वाचस्पत्यम्
ऋ to ऋघ
links:
Menu अ–ह
Prev ऊ
Next ऋच–ऋण

ऋक्षग
ऋग
ऋग्वे
UpasanaYoga
.org

—ऋ—

= ऋकारः स्वरवर्ण्णभेदः मूर्द्धन्यः “ऋटुरषाणां मुर्द्धा” इत्युक्तेः। स तु उदात्तानुदात्तस्वरितभेदात् त्रिविधः। अनुनासिकाननुनासिकभेदात् प्रत्येकं द्विधेति षड्विधः। स च ह्रस्वः एकमात्राकालेनोचार्य्यत्वात्। तस्य च रुक्तविद्युल्लतारूपेण ध्येयतोक्ता। “रक्तविद्युल्लताकारमृकारं प्रणमाम्य हम्” काम० त०। तस्य च मातृकान्यासे वामनासिकायां न्यस्यता उक्ता तेन अभेदोपचारात् वामनासादिशब्दवाच्यता। स्वरूपपरत्वे ततः तकारकारप्रत्ययौ ऋत् ऋकारः तत्कालोचार्य्ये “तपरस्तत्कालस्यैव” पा० उक्तेः। व्यकरणशास्त्रे अननुबन्धः ऋ इत्येतत् अष्टादशविधस्य ऋवर्ण्णस्य, द्वादशविधस्य ऌकारस्य संज्ञा भवति तेन “ऋ इति त्रिंशतां संज्ञा” इति सि० कौ०। अधिकं स्वरवर्णादिशब्दसमाप्तौ वक्ष्यते समानवर्ण्णग्रहणद्योतनार्थम् वर्णशब्दोत्तरः प्रयुज्यते ऋवर्णः त्रिंशतां संज्ञा।

= गतौ भ्वा० पर० सक० अनिट। शिति ऋच्छादेशः। ऋच्छति आर्च्छत् आरत्–आर्षीत्। आर आरिथ अर्त्ता अर्य्यात् अरिष्यति। आरिष्यन्। ऋच्छन् ऋतः ऋतिः अर्त्तव्यः अरणीयः अर्य्यः यत् वैश्यस्वामिनोः अन्यत्र ण्यत् आर्य्यः। अर्त्ता आरी आरिवान् अर्त्तुम्। सङ्गमार्थत्वेनाकर्म्मकात् सम्पूर्ब्बकात् ततः आत्म०। समृच्छते। समारत समार्त्त। “सारमानवरारोहा–वनमार सा” उद्भटः। ऋ–णिच् अर्पयति ते। सन् अरिरिषति समरिरिषते गत्यर्थत्वेऽपि कौटिल्ये यङ्। अरार्य्यते “किमभीरुररार्य्यसे” भट्टिः। कर्मणि अर्य्यते। आरि।

= गतौ प्रापणे च जुहो० पर० सक० अनिट्। लडादौ शपोलुक्त्वेन शित्परत्वाभावात् न ऋच्छादेशः। शतृशानचोस्तुतदादेशः। इयर्त्ति इयृतः इय्रति। इयृयात्। इयर्त्तु इयृहि इयराणि। ऐयः ऐयृताम् ऐयरुः। आरत्–आर्षीत् सृसाहचर्य्यात् अङ्विधौ भ्वादेरेव ग्रहणमित्यन्ये तन्मते आर्षीदित्येव। समारत समार्त्त इत्यन्ये आर इत्यादि भ्वादिवत्। शित्त्वात् इयृच्छन् समृच्छान इति भेदः। अयं वैदिक एवेति बहवः “बहुलं छन्दसीति” पा० सिद्धेः “अर्त्तिपिपार्त्त्योश्च” पा० इतीत्त्वविधानसामर्थ्यादयं भाषायामपि” सि० कौ०। “शुष्म इयर्त्ति प्रभृतो मे अद्रि” ऋ० १, १६५, ४। “इयर्त्ति वाचमरितेव नावम्” २, ४२, १। अनयोर्गत्यर्थत्वात् उपसर्गभेदेनार्थभेदस्तु इणधातुवत् स च तच्छब्दे उक्तः “अभैषुः कपयोऽन्वारत् कुम्भकर्णं मरुत्सुतः” “सीतां जिघांसू सौमित्रे राक्षसावारतां ध्रुवम्” भट्टिः। आ + ऋत आर्त्तः वृद्धिः “तथार्त्तोऽपि क्रियां धर्म्याम्” भट्टिः “उदयर्षि भानुना” ऋ०१०, १४०, २, “समुद्रादूर्मिमुदियर्त्ति वेनः” १०, १२३, ३, “यदा शसा निःशसा भिशसोपारिम जाग्रतो यत् स्वपन्तः” ऋ०१०, १६४, ३, एवं यथायथमुपसर्गपूर्वस्य उदाहरणं दृश्यम्।

= हिंसायां स्वा० पर० सक० अनिट्। ऋणोति। ऋणुयात ऋणोतु ऋणु आर्णत्। आर्षीत् लिडादौ भ्वादिवत् शतृ–ऋण्वन् क्त ऋणम् इतिभेदः “त्वेषस्तेधूम ऋण्वति” ऋ०६, २, ६, “ऋणं देयमदेयञ्च येन यत्र यथा च यत्” याज्ञ० स्मृतिः। “अपद्वारा मतीनां प्रत्ना ऋण्वन्ति का रवः” ऋ० ९, १०, ६, ऋणोरक्षं न शचीभिः” ऋ० १, ३०, १५, अस्य रिकारादित्वमित्यन्ये रिणोति इत्यादि।

= अव्य० ऋ–क्विप् बा० न तुक्। १ सम्बोधने २ गर्हले ३ वाक्ये च तेदि० ४ परिहासे वाक्यविकारे शब्दरत्ना० ५ देवमातरि स्त्री।

ऋक्छस् = अव्य० ऋच् + शस्। ऋचम् ऋचमित्यर्थे “ऋग्वेदशब्दे चरणव्यूहभाष्यधृतब्राह्मएवाक्ये उदा० दृश्यम्।

ऋक्ण = त्रि० व्रश्च–क्त पृ० वलोपः। वृक्णे छिन्ने “वाचमेव तदाप्तां श्रान्तामृक्णवहीं वहराविणीमृच्छन्ति” ऐत०।

ऋक्थ = न० ऋच्–थक्। १ धने २ स्वर्णे स्मृतिप्रसिद्धे ३ दायरूपे धने च “ऋक्थग्राही ऋणं दाप्यः” याज्ञ० “स्वामी ऋक्थ क्रयसंविभागपरिग्रहाधिगमेषु” गौत० तत्र “ऋक्थमप्रतिबन्धोदायः यथा पुत्राणां पौत्राणाञ्च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धः” मिता० क्वचित् सप्रतिबन्धदायवाचिताऽपि “पुत्रहीनस्य ऋक्थिमः” इति याज्ञ० प्रयोगात् तथा च सम्बन्धनिमित्त स्वत्वास्पदीभूतं द्रव्यमृक्थम्। क्कचिद्धनमात्रेऽपि प्रयोग। ऋक्थं गृह्णाति णिनि ६ त०। ऋक्थग्राहिन् दायहरेत्रि० स्त्रियां ङीप्। “ऋकथग्राही ऋणं दाप्यः” या० अण् उप० स०। ऋक्थग्राहोप्यत्र त्रि० स्त्रियां टाप् तद्धिताण्णन्तस्यैव ङीप् सि० कौ०। ऋक्थ + अस्त्यर्थे इनि। ऋक्थिन् तद्ग्राहके “पुत्रहीनस्यऋक्थिनः” याज्ञ० स्त्रियां ङीप्।

ऋक्ष = पु० स्त्री ऋष–स किच्च। १ भल्लूके तज्जातिस्त्रियां संयोगोपधत्वात् न ङीप् किन्तु टाप्। २ नक्षत्रे। ३ मेषादिराशौ च न० ४ भल्लके वृक्षे (भेला) ५ शोनाकवृक्ष (शोना) ६ पर्व्वतभेदे च पु० मेदि०। स च रैवतापरनामकः “ऋक्षोऽपि रेवताज्जज्ञे तस्य पर्व्वतमूर्द्धनि। ततोरैवत उत्पन्नः पर्वतः सागरान्तिके। नाम्ना रैवतक नाम मूमौ भूमिधरःस्मृतः” हरिवं० ३२ अ०। स च कुलाचलपर्व्वतः यथोक्तं सि० शि०। “माहेन्द्रशुक्तिमलयक्षकपारियात्रा सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः” इति। ७ नृपभेदयोः तत्रैकः “आजमीढपुत्रः। “धुमिन्या स तया देव्या त्वजमीढः समीयिवान्। ऋक्षं संजनयामास धूम्रवण्ण सुदर्शनम्। ऋक्षात् संवरणो जज्ञे कुरुः संवरणात्तथा” अपरो विदूरथस्य पुत्रः “विदूरथस्य दायाद ऋक्ष एव महारथः। ऋक्षस्य च द्वितीयस्य भीमसेनोऽभवन्नृपः” इति हरि० ३२ अ०। भल्लूकश्चारण्यपशुः जरायुजश्च। “जरायुजानां प्रवराः मानवाः पशवश्च ये। नानारूपधरा राजन्! एषां भेदाश्चतुर्द्दश। अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः। सिंहव्याघ्रा वराहाश्च महिषा वारणास्तथा। ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप।” भा० आ० तत्र प्रवरा इति विशेषणात् एतद्भिन्नानामारण्यत्वमस्त्येव तेनोष्ट्रस्याप्यारण्यत्वं सुश्रुते उक्तम् तच्च उष्ट्रशब्दे उक्तम्। ८ अरिहपुत्रे च “अरिहः खल्वाङ्गेयीमुपयेमे सुदेवां नाम तस्यां पुत्रमजीजनदृक्षम्” भा० आ० ९५ अ०। ९ उत्तर दिशि स्त्री निरु० यद्यपि नक्षत्रस्य सामान्यतो गगनस्थिततारामात्रवाचकता तथापि ज्योतिषे यषामुदयास्तज्ञापनं तेषामेव ऋक्षशब्देन व्यवहारः तानि च सप्तविंशतिः। अभिजिच्चेत्यष्टाविंशतिः। “अश्विनी भरणी चैव कृत्तिका रोहिणी तथा। मृगशीर्षस्तथा चाद्री पुनर्वसुकपुष्यको। अश्लेषा च मघा पूर्वफल्गुन्युत्तरफल्गुनी। हस्ता चित्रा तथा स्वाती विशाखा चानुराधिका। ज्येष्ठा मूलं तथाषाढे पूर्वोत्तरपदादिके। श्रवणा च धनिष्टा च शतभिषगाद्यभाद्रिका। उत्तरादिभाद्रपदा रेवती भानि च क्रमात्” ज्योति० अभिजित्तु अभिजिच्छब्दे उक्तम्। एतानि द्वादशधाविभक्तराशिचक्रघटकत्वात् प्राधान्याच्च ऋक्षशब्देन व्यपदिश्यन्ते एतेषां स्वरूपप्रमाणाधिष्ठातृदेवताः अश्लेषाशब्दे ४९७ पृ० श्रीपतिवाक्येनोक्ताः अन्यान्यपि यानि उदयास्तभाञ्जि गगनमण्डले सन्ति तेषामपि गति र्ज्योतिषे आनीता तान्यपि ऋक्षपदवाच्यानि। ऋक्षकक्षाप्रमाणमुक्तं सि० शि०। “अभ्रेष्विभाङ्कगजकुञ्जरगोऽ- क्षपक्षाः (२५९८८९८५० योजनानि) कक्षां गृणन्ति गणका भगणस्य चैताम्”। नक्षत्रकक्षाया मूमध्यादुच्छ्रितिमा नम् “नागाक्षषड्युगरसाग्निकुवेदसंख्यो (४१३६२६५८ योजनमितः) नक्षत्रमण्डलभवः श्रवणोनिरुक्तः” ज्यो० उक्तम्। “तेषामन्येषाञ्चोदयादिज्ञानाय” सि० शि०। ध्रुवकभागा उक्ता यथा “अष्टौ नखा गजगुणाः खशरास्त्रिषटकाः सप्तर्तवस्त्रिनव चाङ्गदिशोऽष्टकाष्ठाः। गोऽर्कास्तथाद्रिमनवः शरबाणचन्द्राः खात्यष्टयस्त्रिधृतयो नवनन्दचन्द्राः। अर्काश्विनो जिनयमा नव बाहुदस्राः क्वब्ध्यश्विनो जलधितत्त्वमिताश्च भागाः। षष्ट्यश्विनश्च पवनोत्कृतयोऽष्टभानि खाङ्काश्विनो नखगुणा रसदन्तसंख्याः। सप्तामराः खमिति भध्रुवका निरुक्ता दृक्कर्मणायनभवेन सहाश्विधिष्ण्यात्। ब्रह्माग्निभध्रुवलवा रदलिप्तिकोना मैत्रैन्द्रयोर्द्व्यधिपभस्य च सेषुलिप्ताः” शि० “अष्टौ नखा इत्यादयोऽश्वित्यादीनां साभिजितां ध्रुवभागा वेदितव्याः। तत्रापि विशेषमाह। ब्रह्माग्निभध्रुवलवा इत्यादि। कृत्तिकारोहिणीनक्षत्रयोर्द्वात्रिंशत्कलोनाः। विशाखानुराधाज्येष्ठानां कलापञ्चकेनाधिका ध्रुवकभागा वेदितव्याः” प्रमि०। एषां शरानाह “दिशोऽर्काश्च सार्धाब्धयः सार्धवेदा दशेशा रसाः खं स्वराः खं च सूर्य्याः। त्रिचन्द्राः कुचन्द्राः विपादौ च दस्रौ तुरङ्गाग्नयः सत्रिभागं च रूपम्। विपादं द्वयं सार्धरामाश्च सार्धा गजाः सत्रिभागेषवो मार्गणाश्च। द्विषष्टिः खरामाश्च षड्वर्गसंख्यास्त्रिभागो जिना उत्कृतिः खं च भानाम्। निरुक्ताः स्फुटाः योगत राशरांशास्त्रयं ब्रह्मधिष्ण्याद्विशाखादिषट्कम्। करो वारुणं त्वाष्ट्रभं सार्पमेषां शरा दक्षिणा उत्तराः शेषभानाम्” सि० शि०। “दिशोऽर्का इत्यादयस्तेषां भानां शरांशा ज्ञेयाः। शेषं स्पष्टार्थम्। अत्रोपपत्तिः। तत्र भवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्य्यम्। तत्र खगोलस्यान्तर्भगोल आधारवृत्तद्वयस्योपरि विषुवद्वृत्तम्। तत्र च यथोक्तं क्रान्तिवृत्तं भगणांशा ३६० ङ्कितं च कार्य्यम्। ततस्तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयं यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यगचिह्नगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्तिवृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगतयैव दृष्ट्याश्विन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्योपरियेधवलयं निवेश्यम्। एवं कृते सति वेधवलयस्य क्रान्ति- वृत्तस्य च यः संपातः मोनान्तादग्रतोयावद्भिरंशैस्तावन्त स्तस्य धिष्ण्यस्य ध्रुवांशा ज्ञेयाः। अथ वेधवलये तस्यैव सपातस्य योगतारायाश्च यावन्तोऽन्तरेऽंशास्तावन्तस्तस्य शरांशा उत्तरा दक्षिणा वा वेदितव्याः। अथ ये ध्रुवभागाः पठितास्ते कृतदृक्कर्मका एव। ये तु शरांशाः पठितास्ते स्फुटा एव। यतो ध्रुवद्वयकीलयोः प्रोतं वेधवलयम्। तस्मिन् वेधवलये यो ज्ञातः शरः स ध्रुवाभिमुखः। ध्रुवाभिमुखः शरः स स्फुटः। अस्फुटस्तु कदम्बाभिमुखः। अत एव पूर्वं भगणोत्पत्तिकथने ग्रहवेधवलयं कदम्बकीलयोः प्रोतं कर्त्तव्यमित्युक्तम्। अत एव कारणात् कृतदृक्कर्मका एव भघ्रुवाः। यतो ध्रुवाद्ग्रहोपरि नीयमानं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र कृतायनदृक्कर्मको ग्रह इति दृक्कर्मवासनायां पूर्वं कथितमेव। अथागस्त्य लुब्धकयोराह” प्रमि०। “अगस्त्यध्रुवः सप्तनागास्तु भागास्तुरङ्गादयस्तस्य याम्याः शरांशाः। षडष्टौ लवा लुब्धकस्य ध्रुवोऽयं नभोऽम्भोधिभागाः शरस्तस्य याम्यः” सि० शि०। स्पष्टम् “अस्योपपत्तिः पूर्ववत्। अथेष्टघटिका आह” प्रमि०। “अगस्त्यस्य नाडीद्वयं प्रोक्तमिष्टं सषद्भागनाडीद्वयं लुब्धकस्य। त्रिभागाधिकं स्थूलभानामणूनां ततश्चाधिकं तारतम्येन कल्प्यम्” सि० शि० स्पष्टार्थम्। “अत्रोपपत्तिः अगस्त्यस्य नाडीद्वयं यदिष्टं तत् तस्य द्वादश कालांशा उत्पद्यन्ते। सषड्भागनाडीद्वयं लुब्धकस्येति। तत्र त्रयीदश १३ कालांशाः त्रिभागाधिकं स्थूलमानामिति। यानि स्थूलानि नक्षत्राणि तेषां चतुर्दश कालांशाः। अणूनां ततश्चाधिकमिति केषाञ्चित् पञ्चद्वश केषाञ्चित् षोडशेति कल्प्यते। अत्र ग्रहाणां भानां वा ये कालांशास्ते स्थूल सूक्ष्मत्वतारतम्यपर्य्यालोचनया। याः स्थूलास्तारास्ता अर्कोदयादल्पेन कालेनान्तरिता दृश्या भवन्ति। याः सूक्ष्मास्ता अधिकेनेत्युपपन्नम्” प्रमि०

सू० सि० रङ्गनाथाभ्यान्तु तदुदयज्ञानार्थमन्यप्रकार उक्तो यथा “प्रोच्यन्ते लिप्तिका भानां स्वभेगोऽथ दशाहत। भवन्त्यतीतधिष्ण्यानां भोगलिप्त युता ध्रुवाः” सू० सि०। “भानामश्विन्यादिनक्षत्राणामुत्तराषाढाभिजिच्छ्रवणधनिष्ठावर्जितानां लिप्तिका योगसञ्ज्ञाः कलाः प्रोच्यन्ते समनन्तरमेव कथ्यन्ते। अथानन्तरं स्वभोगः स्वाभीष्टनक्षत्रभीगः कलात्मको वक्ष्यमाणो रशभिर्गुणितः कार्यः। तत्र स्वाभीष्टनक्षत्रगतनक्षत्राणामश्विन्यादीनां भोगलिप्ताः। “भभोगोऽष्टशती लिप्ताः” इत्युक्ताष्टशतकलाः। प्रत्येकं युताः। अश्विन्याद्यतीतनक्षत्रसङ्ख्यागुणितकलाष्टशत युतमित्यर्थः। ध्रवा नक्षत्राणां भवन्ति”। रङ्ग०। अथ प्रतिज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिच्छ्रवणधनिष्ठाव्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह। “अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः। अष्टार्था अब्धयोऽष्टागा अङ्गागा मनवस्तथा। कृतेषवो युगरसाः शून्यवाणा वियद्रसाः। खवेदाः सागरनगा गजागाः सागरर्तवः। मनवोऽथ रसा वेदा वैश्वम प्यार्धभोगगम्। आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिः। त्रिचतुःपादयोः सन्धौ श्रविष्ठा श्रवणस्य तु। स्वभोगतो वियन्नागाः षट्कृतिर्यमलाश्विनः। रन्ध्रादय क्रमाद्देया विक्षेपाः स्वादपक्रमात्। दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव। सौम्ये रसाः खं याम्ये गाः सौम्ये खार्कास्त्रयोदश। दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तरे। याम्येऽध्यर्धत्रिककृता नवसार्धशरेषवः। उत्तरस्यां तथा षष्टिस्त्रिंशत् षट्त्रिंशदेव हि। दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तरे। भागाः षड्विंशतिः खं च दस्रादीनां यथाक्रमम्” सू० “अश्विन्यादिनक्षत्राणां क्रमाद्भोगा एते। तत्राश्विन्या अष्टचत्वारिंशत् कलाः। भरण्याश्चत्वारिंशत् कृत्तिकायाः कलाः पञ्चषष्टिः। रोहिण्याः सप्तपञ्चाशत् कलाः। मृगशिरसोऽष्टपञ्चाशत्। आर्द्रायाश्चत्वारः। अत्राब्धय इत्यत्र गोऽब्धयो गोऽग्नय इति वा पाठस्त्वयुक्तः। शाकल्यसंहिताविरोधात्। एतेन “सौरोक्तरुद्रभस्यांशास्त्र्यद्रयोऽगाब्धयः कलाः” इति नार्मदोक्तम् “दशकलोनपञ्चदशभागा मिथुने” सर्वजनाभिमतध्रुवको दशकलायुतत्रयोदशभागाः पर्वताभिमतध्रुवकश्च निरस्तः। पुनर्वसोरष्टसप्ततिः। पुप्यस्य षट्सप्ततिः। अश्लेषायाश्चतुर्दश। तथेति छन्दःपूरणार्थम्। मघायाश्चतुःपञ्चाशत्। पूर्ब्बफाल्गु याश्चतु षष्टिः। उत्तरफाल्गुन्याः पञ्चाशत्। हस्तस्य षष्टिः। चित्रायाश्चत्वारिंशत्। स्वात्याश्चतुःसप्ततिः। विशाखाया अष्टसप्ततिः। अनुराधायाश्चतुःषष्टिः। ज्येष्ठायाश्चतुर्दश। अनन्तरं मूलस्य षट्। पूर्वाषाढायाश्चत्वारः। उत्तराषाढाया ध्रुवकमाह। वैश्वमिति। उत्तराषाढायोगतारानक्षत्रम्। आप्यार्धभोगगम्। आप्यस्य पूर्वाषाढानक्षत्रस्यार्धभोगः। धनूरांशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम्। अष्टौ राशयो विंशतिभागा उत्तराषाढाया ध्रुव इत्यर्थः। एतेन पूर्वाषाढायोगतारायाः सकाशादुत्तराषाढायोगतारा विंशतिकलोनसप्तभागान्तरिता। तेन पूर्वाषाढाघ्रुवकोऽष्टराशयश्चतुर्दश भागा विंशतिकलोनसप्तभागैर्युत उत्तराषाढाया ध्रुवश्चत्वारिंशत्कालाधिकोक्तध्र व इति पर्वतोक्तमपास्तम् ब्रह्मसिद्धान्तविरोधात्। अभिजिद्ध्रुवकमाह। आप्यस्येति। पूर्वाषाढाया अवसाने धनूराशेर्विंशतिकलोनसप्तविंशतिभागेऽभिजिद्योगतारा ज्ञेया। चत्वारिंशत्कलाधिकषड्विंशतिभागाधिका अष्टौ राशयोऽभिजितो ध्रुव इत्यर्थः। एवकारोऽन्ययोगव्यवच्छेदार्थः। तेन संहितासम्मतं श्रवणपञ्चदशांशस्थानं विंशतिविकलायुतत्रयोदशकलायुतचतुर्दशभागादिकनवराशयो निरस्तम्। श्रवणस्य ध्रुवकमाह। वैश्वान्त इति। उत्तराषाढाया अवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम्। नव राशयो दश भागाः श्रवणध्रुवक इत्यर्थः। धनिष्ठाया ध्रवकमाह। त्रिचतुःपादयोरिति। श्रवणस्य तृतीयचतुर्थचरणयोः क्रमेणन्तादिसन्धौ मकरराशेर्विंशतिभागे श्रविष्ठा धनिष्ठा ज्ञेया। नव राशयो विंशतिभागा धनिष्ठाध्रुव इत्यर्थः। तुकारात् क्षेत्रान्तर्गतधनिष्ठास्थानं कुम्भस्य विंशतिकलोनसप्तभागा निरस्तम्। शतताराया भोगमाह। स्वभोगत इति। धनिष्ठाभोगात् कुम्भस्य विंशतिकलोनसप्तभागावधेरित्यर्थः। शतताराया अशीतिर्भोगः। अतः प्राम्बद्ध्रुवा इति ज्ञापनार्थं स्वभोगत इत्युक्तम्। शततारयाः स्थानं शततारकाध्रुव इति पर्यवसन्नम्। अवशिष्टनक्षत्राणां भोगानाह। षट्कृतिरिति। पूर्ब्बभाद्र पदायाः षट्त्रिंशत् कला भोगः। उत्तरभाद्रपदाया द्बाविंशतिः। रेवत्या एकोनाशीतिः। अथ ध्रुवकानयनं यथा। अश्विन्या भोगः। ४८। दशगुणितः ४८०। अतीतनक्षत्राभावाद्भोगयोजनाभावः। अतोऽश्विन्याः कलात्मको ध्रुवः। ४८०। राश्याद्यस्तु। ०८। भरण्या भोगः। ४०। दशाहतः। ४००। अतीतनक्षत्रस्यैकत्वादष्टशतयुतो भरण्याः परिभाषया राश्याद्यो ध्रुवः। ०। २०। एवमार्द्राभोगः। ४ दशाहतः ४०। अतीतनक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन ४००० चतुःसहस्रात्मकेन युतः कलाद्यो ध्रुवः ४०४० राश्याद्यस्तु २। ७। २०। एवं पूर्वाषाढाया दशगुणितो भोगः। ४०। एकोनविंशतिगुणिताष्टशतेन। १५२०० युतः परिभाषया राश्याद्यो ध्रुवः। ८। १४। शतताराया दशगुणितो भोगः। ८००। त्रयोविंशतिगुणिताष्टशतेन। १८४००। युतश्चतुर्विंशतिगुणिताष्टशतरूपो। १९२००। जातो ध्रुवो राश्याद्यः। १०। २०। पूर्वाभाद्रपदायादशगुणितो भोगः ३६०। चतुर्विंशतिगुणिताष्टशतेन। १९२०० युतः। १९५६० जातो ध्रुवो राश्याद्यः। १०। २६। उत्तराषाढाभिजिच्छ्रवणधनिष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्तरीत्यसम्भवाद्भिन्नरोत्या ध्रुवका उक्ताः स्वादिस्थानाद्योगतारा यदन्तरकलाभिः स्थितास्ता लाघवाद्दशापवर्त्तिता भोगसञ्ज्ञा उक्ताः। तथा च ब्रह्मसिद्धान्ते। “अष्टौ विंशतिरर्धेन गजाग्निर्व्यर्धखेषवः। त्रितर्काः सत्रिभागाद्रिरसास्त्र्यङ्काश्च षट्शतम्। नवाशा नवसूर्य्याश्च वेदेन्द्राः शरवाणभूः। खात्यष्टिः स्वधृतिर्गोऽतिधृतिर्विश्वाश्विनस्तथा। वेदाकृतिर्गोऽद्रिहस्ताः क्वब्धिहस्ता युगार्थदृक्। खोत्कृतिस्त्र्यंशहीनाश्च रसहस्ताः खहस्तिदृक्। खगोऽश्विनः खदन्ताः षड्दन्ताः शैलगुणाग्नयः। मेषाद्यश्व्यादिमध्यांशाः षडंशोनाः खषड्पुणाः” इति। अथ नक्षत्राणां विक्षेपभागानाह। एषामिति। उक्तध्रुवकसम्बन्धिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादित्यर्थः। स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्तस्थध्रुवकस्थानादित्यर्थः। विक्षेपा विक्षेपभागा दक्षिणा उत्तरा वा भवन्ति। तत्रोत्तरदिश्यश्विन्यादित्रयाणां दिङ्मासविषयाः क्रमेण दश द्वादश पञ्चेत्यर्थः। दक्षिणदिशि रोहिण्यादित्रयाणां पञ्च दश नव। उत्तरस्यां पुनर्वसोः षद्भागाः। पुष्यस्य खं विक्षेपाभावः। अत्र पञ्चमाक्षरस्य गुरुत्वेन छन्दोभङ्ग आर्षत्वान्न दोषः। दक्षिणस्यामश्लेषायाः सप्त। उत्तरस्यां मघादित्रयाणां शून्यं द्वादश त्रयोदश। दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ। अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत्। दक्षिणस्यां विशाखादीनां षण्णां सार्धैकं त्रयं चत्वारः नव सार्धपञ्च पञ्च क्रमेण उत्तरदिशि तथा विक्षेपभागाः। अभिंजितः षष्टिः। श्रवणस्य त्रिंशत्। धनिष्ठायाः षट्त्रिंशत्। एवकारो न्यूनाधिकव्यवच्छेदार्थः। चकारः पूरणार्थः। दक्षिणस्यां तुकारस्तथा। अर्धभागः शततारायाः। तुकारस्तथा। उत्तरस्यां पूर्ब्बभाद्रपदायाश्चतुर्विंशतिः। तस्यामेव दिशि भागा विक्षेपभागा उत्तरभाद्रपदायाः षड्विंशतिः। रेवत्या विक्षेपाभावः। चकारः पूरणार्थः। अथागस्त्यलुब्धकवह्निब्रह्महृदयताराणां ध्रुवकविक्षेपांस्तदुपपत्तिं श्लोकत्रयेणाह” रङ्ग०। “अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः। विंशे च मिथुनस्यांशे मृगव्याधो व्यव- स्थितः। विक्षेपो दक्षिणे भागैः स्वार्णवैः स्वादपक्रमात्। हुतभुग्ब्रह्महृदयो वृषे द्वाविंशभागगो। अष्टाभिस्त्रिंशता चैव विक्षिप्ता उत्तरेण तौ। गोलं बध्वा परीक्षेत विक्षेपं ध्रवकं स्फुटम् सू० “स्वकीयात् क्रान्तिविभागस्थानाद्दक्षिणस्यामशीत्यंशैस्तारात्मकोऽगस्त्यो मिथुनान्तगः कर्कादिभागे स्थितः। अगस्त्यनक्षत्रस्य राशित्रयं ध्रुवकः। दक्षिणविक्षेपोऽशीतिरित्यर्थः। मृगव्याधो लुब्धको मिथुनराशेः विंशतिभागे स्थितः। चकारः समुच्चये। लुब्धकनक्षत्रस्य राशिद्वयं विंशतिभागा ध्रुवक इत्यर्थः। दक्षिणस्यां चत्वारिंशता भागैः परिमितस्तस्य च क्रान्तिवृत्तस्थानाद्विक्षेपः। वृषराशौ वह्निब्रह्महृदयौ द्वाविंशभागस्थितौ बह्निब्रक्षहृदयनक्षत्रयोर्द्वाविंशतिभागाधिकैकराशिर्ध्रुवकः। तौ वह्निब्रह्महृदयौ। अष्टाभिस्त्रिंशता। चकारः क्रमार्थे। एवकारो न्यूनाधिकव्यवच्छेदार्थः। उत्तरेणोत्तरस्यामित्यर्थः। विक्षिप्तौ विक्षेपवन्तौ। वह्नेर्विक्षेपोऽष्टभागः उत्तरः। ब्रह्महृदयस्योत्तरे विक्षेपस्त्रिंशदित्यर्थः। नन्वेते ध्रुवा विक्षेपाश्च कालक्रमेण नियता अनियता वेत्यत आह। गोलमिति। गोलं बक्ष्यमाणं बध्वा वंशशलाकादिभिर्निबध्य स्फुटं विक्षेपं क्रान्तिसंस्कारयोग्यं ध्रुवाभिमुखं ध्रुवकं स्फुटमायनदृक्कर्मसंस्कृतं परीक्षेत। स्वस्वकाले दृग्गोचरसिद्धमङ्गीकुरुत। तथा च क्रान्तिमंस्कारयोग्यविक्षेपायनसंस्कृतध्रुवकयोरयनांशवशादस्थिरत्वादपि मयेदानीन्तनसमयानुरोधेन लाघवार्थमायनदृक्कर्मसंस्कृता ध्रुवाः क्रान्तिसंस्कारयोग्यविक्षेपाश्च नियता उक्ताः। कालान्तरे गोलयन्त्रेण वेधसिद्धा ज्ञेयाः। नैत इति भावः। गोलयन्त्रेण वेधस्तु गोलबन्धोक्तविधिना गोलयन्त्र कार्य्यम्। तत्र खगोलस्योपरि भगोलम्, आधारवृत्तस्योपरि विषुवद्वृत्तम्। तत्र यथोक्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बध्वा ध्रुवयष्टिकीलयोः प्रोतमम्यच्चलं भवेधवलयम्। तच्च भगणांशाङ्कितं कार्य्यम्। ततस्तद्गोलयन्त्रं सम्यग्ध्रु वाभिमुखयष्टिकं जलसमक्षितिजवलयं च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यच्छिद्रगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्तिवृत्ते मीनान्ताद्दशकलान्तरितपश्चाद्भागं रेवतीतारायां निवेश्य मध्यगतयैव दृष्ट्याश्विन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्या उपरि तद्वेधवलयं निवेश्यम्। एवं कृते सति वेधवलयस्य क्रान्तिवृत्तस्य च यः सम्पातः स मीनान्तादग्रतो यावद्भिरंशैस्तावन्तस्तस्य नक्षत्रस्य ध्रुवांशा ज्ञेयाः। वेधवलये तस्यैव सम्पातस्य योगतारायाश्च याषन्तोऽन्तरेंऽशास्तावन्तस्तस्य विक्षेपांशा दक्षिणा उत्तरा वा वेद्याः। अथ कदम्बप्रोतवेधवलयेन वेधे तु सदा स्थिरा ध्रुवका आयनदृक्कर्मसंस्कृताः परन्तु कदम्बतारयोरभावादशक्यमिति यथोक्तवेधेनैवायनदृक्कमसंस्कृता ध्रुवाः शराश्च ध्रुवाभिमुखाः स्फुटाः सिद्धा भवन्तीति दिक्। अथ रोहिणीशकटभेदमाह” रङ्ग०। “वृषे सप्तदशे भागे यस्य याम्योंऽशकद्वयात्। विक्षेपोऽभ्यधिको भिन्द्याद्राहिण्याः शकटं तु सः” सू०। “वृषराशौ सप्तदशेऽंशे यस्य ग्रहस्य भागद्वयादधिको विक्षेपो दक्षिणः स ग्रहो रोहिण्याः शकटं शकटाकारसन्निवेशं भिन्द्यात्। तन्मध्यगतो भवेदित्यर्थः। तुकाराद्ग्रहविक्षेपो रोहिणीविक्षेपादल्प इति विशेषार्थकः। विक्षेपस्य दक्षिणस्य रोहिणीविक्षेपादधिकत्वे शकटद्बहिर्दक्षिणभागे ग्रहस्य स्थितत्वेन तद्भ दकत्वाभावात्। अत्र शकटाग्रिमनक्षत्रस्य ध्रुव एकराशिः सप्तदशांशाः दक्षिणः शरो भागद्वयमिति वेधसिद्धा स्पष्टा युक्तिः। अथ ग्रहयोगसाधनार्थं ग्रहयोगसाधनरीत्यतिदेशमाह” रङ्ग०। “ग्रहवद्द्युनिशे भानां कुर्य्याद्दृक्कर्म पूर्ववत्। ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च” सू०। “ग्रहवद्द्युनिशे ग्रहाणां यया दिनरात्रिमाने आक्षदृक्कर्मार्थं कृते तथा दिनमानरात्रिमाने भानां नक्षत्रध्रुवकाणामाक्षदृक्कर्मार्थं गणकः कुर्यात्। तदनन्तरं पूर्ववन्नक्षत्रनित्योदयास्तौ साधयित्वाभीष्टकाले दिनगतशेषाभ्यां नतं कृत्वा विषुवच्छाययाभ्यस्तादित्यादिनेत्यर्थः। दृक्कर्म कुर्यात्। अत्र नक्षत्रध्रुवके पर्वतेनायनदृक्कर्माप्युदाहरणे कृतं तदयुक्तम्। तस्य ध्रुवके स्वतः सिद्धत्वात्। तदनन्तरं शेषं नक्षत्रग्रहयुतिसाधनं ग्रहध्रुवतुल्यतारूपं ग्रहमेलकवद्ग्रहयोगसाधनरीत्या ग्रहान्तरकला इत्यादिना कार्य्यम्। ननु तत्र ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः। भुक्त्यन्तरेण विभजेदित्युक्ते र्नक्षत्रस्य का गतिर्ग्राह्येत्यत आह। ग्रहभुक्त्येति। केवलया ग्रहगत्या ग्रहस्य फलं ग्रहध्रुवान्तररूपग्रहे संस्कार्यं ध्रुवसमो ग्रहो भवति। नक्षत्रस्य पूर्वगत्यभावाद्ध्रुवो यथास्थित इत्यर्थः। ननु तथापि ग्रहनक्षत्रयुतिकालसाधनं भुक्त्यन्तरासम्भवात् कथं कार्यमिति मन्दाशङ्केत्यतआह। दिनानीति। अभीष्टसमयाद्विवरमित्यादिना केवलया ग्रहगत्या ग्रहनक्षत्रयुतिदिनानि साध्यानि। चः समुच्चये। नक्षत्राणां गत्यभावात्। अथाभीष्टकालाद्ग्रहनक्षत्रयुतिकालस्य गतैष्यत्वमसम्भ्रमार्थं पुनराह” रङ्ग०। “एष्यो हीने ग्रहे योगो घ्रुवकादधिके गतः। विपर्य्ययाद्वक्रगते ग्रहे ज्ञेयः समागमः” सू०। “नक्षत्रघ्रुवादुक्ताद्ग्रह आयनदृक्कर्मसंस्कृतग्रह आक्षदृक्कर्मसंस्कृतनक्षत्रघ्रुवकात् दृक्कर्मद्वयसंस्कृतोग्रह इति विवेकार्थः। न्यूने सति योगो नक्षत्रग्रहयोगः स्वाभीष्टसमयाद्भावी। अधिके सति पूर्बं जातः। वक्रगते ग्र हे विपर्ययादुक्तवैपरीत्यात् समागमो नक्षत्रग्रहयोगो ज्ञेयः। हीने ग्रहे गतोऽधिके ग्रह एष्यो योगः। अत्रोपपत्तिर्नक्षत्रस्य गत्यभावेन सदा स्थिरत्वाद्ग्रहगमनेनैव योगसम्भवादिति सुगमतरा। अथाश्विन्यादिनक्षत्रस्य बहुतारात्मकत्वात् कस्यास्ताराया एते ध्रुवका इत्यस्य योगताराया ध्रुवकत्वमित्युत्तरं मनसि धृत्वाश्विन्यादिनक्षत्राणां योगतारां विवक्षुः प्रथममेषां नक्षत्राणां योगतारामाह” रङ्ग०। “फाल्गुन्योर्भाद्र पदयोस्तथैवाषाढयोर्द्वयोः। विशाखाश्विनिसौम्यानां योगरारोत्तरा स्मृता” सू०। “एषामुक्तनक्षत्राणां प्रत्येकं स्वतारासु योत्तरदिकस्था तारा सा योगतारा गोलतत्त्वज्ञैरुक्ता। अथान्ययोरनयोराह” रङ्ग०। “पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता। हस्तस्य योगतारा सा श्रविष्ठायाश्च पश्चिमा” सू०।

“हस्तनक्षत्रं पञ्चतारात्मकं हस्तपञ्चाङ्गुलिसन्निवेशाकारम्। तत्र नैरृत्यदिगाश्रितपश्चिमावस्थितताराया उत्तरदिगवस्थितताराया द्वितीया पूर्वोक्तातिरिक्ता पश्चिमे वायव्याश्रिते या स्थिता सा हस्तस्य योगतारा ज्ञेया। उत्तरतारासन्ना पश्चिमाश्रिता तारा हस्तस्य योगतारेति फलितार्थः। धनिष्ठाया योगतारामाह। श्रविष्ठाया इति। धनिष्ठायास्तारासु या पश्चिमदिक्स्था सा तस्या योगतारा। चः समुच्चये। अथान्य षामेषामाह” रङ्ग०। “ज्येष्ठाश्रवणमैत्राणां वार्हस्पत्यस्य मध्यमा। भरण्याग्नेयपित्र्याणां रेवत्याश्चैव दक्षिणा” सू०। “ज्येष्ठाश्रवणानुराधानां पुष्यस्य च प्रत्येकं तारात्रयात्मकत्वान्मध्यमतारा योगतारा स्यात्। भरणीकृत्तिकामघानां रेवत्याः। चः समुच्चये। प्रत्येकं स्वतारासु या दक्षिणदिक्स्था सा योगतारा। अथान्येषामवशिष्टानां चाह।” रङ्ग० “रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि। तथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका” सू० “रोहिणीपुनर्वसुमूलानामश्लेषायाश्च प्रत्येकं स्वतारासु या पूर्वदिक्स्था सैव योगतारेत्येवह्योरर्थः। प्रत्यक्येवाणामवशिष्टनक्षत्राणामार्द्राचित्रास्वात्यभिजिच्छतताराणां स्वतारासु यात्यन्तं स्थूल। महती सा योगतारा स्यात्। अथ ब्रह्मस ज्ञकनक्षत्रावस्थानमाह रङ्ग०। “पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः। प्रजापतिर्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः” सू० “ब्रह्महृदयस्थानात् पूर्वभागे पञ्चभिरंशैः प्रजापतिस्तारात्मको ब्रह्मा क्रान्तिवृत्ते स्थितः। कुत्रेत्यत आह। वृषान्त इति। वृषान्तनिकटे। एकराशिः सप्तविंशत्यंशा ब्रह्मध्रुवक इत्यर्थः। अस्य विक्षेपमाह। असाविति। ब्रह्मा उत्तरस्यामष्टत्रिंशद्भागैः स्थितः। अष्टत्रिंशद्भागा अस्य विक्षेप इत्यर्थः। अथापांवत्सापयोस्तारयोरवस्थानमाह” र०। “अपांवत्सस्तु चित्रायामुत्तरेऽंशैस्तु पञ्चभिः। वृहत् किञ्चिदतो भागैरापः षड्भिस्तथोत्तरे” सू० “चित्रायाः सकाशादपांवत्ससंज्ञकस्तारात्मकः पञ्चभिर्भागैरुत्तरस्यां स्थितः। प्रथमतुकारश्चित्राध्रुवतुल्यध्रुवकार्थकः। द्वितीयतुकारश्चित्राविक्षेपस्य दक्षिणभागद्वयात्मकत्वादपांवत्सविक्षेव उत्तरस्त्रिभाग इति स्फुटार्थकः। अतोऽपांवत्सात् किञ्चिदल्पान्तरेण वृहत् स्थूलस्तारात्मक आपसंज्ञकः तथाऽपांवत्सात् षड्भिरंशैरुत्तरस्यां स्थितश्चित्राध्रुवक एवापस्य ध्रुवको विक्षेप उत्तरे नवांशा इत्यर्थः” रङ्ग०।

नक्षत्राणामुदयास्तकालनिरूपणम् उदयशब्दे ११३८ पृष्ठादौ दर्शितम्।

ॠक्षघटितत्वात् राशीनां तथात्वम्। राशिनाम भवेत् नाम भमृक्षं गृहनाम च” ज्यो०। राशयश्च द्वादश “पुनर्द्वादशधात्मानं व्यभजद्राशिसंज्ञकम्। नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी” सू० सि० उक्तेः। ते च मेषवृषमिथुनकर्कटसिंहाः कन्या तुलाथ वृश्चिकभम्। धनुरथ मकरः कुम्भोमीन इति च राशयः कथिताः” ज्योति० उक्ताः राशिश्च “विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते। तत्त्रिंशता भवेद्राशिर्भगणोद्वादशैव तु” सू० सि० उक्तः १०८००० विकलात्मकः १८०० कलात्मकः त्रिंशत्भागात्मकः। तैर्द्वादशभिः ३६० अंशैर्भगणोराशिचक्रं स्यात् तत्र सप्तविंशतिनक्षत्रात्मकराशिचक्रे द्वादशधा विभक्ते सपादनक्षत्रद्वयस्यैव प्रत्येकराशिघटकता तेन प्रत्येकनक्षत्रस्य ८०० कलात्मकत्वम्। “भभोगोऽष्टशती लिप्ताः” सू० सि० उक्तेः। राशिभेदे नक्षत्रभेदनिरूपणमुडुचक्रशब्दे १०७१ पृ० दृश्यम्। “मासर्क्षादीन न शोधयेत्” “जन्मर्क्षे उपतापिते” ज्यो०। “दक्षिणां दिशमृक्षेषु वार्षिकेष्वथ भास्करः” रघुः

ऋक्षगन्धा = स्त्री ऋक्षान् गन्धयति हिनस्ति गन्ध अच् ६ त०। १ जाङ्गलीवृक्षे (ऋषिजाङ्गलो) २ महाश्वेतायां, ३ क्षीरविदार्याञ्च। (वीरताड) स्वार्थे कन् तत्रैव

ऋक्षगिरि = पु० कर्म०। कुलाचलभेदे ऋक्षनामके पर्वते।

ऋक्षचक्र = न० ६ त०। १ नक्षत्रेसमुदाये ऋक्षाणां चक्रमिव गगतस्थे नक्षत्रात्मके चक्राकारे पदार्थभेदे। ऊडुचक्रशब्दे तद्विवृतिः। भचक्रस्य प्रवहवायुना प्रत्यहं पश्चाद्गगनेऽपि ग्रहाणां यथा प्राग्गतित्वं भवेत्तथा सू० सि० रङ्गनाथव्याख्ययोः यथा “अथ ग्रहपूर्व्वगत्युत्पत्तौ कारणमाह। “पश्चाद्व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः। जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगाः” सू० सि०। “पश्चादनन्तरं पुनरावृत्त्या पश्चात् पश्चिमदिगभिमुखं नक्षत्रैस्तारकादिभिः सह ग्रहाः सूर्यादयोऽतिजवात् प्रवहवायुसत्वरगतिवशात् सततं निरन्तरं व्रजन्तो गच्छन्तः स्वमार्गगाः स्वकक्षावृत्तस्था जीयमाना नक्षत्रैः पराजिता नक्षत्राणामग्रे गमनात्। अतएव लज्जयेव गुरुभूता इति तात्पर्यार्थः। तुल्यं समम्। एवकारादधिकन्यूनव्यवच्छेदः। लम्बन्ते स्वस्थानात् पूर्वस्मिन् लम्बायमाना भवन्ति। यथा लज्जितः पश्चाद्भवति नाग्रे। तुकारादधोऽधः कक्षाक्रमानुरोधेन शन्यादिग्रहाणां चन्द्रान्तानां गुरुतापचयः शनिरतिगुरुभूतस्तस्मात् किञ्चिन्न्यूनोगुरुस्तस्मादपि भौम इत्यादि यथोत्तरम्। यस्य कक्षा महती तस्य गुरुत्वाधिक्यं यस्य लध्वी तस्य तदनुरोधेन गुरुताल्पत्वमिति। एतददुक्तं भवति। ब्रह्मणा प्रवहवायौ नक्षत्राधिष्ठितो मूर्तो गोलः स्थापितस्तदन्तर्गताः स्वस्वाकाशगोलस्थाः शन्यादयो नक्षत्राधिष्ठितमूर्तगोलस्थक्रान्तिवृत्तस्थरेवतीयोगतारासन्नरूपमेषादिप्रदेशसमसूत्रस्थाः स्थापिताः। क्रान्तिवृत्तं तु मेषतुलास्थाने विषुवद्वृत्तलग्नं सम्पातात् त्रिभान्तरितक्रान्तिवृत्तप्रदेशाभ्यां चतुर्विंशत्यंशान्तरेण दक्षिणोत्तरौ मकरकर्कादिरूपौ तदेवं द्वादशराश्यात्मकं वृत्तं ग्रहचारभूतम्। विषुवद्वृत्तं तु ध्रुवम ध्यस्थं निरक्षदेशोपरिगम्। तत्र प्रवहवायुना स्याधातेन मूर्तो नक्षत्रगोलो नाक्षत्रषष्टिषटीभिः परिवर्त्यते। तदन्तर्गतवायुभिस्तदाघातेन वा ग्रहा भ्रमन्तोऽपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषादिप्रदेशेन समं न गच्छन्ति वायूनां स्वल्पत्वात् तदाघातस्याप्यल्पत्वाद्बिम्बानां गुरुत्वाच्च। अतस्तत्स्थानाद्ग्रहाणां लम्बना दृश्यन्ते। अतएव नक्षत्रोदयकाले तेषां द्वितीयदिने नोदयः किन्तु ग्रहो लम्बितप्रदेशेन वायुना तदनन्तरमूर्द्धमागच्छतीत्यनन्तरमुदयः। लम्बनं तु शन्यादीनां कक्षानुरोधेन गुरुत्वाद्वायूनां तद्घातानां वा कक्षानुरोधेन बह्वल्पत्वात् तुल्यम्। यद्यपि वायोर्ध्रुवानुरोधेन स्वल्पत्वाद्ग्रहवल्लवम्बनं विषुवद्वृत्ते भवितुमुचितं न क्रान्तिवृत्ते। तथा च वक्ष्यमाणक्रान्त्यनुपपत्तिः क्रान्तिवृत्तस्थद्वादशराशिभोगेन वक्ष्यमाणानां भगणानामनुपपत्तिश्च। तथापि वायुनावलम्बितो ग्रहो विषुवन्मार्गगोऽपि तद्विषुवप्रदेशासन्नक्रान्तिवृत्तप्रदेशेन ग्रहाकाशगोल एव स्वसमसूत्रेणाकृष्यत इति नानुपपत्तिः। अतएव स्वमार्गगा इति क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षामार्गगता इत्यर्थकमुक्तमिति मङ्क्षेपः” रङ्ग०। “अथात एव ग्रहाणां लोके प्राग्गनित्वं सिद्धमित्याह। “प्रागगतित्वमतस्तेषां भगणैः प्रत्यहं गतिः। परिणाहवशाद्भिन्ना तद्वशाद्भानि भुञ्जते” सू० सि०। “अतोऽवलम्बनादेव तेषां ग्रहाणां प्राग्गतित्वं प्राच्यां दिशि गतिर्येषां ते प्राग्गतयस्तद्भावः प्रागतित्वं सिद्धम्। लम्बनस्वरूपैव ग्रहाणां पूर्वगतिरुत्पन्ना लोकैः कारणानभिज्ञैः प्रत्यक्षावगता तच्छक्तिजनिता कल्पितेत्यर्थः। सा कियतीत्यत आह। भगणैरिति। वक्ष्यमाणभगणैः प्रत्यहं प्रतिदिनं गतिः प्राग्गमनरूपा भगणानां गत्युपन्नत्वात् भगणसम्बन्धिवक्ष्यमाणदिनैः सूर्यसावनैर्ग्रहभगणा लभ्यन्ते तदैकेन दिनेन केत्यमुपाताज्ज्ञेया। ननु ग्रहभगणानां तुल्यत्वामावात् प्रतिदिन ग्रहगतिर्भिन्नेति पूर्वं लम्बनरूपा ग्रहगतिरयुक्तोक्ता ग्रहलम्बनस्याभिन्नत्वादित्यत आह। परिणाहवशादिति। परिणाहः कक्षापरिधिस्तद्वशात् तदनुरोधादियं ग्रहगतिर्भिन्नाऽतुल्या। अयमभिप्रायः ग्रहाणां लम्बनं तुल्यप्रदेशेन, परन्तु स्वस्वकक्षायां तत्तत्प्रदेशे तुल्ये याः कलास्ता गतिकलास्तास्तु महति कक्षावृत्तेऽल्पा लघुकक्षावृत्ते बह्व्यः सर्वकक्षापरिधीनां चक्रकलाङ्कितत्वात्। भगणास्तु गतिवशादेव यस्य कक्षावृत्तं महत् तस्याल्पा यस्य च लघु कक्षावृत्तं तस्य बह्व्यस्तदुत्पन्ना गतिरपि तथेति न विरोधः। नन्वेकरूपगतिं विहाय भिन्नरूपा गतिः कथमङ्गीकृतेत्यत आह। तद्वशादिति। भिन्नगतिवशाद्भानि राशीन् नक्षत्राणि भुञ्जते ग्रहा भुञ्जन्तीत्यर्थः। तथा च ग्रहराश्यादिभोगज्ञानार्थमियमेव गतिरुपयुक्ता नैकरूपेति भावः” रङ्ग० “अथ भभोगे विशेषं वदन् वक्ष्यमाणभगणस्वरूपमाह। “शीघ्रगस्तान्यथाल्पेन कालेन महताऽल्पगः। तेषां तु परिवर्तेन पौष्णान्ते मगणः स्मृतः” सू० सि० “अथशब्दः पूर्वोक्तेर्विशेषसूचकः। शीघ्रगतोग्रह- स्तानि भान्यल्पेन कालेन भुनक्त्यल्पगतिग्राहो बहुकालेन भुनक्ति तुल्यराश्यादिभोगो मन्दशीघ्रगतिग्रहयोस्तुल्यकालेन न भवतीति विशेषाथः। तेषां राशीनां परिवर्तेन भ्रमणेन। तुकाराद्ग्रहादिगतिभोगजनितेन भगणः प्राज्ञैरुक्तः। क्रान्तिवृत्ते द्वादशराशीनां सत्त्वात् तद्भोगेन चक्रभोगसमाप्तेर्यत् स्थानमारभ्य चलितो ग्रहः पुनस्तत् स्थानमायाति स चक्रभोगः परिवर्तसंज्ञोऽपि द्वादशराशिभोगाद्भगण इत्यर्थः। ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्यः परिवर्तसम्भवादत्र कः परिवर्तादिभूतः प्रदेश इत्या आह पौष्णान्त इति। सृष्ट्याद्दौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगतारासन्नप्रदेशे सर्वग्रहाणां निवेशितत्वात् तदवधितो ग्रहचलनाच्च पौष्णस्य रेवतीयोगताराया अन्ते निकटे प्रदेशे तथा च रेवतीयोगतारासन्नाग्रिमस्थानमेवाद्यन्तावधिभूतमिति” रङ्ग०।

तत्सन्निवेशप्रकारः सि० शि० उक्तो यथा “सृष्ट्वा भचक्रं कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः। शश्वद्भ्रमे विश्वसृजा नियुक्तं तदन्ततारे च तथा ध्रुवत्वे। ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यशि। तदल्पगत्येन्द्रदिशं नभश्चराश्चरन्ति नीचोच्चतरात्मवर्त्मसु”

“यदेतद्वचक्रं ग्रहैः समं म्रमद्दृश्यते तद्विश्वसृजा जगदुत्पादकेन कमलोद्भवेन ब्रह्मणा सृष्ट्यादौ सृष्ट्वा ततः शश्वत्भ्रमेऽनवरतभ्रमणे नियुक्तम्। एतदुक्तं भवति। भान्थश्विन्यादीन्यन्यानि विशिष्टानि ज्योतींषि तेषां समूहश्चक्र, ग्रहाश्च सूर्यादयस्तैः सह सृष्टम्। तानि भानि प्राक्संस्थया समन्तान्निवेशितानि। ग्रहास्तु भगणादावश्विनीसुखे निवेशितास्त उपर्य्युपरिसंस्थया। तत्रादौ तावदधश्चन्द्रः। तदुपरि बुधः। ततः शुक्रः। ततो रविः। तस्माद्भौमः। ततो गुरुः। ततः शनिः। सर्वेषामुपरि दूरे भचक्रम्। एषां कक्षाप्रमाणानि कक्षाध्याये प्रतिपादयिष्यन्ते। अहो यद्यूर्ध्वोर्ध्वस्था ग्रहास्तदुपरि दूरतो भगणस्तत् कथं भगणादिसंस्थैर्ग्रहैरित्यच्यते। सत्यम्। अत्र भूमध्ये सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं भचक्रेऽश्विनीमुखे किल निबद्धम्। तस्मिन् सूत्रे प्रोता मणय इव चन्द्रादयो ग्रहाः सृष्ट्यादौ ब्रह्मणा निवेशिताः। भमण्डलं द्वादशधा विभज्यैवं भूमध्यात् सूत्राणि प्रतिभागं नीत्वा किल बद्धानि तैः सूत्रै सह ग्रहकक्षायां ये संपातास्ते तासु कक्षासु राश्यन्ताः। तद्वत्प्रकारा राशय इति सङ्क्षिप्तमिहोक्तम्। कक्षाध्याये गोले च किञ्चिद्विस्तार्य्य वक्ष्यामः। एवंविधं भचक्र सृष्ट्वा ब्रह्मणा गगने निवेशितम्। यत्र निवेशितं तत्र प्रवहो नाम वायुः। स च नित्यं प्रत्यग्गतिः। तेन समाहगं भचक्रं सखेचरं पश्चिमाभिमुखभ्रमे प्रवृत्तम्। यत् तस्य प्रत्यग्भ्रमणं तच्छीघ्रतरम्। यत एकेनाह्ना भमण्डलस्य (भूमेः) परिवर्त्तः। एवं तस्मिन् भपज्जरे सखेचरे शोध्रतरे भ्रमत्यपि खेचरा इन्द्रदिशं चरन्ति पूर्ब्बाभिमुखं व्रजन्ति। नीचोच्चतरात्मवर्त्मसु। अनन्तरकथितेषु स्वस्वमार्गेषु तेषां प्राग्भ्रमणम्। तत् तदल्पगत्या। प्रत्यग्गतेर्बहुत्वात् प्रागल्पगत्या व्रजन्तो नोपलक्ष्यन्त इति भावः। तथा तस्य भपञ्जरस्य यो दक्षिणोत्तरावन्तौ तत्र ये तारे ते ध नियुक्ते” प्रमि०। राशिचक्रस्य प्रवहवायुना पश्चाद्म्रमणोक्तिरपि व्यक्षदेशोपरिगतत्वाभिप्रायेण देवासुरयोस्तु सू० सि० सव्यापसव्यभ्रमणोक्तेः यथा “सव्य भ्रमति देवानामपसव्यं सुरद्विषाम्” इति “व्यक्षे पश्चाद्गतिः सदेति” वक्ष्यएव पश्चाद्गतेरुक्तेश्चेति द्रष्टव्यम्।

ऋक्षर = पु० ऋष–क्सरन्! १ ऋत्विजि। ऋच्छतेः कृन्ततेः कण्टतेर्वा वा निरु० क्सरन् पृ०। २ कण्टके “स्योना पृथिवी भवानृक्षरा निवेशनी” यजु० ३५, २१, “अनृक्षरा अकण्टका” वेददी० ३ वारिधारायां स्त्री मेदिनिः!

ऋक्षराज = पु० ६ त० टच् समा०। १ नक्षत्रेशे चन्द्रे २ भल्लूकेशे जाम्बवति च। “अथ सिंहं प्रधावन्तमृक्षराजो महाबलः” हरिवं० ३९९ अ० “लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम्” हरिवं० ३९ “जाम्बवानृक्षरा जेन्द्रः” भाग० ८, २१, ४। ऋक्षनाथादयोऽप्यत्र।

ऋक्षला = स्त्री ऋच–सल्च किच्च। गुल्फाधःस्थनाड्याम् “क्रमणं स्थूराभ्यामृक्षलाभिः कपिञ्जलाम्” यजु० ५, ३, “ऋक्षला गुल्फाधःस्था नाड्यः” वेददी०

ऋक्षवत् = पु० ऋक्षाः बाहुल्येन सन्त्यत्र मतुप् मस्य वः। नर्मदातीरस्थे पर्वतभेदे “वप्रक्रियामृक्षवतस्तटेषु” रघुः “नर्मदाकूलमेकाकी मेकलां मृत्तिकावतीम्। ऋक्षवन्तं गिरिं जित्वा शुक्तिमत्यासुवास सः” हरिवं० ३७ अ० उक्तेः तस्य नर्म्मदातीरस्थत्वम् बोध्यम् “ऋक्षवन्तं गिरिवरं विन्ध्यञ्च गिरिमुत्तमम्” हरिवं० ३९ अ०।

ऋक्षवन्त = ऋक्ष + वा० वन्त। शम्बरासुरपुरे नगरभेदे “तमृक्षवन्ते नगरे निहत्यासुरसत्तमम्। गृह्य मायावती देवीमागच्छन्नगरं पितुः” हरिवं० १६ अ० तं शम्बरभ्।

ऋक्षीक = त्रि० ऋक्ष इव इवार्थे ईकन्। ऋक्षतुल्ये हिंस्रके। “ऋक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करा अरुण्येष्वाजायेरन्” शत० ब्रा० १३, २, ४, २, ४, २ ऋक्षाकारपुरुषमेधीयदेवताभेदे स्त्री। “नदीभ्यः पौञ्जिष्ठमृक्षीकाभ्यो नैषादम्” यजु० ३०, ८। पुरुषमेधे उक्तम्।

ऋक्षेष्टि = स्त्री नक्षत्रविशेषविहिते इष्टिभेदे।

ऋक्षोद = पु० ऋक्षं नक्षत्रमिव खच्छम् उदकं यत्र उदादेशः। पर्वतभेदे। “ऋक्षोदः पर्वतोऽभिजनो येषाम् अण्। आर्क्षोदा द्विजाः” सि० कौ०।

ऋक्संहिता = स्त्री ६ त०। ऋग्वेदसंहितायाम् ऋग्वेदशब्दे विवृतिः “ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः। साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते” मनुः वेदोहि मन्त्रब्राह्मणभेदेन द्विविधः तत्र मन्त्रात्मको भागः संहिता। “अग्निमीले” इत्यादिकः ऋक्समुदायात्मकः ऋक्संहिता। मन्त्रेतररवेदभागो ब्राह्मणम्। संहितारूपसन्धिकार्यनियताश्रयतया संहितात्वं ब्राह्मणे पदग्रन्थे च न संहितानियम इति तयोर्न संहितात्वमिति भेदः संहितास्थपदविच्छेदज्ञापकोग्रन्थः पदग्रन्थः। स च ऋष्यादिकृतःपौरुषेय इति बोध्यम्।

ऋक्सम = न० ऋचा समम्। सामभेदे। “जगत्या ऋक्समम् ऋक्समाच्छुक्रः” यजु० १३, ६५, “ऋक्सममृक्समसंज्ञं यत् साम” वेददी०।

ऋक्साम = न० द्विव०। ऋक् च साम तदारूढगानं च द्वयोः समाहारः अच् समा० नि० द्विव०। ऋग्रूपमन्त्रभेदतदारूढगानयोः समाहरे “ऋक्सामाभ्यां संतरन्तः” यजु० ४, १। “ऋक्सामयोः शिल्पे स्थस्ते” ४, ९। ऋचश्च सामानि चेति बहुत्वे तु नाच्। ऋक्सामन् इत्येव। “ऋक्सामान्यप्सरस एष्टयोनाम” यजु० १८, ४३।

ऋगयन = न० ऋचामयनम्। ऋक्पारायणग्रन्थे पूर्व्वपदात् णत्वं नेह गव्यवधानात्। ऋगयनस्य व्याख्यानो ग्रन्थः ऋगयनादि० अण्। आर्गयन तद्व्याख्यान ग्रन्थे।

ऋगयनादि = पु० पाणिन्युक्ते तस्य व्याख्यान इत्यर्थे अण्प्रत्यय निमित्तप्रकृतिभूतशब्दसमुदाये। स च गणः “ऋगयन, पदव्याख्यान, छन्दोगान, छन्दोभाषा, चन्दोविचिति, न्याय, पुनरुक्त, निरुक्त, व्याकरण, निगम, वास्तुविद्या, क्षत्रविद्या, अङ्गविद्या, विद्या, उत्पात, उत्पाद, उद्याव संवत्सर, मुहूर्त्त, उपनिषदु, निमित्त, शिक्षा, मिक्षा”

ऋगावान = न० आ + वेञ् मावे ल्युट् ऋचामावानं ग्रथनं संहिताकार्य्येण कृतसन्धानम्। वेदपाठकाले अर्द्धर्श्रादीनां संहितया पूर्ब्बोत्तरयोः सन्धाने “ऋचमृचमनावानमुक्त्वा प्रणुत्यावस्येत्” आश्व० श्रौ० ४, ६, २। “तेनार्द्धर्चाः संहितयैव वक्तव्याः” नारा० वृ०। ऋचामन्ते तु ना संहितया ग्रथनमित्यर्थः। “अभिष्टुयादृगावानम्” ५, ६, १। “तस्योक्तमृगावानधर्मेण” ५, १३, २। “तस्याद्यां पच्छ ऋगावानं पच्छः शस्या चेत्” ५, २०, ३।

ऋग्गाथा = स्त्री ऋचामिव गाथा। लौकिकगीतिवेदे। “ऋग्गाथापाणिकादक्षविहिताब्रह्मगीतिकाः” याज्ञ०।

ऋग्मत् = त्रि० ऋक् स्तुतिः पूजा वा अस्त्यस्य मतुप्। १ स्तोतरि २ अर्चनोये पूजनीये। “राजानमुपतस्थुरृग्मियम्” ऋ० ६, ८, ४ श्रुतेर्निरुक्तौ ऋग्मियमृग्भन्तमर्चनीयं पूजनीयम्” निरुक्तकारः। ऋग्मानिव स्वार्थेघ द्वितीयाचः परलोपः। ऋग्मियोऽप्यत्र। “नाभिगृणन्तमृग्मियम्” ऋ० १, ९, ९।

ऋग्मिन् = त्रि० ऋच् + अस्त्यर्थे मिनि। स्तोतरि। “गिरा यदि निर्ण्णिजमृग्मिंणो ययुः” ऋ० ९, ८६, ४६। “ऋग्मिणः स्तोतारः” भा०।

ऋग्विधान = न० ऋचा ऋग्वेदेन कर्मविशेषस्य विधानम्। ऋग्वेदोक्तमन्त्रभेदेन कर्मविशेषविधाने तच्च हेमाद्रौ व्रतखण्डे विस्तरेणोक्तम्। वह्निपुराणोक्तमत्र दर्श्यते

“अग्निरुवाच प्रतिवेदन्तु कर्म्माणि काम्यानि प्रवदामि ते। प्रथमं ऋग्विधानं वै शृणु त्वं भुक्तिमुक्तिदम्। अन्तर्जले तथा होमे जपतो मनसेप्सितम्। कामं करोति गायत्री प्राणायामाद्विशेषतः। गायत्र्यादशसाहस्रो जपोनक्ताशनोद्विजः। आश्रमाद्बहिः स्नातश्च सर्व्वकल्मषनाशनः। दशायुतानि जप्त्वाथ हविष्याशी स मुक्तिभाक्। प्रणवोहि परं ब्रह्म तज्जपः स च पापहा। ओङ्कार शतजप्तस्तु नाभिमात्रोदक्रे स्थितः। जलं पिवेत् स सर्व्वैस्तु पापैर्विप्रः प्रमुच्यते। मात्रात्रयं त्रयोवेदास्त्रयोदेवास्त्रयोऽग्नयः। महाव्याहृतयःसप्त लोकाहोमोमलापहः। अन्तर्जले तथा राम! प्रोक्तश्चैवाघमर्षणः। अग्निमीले पुरोहितं सूक्तोऽयं वह्निदैवतः। शिरसा धारयन् वह्निं योजपेत् परिवत्सरम्। होमं त्रिषवणं भैक्ष्यमनग्निज्वलन चरेत्। अतःपरमृचां सप्त आद्याद्या याः प्रकोर्त्तिताः। भोजयन् प्रयतोनित्यमिष्टान् कामान् समश्नुते। मेधाकामोजपेन्नित्यं सदसस्पतिमित्यृचम्। अम्ब यजन्ति याः प्रोक्ता नवर्च्चो मृत्थुनाशनः। शुनःशेफमृषिं वद्धः सन्निरुद्धोऽथ वा जपेत्। मुच्यते सर्व्वपापेभ्यो गदी चाप्यगदी भवेत्। यैच्छेत् शाश्वतं कामं मित्रं प्राज्ञं पुरन्दरम्। ऋग्भिः षोडशभिः कुर्य्यादिन्द्रस्येति दिनेदिने। हिरण्यस्तु समिह्येतत् जपन् शत्रून् प्रवाधते। क्षेमी भवति चाध्माने ये ते पन्था जपन्नरः। रौद्रीति षद्भिरीशानं स्तूयाद्योवै दिने दिने। चरुं वा कल्पयेद्रौद्रं तस्य शान्तिः परा भवेत्। उद्यद्युदितमादित्यमुपतिष्ठन् दिनेदिने। क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविनाशनः। द्विषन्तमित्यथर्व्वेदं यद्विष्यान्तं जपन् स्मरेत्। आगम्यो सप्तरात्रेण विद्वेषमधिगच्छति। आरोग्यकामोयोधी च प्रज्ञश्चाम्यात्तमञ्जपेत्। उत्तमस्तस्य चार्द्धाधोजपेद्वैरिविनाशने। उदयस्यायुरक्षय्यं तेजो मध्यंदिने जपेत्। अस्तं प्रतिगते सूर्य्ये द्विषन्तं प्रतिबाधने। तव यश्चेति सूक्तानि जपन् शत्रून्नियच्छति। एकदेशं सुवर्ण्णस्य सर्व्वकामान् विनिर्द्दिशेत्। आध्यात्मिका क इत्येता जपन्मोक्षमवाप्नुयात्। आ नोभद्रा इत्यनेन दीर्घमायुरवाप्नुयात्। त्वा सोमेति च सूक्तेन नवं पश्यन्निशाकरम्। उपतिष्ठेत् समित्पाणिर्व्वासांस्याप्नोत्यसंशयम्। आयुरायूंषि समिति कोषसृक्कन्तदाजपेत्। अपानः शीशुचदिति स्तुत्वा मध्ये दिवाकरम्। यथा मुञ्चति चेषोकान्तथा पापं प्रमुञ्चति। जातवेदस इत्येतज्जपेत् स्वस्त्ययनं पथि। भयैर्विमुच्यते सर्व्वैः स्वस्तिमानाप्नुयाद् गृहम्। व्युष्टायाञ्च तशा रात्र्यामेतद्दुः स्वप्तनाशनम्। प्रमन्दिनेति भूयत्यां जपेद्गर्भविमोचनम्। जपन्निन्द्रमिति स्नातो वैश्यदेवं तु सप्तकम्। मुञ्चत्येभ्यस्तथा जुह्वत् सकलं किल्विषं नरः। इमामिति जपन् शश्वत् कामानाप्नोत्यभीप्सितान्। मा नस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः। औडुम्बरीश्च जुहुयात् समिधश्चाज्यसंभृताः। छित्वा सर्व्वान् मृत्युपाशान् जीवेद्रोगविवर्ज्जितः। ऊर्द्ध्वबाहुरनेनैव स्तुत्वा शम्भुं तथैव च। मा नस्तोकेति च ऋचा शिखाबन्धे कृते नरः। अधृष्यः सर्व्वभूतानां जायते संशयं विना। चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा। समित्पाणिर्नरोनित्यमीप्सितं धनमाप्नुयात्। दुःस्वप्नं नुदते कृत्स्नं भोजनं चाप्नुयाच्छिवम्। हतेषणामीति तथा रक्षोघ्नः परिकीर्त्तितः। यदि वासा इत्यृचेन जपन् कामान वाप्नुयात्। नमोयवन्निति जपन् सुप्रगे तापनः शुचिः। कयान इति च जपन् जातिश्रैष्ठ्यमवाप्नुयात्। इमन्तेसोममित्येतत् सर्वान् कामानवाप्नुयात्। पितुरृक्षूपतिष्ठेत नित्यमन्नमुपस्थितम्। अग्नेतत् पतिसूक्तेन स्निग्धमाप्नो- त्यनुत्तमम्। योमेराजन्नित्यपान्तु दुःस्वप्रथमनीमृचम्। अध्वनि प्रस्थितो यस्तु पश्येच्छुभमथाशुभम्। अप्रशस्तं प्रशस्तं वा कनिक्रदमिमं जपेत्। द्वाविंशकं जपन् सूक्तमा ध्यात्मिकमनुत्तमम्। पूर्व्वं सुप्रयतोनित्यमिष्टान् कामान् समश्नुते। कृणुष्वेति जपेन्मन्त्रं जुह्वदाज्यं समाहितः। अरातीनां हरेत् प्राणं रक्षांस्यपि च नाशयेत्। उपतिष्ठेत् स्वयं वह्निं परीत्यृचं दिने दिने। सुरक्षति स्ययं वह्निर्विश्वतो विश्वतोमुखः। हंसं शुचिषदित्येत् शुचिर्वीक्षेत् दिवाकरम्। ऋषिं प्रपद्यमानन्तु स्थालीपाकं यथाविधि। जुहुयात् क्षेत्रमध्ये तु स्थालीपाकांस्तु पञ्चभिः। इन्द्र यममरुत्सूर्य्यपर्ज्जन्याय भगाय च। यथालिङ्गं तु विहरे लाङ्गलन्तु कृषीवलः। प्रोक्तोधान्याय सीतायै सुनासीरमथोत्तरम्। गन्धमाल्यनमस्कारैर्जपेदेताश्च देवताः। प्रवापने प्रलवने खले स्थापनहारयोः। अमोघं कर्म्म भवति वर्द्धते सर्व्वदा कृषिः। समुद्रादिति सूक्तेन कामानाप्नोति पावकात्। वैश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति। स तरत्यापदः सर्वा यशः प्राप्नोति चाक्षयम्। विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमम्। अग्ने त्वमिति च स्तुत्वा धनमाप्नोति चोच्छ्रितम्। प्रजाकामोजपेन्नित्यमरुणादेवमित्यृचम् दत्तात्रेयं जपेत् प्रातः सदा स्वस्त्ययनं महत्। स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजतेऽध्वनि। विजिगीषुर्वनस्पते शत्रूणां व्याधिदम्भवेत्। स्त्रियागर्भप्रसूताया गर्भमोक्षणमुत्तमम्। आ बद्धादिति सूक्तञ्च वृष्टिकामः प्रयोजयेत्। निराहारः क्लिन्नवासो नचिरेण प्रवर्षति। मनसः काममित्येतां पशुकामो नरोजपेत्। कर्द्दमन इति स्नायात् प्रजाकामः शुचिव्रतः। अग्रे पूर्व्वामिति स्नायाद्राज्यकामस्तु मानवः। लोहिते चर्मणि स्नायात् ब्राह्मणस्तु यथा विधि। क्षत्रश्चर्मणि वै व्याघ्रे छागे वैश्यस्तथैव च। दशसाहस्रिकोहोमः प्रत्येकं परिकीर्त्तितः। आ गा वहेति सूक्तेन गोष्ठे गां लोकमातरम्। उपतिष्टेज्जपेच्चैव यदीच्छेत्ताः सदाऽक्षयाः। उपेते तिसृभीराज्ञो द्वन्दुभिं चाभिमन्त्रयेत्। तेजोबलञ्च प्राप्नोति शत्रूंश्चैव नियच्छति। तृणपाणिर्जपेत् सूक्तं रक्षोघ्नं दस्युभिर्वृतः। ये केचिन्नेत्यृचं जप्त्वा दीर्घमायुरवाप्नुयात्। जीमूतस्येति सूक्तेन लाङ्गलान्यभिमन्त्रयेत्। यथा छिद्रं ततो राजा विनिहन्ति रणे रिपून्। अमीवेतित्रिभिः सूक्तैर्धनमाप्नोति चाक्षयम्। अमीवहेति सूक्तेन भूतानि स्नापयेन्निशि। संबाधे विषमे दुर्गे बद्धो वा निगडैः क्वचित्। पलायन् वा गृहीतो वा सूक्तमेतत्तदा जपेत्। त्रिरात्रमपि चोपोष्य श्रपयेत् पायसं चरुम्। तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा। समुद्दिश्य महादेवं जीवेदव्दे शतं सुखम्। तच्चक्षुरित्यृचा स्नात उपतिष्ठेद्दिवाकरम्। उद्यन्तं मध्यमं चैव दीर्घमायुर्जिजीविषुः। सूक्ताभ्यां परभागाभ्यां भूताभ्यां भूतिमाप्नुयात्। इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनम्। यस्य लुप्तं व्रतं मोहादश्रौतैः संसृजेत वा। उपोष्याज्यं स जुहुयादग्ने व्रतपते इति। आदित्य वृक्षसाम्राज्यं जप्त्वा वादे जयी भवेत्। नदीतीति चतुष्केण मुच्यते महतो भयात्। ऋचं जप्त्वा यदित्येतत् सर्वान् कामानवाप्नुयात्। द्वाचत्वारिंशकं चैन्द्रं जप्त्वा ना शयते रिपून्। रायस्महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च। शन्नोभवेति द्वाभ्यान्तु भुक्त्वान्नं प्रयतः शुचिः। हृदयं पाणिना स्पृष्ट्वा व्याधिभिर्न्नाभिभूयते। उत्तमेदमिति स्नातो भूत्वा शत्रुं प्रमापयेत्। त्वन्नो अग्नेति सूक्तेनं हुतेनान्नमवाप्नुयात्। कन्यावा मिति सूक्तेन दिग्दोषात् विप्रमुच्यते। यदभ्य कच्चेत्युदिते जप्तुर्वश्यं जगद्भवेत्। यद्वागिति च जप्तेन वाणी भवति शाश्वती। वाचोविदमितीत्येता जपन् वाचं समश्नुते। पवित्राणां पवित्रन्तु पावमान्य ऋचां मताः। वैखानसा ऋचस्त्रिंशत् पवित्राः परमा मताः। ऋचोद्विषष्टिः प्रोक्ताश्च यवश्चेत्यृषिसत्तम!। सर्वकल्मषनाशाय प रिणामशिवाय च। स्वादिष्ठयेति सूक्तानां सप्तषष्टिरुदाहृता। दशोत्तराण्युपास्यैवाः पावमानीः शतानि षट्। एतज्जपंश्च जुह्वच्च घोरं मृत्युभयं जयेत्। आपोहिष्ठेति चारिष्टौ जपेत् पापभयार्द्दने। प्रवेदनेति नियते जपेच्च मरुधन्नसु। प्राणान्तिके भये प्राप्ते क्षिप्रं प्राणांस्तु विन्दति। व्युष्टायामुदिते सूर्य्येये चेति जयमाप्नुयात्। आयुर्द्दामेति मूढश्च पन्थानं पथि विन्दति। क्षोणे युवति मन्त्रेण यं कञ्चिद्धृदयप्रियम्। यत्तेयमेति सुस्नातस्तस्य मूर्द्धानमालभेत्। सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत्। इदं मेध्ये ति जुहुयाद् घृतं प्राज्ञः सहस्रशः। पशुकामो गवाङ्गोष्ठे अर्थकामश्चतुष्पथे। वयः सुवर्ण इत्येतां जपन्ना विन्दते प्रियम्। हविष्यन्तीं समभ्यस्य सर्वपापैः प्रमुच्यते। तस्य रोगा विनश्यन्ति कायाग्निर्वर्द्धते सदा। त्यक्तामयः स्वस्त्ययनं सर्वव्याधिविनाशनम्। वृहस्पते अकीत्येतद्वृष्टिकामः प्रयोजयेत्। सर्वं त्वेति परा शान्तिर्जयाप्रतिरथस्तथा। मृतासं कश्यपन्नित्यं प्रजाकाम- स्य कीर्त्तितम्। अहं रुद्रेभिरित्येतद्वाग्मी भवति मानदः। न योनौ जायते विद्वान् जपंस्तिसृषु रात्रिषु। रात्रिसूक्तं जपन् रात्रौ रात्रिं क्षेमां नयेन्नरः। आकम्पयन्तीति जपेन्नित्यं कृत्याविनाशनम्। आयुष्यञ्चैव सर्वस्य सूक्तं दाक्षायणं महत्। उत देवा इति जपेदास्वापान्तं धृतव्रतः। अपमार्गे तु जनिते जपेदग्निभये सति। अरण्यानीत्यरण्येषु जपेत्तद्भयनाशनम्। ब्राह्मीमासाद्य सूक्ते द्वे वरां ब्राह्मीं शतावरीम्। पृथगद्भिर्घृतेनाथ मेधां लक्ष्मीञ्च विन्दति। मास इत्यसपत्नघ्नं संग्रामं विजिगीषतः। ब्रह्मणोऽग्निं संविदानं गर्भमृत्युनिवारणम्। अपैहीति जपेत् सूक्तं शुचिर्दुःखस्वप्ननाशनम्। येनेदमिति वै जप्त्वा समाधिं विन्दते परम्! मयोभूर्वात इत्येता जपेत् स्वस्त्ययनं परम्। शामरीमिन्द्रजननम् बाधामेतेन वारयेत्। महित्रीणामवोस्त्विति पथि स्वस्त्ययनं जपेत्। अग्नये द्विषद्वेषं जपेच्च रिपुनाशनम्। वास्तोष्पतेति मन्त्रेण जपेच्च गृहदेवताः। जपस्यैष विधिः प्रोक्तोहुतौ ज्ञेयो विशेषतः। होमान्ते दक्षिणा देया पापशान्तिकृतेन तु। हुतं शस्यति चान्नेन अन्नहोमप्रदानतः। विप्राशिषस्त्वमोधाः स्युर्ब्बहिः स्नातं च सर्व्वतः। सिद्धार्थका यवा धान्यं पयोगव्यघृतं तथा। क्षीरवृक्षात्तथेधन्तु होमा वै सर्व्वकामदाः। समित् कण्टकिनश्चैव राजिका रुधिरं विषम्। अभिचारे तथा शैलुमसनं शक्तवः पयः। दधि भैक्ष्यंफलं मूलमृग्विधानमुदाहृतम्”।

ऋग्वेद = पु० ऋच्यते स्तूयते ऋक् कर्म्म०। वेदभेदे। स च मन्त्रब्राह्मणोभयात्मकः। तत्र मन्त्रसमूहात्मकः ऋक्शब्दे बक्ष्यमाणलक्षणर्गात्मकः संहितारूपो ग्रन्थः। तत्र दश मण्डलानि तत्राद्ये मण्डले २४ अनुवाकाः “अग्निमीले” इत्यादीनि आग्नेयानि १९१ सूक्तानि तानि शतर्चिकर्षिदृष्टानि अध्यायोपाकरणोत्सर्गयोर्विनियुक्तानि।

द्वितीये शौनकगृत्समदर्षिदृष्टे चत्वारि अनुवाकाः। त्वमग्न इत्यादीनि ४३ सूक्तानि आग्नेयानि उपाकरणोत्सर्गयोर्विनियुक्तानि। शौनक गृत्समदः ऋषिरेतन्मण्डद्रष्टा स च पूर्ब्बमाङ्गिरसकुले शुनहोत्रस्य पुत्रः सन् यज्ञकालेऽसुरैर्गृहीत इन्द्रेण मोचितः। पश्चात्तद्वचनेनैव भृगुकुले शुनक पुत्रो गृत्समदनामाऽभूत्। “य आङ्गिरसः शौनहोत्रो भूत्वा भार्गवः शौनकोऽभवत् स गृत्समदो द्वितीयमण्डलमपश्यत्” सर्वानु० उक्तेः। “त्वमग्न इति गृत्समदः शौनको भृगुतां गतः। शौनहोत्रः प्रकृत्या तु य आङ्गिरस उच्यते” इति ऋष्यनुक्रमोक्तेश्च। ऋग्वेदभाष्यम्।

तृतीये विश्वामित्रदृष्टे पञ्चानुवाकाः सोमस्य मेत्यादीनि ६२ सूक्तानि। तानि च आग्नेयानि प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि।

चतुर्थे वामदेवर्षिदृष्टे पञ्चानुवाकाः। आग्नेयानि त्वां ह्यग्ने इत्यादीनि ५८ सूक्तानि। आद्याध्यायोपाकरणे मण्डलादिहोमे च विनियुक्तानि।

पञ्चमे आत्रेयबुधगविष्ठिराद्यर्षिके षड् अनुवाकाः ८७ अबोध्यग्निरित्यादीनि सूक्तानि आग्नेयानि आग्नेगे क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चत्वारि शिष्टानि अध्यायोत्सर्ज्जनीपाकरणयोर्विनियुक्तानि।

षष्ठे भरद्वाजदृष्टे षडनुवाकाः त्वं ह्यग्ने प्रथम इत्यादीनि ७५ सूक्तानि आग्नेयानि तत्र प्रातरनुवाके आग्नेये क्रतौ त्रैष्टभे छन्दसि एतदादिसूक्ताष्टकं द्वितीयवर्जं विनियुक्तम् शिष्टानि आद्योपाकरणे विनियुक्तानि।

सप्तमे वसिष्ठदृष्टे ६ अनुवाकाः अग्निं नर इत्यादीनि १०४ सूक्तानि आग्नेयानि तेषां विशेषतो विनियोगोबाहुल्यात् योक्त आकरे दृश्यः।

अष्टमे मेधातिथिमेध्यातिथ्यादिनानर्षिक। दशानुवाकाः। इन्द्रादिदैवत्यानि “मा चिदन्यद्वीत्यादीनि १०३ सूक्तानि महाव्रतादौ विनियुक्तानि।

नवमे वैश्वामित्रमधुछन्दआद्यृषिके सप्तानुवाकाः पावमानसोमादिदेवताकानि स्वादिष्ठयेत्यादीनि ११४ सूक्तानि तेषाञ्च उपाकर्म्मणि मण्डलादिग्रहणे च यथायथं विनियोगः।

दशमे मण्डले आप्त्यत्रिताद्यर्षिके द्वादशानुवाकाः अश्वे वृहन्नित्यादीनि १९१ सूक्तानि आग्मेयादीनि। प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीत्यादि कर्मसु विनियुक्तानि। इत्येवं दशसु मण्डलेषु १ म० १९१, २ म० ४३, ३ म० ६२, ४ म० ५८, ५ म० ८७, ६ म० ७५, ७ म० १०४, ८ म० १०३, ९ म० ११४, १० म० ११९१। इत्येवं समष्टि भूतानि १०२८ सूक्तानि। सूक्तानि च एकद्व्यादिकर्ग् घटितानि यथायथं तत्तत्सूक्तेषु दृश्यानि। एतत्संख्या च बालखिलसहितानां तद्व्यतिरिक्तानि तु १०१७ सूक्तानि तच्च चरणव्यूहभाष्ययोः स्पष्टम्। तस्य च पकारान्तरेण विभागः तस्य अष्टाष्टकानि प्रत्येकाष्टके च अष्टौ अष्टौ अध्यायाः इत्येवं ६४ अध्यायाः तत्र च वर्गा २००६ संख्यकाश्चरणव्यूहोक्ताः खिलसहितस्तु ततोऽप्यधिकाः। चरणव्यूहभाष्ययोर्दर्शितविभागो दर्श्यते यथा।

“चातुर्वेद्य चत्वारोवेदा विज्ञाता भवन्ति ऋग्वेदोयजुर्वेदः सामवेदोऽथर्ववेदश्चेति तत्र ऋग्वेदस्याष्टभेदा भवन्ति चर्चा श्रावकश्चर्चक श्रवर्णायपारः क्रमपारः क्रमजटाः क्रमदण्डश्चेति चतुष्पारायणमेतेषां शाखाः पञ्च भवन्त्याश्वलायनी सांख्यायनी शाकला बाष्कला माण्डूकाश्चेति तेषामध्ययनम्। अध्यायानां चतुःषष्टिर्मण्डलानि दशैव तु। वर्गाणां परिसंख्यातं द्वे सहस्रे षडुत्तरे सहस्रमेकं सूक्तानां निर्विशङ्गं विकल्पितम्। दश सप्त च पठ्यन्ते संख्यातं वै पदक्रमात्। एकशतसहस्रं वा द्विपञ्चाशत्सहस्रार्द्धमेतानि चतुर्दश वासिष्ठानामितरेषां पञ्चाशीतिः। ऋचां दश सहस्राणि ऋचां पञ्चशतानि च। ऋचामशीतिः पादश्च पारायणं प्रकीर्त्तितम्। एकर्च एकवर्गश्च नवकश्च तथा स्मृतः। द्वौ वर्गौ द्विऋचौ ज्ञेयौ ऋक्त्रयं शतं च स्मृतम्। चतुरृचां पञ्चसप्तत्यघिकञ्च शतं तथा। पञ्चऋचां तु द्विशतं सहस्रं रुद्रसंयुतम्। पञ्चचत्वार्य्यधिकं तु षड् ऋचां च शतत्रयम्। सप्त ऋचां शत ज्ञेयं विंशतिश्चाधिकाः स्मृताः। अष्टऋचां तु पञ्चाशत् पञ्चाधिकास्तथैव च। दशाघिकद्विसहस्राः पञ्चशाखासु निश्चिताः। वर्ग संज्ञा न सूक्तस्य चत्वारश्चात्र कीर्त्तिताः” चरणव्यूहः। वेदपारायणचतुर्विभागात् चरण उच्यते। तस्य व्यूहः समुदायः, चतुर्वेदानां समुदायं व्याख्यास्यामः इत्यर्थः। कथमेकोवेदः तदुक्त आरण्यके, “सर्वे वेदाः सर्वेघोषा एकैव व्याहृतिः प्राणा एव प्राणा ऋच इत्येता विद्यादिति” तस्य चतुर्धा भागः कृतः। तथा चोक्तं भागवते। “तेनासौ चतुरो वेदाः चतुर्भिर्वदनैः प्रभुः। सव्याहृतिकान्सोङ्कारांश्चतुर्होत्रविचक्षणः। पुत्रा नध्यापयंस्तां तु ब्रह्मषिर्ब्रह्मकोविदान्। ते तु धर्मपदेष्टारः स्वपुत्रेभ्यः समादिशन्। ते परम्परया प्राप्ता स्तत्तच्छिष्यैर्धृतव्रतैः। चतुर्युगेष्वप्यव्यस्ता द्वापारादौ महर्षिभिः। क्षीणायुःक्षीणसत्यञ्च दुर्मेधा वीक्ष्य कालतः। वेदान् ब्रह्मर्षयोव्यस्तान् हृदिस्थाऽच्युतनोदितः। अस्मिन्मन्वन्तरे ब्रह्मन् स्वर्गत्वा लोकभावनः। ब्रह्मेशाद्यैर्लोकपालैर्याचितोधर्मगुप्तये। पराशरात् सत्यवत्यामंशांशकलया विभुः। अवतीर्णोमहाभागो बेदं चक्रे चतु- विधम्। ऋगथर्वयजुःसाम्नोराशीनुद्धृत्य वर्गशः। चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव। तासां स चतुरःशिष्यान् उपाहूय महामतिः। एकैकसंहितां ब्रह्मन्नेकेकस्मै ददा विभः। पेलायः संहितामाद्यां बह्वृचाख्यामुवाच ह। शैम्पायनसंज्ञाय निगदाख्यं यजुर्गणम्। साम्नां जैमिनये प्रादात्तथा छन्दोगसंहिताम्। अथर्वाङ्गिरसं नाम स्वशिष्याय सुमन्ततये। पैलः स्वसंहितामूचे इन्द्रप्रमितये मुनिः। बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां स्वकाम्। चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव!। पराशरायाग्निहोत्रे इन्द्रप्रमतिरात्मवान्। अध्यापयत् संहितां स्वां माण्डूकेयमृषिङ्कविम्। तच्छिष्यो देवमित्रश्च सौभार्यादिभ्य ऊचिवान्। (इन्द्रप्रमतिसुतो माण्डूकेयः। माण्डूकेयसुतः शाकल्यः। शाकल्यशिष्यो देवमित्रः)। शाकल्यस्तत्सुतः स्वान्तु पञ्चधा व्यस्य संहिताम्। वात्स्य मुद्गलशालीयगोखल्यशिशिरेष्वधात्। जातूकर्णश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम्। बालाकपैङ्ग्यवेतालविरजेभ्योददौ सुनिः। वाष्कलिः प्रतिशाखाभ्यो बालखिल्याख्यसंहिताम्। चक्रे बालायनिर्भुज्यः काशारश्चैव तां दधुः। बह्वृचाः संहिताह्येता एतैर्ब्रह्मर्षिभिर्धृताः। श्रुत्वैव छन्दसां व्यासं सर्वपापैः प्रमुच्यते” भाग० १२, ६ अ०। “ब्रह्मणा नोदितो व्यासोवेदान् व्यस्यन् प्रचक्रमे। अथ शिष्यान् सञ्जग्राह चतुरोवेदपारगान्। ऋग्वेदश्रावकं पैलं सञ्जग्राह महामतिः। वैशम्पायननामानं यजुर्वेदस्य चाग्रहीत्। जैमिनिः सामवेदस्य तथैवाथर्ववेदवित्। सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धोमतः” विष्णुपु० गृह्यसूत्रम्। “सुमन्तुजैमिनिवैशम्पायनपैलाः सूत्रभाष्यमहाभारतधर्माचार्या” इति। जलतिबाहवीत्यारभ्य माण्डूकेया इत्यन्तामाण्डूकगणाः गर्गीवाचक्नवीत्यारभ्य सांख्यायनमित्यन्ताः सांख्यायनगणाः। एतेषां कौषीतकीसूत्रं ब्राह्मणम् आरण्यकं च। ऐतरेय इत्यारभ्य आश्वलायनान्ताः आश्वलायनगणाः एषन्तु ऐतरेय आरण्यकं ब्राह्मणम्। आश्वलायनसूत्रम्। तत्र यदुक्तं चातुर्वेद्यं चत्वारोवेदाविज्ञाता भवन्ति। अस्मिन् ग्रन्थे चातुर्वेद्यं तेन चत्वारोवेदाविज्ञाता भवन्ति ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदश्चेति इति स्पष्टार्थः। वेदा हि यज्ञार्थम् अभिप्रवृत्ताः। ते यज्ञाः द्विविधाः। अग्नौ हूयमाना, अनग्नौ प्रहुताः। अग्नौ हूयमाना वैताविकाः। अनग्नौ प्रहुता नित्याभ्यासो ब्रह्मयज्ञः पारा- यणं च। अत्र गृह्यसूत्रे ब्रह्मयज्ञखण्डे “यद्वचोऽधीतेपयआहुतिभिरेव तद्देवतास्तर्पयति, यद्यजूंषि घृताहुतिभिः, यत्सामानि मध्वाहुतिभिः, यदथर्वाङ्गिरसः सोमाहुतिभिः, यत् ब्राह्मणानि कल्पान् गाथानाराशंसीरितिहासपुराणानीत्यमृताहुतिभिर्यदृचोऽधीते स्वधा अस्य पितॄन् उपक्षरन्ति” इति। तत्र ऋग्वेदस्याष्टभेदा भवन्ति। स्थानानि भवन्तीति पाठान्तरम्। शाकलबाष्कलौ २ ऐतरेयब्राह्मणारण्यकौ ४ साङ्खायनमाण्डूकौ ६। कौषीतकीय ब्राह्मणारण्मकाविति८ अष्टभेदाः। अन्यच्च “वेदाश्च विकृतिः शाखाभेदस्तु त्रिविधस्ततः। पृथग्नामाभिधानेन व्यासेन कथितं पुरा” इति। अत्राष्टभेदेनाष्टस्थानेन वा प्रकृतिर्ग्राह्या विकृतिस्तु अग्रे वक्ष्यामः। तस्मात् ब्रह्मयज्ञार्थे पारायणार्थे च ऋग्वेदस्याध्ययनं कर्त्तव्यम्। ततश्चतुष्पदेन वक्ष्यति। चर्चेत्यादि चर्चाध्ययनम्। ताल्वोष्टपुटव्यापारेण शब्दस्योच्चारणं क्रियते सा चर्चा। तस्याध्ययनस्य गुरुः श्रावकः। तस्य चर्चकः शिष्यः श्रवणीयपारः। श्रवणीयो वेदः। तस्य पारं समाप्तिः। इति चतुष्पदेन अध्ययनं सूचितम्। अग्रे चतुष्पदेन चत्वारि पारायणानि सूचयढि। तत्पारायणं द्विविषम्। प्रकृतिविकृतिरूपम् का प्रकृतिः?। प्रकृतिः संहिता। सा द्विविधा रूढा योगा च रूढा यथा! “अग्निमीले पुरोहितमिति। योगा यथा। अग्निम् ईले पुरोहितमिति। प्रातिशाख्ये द्वितीयपटले भाष्यकारेण व्याख्यातम्। अथ चतुष्पारायणं यथा। क्रमपारः क्रमपदः क्रमजटाः क्रमदण्डश्चेति चतुष्पारायणम्। क्रमशब्देन उभयसंहिता बाच्या स कथम्?। “अनुलोमविलोमाभ्यां द्विवारं हि पठेत् क्रमम्। विलोमे पदवत्सन्धिरनुलोमे यथाक्रमम्”। यथाक्रमं यथा संहिता इत्यर्थः। अन्यच्च वर्णक्रमः। अक्षरसमाम्नाय एवेत्यारण्यके। “कथमभिष्टुयादित्यक्षरशः चतुरक्षरशः पच्छः अर्द्ध्वर्चशः ऋक्शः”। इति ब्राह्मणम्। क्रमः संहितावाची कथम्?। पद प्रकृतिः संहिता इति नैरुक्तवचनात्। सा क्रमरूपा इत्यर्थः। क्रमपदः। क्रमः संहिता तस्याः पदानि इति प्रकृतिपारायणे द्वेप्रकृतिरूपे। विकृतिस्तु अष्टधा भवति। तच्च “जटा माला शिस्वा लेखा ध्वजो दण्डोरथोघनः। अष्टौ विकृतयः प्रोक्ताः क्रमपूर्बा महर्षिभिः” इति आसां मध्ये जटदण्डयोः प्राधान्यं तत्कथम्?। जटानुसारिणी शिखा दण्डानुसारिणो मालालेखाध्वजोरथश्च। घनस्तु उभयो- रेवात्तुसारी। तत्र जटापटले जटावाक्यम्। “क्रमे यथोक्ते पदजातमेव द्विरभ्यसेदुत्तरमेव पूर्ब्बम्। अभ्यस्य पूर्ब्बं च तथातरे पदेऽवसानमेवं हि जटाभिधीयते” अस्यार्थः। क्रमे यथोक्ते सति क्रमोत्क्रमाभ्यामित्युक्ते क्रमप्रकारे पदजातं पदद्वयं वा पदत्रयं वा द्विवारमभ्यसेत्। द्विवारम्पठेत्। अभ्यासप्रक रः। उत्तरमेव पूर्ब्बम्। क्रमवतपदद्वयं गृहीत्वा पूर्ब्बेण समं प्रथमम् उत्तरपदमभ्यसेत्। ततः उत्तरपूर्ब्बपदयोः सन्धानद्वारा पूर्ब्बम् द्विरभ्यस्योत्तरपदे अवसानम् एवंप्रकारेण अध्ययनं जटा अभिधीयते उदाहरणेन दर्श्यते। अग्निसील ईलेऽग्निमग्निमीले ईले पुरोहितं पुरोहितमील ईले पुरोहितमित्यादि ज्ञेयम्। अथ दण्डलक्षणम्। “क्रममुक्तं विपर्य्यस्य पुनश्च क्रममुत्तरम्। अद्धर्चादेव मुक्त्योक्तः क्रमदण्डोऽभिधीयते। उदाहरणम्। अग्निमीले ईलेऽग्निम् अग्निमालईलेपुरोहितम् पुरोहितमीलेऽग्नि मत्यादि ज्ञेयम्। अथ मालालक्षणम्। “ब्रूयात् क्रमविपर्य्यासाबर्घर्चस्यादिवोऽन्ततः। अन्तं चादिन्नयेदेवं क्रममालेति गीयते। माला मालेव पुष्पाणां पदानाङ्ग्रथिनी हिता। आवर्त्तने क्रमस्तस्यां क्रमव्युत्क्रममंव मा०। अथ शिखालक्षणम्। “पदोत्तराञ्जटामेव शिखामार्य्याः प्रचक्षते। अथ लेखालक्षणम्। क्रमद्वित्रिचतुःपञ्चपदक्रममुदाहरेत्। पृथक् पृथक् विपर्य्यस्य लेखामाहुः पुनः क्रमात्”। अथ ध्वजलक्षणम्। “ब्रूयादादेः क्रमं सम्यगान्तादुत्तारयेद्यदि। वर्गे च ऋचि यत्र स्यात् पठनं स ध्वजः स्मृतः”। अथ रथलक्षणम्। “पादशोर्द्धर्चशो वापि सहोक्त्या दण्डवद्रथः”। अथ घनलक्षणम्। “जटमुक्त्वा विपर्यस्य घनमाहु र्मनोषिणः”। अन्यच्च। “जटाशिखाघनाः प्रोक्ता क्रमपूर्ब्बा मतोषिभिः”। इति विकृतिलक्षणान्यूक्तानि। अध्ययने संहितापारायणम् पदपारायणम् जटापारायणम् क्रमदण्डपारायणं चतुष्पारायणमिन्यर्थः! एतेषां शाखाः पञ्च भवन्ति। एतेषां वेदपारायणानां पञ्च शाखा भवन्तीत्यर्थः। ताः काः?। आश्वलायनी सांख्यायनी शाकला बाष्कला माण्डूका चेति इति प्रसिद्धाः। तेषामसध्ययनम्। तेषाम् आश्वलायनादिशाखानां समानाध्ययनं सूचयति। अध्यायाश्चतुःषष्टिः। अग्निमीले अयं देवायेत्यादि। चतुःषष्टिरध्याया इत्यर्थः। मण्डलानि दशैव तु। अग्निमीले–कुषुम्भकम् इत्यादि उपाकम्मणि प्रसिद्धानि इत्यर्थः! वर्गाणां परिसंख्यातन्द्वे सहस्रे षड्त्तरे। वर्गादिः आऋ- चान्ताः संख्या बालखिल्यैर्विना ज्ञेया। षडुत्तरसहस्रद्वयं वर्गा इत्यर्थः। सहस्रमेकं सूक्तानां निर्विशङ्कं विकल्पितम्। दश सप्त च पठ्यन्ते। सप्तदशाधिकसहस्रं सूक्तानीत्यर्थः। संख्यातं वै पदक्रमम्। एकं शतसहस्रं च द्विपञ्चाशत्सहस्रकम् सार्द्धम् चतुर्दश वासिष्ठानामितरेषां पञ्चाशीतिः। एकलक्षद्विपञ्चाशत्सहस्रपञ्चशतं चतुर्दश वाशिष्टानां वसिष्ठगोत्रिणाम् इन्द्रोभिरेकसप्ततिपदात्मकोवर्गोनास्ति। एतद्गोत्रीयाणां पञ्चाशीत्यधिकपदालीत्यर्थः। अथ बालखिल्यसहितपदसंख्या उच्यते। लक्षैकन्तु त्रिपञ्चाशत्सहस्रं शतसप्तकम्। पदानि च द्विनवतिः प्रमाणं शाकलस्य च। एकलक्षत्रिपञ्चाशत्सहस्रसप्तशतं द्विनवति श्चाधिकानि पदानि इत्यर्थः। पदानि बालखिल्यस्य अर्कसंख्याशतानि च। अधिकानि तु सप्तैव वर्गा अष्टादश स्मृताः सप्ताधिकद्वादशशतानि पदानीत्यर्थः। इत्याश्वलक्षायनानाम् सांख्यायनानान्तु बालखिल्यसहित पदसंख्या उच्यते। शाकल्यदृष्टे पदलक्षपेकं सार्द्धं तथैव त्रिसहस्रयुक्तम्। शतानि सप्तैव तथाधिकानि चत्वारित्रिंशच्च पदानि चर्चा। शाकल्योमाण्डूकगणस्थस्तत्संहितापदानि एकलक्षत्रिपञ्चाशत्सहस्रसप्तशतचतुस्त्रिंशदघिकानि पदानीत्यर्थः। पदानि बालखिल्यस्य रुद्रसं ख्या शतानि च षडशीत्यधिकानि वर्गाः सप्तदशापि च। एकादशशतषट्पञ्चाशदधिकानि बालखिल्य पदानीत्यर्थः। अष्टपञ्चाशत्पदात्मकर्क्त्रयस्य यमृत्विजो वर्गोनास्ति आश्वलायनानाञ्चतुरृचात्मको वर्गः। इत्याश्वलायनसाख्यायनशाख्योरध्ययनयोर्भेद इत्यर्थः। अथ पारायणे ऋक्परिमाणमुच्यते। ऋचां दश सहस्राणि ऋचां पञ्चशतानि च। ऋचामशीतिः पादस्य पारायणं प्रकीर्त्तितम् एतत्पारायणं बालखिल्मैर्विना संख्यातम्। बालखिल्यानि पारायणे न सन्ति। तदुच्यते। ऋग्वेदान्तर्गतबालखिल्यमेकादशसूक्तम् सूक्तसहस्रसप्तदशाधिकमित्यत्र ऋचां दशसहस्राणीत्येतत्संख्या व्यतिरिक्तानि वालखिल्यानीति प्रसिद्धिः” भाष्यम्। अत्र प्रधान शाखाभेदाभिप्रायेण पञ्चविधत्वमुक्तम् “ऋग्वेदस्य तु शाखाः स्यरेकविंशतिसंख्यकाः” मुक्तिकोपनिषदि एकोनविंशतिभेदोक्तिः प्रशाखाभिप्रायेण अत एव प्रशाखाभ्य इति प्रागुक्तभाग० वाक्ये तथोक्तम्। षस्य उपनिषद्भेदस्तु उपनिषच्छब्दे उक्तः। “ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः। सामवेदः स्मृतः पैत्रस्तस्मात्तस्याशुचिर्ध्वनिः मनुः। “ऋग्वेदाधिपतिर्जीवः” ज्यो० उक्तेः जीवस्य ऋग्वेदाधिपत्वं तेन तस्य वारे तद्बले च तत्तत्कर्म ऋग्वेदिभिः करणीयम् “शाखाधिपे बलिनि वीर्य्ययुतेऽथवाम्मिन्”। ज्यो० त० तद्ध्यानं तु “ऋग्वेदः पद्मपत्राक्षो गायत्राः सोमदैवतः। आत्रेयगोत्रः” इति विधा० पा० उक्तम्। ऋग्वेदोऽध्येयत्वेनास्त्यस्य इनि। ऋग्वेदिन् तत्पाठके।

ऋघा = स्त्री ऋ–बा० घन् किच्च। हिंसायाम्। “कविशस्त ऋघावान्” ऋ० १, १५२, २, “ऋघावान् हिंसकः” भा०। “महाव्रातस्तुवि कूर्मिरृघावान्” ऋ० ३, ३०, ३।

***