उपशम = पु० उप + शम–घञ् अवृद्धिः। १ इन्द्रियाणां निग्रहे २ तृष्णानाशे, ३ रोगोपद्रवशान्तौ च। “तेषां पैत्तिकानां व्याधीनामुपशमोहेमन्ते, श्लैष्मिकाणां, निदाघे वातिकानां घनात्यये स्वभावत एव त एते सञ्चयप्रकोपोप शमाः” “तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थम्” इति च सुश्रु०। ४ निवृत्तौ “जगत्युपशमं याते नष्टयज्ञोत्सवाकुले” भा० व० २० अ०।

उपशमन = न० उप + शम–भावे ल्युट्। उपशमार्थे “व्याधीना मुर्पशमनार्थम्” सुश्रु०। उप + शम–णिच्–ल्युट्। अवृद्धिः २ निवारणे। तस्मै हितम् छ। उपशशनीय रोगशान्तिहेतौ आयुर्वेदे। कर्म्मणि अनीयर्। निवारणीये। “कटुकौषधिशमनोयस्य” सा० द०।

उपशय = पु० उप + शी–अच्। १ समीपशयने। “हेतुव्याधिविपर्य्यासविपर्य्यस्तार्थकारिणाम्। औषधान्नविहाराणा मुपयीगं सुखावहम्। विद्यादुपशयं व्याधेः सहि सात्म्य- मिति स्मृतः” इति निदानोक्तं व्याधिहेतुविपरीतौषधादितः २ सुखावहोपयोगे। शयः हस्तः तस्मिन् तत्सामीप्ये वा अव्ययी०। ३ हस्ते इत्यर्थे ४ हस्तसमीपे च अव्य०।

उपशरद = अव्य० विभक्त्यर्थे सामीप्ये वा अव्ययी० अच् समा०। १ शरदि इत्यर्थे २ शरत्समीपे च

उपशल्य = न० उपगतं शल्यम् अस्थिस्थानं (भागाड) अत्या० स०। ग्रामान्ते “म्रमंश्च विशालोपशल्ये कमप्याक्रीडमासाद्य” दशकुमा०। “उपशल्यनिविष्टैस्तैः” “अथोपशल्ये रिपुमग्नशल्यः” रघुः। उपचारात् २ प्रान्तभागे च। “शैलोपशल्यनिपतद्रयनेमिधारा” इति माघः।

उपशान्ति = स्त्री उप + शम–क्तिन्। निवृत्तौ उपशमे। “बलमार्त्तभयोपशान्तये” रघुः “वेदनोपशान्तिरसृक्प्रसादोमार्द्दवञ्च” सुश्रु०।

उपशाय = पु० उप + शी–घञ्। यामिकभटानां पर्य्यावेण शयने। “निशोपशायः कर्त्तव्यः” भट्टिः।

उपशायिन् = त्री० उप + शी–णिनि। समीपशयनशीले “ब्रह्मचार्य्यग्निनित्यधारी क्षीरहोम्युग्निमुपशायी द्वादशरात्रं षड्रात्रं त्रिरात्रमन्ततः” कात्या० ४, १०, १६, अग्निमुपशायी अग्निसमीप एव भूमीशयः” कर्कः। शीलार्थत्वात् नात्र कर्म्मणि षष्ठी। “आहूताध्यायी गुरुकर्म्मस्वचोद्यः पूर्व्वोत्यायी चरमं चीपशायी। मुदुर्द्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्मचारी” भा० आ० ९१ अ०

उपशिक्षा = स्त्री उप + शिक्ष–अ। सम्यक्शिक्षणे “उपशिक्षाया अभिप्रश्निनम्” यजु० ३०, १०, ल्युट्। उपशिक्षण तत्रार्थेन०

उपशिङ्गन = न० उप + शिधि–आघ्राणे ल्युट्। १ आघ्राणे। णिच्–ल्युट्। २ आघ्रापणव्यापारे च। (शोञान) “तीक्ष्णाञ्जनावपीडभ्यां तीक्ष्णगन्धोपशिङ्घनैः। वर्त्तिप्रयोगैरथ वा क्षवशक्तिं प्रवर्त्तयेत्” सुश्रु०। तत्र सिङ्घनैः शिंहनैरिति वा पाठः प्रामादिकः गणपाठे शिपिधातोरेव पाठात् सिधिधातोर्हान्तशिंहधातोश्चाभावाच्च।

उपशिष्य = पु० उपगतः शिष्यम् अत्या० स०। शिष्यशिष्ये “स्वतःप्रमाणं परतःप्रमाणं शुकाङ्गना यत्र समुद्गिरन्ति। शिष्योपशिष्यैरुपगीयमानमवेहि तन्मण्डनमिश्रधाम” उद्भ०

उपशुन = अव्य० शुनि, तस्य समीपे वा अव्ययी० अच् समा०। १ कुक्कुर इत्यर्थे २ कुक्कुरस्य सामीप्ये वा।

उपशोभ = स्त्री उपगता शोभां सादृश्येन अत्या० स०। आरोपितशोभायाम् “विहितोपशोभमुपयाति माधवे” माघः।

उपशोषण = न० उप + शुष–णिच्–ल्युट्। १ शोषणसाधने व्यापारे। उपशोषयति कर्त्तरि ल्यु। २ तत्कारके त्रि० (कटुकः) “विण्म त्रक्लेदमेदोवसापयोपशोषणश्चेति” (कषायः) “क्लेदोपशोषणश्चेति सुश्रु०। शोषणञ्चान्तःस्थितजलादेर्वातोष्मादिना नासनम्।

उपश्रुत् = पु० श्रूयते श्रु + सम्प० क्विप् श्रुत् स्तुतिः उपगता श्रुद् यस्मिन्। यज्ञे “आ ना यातमुपश्रुत्यश्विना ऋ० ८, ९, ५, “उपश्रुति यज्ञे” भा०

उपश्रुति = स्त्री उप + श्रु–क्तिन्। १ समीपश्रवृणे “सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टाम्” अथ० १६, २, ५, “सोमपा गिरामुपश्रुतिः” ऋ० १, १०, ३, “उपश्रुतिः समीपे श्रवणम्” भा० श्रुतिः श्रवणम् समाप्ये अव्ययी०। २ श्रवणसमोपे “आ नोयाह्युपश्रुत्युक्थेषु” ऋ० ८, ३४, ११, उपश्रुति श्रवणसमीपमायाहि” भा० “नक्तं निर्गत्य यत्किञ्चित् शुभाशुभकरं वचः। श्रूयते तद्विदर्धी रादेवप्रश्नमुपश्रुतिम्” हारावल्युक्ते ३ देवं प्रति कृतशुभाशुभप्रश्नस्य तदाविष्टबालादिभिहठाद्यक्तेउत्तर वाक्ये च “परिजनोऽपि चास्याः सततमुपश्रुत्यै निर्जगाम” काद०। उपश्रुतिश्रवणप्रकारश्च विधान पा० यज्ञकाण्डे दर्शितो यथा “उपश्रुतौ विधानं तु यथा कार्यं फलार्थिना। ज्ञातव्या यज्ञकर्मान्ते सा पौरमुखजा बुधैः। अन्त्यजानां गृहे वाक्यं पूर्वरात्रे यदुच्यते। स्त्रिया वा बालकैर्वापि तथा पुम्भिः परस्परम्। विचार्य तद्वचस्तत्त्वमादेष्टव्यं फलं बुधैः। निर्णेजकालये पश्येत् प्रतिपद्येव बुद्धिमान्। मद्यकृत्सदने पश्येत् द्वितीयायां न संशयः। तैलविक्रयिणो गेहे पुक्कसस्य तथालये। लोहकृत्सदने चैव किंशुकानां गृहे तथा। मद्यकारिगृहे चैव तथा वैश्यगृहेऽपि च। योगिजातिकुले पश्येत्तथा पौष्कलगेहके। सिन्दोलकगृहेपश्येत् कुम्भकारगृहे तथा। स्वर्णकारालये चैव कापालिकद्विजन्मनोः। तृतीयादितिथौ ज्ञेया क्रमेणोपश्रुतिर्भवेत्। अमायां शूद्रजातीनां गृहे पश्येदुपश्रुतिम्”। पश्येत् शुभाशुममालोचयेत्। तत्र क्रमश्च। “उपास्य पश्चिमां सन्ध्यां स्मरन्नात्महितं सुधीः। स्वस्तिवाच्य द्विजान् गच्छेद्बद्धग्रन्थिर्मुदान्वितः। चन्दनेनानुलिप्ताङ्गः श्वेतमाल्यधरः श्रुचिः। श्वेतवस्त्रसमायुक्तो धृतहेकविभूषणः। अक्षतानञ्जलौ धृत्वा मन्त्रेणानेन मन्त्रितान्। ओ~ ऐ~ र्ह्रा~ श्री~ महादेवि! महादेवस्य वल्लभे!। विमोहय जनान् सर्वान् ममात्र वशगान् करु। वस्त्रेण बद्वनेत्रः सन्नीयतेऽन्येन तद्गृहम्। गृहोपरि परिक्षिप्य मुक्तनेत्रः श्रुतिर्भवेत्”। “तद्गृहे मतुष्यशब्दान् यदि शृणुयात्। तच्छुभमशुभं वा विचार्यादे- ष्टव्यम्। तेषु शब्देषु कसरान्वर्जयित्वान्यशब्दादिवर्णाः श्रेष्ठाः। प्रयाहि गृहाण गच्छ भवति अथार्जनार्था दानार्था लाभार्थाः साधुशब्दाः प्रशस्ताः तेष्वपि काक्वर्था दुष्टाः न याहि न गच्छ नास्ति भवत्यर्था अयानशब्दाश्च गमने दुष्टाः तच्छब्दान् शृण्वन् यात्रां निवर्त्तयेत्। अत्युत्कटकार्ये तु द्विराचम्य कलदेवतां संस्मृत्य मुहूर्त्तं तिष्ठन् गच्छेत्। वैन्यं पृथुं हैहयमित्यादि पठन् पुनरपि निषिद्धप्रयाणश्चेत् क्षुतादिभिस्तदा सिद्धिविनायकव्रतोपयाचितं मंकल्प्य गच्छेत्। तत्रापि निषिद्धश्चेन्न गच्छेदेव” वि० पा०।

उपश्लेष = पु० उप ईषदर्थे एकदेशेन श्लेषः संबन्ध। आधाराधेययोरेकदेशसंबन्धे। यथा गृहघटयोः। उपश्लेषे साधुठक्। औपश्लेषिक आधारभेदे “औपश्लेषिकोवैषयिकोऽभिव्यापकश्चेत्याधारस्त्रिधा” सि० कौ०। भावे ल्युट्। उपश्लेषण तत्रैव न० “अत्याधानमुपश्लेषणम्” सि० कौ०।

उपश्लोकि = श्लोकैरुपस्तौति उप + श्लोक + णिच् नामधातुः उभ० सक० सेट्। उपश्लोकयति–ते उपाशुश्लोकत्–त उपश्लोकयाम्–बभूव–आस–चकार चक्रे उपश्लोकयन् उपश्लोकितः उपश्लोकयितुम् उपश्लोकनम्।

उपष्टम्भ = पु० उप + स्तम्भ–घञ् बा० षत्वम्। १ पतनप्रतिरोधे (थामान) २ आलम्बने ३ आडम्बरे च स्यार्थे कन्। तत्रार्थे ३ आधिक्ये च। उपस्तभ्नाति ल्वुल्। उपष्टम्भक पतन प्रतिरोधके, स्थूणायां न० “सर्व एव द्विप्रकारोऽन्तःप्राणः उपष्टम्भकः” वृ० उ० “उपष्टम्भकः गृहस्येव स्तम्भादिलक्षणः” भा०।

उपष्टुत् = त्रि० उप + स्तु–कर्मणि क्विप् वा० षत्वम्। उपस्तूयमाने “शचीव स्तवता उपष्टुत्” ऋ० ९, ८७, ९,

उपसं(सङ्क्र)क्रमणे = न० उप + सभ् + क्रम–भावे ल्युट् वा ङः। १ सन्निवेशे कस्यचित् वस्तुनः पूर्वाधारत्यागेन समीपस्थितवस्तुनि संक्रमणे “सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे” इत्यादौ विशिष्टे विधिनिषेधबाधे तद्धर्मविशेषणे उपसंक्रमणं भवतीव्युक्तं यथा शिखी विनष्टः पुरुषो न नष्ट इत्यत्र विशेषणाभूतशिखायामेव नाशश्योपसंक्रमणम्। उपसंक्रमणे दीयते कार्यं वा व्युष्टा० अण्। औपसंक्रमण तत्र देये कार्ये त्रि०। स्त्रियां ङीप्।

उपसं(सङ्ग्र)ग्रह = पु० उपसंगृह्येते पादावत्र उप + सम्–ग्रहआधारे अच् वा ङः। १ पादग्रहणपूर्वकमभिवादने उपसंगृह्यतेऽनेन करणे अच्। २ उपकरणे “उपातिष्टत भेषाभः पर्यङ्के सोपसंग्रहे” भा० वि० १७ अ०। भावे अच्। ३ सम्यक् संग्रहे “बलानामुपसंग्रहः” रामा०

उपसं(सङ्ग्र)ग्रहण = न० उप + सम् + ग्रह–आधारे ल्युट् वा ङः। पादग्रहणपूर्वकप्रणामे “उपस ग्रहणं कृत्वा द्रोणाय स विशांपते” भा० द्रो० ७४ अ० “व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः” मनुः। २ सम्यक् संग्रहण च।

उपसं(सङ्ग्रा)ग्राह्य = त्रि० उप + सम् + ग्रह–कर्मणि ण्यत् वा ङः। पादग्रहणेन अभिवाद्ये “भ्रातुर्भार्योपसंग्राह्या सवर्णाऽहन्यहन्यपि। विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्धियोषित” मनुः।

उपसंयम = पु० उप + सम् + यम–घञ् अवृद्धिः। १ उपसंहारे। २ सम्यग्नियमे ३ बन्धने च।

उपसंयमन = न० उप + सम् + यम–णिच् ल्युट्। १ सम्यग्बन्धने करणे ल्युट्। २ तत्साधने।

उपसंयोग = पु० सामीप्येन संयोगः। समीपसंबन्धे। “नामाख्यातयोस्तु कस्योपसंयोगद्योतका भवन्ति उपसर्गाः” व्या०

उपसंरोह = पु० उपगतः संरेहः प्रा० स०। समीपप्ररीहे “शल्यमार्गानुपसंरोहः” सुश्रु०।

उपसंवाद = पु० उपेत्य अङ्गीकृत्य संवादोवदनम्। पणबन्धे नाङ्गीकारपूर्ब्बककथने उपसवादाशङ्कयोश्च” पा०। “उपसंवादः पणबन्धः” सि० कौ०। स च “यदि भवानिदं कुर्य्यात् तर्हि इदमहं ते दास्यामीत्येवं वाक्यरूपः।

उपसंव्यान = न० उपसंवोयतेऽनेन उप + सम् + व्येञ्–संवृतौ करणे ल्युट्। परिधानवस्त्रे “अन्तर बहिर्योगोपसंव्यानयोः” पा०।

उपसंहार = पु० उप + सम् + हृ–घञ्। १ समाप्तौ, स च ग्रन्थतात्पर्य्यावधारकलिङ्गभेदः “उपक्रमोपसंहारौ–हेतुस्तात्पर्य्यनिर्ण्णये, इत्युक्तेः। तत्रोभयोरेव तद्धेतुत्वं न तु प्रत्येकस्येत्युक्तमुपक्रमशब्दे। २ संग्रहे च। ३ सम्यघरणे ४ एकत्र श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपे यथा गुणोपसंहारः। तच्छब्दे विवृतिः। ५ साकण्येन सम्बन्धे “सर्वोपसंहारवत्याव्याप्तेर्दुर्ज्ञानत्वात्” सर्व० स०।

उपसंहारिन् = त्रि० उप + सम् + –हृ–णिनि। १ उपसंहारके साकल्येन सम्बन्धेन व्याप्ते अनुपसंहारिशब्दे उदा०।

उपसङ्ख्यान = न० उपरि सूत्रोक्तादतिरिक्ताथः संख्यायते अनेन उप + सम् + ख्या–करणे–ल्युट्। सूत्रानुक्तस्याथस्य वार्त्तिकादिभिः कथने वाक्यभेदे। “प्रकृत्यादिभ्य उपसंख्यानमित्यादि” वार्त्तिके भूरिप्रयोगः। इष्ट्युपसख्याननैरपेक्ष्येण” २, ११२, माघव्या० मल्लिनाथः।

उपसत्ति = स्त्रा उप + सद–भावे क्तिन्। १ नैकट्येन सम्बन्धे २ आनुगत्ये ३ सम्बन्धमात्रे च। करणे क्तिन्। ४ सेवायाम् मेदि०।

उपसत्तृ = त्रि० उप + सद–तृच्। १ आसन्ने निकटस्थिते २ अनुगते ३ सेवके च। “मा च रिषदुपसत्ता ते अग्ने!” “क्षत्रमग्ने सुयममस्तुतुभ्यमुपसत्ता” यजु० २७, २, ४, उपसत्ता सेवकः वेददो०।

उपसद् = त्रि० उपसीदति उप + सद–क्विप्। १ समोपस्थिते। “प्रकामोद्यायोपसदम्” यजु० ३०, ९, करणे क्विप्। २ इष्टिभेदे स्त्री। सा चेष्टिः “अथोपसद्” आश्व० श्रौ० ४, ८, १, आरभ्य पाण्योश्चोपसदः” इत्यन्तेषु ११ सूत्रेषु उक्ता द्रष्टव्या। “अथोपसद्भिः प्रचरति” “यदोपसद्भिः प्रचरति” अथैतानि हवींषि निर्वपति आग्नेयमष्टाकपालं पुरोडाशं सौम्यं चरुं वैष्णवं त्रिकपालं वा पुरोडाशं चरुं वा तेन यथेष्ट्यैवं यजते। तदु तथा न कुर्य्यात् ह्वलति वा एष यो यज्ञ पथादेत्येति वा एष यज्ञपथाद्य उपसत्पथादेति तस्मादुपसत्पथादेव नेयात्” शत० ५, ४, ५, १६, “अथ दशपेये तं ब्रह्मागृहे स्थापितं सोममाहृत्यासन्द्यामासद्यातिथ्यया प्रचरेयुः तदनन्तरमुपसद्यागः तत्राग्निसोमविष्णुदेवता कोपसत्प्रतिनिधित्वेन संसृब्यागसम्बन्धिनामुत्तमानां त्रयाणामाग्नेय सौम्यवैष्णवानामेव निर्वापं पूर्वपक्षयति यदोपसद्भिरिति। तेन यथेष्टीति एकैकोपसत्स्थाने तेन एकेन हविषा यथेष्टि इष्टितन्त्रेण कुर्यात् उपसत्त्रयार्थमेतद्धविस्त्रयं कर्त्तव्यमिति शाखान्तरीयः पक्षः तमिमं निराकरोति तदु तथेति। नेयात् न प्रच्युतोभवेत् तत उपसदः पृथक् कुर्य्यात् तदन्त एतानि संसृपामन्तिमानि त्रीणि हवींषि चेष्टितन्त्रेण पृथक् कुर्य्यात् स एष दशपेयः क्रतुः सप्तदशस्तोमसाध्योऽग्निष्टोमसंस्थोभवति” भा०। “उपसद्भिश्चरित्वा मासमेकसग्निहोत्रं जुहोति” श्रुतिः। “रूपमुपसदामेतत्तिस्रोरात्रीः यजु० १९ १४, “उपसत्सु रौहिणौ कुर्य्यात्” कात्या० ४, ६, ४४, “उपांशूपसदः। ७, २, ३२,। ज्योतिष्टोमे ३ प्रवर्ग्याहप्रसिद्धायामिष्टौ ४ गार्हपत्यादिभिन्नेऽग्नौ च। “गार्हपत्योदक्षिणाग्निस्तथैवा हवनीयकः। एतेऽग्नयस्त्रयो मुख्याः शेषाश्चोपसदस्त्रयः” अग्नि पु० गणभेदनामाध्याये। उपसद् तच्छब्दोऽस्त्यस्मिन् विमुक्ता० अस्। औपसद तच्छब्दयुक्ते खाध्याये अनुवाके च पु०।

उपसद = पु० उपसीदत्यस्मिन् उप + सद–बद बा० घञर्थ क। उपसद्यागे “अथ यदश्राति यत् पिबति यद्रमते तदुपसदै रेति” छा० उ०। “यद्रमते रतिञ्चानुभवति इष्टादि संयोगात्तदुपसदैः समानतामेति उपसदाञ्च पयोव्रतनिमित्तं सुखमस्ति अल्पभोजनीयानि चाहानि आसन्नानीति प्रश्वासोऽशनादीनामुपसदाञ्च सामान्यम्” शा० भा०। “पयोव्रतत्वं पयोभक्षणयुक्तत्वम् यज्ञे यान्यहान्यभोजनीयानि तानि प्रसिद्धानि उपसत्सु क्रियमाणासु प्रश्वासः स्वास्थ्यविशेषः अशनादिषु सोऽस्तीति प्रसिद्धमित्यङ्गसुखनिनित्तत्वं क्लेशहेतुत्वञ्च सामात्यम्” आ० गि०

उपसदन = न० उप + सद–ल्युट्। १ सेवायामुपसेवने २ आनुगत्या दिना प्राप्तौ “तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्म्मणि” भा० व० ३०८ अ० “प्रतिगृह्य च तान् सर्वान् द्रोणश्चैवं समब्रवीत्। रहस्येकः प्रतीतात्मा कृतोपसदानांस्तथा” आ० १३२ अ० सामीप्ये अव्ययी०। ३ गृहसमीपे अव्य०। “धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्कव!। यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह” रामा०। अत्राव्ययीभावस्यापि यज्ञेन समासः आर्षः।

उपसदी = स्त्री उप + सद–घञर्थे क गौ० ङीष्। सन्ततौ धारायाम्। “स्वगृहेऽस्योपसद्यां मा च्छैत्सीत् प्रजाता च पशुभिश्चाशितम् षत० १४, ९, ४, २३। अस्य यजमानस्य उपसद्यां सन्ततौ” भा०। सन्ततिश्च द्वेधा कालिकी दैशिकी च। तत्र समानानेककालिककार्य्यमात्रधर्मत्वं कालिकसन्ततित्वम्। विभिन्नकालीनघटपटादिकार्य्यमात्रवृत्तिधर्मघटत्वादौ सन्ततित्ववारणाय समानेति सामान्यञ्चान्वयितावच्छेदकधर्मेण। तेन सत्त्वद्रव्यत्वादिना घटपटयोः समत्वेऽपि न क्षतिः। सत्त्वद्रव्यत्वादिकमादाय तद्वारणाय कार्य्यमात्रेति। एककालोत्पन्नेषु बहुषु घटेषु तद्वारणाय अनेककालिकेति। दैशिकसन्ततित्वञ्च समानानेकवृत्ति कार्य्यमात्रधर्मत्वमितिभेदः। तत्र कालिकसन्ततेः प्रवाहादिपदेन व्यपदेशः यथा ज्ञानप्रवाहः, दुःखप्रवाहः इत्यादि दैशिकसन्ततौ तु श्रेणिप्रभृतिशब्दव्यवहारः यथा वृक्षश्रेणी वृक्षपङ्क्तिरित्यादि। उभयसन्ततौ तु सन्ततिधारादि शब्दप्रयोगः यथा ज्ञानधारा सुखधारा दुःखसन्ततिरित्यादि एवं जलधारा तैलधारा तैलसन्ततिरित्यादि। तादृशधर्मश्च सुखत्वदुःखत्वज्ञानत्वादिकं वृक्षत्वतैलत्वादिकञ्च। उभयविधापि सन्ततिः पुनर्द्विविधा अविच्छिन्ना विच्छिन्ना च देशकालयोरव्यवधानेऽविच्छिन्ना यथा धारावाहिक स्थले ज्ञानादिधारा। तयोर्व्यवधाने विच्छिन्ना यथा विच्छिद्य विच्छिद्यजायमानदुःखानाम। विच्छिन्नसन्ततिमादायैव सृष्टि- प्रवाहः। सुखदुःखसन्ततिरित्यादिर्व्यवहारः।

उपसद्य = त्रि० उपसदं सेवामर्हति यत् उप + सद–कर्म्मणि या० यत् वा। १ सेवनीये २ नैकट्येन प्राप्ये च “भरेषु हव्यो नमसोपसद्योगन्ता” ऋ० २, २३, १३। “उपसद्याय मीढुष आस्ये जुहुता हविः” ऋ० ७, १५, १।

उपसद्वन् = त्रि० उप + सद–ड्वनिप् स्त्रियां ङीप् वश्चान्तादेशः। १ उपसन्ने २ सेवके च। कर्म्मणि ङ्वनिप्। ३ सेव्ये च। “नमस्ते अस्तु भीढुषे नमस्त उपसद्वने” आ० श्रौ० २, ५, ९।

उपसद्व्रत = न० उपसद्सु विहित व्रतम्। उपसद्विहिते पयोव्रते। “आपूर्य्यमाणपक्षस्य द्वादशाहमुपसद्व्रती भूत्वा” वृ० उ०। “उपसत्सु व्रतमुपसद्व्रतमुपसदः प्रसिद्धाः ज्योतिष्टोमे। तत्र स्तनोपचयापचयद्वारेण पयोभक्षणं व्रतं तत्र च तत्कर्मानुपसंहारात् केवलमिति कर्त्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते। उपसद्व्रती पयोव्रती सन्नित्यर्थः शा० भा०।

उपसन्न = त्रि० उप + सद–क्त। १ उपस्थिते, २ निकटागते ३ उपसेवके च ४ आनुसगुण्येन नैकट्यप्राप्ते “व्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः” भा० शा० २८९ अ०। “भगवन्नुदधौ मृतिजन्मजले सुखदुःखवडवे पतितं व्यथितम्। कृपया शरणागतमुद्धर मामनुशाध्युपसन्नमनन्यगतिम्” “तस्मै स विद्वानुपसन्नाय–प्रोवाच तत्त्वतो ब्रह्मविद्याम्” श्रुतिः।

उपसमाधान = न० उप + सम–आ–धा–ल्युट्। राशीकरणे, “निवासचितिशरीरोपसमाधानेत्यादि” पा०। “उपसमाधानं राशीकरणम्” सि० कौ०। २ समिधः प्रक्षिप्य ज्वालने। “विवाहाग्निमुपसमाधाय पश्चादस्याः” आश्व० गृ० १, ८, ९, “उपसमाधाय सामिधःप्रक्षिप्य प्रज्वाल्य” ना० वृत्तौ। अग्निमुपसमाधाय” गो० सू० “उपसमाधाय ज्वालयित्वेति सं तत्त्वे च समापूर्ब्बधाञ्धातोस्तथार्थदर्शनात् तथार्थत्वम्।

उपसमिध(ध्) = अव्य० समिधः समीपे अव्ययी० वा अच्समा०। समिधः समीपे।

उपसम्पत्ति = स्त्री उप + सम् + पद–क्तिन्। अभिनवत्वेन सम्पत्तौ। “प्रथमोऽचिरोपसम्पत्तौ” पा० “अमिसम्पत्तौ अभिनवत्वे” सि० कौ०। सम्पत्तिश्चानुरूचात्मभावः सि० कौ०

उपसम्पन्न = त्रि० उप + सम्–पद + क्त। १ प्राप्ते २ मृते च हेम०। “श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत्” मनुः।

उपसम्भाषा = स्त्री उप + सम् + भाष–भावे अ। उपसास्त्वने। “भाषणोपसंभाषाज्ञानयत्नेत्यादि” पा० “उपसम्भाषा उपसान्त्वनम्” सि० कौ०।

उपसर = पु० उप + सृ “प्रजनने सर्त्तेः” पा० अच्। गर्भग्रहणार्थं स्त्रीपशुषु पुम्पशुगमने। “प्रजननं प्रथमगर्भग्रहणम्। गवामुपसरः” सि० कौ०। उपचारात् २ नैरन्तर्य्येणनिगमने “वीनामुपसरं दृष्ट्वा” भट्टिः “वीनामुपसरं नैरन्तर्य्येण निर्गमनम् दृष्ट्वा उपसर इव उपसरः नैरन्तर्य्यमात्रेणोपलक्षितत्वात् उपसरो हि स्त्रीगवीषु पुङ्गवानामभिगमनमुच्यते स च नैरन्तर्य्येण भवति” जय ङ्गलः।

उपसरण = न० उप + सृ–ल्युट्। १ उपसरार्थे २ समीपगमने च। “यस्तूर्द्ध्वभधो वा भेषजवेगं प्रवृत्तमज्ञत्वाद्विनिहन्ति तस्योपसरणं हृदि कुर्व्वन्ति दोषाः” “परिस्रावः प्रवाहिका हृदयोपसरणं विबन्धः” सुश्रु० कर्म्मणि ल्युट्। २ उपसर्त्तव्ये उपगम्ये च। “अथ स्वल्वाशोःसमृद्धिरुपसरणानीत्युपासीत” छा० उ०। “उपसरणानि उपसर्त्तव्यानि उपगन्तव्यानि ज्ञेयानि” भा०।

उपसर्ग = पु० उप + सृज–घञ्। १ रोगविकारे २ उपद्रवे, शुभाशुभसूचके ३ दिव्यादिविकाररूपे उत्पाते, व्याकरणोक्तेषु “निपाताश्चादयोज्ञेयाः प्रादयस्तूपसर्गकाः। द्योतकत्वात् क्रियायोगे लोकादवगता इमे” इत्यक्तलक्षणेषु क्रियायोगे ४ प्रादिषु च। “उपसर्गाः क्रियायोगे” पा०। “यत्र प्रादीनामन्वयस्तं प्रत्येवोपसर्गतेतिद्योतनाय योगग्रहणम्। तेन निर्गतः सेचको यस्मादिति वाक्ये निःसेचक इत्यादी न षत्वम्” शब्देन्दु०। ते च द्वाविंशतिविधा यथा, प्र, परा अप, सम्, अनु, अव, निस्, निर् दुस्, दुर्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अति, प्रति, परि, उप एते प्रादयः। निस् दुस् इति सान्तौ “निसस्तपता वनासेवने” पा० सूत्रे निस इति निर्द्देशात्। निष्कृतं दुष्कृतमित्युदाहृत्य इदुदुपधस्य रो विसर्जनीयः” इति भाष्योक्तेश्च “निरःकुष इति” “सुदुरोरधिकरणे” इति च पा० निर्द्देशात् रान्तावपि” मनी०। निर्दुरोरभेदारोपेण क्वचिद्विंशतिधाकथनं द्रष्टव्यम्। “तस्य त्रिधा प्रवृत्तिः “धात्वर्थं बाधते कश्चित् कश्चित्तमनुवर्त्तते। तमेव विशिनष्ठ्यन्य उपसर्गगतिस्त्रिधा। क्रमेणोदाहरणानि यथा। आदत्ते प्रसूते प्रणमतोति। अपि च। “उपसर्गेण धात्वर्थो बलादन्यत्र नीयते। प्रहाराहारसंहारबिहारपरिहार वत्”। “विभावोपसर्गे” “द्व्यन्तरुपसर्गेभ्योऽपईत्” पा०।

प्रादयस्तूपसर्गा न सार्थकाः, सार्थकाश्च चादयो निपाता वाचकत्वात् उपसर्गास्तु न तथा किन्तु द्योतका इति नैयायिकाः। वैयाकरणास्तु उभयेऽपि द्योतका इति मेनिरे तदेतत् वै० भू० दर्शितम् “प्रादयोद्योतकाश्चादयोवाचका इति नैयायिकमतमयुक्तम् वैषम्ये वीजाभावादिति ध्वनयन्निपातानां द्योतकत्वं समर्थयते। “द्योतकाः प्रादयो येन निपाताश्चादयस्तथा। उपास्येते हरिहरौ लकारोदृश्यते यथा” येन हेतुना प्रादयोद्योतकास्तेनैव हेतुना चादयोनिपातास्तथा द्योतका इत्यर्थः। अयं भावः। ईश्वरमनुभवतोत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः भवतीत्यत्राप्यापत्तेः। नोपसर्गार्थः तथा सत्यप्रकृत्यर्थतया तत्राख्यातार्थानन्वयापत्तेः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः अनुगच्छतीत्यादौ अनुभवादिप्रत्ययापत्तेश्च। न विशिष्टार्थः गौरवात्। तथा च धातोरेव विद्यमानत्वांदिवाचकस्य लज्ञणा उपसर्गस्तात्पर्य्यग्राहक इत्यस्तु। तथा च तात्पर्य्यग्राहकत्वमेव द्योतकत्वमिति। तच्च चादिष्वपि तुल्यम् चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदलक्ष्यम् इवशब्दस्तात्पर्य्यग्राहक इत्यस्य सुवचत्वादिति। स्वयं युक्त्यन्तरमाह। उपास्येते इति। अत्र ह्युपासना किमुपसर्गार्थः? विशिष्टस्य? धातुमात्रस्य? वा। नाद्यः तथा सति स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मकत्वस्याऽऽसधातोरुपासनारूपफलवाचकत्वेनाभावादकर्मकत्वापत्तेस्ततः कर्मणि लकारोन स्यात्। न द्वितीयः गौरवात्। तृतीये त्वागतं द्योतकत्वं तात्पर्य्यग्राहकत्वलाभात् इति भावः। दृश्यते इत्यत्र कर्मणीति शेषः। तच्चादिष्वपि तुल्यमित्याह। “तथान्यत्र निपातेऽपि लकारः कर्म्मवाचकः। विशेषणाद्ययोगोऽपि प्रादिवच्चादिके समः”। (अन्थत्र) साक्षात्क्रियते अलङ्क्रियते उरीक्रियते शिव इत्यादौ। अत्रापि धातोस्तत्तदर्थे कर्म्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवद्द्योतकत्वममीषामपीत्यर्थः। यद्यपि कृधातोः सकर्मकत्वमस्त्येव तथाप्येष्वर्थेषु सकर्मकता न स्यात्। अन्यथा वायुर्विकुरुते सैन्धवा विकुर्वत इत्यत्रापि स्यादिति भावः। अथोपासनासाक्षात्कारादि निपातार्थोऽस्तु “साक्षात्प्रत्यक्षतुल्ययोरिति” कोषस्वरसात् तदनुकूलोव्यापार एव धात्वर्थोऽस्तु स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवत्त्वं सकर्मकत्वमपि सुवचमिति दृष्टान्तदार्ष्टान्तिकावयुक्ताविति नेदं साधकभिति चेन्न नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासम्भवेन निपातधात्वर्थयोरन्वयासम्भवात्। अन्यथा तण्डुलः पचतीत्यत्रापि कर्म्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति। किञ्च प्रादीनां वाचकत्वे भूयान् प्रकर्षः कीदृशोनिश्चय इतिवद्भु- यान् प्र कीदृशोनिरित्यपि स्यात्। अस्मन्पते प्रादेरनर्थकत्वान्न तदन्वय इत्यत एव द्योतकता तेषां स्यादिति। साधकान्तरमभिप्रेत्याह। विशेषणेति। शोभनः समुच्च योद्रष्टव्य इति वच्छोभनश्च द्रष्टव्य इत्यस्यान्वयापत्तेस्तुल्यसमाधेयत्वादिति भावः। अपि च निपातानां वाचकत्वेप्रातिपदिकार्थयोर्विना षष्ठ्यादिकं भेदेनान्वयासम्भवः। अन्यथा राजा पुरुष इत्यस्य राजसम्बन्धी पुरुष इत्यप्यापत्तेरित्यभिप्रेत्याह आदीति। धवखदिरयोः समुच्चय इति वद्धवस्य च खदिरस्य चेत्येव स्यादिति भावः। ननु प्रातिपदिकार्थ योरभेदान्वयबोधे विभक्तिजन्योपस्थितिर्हेतुरिति कार्य्यकारणभावो निपातातिरिक्तविषय एवेति नोक्तदोष इत्याशङ्क्याह। “पदार्थः सदृशान्वेति विभागेन कदा च न। निपातेतरसङ्कीचे प्रमाणं किं विभावय”। (सदृशा) सदृशेन समानाधिकरणेनेति यावत्। (अन्वेति) अभेदेनेति शेषः। (विभागेन) असदृशेन असमानाधिकरणेनेति यावत्। अयमर्थः समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्ति र्निपातातिरिक्तविषयेति क्वल्पने मानाभावोगौरवञ्च। अस्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायं दोषः अतएव घटोनास्तोत्यादौ घटपदं तत्प्रतियोगिके लाक्षणिकमिति नैयायिकाः। अपि च निपातानां वाचकत्वे काव्यादावन्वयोन स्यादिति साधकान्तरमाह। “शरैरुस्रैरिवोदोच्यान् उद्धरिप्यन् रसानिव। इत्यादावन्वयोन स्यात्सुपाञ्च श्रवणं ततः”। अत्रोस्रसदृशैः शरैः रससदृशानुदीच्यानुद्धरिष्यन्नित्यर्थः। अयञ्चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य द्योतकत्वे च सङ्गच्छते। अन्यथा प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिविरोधः। तथाहि। उस्रैरिति करणे तृतीया। न चोस्रोऽत्रकरणम् इवार्थसदृशस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयितुं शक्यम् अप्रकृत्यर्थत्वात्। इबशब्दस्य चासत्वार्थकतया तदुत्तरतृतीयाया असम्भवात्। सम्भवे वा श्रवणप्रसङ्गात्। उस्रपदोत्तरतृतीयानत्वयप्रसङ्गाच्चेत्याह। सुपां चेति। सुपां श्रवणञ्चेत्यर्थः। चकारादुस्रपदोत्तरतृतोयानन्वयः समुच्चोयते इत्यादावित्यादिपदात् “वागर्थाविव सम्पृक्तौ वन्दे पार्वतीपरमेश्वरौ” इत्यत्र वागर्थयोर्वन्दिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वयः इवार्थस्य कर्म्मत्वान्वयबोधासम्भवश्च संगृह्यते। यदि च विशेषणविभक्तिरभेदार्था साधुत्वमात्रार्था वा तदापि इवशब्दस्य वाचकत्वेऽनन्वय एव उस्रसदृशशराणां समानाधिकरणपदो- पस्थाप्यतया भेदेनान्वयायोगात्। बाधादभेदेनापि न सः। नह्युस्राभिन्नसदृशाभिन्नः शर इत्यर्थ एष्टव्यः”।

उत्पातरूप उपसर्गश्च त्रिविधः “अतिलीभादसत्याद्वा नास्तिक्याद्वाऽप्यधर्मतः। नरापचारान्नियतमुपसर्गः प्रवर्त्तते। अतोऽपचारान्नियतमपवर्ज्जन्ति देवताः। ताःसृजन्त्यद्भुता स्तावद्दिव्यनाभसभूमिजान्। तएव त्रिविधा लोके उत्पाता देवनिर्म्मिताः। विचरन्ति विनाशाय रूपैः सम्भावयन्ति च” गर्गः। “उपसर्गमृते चैव सद्यः शौचं विघीयते” पराश०। उपद्रवरीगकृताश्चोपसर्गा सुश्रु० उक्ताः “दैवबलप्रवृत्ता ये देवद्रोहादभिशस्तका अथर्वकृता उपसर्गकृताश्च तेऽपि द्विविधा विद्युदशनिकृताः पिशाचादिकृताश्च पुनश्च द्विविधाः संसर्गजा आकस्मिकाश्च” “उपसर्गादयोरोगा ये चाप्यागन्तवः स्मृताः” क्षीणं हन्युश्चोपसर्गाः प्रभूताः” सुश्रुतः उपद्रवशब्दे विवृतिः। “उपसर्गानशेषांस्तु महामारीसमुद्भवान्। तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम” देवीमा०। तस्मै प्रभवति सन्तापा० तेन निर्वृत्तम् वा ठञ्। औपसर्गिक तत्र पर्य्याप्ते तेन निर्वृत्ते च त्रि०। औपसर्गिकात्यन्तमरकपीडायाम् शु० त०।

उपसर्ज्जन = त्रि० उप + सृज–ल्युट्। १ दैवाद्युपद्रवे “निर्घाते मूमिचलने ज्योतिषामुपसर्ज्जने” मनुः। २ अप्रधाने गौणेविशेषणे “वोपसर्ज्जनस्य” “गोस्त्रियीरुसर्ज्जनस्य” पा०। “उपसर्ज्जनं प्रधानस्य धर्मतो नोपपद्यते” मनुः “उपसर्ज्जनमप्रधानम्” कुल्लू०। “अनुपसर्ज्जनात्” “आचार्य्योपसर्ज्जनश्चान्तेवासी” पा० उपसृजत्यनेन करणे ल्युट्। ३ संमार्गसाधने त्रि० स्त्रियां ङीप्। “अथैक उपसर्ज्जनीभिरेभिः” शत० १, २, २, २, “पिष्टसमार्जनार्थासु अप्सु पिष्टसम्मार्ज्जनार्थञ्चोपसर्ग साधनानि उपसर्जन्यः” भा० “प्रथमानिर्द्दिष्टमुपसर्ज्जनम्” पा० उक्ते। समासविधायकशास्त्रे ४ प्रथमान्तपदनिर्द्दिष्टे। “एकविभक्ति चापूर्वणिनिपाते” विग्रहवाक्ये यन्नियतविभक्तिकं तदुपसर्जनसंज्ञम् इत्यर्थक पाणिनिसूत्रोक्ते ५ शब्दभेदे च “उपसर्ज्जनं पूर्ब्बम्” पा० समासे उपसर्ज्जनस्य पूर्ब्बप्रयोगः यथा “द्वितीया श्रितेत्यादि” पा० सूत्रे द्वितीयेति प्रथमान्तम् पदं तदेव प्राक्प्रयोज्यम् यथा कष्टं श्रित इत्यादि वाक्ये कष्टश्रित इत्यादि

उपसर्पण = न० उप + सृप–भावे ल्युट्। समीपगमने “न तावदयमुपसर्पणकालः” विक्र०। “मक्षिकोपसर्पणमालस्यमित्यादि” सुश्रु०।

उपसर्पिन् = त्रि० उप + सृप–गतौ णिनि। समीपगन्तरि “एकमेव दहत्यग्निर्नेवं दुरुपसर्पिणम्” मनुः। “युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्” भा० अ० २० अ०।

उपसर्य्या = स्त्री उपस्रियतेऽसौ सृ–कर्मणि यत्। गर्भग्रहणयोग्यायाम् ऋतुमत्यां स्त्रीगव्यादौ। अप्रजनार्थे तु ण्यत् उपसार्य्य प्राप्ये त्रि०।

उपसि = अव्य० उप + सो बा० कि। समोपस्थाने “आसीन ऊर्द्ध्वामुपसि क्षिणाति” ऋ० १०, २७, ३,। “उपसि समोपस्थाने” भा० “पि र्न पुत्र उपसि प्रेष्ठः” ऋ० ५, ४३, ७।

उपसीर = अव्य० सोरे हले तत्सामीप्यं वा अव्य०। १ हले इत्यर्थे २ हलसमीपे वा। ततो भवार्थे परिमुखा० ञ्य। उपसीर्य्य तत्रभवे त्रि० अत्या० स०। हलोपगते त्रि० ततोभवार्थऽणेव। औपसीर तद्भवे त्रि०

उपसुन्द = पु० दैत्यभेदे तत्कथा भा० आ० “महासुरस्यान्ववाये हिरण्यकशिपोः पुरा। निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत्। तस्य पुत्रौ महावार्य्यौ जातौ भीमपराक्रमौ। सुन्दोपसुन्दौ दैयेन्द्रौ दारुणौ क्रूरमानसौ। तावेकनिश्चयौ दैत्यावेककार्य्यार्थाम्मतौ। निरन्तरम र्त्तेतां समदुःखसुखातुभौ। विनान्योन्यं न भुञ्जाते विनान्योन्यं न गच्छतः। अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ। एकशीलसमाचारौ द्विधेवैकं यथा कृतौ। तौ विवृद्धौ महावीर्य्यो कार्य्येष्वप्येकनिश्चयौ। त्रैलोक्यविजयार्थाय समाधायैकनिश्चयौ। दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः। तौ तु पूर्वेण कालेन तपोयुक्तौ बभूवतुः। क्षुत्पिपासापरिश्रान्तौ जटावल्कलघारिणौ। मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः। आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ। ऊर्द्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रता। तयोस्तपःप्रभावेण दार्थकालं प्रतापितः। धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत्। ततो देवा भयं जग्मुरुग्रं दृष्ट्वा तयोस्तपः। तपोविधातार्थमथो देवा विघ्नानि चक्रिरे। रत्नैः प्रलोभयामासुः स्त्रोभिश्चोभौ पुनः पुनः। न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ। अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः। सगिन्यो मातरो भार्य्यास्तयोश्चात्मजनस्तथा। प्रपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा। भ्रटाभरणके शान्ता भ्रटाभरणवाससः। अभिभाष्य ततः सर्बास्तौ त्राहीति विचुक्रुशुः। न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ। यदा क्षोभं नोपयाति नार्त्तिमन्यतरस्तयोः! ततः स्त्रियस्ता भूतञ्च सर्वमन्तरधीयत। ततः पितामहः साक्षादभिगम्य महासुरौ। वरेण- च्छन्दयामास सर्वलोकहितः प्रभुः। ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ। दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा। ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा। आवयोस्तपसाऽनेन यदि प्रीतः पितामहः। मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ। उभावप्यमरौ स्याव प्रसन्नौ यदि नौ प्रभुः। व्रह्मोबाच। ऋतेऽमरत्वं युवयोः सर्बमुक्तं भविष्यति। अन्यद्वृणीतं मृत्योश्च विधानममरैः समम्। प्रभविष्याव इति यन्महदभ्युद्यतं तपः। युवयोर्हेतुनानेन नामरत्वं विधीयते। त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः। हेतुनानेन दैत्थेन्द्रौ न वां कामं करोम्यहम्। सुन्दोपसुन्दावूचतुः। त्रिषु लोकेषु यद्भूतं किञ्चित् स्थावरजङ्गमम्। सर्वस्मान्नो भयं म स्यादृतेऽन्योत्यं पितामह!। पितामह उर्वाच। यत्प्रार्थितं यथोक्तञ्च काममेतं ददानि वाम्। मृत्योर्विधानमेतच्च यथावद्वां भविष्यति। नारद उवाच। ततः पि तामहो दत्त्वा वरमेतत्तदा तयोः। निवर्त्य तपसस्तौ च व्रह्मलोकं जगाम ह। लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ। अबध्यौ सर्वलोकस्य स्वमेव भवनं गतौ” २११० अ० “तावन्तरोक्षमुमुप्लुत्य दैत्यौ कामगमावुभौ। देवानामेव भवनं जग्मतुर्युद्धदुर्म्मदौ। तयोरागमनं ज्ञात्वा वरदानञ्च तत् प्रभोः। हित्वा त्रिपिष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः। ताविन्द्रलोकं निर्ज्जित्य यक्षरक्षोगणांस्तथा। खेचराण्यपि भूतानि जग्मतुस्तीव्रविक्रमौ। अन्तर्भूमिगतान् नागान् जित्वा तौ च महारथौ। समुद्रवासिनीः सर्वा म्लेच्छजातीर्विजिग्यतुः। ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ। सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः। राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः। तेजो बलञ्च देवानां वर्द्धयन्ति श्रियं तथा। तेषामेवं प्रवृत्तानां सर्वेषामसुरद्विषाम्। सम्भूय सर्वैरस्माभिः कार्य्यः सर्वात्मना बधः। एवं सर्वान् समादिश्य पूर्बतीरे महोदधेः। क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुस्वौ। यज्ञैर्यजन्ति ये केचिद्याजयन्ति च ये द्विजाः। तान् सर्वान् प्रसभं हत्वा बलिनौ जग्मतुस्ततः। आश्रमेष्वग्निहोत्राणि मुनीनां भावितात्मनाम्। गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं सैनिकास्तयोः। तपोधनैश्च ये क्रुद्धैः शापा उक्ता महात्मभिः। नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः। नाक्रामन्त यदा शापा वाणा मुक्ताः शिलास्विव। नियमान् सम्परित्यज्य व्यद्रवन्त द्विजातयः। पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः। तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः। मथितैराश्रमैर्भग्नैर्विकोर्णकलसस्रवैः। शून्यमासीत् जगत् सर्वं कालेतेव हतं तदा। ततो राजन्नदृश्यद्भिरृषिभिश्च महासुरौ। उभौ विनिश्चयं कृत्वा विकुर्वाते बधैषिणौ। प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ। संलीनमपि दुर्गेषु निन्यतुर्यमसादनम्। सिंहौ भूत्वा पुनर्व्याघ्र्यौ पुनश्चान्तर्हितावभौ। तैस्तैरुपायैस्तौ क्रूरावृषीन् दृष्ट्वा निजघ्नतुः। निवृत्तयज्ञस्वाध्याया प्रनष्टनृपतिद्विजा। उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा। हाहाभूता भयार्त्ता च निवृत्तविपणापणा। निवृत्तदेवकार्य्या च पुगयोद्वाहविवर्ज्जिता। निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा। अस्थिकङ्कालसङ्कीर्णाभूर्बभूवोग्रदर्शना। निवृत्तपितृकार्य्यञ्च निर्वषट्कारमण्डलम्। जगत् प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा। चन्द्रादित्यौ ग्रहास्तारा गक्षत्राणि दिवौकसः। जम्मुर्विषादं तत् कर्म दृष्ट्वा सुन्दोपसुन्दयोः। एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा। निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः” २११ अ०। तत स्तिलोत्तमासृष्टिमुपवर्ण्य तस्यास्तत्समीपयानं तयोस्तदासक्तत्वमुक्त्वा तत्रान्योन्ययुद्धेनान्योन्यबधः २१३ अ० उक्तः यथा “ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती। वेशमाक्षिप्तमाधाय रक्तेनैकेन वाससा। नदीतीरेषुजातान् सा कर्णिकारान् प्रचिन्वती। शनैर्जगाम तं देशं यत्रास्तं तौ महासुरौ। तौ तु पीत्वा परं पानं मदरक्तान्तलोचनौ। दृष्ट्वैव तां वरारोहां व्यचितौ सम्बभूवतुः। तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता। उभौ च कामसम्मत्तावुभौ प्रार्थयतश्च ताम्। दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना। उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम्। वरप्रदानमत्तौ तावौरसेन बलेन च। धनरत्नमदाभ्याञ्च सुरापाणमदेन च। सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ। मदकामसमाविष्टौ परस्परमथोचतुः। मम भार्य्या तव गुरुरिति सुन्दोऽभ्यभाषत। मम भार्य्या तव वधूरुपसुन्दोभ्यमाषत। नैषा तव ममैषेति ततस्तौ मन्युराविशत्। तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ। तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा। प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ। अहंपूर्बमहंपूर्वमित्यन्योन्यं निजघ्नतुः। तौ गदाभिहतौ भीमौ पेततुर्धरणीतले। रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ”। सुन्दोपसुन्दन्याथः।

उपसूर्यक = न० उपगतं सूर्यं चन्द्रं वा संज्ञायां कन्। चन्द्रार्कसमीपे मण्डलाकारे परिधौ।

उपसृष्ट = न० उप + सृज–क्त। १ मैथुने। २ व्याकरणोक्ते प्राद्यु पसर्गयुक्ते, “क्रुधद्रुहोरुपसृष्टयोः” पा०। ३ विसृष्टे ४ उपद्रुते च त्रि०। ५ ग्रहोपरक्ते चन्द्रेऽर्के पु० “नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन। नोपसृष्टं न वारिस्थं न मध्यं नमसोगतम्” मनुः ६ कामुके “उपसृष्टा इव क्षुद्राधिष्टितभवना” काद०। ७ व्याप्ते च रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः” रघुः।

उपसेक = पु० उप + सिच–भावे घञ्। जलादिसेचनेन मृदू करणे।

उपसेचन = त्रि० उप + सिच–ल्यु। उपसेककर्त्तरि “त्रयः कोशास उपसेचनासः” ऋ०७, १०१, ४, तृच्। उपसेक्तृ तत्रार्थे त्रि० “लोकेभ्य उपसेक्तारमवऋत्यै” यजु० ३०, १२, स्त्रियां ङीप्। मावे ल्युट्। २ उपसेके न० दुहन्त्यूधरुपसेचनाय कम्” ऋ० १०, ७६, ७, “पर्य्यूहणाद्योप्रसेचनात् कृत्वा” कात्या०८, ५, ३६, बा० कर्त्तरि ल्युट्। ३ उपसेचके त्रि० स्त्रियां ङीप् “वेति त्वामुपसेचनी” ऋ० १०, २१, २, उपसेचनी उपरिक्षरणशीला आहुतिः भा०। करणे ल्युट्। ४ तत्साधने

उपसेवक = त्रि० उप + सेव–ण्वुल्। उपभोगादिना १ सेवनासक्ते २ भोगप्रसक्ते। “अदत्तादाननिरतः परदारोपसेवकः” याज्ञ० ३ उपेत्य सेवके च।

उपसेवन = न० उप + सेव–भावे ल्युट्। १ उपभोगप्रसङ्गे। “नहीदृशमनायुप्य लोके किञ्चन विद्यते। यादृशं पुरुषस्येह परदारोपसेवनम्” मनुः २ समीपस्थित्या सेवने च। “निरताहं सदा सत्ये! भर्त्तॄणामुपसेवने” भा० व० २३२ अ० ३ तत्तत्कर्म्मणि अयन्तासक्तौ “अजीर्ण्णाध्यशनायासविरुद्धान्नोपसेवनात्” “एवंविधानां द्रव्याणामन्येषाञ्चोपपेवनात्” सुश्रु० भावे अ उपसेवा। तत्रैवार्थे स्त्री। “गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया”। “परदारोपसेवा च शारीरं त्रिविधं स्मृतम्” “विषयोपसेवा याऽजस्रम्” मनुः।

उपसेविन् = त्रि० उप + सेव–णिनि। उपसेवके “अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। तेषां सततमज्ञानां विषयाम्न्युपसेविनाम्” मनुः। “ये हितं वाक्यमुत्सृज्य विपरीतोपसेविनः” पञ्चत०। “हृष्टात्मा पुलिनवनान्तरोपसेवी” सुश्रु० स्त्रियां ङीप्।

उपसोम = पु० उपगतः सोमम् अत्या० स०। सोमोपगते सोमयाजिनि। सत्र तत्पुरुषत्वात् द्व्यच्कत्वादन्तोदा- त्तता। उपगतः सोमोऽनेन प्रा० ब०। तत्रार्थे सामीप्ये अव्ययी०। ३ सोमसामीप्ये अव्य० एतयोर्नान्तोदात्ततेति भेदः

उपस्कर = पु० उप + कृ–भावे अप् हिंसने सुट्। १ हिंसने उपस्करोति उप + कृ–अच् भूषणे समवाये प्रतियत्ने विकारे अध्याहारे च सुट्। २ मूषके कटककण्डलादौ ३ समुदिते संहते। ४ व्यञ्चनसंस्कारकपिष्टधन्याकादिद्रव्ये (वाटना)। गृहसंस्कारके ५ सम्मार्ज्जन्यादौ। ६ विकृते अध्याहारेण ७ कथके च “पञ्च शूना गृहस्थस्य चूल्लो पेषण्युपस्करः”। “वको भवति हृत्वाग्निं ग्रहकारी ह्युपस्करम्” मनुः।

उपस्करण = न० उप + कॄ–भावे ल्युट् हिंसने सुट्। १ हिंसने। उप + कृ–भावे ल्युट् उप स्करशब्दोक्तभूषणादौ सुट्। २ भूषणे ३ संघाते ४ सतोगुणान्तराधानरूपसंस्कारे ५ विकारे ६ वाक्याध्यारे च। उभाभ्यां करणे ल्युट्। उक्ततत्तदर्थेषुं सुट। ७ हिंसासाधने ८ भूषणादिसाधने कटकादौ च न०।

उपस्कार = पु० उप + कृ–भावे घञ् उपस्करशब्दोक्त भूषणादौ सुट। १ भूषणे २ संङ्घाते ३ प्रतियत्नरूपसंस्कारे ४ विकारे ५ अध्याहारे च। “साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम्” किरा०।

उपस्कीर्ण = त्रि० उप + कॄ–क्त हिंसने सुट्। हिंसिते

उपस्कृत = त्रि० उप + कृ–क्त उपस्कारशब्दोक्तभूषणादौ सुट्। १ भूषिते २ संहते ३ संस्कृते ४ विकृते ५ अध्याहृते च। भावे क्तिन् उक्तार्थेषु सुट्। उपस्कृति उपस्कारशब्दार्थे स्त्रो। उप + कॄ–भावे क्तिन् हिंसने सुट्। उपस्कीर्णि हिंसने स्त्री।

उप(ष्ट)स्तम्भ = पु० उप + स्तन्म घञ्। पतनप्रतिरोधने अवलम्बने “मूषिकस्योपस्त(ष्ट)म्भे केनापि कारश्चेनात्र भवितव्यम्” हितो०। नि० षत्वम्। उपष्टम्भ १ उपष्टम्भशब्दार्थे २ आलम्बने ३ स्थितौ ४ सहकारे च “स्थानात् वीजादवष्टम्भात् प्रस्यन्दात् निधनादपि” पात० भा० गाथा। भावे ल्युट्। उपस्तम्भन तत्रैवार्थे न०। करणे ल्युट्। तत्साधने शकटाग्राधारकाष्ठे च “वरुणस्योत्तम्भनमसीत्युपस्तम्भनेनोपस्तभ्नाति” शत० ब्रा० ३, ३, ४, २५, “उपस्तत्यते प्रतिरुध्यते इत्युपस्तम्भनं शकटाग्राधारकाष्ठम्” भा० “देवानामित्युपस्तम्भनस्य पश्चादीषाम्” कात्या० २, ३, १४, “शकटस्य काष्ठमोषा तदग्रस्य मूमिस्पर्शो मा मूदिति तदाधारत्वेन स्थापितं काष्ठमुपस्तम्भनम्” वेददी०। ततो ल्वुल्। उपस्त(ष्ट)म्भक बा नि० षत्वम्। उपस्त(ष्ट)म्भकर्त्तंरि आधिक्याधायके त्रि०।

उपस्तरण = न० उप + स्तॄ–ल्युट्। १ आस्तरणे (विछान) २ भूमेः सम करणे च। “पुनर्नवोकृत्य लेपनोपस्तरणैः आ० गृ० २, ३ आधारे ल्युट्। १ आस्तरणाधारे “अमृतोपस्तरणमसि” भोजनस्यादौ जलपानमन्त्रः “अथाचमनीयमाचामति म्रमृतोपस्तरणमसीति” आ० गृ० १, २४, ११,। “स्तरणमाच्छादनम् उपस्तरणं भूमेः समीकृरणम्” ना० वृत्तिः

उपस्ति = पु० उप + स्त्यै–इन् नि०। वृक्षे। “उपस्तिरस्तु सोऽस्माकम्” यजु० १२, १०१, “उपास्त्यायन्ति उपकारायोपद्रव निराकरणाय च समोपे संहतास्तिष्ठन्तीत्युपस्तयः वृक्षाः वेददी०।

उपस्तिर् = त्रि० उप + स्तॄ–कर्म्मणि क्विप्। आस्तीर्य्यमाणे आस्तरणीये। “अभि शुक्रमुपस्तिरम्” ऋ० ९, ६२, २८,

उपस्तुत = त्रि० उप + स्तु–क्त। समीपस्तुते श्रवणयोग्यस्तवेन स्तुते “चोदद्राध उपस्तुतश्चिदर्वाक्” ऋ० ७, २७, ३, “त्वं त्वमहयथा उपस्तुतः पूर्व्वेभिरिन्द्रः” ऋ० १०, ९६, ५।

उपस्तुति = स्त्री उप + स्तु–क्तिन्। समोपस्तवे श्रवणयोग्यस्तुतिवाक्ये “कर्मोपस्तुतिं भरमाणस्य” ऋ० १, १४८, २,

उपस्तुत्य = त्रि० उप + स्तु–क्यप्। सर्मीपे स्तवनीये। “उपस्तुत्यं महिजातं ते अर्ब्बन्” ऋ०१, १६३, १,

उपस्थ = पु० न० अर्द्धर्चादि। उप + स्था–क। १ स्त्रीपुंसयोरिन्द्रियविशेषे तत्र पुमिन्द्रिये “स्नानमौनोपवासेज्यास्वाध्यामोपस्थनिग्रहाः” याज्ञ०। स्त्रीन्द्रिये “दक्षिणेन पाणिना उपस्थमभिस्पृशेत् विष्णुर्योनिंकल्पयतेत्येतयर्च्चा” गोभि०। “वितिष्ठन्तां मातुरस्या उपस्थान्नानारूपाः पशवो जायमानाः” अथ० १४, २, २५। “मुखदघ्नं ब्राह्मणस्योपस्थदघ्नं स्त्रियाः” शत० १३, ८, ३, ११। उभयेन्द्रिये “हस्तौ पायुरुपस्थश्च वाक् पादौ चेति पञ्च वै। कर्मेन्द्रियाणि जानीयात्” याज्ञ०। “उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चकम्” मनुः “सर्वेषामानन्दानामुपस्थ एकायनम्” शत० ब्रा० १४, ५, ४, ११। उपस्थश्च न तयोश्चिह्नस्थानमात्रं किन्तु तत्स्थानाविष्ठितः प्रजापतिदेवतानियमितशक्तिक आनन्दनव्यापारकारकः कर्म्मेन्द्रियभेदः। तत्र “ब्रह्मेन्द्रोपेन्द्रमित्रकाः” इति शा० ति० तस्य कशब्दवाच्यप्रजापतिदेवताकत्वमुक्तम् शत० ब्रा० उक्तवाक्ये चानन्दन व्यापारसाधनत्वमुक्तम् तस्यैवापाटवे क्लैव्यम्। इन्द्रियाणां भौतिकत्वमते तस्य पृथिवीरजोगुणोपदानकता आहङ्कारिकत्वमते गन्धतन्मात्रसहिताहङ्कारोपदानकता। स च सूक्ष्म लिङ्गदेहान्तर्गत इति वेदान्तिनः सांख्याश्चाहुः। तेन जीवति वेतना० ष्ठञ्। औपस्थिक जारकर्म्मोपजोविनि जारभेदे पु०। वेश्यायां स्त्री। २ उत्सङ्गे क्रोडे ३ अन्तराले “आत्मन्नुपस्थेन वृकस्य लोम” यजु० १९, ९२। “वरीयओभा पृणन्ती पित्रोरुपस्था” ऋ०१, १२४, ५। “उपस्था उपस्थे उत्सङ्गेऽन्तरालदेशे वा” भा० “तस्याः कुमारमुपस्थ आदधुः” गोभि० “उपस्थे उत्सङ्गे” सं० त० “भूम्या उपस्थेऽवपज्जघन्वान्” ऋ० २, १४, ७। “रथोपस्थ उपाविशत्” गीता। उप + स्था घञर्थे भावे क। सर्वाङ्गुलीभिः भूमिमाश्रित्य ४ स्थितौ “समस्त जङ्गोरुररत्निभ्यां जानुभ्यां चोपस्थं कृत्वा” आश्व० श्रौ० ६, ५, ५। “उपस्थं कृत्वा भूमिमाश्रित्येयर्थः पादाङ्गुलीभिश्च भूमिमाश्रित्यैवमुपविशेत्” नारा० वृ०। “प्राङमुख उपविश्योपस्थं कृत्वा” आश्व० गृ० ३, २, २,। उप + तिष्ठति स्था–क। “उपस्थकृतस्त्वेवाश्विनं शंसेत्” आ० श्रौ० ६, ५, ५। ५ समीपस्थिते त्रि०।

उपस्थपत्र = पु० उपस्थं स्त्रीचिह्नमिव पत्रमस्य। अश्वत्थे वृक्षे तत्पत्रस्य तदाकरत्वात्तथात्वम् अतएव नैष० दमयन्त्यास्तदङ्गवर्ण्णने। अश्वत्थस्य चलपत्र नामता कारणमुत्प्रेक्षितम्। “अङ्गेन केनापि विजेतुमस्यागवेष्यते किं? चलपत्रपत्रम्। नो चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतोभयेन” उपस्थदलादयोऽप्यत्र। उपयमशब्दे स्त्रीलक्षणे च तदङ्गस्य अश्वत्थदलारतोक्ता।

उपस्थातृ = त्रि० उप + स्था–तृच्। १ उपासके, २ उपनते, च ३ यथोक्तकाले उपगते “अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः। आहूतप्रपलायो च हीनः पञ्चविधः स्मृतः” मिता० स्मृतिः। ४ ऋत्विग्भेदे पु०।

उपस्थान = न० उप + स्था–ल्युट्। १ उपेत्य स्थितौ, २ अनुसन्धाने स्मरणे “तत्त्वस्मतेरुपस्थानात् मनोयोगात् परिक्षयात्। कर्म्मणां सन्निकर्षाच्च सतां योगः प्रवर्त्तते” याज्ञ०। “कर्म्मासन्निहितं नैव बुद्धौ विपरिवर्त्तते। शब्दात्तु तदुपस्थानमुपादेये गुणो भवेत्” भट्टका०। ३ उपसेवने उपासने “सूर्य्योपस्थाने विनियोगः” सन्ध्याप्रयोगः “तूष्णीं वोपस्थानम्” कात्या० ४, १२, २०, ४ उपसर्पणे। “तस्योक्तमुपस्थानम्” आश्व० श्रौ० ५, १२, २, “उपस्थानं प्रसर्षणम्” नारा० वृ०। ५ आनतीकरणायोपगतौ “सुरद्विषश्चैव जगच्च सर्व्वमुपस्थाने सन्नमन्ति प्रभावात्” भा० आ० ७६। ६ समीपस्थाने “कुशान् यवांश्चासनोपस्थानेषु प्रोक्षेत्” पार० सू०। उपस्थीयतेऽत्र आधारे ल्युट्। ७ उपासनाधारे गृहादौ। “पार्थिवैर्ब्बहुभिः कोर्ण्णमुपस्थानं दिदृक्षुभिः” भा० स०४७ अ० “उपस्थानग्यहैर्भद्रैर्वलभीभिश्च शोभितम” भा० आ० १२८ अ० अनुसन्धानञ्च स्मरणम् तस्य च चित्तेऽनुभवाहितसंस्कारेणोपस्थितत्वात् तथात्वम्।

उपस्थानीय = त्रि० उप + स्था–“भव्येत्यादि” पा० नि० कर्त्तरि अनीयर्। १ उपासके। कर्मणि अनीयर्। २ उपास्ये त्रि०

उपस्थापक = त्रि० उप + स्था–णिच्–ण्वुल्। १ स्मारके अनुभव जन्यसंस्कारेण चित्तेऽनुसन्धानसम्पादके। उपस्थितौ च समानविषयत्वं तन्त्रम् यद्विषयकोऽनुभवस्तद्विषयकः संस्कारस्तद्विषयिकैव स्मृतिरिति कार्यकारणभावः स च समवायेनैव, तेनान्यानुभवसंस्काराभ्यां नान्यस्य स्मरणम्। तत्र च सादृश्यादिज्ञानादि सहकारि कारणम् तत्समवहितसंस्क्यरस्यैव स्मृतौ हेतुत्वात्। उपेक्षात्मकज्ञानेन च संस्कारो न जन्यते। संस्कारश्च चरमफलनाश्यः तेन स्मृ तधारायां न संस्कारान्तरकल्पनमिति वेदा० प०। क्वचिच्च दोर्घकालरोगादिना जन्मान्तरेण वा तन्नाशः। जन्मान्तरन्तु कर्मविशेषाभावसहकृतमेव तन्नाशकम् तेन “जातिं स्मरति पौर्व्विकीम्” इत्यादिमन्वाद्युक्तकर्मविशेषसत्त्वे न तन्नाशः। उपस्थापकञ्च यथा पदज्ञानं पदार्थस्य हस्तिज्ञानं हस्तिपकस्येत्यादि एकसंम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकत्वनियमित् पदपदार्थयोश्च शक्तिसम्बन्धेन सम्बन्धितेति तथात्वम्। भावे ल्युट्। उपस्थापन–उपस्थिति साधन व्यापारे उद्वोषकसमवधाने तत् सहकारे। उपस्थापनं प्रयोजनमस्य प्रप्रवचना० छ। उपस्थापनीय उपस्थापनसाधने उद्बोधकादौ त्रि० उप + स्थापि–कर्म्मणि अनीयर्। स्मार्य्ये त्रि०।

उपस्थावरा = स्त्री उप + स्था–बा० कर्मणि वरच्। उपसेवनीये पुरुषमेधयज्ञाङ्गे देवताभेदे “सरोभ्योधैवरमुपस्थावराभ्योदाशम्” यजु० ३०, १६,

उपस्थित = त्रि० उप + स्था–क्त। १ समीपस्थिते, २ समीपागते “तदनुपस्थितमग्निहोत्रं तस्यानुपस्थितिमन्वनुपस्थिता इमाः प्रजाः प्रजायन्तेऽनुपास्थितो ह वै श्रिया प्रजाया प्रजायते” शत० ब्रा० २, ३, १, १३, “उपस्थितेयं कल्याणो” रघुः। हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान्” भट्टिः। ३ पाप्ते, उपस्थितपरित्यागे प्रमाणाभावात्” न्यायवाक्यम् “अनुपस्थितकल्पनाऽ न्याय्या” इति मीमां० ४ वेदाप्रयुक्ते अनार्षे च। “अप्लुतवदुपस्थिते” पा०। “उपस्थितोऽनार्षः” सि० कौ० “उद्बुद्धस स्कारेण चित्ते उपगते ५ स्मृते “तौ जौ गुरुणेयमुपस्थिता” वृ० र० उक्ते दशाक्षरपादके ६ छन्दोभेदे स्त्री “उपस्थितमिदंज्सौत्सौ यदि गुरुः स्यात्” इति वृ० र० उक्ते त्रयोदशाक्षरपादके ७ छन्दोभेदे न०। ८ सेविते त्रि०। भावे क्त सेवने ९ उपस्थाने न०। तेन जीवति वेतना० ठक्। औपस्थितिक सेवनोपजीविनि त्रि०

उपस्थिति = स्त्री उप + स्था–क्तिन्। १ उपसेवने २ उपनतौ ३ स्मृतौ च “आसत्तिरव्यवधानेन पदजन्यपदार्थोपस्थितिः सा० द० आसत्तिशब्दे उपसर्गशब्दे च उदा०।

उपस्थूण = अव्य० स्थूणायां तत्समीपं वा अव्ययी०। १ स्थूणायामित्यर्थे २ तत्समीपे च तत्र भयः परिमुखा० ञ्य। औपस्थूण्य तद्भवे त्रि०। उपगता स्थूणाम् अत्या० स०। ३ गृहंस्तम्भोपगते त्रि० ततो भवार्थे अण्, न ञ्य इति भेदः

उपस्थेय = त्रि० उप + स्था–सेवार्थत्वात् कर्मणि यत्। उपसेव्ये “वात्सप्रं कृत्वोपस्थेयं चेत्” कात्या० १७, १, २, “यदीदृशै, रहं विप्रैरुपस्थेयैरुपस्थितः” रामा०।

उपस्नेह = पु० उप + स्निह–घञ्। क्लिन्नस्य नैकट्यसम्बन्धेन क्लेदे “मूत्रयुक्त उपस्नेहात् प्रविश्य कुरुतेऽश्मरीम्”। “सास्य मातुराहाररसवीर्यमभिवहन्ति तेनोपस्नेहेनास्या भिवृद्धिर्भवति”। “सर्वशरीरावयवानुसारिणीनां रसवहानां तिर्यग्गतानां धमनीनामुपस्नेहो जीवयति” सुश्रु०।

उपस्पर्श = पु० उप + स्प श–घञ्। १ स्पर्शे, २ स्नाने च। उपस्पृश्यन्ते इन्द्रियाण्यत्र आधारे घञ्। विधिना जलपानपूर्वके मुखादिस्पर्शयुक्ते ३ वैधाचमने तत्र हि “त्रिःप्राश्यापोद्विरुन्मृज्य मुस्वमेतानुपस्पृशेत्। आस्यनासाक्षि कर्णांश्च नाभिवक्षःशिरोऽंसकान्” छन्दो० आस्यनासिकादिस्पर्शो विहित इति तस्य तथात्वम्। “तथेत्युपस्पृश्य पयः पवित्रम्” रघौ आचमनार्थे उपात्स्पृशतेः प्रयोगात्। भावे ल्युट्। उपस्पर्शनम् तत्रार्थे न० “अथात उपस्पर्शनम्” कात्या० ५, १०, २०

उपस्रवण = न० उप + स्रु–भावे ल्युट्। सम्यक्क्षरणे उपरतं स्रवणम् प्रा० स०। १ विरतस्रवणे क्षरणनिवृत्तौ “पत्न्युदक्या दीक्षारूपाणि निधाय सिकतास्वासीतोपस्रवणात्” का० २५, ११, १३, “ज्योतिष्टोमादौ दीक्षितस्य पत्नी रजखला दीक्षारूपाणि शङ्क्वादीनि निधाय सिकतासु आसीत आ रक्तस्रावविरमणात्” कर्कः।

उपस्वत्व = न० उपगतमुत्पत्तिक लेएव प्राप्तं स्वत्वं यत्र। स्वत्वास्पदीभूतभूम्यादिभ्य उतपन्नशस्यादिद्रव्ये। लोकव्यवहारः। अन्यस्य द्रव्यस्य प्रतिग्रहार्जनाधीनं स्वत्वं न तु उत्पत्तिलालात्, अस्य तु तत्काले एव स्वत्ववत्त्वेब तथात्वम्।

उपस्वावत् = पु० सत्राजितो नृपस्य पुत्रभेदे। “सत्राजितोदश त्वासन् भार्यास्तासां शतं सुताः। ख्यातिमन्तस्त्रयस्तेषां भञ्कारश्च पूर्वजः। वीरोवातपतिश्चैव उपस्वावांस्तथैव च” हरिवं० ३९ अ०

उपस्वेद = पु० उप + स्विद–करणे घञ्। १ वह्न्यादिसमीपस्थानात् जाते ऊष्मणि “तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः। सोपस्वेदेषु भाण्डेषु पञ्च वर्ष शतानि च” भा० आ०१६ अ० “सोपस्वेदेषु ऊष्मवत्सु तत्र ह्यण्डान्तर्जलमूष्मणा शाघ्रं घनीभवतीति” नी० क० “अलाबुमध्यान्निष्कृत्य वीजं यत्नेन गोप्यताम्। सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः” भा० व० १०६ अ०। भावे घञ्। २ उपतापे

उपहत = त्रि० उप + हन–क्त। १ तिरस्कृते “करोत्यवज्ञोपहतं पृथग्जनम्” किरा०। “उपहतं तिरस्कृतम्” मल्लि०। २ दूषिते “किमेभिराशोपहतात्मवृत्तिभिः” कुमा० “आशया उपहता दूषिवा” मल्लि०। ३ विनाशिते ४ उत्पातग्रस्ते अशुद्धद्रव्यसंयोगेन ५ अशुद्धे च “शारीरैर्मलैः सुरामिर्मद्यैर्वा यदुपहतं तदत्यन्तोपहतम्” विष्णुः। ६ अभिसूते “शम्भुमुपहदृशः सहसा” किरा०।

उपहति = स्त्री उप + हन–क्तिन्। १ उपघाते। २ कार्यासामार्थ्य प्रयोजकापाटवे ३ प्रतिहनने च।

उपहत्नु = त्रि० उप + हन–क्त्नु। उपहन्तरि “मृगं न भीममुपहत्नुमुग्रम्” ऋ० २, ३३, ११,

उपहन्तृ = त्रि० उप + हन–तृच् स्त्रियां ङीप्। उपघातके (कटुकः) “स्तन्यशुक्रमेदसामुपहन्ता चेति” सुश्रु०।

उपहरण = न० उप + हृ–ल्युट्। १ परिवेषणे २ उपायनदाने च

उपहर्त्तृ = त्रि० उप + हृ–तृच् स्त्रियां ङीप। प रवेषणकर्त्तरि “अनुमन्ता विशसिता नियन्ता क्रयविक्रयी। संस्कर्त्ता चोपहर्त्ता च खादकश्चेति घातकाः” मनुः। २ उपायनदातरि च।

उपहव = पु० उप + ह्वे–अप् संप्र० गुणः। आह्वाने, “वीनामुपसरं दृष्ट्वा तेऽन्योन्योपहवाः गुहाम्” भट्टिः। “अध्वर्युर्होतर्युपहवं काङ्क्षते” आ० श्रौ० ५, ७, ४, “प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत” ६, १२, १,

उपहव्य = पु० उपहूयतेऽत्र उप + हु–बा० आधारे यत्। सप्त- दशस्तोमकेषु पञ्चसु क्रतुषु मध्ये क्रतुभेदे। ते च क्रतवः कात्या० २२, दर्शिताः यथा। “सप्तदशाः पञ्च” ६, “वक्ष्यमाणाः पञ्च क्रतवः सप्तदगस्तोमका भवन्तीत्यर्थः” कर्कः। “उपहव्योऽनिरुक्तो ग्रामकामस्य” ७ “उपहव्य इति विशेषसंज्ञा स ग्रामकामस्य भवति अनिरुक्तश्च” कर्कः। “अनृतेनाभिशस्यमानस्य” ८ “अलीकेनाभिशस्य मानस्याप्युपहव्यो भवति” कर्कः “श्यावोऽश्वो दक्षिणा तं ब्रह्मणे ददाति” ९, इत्युपक्रम्याग्रे चत्वारस्तत्र दर्शिताः।

उपहसित = न० उप + हस–भावे क्त। उपहासे (ठाट्टाकरा) निन्दासूचके हासभेदे। कर्मणि क्त। २ हास्येन सूचितनिन्दे त्रि०।

उपहस्त = पु० उपहस्ति–भावे अच्। हस्तेन ग्रहणे प्रतिग्रहे तेन जीवति वेतना० ठञ्। औपहस्तिक तदुपजोविनि त्रि०।

उपहस्ति = हस्तेन उपगृह्णाति उप + हस्त–णिच् नामधातुः उभ० सक० सेट्। उपहस्तयति ते उपा(ज)जीहस्तत् त।

उपहस्तिका = स्त्री उपगता हस्तम् अत्या० स० संज्ञायां कन् अत इत्त्वम्। (वेटुया) वस्त्रादिनिर्म्मिते ताम्बूलाद्याधार पात्रभेदे। “उपहस्तिकायास्ताम्बूलं कर्पूरसहितमुद्धृत्य मह्यं दत्त्वा” दशकु०।

उपहार = पु० उप + हृ–घञ्। (भेट) १ उपढौकने उपायने “ततः सपर्य्यां सपशूपहाराम्” “रत्नपुष्पोहारेण छायामानर्च्च पादयोः” रघुः कर्मणि धञ्। २ उपढौकनीये उपायनद्रव्ये “बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः” मेघ० उपगतः हारम् अत्या० स०। ३ हारसमीपस्थे तदुपशोभके द्रव्ये। अव्ययी०। ४ हारसमीपे अव्य०। उभयत्र “उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम्” नै०। “ज्योतिषां प्रतिविम्बानि प्राप्लुवन्त्युपहारताम्” कुमा०।

उपहालक = पु० हले प्रसृतः बा० वुण् उपगतोहालको हलप्रसक्तोयत्र। कुन्तलदेशे हेम०।

उपहास = पु० उप + हस–भावे घञ्। निन्दासूचके हास्ये (ठाट्टा) “फलमस्योपहासस्य सद्यःप्राप्स्यसि पश्य माम्” रघुः

उपहास्य = त्रि० उप + हस–कर्म्मणि ण्यत्। उपहासेन निन्दनीये “गमिष्यास्युपाहास्यताम्” रघुः।

उपहित = त्रि० उप + धा–क्त। १ निहिते २ अर्पिते ३ समीपस्थापिते ४ आरोपिते च। “बलमुपहितशोभां तूर्णमायादयोध्याम्” भट्टिः। “पुष्पं प्रबालोपहितं यदि स्यात्” कुमा०। ५ उपाधिसङ्गते उपलक्षिते “अन्तःकरणोपहितं चैतत्यं जीवः अज्ञानोपचैतन्यमीश्वरः” वेदान्तप०।

उपहूत = त्रि० उप + ह्वे–क्त संप्रसारणे दीर्घः। समाहूते आचितादित्वाद्गतिपूर्ब्बकत्वेऽपि नान्तोदात्तता।

उपहूति = स्त्री उप + ह्वे–क्तिन् संप्रसारणे दीर्घः। आह्वाने “पटहप्रणादविहितोपहूतयः” माघः।

उपहृत = त्रि० उप + हृ–क्त। १ उपढौकिते उपहाररूपेण दत्ते “उपहृतपशूरुद्रः” सि० कौ०।

उपहोम = पु० उपगतः होमं प्रधानहोमम् अत्या० स०। प्रधानयागसमीपे स्विष्टिकृतः पूर्व्वं होतव्ये अग्निसोमादिदशदेवताके प्रत्येकं दशाहुतिके दशदक्षिणाके होमभेदे। स च शत० ब्रा० ११, ४, ३, ८, अवधि १७, पर्य्यन्तेषु दर्शितः। “सैतानुपहोमानपश्यत्” इत्युपक्रम्य “अग्निरन्नाद इत्यादि १” “सोमोराजेत्यादि २” “वरुणः सम्राडिति ३ “मित्रः क्षत्रमिति ४ “इन्द्रोबलमिति ५” वृहस्पतिर्व्रह्मेति ६ “सविता राष्ट्रमिति ७ “पूषा भगमिति ८” “सरस्वती पुष्टिमिति ९” “त्वष्टा रूपाणामिति १०” इत्येतैर्दश देवता उक्त्वा “तावाएता दश देवता, हवींषि दशाहुतयोदश, दश दक्षिणाः” इति यथोक्तविशेषणतया दर्शितः।

उपह्वर = उप + ह्वृ–आधारेघ। निर्जने रहस्योपगमाधारे “उपह्वरे पुनरित्यशिक्षयं धनमित्रम्” दशकु०। “यत्सीमुपह्वरे विदत्” ऋ० ८, ६९, ६, “चरन्तमुपह्वरे नद्यः” ऋ० ८, ९६१४, “उपह्वरे अत्यन्तगुह्यस्थाने” भा०। २ अन्तिकस्थाने “ऊर्म्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्” भा० व० ३०८ अ० ३ भूप्रदेशमात्रे च “उपह्वरे यदुपरा अपिन्वन्” ऋ०१, ६२, ६, “कौटिल्यलक्षणगतिवाचिनात्र गतिमात्रं लक्ष्यते उपह्वरन्ति गच्छन्त्यस्मिन् घः इत्युपह्वरोमूप्रदेशः” भा०। कर्म्मणि घ। ४ गन्तव्ये “उपह्वरेषु यदचिध्वम् १, ८७, २। “उपह्वरेषु गन्तव्येषु” भा० ५ प्रान्तभागे। उपह्वरे गिरीणां संगथे च” ऋ० ८, ६, २८ “उपह्वरे प्रान्तभागे” भा०।

उपह्वान = न० उप + ह्वे–ल्युट्। १ आह्वाने २ मन्त्रोच्चारणे नाह्वाने च “द्यावापृथिव्योरुपह्वाने षडवत्तम्” कात्या० ३, ४, १९, “आग्नीध्रे भक्षणं वषट्कारीपह्वानाभ्याम्” १०, ६, २२,

***