उपाय = पु० उप + अय–भावे घञ्। १ उपगमे। उपाय्यतेऽर्थोऽनेन करणे घञ्। २ साधने, स च द्विविधः लौकिकोऽलौकिकश्च तत्र घटादिकं प्रति दण्डादिर्लौकिक उपायः स्वर्गं प्रति यागादिरलौकिक उपायः। “उपायेन च यच्छक्यं तच्छक्यं न पराक्रमे” हितो०। “पुंसोनेष्टाभ्युपायत्वात्” कुसु०। ३ राज्ञां रिपुनिराकरणहेतुषु सामादिषु च। “चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया”। “उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः” माघः। “सर्व्वोपायैस्तथा कुर्य्यान्नीतिज्ञः पृथिवीपतिः” मनुः। राज्ञां विजयोपायाश्च सामादयश्चत्वारः “साम भेदश्च दण्डश्च दानञ्चैव चतुष्टयम्। उपायाः कथि ताराज्ञां स्वार्थसम्पत्तयेध्रुवम्” इत्युक्तेः एतेषां लक्षणानि तत्तच्छब्दे वक्ष्यन्ते। क्वचित् सप्तोपायाः पठ्यन्ते। “साम दानञ्च भेदश्च दण्डश्चेति चतुष्टयम्। मायोपेक्षेन्द्रजालञ्च सप्तोपायाः प्रकीर्त्तिताः” शृङ्गारोपायौ च द्वौ “शृङ्गारे तु पुराविद्भिरुपायौ द्वौ प्रकीर्त्तितौ। उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः। सामद्राने इति प्राहुः शृङ्गाररसकोविदाः। भेदे प्रयुज्ममाने हि रसाभासस्तु जायते। निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः” इत्यालङ्कारिकोक्तेः। ४ प्रयुक्तधनप्राप्तिसाधगे उत्तमर्णव्यापारभेदे च “यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्ण्णिकः। तैस्तैरुपायैः संगृह्य दाप्रयेदधमर्ण्णिकम्” मनुः। ते चोपायाः मनुना दर्शिता यथा “धर्म्मेण व्यवहारेण, छलेनाचरितेन च। प्रयुक्तं साधयेदर्थं पञ्चमेन वलेन च”। तत्र धर्म्म उक्तो वृहस्पतिना “सुहृत्सम्बन्धिसन्दिष्टैः साम्ना चानुगमेन च। प्रायेण वा ऋणी दाप्योधर्मएष उदाहृतः” छलादीनि त्रीण्युक्तानि तेनैव “छद्मना याचितञ्चार्थमानीय ऋणिकाद्धनी। अन्याहृतानि वाऽऽहृत्य दाप्यते यत्र सोपधिः। दारपुत्रपशून् हृत्वा कृत्वा द्वारोपवेशनम्। यत्रार्थी दाप्यतेऽह्यर्थं तदाचरितमुच्यते। बद्ध्वा स्वगृहमानीय ताडनाट्यैरुपक्रमैः। ऋणिकोदाप्यते यत्र बलात्त्कारः स कीर्त्तितः” व्यवहारस्तु मनुना स्वयं दर्शितः। “अर्थेऽपवदमानं तु कारणेन विभावितम्। दापयेद्धनिकस्यार्थं दण्डलेशञ्च शक्तितः”। तेन राजावेदनरूपोव्यवहारः” कुल्लू० (नालिश)। मेधातिथिस्तु निःस्वो व्यवहारेण दापयितव्यः अन्यत् कर्मोपकरणं धनं दत्त्वा, कृषिवाणिज्यादि तेन कारयित्वा तत्रोत्पन्न धन तस्माद्गृह्णीयादित्याह”। ५ उपक्रमे च।
उपायन = न० उपाय्यते समीपे उपह्रियते उप + अय–ल्युट्। १ उपढौकने (भेटदेओया) “तस्योपायनयोग्यानि रत्नानि सरितां पतिः” कुमा० कर्म्मणिल्युट्। २ उपढौकनीये “परस्परेण विज्ञातस्तेषूपायनपाणिषु” रघुः “साधिवेश्म निहितैरुपायनैः” माघः “प्रतीच्छन्नुपायनानि” काद०। भावे ल्युट्। ३ उपगमने “उपायन उषसा गोमतीनाम्” ऋ० २, २८, २, “उपायने उपगमने” भा०। “सहोपायनकीर्त्त्या उवास” छा० उ० “उपायनकीर्त्त्या उपगमन कीर्त्तनमात्रेण” शा० भा०।
उपायिन् = त्रि० उपायोऽस्त्यस्य इनि। १ साधनयुक्ते। उप + इण–णिनि। २ उपगन्तरि। “सर्व्वान् वोत्तमेनोपायित्वात्” कात्या० ३, ३, ८, “पञ्चममुत्कृष्टं सर्व्वे उपयन्ति उपगच्छन्ति” कर्कः। “स्वस्थानान्त्येन वोपायित्वात्” कात्या० ३, ५, १६, एकेऽधः प्राक्शायी मध्वाश्यृतुजायोपायी कात्या० ५, २, २, १, ऋतुकालएव सवर्ण्णोपायी” कात्या० १८, ६, २७,। उभयतः स्त्रियां ङीप्।
उपायु = त्रि० उप + इण्–उण्। उपगन्तरि। “तस्मादाह वायवः स्थेति उपायवःस्थेत्युहैक आहुरुप हि द्वितीयोऽयतीति” शत० ब्रा० १, ७, १, ३,
उपार = पु० उप + ऋ–गतौ कर्म्मणि घञ्। उपागते १ समीपे। “अस्ति ज्यायान् कनोयस उपारे” ऋ० ७, ८६, ३, “उपारे उपागते समीपे” भा०।
उपारण = पु० उपेत्य न रसणं यत्र पृषो०। उपेतस्यारतिस्थाने “सुषु वा समुपारणे” ऋ० ८, ३२, २१, उपारणे व्राह्मणा उपेत्य यस्मिन् देशे न रमन्ते सौपारणः” भा०।
उपारत = त्रि० उप + आ + रम–क्त। १ प्रतिनिवृत्ते “उपारताः पश्चिमरात्रगोचरात्” किरा०।
उपारम्भ = उप + आ + रभ–घञ् मुम्। प्रारम्भे “सर्व्वकर्म्मोपारम्भे विनियोगः” सन्ध्यापद्धतिः
उपार्ज्जन = न० उप + अर्ज्जि–ल्युट्। स्यत्वसम्पादकव्यापार भेदे स च अर्ज्जनशब्दे ३६५ पृ० दर्शितः “शस्त्राणां सरथानाञ्च कृत्वा सम्यगुपार्ज्जनम्” रामा०। ण्वुल्। उपार्ज्जक तत्कर्त्तरि त्रि०।
उपालब्ध = त्रि० उप + आ + लभ–क्त। तिरस्कारेण निन्दिते
उपालम्भ = पु० उप + आ–लभ–घञ् मुम् च। निन्दापूर्ब्बकतिरस्कारे। ल्युट्। उपालम्भन तत्रार्थे त०। कर्म्मणि ण्यत्। उपालम्भ्य हिंसनीये, “सौर्यः पशुरुपालम्भ्यः सवनीयश्च” साङ्ख्या० सू०। निरस्कार्य्ये तु न मुम्। उपलभ्य इत्येव।
उपावर्त्तन = न० उप + आ + वृत–ल्युट्। १ पुनरागमने प्रत्यावृत्तौ। “तदुपावर्त्तनशङ्कि मे मनः” रघुः। २ भूमौ लुठने च।
उपावृत्त = त्रि० उप + आ + वृत–क्त। १ श्रमापनयनाय पुनःपुनःर्भमिलुठितेऽश्वे, २ प्रतिनिवृत्ते च। “उपावृत्तस्य पापेभ्योयश्च वासो गुणैः सह” ए० त० भविष्यपुराणम्।
उपावृत् = स्त्री उप + आ–वृत–क्विप्। १ आबर्त्तिनां समीपे आवृत्तौ। “शतं ते सन्त्वावृतः सहस्रं त उपावृतः” यजु० १२, ८। “स्वस्यैवावर्त्तनमावृत् तत्समीपवर्त्तिनामावर्त्तनमुपावृत्” वेददी०। २ निवृत्तौ च। उप + आ + वृतक्तिन्। उपावृत्तिरप्युभयत्र स्त्री
उपाश्रम = पु० उपमितमाश्रमेण अवा० स०। १ आश्रमसदृशे पाशुपपतादिदीक्षादौ। “उपाश्रभानप्यपरान् पाषण्डान् विविधानपि” भा० शा० ३५ अ०। “उपाश्रमान् पाशुपतपाञ्चरात्राद्युक्त दीक्षायोगान्” नीलक०। सामीप्ये अव्य०। २ आश्रमसमीपे अव्य०।
उपाश्रय = पु० उप + आ + श्रि–पचाद्यच्। १ आश्रयकर्त्तरि “ब्राह्मणोपाश्रयोनित्यमुत्कृष्टां जातिमश्नुते” म नुः कर्म्मणि अच्। ३ आश्रणीये “राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः” भा० आश्र० ४ अ०। “त्वं हि नस्तात! सर्वेषां दुःखितानामुपाश्रयः” भा० व० ६११ अ०। भावे अच्। ३ आश्रये।
उपाश्रित = त्रि० उप + आ + श्रि–कर्म्मणि क्त। यस्याश्रयो गृहीतस्तस्मिम् “तथैवोपाश्रिता देवी बुद्धिर्बुद्धिमतांवर!” भा० शा० ४५ अ० उपश्रितेति पाठान्तरम्। कर्त्तरि क्त। २ कृताश्रये त्रि०।
उपासक = त्रि० उप + आस–ण्वुल्। १ सेवके २ उपासनाकर्त्तरि “चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः। उपासकानां सिद्ध्यर्थं ब्रह्मणोरूपकल्पना” वेदा०। ३ शूद्रे पुंस्त्री तस्य द्विजसेवकत्वात् तथात्वम् स्त्रियां जातित्कत् ङीष्। हेमचन्द्रोक्ते ४ वाक्यदशाभेदे यथा वाक्यमुपक्रम्य “आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक्। पञ्चमं भगवत्यङ्गं ज्ञाता धर्म्मकथापि च। उपासकान्तकृदनुत्तरोपपातिका दशाः। प्रश्नव्याकरणञ्चैव विपाकश्रुतमेव च। इत्येकादश सोपाङ्गान्यङ्गानि द्वादश पुनः” इति। उपासनञ्च चिन्तनापरपरपर्य्यायमननात्मिका मानसी क्रिया। सा च क्वचिद्गुणादिकमारोप्यप्रवर्त्तते यथा निर्गुणे ब्रह्मणि सगुणत्वाद्यारोपेण प्रागुक्तवचने निर्गुणस्य ब्रह्मणोरूपारोपेणैव उपासनोक्तेः अतएव “सर्वं खल्विदं ब्रह्म तज्जलान् इति शान्त उपासीत यथाक्रतुरस्मिन् लोके भवति तथेत्य प्रेत्य भवति स क्रतुं कुर्व्वीत” इत्युपक्रम्य “मनोमयः प्राणशरीरः” इत्यादिना छा० उ० “उपासनायां तत्तगुणापाधयोऽभिहिता निर्गुणे प्रथमं चित्तप्रवेशासम्भवेन सगुणे एव मनोऽभिनिवेश्यम् ततो निविष्टमनसः चित्तैकाग्र्यम् ततः उपासितेश्वरानुग्रहादेव समाधियोगसिद्ध्विः इति पात० सू० भाष्ययोर्दर्शितम्। “ईश्वरप्रणिधानाद्वा” सू० “प्रणिधानाद्भक्तिविशेषादायर्जित ईश्वरस्तमनुगृह्णाति श्रभिधानमात्रेण” व्यासं भा० “प्रणिघानाद्भक्तिविशेषात् मानसाद्वाचिकात् कायिकाद्वा आवर्जित अभिमुखीभूतस्तमनु गृह्णाति अभिध्यानमनागतेऽर्थे इच्छा, इदमस्याभिप्रेतमस्त्विति, तावन्मात्रेण न व्यापारान्तरेण” विव०। तादृशेश्वरोपासनाऽसमर्थस्य तु प्रथमं स्थूलादिभ्यो विविच्यात्मनैन्द्रियाद्यात्मकतया चिन्तनं कार्य्यं तच्चिन्तने च फलमुक्तं वायुपु०। “दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। बौद्धाः दश सहस्राणि तिष्ठन्ति विगतज्वराः। पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः” विवृतञ्चै तत् पात० भाष्यविवृतौ वाचस्पतिना “अव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वन्यनममात्मत्वेन प्रतिपन्नाः तदुपासनागततद्वासनावासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमे लीनाः” उक्ततत्तत्कालपर्य्यन्तं तिष्ठन्तीत्यर्थः। उपासनशब्देऽधिकं वक्ष्यते। तन्त्रोक्ता उपासकाश्च पञ्चविधा पञ्चदेवतोपासकत्वात्। “शाक्तः शैवोगाणपत्थः सौरश्च वैष्णवः क्रमात्। उपासकाः पञ्चविधास्तन्त्रश्मस्त्रविधानतः”। पुनस्ते त्रिविधाः। “सात्विको राजसश्चैव तामसश्चेति ते त्रिधा”। प्रकारान्तरेणापि यथासम्मवं त्रिधा। “पशुर्वीरस्तथा दिव्य आचारभेदतस्त्रिधा”
उपासङ्ग = पु० उपासजन्ते शरा अत्र उप + आ + सन्ज–आधारे घञ्। १ तूणे। “इमे च कस्य नाराचाः सहस्रा लोमवाहिनः। समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये” भा० वि० ४२ अ० “एतान् सर्व्वानुपासङ्गान् क्षिप्रं वध्नीहि मे रथे” वि० ४५ अ० भावे घञ्। २ समीपासङ्गे च।
उपासन = न० उपास्यन्ते मूयःक्षिप्यन्ते शरा अत्र उप + असविक्षेपे आधारे ल्यु। १ शरक्षेपशिक्षार्थे शराभ्यासे अमरः। उप + आस–मावे ल्युट्। २ चिन्तने मनने ३ सेवने च “नित्यनैमित्तिकप्रायश्चित्तोपासनेन” “उपसनानि शाण्डिल्यविद्यादीनि” “उपासनस्य चित्तैकाग्र्यं परं प्रयोजजनम् अचिरादिमार्गेण ब्रह्मलोकप्राप्तिरवान्तरफलम्” इति येदान्तसा०। “आचार्य्योपासनं शौचं स्थैर्य्यमात्मविनिग्रहः” इत्युपक्रम्य “एतज्ज्ञानभिति प्रोक्तमज्ञानं यत्ततोन्यऽथा” गीतायाम् आचार्य्योपासनस्य ज्ञानसाधनत्वेन ज्ञानत्वमुक्तम् आचार्य्योपदेशं विना हि ज्ञानानुत्पत्तिः “आचार्य्योपासनं वेदशास्त्रार्थेषु विवेकिता” इत्युपक्रम्य “एतैरुपायैः संशुद्धः सत्वयुक्तोऽमृती भवेत्” याज्ञ० तद्धेतुत्वमुक्तम्। “आचार्य्यमग्निकार्य्यञ्च सन्ध्योपासनमेवच” मनुः। ब्रह्मण उपासनानि च वेदे नानाविधान्युक्तानि तत्र प्रतीकोपासनेतरेषामवान्तरफलमर्चिरादिमार्गेण ब्रह्मलोकप्राप्तिः। प्राप्तब्रह्मलोकस्य तत्र श्रवणमननादिसम्भवेन क्रममुक्तिः “न स पुनरावर्त्तते” इति श्रुतेः तत्र प्राप्तविवेकस्यैवानावृत्तिर्नान्तरापतने “तत्र प्राप्तविवेकस्यानावृत्तिश्रुतिः” सां० सू० उक्तेः। अतएव “इमं मानवं नावर्त्तन्ते” इति श्रुतौ इममिति इदमा विशेषणात् मानवान्तरे आवृत्तिरिति सूचितम्। कार्य्यब्रह्मणोऽघिकारसमाप्तिपर्य्यन्तं तत्रस्थायिनस्तु तेन सहैव मोक्षः। “कार्य्यात्यये तदध्यक्षेण सहातः परमभिधानात्” शा० सू० उक्तेः ब्रह्मणासह भे सर्वे सन्प्राप्ते प्रतिसञ्चरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” श्रुतेः। प्रतीकोपासनायां तु नार्चिरादिना ब्रह्मलोकप्ताप्त्यादि फलम् किन्तु तत्तच्छास्त्रेषूक्तं फलं तत्र तावत् प्रतीकोपासनं तत्फलञ्च शा० सू० भाष्ययोः दर्शितं यथा “न प्रतीकेन हि सः” “मनोब्रह्मेत्युपासीतेत्यध्यात्मम्” “अथाधिदैवतमाकाशो ब्रह्मेति” तथा “आदित्यो ब्रह्मेत्यादेशः, “स यो नाम ब्रह्मेत्युपास्ते” इत्येबमादिषु प्रतीकोपासनेषु संशयः किमेष्वप्यात्मग्रहः कर्त्तव्यो न वेति। किन्तावत् प्राप्तं तेष्वप्यात्मग्रह एव युक्तः कस्मात्? ब्रह्मणः श्रुतिष्यात्मत्वेन प्रसिद्धत्वात् प्रतीकानामपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्यात्मत्वोपपत्तेरित्मेवं प्राप्ते ब्रूमः। न प्रतीकेष्वात्ममतिं बध्नीयात् न हि स उपासकः प्रतीकानि तान्यात्मत्वेनाकलयेत्। यत्पुनर्ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततश्चात्मत्वमिति, तदसत् प्रतीकाभावप्रसङ्गात् विकारस्वरूपोपमर्देन हि नामादिजातस्य ब्रह्मत्वमेवाश्रितं भवति खरूपोपमर्देच नामादीनां कुतः प्रतीकत्वमात्मग्रहो वा। न च ब्रह्मण आत्मत्वाद्ब्रह्मदृष्ट्युपदेशेष्वात्मदृष्टिः कल्प्या कर्तृत्वाद्यनिराकरणात् कर्तृत्वादिसर्व्वसंसारधर्म्मनिराकरणेनं हि ब्रह्मण आत्मत्वोपदेशनिराकरणेन चोपासनविधानं ततश्चोपासकस्य प्रतीकैः समत्वादात्मग्रही नोपपद्यते। न हि रुचकस्वस्तिकयोरितरेतरात्मत्वमस्ति किन्तु सुवर्ण्णात्मत्वमेव। ब्रह्मात्मत्वेनैकत्वे प्रतीकाभावप्रसङ्गमवोचामः। अतो न प्रतीकेष्वात्मत्वदृष्टिः क्रियते” भा०। “ब्रह्मदृष्टिरुत्कर्षात्” भा०। “तेष्वेवोदाहरणेष्वन्यः संशयः किमादित्यादिदृष्टयोब्रह्मण्यध्यसितव्याः? किं वा ब्रह्मदृष्टिरादित्यादिष्विति?। कुतः संशयः? सामानाधिकण्ये कारणानवधारणात् अत्र हि ब्रह्मशब्दस्यादित्यादिशब्दैः सामानाधिकरण्यमुपलभ्यते “आदित्यो ब्रह्म” प्राणो ब्रह्म” “विद्युद्ब्रह्म” इत्यादिसमानबिभक्तिनिर्देशात्। न चात्राञ्जसं समानाधिकरण्यमवकल्पते अर्थान्तरवचनत्वाद्ब्रह्मादित्यादिशब्दानां न हि भवति गौरश्व इति सामानाधिकरण्यम्। ननु प्रकृतिविकारभावाद्ब्रह्मादित्यादीनां मृच्छरावादिवत् सामानाधिकरण्यं स्यात् नेत्युच्यते विकारप्रविलयोह्येवं प्रकृतिसामानाधिकण्यात् स्यात् ततश्च प्रतीकाभावप्रसङ्गमवोचाम। परमात्मवाक्यञ्चेदन्तदानीं स्यात् ततश्चोपासनाधिकारोबाध्येत परिमितविकारोपादानञ्च व्यर्थम। तस्माद्ब्रह्मणः “अग्निर्वैश्वानरः” इत्यादिवदन्यतरत्रान्यतरदृष्ट्यध्यासे सति किंदृष्टिरध्यस्यतामिति संशयः। तत्रानियमः नियमकारिणः शास्त्रस्याभावादिव्येवं प्राप्तम्। अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्त्तव्या इत्येवं प्राप्तम् एवं ह्यादित्यादिदृष्टिभिर्ब्रह्मोपसनञ्च फलवदिति शास्त्रमर्य्यादा। तस्मान्न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते ब्रूमः। ब्रह्मदृष्टिरेवादित्यादिषु स्यादिति। कस्मात्? उत्कर्षात् एवमुत्कर्षेणादित्यादयोदृष्टा भवन्ति उत्कृष्टदृष्टेस्तेष्वध्यासात्। तथा च लौकिकीन्यायोऽनुमतो भवति। उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिकोन्यायः यथा राजदृष्टिः क्षत्तरि, सचानुगन्तव्यः विपर्य्यये प्रत्यवायप्रसङ्गात्। न हि क्षत्तृदृष्टिपरिगृहीतोराजा निकर्षं नीयमानः श्रेयसे स्यात्। ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गः न च लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति। अत्रोच्यते निर्द्धारिते शास्त्रार्थे एतदेवं स्यात् सन्दिग्धे तु तस्मिंस्तन्निर्ण्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते। तेन चोत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्य्यमाणे निकृष्टदृष्टिमध्यस्य प्रत्यवेयादिति श्लिष्यते। प्राथम्याच्चादित्यादिशब्दानां मुख्यार्थत्वमविरोधाद्ग्रहीतव्यम्। तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो व्रह्मशब्दस्य मुख्यवृत्त्या सामानाधिकरण्यासम्भवाद्ब्रह्मदृष्टिविधानार्थतैवावतिष्ठते। इतिपरत्वादपि ब्रह्मशब्दस्यैव एषोऽर्थोन्याय्यः। तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत, ब्रह्मेत्युपास्त इति च सर्व्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति शुद्धांस्त्वादित्यादिशब्दान्। ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र शुक्तिवचनएव शुक्तिकाशब्दः रजतशब्दस्तु रजतप्रतीतिलक्षणार्थः प्रतीत्यैव हि केवलं रजतमिति न तु तत्र रजतमस्ति, एवमत्राप्यादित्यादीन् ब्रह्मेति प्रतीयादिति गम्यते। वाक्यशेषोऽपि च द्वितीयानिर्देशेनादित्यादीनेवोपास्तिक्रियया व्याप्यमानान् दर्शयति “स य एतदेवंविद्वानादित्यं ब्रह्मेत्युपास्ते” “यीवाचं व्रह्मेत्युपास्ते “यः सङ्कल्पं ब्रह्मेत्युपास्त” इति। यत्तूक्तं ब्रह्मोपासनमेवात्रादरणीयं फलवत्त्वायेति तदयुक्तं उक्तेन न्यायेनादित्यादीनामेवोपास्यत्वस्यावगमात्। फलन्त्वतिथ्याद्युपासन इवादित्याद्युपासनेऽपि ब्रह्मैव दास्यति सर्वाध्यक्ष त्वात्। वर्ण्णितञ्चैतत् “फलमत उपपत्तेरित्यत्र”। ईदृशञ्चात्र ब्रह्मण उपास्यत्वं यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणं प्रतिमादिष्विव विष्ण्वादीनाम्” भा०। एवं प्रतीकोपासनं निरूप्य तत्फलमुक्तम् तत्रैब ४ अ० ३ पादे “अप्रतीकालम्बनान्नयतीति वादरायण उभयथाऽदोषात्तत्क्रतुश्च” सू०। “स्थितमेतत् कार्य्यविषया गतिर्न परविषयेति। इदमिदानीं सन्दिह्यते किं सर्व्वान् विकारालम्बनानविशेषेणैवामानवः पुरुषः प्रापयति ब्रह्मलोकम्? उतकांश्चिदेवेति?। किं तावत् प्राप्त सर्वेषामेवैषां विदुषामन्यत्र परस्माद्ब्रह्मणोगतिःस्यात्। तथा हि नियमः सर्व्वस्वामोत्यत्राविशेषणैवैषा विद्यान्तरेष्ववतारितेत्येव प्राप्ते प्रत्याह। अप्रतीकालम्बनानिति। प्रतीकालम्बनान् वर्जयित्वा सर्व्वानन्यान् विकारालम्बनान्नयति ब्रह्मलोकमिति बादरायणाचार्य्योमन्यते। नह्येवमुभयथाभावाभ्युपगमे कश्चिद्दाषोऽस्ति। अनियमन्यायस्य प्रतीकव्यातरिक्तेष्वप्युपासनेषूपपत्तेः। तत्क्रतुश्चास्योभयथा भावस्य समर्थकोहेतुर्द्रष्टव्यः। योहि ब्रह्मक्रतुः स ब्राह्मणैश्वर्य्यमाणोदेदिति श्लिष्टतरं “यथा यथोपासवे तदेव भवतीति” श्रुतेः। न तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति प्रतीक प्रधानत्वादुपासनस्य। ननु अव्रह्मक्रतुमानपि ब्रह्म गच्छतीति श्रूयते यथा पञ्चाग्निविद्यायां सएनान् ब्रह्म गमयतीति”। भवत यत्रैवमाहृत्य वाद उपलभ्यते, तदभावे- त्वौत्सर्गिकेण तत्क्रतून्यायेन ब्रह्मक्रतूनामेव तत्प्राप्ति र्नेनरेषामिति मन्यते” भा०। “विशेषञ्च दर्शयति” सू०। “नामादिषु च प्रतीकोपासनादिषु पूर्व्वस्मात् पूर्ब्बन्मात् फलविशेषमुत्तरस्मिन्नुत्तरस्मिन्नुपासने दर्शयति “यावन्नाम्नोगतं तत्रास्य यथाकामवारो भवति” “वाग्वाव नाम्नोभूयसी” “यावद्वाचोगतं तत्रास्ययथाकामचारो भवति “मनोवाव वाचोभूयः” इत्यादिना। स चायं फलविशेषः प्रतीकतन्त्रचादुपासनानामुपपद्यते, ब्रह्मतन्त्रत्वे तु व्रह्मणोऽविशिष्टत्वात्कथं फलविशेषःस्यात्?। तस्मान्न प्रतीकालम्बनानामितरैस्तुल्यफलत्वमिति” भा०।
उपासनञ्च मानसव्यापारो यद्यपि देहव्यापारानपेक्षस्तथा पि आसीनस्यैव तद्भवति नान्यस्य यथाह शा० सू० भाष्ययोः” “आसीनः सम्भवात्” सू०। “कर्माङ्गसम्बन्धिषु कर्मतन्त्रत्वादाहृनादिचिन्तनेऽपि सम्यग्दर्शने वस्तुतन्त्रत्वात् ज्ञानस्य इतरेषुतूपासनेपु किमनियमेन तिष्ठन्नासीनः शयानो वा प्रवर्त्ते तेत्यनियमे न आसीन एवेति। तत्र मानसत्वादुपासनस्यानियमः शरीरस्थितेरित्येवं प्राप्ते ब्रवीति आसीन एवोपासीतेति कुतः? सम्भवात्। उपासनं नाम समानप्रत्ययप्रवाहकरणं न च तद्गच्छतो धावतो वा सम्भवति गत्यादीनां चित्तविक्षेपकरत्वात्। तिष्ठतोऽपि देहधारणे व्यापृतं मनो म सूक्ष्मवस्तुनिरीक्षणक्षमम्भवति। शयानश्चाप्यकस्मादेव निद्रयाऽभिभूयते। आसीनस्य त्वेवंजातीयको भूयान्दोषः सुपरिहर इति सम्भवति तस्योपासनम्” भा०। “ध्या नाच्च” सू० “अपि च ध्यायत्यर्थ एषः यत्समानप्रत्यय प्रवाहकरणं, ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिष्वेकविषयाक्षिप्तचित्तेषूपचर्यमाणो दृश्यते ध्यायति वको ध्यायति प्रोषितबन्धुरिति। आसीनस्यानायासो भवति। तस्मादप्यासोनकर्म उपासनम्” भा०। “अचलत्वापेक्ष्य” सू०। “अपि च ध्यायतीव पृथिवीत्यत्र पृथिव्यादिषुचलत्वमपेक्ष्य ध्यायतिवादो भवति तच्च लिङ्गमुपासनस्यासीनकर्मत्वे” भा०। “स्मरन्ति च” सू० “स्मरन्त्यपि च शिष्टा उपासनाङ्गत्वेनासनम्” “शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः” इत्यादिना अतएव च पद्मकादीनामासनविशेषाणामुपदेशोयोगशास्त्रे” भा०। उपासनञ्चामरणात् भूयः कर्त्तव्यमित्यपि तत्रैवोक्तम्।
“आ प्रायणात् तत्रापि हि दृष्टम्” सू०। “आवृत्तिः सर्वोपासनेष्वादर्त्तव्येति स्थितमाद्येऽधिकरणे। तत्र यानि तावत् सम्यग्दर्शनार्घान्युपासनानि तान्यवघातादिवत् कार्यपर्य- वसानानीति ज्ञातमेवैषामावृत्तिपरिमाणंन हि सम्यग्दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चिच्छासितु शक्यम् अनियोज्यब्रह्मात्मत्वप्रतोतेः शास्त्रस्य विषयत्वात्। यानि पुनरभ्युदयफलानि तेष्वेषा चिन्ता कि कियन्तञ्चित्काणं प्रत्ययमावर्त्योपरमेत् उत यावज्जीवमावर्त्तयेदिति। किन्तावत् प्राप्तं कियन्तञ्चित्कालं प्रत्ययमभ्यस्योत्सृजेत् आवृत्तिविशिष्टस्योप सतशब्दार्थस्य कृतत्वादित्येवं प्राप्ते ब्रूमः। आ प्रायणादेवावर्त्तयेत् प्रत्ययम्, अन्त्यप्रत्ययवशाद दृष्टफलप्राप्तेः। कर्माण्यपि हि जन्मान्तरोपभोग्यं फलमारभमाणानि तदनुरूपं भावनाविज्ञानं प्रायणकाले आक्षिपन्ति। “सविज्ञानो भवति” “सविज्ञानमेवान्ववक्रामति” “यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना यथा सङ्कल्पितं लोकं नयतीति” चैवमादिश्रुतिभ्यः तृणजलायूकानिदर्शनाच्च। प्रत्ययास्त्वेते स्वरूपावृत्तिं मुक्त्वा किमन्यत् प्रायणकाले भावनाविज्ञानमपेक्षेरन्। तस्माद्ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययास्तेष्वा प्रायणादावृत्तिः। तथा च श्रुतिः “स यावत्क्रतुरयमस्माल्लोकात् प्रैतीति” प्रायणकालेऽपि प्रत्ययानुवृत्तिं दर्शयति। स्मृतिरपि “यं यं चापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय! सदा तद्भावभावितः” इति “प्रयाणकाले मनसाऽचलेनेति” च। सोऽन्तवेलायामेतत् त्रयं प्रतिपद्येतेति” च मरणवेकायां कर्त्तव्यशेषं श्रावयति” भा०। प्रतीकभिन्नेषु उपासनेषु अर्चिरादिमार्गेण ब्रह्मलोकावाप्तिः फलम्। “अर्चिरादिना तत्प्रथितेः” शा० सू० भाष्ययोरुक्तम् तच्च अर्च्चिरादिमार्गशब्दे आतिवाहिकशब्दे च उक्तम्। युच् उपासनाप्यत्र स्त्री। “न्यायचर्च्चेयमीशस्य मनमव्यपदेशभाक्। उपासनैव क्रियते श्रवणानन्तरागता” कुमु० सेवने च “उपासनामेत्य पितुः स्म सृज्यते” नैष०। शाण्डिल्योक्ता भक्तिरूपोपासना भक्तिशब्दे वक्ष्यते।
उपासा = स्त्री उप + आस भावे अ। उपासने “उपासासिद्धश्य प्रसंशामात्रम्” सां० सू०
उपासादित = त्रि० उप + आ + सद–णिच्–कर्मणि क्त। १ प्राप्ते भावे क्त। २ प्राप्तौ ततः तत्कृतमनेन इष्ठा० इनि उपासादितिन् कृतलाभे स्त्रियां ङीप्।
उपासित = त्रि० उप + आस–सेवनार्थत्वात् कर्मणि क्त। कृतोपासने यस्योपासनं कृतं तस्मिन् देवादौ।
उपास्ति = स्त्री उप + आस–क्तिन् स्त्रीप्रत्ययत्वेऽपि बा० युच् अ वा न क्तिनोबाधकः। उपासनायाम् “स्वर्गापवर्गयोर्मार्गमामनन्ति- मनीषिणः। यदुपास्तिमसावत्र परमात्मानिरूप्यते” कुसु०।
उपास्त्र = न० उपगतमस्त्रम् उपकरणत्वेन अत्या० स०। अस्त्रोपकरणे तूंणादौ”। “राजानौ नीतिमार्गरतौ अस्त्रोपास्त्रकृतिनौ भा० व० १९६ अ०।
उपास्य = त्रि० उप + आस–सेवनार्थत्वात् कर्मणि ण्यत्। १ सेवनीये २ चिन्तनीये “पुत्रवच्च ततो रक्ष्या उपास्या गुरवच्च ते” भा० अनु० ८ अ० “गङ्गा सदैवात्मवशैरुपास्या” भा० अनु० २६ अ० उप + आस–ल्यप्। ३ सेवयित्वेत्यर्थे ४ चिन्तयित्वेत्यर्थे च अव्य०। ४ उपास्य सन्ध्यां विधिवत्” स्मृतिः।
उपाहित = पु० उप आसन्नमहितं यतः। १ उल्कापातादौ अग्न्युत्पातरूपे उपद्रवे उप + आ–धा–क्त। २ आरोपिते, त्रि०
उपेक्ष = पु० गान्दिनीसुते अक्रूरभातृभेदे। “अक्रूरः सुषुवे तस्मात् श्वफल्कात् भूरिदक्षिणः। उपमद्गुस्तथा मद्गुर्मुदरश्चारिमेजयः। अविक्षिपस्तथोपेक्षः शत्रुघ्नोऽथारिमर्द्दनः” हार० ३५ तत्रैव ३९ अध्याये च गान्दिनीसुतत्वमस्योक्तम्
उपेक्षक = त्रि० उप + ईक्ष–ण्वुल्। उपेक्षाकारके योगिनि “उपेक्षकोऽसङ्गसुको मुनिर्भावसमन्वितः” मनुः “दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरता त्वन्या” सां० का०
उपेक्षण = न० उप + ईक्ष–भावे ल्युट्। १ त्यागे २ औदासीन्ये च ३ राज्ञां सप्तविधोपायान्तर्गते उपायभेदे “साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च” भा० व० १५०। उपेक्षणस्य यथोपायत्वं तथा उपायशब्दे उक्तम्।
उपेक्षणीय = त्रि० उप + ईक्ष–अनीयर्। १ त्याज्ये २ प्रतीकारार्थमनालोचनीये च “नश्यत् पुरस्तादनुपेक्षणीयम्” रघुः।
उपेक्षा = स्त्री उप + ईक्ष–अ। १ त्यागे इदं न मम स्यादिति इच्छाभेदे ३ औदासीन्ये ४ अनपेक्षणे च। उपेक्षा च परस्वत्वानभिसन्धानापूर्बकस्वत्वप्रागभावासमानकालीनस्वत्वाविषयकेच्छा। उपेक्षायाः स्वत्वनाशकत्वम् स्मृतौ व्यवस्थापितम् “उपेक्षानात्मक स्तत्र निश्चयः कारणं भवेत्” भाषोक्ते ५ इदमुपादेयं न भवतीत्याकारकज्ञानभेदे च “कुर्यामुपेक्षां हतजीपितेऽस्मिन्” रघुः। ६ योगशास्त्रोक्ते चित्तप्रसादनार्थभावनाचतुष्टयान्तर्गते भावनाभेदे। “मैत्रीकरणामुदितोपेक्षाणां सुखदुःस्वपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम्” पात० सू०
उपेत = त्रि० उप + इण–क्त। १ उपगते २ समीपगते सेवादिधर्मेण ३ प्राप्ते ४ उपनीते च। “यं प्रव्रजन्तमनुपेतमपेतकृत्यम्” भा० १ स्क०। “न स्त्री जुहुयान्नानुपेतः” स्मृतिः। “अतुपेतः अनुपनीतः” म० त० रघु०। गर्भाधानार्थं ५ स्त्रिय- मुगते च “गर्भाधानमुपेतो ब्रह्मगर्भं सन्दधाति” हारीतः “उपेतः स्त्रियमुपगतः” सं० त० रघुनन्दनः।
उपेन्द्र = पु० उपगत इन्द्रम् अनुजत्वात् अत्या० स०। १ विष्णौ। स हि कश्यपात् अदितौ इन्द्रादनन्तरं वामनरूपतया संजातः इति तस्य तथात्वम्। “उपेन्द्रो वामनः प्रांशुः” विष्णुस०। अत्र भाष्ये अन्यापि निरुक्तिर्दर्शिता यथा। “ममोपरि यथेन्द्रस्त्वं स्थापितोगोभिरीश्वरः। उपेन्द्र इति कृष्ण! त्वां गास्यन्ति दिवि देवताः” इति हरिवंशवचनात् उपरि इन्द्रः उपेन्द्रः” इति। अत्र वासुदेवस्यैव यथोपेन्द्रनामता, तथा गोवर्द्धनोद्धारणेन गोषु रक्षितासु तत्प्रीतये गोभिस्तस्य सर्वोपरिलीकस्थितत्वेन उपेन्द्रनामतयाऽभिषेकः कृत इति वर्ण्णितं हरिवं० ७६ अ० यथा। “अपामधस्ताल्लोकोऽयं तस्योपरि महीधराः। नागानामुपरिष्टाद्भूः पृथिव्युपरि मानुषाः। मनुष्यलोकादूर्द्ध्वं तु खगानां गतिरुच्यते। आकाशस्योपरि रविर्द्वारं स्वर्गस्य भानुमान्। देवलोकः परस्तस्माद्विमानगमनो महान्। यत्राहं कृष्ण! देवानामैन्द्रे विनिहितः पदे। स्वर्गादूर्द्ध्वं ब्रह्मलोको महर्षिगणपूजितः। तत्र सोमगतिश्चैव ज्योतिषाञ्च महात्मनाम्। तस्योपरि गवां लोकः सिद्धास्तं पालयन्ति हि। स हि सर्वगतः कृष्ण! महाकाशगतो महान्। उपर्युपरि तत्रापि गतिस्तव तपोमयी। यां न विद्म वयं सर्वे पृच्छन्तोऽपि पितामहम्। लोकास्त्वधो दुष्कृतिनां नागलोकस्तु दारुणः। पृथिवी कर्मशीलानां क्षेत्रं सर्वस्य कर्मणः। खमस्थिराणां विषयो वायुना तुल्यवर्त्तिनाम्। गतिः शमदमाढ्यानां स्वर्गः सुकृतकर्मणाम्। ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः। गवामेव तु गोलोको दुरारोहा हि सा गतिः। स तु लोकस्त्वया कृष्ण! सीदमानः कृपात्मना। धृतो धृतिमता वीर! निघ्नतोपद्रवं गवाम्। तदहं समनुप्राप्तो गवां वाक्येन नोदितः। ब्रह्मणश्च महाभाग। गौरवात्तव चानघ!। अहं भूतपतिः कृष्ण! देवराजः पुरन्दरः। अदितेर्गर्भपर्याये पूर्ब्बजस्ते पुरातनः। तेजस्तेजस्विनश्चैव यत्ते दर्शितवानहम्। मेघरूपेण तत्सर्वं क्षन्तुमर्हसि मे विभो!। एवं क्षान्तमनाः कृष्ण! स्येन सौम्येन तेजसा। ब्रह्मणः शृणु मे वाक्यं गवाञ्च गजविक्रम!। आह त्वां भगवान् ब्रह्मा गावश्चाकाशगा दिवि। कर्मभिस्तोषिता दिव्यैस्तव संरक्षणादिभिः। भवता रक्षिता लोका गोलोकश्च महानयम्। तद्वयं पुङ्गवैः सार्द्धं वर्द्ध्वामः प्रसवैस्तथा। कर्ष- कान् पुङ्गवैर्वाह्यैर्म्मेध्येन हविषा सुरान्। श्रियं शकृत्प्रवृत्तेन तर्पयिष्यामः कामदाः। तदस्माकं गुरुस्त्वं हि प्राणदश्च महाबल!। अद्यप्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो!। तस्मात्त्वं काञ्चमैः पूर्णैर्द्दिव्यस्य पयसो घटैः। एभिरद्याभिषिच्यस्व मया हस्तावनामितैः। अहं किलेन्द्रो देवानां त्वङ्गवामिन्द्रताङ्गतः। गोविन्द इति लोकास्त्वां स्ताष्यन्ति भुवि शाश्वतम्। ममोपरि यथेन्द्रस्त्वं स्थापितो गोमिरोश्वरः। उपेन्द्र इति कृष्ण! त्वां गास्यन्ति दिवि देवताः”। “ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान्। अभिषेकेन गोविन्दं योजयामास योगवित्। दृष्ट्वाऽभिभिच्यमानं तं गावस्ताः सह यूथपैः। स्तनैः प्रस्रवसंयुक्तैः सिषिचुः कृष्णमव्ययम्। मेघाश्च दिवि मुक्ताभिः सामृताभिः समन्ततः। सिषिचुस्तोयधाराभिः सिच्यमानं तमव्ययम्। वनस्पतीनां सर्वेषां सुस्रावेन्दनिमं पयः। ववर्ष पुष्पवर्षञ्च नेदुस्तूर्थाणि चाम्बरे। स्तुवन्ति मुनयः सर्वेबाग्भिर्मन्त्रपरायणाः। एकार्णवविविक्तञ्च दधार वसुधा वपुः। प्रसादं सागरा जग्मुर्तवुर्वाता जगद्धिताः। मार्गस्थो विबभौ भानुः सोमो नक्षत्रसंयुतः। ईतयः प्रशमं जग्मुर्जग्मुर्निवैर्रतां नृपाः। प्रवालपत्रशवलाः पुष्पवन्तश्च पादपाः। मदं प्रसुस्नुवुर्नागा यातास्तोषं वने मृगाः। अलङ्कृता नात्ररुहैर्धातुभिर्भान्ति पर्वताः। देवलोकोपमो लोकस्तृप्तोऽमृतरसैरिव। आसीत् कृष्णाभिषेके हि दिव्यः स्वर्गरसोक्षितः। अभिषिक्तन्तु तं गोभिः शक्रो गोविन्दमव्ययम्। दिव्यमाल्याम्बरधरं देवदेवोऽब्रवीदिदम्। एष ते प्रथमः कृष्ण! नियोगो गोषु यः कृतः”। तत्रैव १७ अ०। “शक्रस्तु स्वयमागत्य दैवतैः सह वृत्रहा। अभिषिच्याब्रवीत् कृष्णमुपेन्द्रेति शचीपतिः”। वासुदेवस्यैवेन्द्रेण उपेन्द्रनान्त्राऽभिषेकः कृतः इत्युक्तम्। भा० ८ स्क० ३३ अ० तु वामनस्यैव तन्नामतोक्ता यथा वामनेन बलेर्दमनानन्तरम्। “कश्यपस्यादितेः प्रीत्यै सर्व्वभूतभवाय च। लोकानां लोकपालानामकरोत् वामनं पतिम्। वेदानां सर्वदेवानां धर्मस्य यशसां श्रियः। मङ्गलानां व्रतानाञ्च कल्पं स्वर्गापवर्गयोः। उपेन्द्रं कल्पयाञ्चक्रे इति सर्वविभूतये इति” “प्राप्य त्रिभुवनञ्चेन्द्र उपेन्द्रभुजपालितः” इति तत्रैव। वामनस्य उपेन्द्रत्वमिन्द्रानुजातत्वात् वासुदेवस्य तु पूर्दोक्तप्रकारेण तन्नामता उभयोरेव एक परमेश्वरांशत्वान्न विरोधः। “तदिन्द्रसन्दिकृष्टसुपेन्द्र! यद्वचः” माघे नारदस्य वासुदेवसम्बोधनतया प्रयोगः।
उपेन्द्रवज्रा = स्त्री “उपेन्द्रवज्रा जतजास्ततो गौ” इति वृ० र० उक्ते एकादशाक्षरपादके छन्दोभेदे। अस्याश्च इन्द्रवज्रया संमेलने यथोपजातित्वं तथा इन्द्रवज्राशब्दे दर्शितम्।
उपेय = त्रि० उप + इण्–यत्। १ उपायसाध्ये, २ प्राप्तव्ये च। २ उपगम्ये “उपेतारमुपेयञ्च सर्वोपायाश्च कृत्स्नशः” मनुः “ज्ञातित्वेनानुपेयास्ताः” मनुः। ३ अन्विष्य गम्ये “भूधरस्थिरमुपेयमागतम्” माघः। “उपेयमन्विष्य गम्यम्” मल्लि०
उपेयिवस् = त्रि० उप + इण–क्वमु लोकेऽपि नि०। उपगते “पश्चाद्भेदमुपेयुषे” कुमा० “उपेयिवांसि कर्त्तारः पुरीमाजात शात्रवीम्। राजन्यकानि” “उपेयुषोमोक्षपथं मनस्विनः” माघः। स्त्रियां ङीपि उपेयुषी।
उपोढ = त्रि० उप + वह–क्त। सन्निवेशविशेषयुक्ते १ व्यूढे सैन्ये २ निकटे, “तदुपोढैश्च नभश्चरैः पृषत्कः” किरा० तं “वराहमुपोढैः प्रत्यासन्नैः” मल्लि०। ३ ऊढे कृतविवाहे च। भावे क्त। सैन्यविन्थासभेदे व्यूहे न०।
उपोत = त्रि० उप + वेञ् क्त। उपस्यूते। गौरा० ङीष्। पूतिकायां स्त्री शब्दरत्ना०
उपोत्तम = त्रि० उपगतमुत्तमम् अव्यधानेन अत्या० स०। उपान्तिमे अन्त्यात् पूर्ब्बतने। “गुरूपोत्तमयोः ष्यङ् गोत्रे”। “योपधाद्गुरूपोत्तमाद्वुञ्” “झल्युपोत्तमम्” “उपोत्तमं रिति” पा०
उपोदक = पु० उपगतमुदकम् अत्या० स०। उदकसमीपस्थे। “प्रजापतौ त्वा देवतायामुपोदके” यजु० ३५, ६, “अयं वै लोक उपोदकस्तदेनं प्रजापतौ देवतायागुपोदके लोके निदधाति” शत० ब्रा० १३, ८, ३, ३, सामीप्ये अव्ययी०। २ उदकसमीपे अव्ययम्।
उपोदकी = स्त्री उपगतमुदकमत्र गौरा० ङीष्। पूतिकायाम् (पुइशाक)। राजनि०। “द्वादस्यां पारणं कुर्य्याद् वर्ज्जयित्वाप्युपोदकीम्” ऐ० त० कूर्म्मपुराणम्।
उपोदिका = स्त्री उपाधिकमुदकं यत्र उदादेशः संज्ञायां कन् अतैत्त्वम्। पूतिकाशाके अमरः तत्पाकादि प्रकारगुणादि वैद्यके उक्तम्। “एकाहं षड्रमोपेता किमन्यैर्व्यञ्जनान्तरैः। तण्डुलैरानतव्याजैर्हसत्येषा उपोदिका। वटपत्रवच्छुभपत्रिका परितप्ततैलसुपाचिता। नवहिङ्गुवासमुवासिता परिभोक्तृचित्तसुविकाशिका। सुतप्तवतैलविपाचिता सुघनाम्लतक्रसुपाचिता। सूपोदिकाज्यभर्ज्जिता भोक्तुराशु रसनाग्रनर्त्तकी। पोदिका शीतला बल्या श्लेष्मला वातपित्तहा। पथ्यात्र दोषशमनी निद्रापुष्टिकरी मता” उपाधिकमुदकं यत्र उदादेशः गौरा० ङीष् स्वार्थे कन् वा ह्रस्यः। उपोदीकाप्यत्र स्त्री
उपोद्ग्रह = पु० उप + उद् + ग्रह–अप्। ज्ञाने। “तस्याह मुखमुपोद्गृह्णन्निति” छा० उ०। “उपोद्पूर्वकग्रहेः ज्ञानार्थ त्वदर्शनात् तथार्थत्वम्।
उपोद्धातः = पु० समीपवर्त्तिनः प्रकृतस्य उद्घातः उद्धननम् ज्ञानं चिन्तनम् यत्र। उप + उद्–हन–गतौ गत्यर्थत्वात् ज्ञानार्थता आधारे घञ्। १ प्रकृतसिद्ध्यर्थमालोचनात्मके सङ्गतिप्रभेदे। “चिन्तां प्रकृतसद्ध्यर्थामुपोद्घातं विदुर्बुधाः” अवसरशब्दे विवृतिः। २ तदर्थवर्णने च। लक्षणोपोद्घातेन विशिष्टज्ञानस्य, कारणत्वं व्यवस्थापयति” दीधि० ३ प्रारम्भे च
उपोद्वलन = न० उप + उ + द्वल–ल्युट्। उद्दीपने उत्तेजने।
उपोषण = न० उप + उष–ल्युट्। उपवासे अहोरात्राभोजने। “प्राप्ते श्रीरामनवमीदिने मर्त्योविमूढधीः। उपोषणं न कुरुते कुम्भीपाके महीयते”। “उपोषणं नवम्याञ्च दशन्यामेव पारणम्” ति० त० अगस्त्यसं०। उपवासशब्दे विवृतिः। उपवासस्य उपदाहसाधनत्वात् तथात्वम्।
उपोषित = न० उप + वास + भावे–क्त। १ उपवासे। “नास्ति स्त्रीणां पृथग्यज्ञः न व्रतंनाप्युपोषितम्” मनुः। कर्त्तरि क्त। २ उपवासकर्त्तरि त्रि०। “उपोषितो द्वितीयेऽह्नि पूजयेत् पुनरेव ताम्” दुर्ग० त० पु०।
उपोष्य = त्रि० उप + वस–अकर्मकषातुयोगे कालस्य कर्मसंज्ञा विधानात् कर्मणि बा० क्यप्। १ उपवासेन यापनीये तिथ्यादौ। “त्रिसन्ध्यव्यापिनी या तु सैवोपोष्या सदा तिथिः” कालमा० पु०। उप + वस–ल्यप्। २ उपवासं कृत्वेत्यर्थे अव्य०।
उप्त = त्रि० वप–क्त। १ कृतवापे धान्यादौ अधिकरणे क्त। २ उप्तधान्यादौ क्षेत्रे। “सर्व्वं क्षणेन तदभूदसदीश! रिक्तं मस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम्” भाग०। ३ मुण्डिते च। “पर्य्युप्तशिरसमिति” पार० सू०। परिसर्व्वतोभावेन उप्तशिरसम् मुण्डितशिरसम्” हरिनाथः। भावे क्तिन्। उप्ति वपने स्त्री “वौजानामुप्तिविच्च स्यात्” मनुः।
उप्तकृष्ट = त्रि० पूर्व्वमुप्तं पश्चात् कृष्टं पूर्ब्बकालेत्यादिना स०। वीजवपनानन्तरं कृष्टे क्षेत्रे (वीजाकृते क्षेत्रे)। (काडान)
उप्त्रिम = त्रि० बव + क्ति मप् च। वपनजाते।
उप्य = त्रि० वप–बा० कर्मणि क्यप्। वपनोये ब्रीह्यादौ “दोक्षितश्चेदुपतप्येतोप्यानां येनेच्छेत् चिकित्सेत्” आत्या० २५, १३, २०। “उप्यानां व्रीहियवादीनाम्” कर्कः।
उब्ज = आर्जवे तुदा० पर० अक० सेट्। उब्जति औब्जीत्। णिचि उब्जयति ते औब्जिजत् त। “इन्द्राग्नीरक्ष उब्जतम्” ऋ० १, २१, ५। “उब्जन्तु तं सुभ्वः पर्व्वतासः” ६, ५ २, १। घञ् नि० वस्य दः समुद्गः अभ्युद्गः। नि + उब्ज (उलटान) उत्तानस्यावतानकरणे न्युब्जति उत्तानं वस्तु अवतानं करोतीत्यर्थः।
उब्जक = त्रि० उब्ज–ण्वुल्। आर्ज्जवयुक्ते। ततः तिका० फिञ् औब्जायनि तदपत्ये पुंस्त्री। तिककतवादित्वात् गोत्रप्रत्ययस्य बहुषु द्वन्द्वे दुक्। उब्जककुभाः।
उभ(म्भ) = पूर्त्तौ तुदा० प० सक० सेट्। उभति औभीत्। उवोभ। उम्भति उम्भीत् अयं मुचादिरिति कविकल्प तन्मते औम्भत्” मोपधत्वात् नोपधालोपः उम्भाम् बभूव आस चकार। वेदे गणव्यत्ययः उनप्ति उम्राति “दृढान्यौम्नादुशमानओजः” ऋ० ४, १९, ४। “दृध्रमुब्धं गा ये मानम् परिबन्तमद्रिम्” ऋ० ४, १, १५। “सर्व्वमर्म्मसु काकुत्स्थमौम्भत्तीक्ष्मैः शिलीमुखैः” भट्टिः। पा० मते लुङि रूपम्। अन्यमते लुङि रूपम्।
उभ = त्रि० द्वि०। उङगतौ–भक्। उभ–पूर्त्तौ क वा। द्वित्वविशिष्टे एकत्वापेक्षाबुद्ध्या प्रथमं द्वित्वस्यैव जननेन द्वित्वस्यैकत्वेन ज्ञानद्वारा गम्यमानत्वात् पूर्य्यसाणत्वाद्वोपचारात् तथात्वम्। “उभौ यदि व्योम्नि पृथक् पतेताम्” माघः। “उभावपि हि तौ धर्म्म्यौ सम्यगुक्तौ मनीमिभिः” “ब्रह्मणा श्रवणावुभौ” “आचम्य प्रयतोनित्यमुभे सन्त्ये समाहितः” मनुः। ततः वृत्तिमात्रे नित्यम् अयच्। “उभयपक्षविनीतनिद्राः” रघुः। उभयविधः, उभयथा उभयतः उभयत्र। अस्य सर्वादि० सर्व्वनामकार्यम् तेनास्य द्विपनान्तत्वेन अन्यकार्य्याभावेऽपि टेरकच्। उभकौ भायच्। स्वार्थे तद्धितकनि तु अयच्प्रसङ्गः। ततः प्रथमापञ्चमी सप्तम्यर्थे तसिल् अयच्। उभयतस्। द्वाभ्यां द्वावित्यर्थे द्वयोरित्यर्थे च अव्य० “तञ्ज्ञः पुनात्युभयतः पुरुषानेकविंशतिम्” याज्ञ०। “शक्तिं चोभयतस्त्रीक्ष्णामायसं दण्डमेव वा”। “ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः। अपुष्पाः फलवन्तीये ते वनस्पतयः स्मृताः। वृथिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः” मनुः। प्रकारे थाल् अयच्। उभयथा द्विप्रकारार्थे अव्य०। “नेव नः प्रियतमोभयथासौ यद्युत्ते वा” नैष०। “विनाशे नाशे वा तव सति वियोगोऽस्युभवथ” प्रषो०। सप्तम्यर्थे त्रल् अयच्। उभयत्र द्वयोरित्यर्थे अव्य० “उभयत्रचरीं मुनोन्द्राः” जातकप० “द्वौ दैवे पितृकार्य्ये त्रीनेकैकमुभयत्र वा” छन्दो०। अह्नि द्युस एद्युस् वाअयच्। उभयद्युस् उभयेद्युस् च द्वयोरह्नोरित्यर्थे अव्य०। “यो अन्येद्युरुभयद्युरभ्येति” अथ० १, २५, ४। “उभयेद्युस्तथा प्राप्तौ परोपोष्या मनोषिभिः” स्मृतिः।
उभय = त्रि० उभ + अयच्। द्व्यवयवे द्वित्वविशिष्टे अस्य द्वित्वबोधकत्वेऽपि एकबहुवचनान्ततयैव प्रयोगः न द्विवचनप्रयोगः। सि० कौ०। “उभयमानशिरे वसुधाधिपाः” रघुः। सर्वादि० सर्वनामकार्य्यम्। उभयस्मै उभयेषाम्! “अथा न उभयेषाममृत मर्त्यानाम्” ऋ० १, २६, ९। जसि वा शी। उभये उभयाः। “परेऽबर उभया अमित्राः” ऋ० २, १२, १८। “ये जना उभये भुञ्जते विशः” २, २४, १०। “किं तत्साध्यं यदुभये साधयेयुर्न सङ्गताः” रघुः। स्त्रियां गौरा० ङीष्। “उभयीं सिद्धिमुभाववापतुः” रघुः।
उभय(त्र)चर = पुंस्त्री० उभयत्र उभयोर्वा चरति चर–ट १ भूम्यन्तरिक्षचरे पक्षिभेदे स्त्रियां ङीप्। सूर्य्याक्रान्तराशेर्द्वादशद्वितीयस्थग्रहयोगभेदे स्त्री “सूर्य्याद्व्ययेऽपि च धने च तथोभयत्र संस्थैर्विना विधुमुशन्ति खगैस्तु योगान्। येणीं च वोशिमुभयत्रचरीं गुनीन्द्राः स्पष्टं फलानि विविघानि वदन्ति तेषाम्” “समो राज्ञोभयचरीप्रभवो बहुभृत्यभाक्” जातकपद्धतिः।
उभयतोदत्(न्त) = पुंस्त्री उभयतोदन्तः दन्तपङ्क्तिरस्य वा दत्रादेशः। उभयदन्तपङ्क्तियुक्ते मनुष्यादौ। “पशून् मृगान् मनुष्यांश्च व्यालांश्चोभयतोदतः” मनुः। स्त्रियां ङीप्। दत्रादेशाभावपक्षे तत्रैवार्थे स्त्रियां वा ङीष्। “उभयतोदन्ताः प्रजाः प्रजायन्ते” शत० ब्रा० १, ६, ३, ३,
उभयतोमुख = त्रि० उभयतो मुखे यस्य। द्विमुखे गृहादौ “उभयतोसुखाम्यां पात्राभ्याम्” शत० ब्रा० ४, ७, १, ७, स्त्रियां स्वाङ्गत्वाभावे टाप् स्वाङ्गे तु ङीष्। उभयतोमुखी धेनुः। “सवत्सा रोमतुल्यानि युगान्युभयतोमुखी। दातास्याः स्वर्गमाप्नोति पूर्ण्णेन विधिना ददत्। यावद्वत्सस्य पादौ द्वौ मुखं योनौ च दृश्यते। तावत् गौः पृथिवो ज्ञेया यावद्गर्भं न मुञ्चति” याज्ञ० उक्तो धेनुभेदः। अन्यत्र इयमेव उत्क्रान्तिसंज्ञयोक्ता। “उत्क्रान्ते तु प्रवृत्तस्य सुखोत्क्रान्तिसमृद्धये। तुभ्यं संप्रददे नाम्ना गावमुत् क्रान्तिसंज्ञिताम्” विधा० पा० तद्दानमन्त्रः।
उभयतश्शीर्ष्णी = स्त्री उभयतः शीर्षे यस्याः शीर्षन्नादेशः ङीष् अल्लोपः विसर्गस्य वा शः। उभयतःशोर्षतुल्यप्रायणीयादियुक्तायां गवि “अदितिरस्युभयतशशीर्ष्णी” यजु० ४, १९, “उभयतः शीर्षे यस्याः ज्योतिष्टोमस्याद्यन्तयोः प्रायणीयोदयनीययोः शीषत्वम् “द्वे शीर्षे प्रायणायोदयनीये” यास्कोक्तेः वेददी०।
उभयवेतन = पु० उभयोः भेद्ये स्यामिनि च वेतनं यस्य अयच्। दूतभेदे यो हि स्वामिसकाशात् प्रच्छन्नां भृतिं गृहीत्वा तद्भेद्यशत्रुसकाशे तदीयदासत्वेनात्मानं ख्यापयित्वा तत्सकाशात् भृतिं गृह्णन्नपि पूर्वस्वामिनोगृहोतभृतिनिष्क्रयार्थमुत्तरस्य सचिवादिभेदं जनयति स उभयवेतन इत्युच्यते। “अज्ञातदोषैर्दोषज्ञैरुद्दूष्योभयवैतनैः। भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः” माघः। तादृशदूताश्च मुद्राराक्षसे चाणख्यप्रेषिता वहवो वर्णिताः ते च मलयकेतोः प्रधानसचिवादीन् राक्षसादीन् ततो विभिद्य चाणक्यकार्य्यं साधितवन्तः तच्च तत एवावसेय विस्तरभयान्नोक्तम्।
उभयादन्ति = अव्य० उभौ दन्तौ प्रहरणं यत्र युद्धे द्विदण्ड्या० इच् समा० अयच्। उभयदन्तसाध्ये युद्धे एवम् उभयाञ्जलि उभयाबाहु उभयाहस्ति उभयाकर्णि इत्यादयोऽपि नि० साध्याः तत्तत्साधनयुद्धे। उभाहस्ति उभाकर्ण्णि उभाबाहु उभादन्ति इत्यादयः नि० साध्याः तत्र नायच्। तेऽपि तत्तदर्थेषु।
उम् = अव्य० उ–बा० डुमि। १ रोषे, २ स्वीकारे, ३ प्रश्ने च।
उमा = स्त्री ओः शिवस्य मा लक्ष्मीरिव उं शिवं माति मन्यते पतित्वेन मा + क वा। शिवपत्न्याम् १ दुर्गायाम् “उ सेति मात्रा सपसे निषिद्धा पश्चादुमाख्यां सुमुखी, जगामेति” कुमारे निरुक्तायां २ पार्व्वत्याम्। “यदाह तपसे पुत्रीं वनं गन्तुञ्च मेनका। उ मेति, तेन सोमेति नाम प्राप तदा सती” कालि० पु०। “मात्रा निषिद्धा तपसे यदा सा ययामुमाख्यां भवभक्तिभाविनी” शिवपु० अत्र पक्षे उ मेति शब्दः नामहेतुत्वेनास्त्यस्याः अर्श आ० अच् “यस्येति” पा० आलोपे टाप्। “उमामुखे विम्बफलाधरोष्ठे” “उमामुखन्तु प्रतिपद्य लोला” “उमारूपेण ते यूयम्” “उमा बधूर्भवान् दाता” इति च कुमा०। “नियोजयितुकामस्तु उमायां चन्द्रशेखरम्” शि० पु० उमामाहेश्वरव्रतम्। व्रतशब्दे वक्ष्यते। वे–बा० मक् संप्रसारणम्। ३ हरिद्रायाम् ४ अतसीवृक्षे (मसिना) उमाकटः उम्यः औमीनः। ५ कीर्त्तौ ६ कान्तौ, ७ शान्तौ च।
उमाकट = पु० उमाया अतस्या हरिद्राया वा रजः कटच्। अतस्या हरिद्रायाश्च रजसि।
उमागुरु = पु० ६ त०। हिमालये तस्य उमायाजनकत्वात्तथात्वम्। उमाजनकादयोऽप्यत्र। तस्याश्च तदुत्पत्ति कथा शिवपु० दृश्या।
उमाचतुर्थी = स्त्री उमायाजन्मदिनम् चतुर्थी। ज्यैष्ठशुक्लचतुर्थ्याम् “ज्यैष्ठशुक्लचतर्थ्यान्तु जाता पूर्व्वमुमा सती। तस्मात् सा तत्र संपूज्य स्त्रीभिः सौगाग्यवृद्धये” व्र० पु०
उमापति = पु० ६ त०। महादेवे। स च यथा तामुपयेमे तत्कथा शिवपु० दृश्या तन्मूलकं कुमारे च वर्ण्णिता एवमन्यत्रापि पुराणे दृश्या। “मेनां यावत् सती प्राप्य हिमाचलपतिव्रताम्। उमरूपा हि तपसा पतिं पाप पिनाकिनम्”। काशीस्व० उमाधवादयोऽप्यत्र
उमावन = न० उमाप्रीतये वनमत्र। पुरभेदे शोणितपुरे हेम०
उमासहाय = पु० ६ त०। महादेवे दुर्गासहायतत्सहचरादयोऽप्यत्र
उमासुत = पु० ६ त०। कार्त्तिकेये। तत्कथा अग्निकुमारशब्दे ५५ पृ० शिवपुराणे च दृश्या। उमातनयपार्वतीसुतादयोऽप्यत्र
उम्बर = पु० उमित्यव्यक्तशब्दं बृणाति बृ अच्। १ द्वारोर्द्धकाष्ठे, २ गन्धर्वभेदे च। “उम्बरस्तुम्बुरुश्चैव जगुरन्ये च षड्गणान्” हरि० १२८ अ०।
उम्बी = स्त्री उम् + वा–क गौरा० ङीष् पृषो० वस्य वः। “मञ्जरी त्वर्द्धपक्वा या यवगोधूमयोर्भवेत्। तृणानलेन सम्प्लुष्टा बुधैरुम्बोति सा स्मृता” इति भा० प्र० उक्तायाम् अर्द्धपक्वयवगोधूमयोर्मञ्जर्य्याम्। “उम्बी ककप्रदा बल्या लध्वी पित्तानिलापहा” भा० प्र०।
उम्बुर = पु० उम् + बॄ–क उत् रपरः। द्वारोर्द्धकाष्ठे।
उम्भि = त्रि० उम्भ–इन्। पूरके। ततः कर्त्त्र्या० जाताद्यर्थे ढकञ्। औम्भेयक तज्जातादौ त्रि०
उम्य = न० उमाया अतस्या भवनं क्षेत्रम् वा यत्। अतसीभवनक्षेत्रे पक्षे खञ् औमीन तत्रार्थे न०
उम्लोचा = स्त्री अप्सरोभेदे। “ऋतुस्थला घृताची च विश्वाची पूर्ब्बचित्यपि। उम्लोचेति च विख्याता” भा० आ० १२३ अ०
उर = गतौ सौ० पर० सक० सेट्। ओरति औरीत् उवोर ऊरतुः
उर = पुंस्त्री उर–क। १ मेषे स्त्रियाम् अजा० टाप्। “अत्रा वि नेमिरेषामुराम्” ८, ३४, ३, “उरां मेषीम्” भा० २ गन्तरि त्रि०। “उरामथिरा वयुनेषु” ऋ० ८, ६६, ८।
उरःसूत्रिका = स्त्री ७ त० मुक्ताहारे अमरः।
उरग = पुंस्त्री० उरसा गच्छति उरस् + गम–ड सलोपश्च। १ सर्पे, स्त्रियां जातित्वात् ङीष् पादशून्यतया उरसैव तेषां हि गमनम्। “भित्त्वोत्यितं भूमिमिवोरगाणाम्” “विलमग्नाविवोरगौ” “अङ्गुलीवोरगक्षता” रघुः। २ तद्देवताके अश्लेषानक्षत्रे। “उरगविधिशताख्याः शर्वरीनाथवारे” ज्यो० त०। ४ सीसके तस्य नागवीजजत्वेनाऽभेदोपचारात्तथात्वम्। अहिशब्दे ५८१ पृ० विवृतिः।
उरगभूषण = पु० उरगोभूषणमस्य। सर्पभूषणे महादेवे
उरगराज = पु० ६ त० टच् समा०। १ सर्पराजे वासुकौ। उरगोराजेव उपमि० स०। २ महासर्पे च। “प्रहर्त्तुरेवोरगराजरज्जवः” माघः उरगेशतदिन्द्रादयोऽप्युभयत्र। “उरगेन्द्रमृर्द्धरुहरत्नसन्निधेः” माघः।
उरगस्थान = न० ६ त०। पाताले तेषां तत्रस्थितत्वात पातालस्य तथात्वम्।
उरगाशन = पु० उरगानश्नावि अश–ल्यु ६ त०। सर्पभक्षके १ गरुडे च २ मयूरे उरगभक्षादयोऽप्यत्र। “स्वावासभाग मुरगाशनकेतुयष्ट्या” माघः।
उरङ्ग = पुंस्त्री उरसा गच्छति उरस् + गम–ड नि०। सर्पे स्त्रियां जातित्वात् ङीष्।
उरङ्गम = पुंस्त्री उरसा गच्छति उरस् + गम–खच् सलोपः। संर्पे स्त्रियां जातित्वात् ङीष्।
उरण = पुंस्त्री ऋ–क्यु, धातोरुच्च रपरः। १ मेषे स्त्रियां जातित्वात् ङीष्। “वृकीवोरणमासाद्य मृत्युरादाय गच्छति” भा० शा० ६५ अ०। “य उरणं जघान नव चख्न्वांसं नवतिं च बाहून्” ऋ० २, १४, ४, २ दर्द्रुघ्नवृक्षे पु० स्वामी।
उरणाक्ष = पु० उरणस्य मेषस्य अक्षीव अक्षि पुष्पं यस्य। दद्रुघ्ने (दादमर्द्दन) वृक्षे। स्वामी त उरणाख्यस्तत्रार्थे इत्याह। तन्मते उरणस्याख्या आख्या यस्येति विग्रहः
उरभ्र = पुंस्त्री उरु उत्कटं भ्रमनि भ्रम–ड पृषो० उलोपः। १ मेषेस्त्रियां जातित्वात् ङीष् २ दर्द्रुघ्नवृक्षे पु० स्वामी। तस्येदम् अण्। औरभ्र मेषमांसादौ “हविषाऽन्नेन वै मासं पायसेन च वत्सरम्। मात्स्यहारिणकौरभ्रशाकुनच्छाग पार्षतैः। ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम्। मासांभिवृद्ध्या तृप्यन्ति दत्तेनेह पितामहाः” याज्ञ०। “दर्पिता ध्वाङ्क्षस्वड्गाह्वमहिषोरभ्रकुञ्जराः” सुश्रुते पशुषु तस्य दर्पितत्वमुक्तम् स च ग्राम्यपशुः “अश्वाश्वतरगोस्वरोष्ट्रवस्तोरभ्रमेदःपुच्छप्रभृतयो ग्राम्याः” सुश्रु० तन्मां सगुणास्तत्रैव “ग्राम्या वातहराः सर्वे वृंहणाः कफपित्तलाः। मधुरा रसपाकाभ्यां दीपना बलवर्द्धनाः” “वृंहणं मांसमौरभ्रं पित्तश्लेषावहं गुरु”।
उरभ्रसारिका = स्त्री सुश्रुतोक्ते कीटभेदे कीटशब्दे विवृतिः।
उररो = अव्य० उर–बा० अरीक्। १ अङ्गीकारे, २ विस्तारे च। कृञि अस्य गर्तत्वात् तेन सह समासःउररीकृत्य इति “काल्पनिकं भेदमुररीकृत्य” सा० द०। घञ् उररीकार अङ्गीकारे पु०। क्त। उररीकृत स्वीकृते त्रि०
उरल = त्रि० उर–बा० कलच्। गतियुक्ते ततो बला० चतुरर्थ्यां यत्। उरल्य तत्सन्निकृष्टदेशादौ त्रि०।
उरश = पु० मुनिभेदे तस्यापत्यम् पाठान्तरे तिका० फिञ् औरशायनि तस्य भर्गा० स्त्रियां तत्प्रत्ययस्य न लुक् औरशायनी।
उरश्छद = पु० उरश्छाद्यतेऽनेन छद–णिच्–घ ह्रस्वः। कवचे
उरस् = बलार्थे कण्ड्वा० प० अक० सेट्। उरस्यति बलवान्भवतीत्यर्थः औरस्यीत् औरसीत् उरस्याम्(साम्)बभूव आस चकार
उरस् = न० ऋ–असुन् धातोरुच्च रपरः। वक्षःस्थले। “कवाटविस्तीर्णमनोरमोरःस्थलस्थित श्रीललनस्य तस्य” “जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान् सः” माघः। “उरोमुकुलितस्तनं जघनमंसबन्धोद्धुरम्” मालती० अस्य ब० व० अन्तस्थस्यकप्समा० “व्यूढोरस्को वृषस्कन्धः” रघुः। “प्रकृत्यैव शिलोरस्कः” कुमा०। क्वचिन्न। “हारोरा वनमार सा” सुप्रसिद्धपद्यम्। तेन निर्मित अण् औरस, पुत्रभेदे “औरसः क्षेत्रजश्चैव दत्तःकृतिमएव चेति” कालि० पु० उरोजातमात्रे च औरसं भयम्। पक्षे यत् उरस्य। बक्षोगते। २ श्रेष्ठे न०। तस्य ६ त० अन्ते अच् समा०। अश्वौरस अश्वप्रधाने। ३ ऋषिभेदे पु० तस्यापत्यम् तिका० फिञ् औरसायनि। उरशवत् भर्गादिकार्यम्। उरः प्राशस्त्येनास्य अर्शा० अच्। उरस प्रशस्तोरस्के त्रि०। पाठान्तरे तिकादिषु उरसशब्दोऽपि पमते उरशवत् फिञ् भर्गादिकार्यञ्च।
उरसिज = पु० उरसि जायते जन–ड त० सप्तम्या अलुक्। स्त्रीवक्षोजाते स्तने। “परिपस्पृशिरे चैनं पीनैरुरसिजैः र्मुहुः” रामा०। उरसिजातोरसिरुहादयोऽप्यत्र। “फेनानामुरसिरुहेषु हारलीलाम्” माघः
उरसिल = त्रि० उरः प्राशस्त्येनास्त्यस्य पिच्छा० इलच्। प्रशस्तो रस्के। पक्षेमतुप् मस्यवः। उरस्वत् तत्रार्थे स्त्रियां ङीप्।
उरस्कट = पु० उरः कट्यते आव्रियतेऽनेन कट–घञर्थे करणे क। १ बालानामुत्तरीयभेदे तदीये यज्ञोपवोताकारे ३ बस्त्रभेदे च। (वुकवाछाड)। त्रिका०।
उरस्तस् = अव्य० उरसैका दिक् तसिः, पञ्चम्याद्यर्थे तसिल् वा। १ हृदयैकदेशभवे पुत्रे २ वक्षस इत्याद्यर्थे च अत्र लित्त्वात् स्वरितस्वर इतिभेदः।
उरस्त्र = न० उरस्त्रायते त्रै–क। वक्षोर के कवचे। करणे ल्युट्। उरस्त्राणमप्यत्र न०।
उरस्य = पु० उरसैका दिक् यत्। वक्षसैकदेशगत “कर्मणा वाप्युरस्येन वक्षो यस्य विदारितम्” सुश्रुतः निर्म्मितार्थे यत्। २ पुत्रे
उरी = अव्य० उर–गतौ बा० ईक्। १ अङ्गीकारे, २ स्तिरे च। उर्य्यादि० कृञि गत्वित्वम् तेन समा०। ल्यप् उरीकृत्य “तदुरीकृत्य कृतिभिर्वाचस्पत्यं प्रताय्यते” माघ
उरीकार = पु० उरा + कृ–घञ्। १ स्वीकारे, विस्तारे च।
उरीकृत = त्रि० उरी + कृ–क्त। १ अङ्गीकृते, २ विस्तृते, च।
उरु = त्रि० ऊर्णु–कु नुलोपो ह्रस्वश्च। १ विशाले, २ वृहति च “विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्” भा० आ० २२ अ०। ३ बहुले निरु० “तुविजाता उरुक्षया” ऋ०१, २, ९, “उरुक्षया बहुनिवासौ” भा० “रथे युञ्जन्नुरुचक्रे”। ४ विस्तीर्ण्णे च वृहत्त्वस्य विस्तीर्ण्णायत्तत्वात्। “जनास उरु क्षोतं सुजनिमा चकार” ऋ०७, १००, ४, “स्वस्तिमदुरुक्षितौ गृणीहि” ऋ० ९, ८४, १, उरुगायः “उरुगव्यूतिरभयानि” ऋ० ९, ९०, ४, अहोश्चिदस्मा उरुशक्तिरद्भुतः” २, २६, ४, “अन्यामिपमुरुधारामरङ्कृतम्” ८, १, १०, “उरुप्रथाः प्रथमानम्” यजु० २०, ३९, “गाथयोरौ रथ उरुयुगे” ऋ० ८, ९८, ९,। ५ दोर्घे च “गतोरुमार्गाः” माघः भाषितपु स्कत्वात् क्लीवे तृतीयाद्यचि वा पुंवत्। उरवे उरुणे इत्यादि स्त्रियां गुणवचनत्वात् वा ङीष्। “शिरोभिस्ते गृहीत्वोर्वीं स्रजमारक्तव ससः” मनुः उरीर्भावः पृथ्वा० इमनिच्। उरिमन् तद्भावे। पक्षेत्व, उरुत्व न०। तल् उरुता स्त्री अण् औरव न०। तद्भावे।
उरुकाल = पु० उरुः कालःपाकेऽस्य। (राखालशशा) १ महाकाललतायाम्” रत्नमा०। कर्म्म०। २ दीर्घकाले।
उरुक्रम = पु० उरवः मूम्यादिव्यापकत्वात् क्रमाः पादविक्षेपा अस्य। १ वामनरूपे भगवदवतारे “यस्योरुषुविक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा” ऋ० १, १५४, २, “यस्य विष्णोरुरुषु विस्तीर्णेषु त्रिसंख्याकेषु विक्रमणेषु पादप्रक्षेपेषु विश्वा सर्वाणि भुवनानि भूतजातान्याश्रित्य निवसन्ति स विष्णुः स्तूयते” भा०। इति तस्योरुक्रनत्वे लिङ्गमुक्तम्। “शं न इन्द्रो वृहस्पतिः शं नो विष्णररुक्रमः” ऋ० १, ९, ९, उरुं विस्तीण्णं क्रामति पादान् पिक्षिपतीत्युरुक्रमः विष्णुः” भा०। उरु प्रधानं पदमाश्रमं क्रामति–क्रम- अच् ६ त०। भगवतोऽष्टमावतारे २ ऋषभदेवे च। “अष्टमे मेरुदेव्यान्तु नाभेर्जात उरुक्रमः। दर्शयन् वर्त्म धीराणां सर्चोषामात्मनाकृतम्” भा० १ स्क० ३ अ० ऋषभशब्दे विवृति र्दृश्या।
उरुगाय = पु० उरुभिः श्रेष्ठैर्गीयते गम्यते वा गै–गाने गाङ् गतौ वा कर्मणि धञ्। परमेश्वरे वासुदेवे “त्रीण्येक उरुगाय! विक्रमे” ऋ० ८, २९, ७, “उरुभिर्वहुभिर्गातव्यः बहुषु देशेषु गन्ता बहुकीर्त्तिर्वा” भा० बहुकीर्त्तिरिति पक्षे गीयते गायः कीर्त्तिरित्यर्थः “अत्राह तदुरुगायस्य विष्णोः” यजु० ६, ३, “विष्ण उरुगायैषः” यजु० ८, १, यः पार्थिवानि त्रिभिरिद्वि सामभिरुरु क्रमिष्टोरुगायाय जीवसें ऋ० १, १५५, ४, “उरुगायाय उरुगातव्याय” भा०। गाङ् गतौ भावे वञ् गायो गतिः कर्म०। २ विस्तीर्ण्णायां गतौ “स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा” कठवल्ली। “उरुगाय विस्तार्णां गतिम्” शा० भा० “असम्बाधानुरगायवतोऽभिध्याय त” छा० उ० उरुगायवतोविस्तीर्ण्णगतीन्” गै गाने घञ् कर्म्म०। ३ बहुकीर्त्तने। “प्राणस्य वातायोरुगायं कुरुते” शत० व्रा०, १, २, १४,
उरुचक्षस् = त्रि० उरु यथा स्यात् तथा चष्टे चक्ष–असुन्। १ महादर्शने “वर्षिष्ठक्षत्रा उरुचक्षसा नराः” ऋ० ८, १०१, २, सर्व्वद्रष्टृत्वात् २ सूर्य्ये पु० “नमोभिरुरुचक्षो नॄन्विश्वान्” ६, ५१, ९, शं नः सूर्य्य उरुचक्षा उदेतु” ७, ३५, ८,
उरुज्मन् = त्रि० उर्व्वी ज्मा क्षितिर्यत्र। वहुभूमियुक्ते “उरुष्या, ण उरुज्मन्नप्रयुच्छन्” अथ० ६, ४, ३,
उरुज्रयस् = त्रि० ज्रि–अभिभवे करणे असुन् उरु ज्रयोवेगोऽस्य विस्तीर्ण्णवेगे। वेगेन हि सर्व्वामिभवात् ज्रयसस्तथात्वम्। “उरुज्रयसमिन्दुभिः” ऋ० ८, ६, २ त्र “उरुज्रयष्टम् विस्तीर्ण्णवेगम्” भा०। “उरुज्रयसं घृतयोनिमाहुतम्” ५, ८, ६, सेहानः पूतना उरु ज्रयः” ८, ३६, १, इत्यत्र ज्रयसोवेगार्थकस्यासुन्नन्ततया प्रयोगात् तस्या दन्तकल्पनं प्रमादिकम्।
उरुज्रि = त्रि० उरु यथा तथा ज्रयति ज्रि क्विप् वेदे नि० न तुक्। जृ–बा० किंवा। प्रभूतगतियुक्ते। “अर्वाक्पथ उरुज्रयः कृणुध्वम्” ऋ० ७, ३९, ३, “उरुज्रय प्रभूतनमनाः” भा०।
उरुण्ड = पु० उपद्रावके असुरभेदे। “खलजाः शकधूभढा उरुण्डा ये च मट्मटाः। कुम्भमुस्का अयाशवः। तानस्या ब्रह्मणस्पते प्रतिबोधेन नाशय” अथ० ८, ६, १५,
उरुबिल = त्रि० उरु वृहत् बिलमस्य। वृहच्छिद्रयुक्ते पात्रे स्थाल्यां स्त्री गौरा० ङीष्। “यद्येषोखा भिद्येत याऽभिन्ना नवा स्थाल्यु रुविली स्यात्तस्यामिभं पर्य्यावपेत्” शत० ब्रा० १, ६, ४, ८,
उरुब्ज = पु० उरुभ्योऽद्भ्यो जायते जनयति अन्तर्भूतण्यर्थे जनड पृषो० अल्लोपः। प्रभूतपयोजनके। “गवामुरुब्जमभ्यर्वति व्रजम्” ऋ०९, ७७, ४, “उरुब्जं प्रभूतानामपां जनकम्” भा०
उरुरी = अव्य० उरु राति रा–बा० की। १ अङ्गीकारे २ विस्तारे च।
उरुलोक = न० उरु यथा तया लोक्यते लोक–कर्म्मणि घञ्। १ अन्तरिक्षे तस्य सर्व्वलोकेभ्यो महत्त्वेन ज्ञानात् तथात्वम्। “कालखात्मदिशां सर्व्वगतत्वं परमं महत्” भाषोक्तेस्तस्य परममहत्त्वम्। “ममान्तरिक्षमुरुलोकमस्तु” ऋ०१०, १२८, २। कर्म्म०। २ श्रेष्ठलोके पु०।
उरुवु = पु० उरु वायति वै शोषणे कु। एरण्टवृक्षे “शम्पाकोरुवुवर्षामूवाजिगन्धानिशाच्छदैः” सुश्रु० स्वार्थे कन् तत्रैव। रायमुकुटस्तु उरुवुकस्थाने उरुवकैत्यङ्गीचकार पृषो० साधु।
उरुवूक = पु० उरु वायति वै शोषणे “उलूकादयश्च” उखा० नि०। रक्तैरण्डे “पुनर्ण्णवावारुणतर्कार्य्युरुवूकवत्सादनीविल्वशाकप्रभृतीनि उष्णानि स्वादुतिक्तानि वातप्रशमनानि च” सुश्रु०। “पटोलवार्त्ताकुकारवेल्लकटुकिकाकेवुकोरुवूकपर्पटककिराततिक्तकर्कोटकारिष्टकोषातकीवेतकरीराटरूषार्कपुष्पप्रभृतीनि रक्तपित्तहराण्याहुर्हृद्यानि सुलघूनि कुष्ठमेहज्वरश्वासकासारुचिहराणि च” सुश्रुतः।
उरुव्यचस् = त्रि० उरु विचति व्यच–व्याजे (विशेषव्याप्तौ) असुन् अतिव्यापके। “ओरुव्यचाः पृणताम्” ऋ० ३, ५०१। “उरुव्यचाः प्रभूतव्याप्तिः” भा०। २ विस्तीर्णे “उरुव्यचसेमहिने” ऋ० ७, ३१, ११। “उरुव्यचसा विस्तीर्णे” भा०। “गमदुरुव्यचा अदितिः” ५, ४६, ६। “उरुव्यचसोधाम्ना पत्यमानाः” यजु० २७, १६,
उरुषा = त्रि० उरु सनोति सन–विट् ङा वेदे वत्वम्। बहुदातरि “महीमस्मभ्यमुरुषामुरुज्रयः” ऋ० ५, ४४, ६। “उरुषां बहुदातारम्” भा०।
उरुष्य = रक्षणे पर० सक० सेट्। उरुष्यति औरुष्यीत्। “उरुष्य राय एषो यजस्व” यजु० ७, ४, अस्य व्याख्याने “उरुष्य रक्ष उरुष्यतीरक्षणकर्म्मा” वेददी०। “उरुष्यदग्निः पित्रोरुपस्थे” ऋ० ३, ५, ८। अरुष्यत् रक्षतु” भा०। “गोपीथे न उरुष्यतम्” ऋ० ५, ६५, ६।
उरुष्या = स्त्री उरुष्यं रक्षणमिच्छति क्यच् अ यलोपः रक्षणेच्छायाम्। “उरुष्या पायुरभवत् सखिभ्यः” ऋ० ६, ४४, ७। “उरुष्या रक्षणेच्छया” भा० तृतीयाया लुक्। ततः उ। “उरष्युरक्षणेच्छावति “इमे मा पोता यशस उरुष्यवोरथम्” ऋ० ८, ४८, ५। “उरुष्यवः रक्षाकामाः” भा०।
उरूची = स्त्री उरु अञ्चति क्विप् ङीप् अल्लोपे पूर्ब्बाणो–दीर्घः। अतिव्यापिन्यां स्त्रियाम्। “उरूची विश्वे यजते निपातम्” ऋ० ४, ५६, ४। “शं न उरूची भवतु खधाभिः” ऋ० ७, ३५, ३ “विश्रयमाणो अमतिमुरूचीम्” ऋ० ७, ४५, ३ “या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची” ऋ० ३, ५७, ५। स्त्रीभिन्ने उर्वच् तथार्थे शसादावचि उरूचः उरूचा इत्यादि।
उरूणस् = त्रि० उरू दीर्घे नासिके तस्य नसादेशः वेदे नि० णत्वं दीर्घश्च। दीर्घनासिकायुक्ते “उरूणसावसुतृपा” ऋ० १०, १४, १२।
उरोज = पु० उरसि जायते जग–ड “जे विभाषा” पा० सप्तम्या लुक्। स्त्रीस्तने “दधत्युरोजद्वयमुर्वऽशीतलम्” “रेजाते रुचिरदृशामुरीजकुम्भौ” माघः स्तनादिकं सूक्ष्मरूपेण जन्मकाले उत्पन्नमपि यौवने उद्भिद्यते। यथाह भावप्रका०। “बालानां शुक्रमस्त्येव किन्तु सौक्ष्म्यान्न दृश्यते। तेषां तदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेष्यति कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा। रोमराज्यादयः पुंसां नारीणामपि यौवने। ज्ञायन्ते तत्तयोर्भेदो ज्ञेयो व्याख्यानतः स च”। तथा च पुंसां रोमराजीश्मश्रुप्रभृतयः नारीणां तु रोमराजीस्तनस्तन्यार्त्तवप्रभृतयः”। आर्त्तवस्तनोद्भेदकालश्च एकादशवर्षादुत्तरः स्मृतावुक्तः। “अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी। दशमे कन्थकाप्रोक्ता तत ऊर्द्धं रजस्वला” उ० त० स्मृतिः। इदमपि सम्भावितविषयम् धातुभेदेन तत उत्तरमपि भवतीति लोके दृश्यते सम्भावनाभिया दशमाव्दादर्वाक् देयेति तत्त्वम्। सुश्रुते तु द्वादशवर्षोपरि रजःसम्भव उक्तः। “रसादेव रजः स्त्रीणाम् मासि मासि त्र्यहं स्रवेत्। तद्वर्षाद्द्वादशादूर्द्ध्वं याति पञ्चाशतः क्षयम्” रजःपदं स्तनोद्भेदस्याप्युपलक्षणम्। गर्भिण्याः पीनस्तनत्वे दुग्धबहुलत्वे च कारणमुक्तम् भा० प्र०। “गृहीतगर्भाणां स्त्रीणामार्त्तव वहानां स्रोतसां गर्भेणावरोधादार्त्तवं न स्रवति तदेव प्रतिहतमूर्द्ध्वमागतमुपचीयमानमपरां भवति शेषञ्चोर्द्ध्वतर- मागतं पयोधरौ याति तस्माद् गर्भिण्याः पीभौच्चौ पयो घरौ भवतः” इति। उरोभूप्रभृतयोऽप्यत्र “उरोभुवा कुम्भयुगेन जृम्भितम्” नैष०।
उरोभूषण = न० उरोभूष्यतेऽनेन भूष–करणे ल्युट् ६ त०। १ वक्षोऽलङ्कारे हारे। उरोभूषयति ल्यु। २ तदर्थे त्रि०।
उरोवृहती = स्त्री वैदिके छन्दोभेदे। “वृहती जागतस्त्रयश्च गायत्राः। पथ्या पूर्व्वश्चेत्तृतीयः। त्यङ्कुसारिणी द्वितीयः। स्कन्धग्रीवी कौष्टुकेः। उरोवृहती यास्कस्य” कात्या० उक्तेः यास्कमते द्वितीयचरणस्य जागतात्मकत्वे अन्येषां त्रयाणां गायत्रात्मकत्वे च सा भवतीत्यर्थः।
उरोहस्त = न० उरसि हस्तश्चपेटाघातोयत्र। बाहुयुद्धभेदे बाहुयुद्धप्रकारः भा० स० २२ अ० दर्शितः यथा “करग्रहणपूर्वन्तु कृत्वा पादाभिवादनम्। कक्षैः कक्ष्यां विधुन्वानावास्फोटं तत्र चक्रतुः। स्कन्धे दोर्भ्यां समाहत्यनिहत्य च मुहुर्मुहुः। अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं विभो!। चित्रहस्तादिकं कृत्वा कक्ष्याबन्धं च चक्रतुः। गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम्। बाहुपाशादिकं कृत्वा पादाहतशिराबुभौ। उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ। करसंपीडनं कृत्वा गर्जन्तौ वारणाविव। दुर्दान्तौ मेघसङ्काशौ बाहुप्रहरणाबुभौ। तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ। सिंहाविव सु संक्रुद्धावाकृष्याकृष्य युध्यतम्। अङ्गेनाङ्गं समापीड्यबाहुभ्यामुभयोरपि। आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः। उभौ कढ्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ। अधोहस्तं स्वकण्ठे तूदरस्यीरसि चाक्षिपत्। सर्वातिक्रान्तमर्य्यादं पृष्ठभङ्गञ्च चक्रतुः। संपूर्ण्णमूर्द्धा बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः। तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम्। एवमादिनियुद्धानि प्रकुर्वन्तौ परस्परम्”। व्याख्यातञ्चैतत् नीलकण्ठेन “कक्षैः दौर्मूलैः कक्ष्यां प्रकोष्ठगतां रज्जुं धुन्वानौ। यतः तत्र कक्षै आस्फोटं चक्रतुः बाहुमूलास्फालनेन अङ्गदबन्धरज्जुशेषं कम्पयन्तावित्यर्यः। चित्रहस्तादिकं हस्तस्यातिवेगेन आकुञ्चनप्रसारणोपर्यधश्चालनमुष्टीकरणानि चित्रहस्ताः आदिपदात् पादस्याप्याकुञ्चनादि। कक्ष्याबन्धं परस्परकक्ष्यायां हस्तौ कृत्वा बन्धनम् गलेन नण्डेन भालदेशेनाभिघातस्तेन पाषणसदृशाङ्गत्वात्तयोरभिघातेन विस्फुलिङ्गोत्पत्त्याऽशनिं वज्रमिव ससृजतुरित्यर्थः। बाहुपाशादिकं चरणपाश आदिशब्दार्थः। पादाभ्याम् आहताः शिराः स्नायवोयाभ्यान्तौ दृढप्रहारौ नाडोपर्य्यन्तभपि वदनाबन्तावित्यर्थः। उरोहस्तं उरसि चपेटाप्रहारम्। पूर्ण्णकुम्भौ द्वित्वं परस्परं द्वावपि चक्रतुरिति वक्तुम्। तलेन चपेटया। आवृत्य जत्रुदेशे पृष्ठं कृत्वा बाहुभिः बहुत्वाद्द्वावपि मिथः उदरम् आदाय प्रचक्रतुः प्रचिक्षिपतुः कॄ विक्षेपेऽस्य छान्दसं रूपम्। एवं कठ्यां सुपार्श्वे च प्रचक्रतुः। तक्षवन्तौ तक्षस्तनूकरणं गात्रसङ्कोच इत्यर्थः तद्वन्तौ। अधोहस्तं उदरस्याधस्तात् हस्तं कृत्वा हस्ताभ्यामुदरमावेष्ट्य स्वकण्ठे स्वोरसि च कण्ठोरःसमीपे अनीय आक्षिपत् आस्फालितवान्। पृष्ठस्य भूसम्बन्ध न जातं भङ्गं पराभवं वाहुभ्यां उदरादिनिपीडने सम्पूर्ण्णसूर्द्धा तृणपीडं पूर्ण्णयोगं योगोविश्रब्धघातनं तच्च पूर्ण्णम्। अत्यत्र मुष्टेः पातं प्रदर्श्य अन्यत्र पातनमित्यर्यः एवमादिनियुद्धानि पादाकर्षणशीर्षकक्ष्यीकरणादीनि”
***