कुर्वतस्तज्जयात् या दिव्यगन्धसंवित् साक्षात्कारः एवमन्वास्वपि प्रवृत्तिषु योज्यम्। एतच्चागमात् प्रत्येतव्यं नोपपत्तितः” विवरणम्। तत्र सामान्यकारणञ्च शौचमेव तत्रोक्तम् “शौचात् स्वाङ्गजयोजुपुप्सापरैरसंसर्गः” सू० “सत्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयेग्यत्वानि च” सू०। “शुचेः सत्वशुद्धिस्ततः सौमनस्यं तत ऐकाग्र्यं तत इन्द्रियजयस्ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्वस्य भवतीति एतत् शौचस्थैर्य्यादधिगम्यते” भा०। तत्राद्यं सूत्रं वाह्यशौचसूचकं द्वितीयन्तु आन्तरशौचसूचकम् “चित्तमलानां क्षालने चित्तममलं भवति वैमल्यात् सौमनस्यं स्वच्छता स्वच्छत्वादैकाग्र्यं ततो मनोवश्यादिन्द्रियाणां जयस्तज्जयादात्मदर्शनयोग्यं भवतीति क्रमेण आन्तरशौचस्य फलमुक्तम्। एतच्च विवरणे स्थितम् एकाग्रताया आविर्भावे यथा समाधिलाभस्तथा तत्रैवोक्तम् “सर्वार्थतैकाग्र तयोः क्षयोदयौ चित्तस्य समाधिपरिणामः” सू० “सर्व्वार्थता चित्तधर्म्मः एकाग्रता च चित्तधर्म्म सर्व्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः एकाग्रताया उदय आविर्भाव इत्यर्थः तयोर्धर्म्मित्वेनानुगत चित्तं, तदिदं चित्तसपायोपजनयोः स्वात्ममूतयोर्धर्म्मयोरनुगतं समाधीयते स चित्तस्य समाधिपरिणामः” भा०। “संप्रज्ञातसमाधिपरिणामावस्थां चित्तस्य दर्शयति। सर्व्वार्थेत्यादि। विक्षिप्तता सर्व्वार्थता। सन्न विनश्यतीति क्षयस्तिरीभावः, नासदुत्पद्यत इति उदय आविर्भावः। आत्ममूतयोः सर्व्वार्थतैकाग्रतयोः धर्म्मयोः यौ अपायोपजनौ सर्व्वार्थताया अपायः एकाग्रताया उपजनस्त योरनुगतं चित्तं समाधीयते पूर्ब्बापरीभूतसाध्यभान समाधिविशेषणं भवतीति” वा० विवरणम्। “ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्येकाग्रता परिणामः” सू०। “समाहितचित्तस्य पूर्ब्बप्रत्ययः शान्त उत्तरस्तत्सदृश उदितः समाधिचित्तभूम्योरनुगतं पुनस्तथैव आ समाधिम्रेषादिति। स खल्वयं धर्म्मिणश्चित्तस्यैकाग्रता परिणामः” भा०। “पुनः समाधेः पूर्ब्बापरीभूताया अवस्थायाः निष्पत्तौ सत्यां शान्तोदितावतीतवर्त्तमानौ तुल्यौ च तौ प्रत्ययौ चेति तुल्यप्रत्ययौ एकाग्रतायान्तु द्वयोः सादृश्यं समाहितचित्तस्येति समाधिनिष्पत्तिः दर्शिता। तथैवैकाग्र्यस्यावधिमाह आसमाधिभ्रेषात्। असमाधिभ्रं शादिति”। वा० विवरणम्।

एकाग्र्य = त्रि० एकमग्र्यं यस्य। एकतावे एकावलम्बने।

एकाङ्ग = पु० एकं प्रधानम् सुन्दरत्वेनाङ्गमस्य। ग्रहमध्येअतिसुन्दराङ्गे १ बुधग्रहे त्रिका०। एकं सुन्दरमङ्गं यस्मात्। २ चन्दने न० हारा०। कर्म्मधा०। ३ एकस्मिन्नङ्गे न०। अप्येकाङ्गेऽप्यधोवस्तुमिच्छामि च सुकुत्सिते” भा० अनु० ८२ अ० ३ श्रेष्ठाङ्गे मस्तके च। एकमाङ्गमस्य। एकदेहतां प्राप्तयोः ४ दम्पत्योः क्रमेण पुंस्त्री० स्त्रियां ङीष्।

एकाण्ड = पु० एकमण्डं वृषणमस्य। अश्वभेदे अश्वशब्दे विवृतिः

***