—ए—
ए = एकारः स्वरवर्णभेदः एषः “एदेतौ कण्ठतालव्यावित्युक्तेः कण्ठताल्वोः स्थानयोरुच्चार्य्यः। स च दीर्घः द्विमात्रत्वात् उदात्तानुदात्तस्वरितभेर्दरनुनासिकाननुनासिकाभेदभ्याञ्च षड्विधः। तस्य मातृकान्यासे ऊर्द्ध्वोष्ठस्थाने न्यस्यतया तच्छब्देनाप्यभिधेयता। तस्य ध्येयरूपं कामधेनुतन्त्रे। “एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकम्। रञ्जिनी कुसुमप्रख्यम् पञ्चदेवमयं सदा। पञ्चप्राणात्मकं वर्ण्णं तथा विन्दुत्रयात्मकम्। चतुर्वर्गप्रदं देवि! ध्यायेत् परम कुण्डलीम्”। एशब्दस्य वाचकाः शब्दास्तन्त्रे उक्ता यथा “एकारो वास्तवं शक्तिर्झिण्ठीशौष्ठौ भगं मरुत्। सूक्ष्मो भूतोऽर्द्धकेशी च ज्योत्स्ना श्रद्धा प्रमर्द्दनः। भयं ज्ञानं कृशा धीरा जङ्घा सर्वसमुद्भवः। वह्निर्विष्णुर्भगवती कुण्डली मोहिनी वसुः। योषिदाधारशक्तिश्च त्रिकोणा ईशसंज्ञकः। सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः”। “एकारो वामगण्डान्तः शक्तिर्झिण्टी भगन्तथा। माक्षवीजञ्च विजया ओष्ठः एकादशस्वरः” इति वीजवर्णाभिधानम्
ए = अव्य० ई–विच् बा० न ह्रस्वः। १ स्मृतौ २ असूयायाम् ३ अनुकम्पायाम् ४ संबोधने ५ आह्वाने च” मेदिनिः ६ विष्णौ पु० एकाक्षरकोषः।
एक = त्रि० इण्–कन्। १ एकत्वरूपप्रथमसंख्यान्विते, २ केवले, ३मुख्ये, ४ अन्यार्थे, ५ सत्ये, ६ अद्वितीये, ७ समाने, ८ अल्पे च। प्रायशः संख्यावाचकस्य संख्यासंख्येयोभयपरत्वेऽपि एकशब्दस्य मूरिशः एकत्वसंख्यान्वितपरत्वम्। तेन एकोघटैत्यादि न तु घटस्यैकः। क्वचित्तु भावप्रधाननिर्द्देशपरत्वेन संख्यावाचकत्वमपि। “द्व्येकयोर्द्विवचनैकवचने” पा०। इह द्वित्वम् एकत्वं च द्व्येकशब्दयोरर्थः। अत्र द्विवचनान्तत्वमेव तथार्थत्वे लिङ्गम् संख्येयपरत्वेद्व्येकेषामिति स्यात् द्वन्द्वार्थानां संख्यान्वितानां बहुत्वात्। तेन एकद्विवचनशब्दोऽपि एकत्वद्वित्वार्थकः तत्रार्थे तयोःपरिभाषितत्वात् अतएव “सुपां कर्म्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम्” इति सुपां तिङाञ्च संख्यावाचकत्वमुक्तम्। तथा “अनेकमन्यपदार्थे” पा० सूत्रे अनेकपदस्य एकवचनान्ततया प्रयोगात् नास्ति एकत्वं यत्र इति विग्रहेण एकत्वशू- न्यार्थकता। एकसंख्यान्वितपरत्वे अनेके इति स्यात् “पतन्त्यनेके जलधेरिवोर्मय” इत्यादौ बहुवचनान्ततयैवानेक शब्दस्य प्रयोगात्। स्वारसिकप्रयोगे तु न लक्षणा तेन घटस्यैक इत्यादि न प्रयोगः इति द्रष्टव्यम्। इतरसंख्यासु एकत्वस्यानुगमात् द्वित्वादीनामेकत्वबुद्ध्यैव जननाच्च इण्धात्वर्थानुगमात् तस्य अन्वर्थनामता। संख्या च द्रव्यसमवेतो गुणबिशेषः गुणादौ च संख्यान्वयः परम्परयेति विशेषः। एकत्वादेर्जातित्वनिरासेन गुणत्वव्यवस्थापनं कणा० सू० वृत्त्योःकृतं यथा “रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम्” क० सू० “रूपरसगन्धस्पर्शेति संख्यादिपञ्चकभिन्नगुणोपलक्षणं व्यतिरेकादिति व्यभिचारात्। तदयमर्थः, एकोघट इति विशिष्टप्रतीतिर्विशेषणज्ञानजन्या, तत्र विशेषणं न रूपादि, तद्व्यतिरेकेण जायमानत्वात्। न च घटत्वादिकमेव निमित्तम्, पटेऽपि जायमानत्वात्, न चैकत्वं सत्तावत् सामान्यम्, सत्तया सहान्यूनानतिरिक्तावृत्तित्वात्, न च द्रव्यमात्रे सामान्यं तत्, द्रव्यत्वेनान्यूनानतिरिक्तदेशत्वात्, न चान्यूनानतिरिक्तदेशत्वेऽपि प्रतीतिभेदाद्भेदः, प्रतीतिभेदस्य स्वरूपकृतत्वे सत्ताऽपि भिद्येत, विषयभेदकृतत्वे तु विषयभेदानुपपत्तेरुक्तत्वात् अन्यथा घटत्वकलसत्वयोरपि भेदापत्तेः। न च स्वरूपाभेद एकत्वमिति भूषणोक्तं युक्तम्। घटस्वरूपभेदश्चेदेकत्वं तदा पटादावेकत्वप्रत्ययो न स्यात् स्वरूपभेदोद्वित्वादिकमित्यपि भूषणमतमनुपपन्नं स्वरूपभेदस्य त्रिचतुरादिसाधारण्येन व्यवहारवैचित्र्यानुपपत्तेरिति भावः”। वैया० सू० सङ्ख्यानिरूपणपूर्वकं तद्विवक्षादिनिरूपणं यथा “अभेदैकत्वसंख्याया वृत्तौ भानमिति स्थितिः। कपिञ्जलालम्भवाक्ये त्रित्वन्यायाद्यथोच्यते। उक्तञ्च वाक्यपदीये। “यथौषधिरसाः सर्वे मधुन्याहितशक्तयः। अविभागेन वर्त्तन्ते संख्यां तां तादृशीं विदुरिति”। परित्यक्तविशेषं वा संख्यासामान्यं तत्। उक्तञ्च “भेदानां वा परित्यागात्संख्यात्मा स तथाविधः। व्यापाराज्जातिभागस्य भेदापोहेन वर्त्तते। अगृहीतविशेषेण यथा रूपेण रूपवान्। प्रख्यायते न शुक्लादि भेदापोहस्तु गम्यते इति”। अस्याः वृत्तौ समासादौ भानं न्यायसिद्धमिति शेषः। इति मतस्थितिर्वैयाकरणानाम्। अयं भावः राजपुरुष इत्यादौ राज्ञोराज्ञोः राज्ञां वायं पुरुष इति जिज्ञासा जायते। विशेषजिज्ञासायां सामान्यरूपेण तत्प्रतीतिः शब्दादाब- श्यकी अतस्तस्यां शक्तिरिति। तस्या एकत्वेन प्रतीतौ न्यायमाह कपिञ्चलेति। बहुत्वगणनायां त्रित्वस्यैव प्रथमोपस्थितत्वात् तद्रूपेणैव भानवदेकत्वस्य सर्वतः प्रथमोप्रस्थितत्वमस्तीति। वस्तुतस्तु जिज्ञासैव नानुभवसिद्धा। तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावात्तत्तद्रू पेणैव वाच्यता स्यादिति ध्येयम्”। तथा च उत्सर्गात् सर्वत्र अभेदैकत्वसंख्यैव वृत्तौ प्रतीयते न तु विशेषेण। अत एव “संख्या तु व्यञ्जकाभावादव्यक्ता प्रातरादिवत्। यत्र तु व्यञ्जकं किञ्चित् तत्रसंख्या प्रतीयते” इति वाक्यपदीये उक्तम् तेन राजपुरुष इत्यादौ न विशेषसंख्याप्रतीतिः व्यञ्जकाभावात् त्वत्पुत्रः अस्मद्धनम् इत्यादी तु विशेषेण तत्प्रतीतिः त्वादेशतदभावयोर्व्यञ्जकत्वात् “त्वमावेकपचने” इति पा० एकवचने त्वमादेशस्य विधानात्। तदभावादेव द्वित्वबहुत्वयोर्विशेषेण प्रतीतिः। एवं द्रव्यैक्ये एकदेशितत्पुरुषविधानात् अर्द्धपिप्पलीत्यादौ एकत्वप्रतीतिः द्वित्वादौ विवक्षिते तु पिप्पल्यर्द्धमित्याद्येव स्यादिति तत्र विशेषसंख्याप्रतीतिः। “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति” श्रुतिः एकमेवाद्वितीयं ब्रह्म” श्रुतिः। ९ भेदत्रयशून्ये परमेश्वरे पु०। “एकोऽनेकः सवः कः किम्” विष्णुस०। “परमार्थतः सजातीयविजातीयस्वगतभेदराहित्यात् एकः” भा०। सजातीयभेदः यथा वृक्षे वृक्षान्तरात् भेदः विजातीयभेदः यथा वृक्षेपटाद्भेदः। स्वगतभेदः यथा वृक्षे शाखादिभ्योभेद इत्येवंभेदत्रयराहित्यञ्च सर्वस्य ब्रह्मात्मकत्वात् कार्य्यकारणयोरभेदात् तदरिक्तपरमार्थवस्त्वन्तराभावाच्च। तदेव “एकमेवाद्वितीयमिति” श्रुतौ पदत्रयेणोक्तम् इह तु अन्यपदाभावात् एकशब्दस्यैव तथा भेदत्रयराहित्यपरत्वमिति बोध्यम्। सांख्यमते तु “एकोऽद्वितीय इति वेदवचांसि पुंसि वैधर्म्य लक्षणभिदाविरहं वदन्ति” इत्युक्तवैधर्म्म्यरूपभेदराहित्यमेकत्वमिति बोध्यम्। न्यायमते तु “एकत्वमनुपश्यतः” इति श्रुत्यन्तरात् एकत्वेन चिन्त्यतया, प्राधान्येन वा एकत्वं समर्थनीयम्। “एकातपत्रा पृथिवीभृताङ्गर्णः” माघः। “त्वमेकदृश्यं नयनैः पिबन्त्यः” “ममात्र भावैकरसं मनः स्थितम्” कुमा० त्वमेकोह्यस्य सर्वस्य विधानस्य स्वयम्भुवः” मनुः। “अजामेकां लोहितशुक्लकृष्णां वह्वीः प्रजाः सृजमानां सरूपाः। अजोह्येकोजुषमाणोऽनुशेते” श्रुतिः। “एकातपत्रं जगतः प्रभुत्वम् “त्वमेका कल्याणी गिरिशरमणी कालि! सततम्” कर्पू० स्त० “हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता” भाषा०। विशेषणयोरेकस्य विशेष्यत्वविवक्षया क० स० एकशब्द स्य पूर्वनिपातः एकधनुर्द्धर इत्यादि “अमोघं सन्दधे शस्त्रं धनुष्येकधनुर्द्धरः” रघुः। वीरशब्देन समासे तु एकवीरः वीरैक इति रूपद्वयं भवतीति भेदः। वस्तुतस्तत्र वीरैकः इत्येव एकेषु मुख्येषु वीरयते इति वीरधातोरूपवीरशब्देन सप्तमीतत्पुरुषे एकवोर इति प्रौढम०। एकशब्दस्य संख्यावाचकत्वेऽपि “संख्यापूर्वो द्विगुः” पा० न द्विगुत्वमिति। अस्य सर्वनामकार्यम् एके एकस्मै एकस्मात् एकेषाम् एकस्मिन्। स्त्रियाम् एकस्यै एकस्याः एकासामेकस्यामित्यादि नञ्तत्पुरुषे तु। अनेक एकभिन्ने द्वि० ब० व०। तत्र एकत्व संख्यान्वयासम्भवान्नैकवचनप्रयोगः। तत्र च सर्वनामकार्यम् “अनेके अनेकस्मै इत्यादि अनेके सेवन्ते भवदधिकगोर्वाणनिवहान्” कर्पू० स्त०। एकत्वार्थकेन तेन बहुव्रीहौ एकवचनप्रयोगोऽपि “अनेकमन्यपदार्थे” पा०। एकस्य भावः त्व। एकत्व न० तल्। एकता स्त्री, ष्यञ् ऐक्य न० एकत्वसंख्यायां साम्ये श्रेष्ठत्वे अभेदे च। “तत्र कोमोहः कः शोक एकत्वमनुपश्यतः” श्रुतिः “अर्थान्तरमेकत्वम्” कणा० सू०। “एकत्वं सागता यस्मात्” स्मृतिः। “समालोक्यैकतामेवं शशिनो भास्करस्य च” भा० व० २२३। “व्रजतोरपि प्रणयपूर्वमेकताम्” माघः “दैक्यं सोऽन्वये” मुग्धबो०। “द्रव्यैक्ये” सि० कौ०। डतर। एकतर द्वयोर्मध्ये जातिगुणक्रियादिभिर्निर्धार्य्ये एकस्मिन् त्रि० एकतरो ब्राह्मणः एकतरः कठः एकतरोनीलः एकतरश्चल इत्यादि। “अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतरं वृणु” भा० आ० १६६ अ०। “एकतरपक्षपातिनी युक्तिर्विनिगमना” न्याय०। स च शब्दः अन्यतरान्यतमवत् अव्युत्पन्नं प्रातिपादिकमित्यन्ये अतएव “अद्ड्डरादिभ्यः” पा० एकतरशब्दान्न अद्ड्। एकतरं कुलम्। तेन न सर्वनामकार्य्यम् “द्वयोरेकतरे बुद्धिः क्रियतामित्यादि, एकशब्दस्य भिन्नार्थकत्वोन एकतरशब्दोऽपि भिन्नार्थे अमरः। डतम। एकतम बहूनां मध्ये जात्यादिभिः निद्धार्य्ये एकस्मिन् त्रि० “यदि ह्येकतमोह्योषां स्त्रीधनं भक्षयेद्बलात्” कात्या० स्मृ०। सर्वनामकार्य्यम् एकतमे एकतमस्मादित्यादि क्लीवे स्वमोः अद्ड् एकतमत्। तसिल्। एकतस् एकस्मिन्नित्यर्थे अव्य० “एकतोदतः” मनुः “तामेक- तस्तव बिमर्त्ति गुरुवितन्त्रो” रघुः। त्रल्। एकत्र एकस्मिन्नित्यर्थे अव्य० “एकत्र स्फटिकतटांशुभिन्ननीराः” माघः। “तथैकत्र करे दश” मनुः “अन्त्यजैर्गर्द्दभैरुष्ट्रैः सहैकत्रावतिष्ठते” या०। दाच्। एकदा एकस्मिन् काले अव्य०। “स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा। एकदा स्माल्पकं भुङ्क्ते” भा० अनु० १५९ अ०। अल्पाद्यर्थकात् कारकार्थेवीप्सार्थे शस्। एकशस् अल्पमल्पमेकमेकं वेत्याद्यर्थे अव्य० “परिस्तीर्य्य तं पूर्व्ववत् पात्रासादनमेकशः” कात्या० ४, २, ४। एवमेकेनैकेन एकैकस्मै इत्याद्यर्थेऽपि। प्रकारे धा। एकधा एकप्रकारे “एकधा बहुधा चैव दृश्यते जलचन्द्रवत्” श्रुतिः। ध्यमुञ् ऐकध्यम् एकधेत्यर्थे अव्य०।
एकक = त्रि० एक + असहायेऽर्थे वा कन्। असहाये “क्षमाचरिष्ण्वेककं भरतामप यद्रपः” ऋ० १०, ५९, ९। “महानप्येकको वृक्षः सर्वतः सुप्रतिष्ठितः। प्रसह्यैव हि वातेन शक्योधर्ययितुं यतः” पञ्चत०। “विधिरेककचक्रचारिणम्” नैषधम्। सर्वनामत्वेन टेरकचि तु। एकशब्दार्थे इति भेदः
एककपाल = त्रि० एककपाले संस्कृतः अण् तस्य लुक्। एककपालसंस्कृते पुरोडाशादौ। “एतं द्यावापृथिव्यमेककपालं पुरोडाशम्” शत० ब्र० २, ४, ३।
एककर = त्रि० एकं करोति एक + कृ–“दिवाविभेत्यादिना” पा० संख्यापूर्वकत्वेन अणोबाधकः ट उप० स० स्त्रियाम् ङीप्। एकमात्रकारके एवं द्विकरत्रिकरादयोऽपि तत्तत्संख्यान्वितकारके त्रि० स्त्रियां ङीप्।
एककार्य्य = त्रि० एकं समानं कार्य्यं यस्य। समानकार्य्यकरे एकस्य पाकर्त्तुर्दर्शने अन्यस्य पाककर्त्तुःस्मरणं भवतीति स्मारकगणमध्ये गौत० सू० उक्तम् यथा। “प्रणिधान निबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसंबन्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखे छाद्वेषरागार्थित्वक्रियाधर्म्माधर्म्मनिमित्ते भ्यः” सू०। “एककार्य्यात् एककर्त्तुर्दर्शनात् कर्त्त्रन्तरस्य स्मृतिः” वृत्तिः। एकं कार्य्यं ययोः तयोर्भावः। एककार्य्यत्वतुल्यकार्य्यकरत्वरूपे सङ्गतिभेदे। तथा च समानकार्य्यकारित्वं स्वकर्तव्यकार्य्यकारित्वं सङ्गतिः। “सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा। निर्वाहकैककार्य्यत्वं षोढा सङ्गतिरिष्यते” अनुमानजा०। कर्म्मधार०। एकस्मिन् कार्य्ये “एककार्य्ये समुद्यन्तौ कृष्णौ युद्धेऽपराजितौ” भा० स० १० अ०। “गुणागुणमनासङ्गमेककार्य्य मनन्तरम्। एतत्तु ब्रह्मणी वृत्तमाहुरेकपदं द्वयम्” भा० व० २१२ अ०।
एककाल = कर्म्मधारयः। एकस्मिन् काले “एककालं चरेद्भैक्षं न प्रसज्येत विस्तरे” मनुः। “मुनिभिर्द्विरशनमुक्तम्” इत्युक्तेर्भोजनस्य द्विकालिकत्वं सार्व्वजनीनं यतेस्तु भिक्षाक्षिप्तभोजनस्य रागप्राप्ततया तदंशे विधित्वासम्भवेन एककालशब्देन द्वितीयकालनिवृत्त्यर्था परिसंख्यैवेहागत्याश्रयणीया न च नियमः, एककालभोजनाकरणे दोषा श्रवणात्। एककालोजनकतयास्त्यस्य ठन्। “कालाट् ठञ्” तु न भवति समासप्रतित्ययविधौ तदन्तविधेः प्रतिषेधात्। एककालिक एककालभवे त्रि०। “तेभ्यो लब्धेन भैक्ष्येण वर्त्तयेन्नैककालिकम्” स्मृतिः। तत्रभवः खञ्। एककालीनोऽप्यत्र त्रि०।
एककुण्डल = पु० एकं कुण्डलमस्य। १ बलरामे २ कुवेरे च मेदि०
एककुष्ठ = न० एकमसाध्यत्वात् प्रधानं कुष्ठम्। सुश्रुतोक्ते कुष्ठभेदे। तच्च “एकादशक्षुद्रकुष्ठानीति” उद्दिश्य “क्षुद्रकुष्ठान्यपि स्थुलारुष्कं महाकुष्ठमेककुष्ठं चर्म्मदलम् विसर्पः परिसर्पः सिध्म विचर्चिका किटिसं पामा रकसेति” विभज्य “कृष्णारुणं येन भवेच्छरीरं तदेककुष्ठं प्रवदन्त्यसाध्यमिति” लक्षितम्।
एकगम्य = त्रि० एकत्वेन गम्यः। १ निर्विकल्पकसमाधिगम्ये अस्वण्डाकरे चिदात्मनि। तत्र च मितिमातृमेयशून्यत्वेनैकरूपतया ज्ञानात् तथात्वम्। परसीमतया गम्ये २ परमेश्वरे च “नृणामेको गम्यस्त्वमसि पयसामर्णव इव” पुष्पदन्तेन तस्येकपगम्यत्वोक्तेस्तथात्वम्।
एकगुरु = पु० एकोऽभिन्नो गुरुर्य्यस्य। समानाध्यापके सतीर्थ्ये।
एकग्राम = पु० कर्म०। १ अभिन्नग्रामे। “एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे। पतिना नीयमानायाः पुरः शुक्रो न दुष्यति” ज्यो०। तत्रभवः ख। एकग्रामीण एकग्रामभवे त्रि०। “नैकग्रामीणमतिथिं विप्रं साङ्गतिकं यथा। गृहे उपस्थितं विद्यात् भार्य्या यत्राग्नयोऽपि वा” मनुःअस्य गहा० पाठात् छएव एकग्रामीय तत्रार्थे। एकग्रामीणप्रयोगस्तु आर्षः। एकोग्रामोऽस्य। २ समानग्रामवासिनि त्रि०।
एकचक्र = न० एकं श्रेष्ठं वा चक्रं यत्र। १ हरिगृहे २ सूर्य्यरथेपु०। ३ पुरीभेदे स्त्री यत्र वकासुरस्य बधो भीमेन कृतः। “एकचक्रोरथो यस्य” सूर्यस्तुतिः “पृथुवर्त्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया। विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम्” नैष० सूर्यरथस्यैकचक्रचा- रित्वमुकम्”। ४ असहायचरे त्रि० “सूर्यरथवर्णनञ्च” ऋ० १, १६४, २। “सप्त युञ्चन्ति रथमेकचक्रमेकोऽश्वो वहति सप्तनामा। त्रिनाभि चक्रमजरमनर्व्वं यत्रेमा विश्वा भुवनाधितस्थुः”। व्याख्यातैषा भाष्यकृता यथा
“एकचक्रमेकरथाङ्गोपेतम्। यद्यपि त्रीणि चक्राणि तथापि तेषामेकरूपत्वादेकचक्रमित्युच्यते रथं रंहणस्वभावं सृर्यस्य सम्बन्धिनं सप्तैतत्संख्यका अश्वा युञ्जन्ति अनुबध्नन्ति वहन्त्यहोरात्रनिर्वाहाय किं वस्तुतः सप्त नेत्याह। एकोऽश्वः सप्तनामा। एक एव सप्ताभिधानः सप्तधा नमनप्रकारो वा एक एव वायुः सप्तरूपं धृत्वा वहतीत्यर्थः वाय्वधीनत्वादन्तरिक्षसञ्चारस्य एकचक्रमित्युक्तं कीदृशं तदित्यत आह। त्रिनाभि बलयत्रयमध्यस्थितनाभिस्थानीयच्छिद्रत्रयोपेतम्। अजरम् अमरणधर्माकम्। अनर्वम् अशिथिलं पुनस्तदेव विशेष्यते। यत्र यस्मिंश्चक्रे इमा विश्वा भुवना इमानि प्रसिद्धानि सर्वाणि भूतजातान्यधि आश्रित्य तस्थुः तिष्ठन्ति। यद्वा एकचक्रमेकचारिणमसाहाय्येन सञ्चरन्तं रथमादित्यमण्डलं सप्त युञ्जन्ति सर्पणस्वभावाः सप्तसंख्या वा रश्मयः सप्तप्रकारकार्य्या असाधारणाह् परस्परविलक्षणाः षडृतवः एकःसाधारण इत्येवं रूपाः अथवा मासद्वयात्मकाः षट् अपरोऽ धिमासात्मक एक इत्येवं सप्तर्त्तवो युञ्जन्ति। एतस्य कार्यं निर्वहन्तीत्यर्थः। स चैकोऽसहायोऽश्वो व्यापनशील आदित्यः सप्तनामा सप्तरसानां सन्नमयितारोरश्मयो यस्य तादृशः। सप्त ऋषिभिः स्तूयमानो वादित्यो वहति धारयति भ्रमयतीत्यर्थः। किं भूतं? त्रिनाभि चक्रम्। तिस्रो नाभिस्थानीया सन्ध्यासम्बद्धा वा एव ऋतवो यस्य तत्तादृशं के ते ग्रीष्मवर्षाहेमन्ताख्याः यद्वा भूतभविष्यद्वर्त्तमानाख्यास्त्रयः कालास्त्रिनाभयः। तद्विशिष्टं चक्रं चक्रवत् पुनःपुनः परिभ्रममाणं संवत्सराख्यचक्रमजरममरणं न हि कदाचिदपि कालोम्रियते “अनादिनिधनः कालः” इति स्मृतेः। अर्नवमप्रतिहतम्। ईदृशं संवत्सराख्यं चक्रं नानाकालावयवोपेतमयमादित्यः पुनः पुनरावर्त्तयति संवत्सरादर्वाचीनानां तत्र वान्तर्भावात् युगादीनां तदावृत्ति साध्यत्वात् संवत्सरस्य चक्रत्वेन रूपणम्। पुनः कीदृशं तत्। यत्र यस्मिंश्चक्र इमा विश्वा भुवना इमानि सर्वाणि भूतान्यधितस्थुः। आश्रित्य तिष्ठन्ति कालाधीनत्वात् सर्वस्याः स्थितेः। ईदृशस्य कालस्य कारणभूतपरमेश्वरपरिज्ञानेन मोक्षसद्भावात् ज्ञानमोक्षाक्षरप्रशंसा चेत्यनुक्रम- ण्यामुक्तम्। अयमपि मन्त्रो यास्कैन सप्त युञ्चन्ति रथमेकचक्रमेकचारिणमित्यादिना व्याख्यातः तदत्राप्यनुसन्धेयम्” भा०। भाष्येऽनुसन्धेयतयोक्तं यास्कवाक्यमुदाह्रियते “सप्त युञ्जन्ति रथमेकचक्रमित्यादि” श्रुतिमधिकृत्योक्तम् सप्त युञ्जन्ति रथमेकचक्रमेकचारिणम्। चक्रं चकतेर्वा चरतेर्वा क्रामतेर्वा। एकोऽश्वो वहति सप्तनामादित्यः सप्तास्य रश्मयो रसानभि संनामयन्ति सप्तैनमृषयः स्तुवन्तीति वा। इदमपीतरं नामेतस्मादेवाभिसंनामात्। संवत्सरप्रधान उत्तरोऽर्धर्चः। त्रिनाभि चक्रं त्र्यृतुः संवत्सरो ग्रोष्मो वर्षा हेमन्त इति। संवत्सरः संवसन्तेऽस्मिन् भूतानि। ग्रीष्मोग्रस्यन्तेऽस्मिन्रसाः, वर्षा वर्षत्यासु पर्जन्यो हेमन्तो हिमवान् हिमं पुनर्हन्तेर्वा हिनोतेर्वा। अजरममरणधर्माणमनर्वमप्रत्यृतमन्यस्मिन् यत्रेमानि सर्वाणि भूतान्यभि संतिष्ठन्ते तं संवत्सरं सर्वमात्राभिः स्तौति। “पञ्चारे चक्रे परिवर्त्तमानः” श्रुतिःपञ्चर्तुतया। “पञ्चर्तवः संवत्सरस्येति” इति च ब्राह्मणं हेमन्त शिशिरयोः समासेन। “षडर आहुरर्पितमिति” श्रुतिः षडृतुतया। अराः प्रत्यृता नाभौ। षट्पुनः सहतेः। “द्वादशारं नहि तज्जराय द्वादशप्रधयश्चक्रमेकम्” इति श्रुतिः मासानाम्। मासा मानात्। प्रधिः प्रहितोभवति “तस्मिन्त् साकं त्रिंशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः” श्रुतिः। “षष्टिश्च हवै त्रोणि च शतानि संवत्सरस्याहोरात्रा इति च” ब्राह्मणं समासेन। “सप्तशतानि विंशतिश्च तस्थुः” श्रुतिः। “सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्रा इति च” ब्राह्मणं विभागेन” ५ दनोः पुत्रभेदे पु० “चत्वारिंशद्दनोः पुत्राः” इत्युपक्रम्य “एकपादेकचक्रश्च विरूपाक्षमहोदरौ” भा० अ० ६५। स एव प्रतिविन्ध्यतया जातः यथाह भा० आ० ६७। “एकचक्र इति ख्यात आसीद् यस्त महासुरः। प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ” भा० पुरीभेदस्तु “एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः” इत्युपक्रम्य “मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने। तत्राससाद क्षुधितं पुरुषादं वृकोदरः। भीमसेनो महाबाहुर्वकं नाम महाबलम्” भा० आ० ६१ अ० उक्तः। एकमेव चक्रं सैन्यसंघो यत्र। ६ एकराजचिह्ने त्रि०। “तावत् शशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः” भाग० ३, १, ६०। “एकस्यैव चक्रं सैन्यं यत्र” श्रीधरः। “वकराक्षसमिव गृहीतैकचक्राम्” काद०। वकस्य तत्पुरीग्रहणभीमकर्त्तृकबधकथा च” भा० आ० १५७ अध्यायादौ। “एकचक्रां गतास्ते तु कुन्तीपुत्राः महाबला” इत्यादिना “भज्यमानस्य भीमेन तस्य घोरस्य रक्षस” इत्यन्तन १६३ अ० वर्णिता।
एकचत्वारिंशत् = स्त्री एकाधिका चत्वारिंशत् शा० त०। (एकचल्लिश) १ एकाधिकचत्वारिंशत्संख्यायां २ तत्संख्या न्विते च बहुत्वबोधकत्वेऽपि उभयत्र नित्यैकवचनम्। एवमेकविंशति एकत्रिंशत् एकपञ्चाशत् एकषष्टि एकसप्तति एकाशीति एकनवति इत्येते शब्दाःक्रमेण एकविंशत्यादिसंख्यायां तदन्विते च स्त्री एकाधिकादश इत्यत्र तु आत् एकादश इति भेदः सर्वेभ्यः पूरणे डट्। एकचत्वारिंशादिस्तत्तत्संख्यापूरणे त्रि० स्त्रियां ङीप्।
एकचर = त्रि० एकः सन् चरति चर–पचा० अच् सुप्सुपेति स०। एककोभूत्वा चारिणि सहायचारिणि। “मुनिरेकचरः श्रीमान्” धर्म्मो विग्रहवानिव” भा० व० ७९ अ०। “अनोकशायी लघुरल्पचारश्चरन् देशानेकचरः स भिक्षुः” भा० आ० ९१ अ०। “न भक्षयेदेकचरान् अज्ञातांश्च मृगद्विजान्” मनुः। “ये एकाकिनः प्रायेण चरन्ति सर्पादयस्तानेकचरान्” कुल्लू० अयमेकचरोऽभिवर्त्तते माम्” किरा०। “पृथिव्यामेकवरः परिबभ्राम” भा० ५, ५, ३०।
एकचरण = पु० एकश्चरणी यस्य। एकपादयुक्ते १ मनुष्यभेदे २ तद्युक्तजनपदभेदे च स च देशः वृहत्सं० कूर्मविभागे ऐशान्यामुक्तः। “ऐशान्यामेकलव्यराज्यपशुपालकवीरकाश्मीरा” इत्युपक्रम्य “एकचरणानुविश्वाः सुवर्णभूर्वसुवनं दिविष्ठाश्च”
एकचर्य्या = स्त्री एकस्य चर्य्या चर–भावे क्यप् ६ त०। असहायगमने
एकचारिन् = त्रि० एकः सन् चरति चर–णिनि “सुप्सुपेति” स०। असहायचरे १ एकचरे त्रि०। २ बुद्धसहचरभेदे पु० त्रिका०।
एकच्छाया = स्त्री एकस्य ऋणशोधनेऽन्यासहायस्याधमर्णस्य च्छाया सादृश्यम्। अधमर्ण्णसादृश्ये। “बहवः स्युर्यदि स्वांशान् दद्युः प्रतिभुबोधनम्। एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि” या०। “एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्ण्णस्य छाया सादृश्यं तामाश्रिताः एकच्छायाश्रिताः अधमर्णो यथा ऋणदानाय स्थितस्तथा दानप्रतिभुवोऽपि प्रत्येकं द्रव्यदानाय स्थिताः” मिता०। “एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते। प्रोषिते तत्सुतो दाप्यः पित्र्यमशं मृते सति” कात्या० स्मृ०। एकैव च्छाया आच्छादनरूपा यत्र। तुल्यच्छादने त्रि० “एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः” भा० वि० १८७।
एकज = त्रि० एकस्मात् जायते जन–ड ५ त०। १ एकस्माज्जाते “साकञ्जानां सप्तधमाहुरेकजम्” ऋ० १, १६४, १५। साकंजानामेकस्मादादित्यात् सहोत्पन्नानामृनां मध्ये सप्तधं सप्तममृतुम् एकजमेकेनोत्पन्नमाहुः कालतत्त्वविदः, चैत्रादीनां द्वादशानां मासानां द्वयमेलनेन वसन्ताद्याः षडृतवो भवन्ति अधिमासेनैक उत्पपद्यते सप्तमर्त्तुः” भा०। एकेन जातमित्युक्तिश्चिन्त्या कर्त्तृकरणयोरेव तृतीयासभासो न हेतुतृतीययेति नियमात्। २ सोदरासोदरभ्रातरि तयोरेकशरीरोत्पन्नत्वात् एकजत्वम् ३ भागित्यां स्त्री जन–क्त। ५ त०। एकजातादयोऽप्यत्र सर्वेषामेकजातानामेकश्चेत् पुत्रवान् भवेत्। सर्वास्तांस्तेन पुत्रेण पुत्रिणोमनुरब्रवीत्” स्मृतिः “बह्वीषु चैकजातानां नानास्त्रीषु निबोधत” मनुः। एकः असहाय एव जायते जन–ड सुप्सुपेति स०। ४ असहायतया जाते “एकजम्” कात्या० ६, १, १। “एकः असहय एव भूमेर्जातः तमेकं यूपं वृश्चति” कर्कः। “उग्रं ते पाजो न त्वा रुरुध्रे वशी वशं नयस एकज! त्वम्” ऋ० १०, ८४, ३।
एकजटा = स्त्री एका जटा यस्याः। सर्व्व तारिणीगणप्रकृतिरूपेदेवीभेदे तदाविर्भावः कालिका० ६१ अ० वर्ण्णितो यथा “सर्वेसुरगणाः सेन्द्रास्ततीगत्वा हिमाचलम्। गङ्गावतारनिकटे महामायां प्रतुष्टुवुः। अनेकशः स्तुता देवो तदा सर्वामरोत् करैः। मातङ्गवनिताभूर्त्तिर्भूत्वा देवानपृच्छत। युष्माभिरमरैरत्र स्तूयते का च भाविनी। किमर्थमागतायूयं मातङ्गस्याश्रमं प्रति। एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः। समुद्भूता ब्रवीद्देवी मां स्तुवन्ति सुरा इति। शुम्भो निशुम्भोह्यसुरौ बाधेते सकलान् सुरान्। तस्मात् तयोर्बधायाहं स्तुयेऽद्य सकलैः सुरैः। विनिःसृतायं देव्यान्तुमातङ्ग्याः कायतस्तदा। भिन्नाञ्जननिभा कृष्णा साभूत् गौरी क्षणादपि। कालिकाख्याऽभवत् सापि हिमाचल कृताश्रया। तामुग्रतारामृषयो वदन्तीह मनीषिणः। उग्रादपि भयात् त्राति यस्माद्भक्तान् सदाम्बिका। एतस्याः प्रथमं वीजं कथितं तन्त्रमेव च। एषैवैकजटा ख्याता यस्मात्तस्या जटैकिका। शृणुतं चिन्तनं चास्याः सम्यक् वेतालभैरवौ!। यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभोप्सितम्। चतुर्भुजां कृष्णवर्णां मण्डमालाविभूषिताम्। खड्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः। कर्त्रीञ्च खपरञ्चैव क्रमाद्वामेन बिभ्रती। स्वं लिखन्ती जटामेकां बिभ्रती शिरसा स्वयम्। मुण्डमालाधरा शीर्षे ग्रीवायामपि सर्वदा। वक्षसा नागहारन्तु बिभ्रती रक्तलोचना। कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विता। वामपादं शवहृदि संस्थाप्य दक्षिणं पदम। विन्यस्य सिंहपृष्ठे तु लेलिहानाऽऽसवं स्वयम्। साट्टहासमहाघोरारावयुक्ताऽति भीषणा। चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः। एतस्याः संप्रवक्ष्यामि या अष्टौ योगिन्योमताः। महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च। घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी। भैरवी चाष्टमी प्रोक्ता योगिनीस्तु प्रपूजयेत्”। तन्त्रसा० पञ्चाक्षरीं विद्यां प्रदर्श्य “पञ्चाक्षरी एकजटा(ओम्)ताराभावे महेश्वरि!। (ओम्) ताराद्या तु भवेद्देवि! श्रीमन्नीलसरस्वती”। “अन्यासां विद्यानामेकजटैव देवता प्रकृतित्वात्” कृष्णा०। तद्भेदाश्च “ताराचोग्रा महोग्रा च वज्रा काली सरस्वती। कामे श्वरी च चामुण्डा इत्यष्टौ तारिणीभिदाः” तन्त्रसा०।
एकजन्मन् = पु० एकं प्रघानं जन्म यस्य एकेभ्यो प्रधानेभ्यो दिक्पालांशेभ्यो वा जन्म यस्य वा। १ नृपे त्रिका० इत मनुष्यापेक्षया प्रधानभोगसाधनजन्मत्वेन दिक्पालांशसूतत्वेन च तथात्वम्। एकमेव न द्वितीयं जन्म यस्य। र २ शूद्रजातौ पुं स्त्री तस्य सावित्रजन्माभावात् गर्भमात्रजन्मकत्वात्तथात्वम् स्त्रियां वा ङीप्।
एकजाति = पुंस्त्री एका जातिर्जन्मास्य। शूद्रजातौ “ब्राह्मणः क्षत्रियोवैश्यस्त्रयोवर्ण्णा द्विजातयः। चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः” मनुना तस्यैकमात्रजन्मत्वप्रति पादनेन द्विजातिवत् सावित्रजन्मराहित्येन एकजातित्वम्। “एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन्” मनुः। “एकजातेरयं धर्मो यद्विष्णोर्लिङ्गधारणम्” पुरा०। सुश्रुतोक्ते ३ कीटभेदे। “एकजातीनतस्तूर्द्ध्वं कीटान् वक्ष्यामि भेदतः। सामान्यतोदष्टलिङ्गैः साध्यासाध्यक्रमेण च। त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपराजितः। चत्वार एते कणभा व्याख्यातास्त्रीव्रवेदनाः” इति कीटशब्दे विवृतिः। एका तुल्या जातिः सामान्यधर्म्मोऽस्य। ३ तुल्यधर्म्मयुक्ते त्रि० कर्म्मधा०। ४ तुल्यधर्म्मे स्त्री। तामर्हति छ। एकजातीय समानधर्म्मान्विते त्रि० “एवमेकजातीयानां महाशरीरेभ्यः कृशशरीराः प्रधानतमाः” सुश्रु० “एकः प्रकारः जातीयर्। एकजातीय। तुल्यप्रकारे त्रि०।
एकजीववाद = पु० एक एव जीव इत्येवं वादः। एक चैतम्यमेकयैवाविद्यया बद्धं संसरति तदेव ज्ञानेन कदाचिन्मुच्यते नास्मदादीनां वन्धमोक्षौ स्त इत्येवं रूपे विदान्त्येकदेशिवादभेदे। उक्तौ चैकानेकजीववादौः वेदा० प० यथा “एकजीववादेऽविद्याप्रतिविम्बो जीवः अनेकजीववादे तु अन्त करणप्रतिविम्बः स च जाग्रत्स्वप्नसुषुप्तिरूपावस्थात्रयवान्। तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्थाअवस्थान्तरे इन्द्रियाभावान्नातिव्याप्तिः। इन्द्रियजन्यज्ञानञ्चान्तःकरणवृत्तिः स्वरूपज्ञानस्यानादित्वात्। साचान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम्। तथाहि अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्य जीवरूपतया जीवस्य सर्व्वदा घटादिभान प्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थापदवाच्यमभ्युपगन्तव्यम्। एव सति न सर्व्वदा घटादेर्भानप्रसङ्गः अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात्। तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं, तद्भासकस्य तदनिवर्त्तकत्वात् न पि वृत्त्युपहितं चैतन्यं परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्तिविशेषस्य आवरणभञ्जकचमित्यावरणाभिभवार्था वृत्तिरुच्यते। सम्बन्धार्था वृत्तिरित्यपरं मतम्। तत्राविद्योपाधिकोजीवोऽपरिच्छिन्नः स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां न घटादिकमवभासयति घटादिना समं सम्बन्धाभावात् तत्तदाकारवृत्तिदशायां तु भासयति तदा सम्बन्धसत्त्वात्। ननु अविद्योपाधिकस्य जीवस्यापरिच्छिन्नस्य स्वतएव समस्तबस्तुसम्बद्धस्य वृत्तिविरहदशायां सम्बन्धाभावाभिधानमसङ्गतं असङ्गतत्वदृष्ट्या सम्बन्धाभावाभिधाने च वृत्त्यनन्तरमपि सम्बन्धोन स्यादिति चेत् उच्यते न हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्धसामान्यं निषेधामः किन्तर्हि घटादिभानप्रयोजकं सम्बन्धविशेषम्। स च सम्बन्धविशेषोविषयावभासकस्य जीवचैतन्यस्य च व्यङ्ग्यव्यञ्जकतालक्षणः कादाचित्कस्तत्तदाकारवृत्तिनिबन्धन। तथाहि तैजसमन्तःकरणं खच्छद्रव्यत्वःत् स्वतएव जीवचैतान्याभिव्यञ्जनसमर्थं घटादिकन्तु न तथा अस्वच्छद्रव्यत्वात्। स्वाकारवृत्तिसंयोगदशायान्तु वृत्त्यभिभूतजाड्यधर्म्मकतया वृत्त्युत्पादितचैतन्याभिव्यञ्जनयोग्यताश्रयतया च वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति। तष्टुक्तं विवरणे अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादी चैतन्याभिव्यक्तियोग्यतामापादयतीति। दृष्टञ्चास्वच्छद्रव्यस्यापि स्वच्छद्रव्यसम्बन्धदशायां प्रतिविम्ब ग्राहित्वम्। घटादेरभिव्यञ्जकत्वञ्च तत्प्रतिविम्बग्राहित्वम् चैतन्यस्याभिव्यक्तत्वञ्च तत्र प्रतिविम्बितत्वम्। एवंविधाभिव्यञ्जकत्वसिद्ध्यार्थमेव वृत्तेरपरोक्षस्थले बहिर्निर्गमनाङ्गीकारः। परोक्षस्थले तु वह्न्यादेर्वृत्तिसंयीगाभावेन चैतन्यानभिव्यञ्जकतया नापरोक्षत्वम्। एतन्मते च विषयाणामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम्”। “एकानेकजीववादौ सिद्धान्तलेशे दर्शितौ यथा। “अथ विद्योदये सत्युपाधिविलयादपेतजीवभावस्य किमीश्वरभावापत्तिरुत शुद्धचैतन्यमात्ररूपेणावस्थानमिति विवेचनीयम्। उच्यते। एकजीववादे तदेकाज्ञानकल्पितस्य जीवेश्वरविभागादिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदवे विलयान्निर्विशेषचैतन्यरूपेणैवावस्थानम्। अनेकजीववादमभ्युपगम्य षद्धमुक्तव्यवस्थाङ्गीकारे यद्यपि कस्यचिद्विद्योदये तदविद्याकृतप्रपञ्चविलयेऽपि बद्धपुरुषान्तराविद्याकृतोजीवेश्वरविभागादिप्रपञ्चोऽनुवर्त्तते तथापि जीववदीश्वरोऽपि प्रतिबिम्बविशेष इति पक्षे मुक्तस्य विम्बभूतशुद्धचैतन्यरूपेणैषावस्थानम् अनेकोपाधिष्वेकस्य प्रतिबिम्बे सत्येकोपाधिविलयेन तत्प्रतिबिम्बस्य विम्बभावेनैवावस्थानौचित्येन प्रतिविम्बान्तरत्वापत्त्यसम्भवात् तत्सम्भवे कदाचिज्ज्वीवरूपबिग्वान्तरत्वाषत्तेरपि दुर्वारत्वेनावच्छेदपक्ष इव मुक्तस्य पुनर्बन्धापत्तेः। अतएवानेकजीववादेऽवच्छेदपक्षोनाद्रियते तदवच्छेदेनान्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेः प्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वर उभयानुस्यूतं शुद्धचैतन्यमिति पक्षे तु मुकस्य यावत्सर्वमुक्ति सर्वज्ञत्वसर्वकर्त्तृत्वसर्वेश्वरत्वसत्यकामत्वादिगुणकपरमेश्वरभावापत्तिरिष्यते यथानेकेषु दर्पणेषु एकस्य मुखस्य प्रतिबिम्बे सत्येकदर्पणापनये तत्प्रतिबिम्बोबिम्बभावेनावातिष्ठते। न तु मुखमात्ररूपेण, तदानीमपि दर्पणान्तरसन्निधानप्रयुक्तस्य मुखे विम्बत्वस्यानपायात् तथैकस्य ब्रह्मचैतन्यस्यानेकेषूपाधिषु प्रतिबिम्बे सत्येकस्मिन् प्रतिबिम्बे विद्योदयेन तदुपाधिविलये तत्प्रतिविम्बस्य बिम्बभावेनावस्थानावश्यम्भावात्। न च मुक्तस्याविद्याऽभावात् सत्यकामत्वादिगुणविशिष्टसर्वेश्वरत्वानुपपत्तिः तदविद्याभावेऽपि तदानीं बद्धपुरुषान्तरऽविद्यासत्त्वात् न हीश्वरस्येश्वरत्वं सत्यकामादिगुणविशिष्टत्वञ्च स्वाविद्याकृतं तस्य निरञ्जन- त्वात् किन्तु बद्धपुरुषाविद्याकृतमेव तत्सर्वमनवद्यम्”।
एकत = पु० पिष्टलिप्तपात्रीप्रक्षालनजलनिनयनेद्देश्ये १ देवभेदे। तस्योत्पत्तिकथा यज्ञांशभागित्वकथा च शत० ब्रा० १, २, ३, १, दर्शिता यथा। “चतुर्धा विहितोह वा अग्रेऽग्निरास। स यमग्रेऽग्निं होत्राय प्रावृणत स प्रैवाधन्वद्यं द्वितीयं प्रावृणत स प्रैवाधन्वद्यं तृतीयं प्राबृणत स प्रैवाधन्वदथ योऽयमेतर्ह्यग्निः स भीषा निलिल्ये सोऽपः प्रविवेश तं देवा अनुविद्य सहसैवाद्भ्य आनिन्युः सोऽपोऽभितिष्ठेवावष्ठ्यूताः स्थ या अप्रपदनं स्थ याभ्यो वोमामकामं नयन्तीति तत आप्त्याः सम्बभूवुस्रितोद्वित एकतः। तैन्द्रेण सह चेरुः यथेदं ब्राह्मणो राजानमनुचरति स यत्र त्रिशीर्षाणं त्वाष्ट्रं विश्वरूपं जघान तस्य हैतेऽपि बध्यस्य विदाञ्चक्रुः शश्वद्वैनं त्रित एव जघानात्यह तदिन्द्रोऽमुच्यत देवो हि सः। त उ हैत ऊचुः। उपैवेमएनो गच्छन्तु येऽस्य बध्यस्यावेदिषु रिति किमिति यज्ञ एवेषु मृष्टामिति तदेष्वेतद्यज्ञो मृष्टे य देभ्योः पात्रीनिर्णेजनमङ्गुलिप्रणेजनं निनयन्ति। त उ हास्या ऊचुः। अत्येव वयमिदमस्मत् परी नयामेति कमभीति य एवादक्षिणेन हविषा यजाता इति तस्मान्नादक्षिणेन हविषा यजेताप्त्येषु ह यज्ञो मृष्ट आप्त्या उ ह तस्मिन् मृजते, यो दक्षिणेन हविषा यजते। ततो देवाः, एतां दर्शपूर्णमासयोर्दक्षिणामकल्पयन् यदन्वाहार्यं नेददक्षिणं हविरसदिति तन्नाना निनयति तथैभ्योऽसमदं करोति तदभि तपति तथैषां शृतं भवति स निनयति त्रिताय त्वा द्विताय त्वैकताय त्वेति” “यं होतृकर्मणे प्रावृणत ते देवा इत्यर्थः। प्राधन्वत् प्रागच्छदम्रियत धवि गमने। भीषा पूर्वाग्निवन्मरणभयेन निलीनोऽन्तर्हितो बभूव। ष्ठिवु मिरसने। अप्रपदनमनाशयभूताः। वः पञ्चम्यर्थे चतुर्थी युष्मत् सकाशात्। ततो निष्ठीवनलक्षणवीर्य्यधारणात्ताभ्यीऽद्भ्यः सकाशात्। यथेदानीं ब्राह्मणः पुरोहितः। तं बध्यं बधार्हं ज्ञातवन्तः। अनन्तरं चैनं विश्वरूपं त्रित एवेन्द्रसाहाय्यार्थं जघाम इन्द्रश्च तद्धननजनितात् पापादति मुक्तोऽभवत् यस्मात्स इन्द्रो देवः अतोऽस्मिन् पापसंश्लेषो न युक्त इत्यर्थः। ते लौकिकाजना विश्वरूपहननानन्तरमेतदूचुः। एषु त्रितादिषु यद्विश्वरूपबधजनितमेनस्तद्यज्ञो मृजीत शोषयेदिति अत एतत् एतेन पात्रीनिर्णेजनादिनिनयनेन एषु तदेनो यज्ञः संशोषयति तस्मादवहननपेषणादिजनितस्यैनसो रूपं पा- त्र्यादिनिर्णेजनमाप्त्येभ्यो निनेतव्यमित्यर्थः। वयमपीदमेनः परःपरस्तादन्यत्राधारान्तरे अन्यत्रास्मते नयाम अन्वाहरति यज्ञसम्बन्धि दोषजातं परिहरत्यनेनेति अन्वाहार्य्योनाम ऋत्विग्भ्यो देय ओदनः। निनीतमुदकमङ्गारेण प्रतपति” भा०। “त्रिताय त्वा, द्विताय त्वा, एकताय त्वा” यजु० १, २, ३, “पात्र्यङ्गुलप्रक्षालनोदकं त्रिताय त्रितनाम्ने देवाय त्वा त्वां निनयामीति, तथा द्विताय त्वा निनयामि, तथा एकताय त्वा निनयामि इति व्याख्याय शत० ब्राह्मणोक्ता कथा संक्षेपेण दर्शिता यथा “पूर्व्वं कुतश्चित् कारणात् भीतोऽग्निरपः पाविशत्ततोदेवास्तं ज्ञात्वा जगृहुस्तदाग्निना वीर्य्यमप्सु मुक्तं तत आप्त्या उत्पन्नाः त्रितद्वितैकतसंज्ञास्ते देवैः सह चरन्तो यज्ञेपात्राप्रक्षालनजललक्षणं भागं लेभिरे” इति वेददी०। “तदुदकनयनप्रकारः” कात्या० २, ५, २५, दर्शितो यथा “पात्र्यङ्गुलिप्रक्षालनमाप्त्येभ्यो निनयत्यभितप्य प्रत्यगसंस्यन्दमानं त्रिताय त्वेति प्रतिमन्त्रम्” सू० “पिष्टलिप्तपात्रीप्रक्षालनं पिष्टलिप्ताङ्गुलिप्रक्षालनम् चाभितप्य पात्रीस्थमेव ज्वलतोन्मुकेन तापयित्वा प्रत्यक्संस्थमस्यन्दमानं परस्परसङ्गतिमप्राप्नु वदाप्त्येभ्यो देवभूतेभ्यो निनयति स्विष्टकृद्वदेवोभयरूपमेतत् कर्म प्रतिपत्तिरूपमपूर्ब्बोत् पादकञ्च। तेन द्रव्यविनाशेऽपि स्विष्टकृद्वच्च द्रव्यान्तरेणापि निनयनं कर्त्तव्यम्। अपरे तु द्रव्यप्रधानत्वात् तद्विनाशे नोत्पत्तिमिच्छन्ति” कर्कः। ब्रह्मणोमानसपुत्रे २ ऋषिभेदे “प्रजापतिसुताश्चात्र सदस्याश्चाभवं स्त्रयः। एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः” “द्वितैकतत्रिताश्चोचुस्तदा चित्रशिण्डिनम्” “वयं हि ब्रह्मणः पुत्रामानसाः परिकोर्त्तिताः” भा० शा० ३३८ अ० स एव वरुणस्यर्त्विक्सप्तकान्तर्गतः तत्र प्रमाणम् ऋतेयुशब्दे भा० अनु० १५० अध्यायस्थवाक्यमुदाहृतम्।
एकतान = त्रि० एकं तानयति चु० तन + श्रद्धायाम् अण् उ० स०। १ अनन्यचित्तवृत्तौ एकविषयासक्तचित्ते २ तद्गतचित्ते च। “सहैकतानमतयः प्रवाहैःकृतत्वच्चरेणैकतानयोः” भाम० १, २०, २,। ण्वुल्। एकतानकोऽप्युक्तार्थे त्रि० “एकस्तानो विस्तारो गीतिभेदोऽस्य। ३ एकरूपविस्तारे ४ एकता प्राप्ते स्वरभेदे च। “तानोनाम स्वरान्तरप्रवर्त्तकः रागादिस्थितिप्रवृत्त्यादिहेतुः अंशापरनामा वंशावयवसाध्यः स्वरविशेषः! “गाता यं यं स्वरं गायेत् तं तं बंशेन तानयेत्” इति भरतः” कुमा० टी० मल्लिनाथः
एकताल = पु० एकः समस्तालोमानं यत्र। १ समन्वितलये, विच्छेदरहिते नृत्यवाद्यगीतादौ। एक एव तालोयत्र। २ वाद्यभेदे च (एकताला)।
एकतीर्थिन् = एकं समानं तीर्थमाश्रममस्त्यस्य इनि। समानाश्रमयुक्ते। “वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः। क्रमेणाचर्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः” इति या० “एकतीर्थी एकाश्रमी” मिता०।
एकतोदत् = त्रि० एकतोदन्ता अस्य दत्रादेशः। एकपार्श्वे दन्तपङ्क्तियुक्ते पशुभेदे गवादौ “अनुष्ट्रांश्चेकतोदतः” मनुः।
एकत्रिक = पु० अन्नाद्यकामकर्त्तव्ये एकाहसाध्ये यागभेदे “एकत्रिकेण त्र्येकेण वान्नाद्यकामेन” आश्व० श्रौ० ९, ५, १३, सू०। “एकत्रिकः त्र्येकश्च द्वावेकाहौ तयोरन्यतरेणान्नाद्यकामो यजेत। एकत्रिक एवं भवति एकस्तोमो बहिष्पवमानः त्रिस्तोमोहोतुराज्यम्, एवं व्यत्यासेन सर्वत्रेतौ स्तोमौ भवतः त्र्येकस्त्वेतावेव स्तोमौ विपरीतौ भवतः त्रिस्तोमो बहिष्पवमानः एकस्तोमोहोतुराज्यम्। एवमेव व्यत्यस्य व्यत्यस्य समापयेत्” नारा०। कात्या० २२, ३, २४, २५, २६ सूत्रैः तस्य साद्यस्क्रत्वेन परिभाषां कृत्वा तद्विधा नाद्युक्तम्। “षट् साद्यस्क्राः” ९ सू० इत्युपक्रम्य पञ्च क्रतूत्क्रमेण प्रदर्श्य षष्ठमेकत्रिकं प्रतिपादयितुं तद्धर्माः प्रथममुक्ताः “साद्यस्क्रधर्म्मा हिरण्यस्रग्वत्” २४ सू०। “साद्यस्क्रशब्देनात्र श्येनोऽभिधीयते तस्य धर्म्मालोहितीष्णीषादयः हिरण्यस्रग्वत्। यद्यस्योपमुक्तं तत्तस्य भवति” कर्कः। “साद्यस्क्रधर्म्मा लोहितवस्त्रादय यथा वाजपेये हिरण्यस्रजो यथोपमुक्तं दीयन्ते एवमत्रापि येन यद्वस्त्रादि परिहितं तत्तस्मै देयम्” संग्र० “एकत्रिके दक्षिणा षष्टिशतं षट् च २५ सू०। एकत्रिकः षष्ठः साद्यस्क्रः तत्र षट्षष्टिशतं दक्षिणा” कर्कः। इतःपरं साद्यक्रधर्म्माः २६ सूत्रजातैः उक्ताः। तत्र स्तोमादि सामसं० भा० निरूपित यथा
“एकत्रिकनामकः कश्चित् क्रतुर्भवति, सर्चैवं श्रूयते “अथैष एकत्रिकस्तस्यैकस्यां बहिष्पवानम्। तिसृषु होतुराज्यम् एकस्यां मैत्रावरुणस्य तिसृषु ब्राह्मणाच्छंसिनः, एकस्यामच्छावाकस्य तिसृषु माध्यन्दिनः पवमानः” इति। सन्ति प्रकृतौ माध्यन्दिनपवमानस्य त्रयस्तृचाः “उचा ते जातम्” इत्ययं (उ १ प्र, ८ सू० २, ३ ऋ०) प्रथमोगायत्रीच्छन्दस्कः, “पुनानः सोम” इत्ययं (उ १ प्र, ९ सू० १, २, ३ ऋ) द्वितोयोवृहतीच्छन्दस्कृः, “प्र तु द्रवा” इत्ययं (उ ११ प्र, १० सू० १, २, ३ ऋ) तृतीयस्त्रिष्टुप्छन्दसकः। एतदेवाभिप्रेत्य श्रुतम्, त्रिच्छन्दआवापोमाध्यन्दिनः इति। एवं सति एकत्रिकस्य माध्यन्द्रिनपवमाने तिसृष्विति यदुक्तं तत्र किं त्रयाणां तृचानामाद्यस्तिस्रः ऋचो ग्राह्याः? किं वा प्रथमतृचस्थाः क्रमपटितास्तिस्रः? इति संशयः। तत्र त्रिच्छन्दस्त्वश्रुत्या प्रबलया दुबलं पाथक्रमं बाधित्वा प्रथमपक्षो ग्राह्यः इति प्राप्ते, अभिधीयते यदेतत् त्रिच्छन्दस्त्वं तदेतत् प्राकृतम्, तत्र छन्दस्त्रयोपेतस्य तृचत्रयस्योपदिष्टत्वात् विकृतावपि तत्सर्वमतिदिष्टमिति चेत् वाढम्! अत एव पाठक्रमोऽप्य तिदिष्टः, तथा सति प्रक्रान्तगायत्रीच्छन्दस्कस्य तृचस्य समाप्तौ सत्यां पश्चाद् वृहतीच्छन्दस्के तृचे प्रथमायाः ऋवः प्रारम्भावसरः स चारम्भस्तिसृषु इति विशेषविधानेन बाध्यते, तस्म दाद्य स्तृचोनिखिलोग्राह्यः”
एकत्वादिविवक्षान्याय = पु० जैमनीयोक्ते एकत्वादिसंख्याविवक्षावधारणार्घे न्याये स च न्यायः ४ अ० १ पादे ११ सूत्र भाष्यादो दर्शितो यथा “तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्” ११ सू० अस्ति ज्योतिष्टोमे पशुः अग्नीषोमीयो, यो दीक्षितः “यत् अग्नीषोमीयं पशुमालभते” इति, तथा, “अनड्वाहौ युनक्ति” इति, तथा, अश्वमेधे, “बसन्ताय कपिञ्जलानालभते” इति। तत्र सन्देहः, किं विवक्षितम्, एकत्वं द्वित्वं बहुत्वं च, उत अविवक्षितम्? इति। तत्र एकत्वमयज्ञाङ्गभूतं न विवक्षितम्, इत्यर्थः, अर्थस्य गुणभूतत्वात् न आलम्भस्य गुणभूता संख्या नियोजनस्य वा। कस्य तर्हि? पशोः अनडुहोः कपिञ्जलानां च, विभक्तिर्हि श्रुत्या प्रातिपदिकार्थगतं संख्यार्थं ब्रूते, वाक्येन सा यज्ञाङ्गं ब्रूयात्, वाक्याच्च श्रुतिर्बलीयसी। तस्मात् न यज्ञाङ्गं विवक्षितम् इति” “आह मा भूत् यज्ञाङ्गम्, पश्वादीनामङ्गम्, विवक्षितं तथापीति” उच्यते, न, पश्वादीनामङ्गेन उक्तेन अनुक्तेन वा किञ्चित् प्रयोजनमस्ति, यज्ञाङ्गेन हि अविपन्नेन प्रयोजनम्, विपन्नेऽपि हि पश्वाद्यङ्गेऽविगुण एव क्रतुर्भवति, यज्ञाच्च फलं न पश्वादेः। तस्मात् पश्वादेर्गुणेन अज्ञातेन ज्ञातेन वा न किञ्चित् प्रयोजनमस्ति इति न तत् विवक्षितम्, यद्धि प्रयोजनवत् तत् विवक्षितम् इत्युच्यते” भा०। “एकश्रुतित्वाच्च” १२ सू० “भवति च किञ्चित् वचनं येन विज्ञांयते, न तत् विवक्षितम् इति, “यदि सोममपहरेयुरेकां गां दक्षिणां दद्यात्, इति, यदि हि विवक्षितं भवेत्, नैकामिति ब्रूयात्, गामित्येकवचनस्य विवक्षितत्वात्, तथा, “अवी द्वे धेनू द्वे” इत्यत्रापि द्वे इति वचनं ज्ञापकम्, अविवक्षितम् अवी इति द्वित्वम् इति “त्रीन् ललामान्” इत्यत्रापि त्रीनिति वचनं लिङ्गम्। ललामानितिबहुवचनम् अविवक्षितम् इति” भा०। “प्रतीयते इति चेत्” १३ सू० “एवं चेत् पश्यसि, अविवक्षिता संख्या इति, तत् न, प्रतीयते हि संख्या आख्यातवचनस्य अङ्गभूता, यथा “पशुमानय” इत्युक्ते एक एवानीयते, पशू इति, द्वौ, पशून् इति बहव आनीयन्ते, यश्च प्रतीयते स शब्दार्थः, तस्मात् यज्ञस्याङ्गभूता संख्या इति शब्दात् गम्यते, न च शब्दात् गम्यमानम् ऋते कारणात्, अविवक्षितं भवति” भा० “नाशब्दं तत्प्रमाणत्वात् पूर्व्ववत्” १४ सू० “नैतदेवं, सत्यं प्रतीयते, न तु अयं शब्दार्थः व्यामोहादेषा प्रतीतिः। कुतः एतत्? व्याक्याद्धि यज्ञाङ्गम् इत्यवगम्यते, वाक्यं च श्रुत्या बाध्यते। तस्मात् अशब्दार्थोऽयं यज्ञे एकत्वादीति अशब्दार्थोऽपि हि प्रतीयते, यथा पूर्वो धावति इति, स पूर्व इत्युच्यते, यस्य अपरोऽस्ति, तेन पूर्वः इत्युक्ते, अपरो गम्यते, न तु, अपरो, धावति इति अवणात् प्रतीयते, एवम् इहापि पशुम् इत्येकत्वं गम्यते, न तु यज्ञे यथैव हि पूर्व्व इत्युक्तेऽपरो गम्यते एव केवलं, न तु स विधीयते कस्मिंश्चिदर्थे, एवम् इहापि संख्या प्रतीयते एव केवलं, न तु कर्त्तव्यतया यज्ञे विधीयते न पशौ। कथं न पशौ विधीयते? इति चेत् विधायकस्याभावात्। आख्यातशब्दो विधायक्वो भविष्यति इत्येतदपि नोपपद्यते, द्रव्यदेवतासम्बन्धस्य स विधायकः सन् आलभते इति न संख्यासंख्येयसम्बन्धं विधातुमर्हति इति, भिद्येत हि तथा वाक्यम्। तस्मात् अविवक्षिता संख्या इति” भा०। “शब्दवत्तूपलभ्यते तदागमे हि तत् दृश्यते तस्य ज्ञानं यथान्येषाम्” १५ सू० “तुशब्दः पक्षं व्यावर्त्तयति, न तत् अस्ति, न यज्ञे संख्या शब्देन श्रूयते इति, आख्यातवाच्ये हि अर्थे उपलभ्यते, लोके पशुमानय इत्येकवचने सति एकत्वपशुविशिष्टो गम्यते, तत्र हि एकत्वमषैति, द्वित्वमुपजायते। यस्य चागमे यत् उपजायते, स तस्य अर्थः इति गम्यते तस्य ज्ञानं, यथान्येषाम् शब्दानाम्, अश्वमानयेति उक्ते अश्वानयनं प्रतीयते, न गामानय इति ज्ञायते, अश्वशब्दस्य अश्वोऽर्थो गोशब्दस्य गौः इति। यदुक्तं, श्रुत्या बाक्यार्थो बाध्यते, इति, उच्यते, न श्रुतिर्ब्रूते, वाक्यार्थो नास्ति इति, केवलं तु प्रातिपदिकार्थगतां संख्यामाह। तादृशी संख्या वाक्येन यज्ञे विधीयते, प्रातिपदिकार्थो हि आख्यातवाच्येन सम्बध्यते, विभक्त्यर्थोऽपि, तथा हि तद्विशेषणविशिष्ट आलम्भो गम्यते, तत्र एकार्थत्वात् एक वाक्यम् अवकल्पते। पशौ हि संख्यायां विधीयमानायामेक आख्यातशब्दो न शक्नुयात्, आख्यातार्थं विधातुम्, संख्यासंख्येयसम्बन्धं च। तस्मात् यज्ञे विवक्षिता संख्या इति” भा० “तद्वच्च लिङ्गदर्शनम्” १६ सू०। किम्? इति। “कर्णायाम्या, अवलिप्ता रौद्रा, नभोरूपाः षार्जन्याः, तेषाम् ऐन्द्राग्नी दशमः” इति, यदि त्रित्वं विवक्षितं तदा ऐन्द्राग्नी दशभो भवति। तथा “कृष्णा भौमाः, धूम्रा आन्धरिक्षाः, वृहन्तो दिव्याः, शलभा वैद्युताः, सिद्धास्तारकाः” इति प्रकृत्य आह। “अर्द्धभासागां वा एतत् रूपं यत् पञ्चदशिनः” इति तस्मात् अपि पश्यामि, विवक्षिता संख्या इति। यत्तु उक्तम्, “एकां गाम्” इत्यविवक्षां दर्शयति इति। अत्र उच्यते गोसंख्यासम्बन्धं विधातुम्, एतत् उच्यते, इतरथा हि, गोदक्षिणासम्बन्धो विहितो गम्यते। तस्मात् विवक्षितेऽपि वाच्यमेतत्। अवी द्वे धेनू द्वे त्रीन्ललामान् इति च अनुवादाः” भा० “तथा च लिङ्गम्” १७ सू० “एवं च कृत्वा समानश्रुतिकं लिङ्गमपि विवक्षितं भविष्यति, तत्र इदं दर्शनम् उपपद्यते, “वसन्ते प्रातराग्नेयीं कृष्णग्रीवामालभते, ग्रीष्मे माध्यन्दिने सिंहोमैन्द्रीं शरदि अपराह्णे श्वेतां वार्हस्पत्याम्” इति। तत्र श्रूयते, “गर्भिण्यो भवन्ति” इति, गर्भः स्त्रीणां गुणः, तेन स्त्रियोदर्शयति इति भविष्यति। तथा “अश्व ऋषभो वृष्णिर्वस्तः पुरुषः इति ते प्राजापत्याः” इति। तत्र श्रूयते “मुष्करा भवन्ति सेन्द्रियत्वाय” इति, मुष्करत्वं पुंसां गुणः, तेन पुंप्राप्तिं दर्शयवि इति। अधिकरणान्तरं वा, तथा च लिङ्गम् इति, संख्याधिकरणं लिङ्गाधिकरणेऽतिदृश्यते। लिङ्गम् अविवक्षितं, श्रुत्या वाक्यस्य वाधितत्वात्, न च विवक्षितमिव श्रूयते इति, भवति लिङ्गं, “स्त्री गौः सोमक्रयणी” इति, स्त्रीवचनात् सोमक्रयण्णी इत्यविवक्षितमेव लिङ्गं प्रतीयते। “ननु क्रथं गृगीमानय इति न मृगः आनीयते?” नैवम्, तत्, अशब्दन्तु पूर्वो धावति इति यथा। लिङ्गं विवक्षितं वावाक्यार्थस्य श्रुत्याऽप्रतिसिद्धत्वात्, तथा च लिङ्गम् “गर्भिण्यो भवन्ति” इति, तथा “मुष्करा भवन्ति” इति। यदुक्तं, “स्त्री गौः सोमक्रयणी” इति, तत्र स्त्रीत्यविवक्षितं, तथा “प्रजापतये पुरुषान् हस्तिन आलभते” इति, पुरुषग्रहणम् अविवक्षितं, विस्पष्टो हि न्याय उक्तो लिङ्गविवक्षायाम्। तस्मात् विवक्षितं लिङ्गम् इति” भा०।
तत्त्वबोधिन्यां स्पष्टमुक्तं यथा “अग्नीषोमीय पशुमालभेत” “पशुना रुद्रं यजेत्” इत्यादौ पशोरेकत्वं विवक्षितं न वेति संशयः। तत्र पशुमित्यत्र द्वितीयान्तादिश्रुत्वा पुंतदेकत्वयोरुपस्थितयोः परस्परान्वये परस्पराकाङ्क्षाभावात् तथैवापेक्षणे पश्वेकत्वयोः परस्परमन्वयः पश्चाच्च आलभेतेत्यादि पदान्तराकाङ्क्षया वाक्यादेकत्वाश्रयपशोर्यागादावन्वय इति वाक्यात् श्रुतेर्वलीयस्त्वेन पशुविशेषणत्वेनोपक्षीणस्यैकत्वस्य न यागादावन्वयः निराकाङ्क्षत्वात् तथा च सूत्रम् “एकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्”। अर्थस्य पशोर्गुणमूतत्वात् विशेषणत्वेन प्रागनन्वयात् तस्मादेकत्वमविवक्षितं द्वाभ्यां बहुभिरपि यागसिद्धिरिति प्राप्ते उच्यते। पशुमित्यादौ प्रकृत्या पशु रुपस्थापितः प्रत्ययेन चैकत्वं कारकत्वञ्च ततश्चैकपदोपात्तत्वप्रत्यासत्त्या एकत्व स्यकर्म्मत्वादौ कारकेऽन्वयः कारकत्वञ्च क्रियानिमित्तत्वमिति क्रिया चोपस्थितयागादिरिति पशोः प्रथमं कारकद्वारा क्रियायामन्वयः। पश्चाच्चामूर्त्तस्यैकत्वस्य क्रियासाधनत्वान्यथानुपवत्त्या द्रव्यद्वारा तदन्वयार्थं पशुविशेषणत्वेनान्वयः अरुणान्याथादिति विवक्षितमेकत्वमतोद्वाभ्यां बहुभिर्वा न यागसिद्धिः तदुक्तं “समानप्रत्ययस्थेन कारकेणात्मसात्कृता। क्रिया वै नीयते संख्या न परस्वंपदाद्भबेदिति”। एवमनड्वाहौ युनक्ति कपिञ्जलानालभेतेत्यादौ द्वित्वबहुत्वयोर्विवक्षितत्वम्। एवं पुंस्त्वमपि विवक्षित प्रत्ययार्थत्वेन कारकान्वयित्वात्। अथ कथं लिङ्गं विवक्षितं शब्दार्थस्य तदनुष्ठानस्य विचारे तदुपयोगादर्शनात् अपुंस्यपि वृक्षे वृक्षशब्दः मक्षिकादौ चास्त्रि यामपि मक्षिकादिशब्दः प्रयुज्यत इति लिङ्ग न शब्दार्थः अपितुप्रयोगसाधुतामात्रार्थं तत्प्रयगोऽनुष्ठाने एकत्वविशिष्टपशुत्वस्याविशेषात् स्त्रियामपि अनुष्टानसाम्यात् जात्येकत्वादिवत् लिङ्गस्य वृद्धव्यवहारेणान्व यव्यतिरेकाभ्यां शब्दार्थावगमात् तस्य च तत्तत्पदसमभिव्याहारेण तत्तत्पदवाच्यत्वाभ्युवगमात् वृक्षादिषु न वास्तवं पुंस्त्वं किन्तु अभियुक्तोक्तिबलेन तेषां पुंसि साधुतेति। न वानुष्ठानञ्चाम्यं पुंपशौ विशेषसम्भवात् “बाहू ते आप्ययेताम्” इत्यादि मन्त्रैस्तदवयवस्याप्यायनकाले “मेढ्रं ते आप्ययताम्” इति पुमवयवस्याप्याप्यायनश्रवणात्। यत्र च सारस्वतमेधीययागादौ स्त्रिया आलम्भनसुकं तत्र स्त्रीत्वं विवक्षितम्”।
उद्देश्यगतसंख्यायास्तु विवक्षा नास्तीति ग्रह न्यायशब्दे बक्ष्यते एकत्वविवक्षास्थले गदाधरेण धर्म्मिपारतन्त्र्येण एकत्वादेर्यागादावन्व योऽभ्युपगतः धर्मिणः पशोर्यागान्वये बद्वतैकत्वस्य स्वाश्रयपशुकरणकत्वस्वानाश्रयपश्वकरणकत्वो भयसम्बन्धेन यागेऽन्वय इति तेनोक्तेः।
एकदंष्ट्र = पु० एका दंष्ट्रा यस्य। गणेशे त्रिका०। तस्य परशुरामेणैकदन्तस्योत्पाटनात् तथात्वम् परशुरामेण तद्दन्तस्योन्मूलनकथा च ब्रह्मवै० पु० गणेशखण्डे द र्शिता। शिवपार्व्वत्योः रहसि वर्त्तमानयोर्द्वारपालत्वेन स्थितेन गण्णपतिना परशुरामस्य शिवं द्रष्ट्रं अन्तःपुरमध्ये जिगमिषोर्द्वाररोधे कृते तयोः कलहवादमुपवर्ण्ण्य “चिक्षेप पर्शुमव्यर्थ शिवतुल्यं तु तेजसा” इति गणेशं प्रति पर्शुनिक्षेपमुक्त्वा “निपत्य पर्शुर्वेशेन छित्वा दन्तं समूलकम्। जगाम रामहस्तं तु महादेववरेण च” इत्युक्त्वा “पपात भूमौ दन्तश्च महान्तं शब्दमुच्चरन्” इत्युक्तम् अत्र दन्त इत्येकवचननिर्द्देशात् एकर्स्यव दन्तस्य भग्नता प्रतीयते। एकदन्तादयोऽप्यत्र। “कपिलश्चैकदन्तश्च” गणेशस्तवः।
एकदण्डिन् = पु० एकः केवलः शिखायज्ञोपवीतादिशून्यो वा दण्डोऽस्यास्ति इनि। “यदा हृदाध्यवसितं परं ब्रह्म सनातनम्। तदैकदण्डं संगृह्य सोपवीतां शिस्यां त्यजेत्” इत्युक्त लक्षणे परिब्राजके। संन्यासी तावत् चतुर्विधः कुटीचक बहूदकहंसपरहंसभेदात् तत्र कुटीचकबहूदकयोस्त्रिदण्डधारणं हंसस्यैकदण्डधारणम् परमहंसस्य न दण्डधारणमिति भेदः। तदेतत् निर्ण्ण० सि० निरूपितं यथा
“कुटीचकोबहूदकोहंसश्चैव तृतीयकः। चतुर्थः परमहंसोयोयः पश्चात् स उत्तमः” हारीतः। आद्याः पुत्रादिना कुटीङ्कारयित्वा तत्रैव वसन् काषायवासाः शिखोपवीतत्रिदण्डवान् बन्धुषु स्वगृहे वा भुञ्जान आत्मज्ञो भवेत्। एतदत्यन्ताशक्तपरम्। द्वितीयस्तु बन्धून् हित्वा सप्तागाराणि भैक्षं चरन् पूर्वोक्तवेषः स्यात्। हंसस्तु सूर्वोक्तवेषोऽप्येकदण्डः। “एकन्तु वैष्णवं दण्डं धारयन्नित्यमादरादिति” स्कान्दात्। विष्णुरपि “यज्ञोपर्वतं दण्डं च रज्जुं गोबालनिर्मिताम्। शिखां यज्ञोपवीतं च नित्यं कर्म परित्यजेत्” अयमप्येकदण्ड एव। ये तु शिस्योपवीतादित्यागनिषेधास्ते कुटीचकादिपराः। यत्तु मेधातिथिः “यावन्न स्युस्त्रयो दण्डास्तावदेकेन वर्त्तयेदिति”। तदपि तत्परमेव। यच्चात्रिः “चतुर्द्वा मिक्षवः प्रोक्ताः सर्वे चैव त्रिदण्डिनः” इति तत् वाग्दण्डादिपरं न यष्टिपरम्। “वाग्दण्डीऽथ मनीदण्डः कर्मदण्डस्तथैव च। यस्यैते नियता दण्डाः स त्रिदण्डीति चोच्यते” इति मनूक्तेः। तस्मात् परमहंसस्यैकदण्ड एव। सोऽप्यविदुषः। विदुषस्तु सोऽपि नास्ति। “न दण्डं न शिखां नाच्छादनं चरति परमहंस” इति महोपनिषदुक्तेः “ज्ञानमेवास्य दण्ड इति” वाक्यशेषाच्च। यत्तु यमः “काष्ठदण्डो धृतो येन सर्वाशीज्ञानवर्जितः। स याति नरकान् घोरान्महारौरवसंज्ञकानिति” तद्वैराग्यं विना जीवनार्थं संन्यासपरम्। “एकदण्डं समाश्रित्य जीवन्ति बहवो नराः। नरके रौरवे घोरे कर्मत्यागात्पतन्ति ते” इति स्मृतेः। यच्चाश्वमेधिके “एकदण्डी त्रिदण्डी वा शिखी मुण्डित एव वा। काषायमात्र सारोऽपि यतिः पूज्योयुधिष्ठिरेति” तस्यापि पूर्वोक्ता व्यवस्था ज्ञेया। “त्रिदण्डी एकदण्डी वेति” बौधा० “चतुर्थनाश्रमं गच्छेत् ब्रह्मविद्यापरायणः। एकदण्डी त्रिदण्डी वा सर्वसङविवर्ज्जितः” चतुर्विंशतिमतञ्च व्यवस्थितविकल्पाश्रयणात् कुटीचकबहूदकवि षयम् इति शङ्कराचार्य्यमतानुसारिणः। रामानुमतानुसारिणस्तु त्रिदण्डधारणमेवाचरन्तः सम्प्रदायाच रो व्यवस्थाभेदक इति कल्पयन्ति। एतेषां शिखायज्ञोपवीतधारणमपि वैकल्पिकम्। “शिखी मुण्डी वेति” गौतमस्वरणात् “मुण्डीमनोऽपरिग्रह” इति वसिष्ठस्वरणात्। “सशिखान् केशान्निकृत्य विसृज्य यज्ञोपवीतमिति” काटकश्रुतेः “कुटुम्बपुत्रदारांश्च वेदाङ्गानि च सर्व्वशः। केशान् यज्ञोपवीतञ्च त्यक्त्वा गूढश्चरेन्मुनिः” वास्कलोक्तेः मिता०। एतदपि बुटीचकबहूदकविषयकम् व्यवस्थितविकल्पाश्रयणेनावगम्यम्। अत्र प्रसङ्गात् यतिधर्म्मा उच्यन्ते ते च मिता० दर्शिता यथा
“सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः। एकारामः षरिव्रज्य मिक्षार्थी ग्राममाश्रयेत्” या०। “काषायी सुण्डः त्रिदण्डी सकमण्डलुः पवित्रपादुकासनकन्यामात्र” इति देवलः। शौचाद्यर्थं कमण्डलु सहितश्च भवेत्। एकारामः व्रतजितान्तरेणासहायः सन्यासिनोगिः स्त्रीभिश्च स्त्रीणाञ्चैके” इति बौधायनेन स्त्रीणानपि प्रव्रज्यास्मरणात्। तथा च दक्षः “रुकोभिक्षु- र्यथोक्तश्च द्वावेव मिथुनं स्मृतम्। त्रयोग्रामः समाख्यात ऊर्द्ध्वं तु नगरायते। राजवार्त्तादि तेषान्तु भिक्षावार्त्ता परस्मरम्। अपि पैशुन्यमात्सर्य्यं सन्निकर्षान्न संशय” इति। परिव्रज्य परिपूर्ब्बो व्रजतिस्त्यागे वर्त्तते। अतश्चाहंममाभिमानन्तत्कृतञ्च लौकिकङ्कर्म्मनिचयं वैदिकञ्च नित्यकाम्यात्मकं सन्त्यज्य। तदुक्तं मनुना “सुखाभ्युदयिकञ्चैव नैःश्रेयसिकमेव च। प्रवृत्तञ्च निवृत्तञ्च द्विविधङ्कर्म्म वैदिकम्। इह चामुत्र वा काम्यंप्रवृत्तङ्कर्म्म कीर्त्त्यते। निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते। यथोक्ताम्यपि कर्म्माणि परिहाय द्विजोत्तमः। आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवानिति”। अत्र वेदाभ्यासः प्रणवाभ्यासः। तत्र यत्नवान्। भिक्षाप्रयोजनार्थं ग्राममाश्रयेत् प्रविशेत् न पुनः सुखनिवासार्थम्। बर्षाकाले तु न दोषः। “ऊर्द्ध्वं वार्षिकाभ्यां मासाभ्यां नैकस्थान वासीति” शङ्खस्मरणात्। अशक्तौ पुनर्मासचतुष्टयपर्य्यन्तमपि स्थातव्यम्। “न चिरमेकत्र वसेदन्यत्र वर्षाकालात्” इतिस्मरणात्। “एकरात्रं वसेत् ग्रामे नगरे पञ्चरात्रकम्। वर्षाम्योऽन्यत्र वर्षासु मांसास्तु चतुरोवसेत्” इति कण्वस्मरणात्” कथम्भिक्षाऽऽदानङ्कार्य्यमित्यत आह। “अप्रमत्तश्चरेद्भैक्षं सायाह्ने नाभिलक्षितः। रहिते भिक्षुकैर्ग्रामे यात्रामात्र मलोलुपः” अप्रमत्तो वाक्वक्षुरादिचापलरहितोभैक्षञ्चरेत्। वसिष्ठेनात्र विशेषोदर्शितः। “सप्तागाराण्मसङ्कल्पितानि चरेद्भैक्ष मिति”। सायाह्ने अह्नः पञ्चसे भागे। तथाच मनुः “विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने। वृत्ते शरावसम्पाते नित्यम्भिक्षां यतिश्चरेत्” तथा “एककालञ्चरेद्भिक्षाम्पसज्जेन्नतु विस्तरे। भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्यतीति”। अनभिलक्षितः ज्योतिर्विज्ञानोपदेशादिना अचिह्नितः। “नचोत्पातनिमित्ताभ्यान्न नक्षत्राङ्गविद्यया। नानुशासनवादाभ्याम्भिक्षां लिप्सेत कर्हिचिदिति” तेनैवोक्तत्वात्। यत्पुनर्वसिष्ठवचनम् “ब्राह्मणकुले यल्लभेत तद्भुञ्जीत सायम्प्रातर्मांसवर्ज मिति”। तदशक्तविषयम्। “भिक्षुकैर्भिक्षणशीलैः पाषण्ड्यादिभिर्वर्जिते ग्रामे। मनुना चात्र विशेष उक्तः। “न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः। आकीर्णम्भिक्षुकैरन्यैरागारमुपसं व्रजेदिति”। यावता प्राणयात्रा वर्त्तते तावन्मात्रं भैक्षञ्चरेत्। तथाच संवर्त्तः “अष्टौ भिक्षाः समादाय स मुनिः सप्त पञ्च वा। अद्भिः प्रक्षाल्यताः सर्वस्ततोऽश्नीयाच्च वाग्यत” इति। अलोलुपः मिष्टान्नव्यञ्ज- नादिष्वप्रसक्तं। भिक्षाचरणार्थं यतिपात्राण्याह। “यति पात्राणि मृद्वेणुदार्वलाबुमयानि च। सलिलैः शुद्धिरेतेषाङ्गोबालैश्चावघर्षणम्” या० मृदादिप्रकृतिकानि यतीनां पात्राणि भवेयुः। तेषां सलिलङ्गेबालावघर्षलञ्च शुद्धिसाधनम्। इयञ्च शुद्धिर्मिक्षाचरणादिप्रयोगाङ्गभूताऽमेध्याद्यनुपहतिविषया तदुपघाते द्रव्यशुद्धि प्रकरणोक्ता द्रष्टव्या। अतएव मनुना “अतैजसा नि पात्राणि यस्य स्युर्निर्ब्रणानि च। तेषामद्भिःस्मृतं शौचञ्चमसानामिवाध्वरे” इति चमसदृष्टान्तोपादानेन प्रायोगिकी शुद्धिर्दर्शिता। पात्रान्तराभावे भोजनमपि तत्रैव कार्य्यम् “तद्भैक्षं गृहीत्वैकान्वे तेन पात्रेनान्येन वा तुर्ष्णी मात्रया भुञ्जीतेति” देवलस्मरणात्। एवम्भूतस्य यतेरात्मोपासनाङ्गनियमविशेषमाह। “सन्निरुध्येन्द्रिय ग्रामं रागद्वेषौ प्रहाय च। भयं हृत्वा च भूतानाममृतीभवति द्विजः” या०। चक्ष्रादीन्द्रियसमूहं रूपादिविषयेम्यः सम्यक्निरुध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहाय त्यक्त्वा चशब्दादीर्ष्यादीनपि। तथा भूतानामपकार करणेन भयमकुर्वन् शुद्धान्तःकरणः सन्नद्वैतसाक्षात्कारेणामृती भवति मुक्तो भवति। किञ्च। “कर्त्तव्याशय शुद्धिस्तु भिक्षुकेण विशेषतः। ज्ञानोत्पत्तिनिमित्तत्वात्स्वातन्त्र्यकरणाय च” या०। विषयाभिलाषद्वेषजनितदोष कलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषक्षयः प्राणायामैःकर्त्तव्यः। तस्याः शुद्धेरात्माद्वैतसाक्षात्काररूपज्ञानोत्त्तिनिमित्तत्वात्। एवञ्च सति विषयासक्तितज्जनितदोषात्मकप्रतिबन्धक्षये सत्यात्मध्यानधारणादौ स्वतन्त्रोभवति। भिक्षुकेण त्वेषा शुद्धिर्विशे षतोऽनुष्ठेया। तस्य मोक्षप्रधानत्वात् मोक्षस्य च शुद्धान्तःकरणतामन्तरेण दुर्लभत्वात्। यथाह मनुः “दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः। तथेन्द्रियाणान्दह्यन्ते दोषाः प्राणस्य निग्रहादिति”। तेषां कर्व्वव्यानि च निर्ण० सि० दर्शितानि यथा “प्रातरुत्थाय ब्रह्मणस्पते इति जपित्वा दण्डादीनि भूमौ निधाय सूत्रपुरीषयोर्ग्रहस्यचतुर्गुणं शौचं कृत्वाऽऽचम्य पर्वद्वादशीवर्ज्जं प्रणवेन दन्तधावनं कृत्वा तेनैव मृदा बहिःकटिं प्रक्ष्याल्य जलतर्पणवर्जं स्नात्वा पुनर्जङ्घे प्राक्ष्याल्य वस्त्रादीनि गृहीत्वा केशवादिगमोन्तनामभिस्तर्पयित्वा भूस्तर्पयामीत्यादिव्यस्तंसमस्ताभिर्व्याहृतिभिमहर्जनस्तर्पयामीति तर्षयेत्। ओं भृः स्वा- हेति स्वाहाशब्दान्तै श्चैभिरेव पुनस्तर्पयेदिति केचित्। तत आचम्याञ्जलिना प्रणवेन जलमादात्य व्याहृतिभिरुद्धृत्य गायत्र्या त्रिः क्षिप्त्वा त्रिः गायत्रीं जपेत्। उदिते सूर्प्ये प्रणवेन व्याहृतिभिर्बार्व्यं त्रिर्दत्त्वा मित्रस्य चर्षणीत्याद्यैः पूर्वोक्तैः सौरैः इदं विष्णुरितिवैष्णवैः ब्रह्मयज्ज्ञानमिति वोपस्थाय सर्वभूतेभ्यो नम इति प्रदक्षिण मावर्त्तते। ततो नत्वादित्याय विद्महे सहस्राक्षाय धी महि। तन्नः सूर्य्यः प्रचोदयात् इति त्रिजपेत्। एवं त्रिकालम्। विष्णुपूजां ब्रह्मयज्ञं च कुर्य्यात्। अथ मिक्षा। “विधूमे सन्नमुसले व्यङ्गारे” इत्यादिमनूक्तकाले उद्वयमित्यादित्यमुपस्थाय तेनैक्यं ध्यात्वा “आकृष्णेनेति प्रदक्षिणं कृत्वा “येते पन्थान” इति जप्त्वा “योऽसौ चिदाख्ये आदित्ये पुरुषोऽन्तर्हृदिस्थितः। सोऽहं नारायणोदेव इति ध्यात्वा प्रणम्य तम्। त्रिदण्डंदक्षिणे त्वंसे ततः सन्धार्य्य बाहुना। पात्रं वामकरे क्षिप्त्वा श्लेषयेद्दक्षिणेनत्विति” बौधायनोक्तदिशा त्रीन् पञ्च सप्त वा गृहान् गत्वा भवत्पूर्वं भिक्षा याचित्वा “पूर्णमसि पूर्णं मे भूयाः” इत्यागत्य शुचिरन्नं प्रोक्ष्य ओं भूः स्वधा नम इत्यादिव्यस्तसमस्तव्याहृतिभिः सूर्य्यादिभ्यो मूतेभ्यश्च भूमौ क्षिप्त्वा भुक्त्वाऽऽचम्य प्रणवेन षोडशप्राणायामान् कुर्यादिति संक्षेपः। गौतमव्याख्यायां भृगुः। “यतिहस्ते जलं दद्याद्भैक्षं दद्यात् पुनर्जलम्। भैक्षं पर्वतमात्रं स्यात् तज्जलं सागरोपमम्” अत्र सर्वत्र मूलं माधवृपरार्कमदनरत्न स्मृत्यर्थसारादौ ज्ञेयम्। जावालिश्रुतौ “शून्यागारे देवगृहे तृणकुटीवल्मीकवृक्षमूलकुलालशालाग्निहोत्रगृहनदीपुलिनगिरिकुहरनिर्झरस्थण्डिलेष्वनिकेतनः” इति। मात्स्ये “अष्टौ मासान् विहारः स्याद्यतीनां संयतात्मनाम्। एकत्र चतुरोमासान् वार्षिकान् निवसेत् पुनः। अविमुके प्रविष्टानां विहारस्तु न विद्यते”। अत्रिः। “भिक्षाटनं जपं स्नानं ध्यानं शौचं सुरार्चनम्। कर्त्तव्यानि षडेतानि सर्वथा नृपदण्डवत्। मञ्चकं शुक्लवस्त्रं च स्त्रीकया लौल्यमेव च। दिवास्वापश्च यानं च यतीनां पतनानि षट्। आसनं पात्रसौम्यत्वं सञ्चयः शिष्यसंग्रहः। दिवास्वापोवृथाजल्पोयतेर्बन्धकराणि षट्”। दक्षः “नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कथञ्चन”। मदनरत्ने उश० “पित्रर्थकल्पितं पूर्वमन्नं देवादिकोरणात्। वर्जयेत् तादृशीं भिक्षां परबाधाकरीं तथा” वृहस्पतिः “न तीर्थवासी नित्यं स्यान्नो- पवासपरो यतिः। न चाध्ययनशीलः स्यान्न व्याख्यानपरो भवेत्”। एतद्वेदभिन्नपरम्। अत्रिः “स्नानं सुरार्चनं ध्यानं प्राणायामोबलिस्ततः। भिक्षाटनं जपः सन्ध्यात्यागः कर्मफलस्य” च। अन्येऽपि माधवीयमिताक्षरादौ ज्ञेयः। यतिधर्मसमुच्चये “न स्नानमाचरेद्भिक्षुः पुत्रादिनिधने श्रुते। पितृमातृक्षयं श्रुत्वा स्नात्वा शुद्ध्यति साम्बरः”। वापनं च पौर्णमास्यां कार्यम् “ऋतुसन्धिषु वापयेत्” कालमा० धृतवाक्यात्।
एकदिश् = त्रि० एका समाना दिक् यस्य। तुल्यदिक्स्थे “तेनैकदिक्” पा०।
एकदृश् = त्रि० एका दृक् यस्य। १ एकनेत्रे काणे। २ काके पु० एकं सर्वमभिन्नं पश्यति दृश–क्विन्। ३ शिवे। एकत्वेन सर्वद्रष्टरि ४ तत्त्वज्ञे त्रि०।
एकदृष्टि = स्त्री एका अभिन्ना अनन्यविषयत्वात् दृष्टिः। अनन्यविषयदर्शने। “सततमेकदृष्ट्या तमवलोकयन्” पञ्चत०। बहु०। २ तथादृष्टियुक्ते ३ काणेच त्रि० काणत्वञ्च चक्षुःशून्यैकगोलकवत्त्वमन्धत्वं चक्षुरिन्द्रियशून्यत्वमिति भेदः। ४ काके पु०
एकदेव = पु० कर्म्म०। मुख्यदेवे परमेश्वरे “एकोदेवः सर्वभूतेषु गृढः इति” श्रुतेस्तस्य तथात्वम् “स हि पूर्वेषामपि गुरुः कालेनानवच्छेदात्” पात० उक्तेः यो “ब्रह्माणं विदधाति पूर्वमिति” श्रुतेश्च ब्रह्मणोऽप्युत्पादकत्वात्तस्य तथात्वम्।
एकदेवत = त्रि० एका देवतास्य। एकदेवताके १ अग्निहोत्रादौ। “एकदेवतेषूभयम्” कात्या० २२, ८, ४। “यत्र पुनः कर्मण्येकैव देवता यथाऽग्निहोत्रे पुनराधेये च तत्रोभयं तद्देवत्यञ्चेति” कर्कः। एकदैवतोऽप्यत्र कर्मधा०। एकस्यां देवतायां स्त्री।
एकदेवत्य = त्रि० एका श्रेष्ठादेवताता मर्हति यत्। १ श्रेष्ठदेवताके। “तस्मादाहुरिन्द्रः सर्वदेवता इन्द्रश्रेष्ठादेवा इत्येतद्धवै देवास्त्रेधैकदेवत्या अभवन्” शत० ब्रा० १, ६, ३, २२। २ एकदेवताके च। “सोमादिषु उभयमेकदेवत्यं भवति” कात्या० संग्रहव्याख्या। एकदैवत्योऽप्यत्र त्रि०।
एकदेश = पु० कर्म्म०। १ अवयवे, प्रतीके। अवयवश्च समुदायस्यांशरूपः स च वास्तवोबुद्धिकल्पितश्च सावयवानां घटादीनामं शविशेषः ग्रीवामूलादिः वास्तवः, कालवियदादीनां निरयवानां तु बुद्धिकल्पितः यथा पूर्वाह्नः पूर्वरात्र इत्यादि। तथा गुणविशेषाणामपि शब्दादीनां वुद्धिक ल्पितस्तथा “एकदेशविकृतमनन्यवद्भवतीति” व्या० परिभाषा “एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः” मनुः शब्दसमूहात्मकवेदस्य बौद्धमेव तथात्वम्। “सम्भोगहीनसम्पद् विटस्तु धूर्त्तः कलैकदेशज्ञः” सा० द०। विद्याविशेषरूपक- लानां तथात्वम्। “उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्यबुद्ध्या” भा० अनु० २६ अ० अत्रापि तथा। “तान्येकदेशान्निभृतं पयोधेः” माघः “शामित्रैकदेशमाहवनीये प्रास्यति” कात्या० २, ६, १ ४। एकदेशशब्दश्च पूर्वापरमध्योत्तरादिशब्दः तेन सहैकदेशिना षष्ठीसमासापवादकः रकदेशिसमासः। “पूर्वापरावरोत्तरमेकदेशिनैकाधिकरणे” पा० “सर्वोऽप्येकदेशः कालेन सह समस्यते” सि० कौ०। “उपारताः पश्चिमरात्रगोचरात्” किरा०। एवं मध्यरात्र इत्यादि। एकाधिकरणे इत्युक्तेः पूर्वश्छात्राणामित्यादौ न। तत्रार्द्धशब्दस्यैकदेशवाचकत्वेऽपि समांशवाचिन एव एकदेशिसमा० अर्द्धं पिप्पल्या इति वाक्ये अर्द्धपिप्पलीत्यादि। असमांशवाचित्वे तु षष्ठीसमासः “क्रोशार्द्धं स्तिमितजवेन गत्वा” रघुः। द्रव्यैक्य एव तेन पिप्पलीनामर्द्धमित्यादौ न किन्तु ६ त०। एकदेशोऽस्त्यस्य इति। एकदेशिन् उक्तांशयुक्ते त्रि० स्त्रियां ङीप्। “अमुमेव शब्दमाश्रित्य प्रवृत्तसमासस्य एकदेशिसमाससंज्ञा तत्र प्रमाणम्। “पूर्वापरेत्यादि” पा० सू०।
एकदेशविभावितन्याय = पु० एकदेशोविभावितः प्रमाणादिना ससाध्याङ्गीकारितो येन तमधिकृत्य न्यायोन्यायसाध्यस्तकविशेषः। ऋणादानादिव्यवहारे सुवर्णादिबहुद्रवाभि योगे प्रतिवादिनाऽपह्नवे वादिनैकदेशमात्रस्य प्रमाणैः साधने एकदेशे तयोः सत्यमिथ्यात्वावधारणमूलके सर्वधनदापनानुकूले तर्कभेदे तत्र एकदेशसाधने क्वचित् पूर्व्वनिवेदितसर्वधनदापनं क्वचिन्नेति विषयविशेषव्यपस्थापनम् मिता० यथा। “निह्नुते लिखितन्नैकमेकदेशविभावितः। दाप्यः सर्वं नृपेणार्थं, न ग्राह्यस्त्यनिवेदितः” या० नैकममेकं सुवर्णरजत वस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्व्वमेव निह्नुते अपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिः प्रत्यर्थी भावितोऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्ब्बलिखितं दाप्योऽर्थिने नृपेण न ग्राह्यस्त्वनिवेदितः पूर्ब्बं भाषाकाले अनिवेदितः पश्चादर्थिना पूर्व्वं मया विस्मृतम् इति निवेद्यमानो न ग्राह्योनादर्तव्योनृपेण। एतच्च न केवलं वाचनिकमेकदेशे प्रत्यर्थिनोमिथ्यावादित्वसम्भवात्। अर्थिनश्चैकदेशे सत्यवादित्वनिश्चयादेकदेशान्तरेऽपि सत्यवादित्वसम्भवात्। एवं तर्क्वापरनामसम्भावनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचनतः सर्व्वं दापनोयम् नृपेण इति निर्णयः। एवञ्च तर्क्ववाक्यानुसरणेन निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेपि व्यवहार दर्शिनान्न दोषः तया च गौतमः” “न्यायाधिगमे तर्क्वोभ्युयेयस्तेनाभ्युह्य यथास्थानङ्गमयेत्” इत्युक्त्वा “तस्माद्राजाचार्य्यावनिन्द्यौ” इत्युपसंहरति। नचैकदेशविभावितीनुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते एकदेशविभावितो नृपेण सर्वन्दाप्य इति वचनात्। यत्तु कात्यायनेनोक्तम्। “अनेकार्थाभियोगेऽपि यावत् संसाधयेद्धनी। साक्षिभिस्तावदेवासौ लभते साधितन्धनमिति” तत् पुत्रादिदेयपित्राद्यृणविषयम्। तत्र हि बहूनर्थानवियुक्तः पुत्रादिर्न जानामीति प्रतिवदन् निह्नववादी न भवतीत्येकदेशविभावितोऽपि न क्वचिदसत्यवादीति “निह्नुते लिखितन्नैकमिति शास्त्रन्तत्र न प्रवर्त्तते। निह्नवाभावादपेक्षिततर्क्वाभावाच्च” “अनेकार्थाभियोगेऽपीति” कात्यायनवचनं सामान्यविषय विशेषशास्त्रस्य विषयं निह्नवोत्तरं परिहृत्याज्ञानोत्तरे प्रवर्त्तते। ननु “ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम्। ऊने वाप्यधिके चार्थें प्रोक्ते साध्यन्न सिध्यतीति” वदता कात्यायनेन अनेकार्थाभियोगे साक्षिभिरेकदेशे विभाविते अधिके वा भाविते साध्यं सर्वमेव न सिध्यतीत्युक्तम्। तथा सत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्स्यात्? उच्यते लिखित सर्वार्थसाधनतयोपन्यस्तैःसाक्षिभिरेकदेशाभिधानेऽधिकाभिधाने च कृत्स्नमेव साध्यं न सिध्यतीति तस्यार्थस्तत्रापि निश्चितन्न सिध्यतीति वचनात्पूर्व्ववत् संशय एवेति प्रमाणान्तरस्यावमरोऽस्त्येव “छलं निरस्येति” नियमात्। साहसादौ तु सकलसाध्यसाधनतयोपदिष्टैः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव तावतैव साहसादेः सिद्ध्वत्वात्कात्यायनवचनाच्च। “साध्यार्थांशेऽपि गदिते साक्षिभिः सकलम्भवेत्। स्त्रीसङ्गे साहसे चौर्य्ये यत्साध्यं परिकीर्त्तितम्”।
असुयेवार्थमवलम्ब्य एकदेशविभावितन्यायः प्रवर्त्तते इत्येकदेशविभावितन्यायस्य तादृशार्थकत्वम् इति बोध्यम्।
एकदेह = पु० एकः श्रेष्ठोदेहोऽस्य। १ बुधग्रहे त्रिका० तस्य ग्रहेषू अतिसुन्दरत्वात् तथात्वम्। एकस्तुल्योदेहो यत्र एकस्मात् देहोयत्र वा। २ वंशरूपे गोत्रे तत्र सर्वेषां तुल्यदेहत्वादेकस्मादुत्पन्नदेहत्वाच्च तथात्वम्। “बहूनि विप्र! गोत्राणि मुनीनां भावितात्मनाम्। एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः” हरिवं० ४६। ३ समानदेहारव्वे सण्डिण्डे च एकमेकतां गतं देहमस्य। ४ दम्पत्योः तयोर्विवाहेन एकदेहतोत्पादनात्तथात्वम् “अस्थिभिर स्थीनि मांसैर्मासानि त्वचा त्वचमिति” श्रुतेः। “आम्राये स्मृतितन्त्रे च लोकाचारे च सूरिभिः। शरीरार्द्धं स्मृता जावा पुण्यापुण्यफले समा। यस्य नोपरता भार्य्या देहार्द्धं तस्य जीवति। जीवत्यर्द्धशरीरे तु कथमन्योधनं हरेत्” वृह० स्मृतेश्च तयोरेकदेहत्वम्। तत्र पुंसि पुं०, स्त्रियां स्त्रीति भेदः एकाङ्गादयोऽप्यत्र। स्त्रियां ङीष् इति भेदः। कर्म्म०। ५ एकस्मिन् देहे न०।
एकद्यू = पु० एकेन परात्मना दीव्यति दिव–क्विप् ऊठ् ३ त०। आत्मारामे ऋषौ सहि आत्मनैव रमत इति प्रसिद्धम्। “अमन्दीदेकद्यूर्देवाउत याश्च देवीः” ऋ० ८, ८०, १०, “एकद्यूः ऋषिः” भा०।
एकधन = न० एकमेव धनम्। १ एकमात्रधने “वृतानां धावतामेकधनमुपाहितम्” शत० ब्रा० ११, ४, १, १, “एकमेकसममयुग्मं धनं धोयमानमुदकं यत्र। २ अयुग्मसंख्याके उदकाधारे कलसे “अयुङ्गा अयुङ्गा एकधना भवन्ति “त्रयो वा पञ्च वा, पञ्च वा संप्त वा सप्त वा नव वा, नव वैकादश वा, एकादश वा त्रयोदश वा, त्रयोदश वा पञ्चदश वा द्वन्द्वमहर्मिथुनं प्रजननम्। अथ य एष एकोऽतिरिच्यते स यजमानस्य श्रियभभ्यतिरिच्यते स वा एषां सधनं यो यजमानस्य श्रियभभ्यतिरिच्यते तद्यदेषां सधनं तस्मादेकधना नाम” शत० ब्रा० ३, ९, ३, ४, “प्रत्यगेकधनानयुग्मानुदहरणांस्त्रिप्रभृत्यापञ्चदशभ्यः” कात्या० ९, ३, २२, “उत्तरस्यैवानसोऽक्षात् प्रत्यक् अधोभूमौ एकधनानयुग्मसंख्यान्निदधाति एकधनशब्दार्थं स्वयमेव व्याचष्टे उदहरणानिति उदकंह्रियते एभिरित्युदहरणाः कलसास्तान् त्र्यादिपञ्चदशपर्यन्तायुग्मसंख्यान् विषमसंख्यान्। तत्राग्निष्टोमे त्रयः पञ्चम वा, अत्यग्निष्टोमेऽपि तावन्त एव, उक्थ्ये पञ्च वा सप्त वा, षोडशिनि सप्त नव वा, वाजपेये नवैकादश वा, अतिरात्रे एकादश त्रयोदश वा आप्तेर्यामे त्रयोदश पञ्चदश येति” कर्कः “अत्र कलसपरत्वात् पुंस्त्वम् अपां विशेषणत्व स्त्रीत्वम् “आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु” आश्व० श्रौ० ५, १, ९। “द्विविधा आपः वसतीयर्य एकधनाश्च तत्र पूर्वेद्युरेव वसतोवर्यो गृहीता एकधना इदानीं गृह्यन्ते। ता गृहीता ग्रहणदेशादेव यजनदेशं प्रति यथा वर्त्तन्ते तदेयमृगनुवक्तव्या” नारा० वृ०। अपाञ्चाधारं विना देशान्तरगमनासम्भवात् प्रागुक्तवाक्याच्च पुनरयुग्मकलसै राहरणं कर्तव्यमिति वोध्यम्। वस्तुतः एकधनशब्देन अयु- ग्मसं ख्याककलसा एवोच्यन्ते। स आधारत्वेनास्त्यस्य अच्। ३ तत्स्थे जलादौ त्रि० इत्येव न्याय्यम् “तावच्चैकधनानाम्” कात्या० ९, ३, २२, सू० “एकधनानामेकधनस्थानामपामिति” कर्केण तथा व्याख्यानात् “एकधनांस्त्रीनुन्नयन्ति” कात्या० ३, १०, “एकधनान् उन्नयन्ति उदकेन पूरयित्वा उत्क्षिपन्ति जलमध्यादूर्द्धं निनयन्ति निष्काशयन्ति” कर्कः एकं मुख्यं धनम् कर्म०। ४ मुख्ये धने न० “सोममाप्यायतामिन्द्रायैकधनविदे” यजु० ५, ७, “एकं धनं मुख्यं धनं सोमरूप विन्दते लभते स एकघनवित्। यद्वा सोमकण्डनाय यैर्जलमानीयते ते कुम्भाः एकधना एकं धनं सोमरूपं यत्रेति वेत्ति जानातीति” वेददी० “एकधनस्तादृक् कलसः अस्त्यस्य इनि। एकधनिन् तादृशैक धनयुक्ते त्रि० “प्रत्रीरुदानयैकधनिनः” शत० ब्रा० ३, ९, ३, १७, “एकं समानं साधारणं धनं यस्य। ५ अविभक्ते ६ संष्टिनि च त्रि०। अविभक्तधनानां संसृष्टधनानाञ्च साधारणधन त्वात् तथात्वम्। ७ एकमात्रधनयुक्ते त्रि०।
एकधर्म्मन् = त्रि० एकस्तुल्योधर्म्मो यस्य अनिच् स०। तुल्यधर्म युक्ते स्त्रियां वा डाप्। एकोधर्मोऽस्त्यस्य इनिरप्यत्र साधुः। “सर्वेषामेकधर्मिणाम्” स्मृतिः। अत्र स्त्रियां ङीप्
एकधुरा = स्त्री एका धूः कर्म्म० अ समा०। १ एकभारे। तद्वहतीत्यर्थेऽण् तस्य लुक्। एकधुर–एकभारवाहके २ गवादौ त्रि०। अस्त्यर्थे अच्। ३ एकधुरायुक्ते त्रि०। एकधुरं वहति ख। एकधुरीण एकधुरवाहके त्रि०।
एकधुरावह = त्रि० एकधुरां वहतीति वह–अच् ६ त०। एकभारवाहके गवादौ।
एकनक्षत्र = न० एकं नक्षत्रं यत्र। एकतारात्मके नक्षत्रभेदे आर्द्रा चित्रा स्वातिश्च एकतारात्मकं नक्षत्रं तच्च अश्ले लाशब्दे ४९७ पृ० दर्शितम्। शत० ब्रा० भाष्ये तु पुष्यस्येकतारात्मकत्वमुक्तं तदनुसारेण सरलायामस्माभिस्तथोक्तं किन्तु तन्मूलं ज्योतिषवचनं मृग्यम्। वस्तुतोऽत्र एकशब्दस्यायुग्मपरत्वं पुष्यस्य च त्रितारात्मकत्वेन त्तयात्वाभिप्रायेण पुष्यस्येत्युक्तिः “अयुग्मं हि पितॄणामेकनक्षत्रे एकनक्षत्र हि पितॄणाममावास्यायाम् अमावास्या वा एकनक्षत्रमेको हि यद्वेतां रात्रिं सर्वाणि भूतानि संवसन्ति तेनो तं काममाप्नोति या सर्वेषु नक्षत्रेषु” शत० ब्रा० १०, १३, ८, १, ३। “एकनक्षत्रे कात्या० २१, ३, ३। एकं नक्षत्रं हि पितॄणामिति” एकनक्षत्रं च यत्रैका तारा चित्रा स्वाति रेवत्यादि यथा” कर्कः। अत्र रेवत्या द्वात्रिंशत्तार त्मकत्वम् अश्लेषाशब्दे उक्तम् अतस्तस्या एकत्वाभावात् रेवत्यादिशब्देन बहु० अश्विनीति बोध्यम् तस्याश्च त्रितारत्वेनायुग्मपरत्वम्। अमावास्या वा एकनक्षत्रमित्युक्तेः २ अमावास्यायाञ्च। तत्र च रविचन्द्रयोरेकनक्षत्रस्थितत्वात् एकनक्षत्रतुल्यफलदातृत्वाद्वा तथात्वम् कर्म०। ३ एकस्मिन् नक्षत्रे
एकनट = पु० एकी मुख्यो नटः। नाट्यप्रवर्त्तके मुख्यनटे त्रिका०
***