वाचस्पत्यम्
ऋत to ऋत्व्य
links:
Menu अ–ह
Prev ऋच–ऋण
Next ऋद–ॡ
ऋत
ऋतम
ऋता
ऋतुक
ऋतुथ
ऋतुस
ऋतुसे
UpasanaYoga
.org

ऋत = गतौजुप्सायाञ्च सौत्रः सक० सेट् सार्वधातुके ईयङ् आत्म० आर्द्धधातुके वा ईयङ् ईयङभावे पर०। ऋतीयते ऋतीयीत ऋतीयताम् आर्त्तीयत। आर्त्तीयिष्ट आर्त्तीत्। ऋतीयाम्–बभूव आस चक्रे आनर्त्त। ऋतीयिताअर्त्तिता। ऋतीयिषीष्ट ऋत्यात्। ऋतीयिष्यते अर्त्तिष्यति। आर्त्तीयिष्यत आर्त्तिष्यत्। ऋतीयमानः भावे अ। ऋतीया। “तस्मान्नर्तीयेरन् स योहैवं विद्वान् नर्त्तीयतेऽप्रियं द्विषतां करोति” शत० ३, ४, २, ३। ते हर्त्तीयमाने ऊचतुः ३, ६, २, ३। यद्वै सेनायां च समितौ चर्त्तीयन्ते” ८, ६, १, १६।

ऋत = न० ऋ–क्त। “ऋतमुञ्छशिल ज्ञेय” मित्युक्ते ब्राह्मणस्य १ उपजीव्यवृत्तिभेदे २ मोक्षे, ३ जले, “तन्म ऋतं पातु शतशारदाय” ऋ० ७, १०१, ६। “ऋतमुदकम्” भा०। “न गावो नक्षन्नृतं जरितारस्त इन्द्र!” ऋ० ७, २३, ४। “ॠतमुदकम्” भा० “ऋतस्य धाराः सुदुघा दुहानाः” ऋ० ७, ४३, ४ “गोजा ऋतजा अद्रिजा ऋतम्” ऋ० ४, ४०, ५। ४ कर्मफले “ऋतं पिवन्तौ सुकृतस्य लोके” श्रुतिः ५ सुप्रिये षाक्ये ६ मानसादिसत्ये च। ७ दीप्ते, ८ पूजिते च त्रि०। ९ यज्ञे पु० “पीताये चारुरृताय पीतये” ऋ० १, १, ३७, २। “ऋताय यज्ञाय” भा०। “चारु ऋताय पीतये ९, १७, ८। “ऋताय यज्ञाय” भा० १० सूर्य्ये पु०। “एष ते योनिरृतायुभ्याम्” यजु० ७, १० “ऋतायुभ्यां मित्रावरुणाभ्याम्। ऋतशब्देन मित्रः आयुशब्देन वरुणः” वेददी०। “ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्महृयतं वरुण एवायुः” शत० ब्रा० ४, १, ४, १०। ११ आदित्ये न०। “ऋतं सत्यमृतं सत्यम्” यजु० ११, ४७, “ऋतमादित्यः” वेददी०। ऋतमिति मन्ताव्ययमिति तु न्याय्यम् “ऋतञ्च सत्यञ्चाभीद्धात्” अघमर्षणोक्तेः १२ परब्रह्मणि। “ऋतमकाक्षरं ब्रह्म सत्यं स्थानमनन्तकम्” स्मृ० १३ सत्ये त वाक्यादौ। “सतीं वाचमृतां कर्त्तुमर्हसि त्वमरि- न्दम!” भा० आश्व० ६७। “तस्मात् साक्ष्यं वदेदृतम्” “साक्ष्यं पृच्छेदृतं द्विजान्” मनुः। “सर्वमेतदृतं मन्ये यन्मां वदसि केशव!” गीता १४ तद्वति च त्रि०। १५ ऋतदेवनामके देवभेदे पु०। “ऋतस्य हि शुरुधः सन्ति” ऋ० ४, २३, ८ “ऋतस्य ऋतदेवस्य” भा०। “गर्भमृतस्पतिः” ऋ० ६, ४ ८, ५। “ऋतस्य यज्ञस्योदकस्य वा पतिः” भा० पृषो० सुडागमः “ऋतचिद्धि सत्यः” ऋ० १, १४५, ५। “ऋतस्य यज्ञस्य जलस्य वा चित् चेतयिता ज्ञाता” भा०। १६ वह्नेरृषिभेदे “ऋतश्च सत्यश्च ध्रुवश्च वरुणश्च” यजु० १७, ८२।

ऋतजित् = पु० ऋतं जयति जि–क्विप् ६ त०। १ यक्षभेदे। “त्वष्टा च जमदग्निश्च कम्बलोऽथ तिलोत्तमा। ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रश्च सत्तमः। माघमासे वसन्त्येते सप्त मैत्रेय! भास्करे” विष्णु० १० अ०। “ब्रह्मापेतो ब्रह्मराक्षसः ऋतजित् यक्षभेदः” श्रीधरः। २ यज्ञजयिनि त्रि० “ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च अन्तिमित्रश्च दूरेऽमित्रश्च गणः” यजु० १७, ८३। अयञ्चाग्नेर्धामप्रियभेदः “सप्त तेऽग्ने! समिधः, सप्त जिह्वाः, सप्तऋपयः, सप्तधामप्रियाणि। सप्त होत्राः सप्तधा ता यजन्ति। सप्त योनीरापृणस्व घृतेन स्वाहा” यजु० १७, ७९ इत्युपक्रम्य “अग्नेः समिधादिसप्तसप्तकोपक्रमेणु धामप्रियरूपमध्ये तस्याभिधानात्।

ऋतद्युम्न = त्रि० ऋतं द्युम्नं कीर्त्तिदीप्तिर्वाऽस्य। १ सत्येन दीप्यमाने २ सत्ययशस्के च। “ऋतं वदन्नृतद्युम्न! सत्यं वदन्त सत्यकर्मन्!” ऋ० ९, ११३, ४। हे ऋतद्युम्न! ऋतेन दीप्यमान! सत्ययशस्क! वा” भा०।

ऋतधामन् = पु० ऋतं धामास्य। १ विष्णौ त्रिका०। “ऋतं प्रियवाक्यं सामगानं धाम स्थानमस्य। २ सामगानस्थानयुक्ते त्रि० “ऋतधामासि स्वर्ज्योतिः” यजु० ५, ३२। “ऋतं सामगानं धाम स्थानमस्याः औदुम्बर्य्यः” वेददी० ऋतं सत्यमविनश्वरं स्थानमस्य। ३ अविनश्वरस्थानयुक्ते त्रि०। “ऋताषाडृतधामाग्निः” यजु० १८, ३८। ४ इन्द्रभेदे स च द्वादशमन्वन्तरीयः इन्द्रभेदः। “भविता रुद्रसावर्ण्णी राजन् द्वादशमो मनुः। ऋतधामा च देबेन्द्रोदेवाश्च हरितादयः” भाग० ८, १३, १३। ५ यदुवंश्ये नृपभेदे। “कङ्कश्च कर्पिकायां वैऋतधामाजयावपि” भाग० ९, २, २३।

ऋतध्वज = पु० १ ब्रह्मर्षिभेदे। “कुमारोनारद ऋभुरित्युपक्रम्य” “हिरण्यनाभः कौशल्यः श्रुतदैव ऋतध्वजः। एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः” भाग० ६, १५, ११। २ शिवे च तन्नाम कथने “मन्युर्मनुर्महिनसोमहान् शिव ऋतध्वजः उग्ररेता भवःकालो वामदेवो धृतव्रतः” भाग० ३, १२, १०।

ऋतनि = त्रि० ऋतं जलं यज्ञं वा नयति नी + क्विप् वेदे नि० ह्रस्वः। आदित्ये तस्य जलदायकत्वेग उदयेन यज्ञप्रवर्त्तकत्वेन च तथात्वम्। “यो राजभ्य ऋतनिभ्यो ददाशः” ऋ० २, २७, १२। लोके तु ऋतनीरित्येव।

ऋतपर्ण्ण = सूर्य्यवंश्ये नृपभेदे। “भगीरथसुतो राजा” इत्युपक्रम्य “अयुताजित्सुतस्यासीदृतपर्ण्णो महायशाः। दिव्याक्षहृदयज्ञोऽयं राजा नलसखो बली। ऋतपर्ण्णसुतश्चासीदार्त्त पर्ण्णिर्बहीपतिः” हरिवं० १६ अ०। तस्य च नलेन सख्यमक्षहृदयज्ञत्वञ्च भा० व० ७२ अ० दर्शितं यथा “एवमुक्तो नलेनाथ तदा भाङ्गासुरिर्नृपः। आससाद वने राजन्! फलवन्तं विभीतकम्। तं दृष्ट्वा वाहुकं राजा त्वरमाणोऽभ्यभाषत। ममामि सूत! पश्य त्वं सङ्ख्याने परमं बलम्। सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन। नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित्। वृक्षेऽस्मिन् यानि पर्णानि फलान्यपि च वाहुक!। पतितान्यपि यान्यत्र तत्रैकमधिकं शतम्। एकमत्राधिकं पत्रं फलमेकञ्च वाहुक। पञ्चकोट्योऽथ पत्राणां द्वयोरपि च शाखयोः। प्रचिनुह्यस्य शास्वे द्वे याश्चायन्याः प्रशाखिवाः। आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च। ततो रथमवस्थाप्य राजान वाहुकोऽब्रवीत्। परोक्षमिव मे राजन्! कत्थसे शत्रुकर्षण!। प्रत्यक्षमेतत् कर्त्तास्मि शातयित्वा विभीतकम्। अथत्र गणिते राजन्! विद्यते न परोक्षता। प्रत्यक्षं ते महाराज! शातयिष्ये विभीतकम्। अहं हि नाभिजानामि भवेदेवं न वेति वा। सङ्ख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप!। मुहूर्त्तमपि वार्ष्णेयो रश्मीन् यच्छतु वाजिनाम्। तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्। वाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः। प्रतीक्षस्व मुहूर्त्तं त्वमथ वा त्वरते भवान्। एष याति शिवः पन्था याहि वाष्णर्ये! सारथिः। अब्रवीदृतुपर्णस्तु सान्त्वयन् कुरुनन्दन!। त्वमेव यन्ता नान्योऽस्ति पृथिव्यामपि वाहुक!। त्वत्कृते यातुमिच्छामि ब्दिर्भा हयकोविद!। शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्त्तुमर्हसि। कामञ्च ते करिष्यामि यन्मां वक्ष्यसि वाहुक!। विदर्भां यदि यात्वाद्य सूर्य्यं दर्शयितासि मे। अथाब्रवीद्वाहुकस्तं संख्याय च विभीतकम्। ततो विदर्भां यास्यामि कुरुष्वैवं वचो मम। अकाम इव तं राजा गणयस्वेत्युवाच ह। सोऽवतीर्य्य रथात्तूर्ण्णं शात- यामास तं द्रुमम्। ततः स विस्मयाविष्टो राजानमिदमब्रवीत्। गणयित्वा ययोक्तानि तावन्त्येव फलानि च। अत्यद्भुतमिदं राजन्! दृष्टवानस्मि ते बलम्। श्रोतुमिच्छामि ते विद्यां ययैतज् ज्ञायते नृप!। तमुवाच ततो राजा त्वरितो गमने नृपः। विद्ध्यक्षहृदयज्ञं मां सङ्ख्याने च विशारदम्। वाहुकस्तमुवाचाथ देहि विद्यामिमां मम। मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ। ऋतुपर्ण्णस्ततो राजा वाहुकं कार्य्यगौरवात्। हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः। यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परम्। निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु वाहुक!”। नलस्य वाहुकच्छद्मरूपतामुपवर्ण्य अन्त, उक्तं यथा “ऋतुपर्ण्णोऽपि शुश्राव वाहुकच्छद्मिनं नलम्। दमयन्त्या समायुक्तं जहृषे च नराधिपः। तमानाय्य नलं राजा क्षमयामास पार्थिवम्। स च त क्षमयामास हेतुभिर्बुद्धिसम्मतः!। स सत्कृतो महीपालो नैषधं विस्मिताननः। उवाच वाक्यं तत्त्वज्ञो नैषधं वदतां वरः। दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत। कच्चित्तु नापराधं ते कृतवानस्मिनैषध!। अज्ञातवासं वसतो मद्गृहे वसुधाधिप!। यदि वा बुद्धिपूर्वाणि यद्यबुद्ध्यापि कानिचित्। मया कृतान्यकार्य्याकि तानि त्वं क्षन्तुममर्हसि। नल उवाच। न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव!। कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव। पूर्वं ह्यपि सखा मेऽसि सम्बन्धी च जनाधिप!। अत ऊर्द्धन्तु भूयस्त्वं प्रीतिमाहर्त्तुमर्हसि। सर्वकामैः सुविहितैः सुखमस्म्युषितस्त्वयि। न तथा स्वगृहे राजन्! यथा तव गृहे सदा। इदञ्चैव हयज्ञानं त्वदीयं मयि तिष्ठति। तदुपाहर्त्तुमिच्छामि मन्यसे यदि पार्थिव!। एवमुक्त्वा ददौ विद्यामृतपर्ण्णाय नैषधः। स च तां प्रतिजग्राह विधिदृष्टेन कर्म्मणा। गृहीत्वा चाश्वहृदयं राजन्! भाङ्गासुरिर्नृपः!। निषधाधिपतेश्चापि दत्त्वाक्षहृदयं नृप!”। भा० व० ७५ अ०। “कर्कोटस्य नागस्य दमयन्त्या नलस्य च। ऋतपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम्” भा० “ऋतपर्ण्णमादृतम्” नैष०।

ऋतपेय = पु० ऋतं स्वर्गादिफलं पेयं भोग्यमस्मात्। १ एकाहे २ यागभेदे। “यः कामयेत नैःष्णिह्यं पाष्मन इयामिति स ऋतपेयेन यजेत” आ० श्रौ० ९, ७, २५। “निःस्तेहस्य भावो नैःष्णिह्यम् यः पाष्मनोनैःष्णिह्यमियां गच्छेयमिति कामयेत स ऋतपेयनामकेन एकाहेन यजेत अल्पमपि पापं मयि नो तिष्ठेत् इति यः कामयेतंस ऋतपेयेन यजेतेत्यर्थः” नारा० वृ०। सप्तदशस्तोमकेषु पञ्चसु क्रतुषु मध्ये स्वगकामकर्त्तव्ये २ क्रतुभेदे च। “सप्तदशाः पञ्च” कात्या० २२, ८, ६। इत्युपक्रम्य “स्वर्गकामस्यर्त्तपेयः” १० सूत्रे दर्शितः।

ऋतपेशस् = पु० ऋतमुदकं पेशोरूपमस्य। जलात्मके वरुणे “वरुणाय ऋतपेशसे दधीत” ऋ० ५, ६६, १।

ऋतप्सु = पु० ऋतं यज्ञियहविः प्साति प्सा–बा० कु। १ यज्ञियहविर्भोजके देवे। ऋतं सत्यं प्सु रूपमस्येति। ३ सत्यस्वरूपे देवे च। “अन्तर्यद्वनिनो वामृतप्सू” ऋ० १, १८०, ३। “ऋतप्सू यज्ञियहविर्भक्षयितारौ सत्यस्वरूपौ वा” भा०।

ऋतम् = अव्य० ऋत–कमि। सत्यमित्यर्थे। ऋतम्भरः।

ऋतम्भर = पु० ऋतमित्यव्ययं तद्बिभर्त्ति अच्। १ सत्यपालके परमेश्वरे “ततोगतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः” भाग० ६, १३, १३। प्लक्षद्वीपान्तर्गते २ नदीभेदे स्त्री। तस्य वर्षाण्यभिधाय “तेषु गिरयोनद्यश्च सप्तैवाभिज्ञाताः” इत्युक्त्वा “अरुणा नृम्णाङ्गिररी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरेति महानद्यः” भाग० ५, २०, ६। पात० उक्ते ३ विपर्य्यासशून्ये समाधिस्थप्रज्ञाभेदे च स्त्री “ऋतम्भरा तत्र प्रज्ञा” सू० “तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति संज्ञा भवति अन्वर्था च सा सत्यमेव बिभर्त्ति न तत्र विपर्य्यासज्ञानगन्धोऽप्यस्तीति। तथा चोक्तम् “आगमेनानुमानेन ध्यानाभ्यासरसेन च। त्रिघा प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति” पा० भा०। तस्याः शाब्दादिभ्यो विशेषादिकमुक्त तत्रैव। “श्रुतानुमानप्रज्ञाभ्यामन्यविषयविशेषार्थत्वात्” सू०। “श्रुतमागमविज्ञानं तत् सामान्यविषयं न ह्यागमेन शक्योविशेषोऽभिधातुं कस्मात्? नहि विशेषेण कृतसंङ्केतः शब्द इति। तथानुमानं सामान्यविषयमेव यत्र प्राप्तिस्तत्र ततिः यत्राप्राप्तिस्तत्र न भवति गतिरित्युक्तम् अनुमानेन च सामान्येनोपसंहारः तस्मात् श्रुतानुमानविषयो न विशेषः कश्चिदस्तीति न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनोलोकप्रत्यक्षेण ग्रहणम्। न चास्य विशेषस्याप्रमणकस्याभावोऽस्त्विति” समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसूक्ष्मागतो वा पुरुषगतो वा तस्मात् श्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति। समाधिप्रप्माप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवोजायते। समाधिप्रज्ञाभवः संस्का- रोव्युत्थानसंस्काराशयं बाधते व्युथानसंस्काराभिभवात् तत्प्रभवाः प्रत्यया न भवन्ति पात० भा०।

“तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी” सू०। “प्रत्ययनिरोधे समाधिरुपतिष्ठते ततः समाधिजा प्रज्ञा ततः प्रज्ञाकृताः संस्कारा इति नवोनवः संस्काराशयो जायते ततः प्रज्ञा ततश्च संस्कारा इति। कथमसौ संस्कारातिशयश्चित्तं समाप्ताधिकारं न करिष्यतीति? न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वात् चित्तमधिकारविशिष्टं कुर्व्वन्ति चित्तं हि ते स्वकार्य्यादवसादयन्ति। ख्यातिपर्य्यवसानं हि चित्तचेष्टितमिति” पात० भा०। विवृतञ्चैतत् वाचस्पतिना। “अत्रैव योगिजनप्रसिद्धान्वर्थसंज्ञाकथनेन योगिसंमतिमाह। ऋतम्भरेति आगमेनेति वेदविहितं श्रवणमुक्तम्। अनुमानेनेति मननं, ध्यानं चिन्ता तत्राभ्यासः पौनः पुन्येनानुष्ठानं तस्मिन् रस आदरः तदनेन निदिध्यासनमुक्तम्। स्यादेतत् आगमानुमानगृहीतार्थविषयभावनाप्रकर्षलब्धजन्मानिर्विचारा आगमानुमानविषयमेव गोचरयेत् न खल्वन्यविषयानुभवजन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं जनयितुम्, अतिप्रसङ्गात् तस्मान्निर्विचारा चेदृतम्भरा आगमांनुमानयोरपि तत्प्रसङ्ग इत्यत आह। श्रुतानुमानेत्यादि। बुद्धिसत्वं हि प्रकाशस्वभवं सर्व्वार्थदर्शनेसमर्थमपि तमसावृतं यत्रैव रजसोद्घाट्यते तत्रैव गृह्णाति यदा त्वभ्यासवैराग्याभ्यामपास्तरजस्तमोमलमनवद्यवैशारद्यमुद्द्योतते तदास्यातिपतितसमस्तमानमेयसीम्नः प्रकाशवत्त्वे सति किं नाम यन्न गोचर इति भावः। व्याचष्टे श्रुतमागमज्ञानं तत्सामान्यविषयं कस्मात्? नह्यागमेन शक्योविशेषोऽभिधातुं, कुतः? यस्मादानन्त्याद्व्यभिचाराच्च न विशेषेण कृतसङ्केतः शब्दः यस्मादस्य विशेषेण सह वाच्यवाचकसम्बन्धः प्रतीयेत नच वाक्यार्थोऽपीदृशो विशेषः सम्भवति। अनुमानेऽपि लिङ्गलिङ्गिसम्बन्धग्रहणाधीनजन्मनि गतिरेषैवे त्याह तथानुमानमिति। यत्र प्राप्तिरिति यत्रतत्रशब्दयोः स्थानपरिवर्त्तनेन व्याप्यव्यापकभावो गमयितव्यः। अतोऽत्रानुमानेन सामान्येनोपसंहारः। उपसंहरति तस्मादिति। अस्तु तर्हि सम्बन्धग्रहानपेक्षं लोकप्रत्यक्षं न तत् सामान्यविषयमित्यत आह। स चास्येत्यादिमा भूत् सम्बन्धग्रहाधीनं, लोकप्रत्यक्षमिन्द्रियाधीनन्तुस्यात्। नचेन्द्रियाणामस्मिन्नस्ति योग्यतेत्यर्थः ननु च यद्या- शमानुमानप्रत्यक्षागोचरः विशेषः तर्हि नास्ति प्रमाणविरहादित्यत आह न चेति। न हि प्रमाणं व्यापकं कारणं वा प्रमेयस्य, येन तन्निवृत्तौ निवर्त्तेत। न स्वलु कलावतश्चन्द्रस्य परभागवर्त्तिहरिणसद्भावं प्रति सन्दिहते प्रामाणिका इत्यर्थः। तस्मात् समाधि प्रज्ञानिर्ग्राह्य एवेति। अत्र च विवादाध्यासिताः परमाणवः आत्मानश्च प्रातिस्विकविशेषशालिनः द्रव्यत्वे सति परस्परं व्यवर्त्तमानत्वात् ये द्रव्यत्वे सति परस्परं व्यावर्त्तन्ते ते प्रातिस्विकविशेषशालिनः यथा खण्डमुण्डादय इत्यनुमानेनागमेन च ऋतम्भरप्रज्ञोपदेशपरेण यद्यपि विशेषो निरूप्यते तदनिरूपणे संशयः स्यात् न्यायप्राप्तत्वात् तथाप्यदूरविप्रकर्षेण तत्सत्त्वं कथञ्चिद्गोचरयतः श्रुतानुमाने तु साक्षाच्चार्थमिव समुच्चयादि पदानि लिङ्गसंख्यायोगितया, तस्मात् सिद्धं श्रुतानुमानप्रज्ञाभ्यामन्यविषयेति। स्यादेतत् भवतु परमार्थविषयसम्प्रज्ञातो यथोक्तोपायाभ्यासात् अनादिना तु व्युत्थानसंस्कारेण निगूढनिविडतया प्रतिबन्धनीया समाधिप्रज्ञा वात्यावर्त्तमध्यवर्त्तिप्रदीपपरमाणुरिवेति शङ्कामपनेतुं सूत्रमवतारयति समाधिप्रज्ञेति सूत्रं पठति। तज्जैति तदिति निर्विचारां समापत्तिं परामृशति अन्येति। व्युत्यानमाह। भूतार्थपक्षपातो हि धियां स्वभावः, तावदेवेयमनवस्थिता भ्राभ्यति न यावत् तत्त्वं प्रतिलभते तत्प्रतिलम्भे तत्र स्थितपदा सती संस्कारबुद्धिः संस्कारवुद्धिचक्रक्रमेणावर्त्तमाना सती अनादिमप्यतत्त्वसंस्कारबुद्ध्विक्रमं बाधत एवेति तथा च वाह्या अप्याहुः “निरुपद्रवभूतार्थस्वभावस्य विपर्य्ययैः। न बाधो नादिमत्त्वेऽपि बुद्धे स्तत्पक्षपाततः” इति। स्यादेतत् समाधिप्रज्ञातीऽस्तुव्युथानजन्यसंस्कारस्य निरोधः ससाविजस्तु संस्कारातिशयः समाधिप्रज्ञाप्रसवे हेतुरस्त्व्यऽविकल इति तदवस्थैव चित्तस्य साधिकारतेति चोदयति कथमसाविति। परिहरति न त इति। चित्तस्य हि कार्य्यद्वयं शब्दाद्युपभोगः विवेकख्यातिश्चेति तत्र क्लेशकर्म्माशयसहितं शब्दाद्युपभोगे वर्त्तते प्रज्ञाप्रभवसंस्कारोन्मूलितनिखिलक्लेशकर्म्माशयस्य तु चेतसोऽवसितपायाधिकारभावस्य विवेकख्यातिमात्रमवशिष्यते कार्यम्। तस्मात् समाधिसंस्काराश्चित्तस्य न भोगाधिकारहेतवः प्रत्युत तत्परिपन्थिन इति स्वकार्य्याद्भोगलक्षणादवसादयन्ति असमर्थं कुर्व्वन्ति इत्यर्थः। कस्मात्? विवेकख्यातिपर्य्य- वसानं हि चित्तचेष्टितम्। तावद्धि भोगाय चित्त चेष्टते न यावद्विवेकख्यातिमनुभबति सञ्जातविवेकख्यातेस्तु क्लेश निवृत्तौ न भोगाधिकार इत्यर्थः। तदत्र भोगाधिकारप्रशान्तिः प्रयोजनं प्रज्ञासंस्काराणामित्युक्तम् “तत् प्रचिनु चित्तप्रसाधनीश्चतस्रोमैत्र्यादिभावनाः प्रसीदतु ते विशोका ज्योतिष्मती नाम चित्तवृत्तिः समापयतु परशुञ्च तत्पसादज ऋतम्भराभिधानप्रवाहः साधनोपाधेयः” वी० च०।

ऋतव्य = त्रि० ऋतुस्तदभिमानी देवो देवताऽस्य यत्। ऋतुदेवताके इष्टकादौ “ऋतव्ये मधुश्च माधवश्चेति” कात्या० १७, ४, २४। विश्वज्योतिषः पुरोद्वे पद्ये प्राणलक्षणे ऋतव्ये इष्टके अनूकमभित उदङ्मुख उपदधाति” वेददी० “अथर्त्तव्ये उपदधाति ऋतव एते यदृतव्ये ऋतृनैवेतदुपदधाति मधुश्च माधवश्च वासन्तिकावृतू इति द्वे इष्टके भवतो द्वौ हि मासावृतुः” इति शत० ब्रा० ७, ४, २, २९। “अथ ऋतव्ये उपदधाति” इत्यादि प्राग्बत्। “शुक्रश्च शुचिश्च ग्रैष्मावृतू” इत्युक्त्वा प्राग्वत् ८, २, १, १६। “नावासदोऽनूकेषु पूर्ब्बवर्जमृतव्यवेलायाम्” कात्या० १७, १३, १।

ऋतव्रत = पु० ऋतमविनश्वरफलकं व्रतं यस्य। शाकद्वीपस्थे भगदुपासकभेदे। शाकद्वीपवर्ण्णने” भाग० ५, २०, १९। “तेषु पुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतानाम भगवन्तं वाय्वात्मकं प्रणायामविधूतरजस्तमसः परमसमाधिना यजन्ते” ऋतव्रतादयोवर्ण्णस्थानीया इति बोध्यम्। अन्यद्वीपेषु वर्ण्णभदोक्तेरिह तु तेषामेव तत्स्थानीयत्वौचित्यात् चतुःसंख्यासाम्याच्च।

ऋतसद् = पु० ऋते यज्ञे सीदति सद–क्विप् ७ त०। वह्नौ “नृषद्वरसदृतसद्व्योमसदब्जाः” ऋ० ४, ४०, ५। “ऋतसदग्निः” भा०।

ऋतसदन = न० ऋतस्य यज्ञार्थं सीदत्यस्मिन् सद–आधारे ल्युट् ६ त०। यज्ञार्थमुपवेशनस्थाने। “वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद” यजु० ४, ३६। स्त्रियां ङीप्। “वरुणस्य ऋतसदन्यसि” तत्रैव।

ऋतसाप् = त्रि० आप + क्विप् सहपा साप् प्राप्ता ६ त०। यज्ञस्य प्रापयितरि “ये चिद्धि पूर्ब्ब ऋतसाप आसन्” ऋ० १, १७९, २। “ऋतसाप ऋतस्य यज्ञस्यापयितारः” भा०।

ऋतस्पति = पु० ऋतस्य पतिः बा० वेदे सुट्। यज्ञपतौ “तववायवृतस्पते”। ऋ० ८, २६, २१। “ऋतस्पते! यज्ञानां पते!” भा० लोके तु ऋतपतिरित्येव।

ऋतावन् = त्रि० ऋतमस्त्यस्य “छन्दसीवनिपौ” पा० वनिप् दीर्घश्च यज्ञवति। “ऋतावानं महिषं विश्वदर्शतमग्निम्” यजु० १२, १११। “ऋतावानो जने जने” ऋ० ५, ६८, ४। “ऋतावानः यज्ञवन्तः” भा०। लोके तु मतुप् मस्य वः। ऋतवत् इत्येव। “ऐक्याद्वयस्य ऋतवानिति विप्रलब्धः” भाग० १५, २०। “ऋतवान् सत्यवान्” इति श्रीधरः।

ऋतावृध् = त्रि० ऋतं यज्ञं वर्द्धयति वृध–अन्तर्भूतण्यर्थे क्विप् दीर्घः। यज्ञवर्द्धके। “विस्रयन्तामृतावृधोद्वारः” यजु० २८, ५। “सुतः सोम ऋतावृधः” ७, ९। “देवीरमृता ऋतावृधः” ४, १२।

ऋताषाह् = त्रि० ऋतं सहते असत्यं न, सह–ण्वि दीर्घः ६ त० पृ० “सहेः पृतनर्त्ताभ्याञ्चेति” पा० षत्वम्। सत्यसहने असत्ये कुपिते “ऋताषाडृतधामाग्निः” यजु० १८, ३८।

ऋति = स्त्री ऋ–क्तिन्। १ गतौ २ स्पर्द्धायाम् ३ निन्दायाञ्च। कर्म्मणि क्तिन्। ४ वर्त्मनि ५ मङ्गले च। ६ पुरुषमेधयज्ञियदेवभेदे। तत्र चतुर्थबूपे बन्धनीयपशुकीर्त्तने। “ऋतये स्तेनहृदयम्” यजु० ३०, १३। कर्त्तरि क्तिच्। ७ शत्रौ पु० निरु०। अग्निरप्सामृतीषहम्” ऋ० ६, १४, ४ “शरव्यामुखेऽपि नह्यमान ऋतिर्हन्यमाना” अथ० १२, ५, २५।

ऋतिङ्कर = त्रि० ऋतिं पीडां करोति कृ–खच् मुम्। पीडाकारके।

ऋतीय = नामधा० ऋतमिच्छति ऋतीयति आर्त्तीयत्। ऋतोयाम् बभूव आस चकार। वेदे तु “न छन्दसि” पा० न ईत्त्वम्। ऋतयति इत्येव “अकृत्सार्वधातुकयोः” पा० क्वचिदात्त्वं ऋतायति। ऋतायन्। “देवा ऋतायते दमे” ऋ० ४, ८, ३। “ऋतायते यज्ञमिच्छते” भा०। “अग्निमृतयन्नसादि” ऋ० ५, ४३, ७। “ऋतयन् यज्ञमिच्छन् भा०। अर्वती अतायन्” ऋ० ७, ८७, १ “ऋतायन् शोघ्रगमनमिच्छन्” भा०। तत उ ण्। ऋतयु यज्ञकामे “त्वं न इन्द्र ऋतयुस्त्वानिटो नि तृम्पसि” ऋ० ८, ७०, १०। दीर्घे ऋतायु तत्रार्थे “न वा एतस्य ब्राह्मणा ऋतायवः” तै० स० २, २, ५, ५, भवे अ। ऋतया ऋताया वा “ध्रियं वने ॠतया शपन्ता” ऋ० २, ११, १२। “ऋतया ऋत कर्मफलं तत्कामनया” भा०। वद सुपासुलुगित्यादिना तृतीयास्थाने आ०।

ऋतीया = स्त्री ऋत–ईयङ् भावे अ। जुपुप्सायाम् अमरः।

ऋतीषह् = त्रि० ऋतिं पीडां शत्रुं वा सहंते क्विप् दीर्घः। “सहेः पृतनर्त्ताभ्यांञ्च” पा० चात् ऋतिशब्दादपि षत्वम्। १ पीडासहे २ शत्रुसहने च “अग्निरप्सामृतीषहम्” ऋ० ६, १४, ४ ऋतीसहम् अरातीनां सोढारम्” भा०।

ऋतु = पु० ऋ–तु किच्च। शिशिरः पुष्पसमयो ग्रीष्मो वर्षा शरद्धिमः। माघादिमासयुग्मैस्तु ऋतवः षट् क्रमादिमे इत्युक्ते १ कालभेदे। “ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः” इति मनूक्ते स्त्रीणां २ शोणितदर्शनयोग्ये गर्भधारणसमर्थे च काले “ऋतौ भार्य्यामुपेयात्” श्रुतिः “सकृत्सकुद्बृतावृतौ, ऋतुकालभिगामी स्यात्” मनुः। ऋतुरस्य प्राप्तः अण्। आर्त्तव स्त्रीरजसि न० आर्त्तवशब्दे ८०८ पृष्ठे विवृतिः। ३ दीप्तौ ४ मासे च। मासद्वयात्मक

ऋतुश्च सौरश्चान्द्रश्च यथा काल० मा० “ऋतुशब्दस्य ऋ गतावित्यस्माद्धातोर्निष्पन्नः। इयर्त्ति गच्छति अशोकपुष्पविकासान् साधारणलिङ्गमिति वसन्तादिकालविशेष ऋतुः। स च षद्धिधः “षड्वा ऋतव इति” श्रुतेः। यत्त “द्वादश मासाः पञ्चर्त्तव” इति श्रुतं तत्र हेमन्तशिशिरयोरेकीकरणं विवक्षितं याजमानेषु पञ्चप्रयाजानुमन्त्रणमन्त्रेषु हेमन्तशिशिरयोरेकस्मिन्नेकेनैव पदेनैकीकरणमित्युक्तं तथा हि “वसन्तमृतूनां प्रीणामि ग्रीष्ममृतूनां प्रीणामि वर्षा ऋतूनां प्रीणामि शरदमृतूनां प्रीणामीति” चतुर्णां प्रयाजानां पृथक् पृथगनुमन्त्रणमन्त्रानाम्नाय पञ्चमप्रयाजस्यानु मन्त्रणे मन्त्र एवं श्रूयते “हेमन्तशिशिरावृतूनां प्रीणामीति” एतदेवाभिप्रेत्य बह्वृचब्राह्मणे द्वादश मासाः पञ्चर्त्तवो हेमन्तशिशिरयोः समासेनेति” यत्वनयोर्मन्त्रब्राह्मणयोर्ष्ट्विवचनं ततस्वरूपद्वैविध्याभिप्रायेण शिशिरस्य षष्ठस्यान्तिमत्वात्तेनानुमन्त्रणीयस्य षष्ठप्रयाजस्याभावाच्च तस्यैव पञ्चमे हेमन्तेऽन्तर्भावोन्याय्यः। अतएव प्रयाजब्राह्मणे “वसन्तमेवर्तूनामवरुन्ध” इत्यादिना चतुरः प्रयाजान् प्रशस्य पञ्चमे प्रयाजे केवलेन हेमन्तेन प्रशंसा “स्वाहाकारं यजति हेमन्तमेवावरुन्धे” इति। अस्तु नाम यथा तथा पञ्चसंख्या तथापि स्वरूपेण षोढा भिद्यते द्वादमासात्मके संवत्सरे एकैकस्य ऋतोर्मासद्वयात्मकत्वे सत्येकादश द्वादशमासयोर्वर्ज यितुमशकत्वात् षष्ठर्तौ पृथगनुष्ठानविधानाच्च तच्चोपरिष्टदुदाहरिष्यामः। मासद्वयात्मकत्वं चाग्निचयने ऋतव्येष्टकोपधानब्राह्मणे श्रूयते। “द्वन्द्वमुपदधाति तस्मात् द्वन्द्वमृतव” इति। एकस्मिन् ऋतौ कयोर्मासयोर्द्वन्द्वं ग्रहीतव्यमिति चेत् वसन्ताद्यृतुक्रमेण चैत्रमासादि द्वन्द्वभिति ब्रूमः। तच्चेष्टकोपधानमन्त्रेषु श्रूयते “मधुश्च माधवश्च वासन्तिकावृतू” “शुक्रश्च शुचिश्च ग्रैष्मावृतू” “नभश्च नभस्यश्च वार्षिकावृतू” इषश्चोर्जश्च “शारदावृतू” “सहश्च सहस्यश्च हैमन्तिकावृतू” “तपश्च तपस्यश्च शिशिरावृतू” एषु च वाक्येषु ऋतू इति द्विवचनं मासाभिप्रायम् अन्यथा षडृतव इति श्रूयमाणा षट्संख्या बाध्येत। अवयवावयविनोर्वसन्तादेरेकात्मत्वं सौत्रामणीयहौत्रमन्त्रेषु एकवचनेन व्यवहारादवगन्तव्यं “वसन्तेन ऋतुना देवाः, ग्रीष्मेण ऋतुना देवा” इत्यादि हि तत्र पठ्यते तथैवाधानब्राह्मणे श्रूयते “वसन्तो वै व्राह्मणस्यर्त्तुः, ग्रीष्मो वै राजन्यस्यर्त्तुः, शरद्वैश्यस्यर्त्तुरिति” यद्यप्येते षडृतवो घटीयन्त्रवन्नैरन्तर्य्येण प्रवर्त्तन्ते तथापि संवत्सरोपक्रमरूपत्वेन वसन्तस्य प्राथम्यं द्रष्टव्यम् एतदेवाभिप्रेत्य श्रूयते “मुखं वा एतदृतूनां वसन्त” इति पूर्वोदाहृतेषु मन्त्रब्राह्मणेषु सर्वत्र वसन्तोपक्रमणाच्च वसन्तस्य प्राथम्यं ते च वसन्ताद्यृतवो द्विविधाः चान्द्राः सौराश्च। चैत्रादयश्चान्द्राः तच्चोदाहृतं “मधुश्च माधवश्चेत्यादिना” न च तत्र चैत्रादयोनोक्ता इति शङ्कनीयं मध्वादिशब्दानां चैत्रादिपर्यायत्वात्। अत एबाहुः “चैत्रोमासी मधुःप्रोक्तो वैशाखो माधवो मवत्। ज्यैष्ठमासस्तु शुक्रः स्यादाषाढः शुचिरुच्यते। नभोमासः श्रावणः स्यान्नभस्यो भाद्र उच्यते। इषश्चाश्वयजोमासः कार्त्तिकश्चोर्जसंज्ञकः। सहीमासो मार्गशिरः सहस्यः पुष्पनामकः। माघमासस्तपाः प्रोक्त स्तपस्यः फाल्गुनः स्मृतः” इति। एतेषां चैत्राद्यात्मकानां वसन्तादीनां चन्द्रगतिपरिकल्प्यत्वाच्चान्द्रत्वम्। अतएव होतृमन्त्रेषु आम्नायते “चन्द्रमाः षड्ढोता स ऋतून् कल्पयति तथा” सूक्तविशेषे सूर्याचन्द्रमसौ प्रकृत्य आम्नायते “पूर्वापरं चरन्तौ माययैतौ शिशू क्रीलन्तौ परियातो अध्वरम्। विश्वान्यन्योभुवनाभिचष्ट ऋतूनन्योविदधज्जायते पुनरिति” अत्र पुनर्जायत इति लिङ्गादनुविधाता चन्द्र इति अवगम्यते। नन्वस्त्वेवं मध्वादीनां चान्द्रमासानां वसन्ताद्यृतुत्वं संसर्पाख्यस्य तु त्रयोदशस्य चान्द्रमासस्य कथमृतुषु निर्वाहः। तन्माससद्भावश्चर्तुग्रहब्राह्मणे मन्त्रानुवादपुरस्मरमाम्नायते “उपयामगृहीतोऽसि संसर्पोऽसि अहस्पत्यायत्ये स्वाहास्ति त्रयोदशोमास इत्याहुस्तमेव तत् प्रीणातीति” तथा प्रवर्ग्यब्राह्मणेऽपि “अस्ति त्रयोद शोमास इत्याहुः यत्त्रयोदश परिधिर्भवति तेनैव त्रयोदशं मासमवरुन्धे” इति। तदुत्पत्तिप्रकारोऽस्माभिर्मलमास निर्णये वक्ष्यते। विद्यतामेवं त्रयोदशोमासस्तस्य का उपपत्तिर्वसन्तादिषु ऋतुषु इति चेत् उच्यते किमथं सप्तम ऋतुः? आहोस्विदुक्तेष्वैव षट्सु अन्तर्भावः? उतर्त्तुद्वयान्तरालवर्त्ती कश्चिदनृतुरूपः? न तावत् पश्चिमः “ऋतुरृतु- नानुद्यमान” इति ऋतूनां नैरतर्यश्रवणात्। नाप्यग्रिमः। “षड्वा ऋतवः” इति षट्संख्यानियमात्। वसन्तादिवन्मन्त्रब्राह्मणयोर्नामान्तराश्रवणाच्च नापि मध्यमः मध्वादिषु अपाठात्। उच्यते ययोर्मासयोर्मध्ये मलमासो दृश्यते तयोरुत्तरस्मिंस्तस्यान्तर्भावः। तथा चासौ षष्टिदिवसात्मकोमलिनशुद्धभागद्वयात्मक इति मध्वादिशब्दवाच्यत्वेनोक्तेष्वन्तर्भावान्न काप्यनुपपत्तिः। सौरेषु ऋतुषु बौघायनेन मीनमेषयोर्मेषवृषयोर्वा वसन्त इत्यभिधानात् मीनादित्वं मेषादित्वं च वैकल्पिकं वसन्तस्याङ्गीकृतम्। तथा च तदनुसारेण उत्तरे ग्रीष्मादयोऽपि यथायथं विकल्प्यन्ते। विनियोगश्चैषां ऋतुविशेषाणां श्रुतिस्मृति पुराणेष्ववगम्यते। तत्र श्रुतिः। “वसन्ते ब्राह्मणोऽग्निमादधीत, ग्रीष्मे राजन्य आदधीत, शरदि वैश्य आदधीतेत्यादि” स्मृतिरपि “वसन्ते ब्राह्मणं उपनयीत, ग्रीष्मेराजन्यं शरदि वैश्यमिति” विष्णुधर्मोत्तरेऽपि परामूर्त्तिव्रते वसन्ताद्यृतषु पृथक्पूजा विशेषतः कथिताः। तथा तत्रैव वसन्ते स्नानानुलेपादिदानम् ग्रीष्मे मानकादिदानमुक्तं देवीपुराणे। वर्षासु तिलदामं तथा शरद्यन्नदानं हेमन्ते वस्त्राग्निदानं शिशिरे वस्त्रदानमित्येतानि विष्णुधर्मोत्तर एवोक्तानि एवमन्यदप्युदोहार्य्यम्”। “वसन्तेन ऋतुना देवा वसवस्त्रिवृतास्तुताः” “ग्रीष्मेण ऋतुना देवा रुद्राः पञ्चदशे स्तुताः” “वर्षाभिरृतुनादित्या स्तोमे सप्तदशे स्तुताः” “शारदेन ऋतुना देवा एकविंश ऋभवस्तुताः” “हेमन्तेन ऋतुना देवास्त्रिणवे मरुतस्तुताः” “शैशिरेण ऋतुना देवास्त्रयस्त्रिंशेऽमृतास्तुताः प्राखस्यात्” यजु० २१, २३, २४, ३५, २६, २७, २८। सूर्य्यसिद्धान्तेतु सौरत्वमङ्गीकृतम्। यथा “द्विराशिनाथाऋतवस्ततीऽपि शिशिरादयः। मेषादयो द्वादशैते मासास्तैरैव वत्सरः”। ऋतुमध्ये च वत्सरारम्भकत्वं वसन्तस्यैव तच्च काल० मा० उक्तम् अतएव गीतायाम् “ऋतूनां कुसुमाकारः” इत्यनेन वसन्तस्य ऋतुषु प्रथमत्वेव भगद्विमूतित्वमुक्तम्” म० त० ब्रह्मपु०। “चैत्रे मासि जगत् ब्रह्मा ससर्ज्जं प्रथमेऽहनि। शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति। प्रवर्त्तयामास तदा कालस्य गणनामपि। ग्रहान्राशीनृतून् मासान् वत्सरान् वत्सराधिपान्”। मासर्त्तुवत् सराणा व्यक्तं चन्द्रत्वमुक्तम् ब्रह्मसिद्धान्तेऽपि “चैत्रसितादेरुदयाद्भानोर्बर्षर्त्तुमासयुगकल्पाः। सृष्ट्यादौ लङ्कायामाह प्रवृत्ता दिनैर्वत्स”! चैत्रसितादेश्चैत्रशुक्लप्रतिपदमा- रभ्येत्यर्थः दिनैस्तिथिभिः” म० त०। ५ मासद्वयमात्रे “मुख्यं श्राद्धं मासि मासि अपर्य्याप्तावृतुं प्रति” स्मृतिः। सुश्रुते ऋतुनिरूपणं तद्गुणलिङ्गादि च दर्शितं यथा “अथात ऋतुचर्य्याध्यायं व्याख्यास्यामः कालोहि नाम भगवान् स्वयम्भूरनादिमध्यनिधनोऽत्र रसव्यापत्सं पत्ती जीवितमरणे च मनुष्याणामायत्ते स सूक्ष्मामपि कलां न लीयत इति कालः सङ्कलयति कालयति वा भूतानीति कालः। तस्य संवत्सरात्मनोभगवानादित्यो गतिविशेषेणाक्षिनिमेषकाष्ठाकलामुहूर्त्ताहोरात्रपक्षमासर्त्त्वयनसंवत्सरयुगप्रविभागं करोति। तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः। पञ्चदशाक्षिनिमेषाः काष्ठा। त्रिंशत्काष्ठाः कला विशंतिकलोमुहूर्त्तः कलादशभागश्च। त्रिंशन्मुहूर्त्तमहोरात्रम्। पञ्चदशाहोरात्राणि पक्षः। सच द्विविधः शुक्लः कृष्णश्च तौ मासः। तत्र माघादयो द्वादश मासा द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति। ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः। तेषां तपस्तपस्यौ शिशिरः। मधुमाधवौ वसन्तः। शुचिशुक्रौ ग्रीष्मः। नभीनभस्यौ वर्षा। इषोर्जौ शरत्। सहःसहस्यौ हेमन्त इति। त एते शीतोष्णबर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरञ्च। तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भगवानाप्याय्यते सोमोऽम्ललवणमधुराश्च रसा बलवन्तो भवन्त्युत्तरोत्तरञ्च सर्वप्राणिनां बलमभिवर्द्धते। उत्तरञ्च शिशिरवसन्तग्रीष्मास्तेषु भगवानाप्याय्यतेऽर्कस्तिक्तकषायकटुकाश्च रसा बलवन्तोभवन्त्युत्तरोत्तरञ्च सर्वपाणिनां बलमपहीयते। भवति चात्र। शीतांशुः क्लेदययुर्वीं विवस्वान् शोषयत्यपि। तावुभावपि संश्रित्य वायुः पालयति प्रजाः। अथ खल्वयने द्वे युगपत्संवसरो भवति। ते तु पञ्च युगभिति संज्ञां लभन्ते। स एष निमेषादि युगपर्य्यन्तः कालश्रक्रषत्परिवर्त्तमानः कालचक्रमुच्यतैत्येके। इह तु वर्षाशरद्वेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति दोषोपचयप्रकोपोपशमनिमित्तम्। ते तु भाद्रपदाद्येनं द्विम सिकेन व्याख्याताः। तद्यथा भाद्रपदाश्वयुजौ वर्षाः। कर्त्तिकमार्गशीर्षौ शरत्। पौषमाघौ हेमन्तः। फाल्गुनचैत्रौ वसन्तः। वैशाखज्यैष्ठौ ग्रीष्मः। आषाढश्रावणौ प्रावृडिति। तत्र वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रसन्नाः क्षितिमलप्रायास्ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टब्धाग्नीनां विदह्यन्ते विदाहात् पित्तसञ्चयमा- पादयन्ति स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽर्ककिरणप्रविलापितः पैत्तिकान् व्याधीन् जनयति। ता एवौषधयः कालपरिणामात्परिणतवीर्य्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रसन्नाः स्निग्धा अत्यर्थं गुर्व्यस्ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मणः सञ्चयपापादयन्ति स सञ्चयो वसन्तेऽर्क्करश्मिप्रविलापित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीन् जनयति। ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च ता उपयुज्यमानाः सूर्य्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाद्वैशद्याच्च वायोः सञ्चयमापादयन्ति स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वातिकान् व्याधीन् जनयति। एवमेष दोषाणां सञ्चयप्रकोपहेतुरुक्तः। तत्र वर्षाहेमन्तग्रीष्मेषु सञ्चितानां दोषाणां शरद्वसन्तप्रावृट्सु च प्रकुपितानां निर्हरणं कर्त्तव्यम्। तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते, श्लैष्मिकाणां निदाघे, वातिकानां घनात्यये, स्वभावत एव, त एते सञ्चयप्रकोपोपशमा व्याख्याताः। तत्र पूर्वाह्णे वसन्तस्य लिङ्गं मध्याह्णे ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे वार्षिकम्, शारदमर्द्धरात्रे प्रत्यूषसि हैमन्तमुपलक्षयेत्। एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशमैर्जानीयात्। तत्राव्यापन्नेष्वृतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च ता उपयुज्यमानाः प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति। तेषां व्यापदोऽदृष्टकारिताः। शीतोष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्या पादयन्त्यपश्च, तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति। तत्राव्यापन्नानामोषधीनामपाञ्चोपयोगः कदाचिदव्यापन्नेष्वप्यृतुषु कृत्यापिशाचरक्षःक्रोधाधर्मैरुपध्वस्यन्ते जनपदाः। विषौषधीपुष्पगन्धेन वायुनोपनीतेनाक्रम्यते यो देशस्त्रत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्यायशिरोरुग्ज्वरैरुपतप्यन्ते ग्रहनक्षत्रचरितैर्वा गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा। तत्र स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजपहोमोपहारेज्याञ्जलिनमस्कारतपोनियमदयादानदीक्षाभ्युपगमदेवताब्राह्मणगुरुपरैर्भवितव्यमेवं साधु भवति। ऋतूनामत ऊर्द्ध्वमव्यापन्नानां लक्षणान्युपदेक्ष्यामः। वायुवात्युत्तरः शीतो रजोधूमाकुला दिशः। छन्नस्तु- षारः सविता हिमानद्धा जलाशयाः। दर्पिता ध्वाङ्क्षखड्गाह्वमहिषोरभ्रकुञ्जराः। लोध्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये। शिशिरे शीतमधिकं वातवृष्ट्याकुला दिशः। शेषं हेमन्तवत्सर्वं विज्ञेयं लक्षणं बुधैः। दिशो वसन्ते विमलाः काननैरुपशोभिताः। किंशुकाम्भोजवकुलचूताशोकादिपुष्पितैः। कोकिलाः षट्पदगणैरुपगोता मनीहराः। दक्षिणानिलसंवीताः सुसुखाः पल्वलोज्ज्वलाः। ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैरृतोऽसुखः। भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव। भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः। ध्वस्तवीरुत्तृणलताविपर्ण्णङ्कितपादपाः। प्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः। अम्बुदैर्विद्युदुद्योतप्रस्रुतैस्तुमुलस्वनैः। कोमलश्यामशस्पाढ्या शक्रगोपोज्ज्वला मही। कदम्बनीपकुटजसर्जकेतकिभूषिता। तत्र वर्षामु नद्यम्भःपूरोद्भग्नतटद्रु माः। वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः। मूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता। नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः। वभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः। तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः। पङ्कशुष्कद्रुमाकीर्ण्णा निम्रोन्नतसमेषु भूः। वाणसप्ताह्वबन्धूककाशासनविराजिता। स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः। विष मेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम्। हरेद्वसन्ते श्लेष्माणं पिर्त्त शरदि निर्हरेत्। वर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात्” ऋतुचार्य्याध्यायः। आ० त० ऋतुगुणादि यथा “मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षडृतवः” स्मृताः। हेमन्ते कुपिताद्वायोः स्वाद्वम्ललवणान्रसान्। गोधूभपिष्टमांसेक्षुक्षीरोत्थविकृतिर्भजेत्। नवमन्नं रसान् तैलं शौचे तप्तोदकं नरः। शक्त्यार्ककिरणान् स्वेदं पादत्राणञ्च सर्वदा। उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्। अयमेव विधिः कार्य्यः शिशिरेऽपि विशेषतः। वसन्ते कुपितः श्लेष्मा ह्यग्निमान्द्यं करोत्यतः। तीक्ष्णं वमननस्यादि कवलग्रहमञ्जनम्। व्यायामोद्वर्त्तनं धूमं शौचे तप्तोदकं भजेत्। पुराणयवगोधूमक्षौद्रजाङ्गलमांसभुक्। गुरूष्ण स्निग्धमधुरं दिवा स्वप्नञ्च वर्जयेत्। स्वादु शीतं द्रवं स्निग्धमनुपानं सशर्करम्। घृतं पयः सशाल्यम्लं भजन् ग्रीष्मे न सीदति। मध्याह्ने शीतले सुप्यात् निशि वातहिमाश्रिते। लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्जयेत्। वर्षास्वग्निवले हीने कुप्यन्ते पवनादयः। अग्नेः संवर्द्धकं द्रव्यं जीर्णधान्यं रसान् लघु। जाङ्गलं पिशितं मुद्गान् दिव्यं कौपं जलं शुचि। वृक्षाम्ललवणं स्नेहं संशुष्कं क्षौद्रमेव च। नदीजलौदनञ्चाहःस्वप्नायासातपांस्त्यजेत्। शरदि कुपिते पित्ते विरेकं रक्तमोक्षणम्। स्वादुतिक्तकषायेक्षुशालिमुद्गसरोजलम्। तुषारक्षरसौहित्यदधितैलरसातपान्। अम्लतीक्ष्णदिवास्वप्नप्राचीवातान् विवर्जयेत्। नित्यं सर्वरसास्वादः स्वस्वाधिक्यमृतावृतौ। ऋतूनां शेषसप्ताहे सेवितव्यः पराक्रमः। तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येन प्रवत्तैते। अजातानां विकाराणामनुत्पत्तिकरञ्च यत्। व्यायामादपतर्पणादभिभवाद्भङ्गात् क्षयाज्जागरात् वेगानाञ्च विधारणादतिशुचः शैत्यादतित्रासतः। रूक्षक्षोभकषायतिक्तकटुकैरेभिः प्रकोपं व्रजेद्वायुर्वारिधरागमे परिणते चान्नेऽपराह्णेऽपि च। कट्वम्लोष्णविदाहितीक्ष्णलवणक्रोधोपवासातपस्त्रीसम्पर्कतिलातसीदधिसुरासूक्तारनालादिभिः। भुङ्क्षे जीर्य्यति भोजने च शरदि ग्रीष्मे सति प्राणिनाम् मध्याह्ने च तथार्द्धरात्रसमये पित्तप्रकोपं व्रजेत्। गुरुमधुर रसातिस्निग्धदुग्धेक्षुभक्ष्यद्रवदधिदिननिद्रासूपसर्पिःप्रपूरैः। तुहिनपतनकाले श्लेष्मणः संप्रकोपः प्रभवति दिवसादौ भुक्तमात्रे वसन्ते”। ६ कालमात्रे ऋतुधाशब्दे उदा०। ७ तदभिमानिदेवे पु०। ऋतव्यशब्दे उदा०। ८ विष्णौ पु०। “ऋतुः सुदर्शनःकालः” विष्णुस०। “कालात्मना ऋतुशब्दे न लक्ष्यते इति ऋतुः” भा०। “प्रधानपुरुषक्षोभकं यत्कालाख्यं रूपं तदृतुशब्देन लक्ष्यते” आनन्दगि०। ऋतुरस्य प्राप्तः अण्। आर्त्तव प्राप्तर्त्तुके त्रि० स्त्रियां ङीप्। छन्दसि घस् सित्त्वान्न गुणः। ऋत्विय तदर्थे त्रि०। ऋतुर्देवताऽस्य यत्। ऋतव्य ऋतुदेवताके इष्टकादौ।

ऋतुकाल = पु० वसन्तसमयवत् कर्म्म० राहुशिरोवत् ६ त० वा। स्त्रीणां पुष्पदर्शनयोग्ये षोडशरात्र्यात्मके काले। “ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः” मनुः। “ऋतुकालाभिगामी स्यात्” मनुः। पर्व्वादिवर्जे तत्काले च स्त्रीगमनं नियम्यते। तत्र नियमस्वरूपनिर्वाहककारणादिप्रदर्शनेन ऋत्वभिगमस्य यथानियमविधित्वं तथा प्रा० त० न्यायवाक्येनोक्तम् यथा “स्वरुच्या क्रियमाणे तु पत्रावश्यं क्रिया क्वचित्। नोद्यते नियमस्तत्र ऋतावभिगमो यथा” मीमांसकवाक्यम्। ऋत्वभिगमनस्य परिसंख्यापरत्वनिराकरणेन नियमपरत्वं समर्थितं मिता० यथा। “तस्मिन् युग्मासु संविशेदिति”। “किमयं विधिर्नियमः परिसंख्या वा। “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्तौ परिसंख्या निगद्यते”। उच्यते। न तावद्विधिः, प्राप्तार्थत्वात्। नापि परिसंख्या, दोषत्रयसमासक्तैः। अतो नियमम्प्रपेदिरे न्यायविदः। कः पुनरेषां भेदः। उच्यते। अत्यन्ताप्राप्तपापणं विधिः। यथा अग्निहोत्रं जुहुयात्” “अष्टकाः कर्त्तव्याः” इति। पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणं नियमः। यथा “समे यजेतेति” “दर्शपूर्न्नमाणाभ्यां यजेतेति” यागः कर्त्तव्यतयाविहितः स च देशमन्तरेण कर्त्तुमशक्य इत्यर्थात् देशः प्राप्तः। स च समो विषमश्चेति द्विविधः। यदा यजमानः समे यियक्षते तदा “समे यजेतेति” वचनमुदास्ते स्वार्थस्य प्राप्तार्थत्वात्। यदा तु विषमे देशे यियक्षते तदा समे यजेतेति” स्वार्थं विधत्ते स्वार्थस्य तदानीमप्राप्तत्वात्। विषमदेशनिवृत्तिस्त्वार्थिकी नोदितदेशेनैव यागनिष्यत्तेः। अनोदितदेशोपादानेन यथाशास्त्रं यागोनानुष्ठितः स्यादिति। तथा “प्राङ्मुखोऽन्नानि भुञ्जीतेति”। इदमपि स्मार्त्तमुदाहरणं पूर्वेण व्याख्यातम्। एकस्यानेकत्र प्राप्तस्यान्यतो निवृत्त्यर्थमेकत्र पुनर्वचनं परिसंख्या। तद्यथा। “इमामगृभ्नन् रशनामृतस्येत्यश्वाभिधानीमादत्ते” इत्ययं मन्त्रः स्वसामर्थ्यादश्वाभिधान्या गर्दभाभिधान्याश्च रशनाया ग्रहणे विनियुक्तः। पुनरश्वाभिधानीमादत्त इति वचनेनाश्वाभिधान्यां विनियुज्यमानो गर्दभाभिधान्या विनिवर्त्तते। तथा “पञ्च पञ्चनखा भक्ष्याः” इत्यत्र यदृच्छया शशादिषु श्वादिषु च भक्षणं प्राप्तम्। पुनः शशादिषु श्रूयमाणं श्वादिभ्यो निवर्त्तत इति। किं पुनरत्र युक्तं परिसंख्येत्याह। तथाहि कृतदारम्रंग्रहस्य स्वेच्छयैव ऋतौ गमनं प्राप्तमिति न विधेरयं विषयः। नापि नियमस्य, गृह्यस्मृतिविरोधात्। एवं हि स्मरन्ति गृह्यकाराः “दारसंग्रहानन्तरं त्रिरात्रं द्वादशरात्रं संवत्सरं वा ब्रह्मचारी स्यादिति”। तत्र द्बादशरात्रात् संवत्सरात् वा पूर्वमेवर्त्तुसम्भवे ऋतौ गच्छेदेवेति नियमात् ब्रह्मचर्य्यम्मरणं बध्येत। अपि च प्राप्ते भावार्थे वचनं विशेषणपरं युक्तम्। प्राप्तञ्चर्त्तौ भार्य्यागमनमिच्छयैवातो यदि गच्छेदृतावेवेति वचनव्यक्तिर्युक्ता। किञ्च नैयमिकात् पुत्रोत्पत्तिविधेरेवर्त्तौ नित्यं गमनं प्राप्तमेवेति ऋतौ गच्छेदेवेति नियमोऽनर्थकः स्यात्। नियमे चादृष्टं कल्पनीयम्। किञ्च ऋतौ गन्तव्य- मेवेति नियमेऽसन्निहितस्य व्याध्यादिनाऽसमर्थस्यानिच्छोश्चाशक्योऽर्थ उपदिष्टः स्यात्। विध्यनुवादविरोधश्च नियमे। तथा हि एकः शब्दः सकृदुच्चरितस्तमेवार्थं पक्षेऽनुवदति पक्षे विधत्ते चेति। तस्मादृतावेव गच्छेन्नान्यत्र इति परिसंख्यैव युक्ता। तदिदम्भारुचिविश्वरूपादयोनानुमन्यन्ते। यतो नियम एव युक्तः पक्षे स्वार्थविधि सम्भवात्। अगमने दोषश्रवणाच्च यथा ह पराशरः “ऋतुस्नातान्तु यो भार्यां सन्निधौ नोपगच्छति। घोरायां भ्रूणहत्यायां युज्यते नात्र संशय इति” न च विध्यनुवादविरोधोऽनुबादाभावात् विध्यर्थत्वाद्व चनस्य। तत्र हि विध्यनुवादविरोधो यत्र विधेयावधितया तदेवानुवदितव्यमप्राप्ततयान्योद्देशेन विधातव्यञ्चेति। यथा वाजपेयाधिकरणे पूर्वपक्षे “वाजपेयेन स्वाराज्यकामो यजेतेति” वाजपेयलक्षणगुणविधानावधित्वेन यागोनुवदितव्यः स एव स्वाराज्यलक्षणफलोद्देशेन विधातव्य श्चेति। न चानुवादेनेह कृत्यमस्ति। यत्तु नियमेऽदृष्टं कल्पनीयमित्युक्तं तत्परिसंख्यायामपि समानम्। अनृतौ गच्छतो दोषकल्पनात्। यत्तु नैयमिकपुत्रोत्पादनविध्याक्षेपेणैव ऋतौ नित्यगमनप्राप्तेर्न नियम इति। तदसत् स एवायं नैयमिकः पुत्रोत्पादनविधिः। स्यान्मतम् “एवं गच्छन् स्त्रियं क्षामां लक्षण्यं पुत्रं जनयेदिति” स्त्र्यभिगमनारिक्तः पुत्रोत्पादनविधिरिति। तन्न गमनकरणिकाया भावनाया एव पुत्रोत्पत्तिकर्मता प्रदृश्यते। “एवं गच्छन् लक्षण्यं पुत्रं जनयेदित्यनेन” यथाग्निहोत्रं जुह्वत् स्वर्गं भावयेदिति। न चासन्निहितादेरशक्यार्थे विथिप्रसङ्गः सन्निहितशक्तयोरेवोपदेशात् “ऋतुस्नातां तु यो भार्यां सन्निधौ नोपगच्छतीति” “यः स्वादारानृतुस्नातान् स्वस्थः सन्नोपगच्छतीति” विशेषोपादानात्। अनिच्छानिवृत्तिस्तु नियमविधानादेव। न च विशेषणपरता पक्षे भावार्थविधिसम्भवात्। नापि गृह्यस्मृति विरोधः संवत्सरात् पूर्वमेवर्त्तुदर्शने संविशतो न ब्रह्मचर्यस्खलनदोषः। यथा श्राद्धादिषु, तस्मात् स्यार्थहामिपरार्थकल्पनप्राप्तबाधलक्षणदोषत्रयवती परिमंख्या न युक्ता। “पञ्च पञ्चनखा भक्ष्याः” इत्यत्र यद्यपि शशादिषु भक्षणस्य पक्षे प्राप्ते नियमः, शशादिषु श्वादिषु च प्राप्ते परिसंख्येति उभयसम्भवस्तथापि नियमपक्षे शशाद्यभक्षणे दोषप्रसङ्गः। श्वादिभक्षणे चादोषप्रसङ्रेन प्रायश्चित्तस्मृतिविरोध इति परिसंख्यैवाश्रिता। एतेन “सायं प्रातर्द्विजातीनामशनं श्रुतिनोदितम्” इत्यत्रापि नियमो व्याख्यातः “नान्तरा भोजनं कुर्यादिति” च पुनरुक्तं स्यात् परिसंख्यायाम्। एवं च “नियमे सकृत्सकृदृतावृता विति” वीप्सा लभ्यते “निमित्तावृत्तौ नैमित्तिकमप्यावर्त्तत” इति न्यायात्। “यदा कामी भवेदित्यपि” नियम एवानृतावपि स्त्रीकामनायां सत्यां स्त्रियमभिरमयेदेवेति”। “ऋता वुपेयात् सर्वत्र वा प्रतिषिद्धवर्जम्” इत्येतदपि गौतमीयं सूत्रद्वयं नियमपरमेव। ऋतावुपेयादेवानृतावपि स्त्रीकामनायां प्रतिषिद्धवर्जमुपेयादेवेत्यलमतिप्रसङ्गेनेति”। “अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः। सुखस्य नित्यं दातेह परलोके च योषितः” “तद्वृती रतिकाभ्यया” इति च मनुना अन्यकाले स्त्रीकामनया गमनस्योक्तेः “यथा कामी भवेद्वापि स्त्रीणां वरमनुस्मरन्” या० अन्यकाले स्त्रीगमनोक्तेश्च न परिसंख्यापरत्वम्। तासां स्त्रीणां वरश्च इन्द्रदत्तः। स च मिता० श्रुतौ दर्शितो यथा “ता अब्रुवन् वरं वृणीमहै ऋत्वियात् प्रजां विन्दामहै ऋत्वियो भर्त्तुः काममाविजनितोः सम्भवामेति तस्मादृग्वियाः स्त्रियः प्रजां विन्दते काममाविजनितोः सन्म वन्तीति वरं वृतं ह्यासाम्” इति तासां वरमुपवर्ण्य “भवतीनां कामविहन्ता पातकी स्यादिति” इन्द्रेण तासां वरोदत्तः। वृत्तासुरबधजन्यब्रह्महत्याया भागशःस्त्रीभिर्ग्रहणतोषितेन शक्रेण तासां वरदानम् भारतादौ वर्णितम्।

ऋतुग्रह = पु० ऋतूनां ग्रहः पात्रभेदग्रहणं यत्र। यागभेदे तत्परपाटी कात्या० ९, १२ अ० दर्शिता यथा “उपविष्टेऽच्छावाके” इत्युपक्रन्य। “ऋतुग्रहैश्चरतः” १ सृ०। “अच्छावाके सदः प्रविश्य स्वस्य धिष्ण्यस्य पश्चादुपविष्टे सत्यध्वर्य्युप्रतिपस्थातारौ ऋतुग्र हैश्चरतः। अत्रेडाभक्षणे पत्नीयजमानाभ्यामृत्विग्भिश्चाशने च कृते मार्ज्जनभागपरिहरणवाजिनयागप्रणीताविमोकराक्षसभागभागावेक्षणभागप्राशनानि कर्त्तव्यानि तत ॠतुग्रहप्रचारः। अथ “ऋतुग्रहप्रचारस्य विधिमुपदिशति” कर्कः। “द्रोणकलशादुपयामगृहीतोऽसि मधवे त्वेति द्वादशप्रतिमन्त्रम्” २ सू०। “ऋतुग्रहान् गृह्णीतः द्रोणकलशादिति नियमाथमुक्तम्। मन्त्रविभागमाह” कर्कः “अध्वर्य्योः पूर्वः” ३ सू०। पूर्वोमन्त्रः। षणां मन्त्रयुग्मानां पूर्वोमन्त्रोऽध्वर्योः स्यात्” कर्कः। “उत्तर उत्तरः प्रतिप्रस्थातुः” ४ सू०। “युगपत्प्रथमौ गृह्णीतः” ५ सू०। “उत्तमौ च” ६ सू०। “व्यत्यासम्” ७ सू० “मध्ये न युगपत् प्रचरणं च सर्वेषाम्” ८ सू०। “सर्वेषाम् द्वादशानामप्यृतुग्रहाणां प्रचरणं यांगानुष्ठानं चकारात् व्यात्यासं व्यात्यासेनैव पूर्ब्बमध्वर्य्योः ततः प्रतिप्रस्थातुः। पुनरध्वर्य्यो पुनःप्रतिप्रस्थातुरित्येवं सर्वेषामपि। स व्यत्यासः कथं कर्त्तव्य इत्यपेक्षायामाह। “निष्क्रामत्येकः प्रविशतीतरः” ९ सू०। “हविर्धानमध्यात् अपरोहविधानं प्रविशति” कर्कः। “उत्तरौत्तरः प्रतिप्रस्थाता परकालत्वात्” १० सू०। अत्र ग्रहणे प्रचरणे च देशतः कालतश्च प्रतिप्रस्थाता उत्तरो भवेत् कुतः अपरकालत्वात् प्रतिप्रस्थातृमन्त्राणां पश्चात्कालीनत्वात् परकालत्वादिति केचित् स एवार्थोऽस्मिन्नपि पाठे “उभयतोऽध्वर्य्युपात्रेण परिप्रगृह्णाति” ११ सू०। उभयत इति “स वै हविर्धानान्निष्क्रामन्तं हविर्धाने प्रविशन्तं चाध्वर्य्युं प्रतिप्रस्थाता पात्रेण परि गृह्णाति अव्यवायार्थं पात्रम ध्वर्योर्दक्षिणतोहरति स्वयमुत्तरतो यातीत्यर्थः मानवे “हुत्वा गृहीत्वा च प्रतिप्रस्थाता दक्षिणेनाध्वर्युमभिप्रयम्य पात्रं हरति नान्योऽन्यमभि प्रपद्येते शेषे पूर्वस्योत्तरमभि परिगृह्णीतः” इति काठके “प्रपद्यमानः प्रतिप्रस्थाता दक्षिणेनाध्वर्योः पात्रं हरेदुत्तर एव सञ्चरेदिति” कर्कः। “सर्वहुताः प्रागुत्तमाभ्याम्” १२ सू०। “उत्तमाभ्यामेकादशद्वादशाभ्यां प्राग्ये दश ऋतुग्रहाः ते सर्वहुताः कार्याः सकृदव सर्वं होतव्यम् अनुवषट्कारोऽपि न भवति” कर्कः। “ऋतुनेति षट् प्रेष्यतः” १३ सू०। “आद्येषु षट्सु ऋतुग्रहयागेषु ऋतुना प्रेष्येत्येव मैत्रावरुणं प्रेष्यतः” कर्कः। ‘ऋतुभिरिति चतुरः पात्रमुखे विपर्यस्य’ १४ सू०। “ततः पात्रमुखयोर्विपर्यासं कृत्वा सप्तमाष्टमनवमदशमेष्वृतुग्रहयागेषु ऋतुभिः प्रेष्येत्येवं प्रशास्तार प्रेष्यतः मानवे “ऋतुना प्रेष्येति षड्भिः प्रचरतो यतो हुतम्। ततः पात्रे गृहीत्वा ऋतुभिः प्रेष्येति चतुर्भिर्यथादितस्तथा गृहीत्वा ऋतुना प्रेष्येति द्वाभ्यामिति” अतश्च षण्णामग्रेण होमः। ततश्चतुर्णां पात्रमूलेन होमोऽग्रं हस्ते गृहीत्वा उत्तमयोः पुनरग्रेणैव ग्रहण मपि पात्रमुखयोर्विपर्यस्यैव कार्यम्” कर्कः। “षद्धदुत्तमौ” १५ सू० “उत्तमावेकादशद्वादशावृतुग्रहौ षद्धत् प्रचरतः तेन पात्रयोरग्रेण होमः ऋतुना प्रेप्येति चेत्येतद्वतिना गृह्यते क पुनर्मन्त्रार्थः ऋतुना इत्येवं रूपां तृतीयैकवचनान्तर्तुशब्दयुक्तां याज्यां प्रेष्येत्यर्थः ऋतुनेत्येतत्पद युक्तेन प्रैषेण वा एवमृतुभिः प्रेष्येन्यत्रापि” कर्कः। “य- जमानः प्रेषितो होतरेतद्यजेति ब्रूयात्” १६ सू०। “द्वादशे ऋतुग्रहे गृहपते। यजेत्येवं प्रशास्त्रा प्रेषितो यजमानः होतरेतद्यजेति एवं ब्रूयात् ततस्तां यजमानयाज्यां होता ब्रूयात्” कर्कः। “अध्वर्यू च” १७ सू० “एकादशे ऋतुग्रहे प्रशास्त्रा अध्वर्यू यजतमित्येवं प्रेषितावध्वर्यू होतरेतद्यजेति एवं ब्रूयाताम् ततश्च तद्याज्यामपि होतैव ब्रूयात्। शाखान्तरे तु विकल्पेन होतुः प्रेषणं खयं वा याज्यापठनमित्येवमुक्तमस्ति। मानवे “एकादशे प्रैषेऽध्यर्यू यजतमित्युक्ते तयोरन्यतरो मध्यमस्य परिधेः पश्चादुपविश्य ये यजामहेऽश्विनावध्वर्यू आध्वर्यवादृतुना सोमं पिबतां वौषडिति प्रैषेण यजेदथ चेदृचा। ये यजामहेऽश्विना पिबतं मधु दीद्यग्नी शुचि घ्रत ऋतुना यज्ञवाहसा वौषडित्यनवानं यजेति होतरेतद्यजेति वा न पेष्यत्युत्तमे प्रैषे यजमानस्ययाज्यानि प्रैषो वेति” काठके विशेषः “द्वारे हविर्धानस्योपविश्याध्वर्यूयजतमित्युक्तेऽश्विनावध्वर्यू यजतम् आध्वर्यवादृतुना सोनं पिवतमिति होतारं वा प्रेष्येद्धोतरेतद्यजेति यद्यध्वर्युर्वजेतोन्नेता ग्रहेण चरेदिति” कर्कः। “त्रयोदशं गृह्णीयादिच्छन्नुपयामगृहीतोऽस्यंहसस्पतये त्वेति” १८ सू०। शत० ब्रा० ४, ३, १, ३, द्वादशादिग्रहग्रहणे हेतुर्दर्शितो यथा “सन्नेऽच्छावाके। ऋतुग्रहैश्चरति तद्यत् सन्नेऽच्छावाक ऋतुग्रहैश्चरति मिथुनं वा अच्छावाक ऐन्द्राग्नोह्यच्छावाको द्वौ हीन्द्राग्नी द्वन्द्वं हि मिथुनं प्रजननं स एतस्मान्मिथुनात् प्रजननादृतूत् संवत्सरं प्रजनयति यद्धेव सन्नेऽच्छावाके ऋतुग्रहैश्चरति सर्वं वा ऋतवः संवत्सरः सर्वमेवैतत् प्रजनयति तस्मात् सन्नेऽच्छावाक ऋतुग्रहैश्चरति तान्वै द्वादश गृह्णीयात्। द्वादश वै मासाः संवत्सरस्य तस्माद्द्वादश मासा इति द्वादश त्वेव गृह्णीया देषैव सम्पत्। द्रोणकलशाद् गृह्णीयात् प्रजापतिर्वै द्रोणकलशः स एतस्मात् प्रजापतेरृतूत् संवत्सरं प्रजनयति उभयतोमुखाभ्यां पात्राभ्यां गृह्णाति। कुतस्तयोरन्तोये उभयतोमुखे तस्मादयमनन्तः संवत्सरः परिप्लवते तं गृहात्वा न सादयति तस्मादयमसन्नः संवत्सरः नानुवाक्यमन्वाह। ह्वयति वाऽनुवाक्यया गतोह्येवायमृतुर्यदि दिवा यदि नक्तं नानुवषट्करोति नेदृतूनपवृणजा इति सहैव प्रथमौ ग्रहौ गृह्णीतः सहोत्तमाविदमेवैतत् सर्वं संवत्सरेण परिगृह्णीतस्तदिदं सर्वं संवत्सरेण परिगृहीतम्। निरेवान्यतरः क्रामति प्रान्यतरः पद्यते तस्मा- दिमेऽन्वञ्चोमासा यन्त्यथ यदुभौ वा सह निष्क्रामेतामुभौ षा सह प्रपद्येयातां पृथगुहैवेममासा ईयुस्तस्मान्निरेवान्यतरः क्रामति प्रान्यतरः पद्यते। तौ वा ऋतुनेति षट् प्रचरतः। तद्देवाऽहरसृजन्तर्त्तुभिरिति चतुस्तद्रात्रिमसृजन्त स यद्धैतावदेवाभविष्यद्रात्रिर्हैवाभविष्यन्न व्ययवत्स्यत् तौ वा ऋतुनेत्युपरिष्टाद्द्विश्चरतः। तद्देवाः पर स्तादहरददुस्तस्मादिदमद्याहरथ श्वोऽहर्भविता। ऋतुनेति वै देवाः मनुष्यानसृजन्तऽर्त्तुभिरिति पशून्त्स यत् तन्मध्ये येन पशूनसृजन्त तस्मादिमे पशव उभयतः परिगृहीतावशमुपेता मनुष्याणाम्। तौ वा ऋतुनेति षट् प्रचर्य्य इतरथा पात्रे विपर्य्यस्येते ऋतुभिरिति चतुश्चरित्वेतरथा पात्रे विपर्य्यस्येते अन्यतरत एव तद्देवा अहरसृजन्तान्यतरतोरात्रिमन्यतरतएव तद्देवामनुष्यानसृजन्तान्यतरतः पशून्। अथातोगृह्णात्येव उपयामगृतीतोऽसि मधवे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि माधवाय त्वेति प्रतिप्रस्थातैतावेव वासन्तिकौ स यद्वसन्त ओषधयो जायन्ते वनस्पतयः पव्यन्ते तेनोहैतौ मधुश्च नाधवश्च। उपयामगृहीतोऽसि शुक्राय त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि शुचये त्वेति प्रतिप्रस्थातैतावेव ग्रैष्मौ स यदेतयोर्बलिष्ठं तपति तेन हैतौ शुक्रश्च शुचिश्च। उपयामगृहीतोऽसि न भसे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि नमस्यायत्वेति प्रतिप्रस्थातैतावेव वार्षिकावमुतो वै दिवोवर्षति तेनोहैतौ नभश्च नभस्यश्च। उपयामगृहीतोऽसि इषे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽस्यूर्जे त्वेति प्रतिप्रस्थातैतावेव शारदौ स यच्छरद्यूर्ग्रस ओषधयः पच्यन्ते तेनोहैताविषश्चोर्जश्च। उपयामगृहीतोऽसि सहसे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि सहस्याय त्वेति प्रतिप्रस्थातैतावेव हैमन्तिकौ स यद्धेमन्त इमाः प्रजाः सहसेव स्वं वशमुपनयते तेनोहैतौ सहश्च सहस्यश्च। उपयामगृहीतोऽसि तपसे त्वेत्येवाध्वर्य्युर्गृह्णात्युपयामगृहीतोऽसि तपस्याय त्वेति प्रतिप्रस्थातैतावेव शैशिरौ स यदेतयोर्वलिष्ठंश्यायति तेनोहैतौ तपश्च तपस्यश्च। उपयामगृहीतोऽसि अंहसस्पतये त्वेति त्रयोदशं ग्रहं गृह्णाति यदि त्रयोदशं गृह्णीयादथ प्रतिप्रस्थाताध्वर्य्योः पात्रे संस्रवमवन यत्यध्यर्युर्वा प्रतिप्रस्थातुः पात्रे संस्रमवनयत्याहरति भक्षम्। अथ प्रतिप्रस्थाता भक्षितेन पात्रेण ऐन्द्राग्नं ग्रहं गृह्णाति तद्यदभक्षितेन पात्रे- णैन्द्राग्नं ग्रहं गृह्णाति न वा ऋतुग्रहाणामनु वषट्कुर्व्वन्त्येतेभ्यो वा ऐन्द्राग्नं ग्रहं ग्रहीप्यन् भवति तदास्यैन्द्राग्नेनैवानुवषट्कृता भवन्ति यद्धैवैन्द्राग्नं ग्रहं गृह्णाति सर्वं वा इदं प्राजीजनद्य ऋतुग्र हानग्रहीत्स इदं सर्वं प्रजनय्येदमेवैतत् सर्वं प्राणोदानयोः प्रतिष्ठापयति तदिदं सर्वं प्राणोदानयोः प्रतिष्ठितमिन्द्राग्नी हि प्राणोदानाविमे हि द्यावापृथवी प्राणोदानावनयोर्हीदं सर्वं प्रतिष्ठितम्। यद्धेवैन्द्राग्नं ग्रहं गृह्णाति। सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स इदं सर्वं प्रजनय्यास्मिन्नेवैतत् सर्व्वस्मिन् प्राणोदानौ दधाति ताविमावस्मिन् त्सर्व्वस्मिन् प्राणोदानौ हितौ। अथातो गृह्णात्येव। इन्द्राग्नी आगतं सुतं गीर्भिर्न्नभोवरेण्यम्। अस्य पातं धियेषिता। उपयामगृहीतोऽसीन्द्राग्निभ्यां त्वैष ते यो निरिन्द्राग्निभ्यां त्वेति सादयतीन्द्राग्निभ्यां ह्येनं गृह्णाति। अथ वैश्वदेवग्रहं गृह्णाति। सर्वं वा इदं प्राजीजनद्य ऋतुग्रहानग्रहीत्स यद्ध्वैतावदेवा भविष्यन्न प्राजनिष्यन्त। अथ यद्वैश्वदेवं ग्रहं गृह्णाति। इदमेवैतत् सर्व्वमिमाः प्रजा यथायथं व्यवसृजति तस्मादिमाः प्रजाः पुनरभ्यावर्त्तं प्रजायन्ते शुक्रपात्रेण गृह्णात्येष वै शुक्रो य एष तपति तस्य ये रश्मयस्ते विश्वे देवास्तस्माच्छुक्रपात्रेण गृह्णाति। अथातोगृह्णात्येव औ मासश्चर्षणीर्धृतो विश्वे देवास आगत। दाश्वासौ दाशुषः सुतम् उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्य एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति विश्वेभ्यो ह्येनं देवेभ्यो गृह्णाति”।

ऋतुथा = अव्य० वीप्सार्थे बा० थाल्। काले काले इत्याद्यर्थे “ऋतवस्त ऋतुथा पर्व शमितारो विशासतु” यजु० २३, ४०, “ऋतुथा ऋतौ ऋतौ काले काले” वेददी०। “या ते गात्राणामृतुथा कृणोमि” ऋ० १, १६२, १९।

ऋतुपति = पु० ६ त०। वसन्तकाले तस्य सर्वर्तुषु प्रथमत्वात् “ऋतूनां कुसुमाकरः” गीतायां भगवद्विभूतित्वेनोक्तेश्च तथात्वम्। ऋतुनाथादयोऽप्यत्र।

ऋतुपर्य्यय = पु० ६ त०। ऋतूनां परिपाट्या गमने। “स्वयमेवर्तुपर्य्यये” मनुः।

ऋतुपा = पु० ऋतून् पाति निर्वाहकतया, ऋतुषु सोमं पिबति ऋतुभिर्मरुद्भिः सह सोमं पिबतीति वा पा–पालने पापाने वा क्विप्। वर्षपालके तथाभूतसोमपातरि च १ इन्द्रे “उत ऋतुभिरृतुपाः पाहि सोममिन्द्र!” ऋ० ३, ४७, ३ २ ऋतुयाजदेवे च। “सजोपा इन्द्र! वरुणेन सोमम् सजोगाः पाहि गिर्वणोमरुद्भिः। अग्रेपाभिरृतुपाभिः सजोषाः” ऋ० ४, ३४, ७। “ऋतुपाभिः ऋतुयाजदेवैः” भा०

ऋतुपात्र = न० ऋतूनुद्दिश्य पात्रम्। आश्वत्थे श्रीपर्णीवृक्ष भवे वा यज्ञिये ग्रहरूपे पात्रभेदे तदाकारश्च “ऋतुपात्रे पूर्व्वे स्रुकपुष्कराकृती उभयतोमुखे काष्मर्यमये आश्वत्थे वा” कात्या० ९, २, १३ उक्तः। “पूर्वे आग्रयणस्थाल्याः पूर्व्वे द्वे ऋतुग्रहपात्रे योजनीये स्रुक्पुष्करस्येवाकारोय योस्ते अग्रे मूले च मुखं ययोस्ते द्विमुखे इत्यर्थः। काष्मर्य्यमये श्रीपर्ण्णीवृक्षविकारौ आश्वत्थे वा पिप्पलवृक्षकाष्ठनिर्म्मिते वा” कर्कः। “तद्यन्मरुत्वतीयान् गृह्णातीत्युपक्रम्य। “तस्मादाश्वत्थे ऋतुपात्रे स्यातां कार्ष्मय्यमये त्वेव भवतः” शत० ४, २, २, ४।

ऋतुप्राप्त = त्रि० ऋतुस्तद्योग्यः पुष्पादिः प्राप्तोऽनेन बिष्ठान्तस्यपरनि०। फलेग्रहौ अवन्ध्यवृक्षे।

ऋतुबल = पु० ऋतौ ऋतुभेदे बलं यस्य। शिशिरादिषु बलयुक्तरव्यादिग्रहेषु ते च यथा। “शणिशुक्रकुजेन्दुज्ञगुरवः शिशिरादिषु। भवन्ति कालवलिनो ग्रोष्मेसूर्यस्तथैव च” ज्यो०।

ऋतुमत् = त्रि० ऋतुस्तत्कालयोग्यप्रशस्तपुष्पफलादिर्भोभ्यतयाऽस्त्यस्य ऋतु + प्राशस्त्ये मनुप्। १ प्रशस्तर्तुफलपुष्पभोक्तरि। “कल्पन्ते हास्मा ऋतव ऋतुमान् भवति यएवंविद्वानृतुषु पञ्चविधं सामोपास्ते” छा० उ०। “आर्त्तवै र्भोगैश्च सम्पन्नो भवति” भा०। ऋतुकाले २ यजनीयपितृभेदे पु०। “अग्निष्वात्तानृतुमतोहवामहे” यजु० १९, ६१। ऋतुः स्त्रीरजःकालः प्राप्तत्वेनास्त्यस्याः मतुप् स्त्रियां ङीप्। ३ आर्त्तववत्यां स्त्रीधर्म्मिण्यां स्त्रियाम् “काममामरणात् तिष्ठेत् गृहे कन्यर्त्तुमत्यपि” मनुः। “तत्र प्रथमदिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति” सुश्रु०। “उपाध्यायानी ते ऋतुमती उपाध्यायश्च प्रोषितोऽस्या यथायभृतुर्बन्ध्यो न भवति तथा क्रियताम्” भा० आ० ३ अ०। ऋतुमत्या धर्म्मश्च आर्त्तवशब्दे उक्तः। विशेषस्त्वयम् “स्त्रीधर्म्मिणी त्रिरात्रन्तु स्वं मुखं नैव दर्शयेत्। स्ववाक्यं श्रावयेन्नापि यावत् स्नाता न शुद्धितः। सुस्नाता भर्त्तृवदनमीक्षतेऽन्यस्य न क्वचित्। अथ वा मनसि ध्यात्वा पतिं भानुं विलोकयेत्” काशीख०।

ऋतुमयी = त्रि० ऋतुप्रचुरा चितिः ऋतुः + प्राचुर्य्येमयट् ङीप्। ऋतुप्रधाने चितिभेदे तदुपधानप्रकारः शत० ब्रा० ८, ५, २, १० उक्तः यथा “अथ उत्तरतः ग्रीष्मस्तासां प्रथमा, वर्षा द्वितीया, हेमन्तस्ततीया, हेमन्तश्चतुर्थी, वर्षाः पञ्चमी ग्रीष्मः षष्ठी, ग्रीष्मः सप्तमी, वर्षा अष्टमी, हेमन्तो नवमी, यजमान एवात्र दशमी सएष यजमान एतस्यां विराज्यधिरूढः प्रतिष्ठितः ऋतुमय्यामर्व्वाचीश्च पराचीश्चोपदधाति”

ऋतुमुख = न० ६ त०। गौणचान्द्रमासप्रथमदिने प्रतिपद्रूपे तिथिभेदे। “चातुमुर्मास्येषु चर्तुमुखश्रुतेः” कात्या० १, २, १३। “चातुर्मास्येषु च न याथाकाम्यम् कुतः ऋतुमुखश्रुतेः “ऋतुमुख ऋतुमुखे चातुर्मास्यैर्यजेतेति” वीप्साश्रवणात् ऋतोर्मुखं प्रथमदिनं प्रतिपत् तत्रेत्यर्थः। अत एव वैश्वदेववरुणप्रघासादीनि चातुर्मास्यपर्वाणि प्रतिपद्येव क्रियन्ते न पौर्णमास्यामित्यवसीयते यतः प्रतिपदेव चर्तुमुखं न पौर्णमासीति तथा च श्रूयते” “एषा ह संवत्सरस्य प्रथमा रात्रिर्यत् फाल्गुनी पौर्णमासी योत्तरैषोत्तमा या पूर्वा मुखतएव तत् संवत्सरमारभते” शत० ब्रा० ६, २, १, १७, कर्कः। “द्वेह वै पौर्णमास्यौ द्वे अमावस्ये” इति श्रुतेः योत्तरा पौर्णमासी कृष्णप्रतिपदित्यर्थः। तथा च पौर्णमास्यां दीक्षा प्रतिपदि पौर्णमास्येष्टिसमापनम् ऋतुसन्धिशब्दे विवृतिः। एतच्च पौर्णमासेष्टिविषयम् अमावास्येष्टौ दर्शएव दीक्षा शत० ब्रा० ६, २, २, ३०, २६, “अमावास्यायां दीक्षते” इत्युपक्रम्य “या प्रथयामावास्या तस्यां दीक्षित एतद्वै संवत्सरस्य प्रथमान्यहानि तान्यस्य तदारभते” ३० इत्युक्तेः।

ऋतुराज = पु० ऋतूनां राजा ६ त० टच् समा०। वसन्ते ऋतौ

ऋतुलिङ्ग = न० ६ त०। वसन्तादिषु जायमाने चूतमञ्जर्य्यादिरूपे तल्लिङ्गे “यथर्त्तुलिङ्गान्यृतवः स्वयमेवर्त्तुपर्य्यये” मनुः। तल्लिङ्गानि च ऋतुशब्दे दर्शितसुश्रुतवाक्यादवगम्यानि।

ऋतुवृत्ति = पु० ऋतूनां वृत्तिः पर्य्यायेणावर्त्तना यत्र। १ वत्सरे त्रिका०। ६ त०। २ऋतुधर्म्मे स्त्री।

ऋतुशस् = अव्य० कारकार्थे ऋतु + शस्। ऋतौ ऋतौ इत्याद्यर्थे “यद्धविष्यमृतुशोदेवयानम्” ऋ० १, १६२, ४। “ऋतुशः ऋतावृतौ काले काले” भा० “कति होतार ऋतुशो यजन्ति” यजु० २३, ५७। ऋतुशः काले काले” वेददी०।

ऋतुष्ठा(स्था) = त्रि० ऋतौ तिष्ठति स्या–क्विप् वेदे षत्वं लोके तु न। वसन्तादिषु स्थायिनि। “ऋतवःस्थ ऋतावृधः ऋतुष्ठाः स्थ ऋतावृधः” यजु० १७, ३,।

ऋतुसंहार = पु० ऋतूनां संहार, समूहीवर्ण्यत्वेन यत्र। कालिदासप्रणीते काव्यभेदे।

ऋतुसन्धि = पु० ऋत्वोः सन्धिः। दर्शान्तमुख्यचान्द्रमासपक्षे १ दर्शे, पौर्णमासान्तगौणचान्द्रमासपक्षे २ पौर्ण्णमास्याम्। ऋतोर्मासघटितत्वात् भासस्य च पर्व्वसन्धियुक्तत्वेन पर्वसन्धिरेव ॠतुसन्धिः अतः प्रसङ्गात् पर्व्वसन्धिर्निरूप्यते स च कालमा० उक्तः यथा “कुहूव्यतिरिक्तानां लघ्वक्षरीच्चारणपरिमितः कालः सन्धिरित्युच्यते कुहूस्त्वक्षरद्वयपरिमितः कालः तदेतदुक्तं भगवतीपुराणे “अनुमत्याश्च राकायाः सिनीवाल्याः कुहूं विना। एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृतेति” तत्र लवस्वरूपं स्मृत्यन्तरे दर्शितम् “लघ्वक्षरचतुर्भागस्त्रुटिरित्यभिधीयते। त्रुटिद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयमिति” एवं च सति त्रुटिशब्दाभिधेयानां भागानां चतुष्टयं लवद्वयरूपं लघ्वक्षरसमं भवति तस्मिन् लघ्वक्षरपरिमिते काले एकः पर्वणोभागः, द्वितीयः प्रतिपदः, तदुभयं मिलित्वा सन्धिर्भवति कुहूप्रतिपदोः सन्धिस्तु पूर्वस्मात् द्विगुणः अक्षरद्वयपरिमितत्वात् मत्स्य ब्रह्माण्डपुराण्णयोः “राकाचानुमतिश्चैव सिनीवाली कुहूस्तथा। एतासां द्विलवः कालः कुहूमात्रा कुहूस्तथा। कुह्वितिकोकिलेनोक्ते यावान् कालः समाप्यते। तत्कालसंमिता चैषा अमावस्या कुहूः स्मृता। इत्येष पर्वसन्धीनां कालोयोद्विविधः स्मृत” इति।

एवं सन्धौ निरूपिते सति योऽयं प्रक्रान्तोविचारस्तत्र सन्धिरेवेष्टिकाल इति तावत् प्राप्तम् “सन्धौ यजेतेति” श्रुतेः मैवं सूक्ष्मत्वात्तत्र यागानुष्ठानानुपपत्तेःका तर्हि श्रुतेर्गतिः पार्श्वद्वयलक्षणेति ब्रूमः यथा गङ्गायां घोप इत्यत्र गङ्गाशब्दः प्रवाहेऽनुपपन्नस्तत्समीपं तीरं लक्षयति तथा सन्धिशब्दोऽपि पार्श्वद्वयं लक्षयतु। अतएव श्रुत्यन्तरं “सन्धिमभितो यजेतेति” वौधायनोऽपि “सूक्ष्मत्वात् सन्धिकालस्य सन्धेर्विषय उच्यते। सामीप्यं विषयं प्राहुः पूर्वेणाप्यपरेण चेति” अत्र पूर्वापरशब्दाभ्यां सन्धेः प्राचीनं प्रतिपद्दिनं चाभिधीयते। तत्र पूर्ब्बस्मिन्पर्वदिने प्रयोगप्रारम्भः नोत्तरस्मिन्, प्रतिपद्दिने यागसमाप्तिः अन्वाधानमिध्मावर्हिःसम्पादनमग्निपरिग्रहणमुपस्तरणं चेत्येवमादि प्रयोगप्रारम्भः स पूर्वेदुरिनुष्ठेयः तथा च तैत्तिरीय ब्राह्मणे श्रूयते “पूर्ब्बेद्युरिध्मावर्हिः करोति यज्ञमेवारम्य गृहीत्वोपवसतीति” शतपथब्राह्मणेऽपि “पूर्वेद्युरग्निं गृह्णाति उत्तरमहर्यजतीति” तत्र ग्रहणं नामाध्वर्युणा आह वभीयगार्हपत्यदक्षिणाग्निषु “ममाग्रे वर्च” इत्यादिभिरृग्निः समिदाधानलक्षणे अन्वाधाने क्रियमाणे पार्श्ववर्त्तिना यजमानेनाग्रिं गृह्णामीत्यादीनां मन्त्राणां पठनं तदिदं पर्वदिने क्रियते। प्रतिपद्दिने तु “कर्मणे वां देवेभ्य” इ- त्यादिभिरध्वर्युर्हस्तप्रक्षालनतण्डुलनिर्वापपुरोडाशप्रदानादि लक्षणप्रयोगं करोति तदिदं यजनम्। एतदेवाभिप्रेत्य गोभिल आह “पक्षान्ता उपवस्तव्याः पक्षादयोऽपि यष्टव्याः” इति अत्रोपवासशब्देनाग्न्युपस्तरणीदिर्विवक्षितः तस्मिन् क्रियमाणे यजमानसमीपे देवतानां निवासात् तदेतत्तैत्तिरीयब्राह्मणे दर्शितम् “उपास्मिन् श्वो यक्ष्यमाणे देवताः मन्ति य एवंविद्वानग्निमुपस्तृणातीति” उपवासशब्दाभिधेयस्य पर्वदिने कर्त्तव्यस्यान्वाधानादेः पर्ब्धणि चतुरं शवति आद्यास्त्रयोऽंशाविहितः कालः न तु चतुर्थोऽंशः यागशब्दाभिधेयस्य पुरोडाशप्रदानादेः पूर्वोक्तः पर्वचतुर्थोऽंशः प्रतिपदंशास्त्रयश्च विहितः कालः न तु प्रतिपदश्चतुर्योऽंशः। तदेतदाह लौगाक्षिः “त्रीनंशानौपवस्तस्य यागस्य चतुरोविदुः। द्वावंशावुत्सृजेदन्त्यौ यागे च व्रतकर्मणीति” तमेतं यचकालं यज्ञपार्श्वोऽप्याह “पञ्चदश्याः परः पादः पक्षादेः प्रथमास्त्रयः। कालः पार्वणवागे स्यादथान्त्ये तु न विद्यत इति” वृद्वशातातपोऽपि “पर्वणोयश्चतुर्थोऽंश आद्याः प्रतिपदस्त्रयः। यागकालः स विज्ञेयः प्रातरुक्तोमनीषिभिरिति” अत्र प्रातरिति विशेषणात् सूर्योदयस्योपरि मुहूर्त्तत्रयं यागकाल इत्युक्तं भवति प्रतिपदश्चर्घांशं निषेधति कात्यायनः “न यष्टव्यं चतुर्थेऽंशे यागैः प्रतिपदः क्वचित्। रक्षांसि तद्विलुम्पन्ति श्रुतिरेषा सनातनीति” तदेवं पर्वण्यन्वाधानादिकं प्रतिपदि चेष्टिरिति सन्धिपार्श्वयोरुभयोः प्रारम्भपरिसमाप्ती व्यवस्थिते। यदा पर्वप्रतिपदावुदयमारभ्य सम्पूर्णतिथी भवतः तदा न सन्देहः यदा तु खण्डतिथी तदा निर्णयोऽमिधीयते तत्र गोभिलः “आवर्त्तने यदा सन्धिः पर्वप्रतिपदोर्भवेत्। तदहर्याग इष्येत परतश्चेत् परेऽहनि। पर्वप्रतिपदोः सन्धिरर्वागावर्त्तनाद् यदि। तस्मिन्नहनि यष्टव्यं पूर्वेद्युस्तदुपक्रमः। आवर्त्तनात् परः सन्धिर्यदि तस्मिन्नुपक्रमः। परेद्युरिष्टिरित्येष पर्वद्वयविनिश्चयः” इति आवर्त्तनमह्नोमध्यभागः। सौगाक्षिरपि “पूर्वाह्णे वाऽथ मध्याह्ने यदि पर्व समाप्यते। उपोष्य तत्र पूर्वेद्युस्तदहर्याग इष्यते। अपराह्णेऽथवा रात्रौ यदि पर्व समाप्यते। उपोष्य तस्मिव्रहनि श्वो भूते याग इष्यत” इति एषु वचनेषु मध्याह्नादिशब्दायौगिकाः न तु पञ्चधा विभागभाश्रित्य प्रवृत्तास्तथा सत्यह्नोमध्योमध्याह्न इति व्युत्पपत्तेरावर्त्तनं मध्याह्नशब्देनाभिधीयते अतएव गोभिलेनावर्त्तनशब्दः प्रयुक्तः शातातपेनापि नध्यमशब्दः प्रयुक्तः “पूर्वाह्णे मध्यमे वापि यदि पर्व ससाप्यते। तदोपवासः पूर्वेद्युस्तदहर्याग इष्यते” इति अह्नोऽपरोमागोऽपराह्णः अतस्ताभ्यां शब्दाभ्यामावर्त्तनात् पूर्वोत्तरभागावभिधीयेते। वाजसनेयिनान्तु विशेषमाह भाष्यार्थसंग्रहकारः “मध्यंदिनात् स्यादहनीह यस्मिन् प्राक् पर्वणः सन्धिरियं तृतीया। सा खर्विका वाजसनेयिमत्या तस्यामुपोष्याथ परेद्युरिष्टिरिति” आवर्त्तनादूर्द्ध्वमस्तमयादर्वाक् यदा सन्धिर्भवति तदाहःसन्धिमती तिथिः प्रथमा, रात्रौ सन्धिश्चेत् सा तिथिर्द्वितीया उभे अपेक्ष्य पूर्वाह्णे सन्धिमती पर्वतिथिस्तृतीया भवति तस्यां तृतोयतिथौ पर्वकालस्याल्पत्वात् साखर्विकेत्युच्यते। शाखान्तराध्यायिनामीदृशे विषये पूर्वेद्युरन्वाधानादिकं सन्धितिथाविष्टिर्वाजसनेयिनान्तूत्तरतिथाविष्टिः एवं सति वाजसनेयिनां न क्वापि सन्धिदिनात्पूर्वेद्युरन्वाधानादिकमस्ति सोऽयं विशेषः आवर्त्तने ततः पुरा वा यदा सन्धिर्भवति तदा वाजसनेयि व्यतिरिक्तानां पर्वचतुर्थांशे इष्टिः प्राप्नोति तत्र विशेषमाह गार्ग्यः “प्रतिपद्यप्रविष्टायां यदि वेष्टिः समाप्यते। पुनः प्रणीय कृत्स्नेष्टिः कर्त्तव्या यागवित्तमैरिति” पर्वणश्चतुर्थांशः प्रतिपदस्त्रयोऽंशाश्च यागकालत्वेन विहिताः। अत्र पर्वचतुर्थांशस्य विषय उदाहृतः प्रतिपदंशानां विषय उदाह्रियते। उषःकाले सन्धौ प्रतिपदः प्रथमांशोयागकालः निशीथे सन्धौ द्वितीयांशः रात्रिप्रारम्भे सन्धौ तृतीयांशः नन्वनेन न्यायेनापाराह्णे सन्धौ प्रतिपच्चतुर्थांशस्य यागकालत्वं प्राप्नोति तच्च प्रतिषिद्धं “न यष्टव्यं चतुर्थेऽंशे” इति स्मृतेः अतस्तादृशे विषये याग एव लुप्येतेति चेत् मैवं वृद्धशातातपेन प्रतिप्रसवाभिधानात् “सन्धिर्यद्यपराह्णे स्याद्यागं प्रातःपरेऽहनि। कुर्वाणः प्रतिपद्नागे चतुर्थेऽपि न दुष्यतीति” एवं तहि प्रतिषेधो निर्विषयः स्यादिति चेन्मैवं सद्यस्कालविषये चरितार्थत्वात् त च विषयं दर्शयति कात्यायनः “सन्धिश्चेत् सङ्गवादूर्द्ध्वं प्राक्चेदावर्त्तनाद्रवेः। सा पौर्णामासी विज्ञेया सद्यस्कालविधौ तिथिरिति” भाष्यार्थसंग्रहकारोऽपि “अन्वाहितिश्चास्तरणोपवासः पूर्वेद्युरेते खलु पौर्णमास्याम्। आवर्त्तमात् प्राग्यदि पर्वसन्धिस्तदैव यागः क्रियते समस्तः” इति। आपस्तम्बोऽपि “पौर्णमाम्यामन्वाधानपरिस्तरणोपवासाः सद्यो वा सद्यस्कालायां सर्वं क्रियते” इति सङ्गवावर्त्तमयोर्म्मध्ये पौर्णमासीप्रतिपदोः सन्धौ सति पूर्वोदाहृतैर्वचनैः सन्धिदिनात् पूर्वेद्युरन्वाधानादिक प्राप्तं तच्च सद्यस्कालवाक्यैः सन्धिदिन उत्कृष्यते। नन्वीदृशे विषये सन्धिदिनात् परदिने याग उत्कृष्यतां तथा सत्थपराह्णादिसन्धिष्विवान्वाधानयागयोर्दिनभेदो भविष्यति। अस्ति च दृष्टान्तः वाजसनेयिनामीदृशे विषये, अन्वाधानोत्कर्षे सति यागस्याप्युत्कृष्टत्वात् मैवम् अन्वयव्यतिरेकरूपाभ्यां विधिनिषेधाभ्यामस्याः शङ्कायानिवारितत्वात् तत्र सद्यस्कालविधयोऽन्वयरूपाः, प्रतिपच्चतुर्थांशे प्रतिषेधाश्च व्यतिरेकरूपाः एवं च सति प्रतिषेधवाक्यं सावकाशं भवति। अमावास्यायां विशेषमाह वृद्धशातातपः “द्वितीया त्रिमुहूर्त्ताचेत् प्रतिपद्यापराह्णिकी। अग्न्याधानं चतुर्दश्यां परतः सोमदर्शनादिति” सोऽयं विशेषोनाश्वलायनापस्तम्बविषयः किन्तु बौधायनमतानुयायिविषयः अतएव बौधायनः “द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णीकी। अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात्। चतुर्दशी चतुर्यामा अमावास्या न दृश्यते। श्वोभूते प्रतिपच्चेत् स्यात् पूर्वां तत्रैव कारयेत्। चतुर्दशी च संपूर्णा द्वितीया क्षयगामिणी। प्रातरिष्टिरमायां स्याद्भूते कव्यादिका क्रियेति” एतेषां वचनानामयमर्थः अह्नि चतुर्दशी संपूर्णा अस्तमयादर्वागमावास्या स्वल्पा तत एवापराह्णव्याप्त्यभावाच्छाद्धायान्वाधानाय वा पूर्वोक्तरीत्या यद्यपि निमित्तभावं न भजते तथापि प्रतिपदि द्वितीयायं सत्यां चन्द्रस्य दृश्यमानत्वात्तददर्शने चेष्टेर्निषिद्धत्वात् प्रतिपद्युतायाममावास्यायामिष्टिः स्वल्पामावास्योपेतायां चतुर्दश्यां श्राद्धाग्न्याधानादिकं कर्त्तव्यमिति। एतदेवाभिप्रेत्य स्मृत्यन्तरे “आदित्येऽस्तमिते चन्द्रः प्रतीच्यामुदियात् यदा। प्रतिपद्यतिपत्तिः स्यात् पञ्चदश्यां यजेत्तदेति” वृद्धवसिष्ठोऽपि “ऐन्द्रे निरुप्तेपयसि पुरस्तादुदिते विधौ। यद्वैगुण्यं हुतं तस्मिन् पश्चादपि हि तद्भवेदिति” अस्यायमर्थः यदा सपूर्णचतुर्दश्यामविचारेणामावास्याबुद्धिं कृत्वा अग्न्याधानादिकं कृत्वा हविर्निर्वापि कृते तस्मिन् उषःकाले पूर्वस्यां दिशि चन्द्रमा उदेति। तदा न दशकर्म भवितुमर्हति दर्शकालस्याप्राप्तत्वात् किन्तु कालापराधं निमित्तीकृत्य दर्शदेवता अपनीय दात्रादिगुणविशिष्टाग्न्यादिदेवतान्तराण्युद्दिश्य हविः प्रक्षेपो विहितः तदेतत् तेत्तिरीयब्राह्मणे श्रूथते “यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलानं विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्य्यात् ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम् ये क्षोदिष्ठास्तान् विष्णवे, शिपिविष्टाय शृते चरुमिति” सोऽयं दृष्टान्तोह- विषि निरुप्ते सति तदूर्द्ध्वं पूव्वस्यां दिशीन्दावुदिते सति दर्शकर्मविधेर्यद्वैगुण्यमुक्तरीत्यावस्थितं तदेव वौपुण्यं होमदिने पश्चिमदिशि चन्द्रोदये भवतीति। एतदेव बोधायनमतमुपोद्बलयति श्रुतिः “यस्मिन्नहनि पुरस्तात्पश्चात् सोमोन दृश्यते तदहर्यजेतेति” अयमर्थः सिनीबाल्यां पुरस्ताच्चन्द्रदर्शनं भवति द्वितीयायुक्तायां प्रतिपदि पश्चाच्चन्द्रो दृश्यते तयोरुभयोर्मध्यवर्त्तिन्यां कुह्वां द्विविधमपि चन्द्रदर्शनं नास्ति अतस्तस्मिन् दिने यष्टव्यमिति चन्द्रदर्शनोपेतायां शुक्लप्रतिपदि यागानुष्ठाने प्रायश्चित्तमाह कात्ययनः “यजनीयेऽह्निसोमश्चेद्वारुण्यां दिशि दृश्यते। तत्र व्याहृतिभिर्हुत्वा दण्डं दद्याद्द्विजातये” इति चन्द्रदर्शनराहित्यमेवाभिप्रेत्य बौधायनकारिकासु पठ्यते “इष्टेरलं प्रातिपदादि नाड्यः सप्ताष्ट वा यत्र भवन्ति तत् स्यात्। क्षीणासु नाडीषु दिनस्य पूर्वः कल्पोऽथ वृद्धौ च भवेद्द्वितीयः” इति अयमर्थः अमावास्यातिथेः सम्बन्धिनीषु नाडीषु क्षीणासु सतीषु तस्मिन् दिने अस्तमयात् पूर्वं प्रतिपत्सम्बन्धिन्यो नाद्ध्यः सप्ताष्ट वा यदि भवन्ति तदा तद्दिनमिष्टेरलं योग्यं सोऽयमेकः पक्षः। अमावास्याप्रतिपदौ यदा वर्द्धेते तदा द्वितीयः कल्पो भवेत्। अमायामग्निमाधाय सोमदर्शनरहिते प्रतिपद्दिने यागः कर्त्तव्य इति। स्मृत्यन्तरेऽपि “अर्वागस्तमयात् यत्र द्वितीया तु प्रदृश्यते। तत्र यागं न कुर्व्वीत स्युर्देवास्तु पराङ्मुखाः” इति बौधायनमतानुसारिणामग्न्याधानवद्दर्शश्राद्धमपि स्वल्पामावास्योपेतायां चतुर्दश्यां कर्त्तव्यं तथा च बौधायनेनोक्तम् “यदा चतुर्दशी यामन्तुरीयमनुपूरयेत्। अमावास्या क्षीयमाणा तदैव श्राद्धमाचरेत्। चतुर्दश्यां चतुर्यामे अमा यत्र न दृश्यते। श्वोमूते प्रतिपद्यत्र भूते कव्यादिका क्रियेति” चतुर्ये यामे अमावास्या सम्पूर्णा न दृश्यते किन्त्ववसाने स्वल्पा सा चेत् परदिने क्षीयते तदानीं चतुर्दश्यां श्राद्धमाचरेत्। ननु चन्द्रदर्शनोपेतायां प्रतिपदीष्टिः समाम्नाता तथा च शतपथब्राह्मणम् “यदहः पश्चाच्चन्द्रमा अभ्युदेति तदहर्यजन्निमाल्लो~कानभ्युदेतीति”। तैत्तिरीयब्राह्मणमपि “एषावै सुमना नामेष्टिर्येयमद्येजानं पश्चाच्चन्द्रमा अभ्युदेत्य स्मिन्नेवास्मै लोके समर्द्धुकं भवतीति” अयमर्थः येयमिष्टिश्चन्द्रदर्शनोपेते दिने क्रियते सेयमिष्टिः सुमनः शब्द वाच्या तादृशीमिष्टिं कृतवन्तं यजमानमभिलक्ष्य तस्मिन् दिने पश्चाच्चन्द्रमा उदेति तस्मै यजमायास्मिल्लो~के समृद्धिर्भवतीति बाढं तदेतच्छ्रुतिद्बयं बौधायनमतानुसारिव्यति- रिक्तविषयम् एतदेवाभिप्रेत्य प्रतिपच्चतुर्थांशे याग उदाहृतः। ननु बौधायनव्यतिरिक्तानामपि चन्द्रदर्शनयोग्यं द्वितीयायुतं प्रतिपद्दिनमिष्टौ निषिद्धं तथा च स्मृतिः “पर्वणोऽंशे चतुर्थे तु कार्या चेष्टिर्द्विजोत्तमैः। द्वितीयासहितं यस्मादूषयन्त्याश्वलायनाः” इति तदेतदावर्त्तनतत्पूर्बकालयोः सन्धौ मति द्रष्टव्यं अपराह्नादिसन्धिषु चतुर्थस्येष्टावप्राप्तत्वात्। तदेवं प्रकृतिरूयाया इष्टेः कालोनिरूपितः विकृतेस्तु कालो निरूप्यते तत्र कात्यायनः “आवर्त्तनात् प्राग्यदि पर्वसन्धिः कृत्वा तु तस्मिन् दिवसे प्रकृत्याः। तत्रैव यागः परतो यदि स्यात्तस्मिन् विकृत्याः प्रकृतेः परेद्युरिति” आवर्त्तने ततः पुरा वा पर्वसन्धौ तस्मिन् सन्धिदिने प्रकृतियागं कृत्वा पश्चाद्विकृतिसम्बन्धी यागः कर्त्तव्यः। यद्यावर्त्तनात्परतः सन्धिस्तदा केवलं विकृतियागः सन्धिदिने कर्त्तव्यः प्रकृतियागस्तु सन्धिदिनात्परेद्युरनुष्ठेय इत्यर्थः। आवर्त्तनतः पूर्वकाले ततः परकाले वा सन्धिरित्येतेषु त्रिष्वपि पक्षेषु सन्धिदिन एव विकृतेरनुष्ठानं प्रकृतेस्तु पूर्वोक्तरीत्या सन्धिदिने परेद्युर्वानुष्ठानं व्यवतिष्ठते

इष्टीनां सर्वासां प्रकृतिर्दर्शपूर्णमासौ “ऐन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकाम” इत्यादयः काण्डान्तरपठिताः काम्ये ष्टयोविकृतयः। तत्र “प्रकृतिवद्विकृतिः कर्त्तव्येति” न्यायेन विकृतीनामपि सन्धिदिनात् परेद्युः कदाचिदनुष्ठानं प्राप्तं तदेतदुदाहृतेन वचनेन निवार्य्यते”।

तेन सन्धेः सूक्ष्मकालत्वेन कर्म्मानर्हत्वात् संक्रान्तिवत्तदुपलक्षितदिनविशेषे तत्तत्कर्म्म कर्त्तव्यमिति फलितम्। अत एव “ऋतुसन्धिषु वापयेत्” इतियतिधर्म्मे स्मृतिः तत्र यदि दर्शान्तविवक्षा स्यात् तदा दर्शस्यैव सन्धित्वात् तत्रैव वषनं कुर्य्युः कुर्ब्बन्ति तु पूर्ण्णिमायां तस्मात् दर्शान्तत्वपूर्ण्णिमान्तत्वयोः समो विकल्पः अनुष्ठाने तु तत्र वचनविशेषाच्छिष्टाचाराच्च व्यवस्था” कालमा०। अयञ्च कालः श्रौतस्मार्त्तकर्म्माङ्गम् वैद्यके तु कालविशेषोऽपि फरिभाषितः “यथा ऋत्वोरत्त्यादि सप्ताहादृतुसन्धिरिवि स्मृतः। तत्र पूर्वोविधिस्त्याज्यः सेवनीयः परोविधिः” वाग्भटः। ज्योतिःशास्त्रे तु ऋत्वोः सन्ध्युपलक्षितस्य कालभेदस्य “रवेर्भवेदेकगृहाधिकस्य यदंशवृन्दं खलु सायनस्य। तदत्र राशिद्वयभागतष्टं स्पष्टं वसन्तादृतवो भवन्ति। तत्सन्धयोऽगाङ्ग ६७ घटीसमाः स्युर्द्विसंगुणा (१३४ घटीसमाः) श्चेत् विषुवायनीयाः। स सन्धिसन्धिः खलु यत्र शेषं शून्यं भवेदेष विशेषपुण्यः” केशवार्केण सन्धिसन्धित्वे नापि परिभाषा कृता तत्र शून्यावशेषे स्नानदानादौ विशेषपुण्यफलम्। इतरस्य विवाहे वर्ज्यता। यथाह स एव “सन्धौ पुरन्ध्री शुचमेति बन्ध्या मृतप्रजा वा यदि सन्धिसन्धिः” इति।

ऋतुसेव्य = त्रि० ऋतुभेदे सेव्यं वैद्यकोक्तगुणयुतमाहारादि। सुश्रुतोक्ते ऋतुभेदे सेवनीये पथ्यरूपे वस्तुभेदे तच्च सुश्रु० दर्शितं यथा। “यस्मिन्यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्। तेषु तेषु प्रदातव्याः रसास्त्वेते विजानता।

प्रक्लिन्नत्वाच्छरीराणां वर्षासु खलु देहिनाम्। मन्देऽग्नौ कोपमायान्ति संहर्षान्मारुतादयः। तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च। कषायतिक्तकटुकै रसैर्युक्तमथाऽद्रवम्। नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेब च। देयमन्नं नृपतये यज्जलं चोक्तमादितः। तप्तावरतमम्भोवा पिबेन्मधुसमायुतम्। अह्नि मेघानिलाबिष्टेऽत्यर्थशीताम्बु सङ्कुले। तरुणत्वाद्विदाहञ्च गच्छन्त्योषधयस्तदा। मतिमांस्तन्निमित्तञ्च नैव व्यायाममाचरेत्। अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्तथा। भूवाष्पपरिहारार्थं शयीत च विहायसि। शीते साग्नौ निवाते च गुरुप्रावरणे गृहे। यायान्नागबधूभिश्च प्रशस्तागुरुभूषितः। दिवास्वप्नमजीर्णञ्च वर्ज्जयेत्तत्र यत्नतः”। वर्षासेव्यासेव्ये। “सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः। क्षीरेक्षुविकृतिक्षौद्रशालिमुद्गादिजाङ्गलाः। सलिलञ्च प्रसन्नत्वात् सर्व्वमेव तदा हितम्। सरःस्वाप्लवनञ्चैव कमलोत्पलशालिषु। प्रदोषे शशिनः पादाश्चन्दनञ्चानुवासनम्। तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः। वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः। नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽऽतपम्। रात्रिजागरणञ्चैव मैथुनञ्चापि वर्जयेत्। स्वादु शीतजलं मद्यं शुचिस्फटिकनिर्मलम्। शरञ्चन्द्रांशुनिर्द्धौतमगस्त्योदयनिर्विषम्। प्रसन्नत्वाच्च सलिलं सर्ब्बमेव तदा हितम्। सचन्दनं वा कर्पूरं वासश्चामलिनं लघु। भजेच्च शारदं माल्यं सीधोः पानञ्च युक्तितः। पित्तप्रशमनं यच्च तच्च सर्व्वं समाचरेत्”। शरदि सेव्यासेव्ये “हेमन्तः शीतलो रूक्षो मन्दसूर्थ्योऽनिलाकुलः। ततस्तु शीतमासाद्यः वायुस्तत्र प्रकुप्यति। कोष्ठस्यः शीतसंस्पर्शादन्तःपिण्डीकृतोऽनलः। ररुमुच्छोषयत्याशु तस्मात् स्निग्धं तदा हितम्। हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम्। ससर्पिस्तैलमहिममशनं हितमुच्यते। तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः। तैलाभ्यक्तः सुखोष्णे च वारिकोष्ठेऽवगाहयेत्। साङ्गारधने महति कौशेयास्तरणास्तृते। शयीत शयने वापि वृते गर्भगृहोदरे। स्त्रीःश्लिष्ट्वागुरुधूपाढ्याः पीनोरुजघनस्तनीः। प्रकामञ्च निषेवेत मैथुनं तर्पितो नृपः। मधुरं तिक्तकटुकमभ्लं लवणमेव च। अन्नपानं तिलान् माषान् शाकानि च दधीनि च। तथेक्षुविकृतीः शालीन् सुगन्धांश्च नवानपि। प्रसह्यानूपमांसानि क्रव्यादबिलशायिनाम्। औदकानां प्लवानाञ्च पादिनाञ्चोपजायते। मद्यानि च प्रसन्नानि यच्च किञ्चिद्बलप्रदम्। कामतस्तन्निषेवेत पुष्टिमिच्छन् हिमागमे” हेमन्तसेव्यादि “एष एव विधिः कार्यः शिशिरे समुदाहृतः”।

“हेमन्ते निचितः श्लेष्मा शैत्याच्छीतशरीरिणाम्। औष्ण्याद्वसन्ते कुपितः कुरुते च गदान् बहून्। ततोऽ म्लमधुरस्निग्धलवणानि गुरूणि च। वर्जयेद्वमनादीनि कर्म्माण्यपि च कारयेत्। षष्टिकान्नं यवान् शोतान् मुद्गान् नीवारकोद्रवान्। लावादिविष्किररसैर्दद्याद्यूषैश्च युक्तितः। पटोलनिम्बवार्त्ताकुतिक्तकैश्च हिमात्यये। सेवेतं माधवेऽरिष्टान् सीधु माध्वीकमासवान्। व्यायाममञ्जनं धूमं तीक्ष्णञ्च कवलग्रहम्। सुखाम्बु ना च सर्वार्थान् सेवेत कुसुमागमे। तीक्षणरूक्षकटुक्षारकषायं कोष्णमद्रवम्। यवमुद्गमधुप्रायं वसन्ते भोजनं हितम्। व्यायामोऽत्र नियुद्ध्वाध्वशिलानिर्घातजो हितः। उत्सादनं तथा स्नानं वनिताः काननानि च। सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम्। शिरोविरेकवमननिरूहकवलादिभिः। वर्ज्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्रवान्” वसन्तसे०

“व्यायाममुष्णमायासं मैथुनञ्चातिशोषि च। रसांश्चाग्निगुणोद्रिक्तान् निदाघे परिवर्जयेत्। सरांसि मरितोवापि वनानि रुचिराणि च। चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः। तालवृन्तानिलाहारांस्तथा शीतगृहाणि च। घर्मकाले निषेवेत वासांसि सुलघूनि च। शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च। षानकानि च सेवेत मन्थांश्चापि सशर्करान्। भोजनं च हितं शीतं सघृतं मधुरद्रवम्। शृतेन पयसा रात्रौ शर्करामधुरेण च। प्रत्यग्रकुसुमाकीर्णशयने हर्म्यसंस्थिते। शयीत चन्दनार्द्राङ्गःस्पृश्यमानोऽनिलैः सुखैः” ग्रीष्मसेव्यादि।

“तापात्यये हिता नित्यं रसा ये गुरवस्तथा। पयोमांसरसाः कोष्णास्तैलानि च घृतानि च। वृंहणञ्चापि यत्किञ्चिदभिष्यन्दि तथैव च। निदाघोपचितञ्चैव प्रकुप्यन्तं समीरणम्। निहन्यादनिलघ्नेन विधिना विधि- कोविदः। नदीजलं रूक्षमुष्णमुदमन्थं तथाऽऽतपम्। व्यायामञ्च दिवास्वप्नं व्यवायञ्चात्र वर्ज्जयेत्। यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा। हर्भ्यमध्ये निवाते च भजेच्छष्यां मृदूत्तराम्। सविषप्राणिविण्मूत्रलालानिष्ठीवनादिभिः। समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम्। वायुना विषदुष्टेन प्रावृष्येण च दूषितम्। तद्धि सर्वोपयोगेषु तस्मित्काले विवर्जयेत्। निरूहैर्वस्तिभिश्चान्यैस्तथान्यैर्मारुताग्रहैः। कुपितं शमयेद्वायुं वार्षिकं वा चरेद्विधिम्। ऋतावृतौ य एतेन विधिना वर्त्तते नरः। घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन” प्रावृट्से०

ऋतुस्तोम = पु० एकाहसाध्ये यागभेदे “नाकसद ऋतुस्तोमादिक्स्तोमाश्चाभिप्लवाहानि” आश्व० श्रौ० ९, ८, २६। “ऋतुस्तोमनामानश्च षडेकाहाः” नारा०।

ऋतुस्थला = स्त्री अप्सरोभेदे “ऋतुस्थला घृताची च विश्वाची पूर्व्वचित्यपि” भा० आ० १२३ अ० अप्सरोभेदकथने।

ऋतुस्नाता = स्त्री ऋतौ ऋतकाले विहितदिने (चतुर्यदिवसे) स्नाता। ऋतुकाले चतुर्थदिवसे शुद्ध्यर्थं कृतस्नानायां स्त्रियाम्। “ऋतुस्नातां तु यो भार्य्यां सन्निधौ नोपगच्छति” मिता० स्मृतिः धर्म्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन्” रघुः। “पूर्व्वं पश्येदृतुस्नाता यादृशं नरमङ्गना। तादृशं जनयेत् पुत्रं भर्त्तारं दर्शवेदतः” सुश्रुतः। अधिकमुक्तमार्त्तवशब्दे ऋतुमतीशब्दे च। दारविशेषणत्वे पुंस्त्वम् “यः स्वदारानृतुस्नातान् स्वस्थः सन्नोपगच्छति” मिता० स्मृतिः।

ऋतुस्नान = न० ऋतौ शुद्ध्यर्थं स्नानम्। रजस्वलायाश्चतुर्थदिनकर्त्तव्ये स्नाने तस्या आर्त्तायाः स्नानप्रकारश्चार्त्तवशब्दे ८०८ पृ० उक्तः।

ऋतुहरितकी = स्त्री ऋतुभेदे द्रव्यभेदे न सेव्या हरितकी। वर्षादिष ऋतुषु क्रमेण सैन्धवशर्कराशुण्ठीजीरकमधुगुडैर्मिश्रणेन सेव्यायां हरीतक्याम्। “सिन्धूत्थशर्कराशुण्ठी कणामधुगुडैः क्रमात्। वर्षादिष्वभया प्राश्या रसायन गुणैषिणा” भावप्र०।

ऋते = अव्य० ऋत (सौत्रः) के। १ वर्ज्जने २ विनार्थे च। “अवेहि मां प्रीतमृते तुरङ्गमात्” रघुः “अंशादृते निषिक्तस्य नीललोहितरेतसः” कुमा०। “शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम्” भा० व० ३९ अ०। “नाभिव्याहार येद्ब्रह्म स्वधानिनयनादृते” मनुः “अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते” या०। एतच्छब्दस्य विनार्थत्वात् तद्योगे पञ्चमी द्वितीया तृतीया च भवति उक्तोदाहरणेषु पञ्चमी द्वितीयाद्रष्टव्या। तृतीयाया उदाहरण मृग्यम्।

ऋतेकर्म्म = अव्य० वेदे ८। ० वर्ज्जने अव्ययी० अच्ससा०। कर्म विनेत्यर्थे। “ये कर्म्मणः क्रियमाणस्य मह्न ऋतेकर्म्ममुपाजायल देवाः” ऋ० १०, ५५, ६०

ऋतेजा = त्रि० ऋते यज्ञनिमित्तं न्तायते जन–विट् अलुक्–स०। यज्ञनिमित्तजाते। “अग्ने स क्षेषदृतपा ऋतेजाः” ऋ० ६, ३, १। “ऋतेजा यज्ञनिमित्तं जातः” भा०।

ऋतेयु = पु० वरुणस्य ऋत्विजि १ऋषिभेदे। “दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्त्तिमान्। एकतश्च द्वितश्चैव त्रितश्चादि त्यसन्निभाः। अत्रेः पुत्रश्च धर्म्मात्मा ऋषिः सारस्वत स्तथा। वरुणस्यर्त्विजः सप्त पश्चिमां दिशमास्थिताः” भा० आनु० १५० अ०। २ पौरवे नृपभेदे। “पूरोर्वंशं प्रवक्ष्यामि” इत्युपक्रम्य। “संयाचितस्याहंयातीरौद्राश्वस्तत्सुतः स्मृतः। ऋतेयुस्तस्य कक्षेयुस्थण्डिलेयुकृतेयवः। जलेयुः सन्नतेयुश्च धर्म्मसत्यब्रतेयवः। दशैतेऽप्सरमः पुत्रा वनेयुश्चावमः स्मृतः। घृताच्या इन्द्रियाणीव मुख्यस्य जगदात्मनः। ऋतेयोरन्तिनावोऽभूत्” भाग० ९। ३०, ३।

ऋतेरक्षस् = पु० ऋते उद्देश्यतया वर्ज्जितं रक्षोयतः। यज्ञे “ऋतेरक्षा वै यज्ञः” ऐत० ब्रा०। यज्ञस्य रक्षोभ्यो रक्षणीयत्वात् तथात्वम्।

ऋतोद्य = न० ऋत + वद–भावे क्यप्। सत्यकथने “ऋतं वदन्ता वृतोद्येषु” अथ० १४, १, ३१।

ऋत्विज् = पु० ऋतु + यज्–क्विन् उ० प०। १ याजके, “अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान्। यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते” इति मनूक्ते २ स्वानुष्ठेयवैदिक कर्मकरे। ऋत्विजश्च षोडश तत्र मुख्याश्चत्वारः तेषां प्रत्येकं सहकारिण स्त्रय स्त्रय इति षोडश। विवृतिरच्छावाकशब्दे ८५ पृ० दृश्या। “अथर्त्विजो यां काञ्चिदाशिगमाशासते सा यजमानस्यैवेति श्रुतेः “ऋत्विग्बादेनियुक्तौ च समौ संपरिकीर्त्तितौ। यज्ञे स्वाम्यप्नुयात् पुण्यं हानिं वादेऽथवा जयम्” इति वृहस्पत्युक्तेश्च ऋत्विक्कृतयज्ञफलं वेतनदक्षिणादिना वरयितुरेव। “श्रौतस्मार्त्त क्रियाहेतोर्वृणुयादृत्विजः स्वयम्” या०। “तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्व्वतः क्रियाः। कर्त्तृता तदुपलम्भतोऽभवद्वृत्तिभाजि करणे यथार्त्विजि” मा०। ऋत्विजः कर्म ष्यञ्। आर्त्विज्यऋत्विक्कर्मणि आर्त्विज्यशब्दे उदा० ऋत्विक्कर्मार्हति खञ्। आर्त्विनीन ऋत्विक्कर्मार्हे “दाक्षिण्यदिष्टं कृतमार्त्विजीनैः” भट्टिः।

ऋत्विय = त्रि० ऋतुरस्य प्राप्तः तत्र भवं तत्रानुष्ठेयं वा वेदे घम् सित्त्वात् भत्वाभावेन न गुणः। १ प्राप्तर्तुकाले २ कालभवे ३ऋतुकालानुष्ठेये च “अयं वो गर्भऋत्वियः प्रत्नं सधस्थमासदत्” यजु० ११, ४८। “दधे ह गर्भमृत्वियं यतोजातः प्रजापतिः” २३, ६३। ॠत्वियावान् लोके तु यत्। ऋतव्य इत्येव तेष्वर्थेषु त्रि०।

ऋत्वियावत् = त्रि० ऋत्वियमृतु कालभवं प्रजोत्पादनकर्म्म तत्रानुष्ठेयकर्म वास्त्यस्य मतुप् मस्य वः दीर्घः। १ प्रजोत्पादनकर्मयुक्ते २ तत्रानुष्ठेयकर्मयुक्ते च। “कृतं न ऋत्वियावतः” ऋ० ८, ८, १० स्त्रियां ङीप्। “इयं त ऋत्वियावती धीतिरेति नवीयसी” ऋ० ८, १२, १०। “ऋतौ वसन्तादिकालेऽनुष्ठेयं यज्ञकर्म ऋत्वियं तद्वती” भा०।

ऋत्व्य = त्रि० ऋतुरस्य प्ताप्तः तत्र भवं तत्रानुष्ठेयं वा कर्म यत् संज्ञापूर्वकविधेरनित्यत्वात् न गुणः अज्वच्च। ऋत्वियशब्दार्थे “अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम्” ऋ० १०, १८३, २।

***