उपांशु = अव्य० उप + अन्श–उ। १ निर्जने “परिचेतुमुपांशु धारणाम्” रघुः। “उपांशु विजने” मल्लि०। २ अप्रकाशे च। “जिह्वोष्ठौ चालयेत् किञ्चित् देवतागतमानसः। निजश्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः इत्युक्तलक्षणे ३ मन्त्रादेर्जपभेदे पु०। जपीहि त्रिविधः नरसिंह पु० उक्तः। “त्रिविघो जपयज्ञःस्यात् तस्य भेदान् निबोधत। वाचिकश्च उपांशुश्च मानसश्च त्रिधा मतः। त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः। यत्रोच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः। मन्त्रमुच्चारयेद्व्यक्तं जपःप्रोक्तः स वाचिकः। शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत्। किञ्चिच्छब्दस्वरं विद्यादुपांशुः स जपःस्मृतः। धियायदक्षरश्रेण्या वर्ण्णाद्वर्ण्णं पदात् पदम्। शब्दार्थमानसाभ्यासः स उक्तोमानसोजपः”। तेन स्वरादिसुव्यक्तवर्ण्णोच्चारणवान् वाचिकः स्वयंग्रहणयोग्यः किञ्चिच्छब्दवान् उपांशुः। जिह्वोष्ठचालनमन्तरेण वर्ण्णार्थानुसन्धानवान् मानसः” आ० त०। हारीतः “यदुच्चनीचस्वरितैः शब्दैःस्पष्टं पदाक्षरैः। मन्त्रमुच्चारयेत् वाचा जपयज्ञस्तु वाचिकः। शनैरुच्चारयेन्मन्त्रं किञ्चिदौष्ठौ प्रचालयेत्। किञ्चिच्छ्रवणयोग्य स्यात् सौपांशुर्जपः स्मृतः। धिया पदाक्षरश्रेण्या अवर्ण्णमपदाक्षरम्। शब्दार्थचिन्तनाभ्यस्तं तदुक्तं मानसंस्मृतम्” “तेषामुत्तरोत्तरफलतारतम्यमाह” मनुः “विधियज्ञाजज्पयज्ञोविशिष्टोदशभिर्गुणैः। उपांशुःस्याच्छतगुणः साहस्रोमानसः स्मृतः” “उपांशुदेवतां यजत्यनिरुक्तं वा उपांशु इति शत० व्रा० ३, ३, ५, २, उक्ते ४ अनिरुक्तमात्रे ५ मौने। “उपांशु वै रेतः सिच्यते” शत० ६, २, २, २, मैथुनकाले मौनविधानात् तस्योपांशुत्वम्। ६ निगूढे च “अस्य त्वेकमुपांशु ब्रतम्” भा० आ० ३ अ०। परग्रहणायोग्यतया निगूढमित्यर्थः नील० क०
उपांशुयाज = पु० यज–घञ् यज्ञाङ्गत्वात् प्रयाजादिवत् न कुत्वम्। उपांशु अनुष्ठेयोयाजः। यज्ञभेदे तञ्च शत० ब्रा० १, ६, ३, वृ ३ दर्शयित्वा “एतेन वै देवाः उपांशुयाजेन यं यमसुराणामकामयन्त तमुपत्सर्य्य वज्रेण वषट्कारेणाघ्नंस्तत एवैष एतेनोपांशुयाजेन पाप्मानं द्विषन्तं भ्रातृव्यमुपतसय्य वज्रेण वषट्कारेण हन्ति तस्मादुपांशुयाजं यजते” तत्फलमुक्तम्। “उपांशुयाजमन्तरा यजति” प्रयाजादियागेतिकर्त्तव्यतायां श्रुतिः।
उपाक = पु० उप + अक–अच्। १ परस्परं समीपगते सन्निहिते “आसुव्वयन्ती यजते उपाके” यजु० २९, ३१, उपाके परस्परसमीपगते” वेददी०। “आ भन्दमाने उषसा उपाके” ऋ० ३, ४, ६, “आभन्दमाने उपाके” १, १४२, ७, २ अन्तिके च। “सूर उपाकचक्षसम्” ऋ० ८, ६, २५, “उपाक इत्यन्तिकनाम” भा०।
उपाकरण = न० उप + आ + कृ–ल्युट्। १ उपावर्त्तव्यमेत्येवं स्तोत्र प्रैषे “नापव्याहरेदोपाकरणादुपावर्तध्वमित्येवाध्वर्य्युरुद्गातृभ्यः” शत० ब्रा० १, ५, २, १२, “यदा उद्गातारः स्तोत्रं प्रारभेरन् तावदध्वर्युग्रहणादनन्तरं नापव्याहरेत्” भा० “प्राग्वा च प्रवदितोः प्रातरनुवाकोपाकरणम्” कात्या० ९, १, १०,। “सोमे च ग्रहं ग्रहोत्वोपकरणात्” ३, ३, १७, उपावर्त्तध्वमित्ययंस्तोत्रप्रैषः उपाकरणशब्दे नौच्यते” कर्कः। तथा प्रेषणे हि स्तोत्रस्यारम्भणात्तस्य तथात्वम्। २ यज्ञियपशुसंस्कारविशेषे च “गोतमस्तोमः प्रथमं द्वितीयस्याह्न पशोरुपाकरणकालेऽश्वमानीय बहिर्वेद्यास्तावेवास्थापयेयुः” आश्व० श्रौ० १०, ८, २। “तमवस्थितमुपाकरणाय यदक्रन्दैत्येकादशभिः स्तौत्य प्रणुवन्” ५ “पशुकल्पेन पशुं संज्ञप्य प्रोक्षणोपाकरणवर्ज्जं वपामुत्खिद्य जुहुयात्” आश्व० गृ० २, ४, १५, १ आरम्भे च। “अथातोऽध्यायोपाकरणम्” आश्व० गृ० ३, ३, २, “उपाकरणमारम्भः” ना० वृ०। उपाकर्म्मशब्दार्थे च तत्प्रकारकालादिकं वक्ष्यते
उपाकर्म्मन् = न० उप + आ + कृ–करणे मनिन्। येन कर्मविशेषेण वर्षान्ते पुनर्वेदः पठितुमारभ्यते तादृशे, कर्मभेदे तच्च “अथातोऽध्यायोपाकरणम्” इत्युपक्रम्य आश्व० सू० दर्शितम् तत्कालकर्त्तव्यतादि च तत्रैवोक्तः विशेषस्तु नि० सि० उक्तो यथा “तत्र बह्वृचानां प्रयोगपारिजाते शौनकः। “अथातः श्रावणे मासे श्रवणर्क्षयुते दिने। श्रावण्यां श्रावण मासि पञ्चम्यां हस्तसंयुते। दिवसे विदधीतैतदुपाकर्म यथोदितम्। स्वध्यायोपाकृतिं कुर्य्यात्तत्रोपासनवह्निना” अत्र पौर्णमासी उपसंहारन्यायेन यजुर्वेदपरेति हेमाद्रिः। अत्र हस्तयुक्ता पञ्चम्युक्ता कारिकयाऽपि “तन्मासे हस्तयुक्तायां पञ्चम्यां वा तदिष्यते” इति। केवलपञ्चम्यां हस्तयुतेऽन्यस्मिन् वा दिन इति तु हेमाद्रिः। उपासनवह्निनेति तु “कर्मद्वयमिदं केचिल्लौकिकाग्नौ प्रकुर्वते” इति कारिकोक्तलौकिकाग्निना विकल्प्यते। तत्र “अध्याप्यै रन्वारब्धः” इति सूत्रात् सशिष्यत्वेन तदधिकारित्वात् नाचार्य्याग्नौ “नान्यस्याग्नावन्योजुयादिति” निषेधाल्लौकिक एव। तदभावे स्मार्त्त इति निगर्वः। यद्यपि दीपिकायाम्। “वेदोपाकृतिरोषधिप्रजनने पक्षे सिते श्रावणे” इति शुक्लपक्षोऽपि सर्वेषां मुख्यकालत्वेनोक्तः। वक्ष्यमाणगार्ग्यवचनेन छन्दोगान् प्रति विहितस्य तस्याविसोधिता सर्वान् प्रति निवृत्तिश्च। तथापि श्रावणमाससंबन्धस्य सत्रोक्तत्वात कृष्णपक्षेऽपि कार्य्यमिति वृद्धाः। तथा च आश्व० सूत्राणि “अथातोऽध्यायोपाकरणम्” “ओषधीनां प्रादुर्भावे” “श्रवणेन श्रावणस्य पञ्चम्यां हस्तेन वा”। अत्र श्रवणोमुख्योऽन्यो गौणः। तस्याहर्द्वययोगे हेमाद्रौ व्यासः। “धनिष्ठासंयुतं कर्य्याच्छ्रावणं कर्म यद्भयेत्। तत्कर्भ सकलं ज्ञेयमुपाकरणसंज्ञितम्। श्रवणेन तु यत् कर्म्म ह्युत्तराषाढसंयुतम्। संवत्सरकृतोध्यायस्तत्क्षणादेव नश्यतीति”। प्रयोगपारिजाते गार्ग्योऽपि। “उदयव्यापिनी त्वेव विष्ण्वर्क्षे घटिकाद्वयम्। तत्कर्म सकलं ज्ञेयं तस्य पुण्यमनन्तकमिति” पूर्वेद्युरुत्ताराषाढायोगे, परेद्युः श्रवणाभावे घटिकाद्वयन्यूने वा पञ्चम्यादौ कार्यम्। न तु पूर्वविद्धायां सङ्गवेऽपि, अपवादाभावात्। किञ्च परेद्युः सङ्गवास्पर्शे निषिद्ध पूर्वग्रहणे किं मानम्। सङ्गववाक्यं श्रवणवाक्यं वेति चेत् तर्हि व्रीहिवाक्यादश्वशफवाक्याच्च माषमिश्राणामप्युपादानं स्यादिति महत्पाण्डत्यम्। एतेन पर्वाप्यौ दयिकं व्याख्यातम् निषेधप्रवेशस्योभयत्र साम्यात्। श्रवणयुतदिने संक्रान्त्यादौ तु “उपाकर्म न कुर्वन्ति क्रमात्सामर्ग्यजुर्बिदः। ग्रहसंक्रान्तियुक्तेषु हस्तश्रवणपर्वसु” इति हेमाद्रौ निषेधात् पञ्चम्यादयो ग्राह्याः। अत्र ग्रहसंक्रान्तिदिने येषां प्राप्तन्तैः सर्वैरुपाकर्म न कार्यम् इत्येको वाक्यार्थः। तेनाथर्वषेदिनामपि निषेधः। अन्यथा हस्तादित्रये प्रत्येकं ग्रहसंक्रान्त्योः षड्वाक्यकल्पनापत्तेः। मदनरत्नेऽपि “यदि स्यात् श्रावणं पर्व ग्रहसंक्रान्तिदूषितम्। स्यादुपाकरणं शुक्लपञ्चम्यां श्राबणस्य तु” स्मृतिः, स्मृतिमहार्णवे “संक्रातिर्ग्रहणं वापि यदि पर्वणि जायते। तन्मासे हस्तयुक्तायां पञ्चम्यां वा तदिष्यते”। तत्रापि प्रयोगपारिजाते वृद्धमनुकात्यायनौ। “अर्द्धरात्रादधस्ताच्चेत् संक्रान्तिर्ग्रहणं यदा। उपाकर्म न कुर्वीत परतश्चेन्न दोषकृदिति”। मदनरत्ने गार्ग्योऽपि। “यद्यर्द्धरात्रादर्वाक् तु ग्रहः संक्रमएव वा। नोपाकर्म तदा कुर्य्याच्छ्रावण्यां श्रवणेऽपि वा”। एतेन ग्रहणकाले श्रवणसत्त्वे एव निषेधोनार्वागिति मूर्खशङ्कापरास्ता, ग्रहविशिष्टानां हस्तश्रवणपर्वणां प्रत्येकं निषेधे तद्युक्तोपाकर्मनिषेधे च विशिष्टोद्देशे वाक्यभेदात् पञ्चम्यां संक्रान्तौ निधाभावापत्तेश्च। तेनार्द्धरात्रात् पूर्वं ग्रहसत्त्वमात्रे उपाकर्मनिषेधो न तद्योगे। यत्तु “प्रतिपन्मिश्रिते नैव नोत्तराषाढसंयुते। श्रवणे श्रावणं कुर्युर्ग्रहसंक्रान्तिवर्जिते” इति प्रतिपन्मिश्रितनिषेधकं वचनं तन्निर्सूलम्। हेमाद्रौ निगमः। “ग्रहयोगो गुरुं हन्ति संक्रान्तिः शिष्यघातिनी। तपोहन्त्युत्तराषाढा उपाकर्मणि वैष्णवे” अत्र च “वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ। उपाकर्म न कर्त्तव्यं कर्त्तव्यं सिंहयुक्तके” इति वचनं देशान्तरविषयम्। “नर्मदोत्तरभागे तु कर्त्तव्यं सिंहयुक्तके। कर्कटे सस्थिते भानावुपाकुर्य्यात्तु दक्षिणा” वृह० वचनात् इति प्रयो० पा० उक्तम्। पराशरमाधवीयेऽप्येवम्। सामगानां सिंहस्थरवावुक्तेस्तद्विषयमेवेदं, पुरोडाशचतुर्द्धाकरणवदुपसंह्रियत इति। न तु वह्वृचादिपरम्। तेषां सूत्रे चान्द्रश्रावणोक्तेः सौरे पञ्चम्ययोगात् सामान्येन सौत्रविशेषस्य बाधायोगादिति तु वयं पश्यामः। यत्तु कालादर्शे “अध्यायानामुपाकर्म श्रावण्यान्तैत्तिरीयकाः। बह्वृचाः श्रवणे कुर्युः सिंहस्थोऽर्कोभवेद्यदि। सहस्तशुक्लपञ्चम्यां तद्वद्ग्रहणसंक्रमे। असिंहार्कपौष्ठपद्यां श्रवणेन व्यवस्थयेति” तन्मूलालिखनात् सूत्रविरोघाच्च चिन्त्यम्। सूत्रे हि श्रवणेन श्रावणस्येति चान्द्रमास एवोक्तो न सौरः तस्य पञ्चम्यभावात् श्रुतिलक्षणाभ्यामुभयपरत्वे वृत्तिद्वयविरोधाच्च। तेन सिंहस्थोऽर्कोभवेद्यदि तदा कर्केऽपि ग्रहणसंक्रमे सति असिंहार्के शुक्लपञ्चम्यां श्रवणे वा बह्वृचाः, प्रौष्ठपद्यान्तैत्तिरीया इति व्याख्येयम् तेषां सौरमासाभावात्। श्रावणे शस्यानुद्गमादौ बह्वृचपरिशिष्टे “अवृष्ट्योषधयस्तस्मिन् मासे तु न भवन्ति चेत्। तदा भाद्रपदे मासि श्रवणेन तदिष्यत इति”। “तत्राप्यनुद्गमे तु “कुर्यादेव तद्वार्षिकमित्याचक्षते” इति सूत्रात्। वर्षत्तौ भवं वार्षिकम्। एतच्च शुक्रास्तादाचपि कार्यम्। “उपाकर्मोत्सर्जनं च पवित्रदमनार्पणमिति” दमनारोपणे लिखितवचनात् “नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च। उपाकर्मणि चोत्सर्गे ग्रहबेधो न विद्यते” इति प्रयोगपारिजाते हेमाद्रौ च संग्रहोक्तेः। पर्वणि ग्रहणे सति पूर्वं त्रिरात्रादिवेधाभावं वक्तुमिदम्। तेन पर्वणि ग्रहणेऽपि चतुर्द्दश्यां श्रवणे कार्यमिति हेमाद्रिः। प्रथमारम्भस्तु न भवति “गुरुभार्गवयोर्मौढ्ये बाल्ये वा वार्द्धकेऽपि वा। तथाधिमाससंसर्गे मलमासादिषु द्विज! प्रथमोपाकृतिर्न स्यात्कृता कर्मविनाशकृदिति” तत्रैव कश्योपोक्तेः। अत्र प्रथमारम्भे वृद्धिश्राद्धं कुर्यादिति। नारायणवृत्तौ एतच्चाधिमासे न कार्यम् “उपाकर्म्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः। मास- वृद्धौ पराःकार्य्या वर्जयित्वा तु पैतृकमिति” ज्योतिःपराशरेक्तेः “उत्कर्षः कालवृद्धौ स्यादुपाकर्म्मादिकर्म्मणि। अभिषेकादिवृद्धीनां न तूत्कर्षो युगादिष्विति” कात्यायनो क्लेश्च। यत्तु “उपाकर्म्मणि चोत्सर्गे ह्येतदिष्टं वृषादित” इति ऋष्यशृङ्गवचस्तत्सामगविषयम् तेषां सिंहार्के एवोक्तेः। एतच्चापराह्णे कार्य्यम्। “उपाकर्मापराह्णेस्यादुत्सर्गः प्रातरेव त्विति” “अध्यायानामुपाकर्म्मकूर्य्यात्क लेऽपरीह्णके। पूर्ब्बाह्णे तु विसर्गः स्यादिति वेदविदो विदुरिति” हेमाद्रौ गोभिलोक्तेः। वस्तुतस्तु “भवेदुपाकृतिः पौर्णमास्यां पूर्व्वाह्ण एव त्विति” प्रचेतोवचनात् पूर्ब्बवाक्यं सामग विषयम्। तेषामपराह्ले एवोक्तेरित्यनुपदं वक्ष्यते। दोपिकापि। “अस्य तु विधिः पूर्ब्बाह्णकालः स्मृत” इति। याजुषास्तु पर्वणि कुर्युः। तच्चापस्तम्बैरौदयिकं ग्राह्यम्। अन्यैस्तु पूर्वम्। “पर्वण्यौदयिके कर्यु श्रावणन्तैत्तिरीयकाः। बह्वृचाः श्रवणे कर्युर्ग्रहसंक्रान्तिवर्जिते” इति गर्गोक्तेः “संप्राप्तवान् स्तुतीर्ब्रह्मा पर्वण्यौदयिके पुनः। अतो भूतदिने तस्मिन्नोपाकरणमिष्यते” इति कालिकापुराणात्। “अथ चेद्दोषसंयुक्ते पर्वणि स्यादुपाक्रिया। दुःखशोकामयग्रस्ताराष्ट्रे तस्मिन् द्विजातयः” इति मदनरत्ने गर्गोक्तेः। अत्र सिङ्गाभट्टीये विशेषः। “श्रवणः श्रावणं पर्व सङ्गवस्पृग्यदा भवेत्। तदैवौदयिकं कार्यं नान्यदौदयिकं भवेत्”। पराशरमाधवीयेऽपि गार्ग्यः “श्रावणी पौर्णमासी तु सङ्गवात्परतो यदि। तदैवौदयिकी ग्राह्या नान्यदौदयिकी भवेत्”। कर्मकालमाह कालादर्शे निगमः। “श्रावण्यां प्रौष्ठपद्यां वा प्रतिपत् षण्मुहूर्त्तकैः। विद्धा स्याच्छन्दसां तत्रोपाकर्मोत्सर्जनं भवेत्”। अत्र पौर्णमासी श्रवणहस्तयोरुपलक्षणं तेन तावपि सङ्गवस्पृशौ ग्राह्यौ। “उदये षड्घटीस्पर्शेश्रिते पर्वणि वार्कभे। कुर्युर्नभस्युपाकर्म ऋग्यजुःसामगाः क्रमात्” इति पृथ्वीचन्द्रः। “विष्ण्वृक्षे घटिकाद्वयमिति” पूर्वोक्तविरोधात् सामान्यवाक्यादौदयिकी कर्म्मपर्याप्ता ग्राह्या न पूर्वा। सङ्गवानमित्तपूर्वविद्धापवादाभावात् भाद्रादौ कालान्तरे वास्तु न तु निषिद्धम्। न हि व्रीह्यलाभे निषिद्धमाषग्रहणं युक्तम्। अतएव परेद्युः सङ्गवव्याप्तौ पूर्वनिपेषः। तदभावे तु नेति मूर्खव्यवस्थाप्यपास्ता विधिवैषम्यात् माषनिषेधे तथापत्तेश्च। पूर्बविद्धावचनसत्त्वो हि सा युज्यते। एवं श्रवणेऽपि ज्ञेयम्। एतच्छुद्धाधिक्यपरं तेन यथाग्निहोत्रादौ सायं प्रातः काल- याधे सामान्यस्य जीवनावच्छिन्नकाल रनुष्ठानगु। यथा व्रीह्यश्वशफाद्यभावे यागाक्षिप्तजंरषिद्धाकारदिव्येण तथात्र सङ्गवाभावेऽनिषिद्धावर्ज्यकर्म्मपर्याप्तौदयिके का लान्तरे वानुष्ठानं न तु कदापि निषिद्धे अपवादाभावे उत्सर्गस्यैव प्राप्तेः। कात्यायनादीनान्तु दिनद्वये पूर्वाह्णव्याप्तौ एकदेशस्पर्शे वा पूर्वैवेति हेमाद्रिः। घटिकाद्वयमिति पूर्वोक्तविरोधात् तेन प्राशस्त्यमात्रपरमिदम्। यदपि “श्रावणी दौर्गनवमी दूर्वा चैव हुताशनी। पूर्वविद्धा प्रकर्त्तव्या शिवरात्रिर्बलेर्दिनमिति” ब्रह्मवैवर्त्तम् तद्ब्रह्मपवित्रविषयमिति हेमाद्रिः। मदनपारिजातेऽपि पूर्वविद्धायां श्रावण्यां वाजसनेयिनामुपाकर्मेत्युक्तमू मदनरत्नेऽपि “पर्वण्यौदयिके कुर्युः श्रावणन्तैत्तिरीयकाः” इति वह्वृचपरिशिष्टाद्बह्वृचान् प्रति कर्म्मविधानार्थं प्रवृत्ते तत्र तैतिरीयककर्म्मविध्ययोगात् पूर्वोक्तकालिकापुराणादौ सामान्यत औदयिकपर्वप्राप्तेस्तन्निषेधे न बह्वृचानां श्रवणविधानात्तैत्तिरीयकपदम् अनुवादत्वात्तस्य च प्राप्त्यधीनत्वात् प्राप्तेश्च यजुर्वेदमात्रपरत्वात् सर्वयजुर्वेद्युपलक्षणार्थम्। अवयुत्यनुवादो वा। न तु विधायकम्। तेन विशेषविधिना उपसंहारः स्यात्। अनुवादत्वाल्लक्षणा न दोषः। अन्यथौ दयिकपर्वविशिष्टोपाकर्मोद्देशेन कर्त्तृविधौ कर्तृविशिष्टे वौदयिकपर्वविधौ वाक्यभेदापत्तेः। तस्मात्तेत्तिरीयक पदाविवक्षया सर्वयजुर्वेदिनामौदयिकमेव पर्व्वेत्युक्तम्। तन्न न तावत्परिशिष्टे बह्वृचःन् प्रत्येव विधिः। धनिष्ठा प्रतिपद्युक्तत्वात् “त्वाष्ट्रऋक्षसमन्वितमित्यादि तदुदाहृते एव परिशिष्टे वेदान्तरधर्म्मविधीनां दर्शनात्। नाप्यनुवादोऽ यम् कालिकापुराणाद्बह्वृचादीनामपि तदापत्तेः कुर्युरित्यस्य विधित्वेन तस्यैवार्थवादत्वेनैतत्प्राप्तानुवादित्वाच्च। न च तैत्तिरीयकाणां गृह्ये तद्विधिरस्ति येनानुवादः स्यात्। न च वाक्यभेदः। तैत्तिरीयकपदमात्रस्य कर्म्ममात्रस्य वा उद्देश्यत्वायोगेन हविरार्त्तिवदष्टवर्षं ब्राह्मणमुपनयीतेतिवच्चागत्या विशिष्टोद्देश्यत्वात्। अन्यथोत्तरार्द्धे बह्वृचपदस्याऽप्यविवक्षापत्त्या श्रावणस्य सर्वसाघारण्यापत्तेः। तस्मात् हेमाद्रिमतमेव युक्तमिति दिक्। इदं च। शिष्यानध्यापथत आवसथ्येऽग्नौ अनध्यापयतोनाधिकार इति कर्कः। श्रावण्यामपि ग्रहणादिदुष्टायां कातीयभिन्नैः प्रौष्ठपद्यां कार्यं तैस्तु श्रावणपञ्चम्याम्। “संक्रान्तिर्ग्रहणं वापि पौर्णमास्यां यदा भवेत्। उपा- कृतिस्तु पञ्चम्यां कार्यावाजसनेयिभिरिति” स्मृतिमहार्णवे वाजसनेयिग्रहणादिति हेमाद्रिः। इदं स्वसूत्रोक्त कालपरत्वात् बह्वृचपरमपि। शाट्यायनैस्तु हस्ते का र्यम्। आपस्तम्बैराथर्वणैश्च प्रौष्ठपद्याम्। यत्तु बौधायनः “श्रावण्यां पौर्णमास्यामाषाढ्यां वोपाकृत्येत्यूचे। तत् प्रौष्ठपद्यामपि दोषे आषाढ्यां कार्यमित्ये वमर्थम्। तच्छाखीयविषयं वा। सामगास्तु श्रावणे हस्ते कर्युः। “वह्वृचाः श्रावणे चैव हस्तर्क्षे सामवेदिन” इति निर्णयामृते गोभिलोक्तेः। सोऽप्युत्तरः “धनिष्ठाप्रतिपद्युक्तं त्वाष्ट्रऋक्षसमन्वितम्। श्रावणं कर्म्म कुर्वीरनृग्यजुःसामपाठकाः” इति मदनरत्ने परिशिष्टोक्तेः। गर्गोऽपि “सि हे रवौ तु पुष्यर्क्षे पूर्वाह्णेऽविवरे बहिः। छन्देगामिलिताः कुर्युरुत्सर्गं स्वस्वच्छन्दसाम्। शुक्लपक्षे तु हस्तेन उपाकर्म्मापराह्णिकमिति”। पुष्यर्क्षेपूर्वाह्णे उत्सगः आपराह्णिकमुपाकर्म्मत्यन्वयः। अविवरे ग्रहादिदोषरहिते। अन्योविशेषः पूर्ब्बमुक्तः। प्रयोगपारिजाते गोभिलः “उपाकर्म्मोत्सर्जनं च वनस्थानामपीष्यते। धारणाध्ययनाङ्गत्वाद्गृहिणां ब्रह्मचारिणाम्। उत्सर्जनं च वेदाना मुपाकरणकर्म्म च। अकृत्वा वेदजप्येन फलं नाप्नोति मानवः”। सर्वथा लोपे तु कृच्छ्र उपवासश्च “वेदोदितानां नित्यानामिति” मनुनाऽभोजनोक्तेः। एवमुत्सर्गेऽपि।
अथ प्रसङ्गादत्रैवीत्सर्ज्जनमुच्यते। तच्च पौषमासे रोहिण्यां तत्कृष्णाष्टम्यां वा कार्य्यम्। “पौषमासस्य रोहिण्यामष्टकायामथापि वा। जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिरिति” याज्ञ० उक्तेः। श्रावाण्यां प्रौष्ठपद्यां चोपाकृतौ क्रमेण पौषशुक्लप्रतिपदि, माघशुक्लप्रतिपदि च कार्य्यम् “अद्धपञ्चमासानधीयीतेति” तेनैवोक्तेः। यत्तु हारीतः “अर्धपञ्चमान्मासानधीत्योर्ध्वमुत्सृजेत् पञ्चार्धषष्ठान्वेति”। तदाषाष्ट्युपाकर्म्मविषयम्। बौधाय नास्तु पौष्यां माध्यां वा कुर्य्युः। “पौष्यां माघ्यां वोत्सृजेदिति” तत्सूत्रात्। तैत्तिरायैस्तु तैष्यां कार्य्यं “तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेदिति” तत्सूत्रात्। बह्वृचैस्तु माघ्यां कार्य्यम् “अध्यायोत्सर्ज्जनं माघ्यां पौर्णमास्यां विधीयते” इति कारिकोक्तेः। कातीयास्तु भ्राद्रपदे कुर्य्युः। “उत्सर्गश्चेत्तदा तिष्यतिथ्यां प्रौष्ठपदेऽपिवेति” कात्यायनोक्तेः। सामगास्तु सिंहार्के पुष्ये कुर्य्युः। तथा च सिंहे रवौ चेति गार्ग्यवचनं पूर्ब्बमुक्तम्। सर्वैरुपाकर्म्मदिने वा कार्य्यम। “पुष्ये तूत्सर्ज्जनं कुर्य्यादुपा कर्मदिनेऽथवेति” हेमाद्रौ खादिर गृह्योक्तेः। यदा सिंहस्थे सूर्य्ये सति तन्मध्यस्थहस्तनक्षत्रात्प्राक् पुष्यः कर्कस्थो भवति तदा तस्मिन् पुष्ये उत्सर्गं कृत्वा तदुत्तरहस्ते उपाकर्भ सामगाः कुर्य्युः। “मासे प्रोष्ठपदे हस्तात्पुष्यः पूर्वोभवेद्यदि। तदा तु श्रावणं कुर्य्यादुत्सर्गं छन्दसां द्विजः” इति तत्रैव परिशिष्टोक्तेः। अत्र द्वावपि सौरौमासौ ज्ञेयौ तेषां सौरस्यैवोक्तेः। अत्र विशेषमाह कार्ष्णाजिनिः। “उपाकर्मणि चोत्सर्गे यथाकालं समेत्य च। ऋषीन्दर्भमयान् कृत्वा पूजयेत्तर्पयेत्ततः। संप्राप्ते श्रावणस्यान्त पौर्ण्णमास्यां दिनोदवे। स्नानं कुर्व्वीत मतिमान् श्रुतिस्मृतिविधानतः। उपाकर्म्मादिकं प्रोक्तमृषीणाञ्चैव तर्पणम्। शूद्राणां मन्त्ररहितं स्नानं दानं प्रशस्यते”। “उपाकर्म्मण्युत्सर्गे च त्रिरात्रं पक्षिणीमहोनात्रं वानध्याय” इति मिताक्षरायामुक्तम्। अत्र नदीनां रजोदोषोनास्ति। “उपाकर्म्मणि चोत्सर्गे रजो दोषो न विद्यते इति” गर्गोक्तेः। “उपाकर्म्मणि चोत्सर्गे प्रेतस्नाने तथैव च। चन्द्रसूर्य्यग्रहे चैव रजोदोषो न विद्यते” छन्दो० उक्तेश्च उपाकर्म्मणि चोत्सर्गे युगादौ मृतवासरे। निषेद्धेऽपि दिने कुर्य्यात्तर्पणं तिलमिश्रितम्” स्मृतिः। “त्रयोदश्यादितो वर्ज्यं दिनानां नवकं ध्रुवम्। मङ्गल्येष समस्तेषु ग्रहणे चन्द्रसूर्य्ययोरिति” सामान्यतो ग्रहणे दिननवकनिषेधस्तु अनियतकालीनकर्म्मपरः न तु नियतकालीनकर्म्मपरः। “नित्ये नैमित्तिके जप्ये होमे यज्ञक्रियासु च। उपाकर्म्मणि चोत्सर्गे ग्रहदीषो न विद्यते इति नि० सि० स्मृत्युक्तेर्नोपाकर्म्मणि ग्रहणवेधदोषः। आषाढ्यामपि उपाकर्म्मविधानात् आषाढीप्रयोजनकत्वात् दण्डस्याषाढनामता वेदग्रहणस्य दण्डपूर्ब्बकत्वात् तथात्वमिति बोध्यम्। करणे क्तिन् उपाकृतिरप्यत्र स्त्री कर्म्मकरणयोरभेदोपचारात् उपाक्रियाप्यत्र स्त्री।
उपाकृत = त्रि० उप + आ + कृ–क्त। यज्ञे हननार्थं १ कृतसंस्कारे पशौ, “अनुपाकृतमांसानि देवान्नानि हवींषि च” अभक्ष्ये मनुः। “पशुयागादौ मन्त्रबहुलेन पशो स्पर्शनमुपाकरणं तद्रहितपशुरनुपाकृतः” कुल्लू०। “पशुश्चेदुपाकृतः पलायेत वायवे तमनुद्दिश्य तद्वर्ण्णं तद्वयसमालभेत” कात्या० २५, ९, १ ३ स्तोत्रप्रैषेण प्रेषिते च “उपाकृत उद्गातार आहोतृप्रैषात्” कात्या० ३, ३, १८। ४ आरब्धे च। भावे क्त। ५ उपाकरणे ६ यज्ञियपशुसंस्कारे ७ आरम्भे च न०। ततः इष्टा० कर्त्तरि इनि। उपाकृतिन् उपा- करणकर्त्तरि त्रि० स्त्रियां ङीप् उपाकृतिनी।
उपाक्ष = अव्य० अक्ष्णः समीपम् अव्ययी० नि० टच्समा०। नेत्रसमीपे “कूलतीरतूलशालाजसममव्ययीभावे” पा० अन्तोदात्तता अत्रैव अक्षेतिनिर्द्देशात् नि० टच्समा०
उपाख्या = स्त्री उप + आ + ख्या–भावे अ। १ प्रत्यक्षे “द्वितीयऽचानुपाख्ये” पा०। उप ख्या प्रत्यक्षं तच्छून्येऽनुमानगम्ये इत्यर्थः। २ शब्दादिभिर्निर्वचने च। “ज्ञानविज्ञानयुक्तानां निरुपाख्या निराञ्जना। कैवल्या या गतिर्देवः परमो स गतिर्भवेत्” भा० अनु० २६ अ०। निरुपाख्योऽभावः। तस्य च भावभिन्नत्वादिना यथा निर्वक्तु मशश्यत्वं तथाऽभावशब्दे उक्तम् “प्रतिसख्याऽपतिसंख्यानिरोधावाकाशञ्चेति” शा० सू० भाष्ये “तदवस्तु अभावमात्रं निरुपाख्यम्” “न हि भावानां निरन्वयो निरुपाख्योविनाशः सम्भवति” “निरोधद्वयमाकाशञ्चेति निरुपाख्यम्”। “तत्र निरुद्धद्वयस्य निरुपाख्यत्वम् पुरस्तान्निराकृतमाकाशस्येदानीं निराक्रियते” “आकाशे च न युक्तो निरुपाख्यत्वाभ्युपगमः” इत्येवम् सौगतमतनिराकरणे अभावपरतयाऽसकृदुक्तम्।
उपाख्यान = न० उप + आ + ख्या–ल्युट्। १ पूर्ब्बवृत्तकथने “रामोपाख्यानमत्रैवेति” भा० आ० १ अ०। एवं नलोपाख्यानाम्बोपाख्यानानि बहून्युपाख्यनानि तत्र सन्ति। “चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्। उपाख्यानैर्विना तावत् भारतं प्रोच्यते बधैः” भा० आ० १ अ०। २ विशेषकथने। “सर्व्वाख्यानं श्रुतं ब्रह्मन् अतीव परमाद्भुतम्। अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमद्भ तम्” “शृणु नारद वक्ष्यामि स्वधीपाख्यानमद्भुतम्” इति च ब्रह्मवै०। तत्र साध कन्। उपाख्यानक तत्प्रतिपादके ग्रन्थभेदे स्वार्थे कन्। कथनमात्रे च।
उपागत = त्रि० उप + आ + गम–क्त। १ स्वयमुपस्थिते २ अभ्युपगते च।
उपागम = पु० उप + आ + गम “ग्रहवृदृनिश्चिगमश्च” पा० अप्। १ स्वीकारे २ समीपगमने च।
उपाग्रहण = न० उप + आ + ग्रह–ल्युट्। संस्कारपूर्व्वकवेदप्रारम्भे अमरटोकायां रायसु०।
उपाग्रहायण(णि) = अव्य० आग्रहायण्याः समीपं अव्ययी० वा० टच्समा०। आग्रहायणीसमीपे
उपाङ्ग = न० उपमितमङ्गेन अवा० स०। १ प्रधानस्याङ्गोपयोगिनि “साङ्गापाङ्गैरिहोदितम् इत्यमरः २ वेदाङ्गसदृशे शास्त्रभेदे उपङ्गानि शास्त्राणि च “पुर णन्यायमीमांसाघर्म्मशा- स्त्राणि। चत्वार्युपङ्गानि” इत्यक्तानि तेषां अङ्गवत् वेदार्थस्य बहुल करणादुपाङ्गत्वम्। “साङ्गोपाङ्गोपनिषदः” हरि० २५ अ० “साङ्गोपाङ्गाश्चतुर्वेदाः सरहस्याः क्रमेण तु” विक्रमो०। “यद्वेदशास्त्रं तच्चापि कृत्स्नमस्मिन् प्रतिष्ठितम्। तव पुत्रे महावाहौ साङ्गोपाङ्गं महात्मनि” भा० अ० १०० अ०। अङ्गं देहस्तदुपयोगिनि ३ प्रत्यङ्गे प्रत्यङ्गानि च अङ्गशब्दे ७२ पृ० दर्शितानि ४ तिलके पु० जटाधरः।
उपाजिन = त्रि० उपगतोऽजिनम् अत्या० स०। चर्मोपगते उपात् अजिनान्ततत्पुरुषत्वात् अन्तोदात्तता। अजिनस्य समीपम् अव्ययी०। २ चर्म्मसमीपे अव्य०। निरुदकादित्वात् अन्तोदात्तता। उपगतमजिनं येन प्रा० ब०। ३ उपगतचर्मके त्रि० अत्र प्रकृतिस्वरः इति भेदः
उपाजे = अव्य० उप + अज–बा० के वीमावाभावः। दुर्बलस्य बलाधाने, “उपाजे अन्वाजे” पा० कृञि परे तस्य गतित्वम् तेन समासे उपाजेकृत्य असमासे तु उपाजे कृचेति दुर्बलस्य बलमाधायेत्यर्थः” सि० कौ०। एतौ च विभक्तिप्रतिरूपकाव्यये इत्यन्थे
उपाञ्जन = न० उप + अन्ज–ल्युट्। १ लेपने “मर्ज्जनोपाञ्जनैर्वेश्म पुन पाकेन मृण्मयम्” मनु २ गोमयादिनानुलेपने च “सम्मार्जनोपाञ्जनेन सेकेनोल्ले खनेन च। गवाञ्च परिवासेन भूमिः शुध्यति पञ्चभि” “ज्ञानं तपोऽग्निराहारो मृण्मनो वार्य्युपाञ्जनम्। वायुश्च कर्मकालौ च शुद्धेः कर्त्तणि देहिनाम्” मनुः उपाञ्जनमनुलेपनम्” कुल्लू०। आधारे ल्युट्। ३ अञ्जनाधारे हस्तादौ च। “चतुर्द्धैक आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याक्षोपाञ्जने च” कात्या० ८, ६, ३४, तृतीयं चतुर्भागमक्षोपाञ्जने अक्षधुरावनक्तात्यञ्जनार्थाज्यशेषे पत्नीपाणावित्यर्थः” कर्कः। अक्षधुराञ्जनप्रकारस्तत्रैव “दक्षिणया द्वाराऽऽनीता पत्नी पाणिभ्यां शेषं प्रतिगृह्याऽक्षधुरावनक्ति “पराग् देवश्रुतिरिति” “प्रतिप्रस्थात्रा समानीता पत्नी होमशेषेणाज्येनाक्षस्थाज्यस्रवभागावपमृज्यादिति सूत्रार्थः” वेददी०।
उपात्त = त्रि० उप + आ–दा–क्त। १ गृहीते, २ प्राप्ते च “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते” लावालिः। ३ अन्तर्गतमदे गजे पु० हलायुधः।
उपात्यय = पु० उप + अति–इण्–अच्। १ लोकशास्त्राचारातिक्रमे, २ व्यतिक्रमे, क्रमोल्लङ्घने, ३ नाशे च। “परावनुपात्यय इणः” पा० क्रमप्राप्तस्यानतिपातोऽनुपात्ययः” सि० कौ०।
उपादान = न० उप + आ + दा–ल्युट्। १ ग्रहणे “विस्रब्धं ब्रा- ह्मणः शूद्रात् द्रव्योपादानमाचरेत्” मनुः। “स्यादात्मनोऽप्युपादानात्” सा० द०। स्वस्वविषयेभ्य इन्द्रियाणां निवारणरूपे २ प्रत्याहारे, कर्म्मणि ल्युट्। कायजननार्थमुपाद यमाने कार्यान्विते ३ कारणे यथा मृदादि घटादेः स्वर्णादि अलङ्कारादेः जननार्थं गृह्यते। तच्च सर्वदा कार्येष्व गतम्। “असदकरण दुपादानग्रहणात् सर्वसम्भवामावात्। शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्य्यम्” सां० का० “उपादानानि कारणानि तेषां ग्रहणं कार्येण सह स्वम्बन्ध उपादानैः कार्यस्य सखन्धादिति यावत् एतदुक्तं भवति कार्येण संबन्धि कारणं कावस्य जनकं सम्बन्धश्च कार्यस्यासतो न सम्भवति तस्मात् सत् कार्यमिति” सा० कौ० “उपदाननियमात्” “नकर्म्मण उपादत्वायोगात्” सां० सू० उपादानकारणञ्च कार्य्याभिन्नकारणमिति सांख्या वेदान्ति नश्च मत्यन्ते यथा मृत्तिकादयः घटादिकं प्रति, सुवर्ण्णं कुण्डलादिक प्रति, तन्तवः पटं पति, तत्तत्कार्य्याभिन्नत्वादुपादानकारणम्। नैयायिकास्तु उपादानकारणं समवायिकारणतया व्यवह्रियते। “यत्समवेत कार्य्यं भवति ज्ञेयन्त समवायि जनकं तत” भाषा० तेषांमते उपादानशब्देनापि तस्य व्यवहारोऽस्त्येव “उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत्” भाषोक्तेः। तत्तदुपदानगोचर चिकीर्षाकृ तज्ञानाश्रयत्वेन तैः ईश्वरस्य सर्व्वकर्त्तृत्वत्वाभ्युपगमात् तच्च ईश्वरशब्दे चिन्तामणिग्रन्थे विवृतम् सांख्यमतसिद्धे ४ आध्यात्मिकतुष्टिभेदे च यथाह सा० का०। “आध्यात्मिक्यश्चतस्रः प्रकृत्य पादानकालभाग्याख्याः। बाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिभवाः”। “या तु प्र कृत्यविवेकख्यातिः सा प्रकृतेमात्रात् मा भूत् सर्व्वस्य सर्व्वदा तत्मात्रस्य सर्व्वान् प्रत्यविशेषात् प्रव्रज्यायास्तु सा भवति तम्मात् प्रब्रज्यामुपाददीथाः कृतं ते ध्यानाभ्यासेनायुष्मन्। इति उपदेशै या तष्टिः सोपादानाख्या नामाम्भ इत्युच्यते’ सां० कौ०। सलिलस्येव अङ्कुरं प्रति प्रव्रज्यायाः माक्षात्कारं प्रति सहकारिकारणत्वेन सलिलमदृशत्वात् सलिलत्वम्। आत्मसाक्षात्काराय च फलार्थि रुपदि ययानतया तस्या उपादानत्वमिति बोध्यम्। तेन निर्वृत्तम् ठक्। औपद निक स्वीकारमात्रजन्येस्वत्वादौ यथां निध्यादौ द्रव्ये ग्रहणमात्रादेव स्वत्वमुत्पद्यते। उपादानोपादेबभावः
उपादानलक्षणा = स्त्री उपादानात् स्वार्थस्य ग्रहणात् लक्षणा। “मुख्यर्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये। स्यादात्मनो-ऽप्युपादानादेषोपादानलक्षणा” सा० द० उक्ते अजहत्स्वाथारूपे लक्षणाभेदे। यथा कुन्ता पविशन्तीत्यादौ कुन्तशब्दस्य कुन्तधारिणि लक्षणाभ्युपगमेऽपि तत्र कुन्तरूप्मख्यार्थस्यापि विशेषणविधयाऽन्वयात्तथात्वम्।
उपादिक = पु० उप + अद–इन् संज्ञायां कन्। कीटभेदे। उपोदिकायां स्त्री
उपादेय = त्रि० उप + आ + दा–कर्म्मणि यत्। १ ग्राह्ये ग्रहीतुं योग्ये विषये “उपादेयतारतम्यमेव” सा० द०। “भवे सौख्यं हित्वा शमसुखसुपादेयमनधम्” शान्तिश० उपादानकारणे सम्बद्धे २ तद भन्ने कार्य्ये। ३ विधेयत्वादिना उतुकृष्टे च “कर्म्मासन्निहितं नैव बुद्धौ विपरिवर्त्तते। शब्दात्तु तदुपस्थानमुपादेये गुणोभवेत्” भट्टका०। “उपादेये विधेये” ति० त० रघुनन्दनः। उपादेयं ग्रहणयोग्यं तच्चानुकूलवेदनीयं सुखं तत्साधनञ्च “हेयोपादेयरहिते परिनिष्ठिते” शा० भा० वाक्ये “स यथा मत्स्यार्थी सशल्कान् सकण्टकान् मत्स्यानुपादत्ते स यावदुपादेयं तावदादाय निवर्त्तते” सर्व० दर्शने च प्रयक्तम्।
उपाधि = पु० उप + आ–धा–कि। अन्यथास्थितस्य वस्तुनोऽन्यथा प्रकाशनरूपे १ कपटे, उपधिशब्दे उदा०। उपाधीयते स्वधर्म्मोऽनेन करणे वा० कि। स्वसामीप्यादिना अन्यस्मिन् स्वधम्मारोपसाधने विशेषणभेदे। २ उपाधिभेदेऽप्येकस्य नानायोगः आकाशस्येव घटादिना” गतिश्रुतिरप्युपाधियोगादाकाशवत्” सा० सू० “उपाधिना क्रियते भिन्न रूपः” इति श्रुतिः “कार्न्नोपाधिरयं जीवः कारणोपाधिरीश्वरः” पञ्चद० कार्यमन्तःकरणं कारणमज्ञानमिति वक्ष्यमाणोपाधिवादे उदा० ३ उपलक्षणरूपे विशेषणे च। स च जात्यादिस्तद्भिन्नश्च पदार्थवृत्तिधर्म्मः। “पदार्थविभालकोपाधिमत्त्वम्” मुक्ता०। पदार्थविभाजकाश्च द्रव्यत्व गुणत्वकर्म्मत्वसामान्यत्वविशेषत्वसमवायत्वभावत्वरूपाः तत्र द्रव्यत्वादयो जातिरूपाः सामान्यत्वादयस्तद्भिन्नाः तत्र नित्यत्वे सति ससवेतत्वम् जातित्वम् परमसीमावर्त्तित्वे सति नित्यद्रव्यमात्रवृत्तित्वं विशेषत्वम्। नित्यत्वे सति सम्बन्धत्वम् समवायत्वम्। भावभिन्नत्वमभावत्वमन्योन्याश्रयभावात् अखण्डोपाधिरभावत्वमिति नव्याः। एवं प्रतियोगित्वादयोऽपि अखण्डोपाधयः तैः कल्प्यन्ते। “उपाधिभेदादेकापि प्राच्यादिव्यपदेशभाक्” भाषा० ४ कुटुम्बव्यापृते। उपाधीयते नामसमीपे कर्म्मणि कि। ५ उपनामनि यथा भट्टाचार्य्यमिश्रादयः उपाधीयतेमनोऽत्र आधारे कि। ६ धर्मचिन्तायाम् ७ वाभिचारोन्नायके न्यायमतसिद्धे पदार्थभेदे च। “सर्वे साध्यसमानाधिकरणाःसदुपाधयः हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता भाषा० उपाधिपदार्थनिरूपणग्रन्थस्य प्रायेण वङ्गदेशादौ पठनपाठनाभावेन लुप्तप्रायतया प्रचारो नास्तोति अनुमानचिन्तामणिकृता यथा उपाधिवादे तन्निरूपितं यथा च तस्य दूषकतायां वोजं निरूपितं तदत्र प्रदर्श्यते। “तत्रोपाधिः साध्यत्वाभिमतव्यापकचे सति साधनत्वाभिमताव्यापकः। अनौपाधिकत्वज्ञानञ्च न व्याप्तिज्ञाने हेतुरतो व्यापकचादिज्ञानेन नान्योऽन्याश्रयः। यद्वा व्यापकत्वं तद्वन्निष्ठात्यन्ताभावापतियोगित्वं तत्प्रतियोगित्वञ्चाव्यापकत्वं प्रतियोगित्वञ्च तदधिकरणानधिकरणत्वमिति वदन्ति तन्न साधनपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तैः न च तयोरनुपाधित्वं दूषकतावीजसाम्यात् मित्रातनयत्वेन श्यामत्वसाधने शाकपाकजत्वस्य, प्रत्यक्षस्पर्शाश्रयत्वेन वायोः पत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च शास्त्रेऽप्रयोजकचेनोपाधिन्वस्वीकारात् पक्षेतरेऽतिव्याप्तेश्च। न च व्यतिरेके पर्वतेतरान्यत्वादित्यत्र इतरान्यत्वम्यासिद्धिवारणार्थं पर्वतपदं विशेषणमिति व्यतिरेके व्यर्थविशेषअत्वान्न स उपाधिः, बाधोन्नीतस्याप्यनुपाधितापत्तेः। न चेष्टापत्तिः इतरान्यत्वस्यापसिद्ध्या विशेषणं विना व्याप्त्यग्रहेण तत्सार्थकत्वात्। वस्तुगत्या साध्यव्यापकः पक्षेतर उपाधिरिति चेत् अस्तु तथा, तथापि पक्षातिरिक्ते साध्यव्यापकताग्रहादुपाधेर्दूषकत्वं तच्च तत्राप्यस्ति, अन्यथा पक्षे साध्यसन्देहादलपाधित्वे उपाधिमात्रमुच्छिद्येत विपक्षाव्यावर्त्तकविशेषणशून्थत्वं विशेषणं तेन बाधोन्नीतपक्षेतरस्य परिग्रहः तत्र पक्षस्यैव विपक्षत्वात् न तु पर्वतेतरत्वादेरिति चेन्न न हि वस्तु विपक्षव्यावर्तकविशेषणशून्यं सर्ब्बत्र प्रमेयत्वादेः सत्त्वात्तत्रीपात्तेति विशेषणे सिद्ध्यसिद्धव्याधातः तथापि च साध्यव्यापकत्वसाधनाव्यापकत्वे तत्र स्त इति तद्द्य वृत्त्या पक्षे साध्यव्यावृत्तिरतो हेतोर्व्यभिचार एव व्यभिचारे चावश्यमुपायिरिति पक्षेतरएव तत्रोपाधिः स्यात् तावन्मात्रस्यैव दूषकत्वाच्च व्यर्थं विशेषणम्। अतएवानुमानमात्रोच्छेदकतया जातित्वान्न पक्षेतर उपाधिरित्यपास्तम् दूषणसमर्थत्वेन जातित्वाभावात्। एतेन पक्षेतरव्यावृत्त्यर्थं प्रकारान्तरमपि निरस्तम्, उपाधित्वाभावेऽपि दूषणसमर्थत्वात्। अथोपाधिः स्वव्यतिरेकेण सत्प्रतिपक्षोत्थापकतया दूषणं, पक्षेतरत्वव्यातरेकश्च न साध्याभावमाधकोऽसाधारणत्वात् न तु व्यभिचारोन्नायकतया दूषणं यथा हि साध्यव्यापकोपाध्यव्याप्यतया हेतोः साध्याव्याप्यत्वं तथा साध्यव्याप्यहेत्वव्यापकतयोपाधेर्न साध्यव्यापकत्वमपि सिध्येत् व्याप्तिग्राहकस्योभयत्रापि साम्येन विनिगमकविरहात्। तस्माद्यथा साध्यव्याप्येन हेतुना साध्यं साधनीयं तथा साध्यव्यापकोपाधिव्यावृत्त्या साध्याभावोऽपि साधनीयो व्याप्तिग्रहतौल्यादिति दूषकतावीजं सोऽयं सत्प्रतिपक्ष एवेति मैवम् एवं हि सत्प्रतिपक्ष उपाध्युद्भावनं न स्यात् सत्प्रतिपक्षान्तरवत्। किञ्चैवं बाधोन्नीतोऽपि पक्षेतरो नोपाधिः स्यात् व्यतिरेकेऽसाधारण्यात्। ननु बाधे नोपाधिनियमः धूमेन ह्रदे वह्निसाधते तदभावात्। न च हेतुमति पक्षे बाधे पक्षेतरोपाधिनियमः प्रत्यक्षे वह्नौ कृतकत्वेनानुष्णत्वे साध्येऽतेजस्त्वादेरुपाधित्वसम्भवादिति चेत् न तेजोमात्रपक्षत्वेऽतेजस्त्वं विनान्यस्य उपाधेरभावात्। किञ्च पर्वतावयववृत्त्यन्यत्वं पवेतेतरद्रव्यत्वं ह्रदपर्वतसंयोगानाधारत्वं ह्रदपर्वतान्यचादिकर्मुपाधिः स्यादेव व्यतिरेकेऽसाधारण्याभावात् व्यतिरेकिणा सत्प्रतिपक्षसम्मवाच्च। न चासाधारण्यं, तस्यापि सत्प्रतिपक्षोत्थापकतया दोषत्वात् तस्मादुभयोरपि व्याप्तिग्राहकसाम्ये विरोधान्न व्याप्तिनिश्चयः किन्तू भयत्र व्यभिचारसंशयः तथा च व्यभिचारसंशयाधायकत्वेनोपाधेर्दूषकत्वं तच्च पक्षेतरेऽप्यस्ति तदुक्तमुपाधेरेव व्यभिचारशङ्केति। भवतु वोक्तन्यायेन सकलानुमानभङ्गभिया पक्षेतरोऽनुपाधिः तथापि लक्षणमतिव्यापकम्। नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वं दूषकतावोजस्य व्यभिचारोन्नयनस्य सत्प्रतिपक्षस्य वा साम्येन विषमव्याप्तस्याप्युपाधित्वात् तथा दूषकतायां साध्यव्याप्यत्वस्यापयोजकत्वाच्च। अथ साध्यप्रयोजकोधर्म्मौपा धः प्रयोजकत्वञ्च न न्यूनाधिकदेशवृत्तेः तम्मिन् सत्यभवतस्तेन विनापि भवतस्तदप्रयीजकत्वात् अन्यथा पक्षेतरस्याप्युपाधित्वप्रसङ्ग इति चेत् न दूषणौपयिकं हि प्रयोजकत्वमिह विवक्षितं तच्च साध्यव्यापकत्वे सति साधनाव्यापकत्वमेवेति तदेव प्रयोजकं नत्वधिकं व्यर्थत्वात्।
अथोपाधिः स उच्यते यद्धर्मोऽन्यत्र प्रतिविम्बते यथा जवाकुसुमं स्फटिकलौहित्य उपाधिः तथा चोपाधिवृत्तिव्यापत्वं हतुत्वाभिमते चकास्ति तेनासावुपाधिः न च व्य प्यत्वमात्रेण दूषकत्वमिति साध्यव्यापकतापीष्यते तथा च समव्याप्त एवोपाधिरिति चेत् तत् किं विषमव्याप्तस्य दूषकतावीजाभावान्नोपाधिशब्दवाच्यत्वं तथात्वेऽप्युपाधिपदप्रवृत्तिनिमित्ताभावाद्वा नाद्यः तस्यापि व्यभिचाराद्युन्नायकत्वात्। नापरः न हि लोके समव्याप्तएवान्यत्र स्वधर्मपतिविम्बजनक एवोपाधिपदप्रयोगः लाभाद्युपाधिना कृतमित्यादौ लाभादावुपाधिपदप्रयोगात्। किञ्च न शास्त्रे लौकिकव्यवहारार्थमुपाधिव्यत्पादनं किन्त्वनुमानदूषणार्थं तच्च साध्यव्यापकत्वे सति साधनाव्यापक त्वमात्रमिति शास्त्रे तत्रैवोप धिपदप्रय गात्। अन्ये तु यदभावोव्यभिचारविरोधी स उपाधिः न च विषमव्याप्तस्याभावोव्यभिचारं विरुणद्धि तस्याभावेऽपि व्यभिचारात् अस्ति ह्यनित्यत्वव्यापकं प्रमेयत्वं तद्द्य प्यञ्च गुणत्वं नचानित्यत्वगुणत्वयोर्व्याप्तिरस्ति समव्याप्तिकस्य च व्यतिरेकस्तथा, न हि साध्यव्यापकव्याप्यीभूतस्य व्याप्यं यत्तत् साध्यं व्यभिचरति व्यभिचारे चान्ततः साध्यमेवोपाधिः अभेदेऽपि व्याप्यव्यापकत्वात् माधनव्यापकत्वादिति स्वीचक्रुस्तन्न तवापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वं तन्त्रमावश्यकत्वाल्लाघवाच्च न साध्यव्यापकव्याप्यत्वमपि भवतैव व्यभिचारस्य दर्शितत्वात्। न च साध्यव्याप्यव्याप्यत्वमेवानौपाधिकत्वं साध्यव्याप्यमित्यत्रापि ह्यनौपाधिकत्वं तदेव वाच्यं तथा चानवस्थेति। अनौपाधिकत्वे च व्याप्तिलक्षणे यावदिति पदं साध्यव्यापके विशेषणं दत्तमेव किञ्च यस्मिन् सत्यनुमितिर्न भवति तदेव तत्र दूषणं न तु यद्व्यरेके न भवत्येवेत्येतद्गर्भं विरुद्धत्वादेरप्यदोषत्वापत्तेः नापि पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनव्यापकत्वमुपाधित्वं साधनावच्छिन्नसाध्यव्यापकोपाध्यव्यापनात्। शब्दोऽभिधेयः प्रमेयत्वादित्राश्रावणत्वस्योपाधित्वापत्तेश्च शब्द धर्मगुण वावच्छिन्नाभिधेयत्वं यत्र रूपादौ तत्राश्रावणत्वं व्यापकं पक्षे प्रमेयत्वस्य साधनस्याव्यापकं हि तत्। आर्द्रेन्धनवत्त्व दावुपाघौ पक्षनियततादृशधर्माभावाच्च। अथ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक उपाधि तन ध्वंसस्य जन्यत्वेन ध्वंसप्रतियोगित्वे साध्ये साधनावच्छन्नसाध्यव्यापकं भावत्वमुपाधिः। श्यामत्वे शाकपाकजत्वमुपाघिरिति तन्न पक्षधर्मावच्छिन्नसाध्यव्यापकपृथिपात्वस्यापाधित्वपसङ्गात् सोपाधित्वादसाधकमित्यत्र साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वे साधनावच्छिन्नेत्यस्य व्यर्थत्वप्रसङ्गाच्च। किञ्च पक्षद्वयेऽपि विशिष्टसाध्यव्यभिचार विशिष्टभाध्यव्यतिरेकं वा प्रसाध्य पश्चात् केवसमाध्यव्याभचारः केवलसाध्यव्यतिरेको वा साधनीय- स्तथा चार्थान्तरं केवलसाध्ये हि विवादो न तु विशिष्टे। अथ प्रकृतसाध्यव्यभिचारमिद्ध्यर्थं विशिष्टसाध्यव्यभिचारः साध्य इति चेन्न अप्राप्तक लत्वात् प्रथमं साध्यव्यभिचार एवोद्भाव्यस्तत्रासिद्धावुपाधिरिति चेत् तर्हि प्रकृतानुमाने नोपाधिर्दूषणं स्यात्। किञ्च साध्यव्यभिचारहेतुत्वेन पक्षघर्मावच्छिन्नसाध्यव्यापकव्य भचार एवोपन्यसनीयोनोपाधिः। स्यादेतत् पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधि पर्यवसितं साध्यं च पक्षधर्मताबललभ्यं यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् मेयत्वादित्यत्र पर्यवसितं यतस ध्यम् अनित्यत्वं तस्य व्यापकं कृतकत्वमुपाधिः यदि च तथैव कृतकत्वमपि शब्दे साध्यते तदा अनित्यत्वमुपाधिः तदुक्तं वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः पर्यवसितं नियमयन् दूषकत्रावीजसाम्राज्यादि त। अनेन पक्षधर्म्मसाघनावच्छिन्नसाध्यव्यापकोपाधिः सगृह्यते तादृश साध्यस्य पर्यवसितत्वादिति तन्न एवं हि द्व्यणुकस्य सावयवत्वे सिद्धे द्व्यणुकमनित्यद्रव्यासमवेतं जन्यमहत्त्वानधिकरणद्रव्यत्वादित्यत्र निस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात्। भवति हि नित्यद्रव्यसमवेतत्वं पर्यवसितं साध्यं तस्य, व्यापकं साधनाव्यापकञ्च। किञ्च पक्षधर्म्मताबललभ्यसाध्यसिद्धौ निष्फल उपाधिः तदसिद्धौ च कस्य व्यापकः न हि सोपाधौ पक्षधर्म्मताबलात् साध्यं सिध्यति यस्य व्यापक उपाघिः स्यादिति। अत्रोच्यते यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं स उपाधिः लक्षणन्तु पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वं यद्धर्मावच्छेदेन साध्यं स च धर्मः। क्वचित् साधनमेव क्वचिद्द्रव्यत्वादि क्वचिन्महानसत्वादि। तथा हि समव्याप्तस्य विषमव्याप्तस्य वा साध्यव्यापकस्य व्यभिचारेण साधनस्य साध्यव्यभिचारः स्फुटएव व्यापकव्यभिचारिणस्तद्व्याप्यव्यभिचारनियमात् साधनावच्छिन्नपक्षधर्मावच्छिन्नसाध्यव्यापकयोर्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वमेव यथा ध्वंसस्यानित्यत्वे साध्ये भावत्वस्य, वायोः प्रत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च विशेषणाव्यभिचारिणि साधने विशिष्टव्यभिचारस्य विशेव्यव्यभिचारित्वनियमात्। अतएव नार्थान्तरं, विशेषणाव भिचारित्वेन ज्ञाते साधने विशिष्टव्यभिचारः सिध्यन् विशेष्यसाध्यव्यभिचारमादायैव सिध्यति पक्षधर्म्मताबलात्। अन्यथा प्रतीतेरपर्यवसानात्। न च पक्षधर्मताबलात् प्रकृतसिद्धावर्थान्तरम्। यद्वा प्र- त्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि द्रव्यत्वाव्यभिचारित्वे सति द्रव्यप्रत्यक्षत्वव्यापकव्यभिचारित्वान्महत्त्ववत् तथा मित्रातनयत्वं श्यामत्वव्यभिचारि मित्रातनयत्वाव्यभिचारित्वे सति श्याममित्रातनयत्वव्यापकव्यभिचारित्वात् अघटत्ववत्। अव्यभिचारश्च तत्समानाधिकरणात्यन्ताभावाप्रतियोगित्वं तच्चाभेदेऽपि। यद्वा यः साधनव्यभिचारी साध्यव्यभिचारोन्नायकः स उपाधिः तत्त्वञ्च साक्षात् परम्परया वेति तार्थान्तरम्। किञ्च अर्थान्तरस्य पुरुषदोषत्वादाभासान्तरस्य तत्राभावादुपाधिरेव भावत्वादिकं दोषः न चैवं शब्दोऽभिधेयः प्रमेयत्वादित्यत्राश्रावणत्वं, जलं प्रमेयं रसवत्त्वादित्यत्र पृथिवीत्वमुपाधिः स्यात् केवलान्वयित्वसाधकप्रमाणेन तत्र साध्यसिद्धेरुपाधेर्विशिष्टाव्यापकत्वात् न च पक्षेतरे स्वव्याघातकत्वेनानुपाधावतिव्याप्तिः तत्रानुकूलतर्काभावेन साध्यव्यापकत्वानिश्चयात् सहचारदर्शनादेस्तेन विना संशायकत्वादित्युक्तं बाघोन्नीते चानुकूलतर्कोऽस्त्येवेति। एवं पर्व्वतावयववृत्त्यन्यत्वादेरपि नोपाधित्वं पक्षमात्रव्यावर्त्तकविशेषणवत्त्वात् अतएव धूमे आर्द्रेन्धनप्रभववह्निमत्त्वं बहिरिन्द्रियप्रत्यक्षत्वे उद्भूतरूपवत्त्व मित्रातनयश्यामत्वे शाकपाकजत्वं जन्यानित्यत्वे भावत्वमुपाधिः तदुत्कर्षेण साध्योत्कर्षात् अनन्यथासिद्धान्वयव्यतिरेकतो वैद्यकात् कारणतावगमेन घटोन्मज्जनप्रसङ्गेन साध्यव्यापकतानिश्चयात्। तत् किं कायकारणयोरेव व्याप्तिः तथा च बहुधा व्याकुलोस्यादिति चेन्न तदुपजीव्यान्येषामप्यनुकूलतर्केण व्याप्तिग्रहात् यत्र साध्योपाध्योर्हेतुसाध्ययोर्वा व्याप्तिग्राहकसाम्यान्नैकत्र व्याप्तिनिश्चयस्तत्र सन्दिग्धोपाधित्वं व्यभिचारसंशयोपाधायकत्वात्। यदा च तादृश्येकत्रानुकूलतर्कावतारस्तदा हेतुत्वमुपाधित्वं वा निश्चितं पक्षेतरस्य स्वव्याघातकत्वेन न हेतुव्यभिचारसंशायकत्वमतो न सन्दिग्धोपाधिरपि सः। यत्तु पक्षेतरस्य यथा साध्यव्यापकत्वं तथा साध्याभावव्यापकत्वमपि ग्राहकसाम्यात् तथा चोभयव्यापकनिवृत्त्या साध्यतदभावाभ्यां पक्षे निवर्त्तितव्यम् न चैवम्। तथा च पक्षेतरः साध्यव्यापकतासंशयेन सन्दिग्धः कथं परं दूषयेदिति तन्न तथापि हि साध्यव्यापकता पक्षमालम्ब्य हेतुव्यभिचार संशयाधायकत्वेन दूषणं स्यादेव। ननु यत्रोपाधिस्तत्रानुकूलतर्कोयदि नास्ति तदा तदभावेनैव व्याप्तेरग्रहः अथास्ति तदा साध्यव्याप्याव्यापकत्वेनोपाधिः साध्यव्या- पकत्वनिश्चयान्नोपाधिरित्युभयथापि नोपाधिर्दूषणं न च व्याप्यतदभावव्याप्यमुभयमत उपाधिरपि तदभावोन्नयनेन दोष इति वाच्यं उपाधेरात्मलाभार्थमनुकूलतर्काभावोजीवकत्वेन तस्यैव दोषत्वादिति चेन्न सोपाधावेकत्र साध्यतदभावसम्बन्धस्य विरुद्धत्वादवच्छेदभेदेन तदुभयसम्बन्धो वाच्यः तथा च साधने साध्यसम्बन्धितावच्छेदकरूपमनुकूलतर्काभावोपजीवनमन्तरेणोपाधिरावश्यकस्तथानुकूलतर्काभावोऽप्यावश्यक इति उभयोरपि विनिगमकाभावाददूषकत्वम्। अन्ये तु यद्व्यावृत्त्या यस्य साधनस्य साध्यं निवर्त्तते स धर्म्मस्तत्र हेतावुपाधिः स च धर्म्मोयस्याभावात् पक्षे साध्यसाधनसम्बन्धाभावः यथा आर्द्रेन्धनवत्त्वं, व्यावर्त्तते हि तद्व्यावृत्त्या धूमवत्त्वमयोगोलके। अतएव तत्र साध्यसाधनसम्बन्धाभावा पक्षे। एवं भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानित्यत्वयोः सम्बन्धीनिवर्त्तमानः पक्षधर्म्म ताबलादनित्यत्वाभावमादाय सिध्यति। तथा वायावुद्मूतरूपवत्त्वं निवर्त्तमानं बहिर्द्रव्यत्वे सन्ति प्रत्यक्षत्वं निवर्त्तयत् प्रत्यक्षत्वाभावमादाय सिध्यति तथा चोभयत्रापि पक्षे साध्याभावसिद्ध्या साध्यसाधनसम्बन्धाभावोऽस्तीति अतएव वाधानुन्नीतपक्षेतरस्यानुपाधित्वं स्वव्याघातकत्वेन तद्व्यतिरेकस्य साध्याव्यावर्त्तकत्वादिति। यत्तूपापिमात्रस्य लक्षणं व्यतिरेकिधर्म्मत्वं पक्षेतरोऽपि क्वचिदुपाधिः तत्तदुपाधेस्तु तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वं न च धूमवह्निसम्बन्धोपाधिः पक्षेतरत्वं स्यादिति वाच्यम् आपद्याप्रसिद्धेरिति तन्न अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वमिह निरूप्यं तच्च न व्यतिरेकित्वमतिप्रसङ्गात् विशेषलक्षणे वह्निधूमसम्बन्धे पक्षेतरत्वस्योपाधित्वप्रसङ्गाच्च। केचित्तु साधनव्यापकोऽप्युपाधिः क्वचिद्यत्र पक्षावृत्तिर्हेतुः यथा करका पृथिवो कठिनसयोगात् इत्यत्रानुष्णाशीतस्पर्शवत्त्व न च तत्र स्वरूपासिद्धिरेव दोषः सर्व्वत्रोपाधेर्दूषणान्तरसङ्करादित्याहुः। साध्यञ्च नोपाधिः व्यभिचारसाधने साध्याविशिष्टत्वात् अनुमितिमात्रोच्छेदप्रसङ्गाच्च। स चायं द्विविधः निश्चितः सन्दिग्धश्च साध्यव्यापकत्वेन साधनाव्यापकत्वेन च निश्चितोव्यभिचारनिश्चयाधायकत्वेन निश्चितोपाधिः यथा वह्निमत्त्वेन धूमवत्त्वे साध्ये आद्रेन्धनप्रभववह्निमत्त्वम्। यत्र साधनव्यापकत्वसन्देहः साध्यव्यापकत्वसंशयो वा तदुभयसन्देहो वा तत्र हेतुव्यभिचारसंशायकत्वेन सन्दिग्धोपाधिः यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाकाद्याहारपरिणतिजत्वं न च तेन हेतुना शाकपाकजत्वमपि साध्यं तत्र श्यामत्वस्योपाधित्वादुभयस्यापि साधने अर्थान्तरं श्यामत्वमात्रे विवादो नतूभयत्र। न चैवं धूमाद्वह्न्यनुमानेऽपि वह्निसामग्र्युपाधिः स्यात् तत्र वह्निनेव तत्सामग्र्यापि समं धूमस्यानौपाधिकत्वनिश्चयात्। अत्र तु मित्रातनयत्वव्याप्यश्यामसामग्य्रा स्थातव्यमित्यत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावात्। अतएव साध्यसामग्य्रा सह हेतोरपि यत्र व्याप्तिग्राहकमस्ति तत्र सामग्री नोपाधिः यत्र तु तन्नास्ति तत्र साप्युपाधिरित्यभिसन्धाय सामग्री च क्वचिन्नोपाधिर्नतु सर्वत्र इत्युक्तं यथा तुल्ययोगक्षेमयोरुपाधेर्व्यापकतासन्देहे ईश्वरानुमाने शरीरजन्यत्वाणुत्वादिः यथा च शाकपाकजत्वस्य साध्यव्यापकतासन्देहे मित्रातनयत्वे। यत्तु उपाधिसन्देहो नोपाधिर्न वा हेत्वामासान्तरमिति तदुद्भावने निरनुयोज्यानुयोग इति तन्न सन्दिग्धानैकान्तिकव्यभिचारसंशयाधायकत्वेन दूषणत्वादुपाधेरिव व्यभिचारनिश्चयाधायकतया।
इदानीमुपाधेर्दूषकतावीजं निरूप्यते। नाप्यस्य व्यतिरेकद्वारा सत्प्रतिपक्षत्वेन दूषकत्वं तदा हि सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवदुपाधेरुद्भावनं न स्यात् न च प्रतिपक्षबाहुल्येनाधिबचार्थमुद्भावनं शतमप्यन्धो न पश्यतीति न्यायात् एकेनापि बहूनां प्रतिबन्धाच्च ब्याप्तिपक्षधर्म्मतेति बलं तच्च तुल्यमेव न तु भूयस्त्वमपि एकस्मादनुमितेरदर्शनात्। सन्दिग्धोपाधेरदूषकतापाताच्च तद्व्यतिरेकस्य पक्षे सन्दिग्धत्वात् अपि चैवं बाधोन्नीतपक्षेतरस्योपाधित्वं न स्यात् व्यतिरेकेऽसाधारण्यात् पक्षधर्म्मश्चोपाधिर्न स्यात् यथा घटोऽनित्यो द्रव्यत्वादित्यत्र कार्यत्वं, गन्धाधरो द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वादित्यत्राश्राबणत्वं, तद्व्ययिरेकस्य पक्षावृत्तित्वात्। न च नायमुपाधिः, तल्लक्षणसत्त्वात् अन्यथा दूषकत्वसम्भवाञ्च। किञ्च साध्यव्यापकव्याप्यत्वेनोपाधेः साध्याव्यापकत्वे तद्व्यतिरेकेण कथं सत्प्रतिपक्षः, न ह्यव्यापकव्यतिरेकादव्याप्यव्यतिरेकः। नापि व्याप्तिविरहरूपतया असिद्धत्वेनानौपाधिकत्वस्य व्याप्तित्वनिरासात्। नाप्यनौपाधित्वज्ञानस्य व्याप्तिधीहेतुत्वस्य तत्त्वेन व्याप्तिज्ञानकारणविघटकतया व्याप्यत्वासिद्धावन्तर्भावात्। नह्यन्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यव्याप्तिज्ञानं प्रति प्रतिबन्धकमित्युक्तम्। न च साध्यव्याप- कत्वसाध्यव्याप्यत्वज्ञाने विद्यमाने साधनस्य साध्यव्यापकत्वज्ञानं नोत्पत्तुमर्हतीति वाच्यं न हि साध्यव्यापकव्यप्यत्वज्ञानं व्याप्तिज्ञानकारणं येन तत् प्रतिवन्धकं स्यात् किन्तु साध्यव्यापकव्यभिचारित्वेन साध्यव्यभिचारित्वज्ञानद्वारा, नापि व्यभिचारोन्नायकत्वेन। यथा हि साध्यव्यापकव्यभिचारितया साधनस्य साध्यव्यभिचारित्वमनुमेयं तथा साध्यव्याप्यव्यभिचारित्वेन साध्यव्यभिचारित्वमुपाधेरप्यनुमेयं व्याप्तिग्राहकसाम्यात्। नापि साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया, साध्यव्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वसाघनात् तस्मादुपाधिर्हेत्वाभासान्तरमिति। उच्यते आर्द्रेन्धनलत्त्वादेस्तर्कादिना साध्यव्यापकत्वसाधने व्यापकत्वे निश्चिते दूषकतावीजचिन्तनं यदि हि साध्यसाधनसहचारदर्शनेनोपाधौ साध्यव्यापकतानिश्चय एव नास्ति तदोपाधित्वनिश्चयाभावात् दूषकतैव नास्तीति क्व बहिर्भावान्तर्भावचिन्ता। किञ्च सत्प्रतिपक्षतया व्याप्यत्वासिद्धतया स्वातन्त्र्येण वा यदि दोषत्वं सर्वथा साध्यव्यापकतानिश्चयोवाच्यः तेन विना तेषामभावात्। तस्मादुपाधिनिश्चयाद्व्यभिचारनिश्चयः तत्संशयात् संशय इति वाभिचारज्ञानद्वारा साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया वोपाधेर्दूषकत्वम्। यद्वा साध्यव्यापकाभाववद्वृत्तितया साध्यव्यभिचारित्वमुन्नेयं न च साधनाभाववद्वृत्तित्वमुपाधेरिति वाच्यम् उपाधिमात्रोच्छेदप्रसङ्गात् सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत् अवृत्तिगगनादौ साध्याव्यापकत्वात् संयोगादौ हेतौ साधनव्यापकत्वाच्च। अथोपाध्याभासाः। असाधारणविपर्ययो यथान्वयव्यतिरेकिणि साध्ये बाधोन्नोतान्यपक्षेतरत्वम्। अप्रसिद्धसाध्यबिपर्ययो यथा केवलान्वयिनि साध्ये पक्षेतरत्वादिः। बाधितसाधकविपययो यथा वह्निरुष्णस्तेजस्त्वादित्यत्राकृतकत्वम्। पक्षाविपर्ययो यथा क्षित्यादिकं सकर्तृकं कार्य्यत्वादित्यत्राणुव्यतिरिक्तत्वम् अत्राणुव्यतिरेकव्यतिरेकस्य क्षित्यादेरेकदेशवृत्त्या भागासिद्धेः। पूर्वसाधनव्यतिरेको यथा शर्करारसोऽनित्योऽनित्यवृत्तिगुणत्वात्, रसोऽनित्यो रसनेन्द्रियजन्यनिर्विकल्पकविषयत्वात् रसत्ववदित्यादौ पूर्वसाधनतायाः प्रयोगानुरोधित्वेनाव्यवस्थितत्वात् कदाचिन्नित्यत्वसाधनव्यतिरेकस्योपाधित्वं कदाचिदनित्यत्वसाधनव्यतिरेकित्वस्येति वस्तुव्यवस्था न स्यात् उपाधेर्नित्यदोषत्वाच्च। न हि यद्येन सोपाधिसम्बद्धं तत्तेनानुपाधित्वसम्बद्धं सम्भवति न तु सत्प्रतिपक्षोच्छेदः पूर्ब्बसाधनव्यतिरेकस्यानुपाधित्वे वीजं स्थापनाया यत्राभासत्वं तत्र पूर्ब्बसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वात् न च पूर्वहेतोस्तत एवासाधकत्वात् सत्प्रतिपक्षवैयर्थ्यं तत्रेति वाच्यम् अगृह्यभाणविशेषदशाया सत्प्रतिपक्षसम्भवात्। पूर्वसाधनव्याप्यव्यतिरेको यथा अकर्तृत्वानुमाने नित्यत्वादिः। पक्षविपक्षान्यतरान्यी यथा प्रसिद्धानुमाने पर्वतजलह्रदात्यतरान्यत्वम्। पक्षेतरसाध्याभावो यथात्रैव पर्वतेतराग्निमत्त्वं न चात्र व्यर्थविशेषणत्वं दूषणं सत्त्वेप्युपाधेराभासत्वात्। तत्तुल्यश्च यथात्रैव पर्व्वतेतरेन्धनवत्त्वम्। एवं वह्निसामग्थ्रादिकमूह्यम्” विवरणं दीधित्यादौ दृश्यं विस्तरभयान्नोक्तम्। उपाधिना निर्मितः ठञ् स्त्रियां ङीप्। औपाधिक उपाधिजनिते मिथ्याभूते आरोपिते स्फटिकलौहित्यादौ जवासन्निकर्षात् स्फटिके च मिथ्याभूतं लौहित्यमुत्पद्यते इति वेदान्तिनः। नैयायिकादयस्तु तत्र लौहित्यस्य भ्रान्तिरित्युररीचक्रुः। प्रमेयवि० संग्रहे तयोः पक्षयोर्युक्तायुक्तत्वं यथावर्ण्णितं तदत्र दर्श्यते। “यस्तु लौहित्यमिथ्यात्वं न सहते स वक्तव्यः किं स्फटिक प्रवृत्ता नयनरश्मयः स्फटिकप्रतिफलितजवाकुसुममुपसर्पेयुः? किंवा कुसुमगतरूपमात्रं स्फटिके प्रतिविम्बितं स्फटिकात्मना भासते? उत पद्मरागादिमणीप्रभयेव कुसुमप्रभया व्याप्तवात् स्फटिकोलोहितैवा वभासते?। अथ वा तत्र व्याप्तवती प्रभैव लोहिता भाति? आहोस्वित्तया प्रभया स्फटिके नूतनं लौहित्यमुत्पादितम्! आद्ये नेत्राभिमुखं कुसुममपि प्रतीयेत। यदि च दोषवशान्न कुसुमेन संयोगः तर्हि लौहित्यमपि न भासेत तद्युक्तसभवायस्य तत्राभावात्। न द्वितोयः क्वचिदपि द्रव्यं परित्यज्य रूपमात्रस्य प्रतिविम्बादर्शनात्। तृतीये तु स्फटिकलौहित्ययोः सम्बन्धोमिथ्येति त्वयाभ्युपगतमेव स्यात् इवशब्दप्रयोगात्। चतुर्थे स्फटिकशौक्ल्यमपि प्रतीयेत अप्रतीतिकारणाभावात् न च जवाप्रभया विरोधिगुणयुक्तया शौक्ल्यमपसारितं तथासति नीरूपस्य स्फटिकस्याचाक्षुषत्वप्रसङ्गात् न हि रूपं विहाय द्रव्यमात्रस्य चाक्षुषत्वं सम्भवति वायोरपि तत्प्रसङ्गात्। पञ्चमेऽपि प्रभा निमित्तकारणं चेत्तदा प्रभापगमेऽपि स्फटिके लौहित्यमवतिष्ठेत्। उपादानं प्रभेति चेत् न मणाविव कुमुमे प्रभाया एवादर्शनात् प्रूर्वोक्त- विकल्पदूषणानामङ्गीकारवादत्वात् तदेवं स्फटिके मिथ्या लौहित्यं कुसुमनिमित्तमित्यङ्गीकर्त्तव्यम्। एवमात्मत्यहङ्कारनिमित्तं कर्तृत्वादिकमारोप्यते”। प्रतिविम्बपक्षेऽपि प्रतिम्बपदार्थस्य यथा मिथ्यात्वं तदपि तत्रैव निर्ण्णीतं यथा ननु जीवस्याहङ्कारस्थप्रतिविम्बत्वे दर्पणस्थमुखप्रतिविम्बवद्विम्बाद्भेदः स्यात्। तत्र हि ग्रीवास्थदर्पणस्थयोरन्योन्याभिमुखत्वेन भेदोऽनुभूयते। भैवं मदीयमिदं मुखमित्यैक्यप्रत्यभिज्ञयाभेदानुभवस्य बाधात्। न च प्रत्यभिज्ञैवेतरेण बाध्येति वाच्यम् सति भेदे प्रतिविम्बासम्भवात्। किं प्रतिविम्बोनाम मुखलाञ्छितमुद्रा उत दर्पणावयवा एव विम्बस्य सन्निधिवशात्तथा परिणमन्ते। नाद्यः दर्पणस्थमुखस्येतरस्मादल्पत्वात्। यत्र तु प्रौढ दर्पणे प्रौढं मुखमुपलभ्यते तत्रापि तस्य न मुद्रात्वम् दर्पणमुखयोः संयोगाभावात्। न द्वितीयः निमित्तकारणस्य विम्बस्यापायेऽपि तस्यावस्थानप्रसङ्गात् न हि तथावतिष्ठते। तेनैव पुरुषेण दर्पणे तिर्य्यङ्निरीक्षिते पुरुषान्तरेण सम्यगवलोकिते वा तन्मुखानुपलम्भात्। न चैवं मन्तव्यम् क्वचिन्निमित्तापाये कार्यमप्यपैति हस्तसंयोगजन्यस्य कटप्रसारणस्य हस्तसंयोगापायेऽपायदर्शनादिति। न तत्र निमित्तापायात् कायापायः किन्तु चिरकालसंवेष्टनाहितेन संस्कारेण संवेष्टनलक्षणविरुद्ध कार्योत्पादनात्। अन्यथा चिरकालप्रसारणेन संवेष्टनसं स्कारे विनाशितेऽपि हस्तापाये प्रसारणमरेयात्। न चैवमपैति। इह तु चिरकालविम्बसन्निधावप्यन्ते विम्बापाये प्रतिविम्बोऽपि गच्छत्येवेति न विम्बं परिणामस्य निमित्तम्। अथ मन्यसे चिरकालावस्थितोऽपि कमलविकाशः सवितृकिरणस्य निमित्तस्यापायेऽपगच्छतीति। तन्न तत्रापि प्राथमिकमुकुलत्वे हेतुभिः पार्थिवैराप्यैश्च कमलावयवैः पुनरपि रात्रौ मुकुलत्वे विरुद्धकार्ये जनिते विकासापायात्। अन्यथा तादृगवयवरहिते म्लाने कमलेऽपि रात्रौ विकासोऽपगच्छेत्। आदर्शे तु मुखाकारपरिणते पुनः केन हेतुना समतलाकारपरिणामः तदवयवानां कारुकर्मव्यतिरेकेण अकिञ्चित्करत्वात्। अतएव विम्बासन्निधिमात्रेण नादर्शावयवा मुखाकारेण परिणमेरन्। अन्यथा दर्पणद्रव्ये प्रतिमामुखे कर्त्तव्ये सति लौकिकाविम्बमेव सन्निधागयेयुर्नतद्धेतुमपक्षेरन्। दर्पणद्रव्यस्यान्याकार परिणामे कारुकर्मापेक्षायामपि प्रतिविम्बपरिणामे पुन स्वरूपपरिणामे वा न तदपेक्षेति चेत् एवमपि न मुख- प्रतिविम्बाकारपणिणामो युक्तिसहः चक्षुर्नासिकादि निम्नोन्नतभावस्य स्पर्शेनानुपलम्भात्। समतलमेव हि पाणिना स्पृंश्यते। समतलेन व्यवहितं मुखमिति चेत्। तर्हि चाक्षुषमपि न स्यात्। तत एतत्सिद्धम्। विमत आदर्शोमुखव्यक्त्यन्तररहितः तज्जन्मकारणशून्यत्वात्। यथा विषाणजन्मकारणशून्यं विषाणरहितं शशमस्तकमिति। ननु तर्हि शुक्तिरजतवन्मिथ्यात्वापत्तेर्न विम्बैकत्वसिद्धिः प्रत्यभिज्ञा तु व्यभिचारिणी मिथ्यारजतेऽपि मदीयमिदं रजतमिति तद्दर्शनादिति चेत्। विषमोदृष्टान्तः नेदं रजतमिति हि तत्र रजतस्वरूपबाधया रजताभिज्ञाया भ्रमत्वे तत्प्रत्यभिज्ञाया अपि भ्रमत्वमुचितम् इह तु न तथा नेदं मुखमिति स्वरूपबाधः किन्तु नात्र मुखमिति देशसम्बन्धमात्रबाधे समुत्पन्ना मदीयमेव मुखमिति प्रत्यभिज्ञा कथं भ्रमःस्यात्। न च स्वमुखावयवानामचाक्षुषत्वात् कथं प्रत्यभिज्ञानमिति वाच्यम् नासाग्रादिकतिपयावयवदर्शनादपि घटादिवदवयविनश्चाक्षुषत्वोपपत्तेः। यः पुनर्द्दर्पणापगमे प्रतिविम्बापगमः नासौ स्वरूपबाधः दर्पणेऽपि तत्प्रसङ्गात्। ननु तत्त्वमसिवाक्येन जीवरूपः प्रतिविम्बोबाध्यते यः स्थाणुरसौपुरुष इति वद्बाधायां सामानाधिकरण्यात् संसार्य्यविनाशे च मोक्षानुपपत्तेः। मैवम् सोऽयं देवदत्त इति वदैक्यपरत्वेनापि सामाधिरण्यसम्भवात् विरुद्धांशबाधमात्रेण मोक्षोपपत्तेः। कृत्स्नस्य जीवस्य बाधे मोक्षस्यापुरुषार्थत्वात्। यस्तु मन्यते प्रतिबिम्ब एव नास्ति, दर्पणप्रतिस्फालिता नेत्ररश्मयः परावृत्य विम्बमेव दर्पणादविविक्तं गृह्णन्तीति, स्पष्टप्रत्यङ्मुखत्वाद्यनुभवेनैवासौ निराकरणीयः। कथं तर्हि मूर्त्तद्रव्यस्य मुखस्यैकस्य विच्छिन्नदेशद्ववे युगपत् कात्र्स्न्येन वृत्तिः। दर्पणदेशवृत्तेर्मायाकृतत्वादिति ब्रूमः। न हि मायायामसम्भावनोयं नाम स्वशिरच्छेदादिकमपि स्वप्ने माया दर्शयति। नन्वेवमेव जलमध्येऽधोमुखस्य वृक्षप्रतिविम्बस्य तीरस्थवृक्षेणेक्ये सति तीरस्थवृक्षोऽधिष्ठानं तत्र च मायया जलगतत्वमधोमुखत्वं चाध्यस्तमिति वक्तव्यम्। न चात्राध्यासहेतुरस्ति। अधिष्ठानस्य साकल्येन प्रतीतेस्तत्कथमसावध्यासः। उच्यते। किमत्र वृक्षावरणाभावादध्यासाभावः? किं वा दोषाभावात्। उतोपादानाभावात्? आहोस्विदध्यासविरोधिनोऽधिष्ठानतत्त्वज्ञानस्य सद्भावात्?। नाद्यः। वैतन्यावरणस्यैवा- ध्यासोपादानतया जडे पृथगावरणानुपयोगात्। एतेन तृतीयोऽपि निरस्तः। न द्वितीयः। सोपाधिकभ्रमेषूपाधेरेव दोषत्वात्। न चतुर्थः। निरुपाधिकभ्रमस्यैवाधिष्ठानतत्त्वज्ञानविरोधित्वात्। तर्हि सोपाधिकभ्रमस्य कर्तृत्यादेर्नात्मतत्त्वज्ञानान्निवृत्तिः किन्तु अहंकारोपाध्यपगमादिति चेत्। वाढम्। पारमार्थिकदर्पणाद्यु पाधेस्तत्कृतभ्रमस्य च ज्ञानादनिवृत्तावप्यज्ञानजन्योपाधेरहङ्कारस्य निरुपाधिकभ्रमरूपस्यात्मतत्त्वज्ञानान्निवृत्तौ कर्तृत्वादेर्ज्ञानान्निवृत्तिरर्थात् सिध्यति”। परिभाषायां तु उपाधिसन्निकर्षस्थले भ्रममेवाङ्गीचकार न तु तत्र मिथ्यत्वमिति भेदः। “तत्र सङ्केतवन्नाम सैव संज्ञेति कीर्त्त्यते। नैमित्तिकी पारिभाषिक्यौपाधिक्यपि तद्भिदा” इति संज्ञां त्रिधा विभज्य। “उभयावृत्तिधर्म्मेण संज्ञा स्यात् पारिभाषिकी। औपाधिकी त्वनुगतोपाधिना या प्रवर्त्तते” इति “यद्वाधुनिकसङ्केतशालित्वात् पारिभाषिकम्। जात्या नैमित्तिकं शक्तमौपाधिकमुपाधिना”। “यदुपाध्यवच्छिन्नशक्तिमन्नाम तदौपाधिकं यथाकाशपश्वादि” इति च शब्दप्र०। अत्र उपाधिना शक्तेरवच्छेदकरणात् तत्कृतत्वम् इति बोध्यम्।
उपाधेय = त्रि० उप + आ + धा–कर्मणि यत्। १ अभिनिवेशनीये २ आरोप्ये ३ उपाधिना विशेष्ये च। “उपाधेयसङ्करेऽपि उपाधेरसङ्करात्” जगदी०।
उपाध्याय = पु० उपेत्याधीयतेऽस्मात् उप + अधि + इङ्–घञ्। “एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः। योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते” इति मनूक्तलक्षणे वेदैकदेशतदङ्गाध्यापके। स्त्रियां ङीपि उपाध्याया उपाध्यायीतिरूपद्वयम। उपाध्यायस्य पत्नीत्यर्थे ङीष् आनुक् वा उपाध्यायानी “उपाध्यायानी ऋतुमती” मा० आ० ३ अ० उपाध्यायी च। “उपाध्यायान् दशाचार्थ आचर्याणां शतं पिता”। “आचार्यं स्वमुपाध्यायं पितरं मातर गुरुम्” मनुः। तन्मरणे एकरात्राशौचम् “आचार्यपत्नोपुत्रोपाध्यायमातुलश्वशुरश्वशुर्यसहाध्यायिशिष्येष्वेकरात्रेण” विष्णूक्तेः।
उपानस् = त्रि० उपगतमनः शकटं पितरं वा अत्या० समा०। १ शकटसदृशे २ पितृसदृशे पितृव्यादौ च। जातौ अच् समा०। उपानस शकटशदृशे मृण्मयादौ शकटे आकरेव्यङ्ग्यतयाऽस्य जातित्वम्। वेदे तु पुस्त्वमपि “सचायोरिन्द्रश्चकर्ष उपानसः” ऋ० १०, १०५, ४,
उपानह् = स्त्री उप + नह–क्विप उपसर्गदीर्धः। चर्मपादुकायाम्। “कृतावरोहस्य हयादुपानहौ नियोद्धुकामे किमु बद्धवर्मणी” इति नैध० अत्रोपानहोः वर्मत्वेनोत्प्रेक्षणात् तस्याः सर्वाङ्गावरकत्वं गम्यते तेन लोके (मोजा) इत्यादिप्रसिद्धाया एव तथात्वम् एकदेशमात्रावरकत्वे तु पादुकाशब्दप्रयोगः। “अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम्” “क्षेत्रं हिरण्यं गामश्वं छत्रोपनहमासनम्” मनुः छत्रो पानहमित्यत्र समा० द्व० अच् समा०। एवमन्यशब्देन द्वन्द्वेऽपि। दण्डोपानहमित्यादि “उपानहौ च वासश्च धृतमन्यैर्न धारयेत् “खयं नोपानहौ हरेत्” “सोपात्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते” मनुः।
उपानुवाक्य = न० उपगतमनुवाक्याम् अत्या० स०। अनुवाक्यासदृशे वैदिके वाक्यभेदे
उपान्त = पु० उपमितमन्तेन अवा० स०। १ निकटे, २ प्रान्ते च। “दिशामुपान्तेषु ससर्ज दृष्टिम्” “नयनोपान्तविलोकितञ्च यत्” “उपान्तभागेषु च रोचनाङ्कः” कुमा०। “मेरोरुपान्तेष्वपि वर्त्तमानः” “उपान्तवानीरगृहाणि दृष्ट्वा” रघुः। शय्योपान्तनिविष्टसस्मितमुखी” सा० द० “तिरोहितोपान्तनभोदिगन्तरा” किरा०। अन्तश्च सीमाभेदः स च दैशिकः कालिकः बुद्धिकल्पितश्च। “उपान्त्यतो निवर्त्तेत” वृ० र०। अन्तस्य समीपम् अव्ययी०। ३ अन्तसमीपे अव्य०।
उपान्तिक = न० उप आधिक्ये प्रा० स०। १ अत्यन्तान्तिके अतिगिकटे “यदुपान्तिकेषु ददतीमहीरुहः” माधः “प्रसभानुपान्तिकनीपरेणुकीर्णम्” किरा०। ३ तद्वृत्तौ त्रि० अस्यारादर्थत्वात् ततः प्रातपदिकार्थे पञ्चमी “यच्च वीरं न पश्यामि धनञ्जयमुपान्तिकात्” भा० व० अ०
उपान्तिम = त्रि० उपगतमन्तिमम् अत्या० स० उपान्तशब्दात्तु न डिमच् प्रत्ययविधौ तदन्तविध्यभावात्। १ अन्तिमीपगते “गुण्यान्त्यमङ्क गुणकेन हन्यादुत्सारितेनैवमुपान्तिमादीन्” लीला०। सामीप्ये अव्ययी०। २ अन्तिमसमीपे अव्य०
उपान्त्य = त्रि० उपान्ते भवः दिगा० यत्। अन्तसमीपवर्त्तिनि “अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः” म० त० “उत्तमपदमुपान्त्यस्योपलक्षणार्थम्” सि० कौ०।
उपाप्ति = स्त्री उप + आप–क्तिन्। प्राप्तौ, “यदेतानि सर्व्वाणि सह दुरुपापानि कैतेषामुपाप्तिरिति” शत० ब्रा० १०, १, २, ६
उपाभृत् = स्त्री उप + आ–भृ–क्विप् तुक्। उपाहरणे, “स न ऊर्ज्जामुपाभृत्यया कृपा न जर्ज्जति” ऋ० १, १०८, २। “उपामृति उपाहरणे” भा०।
***