वाचस्पत्यम्
उपमि to उपय
links:
Menu अ–ह
Prev उपपु–उपमा
Next उपया–उपरा
उपमि
उपयम
उपयमन
UpasanaYoga
.org

उपमित् = त्रि० उपसमीपे मीयते क्षिप्यते उप + मि–क्विप्। १ उपनिखाते २ उपस्थापयितरि च “स्थूणेव जना~ उपमिद्ययन्थ” ऋ० १, ५९, १, “उपमित् उपस्थापयिता यद्वा उपमिदुपनिखाता स्थूणेव” भा० ३ स्थूणायाम् “स्तभायदुपमिन्न रोधः” ऋ० ४, ५, १, “उपमित् स्थूणा” भा० “उपमितां प्रतिमितामथोपरिमितामुत शालाया विश्ववाराया नद्धानि वि चृतामसि” शालाभिमन्त्रणे, अथ० ९, ३, १। कर्त्तरि क्विप्। ४ उपमाकर्त्तरि।

उपमित = त्रि० उप + मि–क्त। १ सादृश्यानुयोगिनि। यथा चन्द्र इव मुखमित्यादौ मुखं, तस्य चन्द्रसादृश्यानुयोगित्वात् “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” पा० नरव्याघ्रः नरो व्याघ्र इव वाक्ये व्याघ्र उपमानं नर उपमितः। अत्र समासे व्याघ्रशब्दस्य व्याघ्रसदृशे लक्षणा व्याघ्रसदृशोनर इति बोधः उपमितस्य विशेष्यत्वेऽपि समांसविधिशास्त्रे प्रथमान्ततया निर्द्देशात् पूर्ब्बनिपातः। अनेन सूत्रेण विहितसमास उपमितसमास इत्युच्यते।

उपमिति = स्त्री उप + मि–क्तिन्। १ उपमालङ्कारे सादृश्यज्ञानजन्ये गवयादिशब्दशक्तिबोधरूपे २ उपमानफले बोधभेदे “प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे” भाषा० करणेक्तिन्। ३ सादृश्ये च “पल्लवोपमितिसाम्यसपक्षम्” सा० द०। “तदाननस्योपमितौ दरिद्रता” नैष०।

उपमेत = त्रि० उपमामुपमानभावं सर्व्ववृक्षेभ्योदीर्घत्वात् इतः २ त०। शालवृक्षे वृक्षाणां मध्ये तस्य सर्व्वोच्चत्वात् अन्यस्योपमानतां प्राप्तत्वात्तथात्वम्। “शालप्रांशुर्महाभुजः” रघौ तस्योच्चतायामुपमानत्वं वर्ण्णितम्।

उपमेय = त्रि० उपमीयतेऽसौ उप + मि–यत्। सादृश्यानुयोगिनि यथा चन्द्रैव मुखमित्यादौ मुखम्। “अन्त पुरञ्चैक कुलोपमेयम्” कुमा० “भूयिष्ठमासोदुपमेयकान्तिः। “नवेन्दुना तन्नभसोपमेयम्” रघुः “सा पूर्ण्णा यदि सामान्यधर्म्म औपम्यवाचि च। उपमेयं चोपमानं भवेद्वाच्यमियं पुनः” सा० द०।

उपमेयोपमा = स्त्री अर्थालङ्कार भेदे। ३९८ पृष्ठे विवृतिः।

उपयज् = पु० उप–यज–भावे वेदे विच् लोके तु क्विन्। पशुयागाङ्गे यागभेदे “त्रीणि ह वै पशोरेकादशानि एकादश प्रयाजाः एकादशानुयाजा एकादशोपयजः” शत० ब्रा० ३, ८, ४, ४, इत्युपक्रमे “अथ यद्यजन्तमुपयजति तस्मादुपयजोनाम” इति तन्नामनिरुक्तिं प्रदर्श्य एकादश उपयजः क्रमेण दर्शिताः।

उपयन्तृ = पु० उप + यम–तृच्। विवाहकर्त्तरि पत्यौ। “अथोपयन्तारमलं समाधिना” कुमा० “अथोपयन्त्र्या सदृशेन युक्तम्” रघुः। २ संयमनकर्त्तरि त्रि० स्त्रियां ङीप्।

उपयन्त्र = न० उपगतं यन्त्रम् अत्या० स०। सुश्रुतोक्ते शल्योद्धारणोपाययन्त्रभेदे। यथा “तत्र मनःशरीरावाधकराणि शल्यानि तेषामाहरणोपायो यन्त्राणि तानि च षट्प्रकाराणि तद्यथा स्वस्तिकयन्त्राणि, संदशयन्त्राणि, तालयन्त्राणि, नाडीयन्त्राणि, शलाकायस्त्राणि, उपयन्त्राणि चेति” विभज्य। “उपयन्त्राण्यपि रज्जुवेणिका पट्टचर्म्मान्तवल्कलतावस्त्राष्ठीलाश्ममुद्गरपाणिपादतलाङ्गुलिजिह्वादन्तनखमुखवालास्यकटकशाखाष्ठीवनप्रवाहणहर्षायस्कान्तमयानि क्षाराग्निभेषजानि चेति” तानि दर्शितानि। “एतानि देहे सर्व्वस्मिन् देहस्यावयवे तथा। सन्धौ कोष्ठे धमन्याञ्च यथायोगं नियोजयेत्” सुश्रु०।

उपयम = पु० उप + यम–अप्। विवाहे। “कन्या त्वजातोपयमा सलज्जा नवयौवना” सा० द०। उपयमस्य भेदादिकमुद्वाहशब्दे ११८ ६ पृ० उक्तं तत्काल वरकन्यामेलकादि विशेषोनिरूप्यते। तत्र द्विजातीनां समावर्त्तनानन्तरं विवाहकालः मनुना “चतुर्थमायुषोभागमुषित्वाद्यं गुरौ द्विजः। द्वितीयमायुषोभागं कृतदारो गृहंवसेत्” आयुर्द्वितीयभागे विवाहकाल उक्तः” कुल्लूकभट्टे न तु पूर्व्वापरविरोधमाशङ्ख्य ब्रह्मचर्य्यकालोत्तरत्वमस्य समर्थितं यथा “चतुर्थं भागमिति ब्रह्मचर्य्यकालोपलक्षणार्थम् आनयतपरिमाणत्वादायुषश्चतुर्थभागस्य दुर्ज्ञानत्वात् न च “शतायुर्वै पुरुष” इति श्रुतेः पञ्चविंशतिवर्षपर्य्यन्तपर त्वम्, “षट्त्रिंशदाब्दिकं चर्य्यमित्यादिना विरोधात्। आश्रमसमुच्चयपक्षमाश्रितो ब्राह्मण उक्तं ब्रह्मचर्य्यकालं जन्मापेक्ष्याद्यं यथाशक्ति गुरौ स्थित्वा द्वितीयमायुषश्चतुर्थभागं कृतदारो गृहस्थाश्रममनुतिष्ठेत् “गृहस्थस्तु यदा पश्येत् बलिपलितमात्मनः। पुत्रेषु दारान् निक्षिप्य वनं गच्छेत् सहैव वा” (मनुः) इत्यनियतकालत्वात् द्वितीयमायुषीभागमित्यपि गार्हस्थकालमेव" “गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि। उद्वहेत द्विजोभार्यां सवर्णां लक्षणान्विताम्” मनुना समावर्त्तनोत्तरमेव विवाहकालोविहितः। समावर्त्तनकालश्च “षट्त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकं व्रतम्। तदर्द्धिकं पादिकं वा ग्रहाणान्तिकमेव वा” मनुना षट्त्रिंशद् वर्षाद्युत्तरकालः उक्तः। स च शक्त्यपेक्षया युगभेदेन वा व्यवस्थाप्यः तथा च सत्ययुगे, ३६ वर्षाः त्रेतायामष्टादश वर्षाणि द्वापरे नव वर्षाणि कलियुगे वेदग्रहणकालपर्य्यन्तं ब्रह्मचर्य्यं कार्यं ततःसमावर्त्तनम्। युक्तञ्चैतत् मनुनासत्ये नराणां चतुःशतायुष्कत्वेन त्रेतायां त्रिशतायुष्कत्वेन द्वापरे द्विशतायुष्कत्वेन कलौ शतायुष्कत्वेन चोक्तेः आयुरुत्तमत्वादिभेदेन व्रतकालाधिक्यादि। अतएव “दीर्घकालं ब्रह्मचर्यं धारणञ्च कमण्डलोः” इत्यादिपुराणे कलौ आयुषोहीनत्वाभिप्रायेणैव दीर्घकालब्रह्मचर्य्यनिषेधः। तत्रायं भेदः। “केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते। राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः” मनुना स्वस्वोपनयनद्विगुणितकालएव गोदानाख्यस्य केशान्तसंस्कारस्य विधानात् वेदव्रतरूपस्य वक्ष्यमाणस्य महानाम्न्यादिकेशान्तरूपस्यानन्तरं विवाहस्य कर्त्तव्यतायाःसर्वनिबन्धृभिर्व्य वस्थापितत्वेन स्वस्वोपनयनद्विगुण कालोत्तरं विवाहस्य कर्त्तव्यता नार्वाक्। तथा च ब्राह्मणस्य १६ वर्षात् क्षत्रियस्य द्वाविंशतेः वैश्यस्य चतुर्विंशतेरुत्तरं विवाहकालः। अतएव रघौ वर्णितम् “अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्त्तयत् पिता” शूद्राणान्तु “र्वश्यवच्छौचकल्पश्चेत्युक्तेर्वैश्यधर्मातिदेशात् चतुर्विंशतिवर्षोत्तरमेव विवाहकालः “त्रिंशद्वर्षोवहेद्भार्यां हृद्यां द्वादशवार्षिकीम्। त्र्यष्टवर्षोऽष्टवर्षीयां धर्मे सीदति सत्वरं इति मनुना ब्रह्मचर्य्यरक्षणाशक्तौ सत्वरतोक्तेः अशक्तौ ततोऽर्वागपि कर्त्तुं शक्यते इति भेदः। स तु न श्रेयानिति बोध्यम्। अतएव शु० त० रघुनन्दनेन। “अनूढभार्य्यः शूद्रस्तु षोडशाद्वत्सरात् परमिति” शङ्खवचनार्थमीमांसायां “तद्विशेषणेन न्यायवर्त्तिनां शूद्राणां षोडशवर्षोपरि विवाहकालः कल्प्यते” इति व्यवस्थाप्य तत्समर्थनाय वैश्यवच्छौचकल्पश्चेति चकाराद्वैश्यधर्म्ममात्रस्यातिदेशमुक्त्वा अतिदेशेन शूद्रस्याप्युपनयनप्राप्तौ “विवाहमात्रं संस्कारं शूद्रोऽपि लभते सदेति” ब्रह्मपु० तस्य विवाहस्येवोपनयनस्थानीयतामुक्त्वा तत्कालाकाङ्क्षायां “गर्भाष्टमेऽष्टमे वाव्दे व्राह्मणस्योपनायनम्। राज्ञामेकादशे सैके विशामेके यथाकुलम्” या० स्मृतौ। उत्तरोत्तरमधिककालस्योक्त्या वैश्योपनयनकालापेक्षयाऽधिकालत्वं शूद्रविवाहस्योक्तम्। तत्रापि यथाकुलमित्यतिदेशेन षोडशाद्वर्षात् प्रागपि विवाहो दृश्यते स तु न प्रकृष्ट इत्यन्तेन उक्तरीत्यैव व्यवस्थापितम्। द्विजातिस्त्रीणान्तु यद्यपि हारीतेन “द्विविधाः तत्र ब्रह्मवादिनीनामुपनयनं वेदाध्ययनं भिक्षाचर्य्या च, सद्योबधूनां तु उपस्थिते विवाहे स्त्रियो ब्रह्मवादिन्यः सद्योबधूश्च यथा कथञ्चिदुपनयनं विधाय विवाहः कार्य्यः” सद्योबचूनामप्युपनयनं विहितम्। तथापि तथा विधीयमान उपनयनेन वर्णभेदेनोक्तकालापेक्षा उपस्थिते विवाहे इति कथनात् विवाहकालस्यैव तत्कालता। वस्तुतः स्त्रीणामुपनयनं कल्पान्तरविषयम् यथाह यमः “पुराकल्पे हि नारीणां मौञ्जीबन्धनमिष्यते। अध्यापनञ्च वेदानां सावित्रीग्रहणन्तथा। पिता पितृव्यो भ्राता वा नैनामध्यापयेत्परः। स्वग्र्हे चैव कन्याया भैक्ष्यचर्या विधीयते” इति। ननु यद्यपि कलौ मुख्यमुपनयनं स्त्रीणां नास्ति तथापि आतिदेशिकमस्ति यदाह मनुः “वैवाहिकोविधिः स्त्रीणाभीपनायनिकः परः। पतिसेवा गुरौ वासोगृहार्थोऽग्निपरिक्रियेति” तेन कालभेदः सेत्स्यतीति सत्यम् अतिदेशोयमुपनयनधर्म्मप्राप्त्यर्थः यथा ब्राह्मणादीनामुपनयनात् प्राक् कामचारकामवादकामभक्ष्याद्याचाराणामदोषतास्ति तदनन्तरन्तूपनयनधर्माणां सन्ध्यास्नानादीनां प्राग धर्मनिरसनपूर्व्वकमनुष्ठानपूर्वकं यथास्ति तथा स्त्रीणा- मपि विवाहात् प्राक् कामचारादिधर्मा न दोषं कुर्वन्ति विवाहस्य तु द्विजत्वसिद्धिकरत्वादनुष्ठिते विवाहे कामचारादिधर्मनिरासपूर्वकं पतिसेवा गुरौ वास इत्यादिकमनुष्ठानं भवेदिति। सर्ववर्ण्णस्त्रीणां षड्वर्षोत्तरं विवाहकालः वक्ष्यमाणवचनात्। एवं वरकन्ययोः सामान्यकाले निरूपिते इदानीं विशेषकालोऽभिधीयते। तत्र तयोः रव्यादिशुद्धेरावश्यकता यथाह “गुरुशुद्धिवशेन कन्यकानां समवर्षेषु षडव्दकोपरिष्टात्। रविशुद्धिवशाच्छुभोवराणामुभयोश्चन्द्रविशुद्धितोविवाहः” मु० चि० पी० धा० व्या० “कन्यकानां विवाहः षडव्दकोपरिष्टात् षड्वर्षातिक्रमानन्तरं समवर्षेष्वयुग्मवर्षेषु सत्सु, गुरुशुद्धौ सत्यां विवाहः शुभः। अर्थात् पुरुषाणां विषमयर्षेषु रविशुधौ विवाहः शुभः। तदाह च्यवनः। “षडव्दमध्येनोद्वाह्या कन्या, वर्षद्वयं यतः। सोमोभुङ्क्तेऽथ गन्धर्वस्ततः पश्चाद्धुताशन” इति जन्मानन्तरं वर्षद्वयं सोमः कन्यां भुङ्क्ते। तदनन्तरं द्वे वषे गन्धर्वस्तदनन्तरमग्निस्ततो मनुष्याधिकारःषडब्दतः प्राग्विवाहो न कार्य्यः। तत्र षड्वर्षानन्तरं समतर्षे विवाहः शुभः। यदाह नारदः। “युग्मेऽव्दे जन्मतः स्त्रीणां शुभदं पणिपीडनम्। एतत्पुंसामयुग्मेऽव्दे व्यत्ययेनाशुभन्तयोरिति”। कश्यपः “विवाहो जन्मतः स्त्रीणां युग्मेऽव्दे पुत्रपौत्रदः। अयुग्मे श्रीप्रदः पुंसां विपरीते तु मृत्युदः” इति। एवं च सति स्त्रीणां विवाहोऽष्टमदशमवर्षयोभवतीत्यर्थः। यथाह व्यासः “अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी। दशवर्षा भवेत् कन्या द्वादशे वृषली स्मृतेति”। अस्य फलभेदमाह वात्स्यः “गौरीं ददद्ब्रह्मलोकं सावित्रं रोहिणीं ददत्। कन्यांददत् स्वर्गलोकमतःपरमसद्गतिम्”। प्राप्नोतीति शेषः। “गौरी विवाहिता सौख्यसम्पन्ना स्यात् पतिव्रता। रोहिणी धनधान्थादिपुत्राढ्या सुभगा भवेत्। कन्या विवाहिता सम्पत्समृद्वा स्वामिपूजितेति”। ननु नववर्षाया रोहिण्या अयुग्मवर्षत्वाद्विवाहः कथं सम्भवति गर्भतोनवर्षग्रहणे अयग्मवर्षत्वापरिहारात् स दोषस्तदवस्थ एव ये तु “अयुग्म दुर्भगा नारी युग्मे च विधवा भवेदिति” चण्डेश्वरवाक्यभभ्यसन्ति तन्मते सुतरां विवाहाभावः। उच्यते। “युग्मऽबदे सम्पदः सौख्यं विद्याधर्म्मायुषः सदा। भर्त्तुर्दुष्टा भवव्योज निषेकान्नात्र संशयं इति पराशरवाक्याद्भर्भग्रहणं यथाऽवसीयते नारदादिवाक्ये तथा जन्मत इत्यपि। तत्र षष्ठवर्षानन्तरं जन्मतोविषमवषींयमा- सत्रयानन्तरं नव मासाः शुभाः। समवर्षीयसामत्रयञ्च। इदमेव च मासत्रयं नारदादिमते गृह्यते इति युक्ता व्यवस्थेति युक्तमुत्पश्यामः। एतदेवाभिप्रेत्योक्तं श्रीपतिनिबन्धे। “मासत्रयादूर्द्धमयुग्मवर्षे युग्मे तु मासत्रयमेव यावत्। विवाहशुद्धिं प्रवदन्ति सन्तोवात्स्यादयो गर्गवराहमुख्याः” इति। “अयुग्मे दुर्भगा नारी युग्मे तु विधवा भवेत्। तस्माद्गर्भान्विते युग्मे विवाहे सा पतिव्रतेति” चण्डश्वरोक्तिश्च सार्थिका। एवं नवमवर्षस्या युग्मत्वप्रयुक्तनिषेधोऽष्टमवर्षानन्तरं मासत्रयमेव। एवं विहितवर्षे यस्मिन् काले गुरुशुद्धिर्भवेत् तद्वशेन विवाहः कार्य्यः गुरुशुद्धिस्तु “वटुकन्याजन्मराशेस्त्रिकोणायद्विसप्तगः। श्रेष्ठोगुरुः खषट्त्र्याद्ये पूजयान्यत्र निन्दित” मु० चि० अभिहिता। यदाह गुरुः “स्त्रीणां गुरुबलेनैव विवाहः शोभनः स्मृतः। वरस्यार्कबलं ग्राह्यमैन्दवन्तूभयोरपोति” “सुरगुरुबलमबलानां पुरुषाणां तीक्ष्णरश्मिबलमेव। चन्द्रबलं दम्पत्योरवलोक्य विशोधयेल्लग्नमिति”। वराहोक्तेश्च। एतच्चावश्यकत्वार्थमभिहितम्। यदा द्वयोरपि गुरुबलमिष्टं भवेत् तदा पाणिग्रहः शुभदः। द्वयोरन्यतरस्य गुर्वर्कशुद्ध्यै विवाह्यकालान्तरासम्भवे च तत्पित्रादिना पूजाङ्कारयेत् “रविशुद्धौ गृहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ। क्षौरन्ताराशुद्धौ शेषं चन्द्राश्रितं कर्मेति” राजमार्त्तण्डोक्तेः। वराणां विवाह्यानां पुंसां रविशुद्धिवशेन विवाहः शुभः। उभयोः स्त्रीपुंसयोश्चन्द्रविशुद्धितोविवाहः शुभः स्मृतः अत्र सम्मतिः प्रागुक्ता। यदा तु कन्या कालातिक्रान्ता भवति तदा गुरुबलमनावश्यकमित्याह व्यासः “दशवर्षव्यतिक्रान्ता कन्या शुद्धिविवर्ज्जिता। तस्यास्तारेन्दुलग्नानां शुद्धौ पाणिग्रहोमतः” इति। “ग्रहशुद्धि मव्दशुद्धिं शुद्धिं मासायनर्त्तुदिवसानाम्। अर्वाक् दशवर्षेभ्यो मुनयः कथयन्ति कन्यकानाम्” भुजबलः सा च गुरुरविचन्द्रशुद्धिर्गोचरप्रकरणेऽभिधाम्यते। “गोचरबलाभावेऽष्टकवर्गादिबलं ग्राह्यमित्याह नारदः “गोचरं वेधज चाष्टवर्गजं रूपजं बलम्। यथोत्तरं बलाधिक्यं स्थूलं गोचरमार्गजमिति” पी० धा०।

तत्रादौ अयननिरूपणम्। विवाहोपक्रमे “हरौ प्रसुप्ते न च दक्षिणायने तिथौ च रिक्ते शशिनि क्षयङ्गते” राजमा०। “उदयगयन आपूर्य्यमाणे पक्षे कल्याणे नक्षत्रे चूडोपनयनगोदानविवाहाः, विवाहः सर्व्वकालिक इत्येके” आश्व० गृ० १, ४, १, सू०। सार्व्वकालिक इति दक्षिणायन- कृष्णपक्षविषयः न तु अशुद्धकालपरस्तस्यानुपस्थितेः अयनपक्षयोरेव प्रक्रान्तत्वात्तद्विषयता सर्ब्बशब्देन तथैव परामर्शयोग्यतया अत्यस्य चाप्रक्रान्ततया तेन परामर्शा योगात्। अत एव भुजबलभी० ग्रहशुद्धिमित्र्यादिकं प्रागुक्तमभिधाय “एतत्परन्तु विज्ञेयमङ्गिरोवचनं यथा। कालात्यये च कन्यायाः कालदोषो न विद्यते। मलमासादिकालानां विवाहाद्ये प्रयत्नतः। पुंसः प्रति सदा दोषात् सर्वदैव हि वर्ज्यता” इत्युक्तम्। ततश्च वरकन्ययोर्मध्ये कन्याया दशवर्षातीतत्वे ग्रहशुद्ध्यादिर्नापेक्ष्यः समयाशुद्धिश्च उभयसाधारणत्वादपेक्ष्यैव। एतदेव भङ्ग्यन्तरेणोक्तं ज्यो० त० “राजग्रस्ते तथा युद्धे पितॄणां प्राणसंशये। अतिप्रौढा च या कन्या नानुकूगं प्रतीक्षते। अतिप्रौढा च या कन्या कालधर्मविरोधिनी। अविशुद्ध्यापि सा देया चन्द्रलग्नबलेन तु”। “एतत्परमेव दशमासाः प्रशस्यन्ते चेत्रपौषविवर्ज्जिताः” राजमा० वाक्यम् “सार्वकालिकमिच्छन्ति विवाहं गौतमादय इति मिहिरवचनमप्येतत्परम्। वस्तुतः सार्वकालिक इत्येतदासुराद्यधर्म्यविवाहविषयम्। प्रमि० “प्राजापत्यब्राह्मदैवार्षसंज्ञाः कालेषूक्तेष्वेव कार्य्याः विवाहाः। गान्धर्वाख्यश्चासुरोराक्षसश्च पैशाचो वा सर्वकाले विधेयः” श्रीपत्युक्तेः “धर्म्येष्वेव विवाहेषु कालस्यैव परीक्षणम्। नाधर्म्म्येषु विवाहेषु” गृह्यपरिशिष्टोक्तेश्च। तत्र सौरादिमासनिरूपणम् “मिथुनकुम्भमृगालिवृषाजगे मिथुनगेऽपि रवौ त्रिलवे शुचेः। अलिमृगाजगते करपीडनम्भवति कार्त्तिकपौषमधुष्वपि” मु० चि०। “मिथुनकुम्भौ प्रसिद्धौ। मृगोमकरः अलिर्वृश्चिकः वृषः प्रसिद्धः अजोमेषः। एतद्राशिगते रवौ सति तत्रापि मिथुनस्थिते सूर्येऽपि शुचेराषाढस्य त्रिलवे तृतीयांशे आषाढशुद्धप्रतिपदमारभ्य दशमीपर्य्यन्तं करपीडनं विवाहो भवति। अर्थादितरराशिगते सूर्य्ये सति आषाढशुक्लदशम्यनन्तरं हरिशयने च सति विवाहो न स्यात् यदाह कश्यपः। “उत्तरायणगते सूर्य्ये मीनं चैत्रञ्च वर्जयेत्। अजगोद्वन्द्वकुम्भालिमृगराशिगते रवौ। मुख्यं करग्रहं त्वन्यराशिगे न कदाचनेति” वसिष्ठः। “दिनाधिपे मेषवृषालिकुम्भनृयुग्मनक्राख्यधटर्क्षसंस्थे। माघद्वये माधवशुक्रयोश्च मुख्योऽथ वा कार्त्तिकसौम्ययोश्चेति। धटस्तुला। शुक्रोज्येष्ठः सौम्यो मार्गशीर्षः मुख्यो विवाह इति शेषः। “आर्द्रोदयादूर्द्ध्वमिनस्य कार्य्यं नक्षत्रवृन्दे दशके कदाचित्। मासोक्त- कर्मेतरमङ्गलाद्यं कुर्य्यान्न सुप्तेऽपि तथा मुरारौ”। एतेन हरिशयनात्प्राक्कालः साधीयानित्यभिहितं भवति। अत्र सामान्यतोमासशब्देन चान्द्र एव मासो गृह्यते “इन्द्राग्नी यत्र हूयेते” इत्याद्युक्तेः। अत्र तु सौरचान्द्रमासद्वयोपादानादुभयोरैक्ये विवाहफलमविकलं भवति। तदुक्तं केशवार्के ण। “प्रायःसौरं मानमिष्टं विवाहे केविच्चान्द्रं मानमाहुः फलेन। तस्मात् सम्यक् तत्फलाप्तिस्तदैक्ये सौरोमासः केवलः किञ्चिदूनः” इति। अस्यार्थः। कश्यपादिभिः सौरा एव मासाः उक्ताः तेषां च प्राशस्त्यम्। “विवाहादौ स्मृतः सौरोयज्ञादौ सावनोमत” इति वृधगर्ग स्मरणात्। नारदादिभिस्तु “माघफाल्गुनवैशाखज्यैष्ठमासाः शुभप्रदाः। मध्यमाः कार्त्तिकोमार्गशीर्षो वै निन्दिताः परे” इति चान्द्रा एवोक्ताः। एतत्प्राशस्त्यं च वशिष्ठेनोक्तम्। “उद्वाहयज्ञोपनयप्रतिष्ठातिथिव्रतं क्षौरमहोत्सवाद्यम्। पर्वक्रियावास्तुगृहप्रवेशः सर्वं हि चान्द्रेण हि गृह्यते तदिति”। अतोद्वयोः सौरचान्द्रमासयौरैक्ये विवाहादि शुभमेकतरपक्षाश्रयणे मध्यममिति निष्कृष्टोऽर्थः। एवं च मकरसंक्रान्तौ माघः, कुम्भे फाल्गुनोमेषे वैशाखः वृषे ज्येष्ठः, मिथुने आषाढ तृतीयांशः, तुलायां कार्त्तिको देवोत्थानादुत्तरः, वृश्चिके मार्गशीर्षः, शुभ इत्यर्थः। केचित्तु चान्द्रमासं मुख्यमाहुस्तेनायमर्थः। फाल्गुनो विहित इति मीनसंक्रमणसद्भावेऽपि शुभः, चैत्रो निषिद्ध इति मेषसंक्रान्तिसद्भावेप्यशुभः। तदुक्तं विवाहवृन्दावने। “झषोन निन्द्यो यदि फाल्गुने स्यादजस्तु वैशाखगतो न निन्द्यः। मध्वाश्रितौ द्वावपि वर्जनीयावित्यादिवाचामियमेव युक्तिरिति” “अजस्तु वैशाखगतो न निन्द्य इति तु निर्मूलमेव। न हि मेषसंक्रमः क्वचित् निषिद्धोऽस्ति। तदेतदविचारितरमणीयं कुतः? यतोयन्मते सौरमासस्यैव मुख्यत्वं तन्मते मेषः प्रशस्त इति चैत्रेऽपि विवाहप्रसङ्ग इति विपरीतं तस्यापि वक्तुमशक्यत्वात्। उक्तञ्च चूडारत्ने। “पौषेऽपि मकरस्थेऽर्के चैत्रे मेषगते रवौ। आषाढे मिथुनादित्ये केऽप्याहुः करपीडनमिति”। किञ्च वशिष्ठवाक्ये “दिनाधिपे मेषवृषेत्यादौ, सौर चान्द्रमासयोरुपादानस्य वैयर्थ्यापातात्। तस्मात् द्वयोरैक्ये विवाहः प्रशस्तः। तत्र माघफाल्गुनवैशाखज्येष्ठामुख्याः। यत्र तु निषेधानन्तरं प्रतिप्रसवो यथा दक्षिणायने विवाहं निषिध्व कार्त्तिकमार्गशीर्षौ विहितौ तत्र मध्यमत्वम् अतएव कार्त्तिकसौम्ययोश्च वसिष्ठेन पृथगुक्तं नारदवाक्ये स्पष्टमेव मध्यमत्वम् अतो विवाहपटले गर्गः “पुत्रोपेता तु कार्त्तिके धनधान्यसुतोपेता सौम्ये भर्त्तृपरायणा” इत्युक्तवान् तदपि धनुःसंक्रान्तिव्यतिरिक्तविषयं द्रष्टव्यम्। हरिशयनात्प्रागाषाढतृतीयांशश्च मध्यमः हरिस्वापान्तर्गताः आषाढश्रावणभाद्रपदाश्विनकार्त्तिका पौषश्चैते निषिद्धाः। धनुषि पौषस्त्वत्यन्तं निषिद्धः। “भाने धनुषि सिंहे च स्थिते सप्ततुरङ्गमे। क्षौरमन्नं न कुर्वीत विवाहं गृहकर्म चेति” गार्ग्योक्तेः। अन्नमन्नप्राशनं विहितकालातिक्रान्तम्, क्षौरं चौलञ्च स्वतन्त्रम् “यत्तूपनयनाङ्गं क्षौरं तस्य न निषेधः “चैत्रे मीनगते रवाविति” विहितोपनयनस्य विषयालाभात्। अथोत्तरार्द्धं व्याख्यायते। अलीति। अलिमृगाजाः प्राग्व्याख्याताः। एतद्राशिगते सूर्ये सति कार्त्तिकपौषमधुष्वपि करपीडनं भवति यथा वृश्चिके कार्त्तिकः मकरे पौषः मेषे चैत्रोऽपीत्यर्थः इदं तु सौरमासग्रहिलानां मतम्। अतएवाधुनोक्तचूडारत्नस्थवाक्ये “केप्याहुः करपीडन” मित्युक्तिः। श्रीधरोऽपि। “पौषे च कुर्यान्मकरस्थितेऽर्के चैत्रे भवेन्मेषगतो यदा स्यात्। प्रशस्तमाषाढकृतं विवाहं वदन्ति गर्गा मिथुनस्थितेऽर्के इति तदेतत्प्रागभिहितन्यायादुपेक्ष्यम् अथवा केशवमताङ्गीकारेण मध्यमत्वमङ्गीकृत्य कालान्तरानपेक्ष्यवश्यदेयकन्याविषयम्”। पी० धा०। प्रमिता० तु देशभेदात् मासभेदस्य ग्राह्यतोक्ता “तपतीकृष्णयोर्मध्ये चान्द्रोमासः प्रशस्यते। अन्येषु सर्वदेशेषु सौरो व्रतविवाहयोः। विन्ध्याद्रेर्दक्षिणे भागे चान्द्रोमासः प्रशस्यते। उद्ग्भागे तु विन्ध्यस्य सौरमानं विधीयते। अन्येषु सर्वदेशेषु मिश्रमानं प्रकल्पयेत्”। मासभेदे फलभेदमाह ज्यो० त० भुजवलः “आषाढे धनधान्यभोगरहिता नष्टप्रजाः श्रावणे वेश्या भाद्रपदे इषे च मरणं रोगान्विता कार्त्तिके। पौषे प्रेतवती वियोगबहुला चैत्रे मदोन्मादिनी” निर्ण० सि० व्यासः। “माघफाल्गुनवैशाखे यद्यूढा मार्गशीर्षके। ज्यैष्ठे वाषाढमासे वा सुभगा वित्तसंयुता। श्रावणे वापि पौषे वा कन्या भाद्रपदे तथा चैत्राश्वयुक्कार्त्तिकेषु याति वैधव्यतां लघु” अत्राषाढस्य शुभता दशदिनात् प्राक्, तदुत्तरमशुभत्वम् अत्र प्रतिसवः प्रागुक्तः। अत्र जन्ममासादिनिषेधः “आद्यभर्भसुतकन्ययोर्द्वयोर्जन्ममासभतिथौ करग्रहः। नोचितोऽथ विबुधैः प्रशस्यते चेद्द्वितीयजनुषोः सुतप्रदः” मु० चि० “यस्मिन् चान्द्रेमासे जन्म सजन्ममासः जन्मतिथिमारभ्यत्रिंशत्तिथ्यात्मको मासो जन्ममासोवेत्युच्यते। द्वयमप्या- द्यप्रकरणे “जन्मर्क्षमासतिथय” इति पद्यव्याख्यावसरे विविच्य व्याकृतमस्माभिः, यस्मिन्नक्षत्रे जन्म तज्जन्मभं यस्यां तिथौ जन्म सा जन्मतिथिः। समाहारद्वन्द्वः आगमशासनस्या नित्यत्वान्नुमभावः। उपलक्षणत्वात्तन्मुहूर्त्तोऽपि। तत्राद्यगर्भसुतकन्ययोर्द्वयोः करग्रहो विवाहो नोचितो निषिद्ध इत्यर्थः। यदाह वसिष्ठः। “स्वजन्ममासर्क्षतिथिक्षणेषु वैनाशिकाद्यृक्षगणेषु चैवम्। नोद्वाहमात्माभ्युदयाभिकाङ्क्षी नैवाद्यगर्भद्वितये कदाचित्”। क्षणोमुहूर्त्तः नारदोऽपि “न जन्ममासे जन्मर्क्षे न जन्मदिवसेऽपि वा। आद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः” इति। जन्मदिवसे जन्मतिथौ। आवश्यकत्वेऽपवादो जगन्मोहने “जातं दिनं दूषयते वसिष्ठः पञ्चैव गर्गस्त्रिदिनं तथात्रिः। तज्जन्मपक्षं किल भागुरिश्च व्रते विवाहे गमने क्षुरे चेति” पी० धा०। ज्यो० त० तु “चाष्टौ च गर्गश्च्यवनोदशाहम्। जन्माख्यमासं किल भागुरिश्च व्रते विवाहे क्षुरकर्णवेधे” तृतीयपादादि पाठः “अथेति द्वितीयजनुषोरनाद्यगर्भयोश्चेद्विवाहः तर्हि सुतप्रदो विबुधैः पण्डितैः प्रशस्यते। एतच्च तृतीयगर्भादावपि द्रष्टव्यम्। सर्वथाद्यगर्भराहित्यं विवक्षितम्। केचित् “चेदनाद्यजनुषोरिति” पठन्ति। यदाह च्यवनः “जन्मर्क्षेजन्ममासे वा तारायामथ जन्मनि। जन्मलग्ने भवेदूढा पुत्राढ्या पतिवल्लभेति”। चण्डेश्वरः “जन्ममासे तु पुत्राढ्या धनाढ्या जन्मभोदये। जन्मलग्ने भवेदूढा वृद्धा सन्ततिसौख्यभागिति” एतच्चानाद्यगर्भविषयम्। “आद्यगर्भे साक्षान्निषेधाभिधानात्” पी० धा०। ज्यो० त० तु कन्याविषयमिदं न वरविषयम्। “उद्वाहश्च कन्याया जन्ममासे प्रशस्यते” इति श्रीपतिवचनात् इति समर्थितम्। अथ ज्यैष्ठादिमासे विवाहे विशेषः। “ज्येष्ठद्वन्द्वं मध्यमं संप्रदिष्टं त्रिज्येष्ठञ्चेन्नैव युक्तं कदापि। केचित्सूर्यं वह्निगं प्रोह्य चाहुर्नैवान्योन्यञ्येष्ठयोः स्याद्विवाहः” मु० चि० “पुत्रोज्येष्ठः कन्या च ज्येष्ठा मासोऽपि ज्येष्ठः इत्येतत्त्रिज्येष्ठम्। इदं ज्येष्ठत्रयमुच्यते। तत् कदापि नैव युक्तं नैव प्रशस्तम्। ज्यैष्ठे मासे ज्येष्ठवधूवरयोर्नैव विवाहःकार्य इत्यर्थः। यदात्वेकतरज्येष्ठत्वं तदा ज्येष्ठमासेऽपि भवति। यदाह गुरुः “न ज्यैष्ठे ज्येष्ठयोः कार्यं नृनार्योः पाणिपीडनम्। तयोरन्यतरे ज्येष्ठे ज्येष्ठमास्यपि कारयेत्” इति। एतच्चान्यतरज्येष्ठत्वं द्विविधं ज्येष्ठमासो ज्येष्ठोवरश्च, ज्येष्ठोमासः कन्या च ज्येष्ठा एतज्ज्येष्ठःद्वन्द्वं मध्यमं संप्रदिष्टमगतिविषयकमित्यर्थः। एकोज्येष्ठोऽन्यद्वयमज्येष्ठमुत्तममेव यदाह वराहः “द्वौ ज्येष्ठौ मध्य- मौ प्रोक्तावेक ज्येष्ठः शुभावहः। ज्येष्ठत्रयं न कुर्वीत विवाहे सर्वसम्मतमिति”। पराशरोऽपि “अज्येष्ठा कन्यका यत्र ज्येष्ठःपुत्रोवरो यदि। व्यत्ययोवा तयोस्तत्र ज्येष्ठमासः शुभप्रदः” इति। केचित्तु ज्येष्ठमासाभावेऽपि वरकन्ययोर्ज्येष्ठत्वमपि मध्यमाहुस्तदसत्। वधूवरान्यतरज्येष्ठता राहित्यं विवक्षितम्। तद्वाक्यं प्रागुक्त। किन्तु जन्ममासज्येष्ठमासयोरभावेऽपि ज्येष्ठयोर्बधूवरयोः सर्वथा निषिद्धो विवाहः। यदाह गर्गः “ज्येष्ठायाः कन्यकायाश्च ज्येष्ठपुत्रस्य वै मिथः। विवाहो नैव कर्त्तव्यो यदि स्यान्निधनं तयोरिति”। तदेतदुक्तं ग्रन्थकृता “नैवान्योन्यं ज्येष्ठयोः स्याद्विवाहः” इति। ज्येष्ठत्रयनिषेधस्त्वतिदोषाधिक्य सूचनार्थः। (अतःपरं ज्येष्ठशब्दस्य ज्यैष्ठवाचकत्वं समर्थितम्) अथास्यापवाद उच्यते केचिदिति। सत्यावश्यकत्वे सूर्यं वह्निगङ्कृत्तिकास्थं प्रोह्य त्यक्त्वा ज्यैष्ठमासेऽपि ज्येष्ठस्य वरस्य कन्याया वा विवाहः शुभः इति केचिदू चुः एत्च्च तुल्यन्याय्यत्वाज्ज्येष्ठापत्यस्य न ज्येष्ठे इति सामान्यतो मङ्गलकृत्यनिषेधेऽपि द्रष्टव्यं यदाह भरद्वाजः “ज्यैष्ठे ज्येष्ठ स्य कुर्वीत भास्करे चानलस्थिते। नोत्सवादीनि कार्य्याणि दिग्दिनानि च वर्जयेत्”। विशेषमाह स एव। “दशाहञ्चैव गर्गस्तु त्रिदशाहं वृहस्पतिः। अर्कभोग्यानग्निभतो मुनिः त्राहं पराशर” इति। तन्त्रान्तरेपि। “कृत्तिकास्थं रविन्त्यक्त्वा ज्यैष्ठे ज्येष्ठस्य कारयेत्। उत्सवादीनि कार्याणि दिनानि दश वर्जयेत्। व्रतबन्धविवाहञ्च चूडां कर्णस्य वेधनम्। ज्यैष्ठमासे न कुर्वीत कल्याणञ्ज्येष्ठपुत्रगमिति”। अत्र ज्येष्ठपुत्रदुहित्रोर्ज्येष्ठमासवन्मार्गशीर्षेऽपि मङ्गलकृत्यनिषेधमाह वात्स्यः। “मार्गशीर्षे तथा ज्यैष्ठे विवाहञ्चौलमेव च। ज्येष्ठपुत्रदुहित्रोश्च न कुर्वीत व्रतन्तथा”। भरद्वाजोऽपि “मार्गशीर्षे तथा ज्यैष्ठेक्षौरं परिणयं व्रतम्। आद्यपुत्रदुहित्रोश्च यत्नतः परिवर्जयेत्” इति। (ज्यो० त०। “आद्यगर्भभवपुत्रकन्ययोः ज्येष्ठमासि न च जातु मङ्गलम्” इत्युक्तम्) स्वयं च “ग्रन्थकर्त्रा ज्येष्ठे कैश्चिन्मार्गेऽपि नेष्यते इत्युक्तं प्राक्, कैश्चिद्ग्रहणं शिष्टाचाराभावं सूचयितुङ्कृतम्” पी० धा०। “सुतपरिणयात् षण्मासान्तः सुताकरपीडनं न च निजकुले तद्वद्वा मण्डनादपि मुण्डनम्। न च सहजयोर्देये भ्रात्रोः सहोदरकन्यके न सहजसुतोद्वाहोऽव्दार्धे शुभे न पितृक्रिया” मु० चि०। “देहलीदीपन्यायेनात्रामि निजकुल इति सम्बन्ध्यते निजकुले स्ववंशे सुतस्य परिणयाद्विवाहात् परतः सौरमासषट्कमध्ये सुतायाः कन्याया विवाहो न स्यात्। उक्तञ्च वसिष्ठेन। “पुत्रोद्वाहान्नैव पुत्र्याः कदाचिदा षण्मासात्कार्य्यमुद्वाहकर्मेति”। नारदोऽपि। “पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये। कुर्य्यान्न व्रतमुद्वाहं मङ्गलान्नापि मङ्गलमिति” (ऋतूनां सौरत्वात् सौरषण्मासवर्ज्जनमुक्तम्) अयञ्च निषेधः कुलपरोद्रष्टव्यः। यदाह वात्स्यः। “स्त्रीविवाहः कुले निर्गमः कथ्यते पुंविवाहः प्रवेशो वसिष्ठादिभिश्च। निर्गमादादितो न प्रवेशोहितस्तत्र संवत्सरान्तोऽवधिः कीर्त्तितश्च” इति। निजकुल इति। स्ववंशे पुत्रस्य कन्याया वा मण्डनाद्विवाहान्मुण्डनञ्चौलमुपनयनं महानाम्न्यादिव्रतचतुष्टयं समावर्त्तनं वा तद्वत् षण्मासान्तर्न कार्य्यम्। यदाहात्रिः “कुले ऋतुत्रयादर्वाक् मुण्डनान्न तु मुण्डनमिति”। तस्मान्मुण्डनान्मुण्डनं कार्य्यं तथा कन्याविवाहादनन्तरं पुत्रस्य विवाहः कार्य्य इत्यर्थः। यदाह नारदः। “मुण्डनान्मण्डनं कार्य्यं मण्डनान्नैव मुण्डन मिति”। वसिष्ठः “पुत्रीविवाहात् परतः सदैव शुभप्रदं पुत्रविवाहकर्मेति” नचेति, सहजयोः सोदरयोर्भ्रात्रोस्महोदरकन्यके न देये नोद्वाह्ये। उक्तं च नारदेन “नचैकजन्मनोः पुंसोरेकजन्ये तु कन्यके। नूनङ्कदाचिदुद्वाह्ये नैकदा मुण्डनद्वय मिति” “एकजन्ये तु कन्ये द्वेपुत्रयोर्नैकजन्ययोरिति” बसिष्ठोक्तेश्च। अत्र चकारोऽनुक्त समुच्चयार्थः। तेनैकस्मै वराय सहोदरकन्याद्वयमपि न देयमित्यर्थः। “न पुत्रीद्वयमेकस्मै प्रदद्यात्तु कदाचनेति” वसिष्ठोक्तेः नारदोपि। “प्रत्युद्वाहोनैव कार्य्योनैकस्मै दुहितृद्वयमिति”। प्रत्युद्वाहोविनिमयविवाहः मत्पुत्राय चेत्त्वया कन्या दीयते तदा मयापि त्वत्पुत्राय कन्या देयेत्येवं पणबन्धरूपः। (परिवर्त्त) एतादृशः पणबन्धोभगिन्यादिदानेऽपि द्रष्टव्यः। सुतश्च सुतश्च सुतौ सरूपाणामित्येकशेषः। सुता च सुता च सुते पूर्ब्बवदेकशेषः। सुता च सुतश्च सुतौपुमान् स्त्रियेत्येकशेषः। सुतौ च सुते च इति कृतैकशेषाणां न्द्वन्द्वः अत्रापि पुमान् स्त्रियेत्येकशेषः। सहजाश्च ते सुताश्चेति कर्म्मधारयः। तेषां सोदरभ्रातॄणां विवाहः अव्दार्द्धे वर्षार्द्धे सौरषण्मासमध्ये न कार्य्यः। यदाहनारदः “विवाहस्त्वेकजन्यानां षण्मासाभ्यन्तरे यदि। असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत्”। विवाह इत्युपलक्षणम्। तेन समानसंस्कार एक मातृंजयोः पुत्रयोः कन्ययोर्बा पुत्रकन्ययोर्वा न कार्य्य इत्यर्थः। तथा च वृद्धमनुः “एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः। न समानक्रियाङ्कुर्य्यान्मातृभेदे विधीयते” इति। समानक्रिया चूडाकरणादिका एकवर्षमध्ये निषिद्धेत्यर्थः। एकवत्सर इति सावकाशकालद्योतनाय। षण्मासमघ्ये तु सर्वथैव न कार्य्या। “विवाहस्त्वेकजन्यानां षण्मासाभ्यन्तरे यदीति” नारदवाक्यस्वरसात्। पराशरीऽपि “एकोदरप्रसूतानामेकस्मिन् वत्सरे यदि। पाणिग्रहोभवेन्नूनं तत्रैका विधवा भवेदिति” तुल्यन्यायत्वाद्यज्ञोपवीतसंस्कार्य्यत्वात् तयोरन्यतरस्य नाश इत्यर्थः “नैकदा मुण्डनद्वयमिति” वसिष्ठोक्तेः। एकदा एकस्मिन्वर्षे मुण्डनञ्चौलमुपनयनं वा” “पुत्रीपरिणयादूर्ध्वं यावद्दिनचतुष्टयम्। पुत्र्यन्तरस्य कुर्वीत नोद्वाहमिति सूरय इति” गर्गवाक्यन्तु भिन्न मातृविषयपूर्वोक्तपराशरवाक्यस्वरसात्। “समानापि क्रिया कार्य्या मातृभेदे तथैव च। विवाहे दुहितुः कार्य्यो न विवाहश्चतुर्द्दिनमिति” नारदोक्तेश्च। वसिष्ठेन तु विशेषोऽभिहितः। “एकोदरप्रसूतानां नात्र कार्य्यत्रयं भवेत्। भिन्नोदरप्रसूतानां नेति शातातपोऽब्रवीदिति”। चौलोपनयनविवाहरूपं कार्यत्रयम्। तदुक्तं च्यवनेन। “आदौ चौलं ततो मौञ्जी विवाहश्च शुभप्रदः। मातृभेदे बुधैरुक्तो मातुरैक्ये न कर्हिचिदिति”। एवं स्थिते भिन्नोदरमङ्गलं सत्यावश्यकत्वे एकस्मिन् मण्डपे न कार्य्यम्। किञ्च गृहभेदादाचार्य्यभेदाद्वा कार्य्यं यदाह वसिष्ठः। “द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैश्च। आवश्यकं शोभनमुत्सवो वा द्वारेऽथवाचार्य्यविभेदतोऽपि” इति! द्वारे द्वारभेदे।

यमलजातयोस्त्वपत्ययोर्नियतकालानां जातकर्मादिकर्मणामेकक्रियानिषेधाभावो वर्षभेदेन तदसम्भवात्। अतो यमलजातयोरुक्तनिषेधो नास्ति। “एकस्मिन् वत्सरे प्राप्ते कुर्याद्यमलजातयोः। क्षौरञ्चैव विवाहञ्च मौञ्जीबन्धनमेव चेति” पराशरोक्तेः। क्षौरञ्चौलम्। भट्टकारिकायां च “एकस्मिन् वत्सरे चैव वासरे मण्डपे तथा। कर्त्तव्यं मङ्गलं स्वस्रोर्भ्रात्रोर्यमलजातयोरिति”। तत्रापि ज्येष्ठानुक्रमेण। “जन्मज्येष्ठेन चाह्वानं सुब्राह्मण्यास्वपि स्मृतम्। यमयोश्चैव गर्भेषु जन्मतोज्येष्ठता मतेति” मनूक्तेराद्योत्पन्नस्य ज्येष्ठत्वम्। “यस्य जातस्य यमयोः पश्यति प्रथमं मुखम्। सन्तानः प्रथमश्चैव तस्मिन् ज्यैष्ठ्यं प्रतिष्ठितमिति”। सन्तानोवंशः। शुभे इति शुभे विवाहादिमङ्गलकृत्ये पितृ- क्रिया श्राद्धक्रिया न कार्य्या विशेषेणानभिधानात् कुलेऽयंनिषेधः मङ्गले नाप्यमङ्गलमिति” नारदोक्तेः। अमङ्गलं श्राद्धम्। तु किन्तु समाप्ते एव मङ्गले कार्य्यमित्यर्थः। अथवा श्राद्धदिने समीपस्थिते तदनन्तरं लग्नमवधार्य्य विवाहादिमङ्गलं कृत्यं कार्य्यमित्यर्थः” पी० धा०। “बध्वा वरस्यापि कुले त्रिपूरुषे नाशं व्रजेत्कश्चन निश्चयोत्तरम्। मासोत्तरं तत्र विवाह इष्यते शान्त्याऽथ वा सूतकनिर्गमे परैः” मु० चि० “निश्चयोत्तरं वाग्दानानन्तरं यदि बघ्वाः कन्यायास्तथा वरस्यापि कुले वंशे तत्रापि त्रिपूरुषमध्येकश्चन सपिण्डोनाशं व्रजेत् प्राप्नुयात् तत्र मासोत्तरं मरणदिनादारभ्य त्रिंशद्दिनं प्रतिकूलं ततः शान्त्या स्वनुष्ठितया विवाहः सुखेनेष्यते। उक्तञ्च स्मृतिचन्द्रिकायाम्। “कृते वाङ्रिश्चये पश्चान्मृत्युर्भवति गोत्रिणः। तदा न मङ्गलं कार्य्यं नारीवैधव्यदं ध्रुवमिति”। विशेषमाह मेधातिथिः। “पुरुषत्रयपर्य्यंन्तं प्रतिकूलं सगोत्रिणांम्। प्रवेशनिर्गमौ तद्वत् तथा मुण्डनमण्डने”। इदं तु पित्रादिभिन्नविषयं यथोक्तं माण्डव्येन “अन्येषां तु सपिण्डानामाशौचं माससम्मितम्। तदन्ते शान्तिकं कृत्वा ततोलग्नं विधोयते” इति। पित्रादिमरणे तु विशेषमाह शौनकः। “वरबध्वोः पिता माता पितृव्यश्च सहोदरः। एतेषां प्रतिकूलञ्च महाविघ्नप्रदं भवेत्। पिता पितामहश्चैव माता वापि पितामही। पितृव्यः स्त्रीसुतोभ्राता भगिनी वा विवाहिता। एभिरेव विपन्नैश्च प्रतिकूलं बुधैः स्मृतमिति। अन्यैरपि विपन्नैश्च केचिदूचुर्न तद्भवेत्”। अन्यैः उक्तेभ्योऽन्यैः। प्रतिकूलस्य नियतं कालमाहमाण्डव्यः “वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः। तदा संवत्सरादूर्द्ध्वं विवाहः शुभदो भवेत्। पितुराशौचमव्दं स्यात् तदर्द्धं मातुरेव हि। मासत्रयञ्च भार्य्यायास्तदर्द्धं भ्रातृपुत्रयोः”। दैवज्ञमनोहरे विशेषः “प्रतिकूले सपिण्डस्य मासमेकं विवर्ज्जयेत्। विवाहस्तु ततः पश्चात् तयोरेव विधीयते। दुर्भिक्षे राष्ट्रभङ्गे च पित्रोर्वा प्राणसंशये। प्रौढायामपि कन्यायां प्रतिकूलं न दुष्यतीति” मेधातिथिः। “दीर्घरीगाभिभूतस्य दूरदेशस्थितस्य च। उदासवर्त्तिनश्चैव प्रतिकूलं न विद्यते। सङ्कटे समनुप्राप्ते याज्ञवल्केन योगिना। शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत्। अकृत्वा शान्तिकं यस्तु निषेधे सति दारुणे। यः करोति शुभं तावद्विघ्नं तस्य पदेपदे” इति। अथावश्यकत्वेऽपवादमाहाथवेति। “स्वस्ववर्णपुरस्कारेणाशौचनि- र्गमे मरणाशौचनिर्गमे सति शान्त्या च स्वनुष्ठितया विवाहः कार्य्य इति परैराचार्य्यैरिष्यते। यदाह मेधातिथिः। “प्रेतकार्य्याण्यनिर्वर्त्य चरेन्नाभ्युदयक्रियामिति” ज्योतिःप्रकाशेऽपि। “प्रतिकूलेऽपि कर्त्तव्योविवाहोमासमन्ततरा। शान्तिं विधाय गां दत्त्वा वाग्दानादि चरेद्बुधः” इति। सत्यावश्यकत्व स्वस्वाशौचादनन्तरं मासमध्येऽपि शान्तिं विधाय विवाहः कार्य्य इत्यर्थः पी० धा० “चूडा व्रतञ्चापि विवाहतोव्रताच्चूडा नेष्टा पुरुषत्रयान्तरे। बधूप्रवेशाच्च सुताविनिर्गमः षण्मासतोवाऽव्दबिभेदतः शुमः मु० चि० “चूडा चौलं व्रतमुपनयनञ्च अपिशब्दान् महानाम्न्यादिसमावर्त्तनञ्च विवाहात् परतः पुरुषत्रयान्तरएव नेष्टम्। तथा व्रतादुपनयनाच्चूडा पुरुषत्रयपर्य्यन्तं नेष्टा। तथा बध्वाः स्रुषायाः कन्यायाः विनिर्गमोऽपि पुरुषत्रयपर्य्यन्ते नेष्टः एतन्मूलवाक्यं “पुरुषत्रयपर्य्यन्तमित्यादि” “आदौ चौलं ततो मौञ्चीत्यादि” च प्राग्लिखितम्। तस्मान्मूलपुरुषस्य चतुर्थादौ नायं दोषः। स चायं दोषः पुरुषत्रये षण्मासपर्य्यन्तमेव अतः षण्मासत इति मासषट्कानन्तरमयं व्यत्यस्तोऽपि बिवा हादिः सर्वोविधिः शुभः। एतन्मूलवाक्यम् “कुले ऋतुत्रयदर्वाक्” इत्यादि प्रागुक्तम्। अत्रापवाद उच्यते वेति अथवाऽव्दभेदात् वर्षभेदात् षण्मासमध्येऽपि शुभः। यथा माघे मासि विवाहो वैशाखे चौलं यज्ञोपवीतं वा भवत्येवेत्यर्थः। तदुक्तं संहितासारावल्याम् “फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने। भेदादव्दस्य कुर्वीत नर्त्तुत्रयविलङ्घनमिति” अत्र फाल्गुनपदं प्रागव्दगतमासान्तरस्याप्युपलक्षणं चैत्रपदं चोत्तरवर्षगतवैशाखा द्युपलक्षणं तत्र कैमुतिकन्यायेन यत्र खल्पङ्कालान्तरं तत्रापि निषेधाभावस्ततोऽधिकव्यवधाने किं वाच्यम्, अव्दभेदस्यव प्रयोजकत्वात्” पी० धा०। अथ प्रसङ्गान्मूलादि षूत्पन्नयोर्बधूवरयोः श्वशुरादिपीडकत्वमाह “श्वश्रूविनाशमहिजौ सुतरां बिधत्तः कन्यासुतौ निरृतिजौश्वशुरं हतश्च। ज्येष्ठाभजाततनया स्वधवाग्रजञ्च शक्राग्निजा भवति देवरनाशकर्त्री” मु० चि०। “अहिजावाश्लेषोत्पन्नौ कन्यासुतौ श्वश्र्वाः साक्षाद्भर्त्तुर्मातुर्विनाशं विधत्तः कुरुतः तथा निरृतिजौ मूलोत्पन्नौ कन्यासुतौ श्वशुरं हतोमारयतः। उक्तञ्च वसिष्ठेन “नैरृत्यभोद्भूतसुतः सुता वा माक्षादवश्यं श्वशुरं निहन्ति। तदन्त्यपादे जनितो निहन्ति नैवोत्क्रमेणाहिभवः कलत्रमिति” अहिभव इति पुंस्त्वमविवक्षितम्। सुतः सुता वेति पूर्व्वोंक्तेः “मूलजा श्वशुरं हन्ति व्यालजा च तदङ्गनामिति” नारदोक्तेश्च तस्य श्वशुरस्याङ्गनां पत्नीम्। वरस्य कन्याया वा साक्षान्मातरं न तु सापत्नमातरं हन्तीत्यर्थः। तदेव स्पष्टमुक्तं वसिष्ठेन। “जनकं जननीं हन्ति भर्त्तुर्मूलाहिधिष्ण्यजा”। तुल्यन्यायत्वात् कन्याया अपि साक्षान्मातरम्। ज्येष्ठेति ज्येष्ठानक्षत्रोत्पन्नकन्या स्वधवाग्रजं भर्त्तुर्ज्येष्ठभ्रातरं हन्ति। शकाग्निजा विशाखानक्षत्रोत्पन्नकन्या देवरस्य भर्त्तुः कनिष्ठबन्धोर्नाशकर्त्री भवति”। यदाह वसिष्ठः। “सुरेशताराजनिता धवाग्रजं द्विदैवताराजनिता तु देवरमिति”। हन्तीत्यनुवर्त्तते। नारदोऽपि। “ऐन्द्री पत्यग्रजं हन्ति देवरन्तु द्विदैवजेति” पी० धा० अत्र विशेषः “द्वीशाद्यपादत्रयजा कन्या देवरसौख्यदा। मूलान्त्यपादसार्पाद्यपादजातौ तयोः शुभौ”। मु० चि० “द्वीशं विशाखा। यदाह च्यवनः। “विशाखा तुलयायुक्ता देवरस्य शुभावहा। विशाखा वृश्चिकोद्भूता देवरं हन्त्यसंशयमिति”। वृद्धनारदोऽपि “न हन्ति देवरं कन्या तुलामिश्रद्विदैवजा। चतुर्थपादजा त्याज्या दुष्टा वृश्चिकपुच्छवत्”। तस्माद्विशाखाचतुर्थपादे निषेधः फलित” इत्यर्थंः। मूलेति। तयोः श्वशुरश्वश्र्वोः मूलचतुर्थचरणोत्पन्नौ तौ कन्यासुतौ श्वशुरसौख्यदौ। आश्लेषाद्यचरणोत्पन्नौ कन्यासुतौ तयोः सौख्यदौ तदुक्तं नारदेन। “सुतः सुता वा नियतं श्वशुरं हन्ति मूलजः। तदन्त्यपादजोनैव तथाऽश्लेषाद्यपादजः” अत्र पुंस्त्वमविवक्षितं हेतुः स एव” पी० धा०। इति बधूवरयोः सामान्यतोगुणदोषविचारः

अथ बधूवरयोर्मेलकम्। तत्र कूटान्यनेकविधानि तत्र केचिद्दश कूटान्याहुः। तदाह नारदः। “दिनं गणञ्च माहेन्द्रं स्त्रीदीर्घं योनिरेव च। राशिराश्यधिपौ रज्जु र्वश्यं वेधो दश स्मृताः”। “पुनश्च वर्णकूटञ्च माहेन्द्रं वा ततः परम्। एते द्वादश योगाश्च प्रीतिभेदाः प्रकीर्त्तिताः”। अन्येऽष्टादशकूटान्याहुः। यदाह गर्गः “माहेन्द्रं गणकूटञ्च दिनकूटञ्च योनिजम्। स्त्रीदीर्घं रज्जुकूटञ्च वश्यं वर्णाख्यकूटकम्। राशिराश्यधिपाख्ये च वेधौ नाड्याख्यकूटकम्। भूतलिङ्गाख्यकूटञ्च जात्याख्यं पक्षिकूटकम्। योगिनीगोत्रकूटन्तु कूटात्यष्टादशैव तु। दम्पत्योर्वृद्धिकारीणि यत्नाच्चिन्त्यानि शास्त्रतः” इति। तत्र दशादिकूटानां तत्तद्देशविशेषप्रसिद्धत्वात् तानि विहाय सर्वदेशप्रसिद्धान्यष्टकूटानि सलक्षणानि आह पी० धा०

“वर्णोवश्यं तथा तारा योनिश्च ग्रहमैत्रकम्। गणमैत्रम्भकूटञ्च नाडी चैते गुणाधिकाः” मु० चि०।

“एते राशिकूटभेदवर्णादिमैत्र्यां सत्यां गुणाधिका एकादिगुणाधिकाःस्युः। वर्णमैत्र्यामेकगुणः, वश्ये द्वौ गुणौ, तारायां त्रयोगुणाः, यीनिमैत्र्यां चत्वारः, ग्रहमैत्र्यां पञ्च, गणमैत्र्यां षट्, सद्भकूटे सप्त, नाडीभेदेऽष्टौ इत्यर्थः। तदुक्तम् “वर्णोवश्यं तारा योनिग्रहभकूटनाडिकाश्चेति। ज्ञेया यथोत्तरं ते बलिनः स्त्रीपुंसयोर्घटन” इति। दैवज्ञमनोहरेऽपि। “नाडीमेदे गुणा अष्टाउ सप्त सद्राशिकूटके। षट्गुणा गणमैत्र्याञ्च सौहार्दे पञ्चकं तयोः। योनिमैत्र्याञ्च चत्वारस्त्रयस्ताराबले गुणाः। वश्यत्वे द्वौ गुणौ प्रोक्तौ वर्णएकः प्रकीर्त्तितः इति” पी० धा०। तत्रादौ वर्णकूटमाह

“द्विजाझषालिकर्कटास्ततो नृपा विशोऽङिघ्रजाः। वरस्य वर्णतोऽधिका बधूर्न शस्यते बुधैः” मु० चि०।

“मीनवृश्चैककर्कराशयोद्विजाः ब्राह्मणाः। ततीऽनन्तरमन्ये मेषसिंहधनूराशयोनृपाः क्षत्रियाः। वृषकन्यामकराविशो वैश्याः। मिथुनतुलाकुम्भा अङ्ध्रिजाः शूद्राः। ततश्च वधूवरराश्योर्वर्णौ ज्ञात्वा वरस्य वर्णतः ब्राह्मणादिकाद्बधूरधिका ज्येष्ठवर्णा बुधैर्न शस्यते। किन्तु समा होना वा शस्यत इत्यर्थः। यदाह नारदः। “झषालिकर्कटाविप्रास्तदूर्ध्वाः क्षत्रियादयः। पुंवर्णराशेः स्त्रीराशौ समेहीने तथा शुभम्। वर्णज्येष्ठा तु या नारी वर्णहीनः स्तु यः पुमान्। विवाहं यदि कुर्वीत तस्या भर्त्ता विनश्यति”। अत्रैको गुणो वर्णाधिके वरे वर्णसमे वा वर्णहीने तु गुणाभावः तदुक्तं दैवज्ञमनोहरे। “एकोगुणः सदृग्वर्णे तथा वर्णोत्तमे वरे। हीनवर्णे वरे शून्यं केऽप्याहुः सदृशे दलमिति। दलमर्द्धम्। पी० धा०। अथ वश्यकूटम्। “हित्वा मृगेन्द्रं नरराशिवश्याः सर्वे तथैषां जलजाश्चभक्ष्याः। सर्वेऽपि सिंहस्य वशे विनालिं ज्ञेयं नराणां व्यहारतोऽन्यत्” मु० चि०। “नरराशयो मिथुनकन्या तुलाः एषां सर्वेऽपि मेषादयः सिंहं त्यक्त्वा वश्याः ननु मनुष्याणां जलचराः कथं वश्याः यत उभयोः सहावस्थानाभाव इत्यत आह तथेति। एषां नरराशीनां जलजाः कर्कमकरकुम्भमीनास्तु भक्ष्याः किं पुनर्वश्या इति सूचयितुं तुशब्दः। सिंहस्य वशे अलिं वृश्चिकं विना सर्वे राशयोवश्याः अन्यदनुक्तं चतुष्पदानां स्थलचराणां चतुःपदजलचराणां वा परस्परं वश्यावश्यं, नराणां मनुष्याणां व्यवहारतो ज्ञेयं यदाह वसिष्ठः “वश्यास्त्यक्त्वा राशयोऽन्ये नृभानां सिंहन्तस्याऽप्येवमन्ये विधेयाः। कीटन्त्यक्त्वा लोकतोन्यत्प्रसिद्धम् वश्यावश्यं नैव तोयालयाल्योः” तोयालया जलचराः अलिश्च ते परस्परं वश्या नैव स्युरित्यर्थः। अत्र गुणविभागो दैवज्ञम० “सख्यं वैरं च भक्ष्यं च वश्यमाहुस्त्रिधा बुधाः। वैरे भक्ष्ये गुणाभावोद्वयोः सख्ये गुणद्वयम्। वश्यवैरे गुणस्त्वेको वश्यभक्ष्ये गुणोऽर्द्धक इति” यद्यपीदं बधूवरयोः परस्परं तुल्यमेवोक्तं तथापि सत्यावश्यकत्वे वरं प्रति भक्ष्यत्वं वश्यत्वंवा स्त्रियोऽपेक्ष्यं न तु विपरीतं “वर्णज्येष्ठा तु या नारीत्यनेन” समानन्यायत्वात् “अन्योन्यवश्यत्वे तूत्तममेव” पी० धा०। अथ ताराकूटम्।

“कन्यर्क्षाद्वरभं यावत् कन्याभं वरभादपि। गणयेन्नवहृच्छेषे त्रीष्वद्रिभमसत् स्मृतम्” मु० चि० “कन्याजन्मनक्षत्रात् वरनक्षत्रं यावद्गणयेत्तथा वरनक्षत्रादपि कन्यानक्षत्रं गणयेत्ततोऽवगतेऽङ्के नवभिर्भक्ते यदवशिष्टं तच्चेत् त्रिपञ्चसप्तमितम्भवेत्तदाऽसत् अशुभदं स्मृतमन्यथा द्विचतुःषडष्टनवमितञ्चेत्स्यात्तदा शुभमित्यर्थादुक्तम्भवति यदाह नारदः “स्त्रीभमारभ्य गणने नवपर्य्यायतः क्रमात्। जन्मत्रिपञ्चसप्तस्थम्पुम्भं स्याद्वरनाशनम्। पुम्भमारभ्य गणने स्त्रीभञ्जन्मादिके स्थले। स्त्रीविनाशो भवेत्तस्माद्दिनकूटं विवर्जयेत्” दिनकूटं ताराकूटम्। शार्ङ्गीयेऽपि “नरर्क्षाद्गणयेद्यावत्कन्यर्क्षङ्कान्यभादपि। वरभं न वहृच्छेषास्ताराः सन्ति परस्परम्। त्यक्त्वा त्रिपञ्चसप्ताख्याः शेषोद्वाहे मिथः शुभाः” इति यत्तु कश्यपेन” “गणयेत्कन्यकाधिष्ण्यादावृत्त्या वरजन्मभम्। जन्मत्रिपञ्चसप्तर्क्षं हित्वाऽन्यर्क्षं शुभप्रदमिति”। कन्यानक्षत्रादेव गणनोक्ता। अत एव “भीरुभादचलपञ्चतृतीयाः शोकवैरविपदेव च तारा” इति केशवार्केणाप्युक्ता सा त्वावश्यकद्योतनार्था। तथाहि। द्वयोरपि परस्परनक्षत्रगणने शुभञ्चेच्छुभमेवाशुभञ्चेदशुभमेव तत्रैकस्मादन्यतरनक्षत्रगणनयाऽशुभत्वेऽपि स्त्रीनक्षत्राद्वरनक्षत्रं त्वशुभं नापेक्षितव्यमेवेति भावः। अत्र गुणविभागो दैवज्ञम०। “एकतोलभ्यते तारा शुभाचैवाशुभाऽन्यतः। तदा सार्द्धो गुणश्चैव ताराशुद्ध्या मिथ स्त्रयः। उभयोर्न शुभा तारा तदा शून्यं समादिशेदिति” अत्र यद्यपि नारदादिभिर्जन्मतारा निषिद्धेत्युक्तम्। तद्ग्रन्थकृता एकनक्षत्रे तावत् “राश्यैक्ये चेद्भिन्नमृक्षन्द्वयोः स्यान्नक्षत्रैक्ये राशियुग्मन्तथैवेति” वक्ष्यमाणत्वान्नोक्तम्। दशमैकोनविंशतितारयोस्तु निषेधो दुष्टभकूटे ज्ञेयः। सद्भकूटे तु दोषाभावएव”। पी० धा० योनिकूटमाह “अश्विन्यम्बु पयोर्हयोनिगदितः स्वात्त्यर्कयोः कासरः, सिंहोवस्वजपाद्भयोः समुदितोयाम्यान्त्ययोः कुञ्जरः। मेषोदेवपुरोहितानलभयोः कर्णाम्बुनोर्वानरः, स्याद्वैश्वाभिजितोस्तथैव नकुलश्चान्द्राब्जयोन्योरहिः। ज्येष्ठामेत्रभयोः कुरङ्ग उदितो मूलार्द्रयोःश्वा तथा, मार्जारोऽदितिसार्पयोरथ मघायोन्योस्तथैवोन्दुरुः। व्याघ्नोद्वीशभचित्रयोरपि च गौरार्य्यम्णबुध्न्यर्क्षयोर्योनिः पादगयोः परस्परमहावैरं भयोन्योस्त्यजेत्” मु० चि० “अश्विनीशततारयोर्हयः अश्वयोनिरुक्तः १ स्वातीहस्तयोः कासारोमहिषः २। वस्वजपाद्भयोर्धनिष्ठापूर्ब्बाभाद्रपदयोः सिंहः ३। याम्यान्त्ययोर्भरणीरेवत्योः कुञ्जरोहस्ती ४। पुष्यकृत्तिकयोः मेषः ५ कर्णाम्बुनोः श्रवणपूर्ब्बाषाढयोर्वानरःस्यात् ६। उत्तराषाढाभिजितोर्नकुलः ७। चान्द्रं मृगः अब्जयोनिर्व्रह्मा तद्भं रोहिणी तयोरहिः सर्पः ८। ज्येष्ठानुराधयोः कुरङ्गो हरिणौदितः९। मूलार्द्रयोःश्वा कुक्कुरः१०। तथा पुनर्वस्वश्लेषयोर्मार्जारः११। मघापूर्ब्बाफल्गुन्योरुन्दुरुर्मूषिकः१२। द्वीशं विशाखा चित्रा तयोर्व्याघ्रः१३। आर्यम्णम् उत्तरफल्गुनी बुध्न्यर्क्षमुत्तरभाद्रपदा तयोर्गौः १४। तत्फलमाह पादगयोरिति। एकस्मिन् पादे श्लोकचरणे उक्तनक्षत्रयोन्योः परस्परं महावैरंभवेदन्यथा नेत्यर्थः। यथा। “अश्विन्यम्बुपयोर्हयोनिगदितः स्वात्यर्कयोः कासरः” इतिपादस्तत्रोक्तयोन्योरश्वमहिषयोर्महावैरं भवेत्। एवं सिंहहस्तिनोरित्यादिष्वपि द्रष्टव्यम्। यदाह वसिष्ठः। “अश्वेभमेषभुजगद्वयकुक्कुरौतुमेषौतुमूषकमथोन्दुरुगोलुलापाः। शार्दूलमाहिषगवारिमृगद्वयं श्वा कीशोऽथ बभ्रुयुगकीशगवाश्वसिंहाः। गौःकुञ्जराविति यथाक्रममाश्विनादिभानाम्भवन्ति खलुकल्पितयोनिरूपाः”। लुलापी महिषः, गवारिर्व्याघ्रः कीशोवानरः बभ्रुर्नवुलः। “बभ्रूरगं श्वैणमिभेन्द्रसिंहमोत्वाखुसंज्ञन्त्वजवानरौ च। गोव्याघ्रमश्वोत्तरमाहिषञ्च वैरं नृनार्योर्नृपभृत्ययोश्चेति” एतत्फलं सापवादमाहात्रिः। “एकयोनिषु सम्पर्त्त्यै दम्पत्योः सङ्गमः सदा। भिन्नयोनिमु मध्यःस्यादरिभावो न चेत्तयोः। योनेरभावे नोद्वाहः स तु कार्य्यो वियोगदः। राशिर्वश्यञ्च यद्यस्ति कारयेन्न तु दोषभाक्”। अत्र गुणविभागोदैपज्ञम० “अष्टाविंशतिताराणां योनयस्तु चतुर्दश। मैत्रं चैवातिमैत्रञ्च विवाहे नरयोषितोः। महावैरे च वैरे च स्वभावे च यथाक्रमम्। मैत्रे चैवातिमैत्रे च खेन्दुद्वित्रिचतुर्गुणाः” पी० धा०। अथ ग्रहमैत्री “मित्राणि द्युमणेः कुजेज्यशशिनः शुक्रार्कजौ वैरिणौ, सौम्यश्चास्य समो, विधोर्बुधरवी मित्रे, न चास्य द्विषत्। शेषाश्चास्य समाः, कुजस्य सुहृदश्चन्द्रेज्यसूर्य्या, बुधः शत्रुः, शुक्रशनी समौ च, भृत्सुनोः सिताहस्करौ। मित्रे, चास्य रिपुः शशी, शानक्ष्माजाः समा, गीष्पतेर्मित्राण्यर्ककुजेन्दवोबुधसितौ शत्रू, समः सूर्य्यजः। मित्रेसौम्यशनी, कवेःशशिरवी शत्रू, कुजेज्यौ समौ। मित्रे शुक्रबुधौ, शनेः शशिरविक्ष्माजा द्विषोऽऽन्यः समः” मु० चि०

एत्फलं सापवादमाह जगन्मोहने वसिष्ठः “अन्योन्यमित्रं शस्तं स्यात् सममित्रं तु मध्यमम्। उदासीनं कनिष्ठं स्यान्मृतिदं शात्रवं स्मृतम्। शत्रुमित्रञ्च विज्ञेयं दम्पत्योः कलहप्रदम् अन्योन्यसमशत्रुत्वं दम्पत्योर्विरहप्रदम्” अस्यापवादस्तत्रैव “राशिनाथे विरुद्धेऽपि सबलावंशकाधिपौ, तन्मैत्रैऽपि च कर्त्तव्यं दम्पत्योः शुभमिच्छता। अत्र गुणभेदो दैवज्ञम०। “ग्रहमैत्र्यं सप्तविधं गुणाः पञ्च प्रकीर्त्तिताः। तत्रैकाधिपतित्वे च मित्रत्वे गुणपञ्चकम्। चत्वारः सममित्रत्वे द्वयोः साम्येत्रयी गुणाः। मित्रवैरे गुणश्चैकः समवैरे गुणार्द्धकम्। परस्परखेटवैरे गुणशून्यं विनिर्द्दिशेद्। असद्भे सममित्रादौ व्येका ग्राह्या यथोदिताः” पी० धा०। अथ गणकूटम्। “रक्षोनरामरगणाः क्रमतोमघाहिवस्विन्द्रमूलवरुणानलतक्षराधाः। पूर्वोत्तरात्रयविधातृयमेशभानि मैत्रादितीन्दुहरिपौष्णमरुल्लघूनि” मु० चि०।

“क्रमतः रक्षोनरामरगणाः वाक्यत्रयेणोच्यन्ते। मघा प्रसिद्धा अहिरश्लेषा वसुर्धनिष्ठा इन्द्रोज्येष्ठा मूलं प्रसिद्धं वरुणः शततारका अनलः कृत्तिका तक्षा चित्रा राधा विशाखा एतानि भानि रक्षोगणः। पूर्वात्रयम् उत्तरात्रयं चेत्येवं षड्भानि विधाता रोहिणी यमोभरणी ईशः आर्द्रा एतानि भानि नरगणोमनुष्यगणः। मैत्रमनुराधा अदितिः पुनर्वसुः इन्दुर्मृगः हरिः श्रवणः पौष्णं रेवती मरुत् स्वातिः लघूनि अश्विनीहस्तपुष्याणि एतानि भान्यमरगणो देवगुण इति। यदाह नारदः। “रक्षोगणः पितृत्वाष्ट्रद्विदैवत्येन्द्रतारकाः। वसुवारीशमूलाहिकृत्तिकाभिर्युतास्ततः। तिस्रः पूर्वोत्तराधातृयममाहेशतारकाः। इति मर्त्यगणोज्ञेयः स्याद- मर्त्यगणः परे। हयादित्यार्कवाय्वन्त्यमित्राश्वीज्येन्दुतारकाः” पी० धा०। फलमाह। “निजनिजगणमध्ये प्रीतिरत्युतमा स्यादमरमनुजयोः सा मध्यमा संप्रदिष्टा। असुरमनुजयोश्चेन्मृत्युरेव प्रदिष्टो दनुजविबुधयों स्याद्वैरमेकान्ततोऽत्र” मु० चि०। “असुरमनुजयोः राक्षसमनुष्यगणयोः स्त्रीपुंसयोः मृत्युरेव प्रदिष्ट उक्तः द्वयोर्वान्यतरस्य वेत्याकाङ्क्षायां प्रबलेन दुर्बलं बाध्यते इति न्यायेन मनुष्यगणस्यैव नाशः, यदाह नारदः। “दम्पत्योर्जन्मभे चैकगणे प्रीतिरनेकधा। मध्यमा देवमर्त्यानां रक्षोनॄणां तयोर्मृतिः” कश्यपः “स्वगणे चीत्तमा प्रीतिर्मध्यमाऽमरमर्त्ययोः। मर्त्यराक्षसयोर्वैरमसुरासुरयोरपीति” अयमर्थः पुरुषोरक्षोगणः स्त्री मनुष्यगणा तदा वैरं, यदि वैपरीत्यन्तदा मृत्युः। तथा पुरुषोरक्षोगणः स्त्री देवगणा तदा वैर वैपरीत्ये मृतिः। उक्तं च। “राक्षसी यदि वा नारी नरो भवति मानुषः। मृत्युस्तत्र न सन्देहो विपरीतः शुभावहः”। शार्ङ्गीये। “रक्षोगणः पुमान् स्याच्चेत्कन्या भवति मानवी। केऽपीच्छन्ति तदोद्वाहं व्यस्तङ्कोऽपीह नेच्छतीति”। एतत्तुल्यन्यायत्वाद्देवराक्षसयोरपि द्रष्टव्यम्। अत्र गुणविभागो दैवज्ञम०। “षड्गुणा गणसादृश्ये पञ्च स्युः सुरमानुषे। नार्या देवोनरः पुंसश्चत्वारोवा गुणास्त्रयः। देवराक्षसयोः शून्यं तथैव नररक्षसोः। पुंसी रक्षोगणो यत्र नार्यादेवोऽथ वा नरः। गुणौ द्वौ क्रमतश्चैको गुणोग्राह्योऽन्यथा न हीति”। अस्यापवादमाह गर्गः। “ग्रहमैत्री च राशीशोर्विद्यते नियतं यदि। न गणाभाव जनितं दूषणं स्याद्विरोधनम्”। अत्रिरपि। “राशीशयोः सुहृद्भावे मित्रत्वे वांशनाथयोः। गणादिदौष्ट्येऽप्युद्वाहः पुत्रपौत्रप्रवर्द्धनः”। अमुं परिहारं ग्रन्थकृदप्यग्रे वक्ष्यति। मनुरपि। “ग्रहमैत्री च रज्जुश्च यदि नाडी पृथक् तयोः। विवाहः शुभदः कन्या राक्षसी वा नरोनरः” इति पी० धा०। रज्जुकूटमन्यत्र दृश्यम्। अथ भकूटम् “मृत्युः षट्काष्टके ज्ञेयोऽपत्यहानिर्नवात्मजे। द्विद्वादशे निधनत्वं द्वयोरन्यत्र सौख्यकृत्” मु० चि०। “स्त्रीपुंमराश्योः परस्परं षष्ठाष्टमराशित्वे सति मृत्युर्ज्ञेयः। यथा मेषकन्ययोः वृषधनुषोः। एवं नवात्मजे नवपञ्चमेऽपत्यानां बालानां हानिर्नाशः स्यात्। यथा सिंहधनुषोः एवं द्विद्वादशे सति निर्द्धनत्वं दारिद्र्यं स्यात्। यथा मेषदृषयोः अन्यत्र तृतीयैकादशे चतुर्थदशमे समसप्तमे वा सति सौख्यकृत्पाणिपीडनं स्यात्। यदाह नारदः “षट्काष्टके मृतिर्नन्दनवमे त्वनपत्यता। नैख्यं द्विद्वादशेऽन्येषु दम्पत्योः प्रीतिरुत्तमेति”। अत्र विशेषोज्योतिःप्रकाशे। “पुंसो गृहात् सुतगृहे सुतहा च कन्या धर्मे स्थिता धनवती पतिवल्लभा च। द्विद्वादशे धनगृहे धनहा च कन्या रिप्फै स्थिता धनवती पतिवल्लभा चेति”। अन्यच्च। “मृगः कुलीरेण घटेन सिंहोवैरप्रदः स्यात् समसप्तकोयम्। तुला मृगेणाथ वृषेण सिंहो मेषेण कर्कोमिथुनेन मीनः। चापेन कन्या धटभेन चालिर्दौर्भाग्यदैन्ये दशतुर्यकेऽस्मिनिति” पी० धा० अत्रापवादः “प्रोक्ते दुष्टभकूटके परिणयस्त्वेकाधिपत्ये शुभोऽथो राशीश्वरसौहृदेऽपि गदितो नाड्यृक्षशुद्धिर्यदि। अन्यर्क्षेऽंशपयोर्बलित्वसखिते नाड्यृक्षशुद्धौ तथा ताराशुद्धिवशेन राशिवशताभावे निरुक्तो बुधैः” मु० चि०। “प्रोक्ते दुष्टराशिकूटे सत्यपि द्वयोःस्त्रीपुरुषराश्योरेका धिपत्ये एकस्वामित्वे परिणयो विवाहः शुभोगदितः। यथा षट्काष्टके मेषवृश्चिकयोस्तुलावृषयोर्वा। नवमपञ्चमे त्वेकाधिपत्याभावः। द्विद्वादशे मकरकुम्भयोः। अथ वा राशीश्वरयोः राशिस्वामिनोः सौहृदे मैत्र्ये परिणयः शुभोगदितः। यथा षट्काष्टके मीनसिंहयोरित्यादौ, नवपञ्चमे मेषधनुषोरित्यादौ। द्विद्वादशे मीनमेषयोरित्यादौ। यदाह वसिष्ठः “द्विद्वादशे वा नवपञ्चमे वा षट्काष्टके राक्षसयोषितोर्वा। एकाधिपत्ये भवनेशमैत्र्ये शुभाय पाणिग्रहणं विधेयमिति” राजमा० “भवेत्त्रिकोणे बहुपुत्रवित्तं द्विद्वादशे चार्थमुपैति कन्या। षट्काष्टके सौख्यफलं विधत्ते स्त्रीणां विवाहे ग्रहमैत्रीभावे” इति एकाधिपत्येपीति शेषः। अतएव ग्रहमैत्र्यैकाधिपत्याभावे वैरषट्काष्टकमित्यादि वदन्ति। यदाह ना रदः “वैरषट्काष्टकं मेषकन्ययोर्धटमीनयोः। चापोक्षयोर्नृयुक् कीटभयोः कुम्भकुलीरयोः। पञ्चास्यमृगयोर्जन्मराशेः प्रोक्तोऽशुभप्रदः” इति। उक्षा वृषः चापोक्षयोरिरित्यकोरान्तनिर्देशच्छान्दसः। एतद्भिन्नं मित्रषट्काष्टक मित्याहुः। तदुक्तं जगन्मोहने “मित्रषट्काष्टकं कीटमेषयोर्वृषजूकयोः। कर्किचापभयोर्मीनसिंहयोर्मृगयुग्मयोः। कन्यकाकुम्भयोरन्यत् प्रयत्नादेव वर्जयेदिति”। एवञ्च ग्रहमैत्र्यभावे वैरनवपञ्चममित्याहुः। तथा च शार्ङ्गधरीयेशुक्रः। “मीनालिभ्यां युते कीटे कुम्भे मिथुनसंयुते। मकरे कन्यकायुक्ते न कुर्यान्नवपञ्चमे” इति। एतादृशस्य नवपञ्चमस्य फलान्तरमुक्तं कैश्चित् यथा ज्योतिर्निबन्धेशार्ङ्गधरः। “वरबध्वोर्मातृपित्रोर्जीवतो- स्तद्विनाशकृत्। त्रिकोणमीनकीटाढ्यं न स्यादन्यत्र दोषदमिति”। एतत्फलमनार्षत्वादुपेक्ष्यम्। इतोन्यच्च मेषसिंहादिकं नवपञ्चमं ग्रहमैत्रीसत्त्वान्मित्रं नवपञ्चममिति ननु मीन कर्कादिकमपि त्रिकोणं ग्रहमैत्रीसत्त्वान्मित्रनवपञ्चममिव, कयं? गुरोश्चन्द्रोमित्रमेव चन्द्रस्य तु गुरुः समोऽपि मित्रमिव “अपदोषतैव विगुणस्य गुणः” इति न्यायात्तथा सति त्रिकोणदोषोच्छेदापत्तिः स्यादिति चेत् उच्यते यत्र ह्येकस्य मित्रत्वमपरस्य समत्वन्तत्र दुष्टनवपञ्चममिति व्यवहारः। तादृशं मीनकर्कादिकं त्रिकोणचतुष्टयमेव सम्भवति। यत्न तूभयोरपि ग्रहमैत्री तत्रैव मेषसिंहादिके मित्रनवपञ्चममिति व्यवहृतिः। अयञ्च परिहारो वरबध्वोर्मातृपित्रोरित्यस्यापि दोषास्तरस्य सत्यसति वा समूलत्वे नाशको भवति तुल्यन्यायत्वात्। मृतमातापितृकयोस्तु वरबध्वोर्नायं दोषोन्मेषः एवं द्विद्वादशेऽपि। तथा जगन्मोहने वसिष्ठ कश्यपौ। “द्विद्वादशं शुभं प्रोक्तं मीनादौ युग्मराशिषु। मेषाद्ययुग्मराशौ तु निर्द्ध्वनत्वं न संशयः। “आयुष्य सम्पत्सुतभोगसम्पत्पुत्रार्थसम्पत्पतिसौख्यसम्पत्। सौभाग्य सम्पद्धनधान्यसम्पत् झषादियुग्मे क्रमतः फलानि। अजादियुग्मे क्रमतः फलानि वै वैधव्यमृत्युर्बधबन्धनानि। वियोगसन्तापमतीव दुःखं वसिष्ठगर्गप्रमुखैः स्मृतानि” इति। अथैवंविधेऽपि प्रीतिषट्काष्टकादिविषये नाडीदोषः सर्वथा त्याज्य एवेत्याह नाड्यृक्षशुद्धिर्यदीति। वक्ष्यमाणानां त्रिविधनाडीनक्षत्राणां शुद्धिः स्त्रीपुरुषनक्षत्रस्थितिरेकस्यां कस्यामपि नाद्ध्यां यदि न भवति तदा प्रीतिषट्काष्टकादि मवति तदा विवाहः कार्यः। यद्येकस्यां नाड्यां स्त्रीपुरुषनक्षत्रस्थितिस्त्यदा तु नैव विवाहः। उक्तञ्च रत्नमालायाम् “भवनपतिसुहृत्त्वं स्यात्तथैकाधिपत्यं यदि भवनवशित्वञ्चैव षट्काष्टकेऽपि। शुभकृदिह विवाहोऽन्योन्यताराविशुद्धौ यदि खलु फणिचक्रे स्यान्न नाडीसमाज” इति। अपिशब्दान्नवमपञ्चमद्विद्वादशयोरपि। अत्र केचित् षडष्टकस्यैव मरणरूपानिष्टफलश्रवणान्न तस्यापवादकः षट्काष्टकेपीति परिहारः, किन्तु निन्दां प्रतिपादयतोऽपिशब्दान्त स्य वाक्यस्याधिपतिमैत्र्यादिगुणपशंसाद्वारा नवपञ्चमद्विद्वादशयोरेव दुष्टभकूटयोर्विधानपर्यवसानात्तयोरेवापवादक इति यथा “ब्रह्महापि नरः पूज्यो यदि स्याद्वि पुल धनमिति” अत्र वाक्ये धनस्तुतिर्धनवन्नरपूजापरा न तु धनवद्विप्रघ्ननरपूजापरापीति मैवं वोचः “द्विद्वादशे वा नवपञ्चमे वा षट्काष्टके” इत्यादि वसिष्ठादिवाक्यानि दुष्टभकूटापवादभूतान्यधिपतिमैत्र्यादिविशिष्टं षडष्टकादि विदध्रते। षट्काष्टके मृत्युरित्यादीनि निन्दार्थवादवाक्यानिग्रहवैरग्रस्तषडष्टकादिविषयाणि अन्यथा दुष्टफलषडष्टकनिराकरणस्य नवपञ्चमस्य द्विद्वादशयोरपि तुल्यत्वेनापवादकवाक्यानां विपयालाभात्। दृष्टान्ते तु ब्रह्मध्नप्रायश्चित्तयिधानस्य वैयर्थ्यापातात् धनस्तुतिर्धनवत् प्रर्शसापरैवेति युक्तमुत्पश्यामः। अथ नाडीसमाजपदस्यायमर्थः। अश्विन्यादित्रिकगणनया त्रिविधानां नाडी नक्षत्राणां वेधो नाडीसमाजः। यदाह श्रीपतिः “नाड्यस्त्रिस्रोन्यस्तनिःशेषधिष्ण्यास्त्रिभ्यश्चाश्वादिभ्य एव प्रसूताः। सर्पाकारास्तत्र नाडीसमाजो नक्षत्राणामेकनाडीस्पृशां स्यादिति”। एवञ्च यत्र भकूटादयः सप्तभेदाः शुभा भवन्ति। तत्र नाडीदोषश्चेत्तदा विवाहो न विधेयः। उक्तञ्च सप्तर्षिमते विवाहपटले। “सदा नाशयत्येक नाडीसमाजो भकूटादिकान् सप्तभेदान् प्रशस्तानिति”। अत्र केचित्। नाडीसमाजशब्दोपादानात् समाजशब्दस्य समुदायवाचित्वात् यदा त्रिचतुःपञ्चपर्वनाडीत्रयसमुदाये स्त्रीपुरुषनक्षत्रयोरेकनाड्यां पातस्तदा समस्तवश्यादि गुणसत्त्वे विवाहोनैव भवेत्। यदा त्रिचतुःपञ्चपर्व्वनाडीष्वेकैव नाडी स्त्रीपुरुषयोःस्यात्तदा भवत्येव विवाहः। अतएव “भकूटादिकान् सप्तभेदांश्च ते तामिति” वीपरीतं वचनमनुकूलम्। अस्यायमाशथः” ते इति बहुत्वात्सप्त भकूटादयः शुभास्तामित्येकवचनानुरोधादेकामेव नाडींपरिहरेयुः न तु नाडीसमाजमित्याहुः। तच्चिन्त्यम्। यतश्चतुस्त्रिद्व्यङ्घ्यिभोत्थायाः” इति वाक्याच्चतुश्चरणनक्षत्रोत्पन्नायाः कन्याया स्त्रिपर्व्वैव, त्रिचरणनक्षत्रोत्पन्नायाः कन्यायाःद्विपर्वैव द्विचरणनक्षत्रोत्पन्नायाः कन्यायाः पञ्चपर्वैव नाडी गणनीयेति नियमाद्युगपन्नाडीत्रयविचारासम्भव एव। किञ्च रत्नमालादिवाक्येषु पार्थक्येन नाडीत्रयाभिधानात्तत्रत्यसमाजपदं नाडीसंस्थनक्षत्रसमुदायपरं तथाहि “अश्वादिभ्यस्त्रिभ्य एव नक्षत्रेभ्यः प्रसूता न्यस्तनिःशेषधिष्ण्या सर्पाकारास्तिस्रोनाड्यःस्युः तत्रैकनाडीस्पृशां नक्षत्राणां समाजो नाडी स्यात् इति। ननु “यस्मादनर्थकलहागममृत्यवः स्युः पाणिग्रहादनु तयोः खलु नाडीयोगे। तस्माच्चतुस्त्रियमलाङ्घ्रिषु भेषु नूनं नाडीसमाजैतिचिन्त्यमनुकमेणेति” वृद्धगर्गवचनान्नाडीसमाजएव स्थिते दोषः नै- कस्यां नाड्यामिति चेत् उच्यते। स्वयमेव चतुस्त्रिय मलाङ्घ्रिभेषु इति परिगणितविषयत्वेनाभिधानान्नाडीसंस्थनक्षत्रसमुदायविषयकमिति। किञ्च पञ्च पर्वचतु पर्वनाड्योर्देशविशेषविषयत्वेन त्रिनाड्यास्तु सर्वदेशवषयत्वादेतस्या एव निषेधोयुक्तः। तानि च देशविशेषवाक्यान्यग्रेऽभिधास्ये। अतः “भकूटकान् सप्तभेदांश्च ते तामित्यत्रपाठे प्रशस्तानिति पठन्ति अभियुक्ताः शार्ङ्गधरीयज्योतिर्निबन्धकारादयः। तस्मान्नाडीसमाज पदस्य प्राग्वदेव व्याख्यानंन्याय्यम्। ननु यत्र नाडीनक्षत्र शुद्धिरस्ति। यथा मरणीहस्तयोः षट्काष्टकञ्च वर्त्तते ग्रहमैत्र्यपि नास्ति तत्र किं कार्य्यमत आह। अन्यर्क्षेऽंशेशपयोरिति। अन्यर्क्षे प्रीक्तषट्काष्टकादिभ्योऽन्यराशौ, कोर्थः? राशिस्वामिनोः परस्परं शत्रुत्वे वा समत्वे वा षट् काष्टकादौ च सति अंशपयोस्तद्राशिनवांशस्वामिनोर्बलित्वसखित्वे चेत् स्याताम्। बलित्वं सबलत्वमुच्चादिस्थितत्वेन, सखिता परस्परमेत्री ते उभे चेद्भवतः सखिताया उपलक्षणत्वादेकाधिपत्यमपि तदा विवाहः शुभोनिरुक्तः। उक्तञ्च जगन्मोहने वसिष्ठेन। “राशिनाथे विरुद्धेऽपि सबलावंशकाधिपौ। तन्मैत्र्येऽपि च कर्त्तव्यं दम्पत्योः सुखमिच्छतेति” नन्वयम्परिहारो राशिनाथे विरुद्धेऽपीत्यनुवादात्केवल ग्रहदौट्यापवादको न तु दुष्टभकूटग्रहवैरस्य। उच्यते “खेटारित्वं नाशयेत् सद्भकूटम्” अग्रे वक्ष्यति। तत्र च “नभोगारिभावं हरेत् सद्भकूटमिति” सप्तर्षिमतविवाहपटलीय वाक्यं सम्मतित्वेनास्माभिरभिधास्यते। तदेव केवलग्रहवैरापवादकमस्ति न त्विदमपि। ननु द्वयोर्वाक्ययोर्यथाश्रुतशब्दस्वरसेनार्थे जिज्ञासिते एकस्मिन्नेव ग्रहदौष्ट्यरूपे परिहारद्वयं दृश्यते। अथैकस्मिन्नेव दुष्टभकूटके भवनपतिसुहृत्त्वमित्यादिनानेकपरिहाराभिधानमित्यतोऽत्र वचने न किञ्चित्तादृशं विषयं पश्यामः सत्यम्। “नभोगारिभावं हरेत्सद्भकूटमिति तु निःसन्देहं ग्रहवैरस्यापवादकम् परन्तु “राशिनाथे विरुद्धेऽपि मैत्रत्वे चांशनाथयोः। विवाहङ्कारयेद्धीमान्दम्पत्योः सौख्यवर्द्धन मिति” जगन्मोहनस्थवसिष्ठवाक्येन प्रागुक्तवसिष्ठवचः समानार्थकं दुष्टभकूटग्रस्तग्रहवैरापवादकम्। तथाहि। न्यूनार्थ एकस्मिन्वाक्ये राशिनार्थयोः परस्परविरोधे सतितद्राशिनवांशस्वामिनोः परस्परमैत्री चेच्छुभो विवाह इत्यर्थः। अत्रांशनाथयोः सबलत्वविचारोनास्ति। यत्र त्वंशनाथयोरुच्चादिस्थितत्वेन सबलत्वं परस्परमैत्री चेति द्वयमस्ति तद्दाष्टभकूटग्रस्तग्रहवैरापवादकमित्यधिकार्थवचनस्यार्थः। एवञ्च “नभोगारिभावं हरेत्सद्भकूटमित्यपि” वाक्यं ग्रहवैरापवादकन्तुल्यबलत्वाद्व्रोहियववत्। अंशनाथसबलत्वाभिधायकं तु “राशिनाथे विरुद्धेऽपीत्येतद्वाक्य मुभयविरोधपरिहार्थकम्। तथाहि। राशी च नाथौ च एतेषां समाहारो राशिनाथन्तस्मिन् राशिनाथे इत्येवं यदि समाहारद्वन्द्व आश्रीयेत तथा सत्ययमर्थः। राशी विरुद्धौ षट्काष्टकादिना, नाथौ विरुद्धौ कयोर्नाथावित्याकाङ्क्षायां ययोः षट्काष्टकादिविचारस्तयोरेव सन्निहितत्वाद्ग्रहणमिति तयोः राश्योर्नाथौ विरुद्धौ “मित्राणि द्युमणेरित्यादिना परष्परं शत्रू स्यातां तद्राशिनवांशस्वामिनोः सबलत्वे मित्रत्वे च समुच्चिते सति विवाहः शुभदः। नन्वतिक्लिष्टे समाहारद्वन्द्वे किं प्रयोजनम्? उच्यते। अंशनाथस्य सबलत्वस्याधिककरणमेव। तच्च युगपदुत्पन्नस्य दोषद्वैविध्यस्य राशिविरोधग्रहविरोधरूपस्य परिहारोऽतएव ज्योतिःशास्त्राभियुक्ताः एवंबिध उभयविरोधे एवंविधं समाधिमाश्रित्य विवाहङ्कारयन्तीत्यास्तां प्रसक्तानुप्रसक्तम्। अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवेत्याह। नाठ्य्वक्षशुद्धौ तथेति प्रागुक्तप्रकारेण नाडीनक्षत्रेषु स्त्रीपुरुषनक्षत्रयोरेकस्यां नाड्यामवस्थित्यभावश्चेत्तदा विवाहः शुभः। यथा भरणीहस्तयोःसत्युभयविधविरोधे राशि नवांशयोः क्रमेण पञ्चमचतुर्थयोर्यो स्वामिनौ सूर्य्यभौमौ तयोर्मैत्र्यप्यस्ति स्वनवांशस्थितत्वात्सपलत्वमपि तत्र विवाहः शुभफलदोनिगदितः। यतोऽत्र स्त्री पुंसनक्षत्रयोरेकनाड्यामवस्थित्यभावः। यदात्वश्विनीहस्ता ख्ये एव द्वयोर्नक्षत्रे स्यातां तदा नाडीनक्षत्रशुद्ध्यभावात् सकलगुणवत्त्वेऽपि विवाहो न भवति। किं पुनरेवंविधविषये इति “सदा नाशयत्येकनाडीसमाजोभकूटादिकान् सप्तभेदान् प्रशस्तान्” इत्युक्तेः। अथैतत्परिहारा सम्भवे परिहारान्तरमाह। ताराशुद्धिवशे इति। अत्रान्यर्क्ष इत्यनुवर्त्तते। प्राग्वदेव व्याख्येयमिदम्। एवंविधे विषये षट्काष्टकादौ च सति यदि स्त्रीपुंसनक्षत्रयोः परस्परन्ताराशुद्धिवशे कन्यार्क्षाद्वरमं यावदित्यादिना ताराशुद्धिरूपे वशे वश्यत्वे द्वितीयचतुर्थषष्ठाष्ठमनवमतारासंज्ञके सति बुधैर्विवाहः शुभोनिगदितः। अत्रोदाहरणानि बुधैर्घ्येयानि। अत्र संमतिः “अन्योन्यताराविशुद्धौ” इत्युक्ता। राजमार्त्तण्डेनायमर्थः स्पष्टमभिहितः। “मैत्री क्षेत्रपयोर्द्वयोरपि तयोरेकाधिपत्येऽपि चेत्तारा मित्रसुमित्रजत्मशुभदा क्षेमा च संपत्करी। षष्ठाष्टे नव पञ्चमे व्ययधने योगेषु पुंयोषितोः प्रीत्यायुःसुतवृद्धिबित्रजनकः कार्य्यो विवाहस्तदेति”। चकारात् षष्ठी च। जन्मतारा यद्युत्पत्तितारा तदा राशिभेदे चरणभेदे वा शुभा ध्येया। दशमैकोनविंशतितारे शुभे एव। अत्रापि पक्षे नाडीशुद्धिरपेक्षितैव। नाडीशुद्ध्यभावे विवाहोनैव भवेत्। उक्तैवात्र संमतिः”। अथैतस्यापि परिहारस्या सम्भवे परिहारान्तरमाह। अथ राशिवशताभाव इति। अत्रापि द्वयोः स्त्रीपुंसयो राशिनाथविरोधादिके विषये षट्काष्टकादौ सति “हित्वा मृगेन्द्रं नरराशिवश्या” इत्यादिना पुरुषराशेः स्त्रीराशिवशताभावे सति विवाहः शुभोनिगदितः। “यदि भवनवशित्वमिति श्रीपत्युक्तेश्च अस्मिन्नपि पक्षे नाडीशुद्धिरपेक्षितैवोक्तादेवहेतोः। तदयमत्र निष्कृष्टोऽर्थः। षट्काष्टकनवमपञ्चमद्विद्वादशाख्येषु दुष्टभकूटेषु सत्सु परस्परं ग्रहमैत्र्ये एकः परिहारः। एकाधिपत्ये द्वितीयः। ग्रहवैरेऽप्यंशपपोः सबलत्वे मैत्रे च तृतींयः। ताराशुद्धौ चतुर्थः। राशिवश्यत्वे पञ्चमः। सर्व्वेष्वपि परिहारेषु नाडी शुद्धिरपेक्षितैव। नाडीविरोधगुत्त्वे तु विवाहोनैव स्यादिति। एवञ्च ग्रन्थकर्त्त्रा “भवनपतिसुहृत्त्वमित्यस्य” श्रीपतिश्लोकस्य वाक्यचतुष्टयमङ्गीकृत्य तत्परिहाराभिधानङ्कृतम्। तट्टीकाकृन्महादेवोप्येवमेव व्याख्यत्। यत्र हि प्रत्येकं परिहारकम् तत्र गुणसमुदायः परिहारकः स्यादिति किं वाच्यम्। वस्तुतस्तु। “मैत्री क्षेत्रपयोर्द्वयोरपि तयोरेकाधिपत्येऽपि चेत्तारामित्रसुमित्रजन्मशुभदा क्षेमा च सम्पत्करीत्यादि प्राग्लिखितेन राजमार्त्तण्डवाक्येन दुष्ट भकूटे ग्रहमैत्र्या सह तथैकाधिपत्येन सह ताराशुद्धिरेव परिहारिका समुचिता। अर्थादेकस्य मित्रत्वेऽपरस्य सम त्वे वश्यत्वापेक्षा अतएतद्वाक्यं ज्योतिःसारसागरे विवृतम् “तत्रान्योन्यमित्रत्वे तुल्याधिपतित्वे वा ताराशुद्धिरेव चिन्त्या। एकमित्रतायान्तु वशित्वादि गुणान्तरापेक्षा। शत्रुत्वे तु सर्व्वथा त्याग इति”। अत एवैतस्मिन् पक्षे चेत्पदाभिधानादेकवाक्यतावसायः। एवं श्रीपतिवाक्यमपि व्याकर्त्तव्यमेकवाक्यताबलात्। तत्रषद्काष्टके पुनर्भवनपतिसुहृत्त्वमिति सकलगुणसत्त्वमेव परिहारकम्। अनयोर्दुष्टभकूटयोर्द्वयमेव। यदाह ज्योतिर्निबन्धे गर्गः “ग्रहमैत्र्यां शुभा तारा राशिवश्ये त्रिभिः शुभम्। षडष्टकम्बुधाः प्राहुर्द्वाभ्यां द्व्यर्कन्त्रिकोणक मिति”। “द्व्य- र्कन्द्विद्वादशम्। “द्विद्वादशे वा नवपञ्चमे वेत्यादीनि” वसिष्ठवादीनि तूपलक्षणपरतया व्याख्येयानि। अत्र यथासम्प्रदायं व्यवस्था ध्येयेत्यलमियता” पी० धा० अत्रापबादः। “मैत्र्यां राशिस्वामिनोरंशनाथद्वन्द्वस्यापि स्याद्गणानां न दोषः। खेटारित्वं नाशयेत् सद्भकूटं खेटप्रीतिश्चापि दुष्टं भकूटम्”। मु० चि० “स्त्रीपुंसराशिस्वामिनोर्मैत्र्यां सत्यां तथा राशिनवांशयोर्द्वन्द्वं युग्मं तस्यापि मैत्र्यां सत्यां गणानां दुष्टगणानां दोषो न स्यात्, स्त्रीरक्षोगणा पुमान् मनुष्यगणोदेवगणो वा तदा गणदोषो न स्यादित्यर्थः”। यदाहात्रिः “राशीशयोः सुहृद्भावे मित्रत्वे वांशनाथयोः। गणादिदौष्ट्येऽप्युद्वाहः पुत्रपौत्रप्रवर्द्धनः”। अथ सद्भकूटं शुभफलदम्भकूटं राशिकूटं तृतीयैकादशादिकं खेटारित्वं ग्रहयोः शत्रुतासम्बन्धिनं दोषं नाशयेत्। एवमेव खेटप्रीतिर्ग्रहमैत्री चापि दुष्टं भकूटं षडष्टकादिसम्बन्धिनं दोषं नाशयेदित्यर्थः” तदुक्तं सप्तर्षिमते विवाहपटले। “नभोगारिभावं हरेत् सद्भकूटं विरुद्वं भकूटं हरेत् खेटमैत्री। सदा नाशयत्येकनाडीसमाजोभकूटादिकान् सप्तभेदांश्च ते ताम्”। (मु० चि०) चतुर्थचरणः “प्रोक्ते दुष्टभकूटक इत्यादिना पुनरुक्तोऽपि स्मरणाविच्छेदार्थं पठितः”। यत्तूक्तं नारदेन “एकाधीशे मित्रभावे शुभदं पाणिपीडनम्। द्विद्वादशे त्रिकोणे च न कदाचित् षडष्टके” इति। एतन्नाडीदोषे सत्येव द्रष्टव्यम्। अधुनोदितवाक्यस्वरसात्। “भवनपतिसुहृत्त्वं स्यात् तथैकाधिपत्यं यदि भवनवशित्व चैव षष्ठाष्टकेऽपि। शुभकृदिह विवाहोऽन्योऽन्यताराविशुद्धौ यदि खलु फणिचक्रे स्यान्न नाडीसमाज” इति श्रीपत्युक्तेश्च “अन्यथा प्रागभिहितवसिष्ठादिवाक्यान्यनर्थकान्यापद्येरन्निति”। पी० धा०। अथ नाडीकूटमाह। “ज्येष्ठार्यम् णेशनीराधिपभयुगयुगन्दास्रभञ्चैकनाडी पुष्पेन्दुत्वाष्ट्रमि त्रान्तकवसुजलभं योनिबुध्न्ये च मध्या। वाय्वग्निव्यालविश्वोडुयुगयुगमथोपौष्णमञ्चापरा स्याद्दम्पत्योरेकनाड्यां परिणयनमसन्मध्यनाड्यां हि मृत्युः” मु० चि० ज्येष्ठा प्रसिद्धा। अर्यम्णमुत्तराफल्गुनो। ईश आर्द्रा। नीराधीपोवरुणस्तद्भं शततारका एभ्यो नक्षत्रेभ्यो युगयुगं द्वयं द्वयम्। ज्येष्ठामूलं उत्तराफल्गुनीहस्तश्च। आर्द्रा पुनर्वसुश्च। शततारकापूर्वभाद्रा चेत्यर्थः। दास्रभमश्विनी च एतन्नक्षत्रनवकं परस्परमेकनाडीत्युच्यते। अथ पुष्यः प्रसिद्धः इन्दुर्मृगः त्वाष्ट्रं चित्रा मित्रोऽनुराधा अन्तकं भरणी व- सुर्धनिष्ठा, जलभं पूर्वाषाढा, योनिः पूर्वफाल्गुनी, बुध्न्योऽहिर्बुघ्न्य उत्तरभाद्रपदा, एतन्नक्षत्रनवकं परस्परं मध्यनाडीत्युच्यते। अथ वायुः स्वाती, अग्निः कृत्तिका, व्यालोऽश्लेषा, विश्वोत्तराषाढा, एभ्यो युगयुगं स्वाती विशाखा च, कृत्तिका रोहिणी च अश्लेषा मघा च उत्तराषाढाश्रवणश्चेत्यर्थः। अथ पौष्णभं रेवती च, एतन्नक्षत्रनवकमपरा तृतीयनाडीत्युच्यते। एतत्फलमाह। दम्पत्योः स्त्रीपुंसयोरेकनाड्यां परिणयनमसद्दुष्टफलं स्यात्। मध्यनाड्यां हि निश्चयेन मृत्युर्द्वयोरपि स्यात्। “मूलेन्द्रार्कभपाश्यजैकचरणादित्यार्यमेशाश्विभैर्याम्येन्द्वीज्यभमित्रभाग्यवसुभत्वाष्ट्राम्ब्वहिर्बुध्न्यभैः। अन्यैर्नाड्यैहैकनाडिनवके स्यातां द्विभे चेन्मृतिर्गोदादक्षिणतः क्वचिन्नृपमुखे पार्श्वैकनाडी हिता”। गोदादक्षिणतः सर्ववर्णेषु पार्श्वैकनाडी हिता, क्षत्रियादौ क्वचित्, अन्यकन्याया अलाभे पार्श्वैकनाडी हितेत्यर्थः”। यदाह गर्गः। “नाडीकूटं तु संग्राह्यं कूटानां तु शिरोमणिः। ब्रह्मणा कन्यकाकण्ठसूत्रत्वेन विनिर्मितमिति”। वराहः “आद्यैकनाडीकुरुते वियोगं मध्याख्यनाड्यामुभयोर्विनाशम्। अन्त्या च वैधव्यमतीव दुखं तस्माच्च तिस्रः परिवर्ज्जनीयाः” इति। अत्र चक्रन्यासोवसिष्ठेनोक्तः। “आवृत्तिभिर्भैस्त्रिभिरश्विभाद्यं क्रमोत्क्रमात् संगणयेदुडूनि। यदैकपर्वण्युभयोश्च धिष्ण्ये नेष्टा नृनार्योर्भृशमेकनाडी”। फलेऽपि विशेषमाह वसिष्ठः “सा मध्यनाडी पुरुषं निहन्ति तत्पार्श्वनाडी खलु कन्यकां तु। आसन्नपर्य्यायसमागताश्चेद्वर्षेण साप्यन्तरिता त्रिवर्षैः”। उत्तरार्द्धस्यायमर्थः। आसन्ने समीपस्थिते पर्याये आवृत्तौ चेदेकनाडी समागता। यथाऽश्विन्यार्द्रयोर्भरणीमृगयोरोहिण्याश्लेषयोर्वा सा नाडी वर्षेणैकेन स्त्रीपुंसयोरुक्ताऽशुभफयदात्री स्यात्। यदा त्वश्विन्युत्तरफाल्गुन्योरितरकृतव्यवधाना सा नाडी त्रिभिर्वर्षैरुक्ताऽशुभफलदात्री स्यात्। इयञ्चाश्विन्यादित्रिकगणना कन्यायाश्चतुश्चरणे जन्मनक्षत्रे सति यदा तु त्रिचरणं नक्षत्रं तदा कृत्तिकामारभ्य साभिजिच्चतुःपर्वगणना द्विचरणत्वे कन्यानक्षत्रस्य मृगशीर्षतः पञ्चपर्वगणना। यदाह नारदः। चतुस्त्रिद्यङ्घ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात्। वह्निभादिन्दुभान्नाडी त्रिचतुःपञ्चपर्वसु। गणयेत् संख्यया चैकनाड्यां मृत्युर्न संशयः”। अमुमर्थं स्पष्टमाह गर्गः। “चतुःपात् कन्यकाऋक्षं गणयेदश्विभादिकम्। त्रिभं सव्यापसव्येन भिन्नं पर्व सुखा- वहम्। कन्यकर्क्षं त्रिपाच्चेत् स्याद्भणयेत् कृत्तिकादिकम्। चतुर्भिः पर्वभिस्तद्वदभिजित्तारकान्वितम्। कन्यकर्क्षं द्विपाच्चेत् स्याद्गणयेत् सौम्यभादिकम्। पञ्चभिस्त्ववरोहे तु पञ्चमात् त्रिकवर्जिते” एतत्फलमप्याह गर्गः। “संश्लिष्टा मध्यनाडी तु पुरुषं हन्ति वेगतः। संश्लिष्टा पार्श्वनाडी तु कन्यकां हन्त्यसंशयम्। आसन्ना त्वेकनाडी स्यादासन्नमृतिदायिनी। दूरस्था चैकनाडी स्याद्दूरानिष्टस्य कारिणीति”। जगन्मोहने नारदः। “एकनाडीविवाहश्च गुणैः सर्वैः समन्वितः। वर्ज्जनीयः प्रयत्नेन दम्पत्योर्निधनं यतः”। आसां नाडीनां देशभेदेन व्यवस्थामाह जगन्मोहने नारदः। “चतुर्नाडी त्वहल्यायां पाञ्चाले पञ्चनाडिका। त्रिनाडी सर्वदेशेषु वर्ज्जनीया प्रयत्नतः” इति। अहल्यापाञ्चालौ देशविशेषौ। तस्माद्वसिष्ठादिभिर्द्देशभेदेन नक्षत्रभेदेन चानित्यप्रवृत्तिके चतुःपञ्चनाड्यावुपेक्ष्य सकलदेशव्यापित्वात् सकलनक्षत्रव्यापित्वाच्च त्रिनड्येवोक्ता। नचैतावता चतुःपञ्चनाड्यौ स्वस्वदेशव्यतिरिक्तदेशेषु नैवावलोक्ये किन्तु सर्व्वेष्वपि देशेषु विचार्य्ये तत्र स्वदेशे दोषमहत्त्वमन्यदेशे दोषाल्पता त्रिनाडी तु सर्व्वत्रैव समानदोषा” यदाह मनुः। “अहल्यायां चतुर्नाडीसंयोगः कालमृत्युदः। एष योगोऽन्यदेशेषु ह्यपमृत्युफलप्रदः। पञ्चनाडीसमायोगः पाञ्चाले कालदण्डदः। इतरत्र समायोगो दुखदारिद्र्यदोषकृत्। त्रिनाड्यां तु समायोगः सर्व्वत्रानिष्टकारकः” इति। यत्तु ज्योतिर्निबन्धे ज्योतिःप्रकाशे अश्विन्यादित्रिनाडीं प्रकृत्याभिहितम् “निधनं मध्यमनाड्यां दम्पत्योर्नैव पार्श्वयोर्नाड्योः” अत्र पार्श्वनाड्यां मृत्युरूपमहादोषाभाबं मत्वा विवाहादिकरणं शुभायेत्यर्थः। तत् क्षत्रियादिविषयं गोदावरीतोदक्षिणदेशवासिविषयं वा। तदप्युक्तं तत्रैव। “करग्रहे पृष्ठनाद्यो न निन्द्ये इति यद्वचः। तत्क्षत्रियादिविषयं गौतम्यायाम्यतस्तथेति”। गौतमी गोदावरी। अत्रार्थे आर्षं मूलं मृग्यम्। “इयं चाश्विन्यादित्रिनाडी गुरुमन्त्रादिष्वप्यनिष्टा प्रभुपण्याङ्गनादौ तु शुभैव”। उक्तञ्च स्वरोदये “एकनाडीस्थिता यत्र गुरुमन्त्राश्च देवताः। तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत्। प्रभुः पुण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम्। एकनाडीस्थितं भव्यं विरुद्धं वेधबर्जितमिति”। अत्र नाडीवेधे चरणवेधेऽधिकदोषः, आवश्यके स एव त्याज्यः” एतदप्युक्तं तत्रैव। “आद्यांशेन चतुर्थांशं चतुर्थांशेन चादिमम्। द्वितीयेन तृतीयञ्च तृतीयेन द्वितीयकम्। एवंभांशव्यधो यषां जायते वरकन्ययोः। तेषां मृत्युर्न सन्देहः शेषांशाः स्वल्पदोषदा इति” तत्राप्यावश्यकत्वे गुरुः “दोषापनुत्तये नाड्या मृत्युञ्जयजपादिकम्। विधाय ब्राह्मणांश्चैव तर्पयेत् काञ्चनादिना। हिरण्मयीं दक्षिणाञ्च दिद्याद्वर्ण्णादिकूटके। गावोऽन्नं वसनं देयं सर्व्व दोषापहारकमिति”। एवं सर्व्वसम्मतत्वादष्टौ कूटभेदा अभिहिता नान्ये। “माहेन्द्रं गौडदेशे च मालवे रज्जुसंज्ञकमित्यादिना वादरायणवाक्येनान्यकूटानां तत्तद्देशविषयतापादनात्। ते च कूटभेदावसिष्ठसंहितायां तोडलानन्दे च सामान्यविशेषभावसहिता द्रष्टव्याः” पी० धा०। अथ नाडीदोषापवादः “राश्यैक्ये चेद्भिन्नमृक्षं द्वयोः स्यान्नक्षत्रैक्ये राशियुग्मं तथैव। नाडीदोषोनोगणानां च दोषो नक्षत्रैक्येपादभेदे शुभं स्यात्” मु० चि०। “द्वयोः स्त्रीपुंसयोरेकराशित्वे सति यदि भिन्नमृक्षं स्यात् तदा नाडीदोषोगणानाञ्च राक्षसमनुष्यगणानाञ्च दोषो नास्ति। यथा एकस्मिन्नपि कुम्भराशौ शतततारकापूर्बभाद्रपदापादत्रयं च येवं रूपोनक्षत्रभेदः। तथैव नक्षत्रैक्ये राशियुग्मं राशिद्वयं चेत् स्यात् तदापि प्रागुक्तो दोषो न स्यात्। उपलक्षणत्वात् तारादोषोऽपि न भवेत्। यथा। एकस्मिन्नेव नक्षत्रे पूर्वाभाद्रपदाख्ये पूर्वभाद्रपदायाः प्रथमपादत्रयं कुम्भे चतुर्थचरणश्च मीने इत्येवंरूपो राशिभेदः”। यदाह नारदः। “एकराशौ पृथग् धिष्ण्ये दम्पत्योः पाणिपीडनम्। उत्तमं मध्यमं भिन्नराश्येकर्क्षगयोस्तयोः। एकर्क्षे चैकराशौ च विवाहः प्राणहानिदः”। वसिष्ठः। “दम्पत्योर्जन्मभे चैक्ये राशौ च निधनं तयोः। एकस्य च तथोद्वाहे किञ्चिद्भेदे पि वा नवा”। किञ्चिद्भेदे नक्षत्रभेदे राशिभेदे च। गर्गः “एकराशिं विना नाडीयोगमादौ विवर्जयेत्। न दोषस्त्वे कराशिस्थे भकूटेऽन्येषु मृत्युदेति”। भृगुरपि “दम्पत्योरेकराशिश्चेत् पृथगृक्षं यदा भवेत्”। वसिष्ठोक्तो विवाहः स्याद्गणनाड्यौ न योजयेदिति। “अतएवाह केशवार्कः “नक्षत्रमेकं यदि भिन्नराश्योरभिन्नराश्योर्यदि भिन्नमृक्षम्। प्रीतिस्तदानीं निविडा नृनार्योर्श्चेत् कृत्तिकारोहिणिवन्न नाडीति”। चतुर्थचरणस्यायमर्थः चेद्यदि कृत्तिकारोहिणीवत् स्यात् तदापि नाडीदोषो न स्यात्। उपलक्षणत्वाद्गणदोषोऽपि। यथा कृत्तिकारोहिण्योरेकनाडीस्थत्वेऽपि गणदौष्ठ्येऽपि तत्संसूचिताऽशुभफलं नैव स्यात्। अत्रापि प्रथमतःपुंतारापेक्षिता द्वितीयतः स्त्रीतारेत्यपि विशेषोध्येयः। यदाह गर्गः “एकराशौ पृथक् धिष्ण्ये पुंतारा प्रथमा भवेत्। अतीव शीभना प्रोक्ता स्त्रीतारा चेत्त्वशोभनेति”। तदेवं कैमुतिकन्यायेन यत्र नाडीगणदोषाद्यभावो यथा रोहिणीमृगयोर्हस्तचित्रयोर्वा तत्र पाणिपीडनं शुभं स्यादिति किं वाच्यमित्यर्थः। अथैकराशिनक्षत्रत्वेऽपवादमाह। नक्षत्रैक्ये इति। स्त्रीपुंसयोः राश्यैक्यै नक्षत्रैक्ये च यदि चरणभेदो यथा भरण्याः प्रथमपादे पुंसोजन्म द्वितीयपादे स्त्रियास्तदापि शुभं कल्याणं स्यात्। तदुक्तं केशवार्केण। “पराशरः प्राहनवांशभेदादेकर्क्षराश्योरपि सौमनस्यमिति”। सौमनस्यं प्रीतिः। वसिष्ठेनापि “एकगृहसम्भवानां भवति विवाहः सुतार्थसम्पर्त्त्यै। यद्युभयोरेकर्क्षं भवति यदा चांशको भिन्न” इति। एतच्च सङ्कोचविषयं वेदितव्यम्। तथा च जगन्मोहने। “एकर्क्षे चैकराशौ च विवाहस्त्वशुभः स्मृतः। सङ्कोचे तु तदा कार्योभिन्नपादोयदा तयोरिति”। अत्रापि विशेषो ज्योतिर्निबन्धे विधिरत्ने। “रोहिण्यार्द्रा मघेन्द्राग्नी तिष्यश्रवणपौष्णभम्। उत्तराप्रोष्ठपाच्चैव नक्षत्रैक्येऽपि शोभना” इति। इन्द्राग्नी विशाखा तदेतत् स्पष्टमुक्तं तत्रैव विधिरत्ने। “विशाखिकार्द्रश्रवणप्रजेशतिष्यान्त्यतत्पूर्व्वमघाः प्रशस्ताः। स्त्रीपुंसतारैक्यपरिग्रहे तु शेषाविवर्ज्या इति सङ्गिरन्त” इति। शेषास्तारा इत्यर्थः। अत्र द्वयोरन्यतरस्य वा जन्मराशि नक्षत्राद्यज्ञाने उपायमाह। वसिष्ठः। “अज्ञातजन्मनान्नॄणां नामभे परिकल्पना। तेनैव चिन्तयेत् सर्वं राशिकूटादि जन्मवत्। जन्मभं जन्मधिष्ण्येन नामधिष्ण्येन नामभम्। व्यत्ययेन सदा योज्यं दम्पत्योर्निधनप्रदम्। कुर्य्यात् षोडश कर्माणि जन्मराशौ बलान्विते। सर्वाण्यन्यानि कर्माणि नामराशौ बलान्विते” इति। वृहस्पतिरपि। “व्यवहारराजसेवा संग्रामग्राममैत्रेषु। ज्ञातेऽपि जन्मराशौ फलमुक्तं नामराशिवशादित”। नाम्नः सकाशाज्जन्मनक्षत्रज्ञानं स्वरोदयाभिहितशतपदचक्रान्तर्गतस्वीयनामादिवर्णवशात् ज्ञेयमिति। यस्तु ऋकारादिवर्ण ऋषभादिनामसु दृश्यते तत्र यथासम्प्रदायं व्यवस्था” पी० धा०। नाडीभेदेऽष्टौ गुणाः प्रागुक्ताः।

ज्यो० त० नाडीचक्रलेखनतद्विशेषौ दर्शितौ यथा स्वरोदये। “अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडिकम्। तत्र वेधवशात् ज्ञेयं विवाहादौ शुभाशुभम्। त्रिनाडीवेधनक्षत्रमश्विन्यार्द्रायुगोत्तराः। हस्तेन्द्रमूलवा- रुण्यः पूर्वभाद्रपदादिमा। याम्यः सौम्योगुरुर्योनिश्चित्रमित्रजलाह्वयम्। धनिष्ठा चोत्तरा भद्रा मध्यनाडी व्यवस्थिता। कृत्तिका रोहिणी सर्पोमघा स्वातीविशाखके। उत्तराश्रवणापौष्णंपृष्ठनाडी व्यवस्थिता। अश्व्यादिनाडीवेधर्क्षेषष्ठं द्वितीयकं क्रमात्। याम्यादित्रिक तुर्यञ्च कृत्तिकादिद्विषट्ककम्। एवं निरीक्षयेद्वेचं कन्यामन्त्रे सुरे गुरौ। पण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे। एकनाडीस्थधिष्ण्यानि यदि स्युर्वरकन्ययोः। तदा वेधं विजानीयात् गुर्वादिषु तथैव च। प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतोव्यधः। प्रणष्टं जन्मभं यस्य तस्य नामर्क्षतोवदेत्। द्वयोर्जन्मभयोर्वेधे द्वयोर्नामभयोस्तथा। नामजन्मर्क्षयोर्वेधे न कर्त्तव्यं कदाचन। एकनाडीस्थिता चेत् स्यात् भर्त्तुर्नाशाय चाङ्गना। तस्मान्नाडीव्यधोवीक्ष्योविवाहे शुममिच्छता। प्राङ्नाड्या वेधतोभर्त्ता मध्यनाड्योभयं तथा। पृष्ठनाडीव्यधे कन्या म्रियते नात्र संशयः। एकनाडीस्थिता यत्र गुरुर्मन्त्रश्च देवता। तत्र द्वेषं रुजंमृत्युं क्रमेण फलमादिशेत्। प्रभुः पण्यङ्गनामित्रं देशोग्रामः पुरं गृहम्। एकनाडीगता भव्या अभव्या वेधवर्जिताः”। अस्यापवादः ज्यो० त०। “एकराश्यादियोगे तु नाडीदोषो न विद्यते” एकराश्यादिश्च “एकराशौ च दम्पयोः शुभं स्यात् समसप्तके। चतुर्थे दशमे चैव तृतीयैकादशे तथा” इत्युक्तः। समग्रहणाद्विषमसप्तके दोषः। तथा च “योटके सप्तके मेषतुले युग्महयौ तथा। सिंहघटौ सदा वर्ज्यौ मृतिं तत्राब्रवीच्छिवः”। श्रीपतिव्यवहारनिर्ण्णये। “सुहृदेकाधिपयोगे ताराबले वश्यराशौ वा। अपि नाड्यादिवेधे भवति विवाहोहितार्थाय, राजमार्त्तण्डे च। “न राजयोगे ग्रहवैरिता च न तारशुद्धिर्नगणत्रयं स्यात्। ननाडीदोषो न च वर्णदुष्टिर्गर्गादयस्ते मुनयोवदन्ति” अत्र देशभेदात् व्यवस्था। अन्यत्रोक्तम्। “लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे। भर्त्ता कन्याविनाशाय कन्याभर्त्तृविनाशकृत्”। अस्यापवादः। “अथ वा गुणबाहुल्ये कुजे वा तादृशे द्वयोः” प्रागुक्तरीत्या अष्टानां कूटानां गुणाङ्कानां सङ्गलने अष्टादशतोऽधिकत्वे उभयोर्वरकन्ययोरुक्तलग्नादिस्थाने मङ्गलस्य स्थितौ च न दोषः एवमन्योऽपि वैधव्ययोगोनिन्दनीयः स च जातकशब्दे वक्ष्यते। एवं विवाहे वर्षादिशुद्धिं दम्पत्योरानुकूल्याङ्गं चीक्त्वेदानीं निर्दोषदिनलग्नादि निरूप्यते। “तत्रैक्र विंशतिः सर्वसम्मता दोषा नारदेन परिगणि- ताः। “एकविंशतिदोषाणां नामरूपफलानि च। पितामहोक्तं संवीक्ष्य तानि वक्ष्ये समासतः। पञ्चाङ्गशुद्धिरहितोदोषस्त्वाद्यः प्रकीर्त्तितः। उदयास्तशुद्धिरहितो द्वितीयः सूर्य्यसंक्रमः। तृतीयः पापषड्वर्गो भृगुषष्ठः कुजाष्टमः। गण्डान्वं कर्त्तरी रिप्फषडष्टेन्दुश्च संग्रहः। दम्पत्योरष्टमं लग्नं राशिर्विषघटी तथा। दुर्मुहूर्त्तो वारदोषः खार्ज्जूरिकसमङ्घ्रिमम्। ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम्। कुनवांशो महापातो वैधृतिश्चैकविंशतिरिति” अन्यैस्तु दश दोषा उक्ताः “वेधश्च १ लत्ता २ च तथा च पातः, ३ खार्ज्जूरयोगो ४ दशयोगचक्रम् ५। युतिश्च ६ जामित्र ७ मुपग्रहाश्च ८ वाणाख्यवज्रौ ९ दश चैव दोषा इति व्यवहारोच्चयेऽभिधानात्। तत्र “दुर्मुहूर्त्तो रवावर्यमेत्यादिः। वार दोषः कुलिकादिः, क्रूरसंयुतमित्यस्योपलक्षणत्वादकालवृष्टिनामकोऽपि दोषो गृह्यते। यदाह वसिष्टः। “पञ्चाङ्गशुद्धिरहिताश्चोत्पाताऽकालवृष्टिजाः” इति। एषं दोषाणां कर्मविशेषे फलमाह वसिष्ठः “एकविंशन्महादोषास्त्वेते ब्रह्ममुखोदिताः। कदाचिन्नैव सीदन्ति गुणानां कीटिकोटिभिः। तस्मादेतेषु दोषेषु कदाचिन्नाचरेच्छुभम्। विवाहे विधवा नारी मरणं व्रतबन्धने। ग्रामनाशः प्रतिष्ठायां सीमन्ते गर्भनाशनम्। नवान्नभोजने मृत्युः कृषौ तत्फलनाशनम्। कर्त्तुर्नाशो गृहारम्भे प्रवेशे पतिनाशनम्। यात्रायां कर्त्तृनाशः स्याद्युद्धयाने विशेषतः। लभ्यते सुमहत्पुण्यमेषु श्राद्धादिकर्मभिरिति” पी० धा०।

तत्र सर्वकर्मोपयोगिषड्वर्गे वक्तव्येआदौ क्षेत्रनवांशपावाह “कुजशुक्रसौम्यशशिसूर्य्यचन्द्रजाः कविभौमजीवशनिसौरयोगुरुः। इह राशिपाः, क्रियमृगास्यतौलिकेन्दुभतो नवांशविधिरुच्यते बुधैः” मु० चि०।

“अत्र लग्नादीनां लक्षणं नारदोक्तम्। “त्रिंशद्भागात्मकं लग्नं होरा तस्यार्द्धमुच्यते। लग्नत्रिभागोद्रेष्काणो नवमांशो नवांशकः। द्वादशांशोद्वादशांशस्त्रिंशां शस्त्रिंशदंशकः। षड्वर्गाः कथिताह्येते–तेषामीशा इमे स्मृताः” इति। तत्रैते भौभशुक्रबुधचन्द्रसूर्य्यबुधशुक्रभौमगुरुशनिगुरवं, क्रमेणेह षड्वर्गे राशिपा मेषादिराशीनां स्वामिनः। क्रियेति। क्रियो मेषः मृगास्यो मकरः तौलिकं तुला इन्दुभं कर्कः एभ्यो राशिम्यो द्वादशस्वपि राशिषु नवांशविधिर्बुधैरुच्यते। मेषे मेषादेव, वृषे मकरादेव मिथुने तुलातः कर्के कर्कादेव, एवं सिंहेऽपि मे- षादेव एवं कन्यादिषु अपि राशिषु मकरादित एव। एवमेव धनुरादिष्वपि इत्यर्थः। यदाह नाररः। “सिंहस्याधिपतिर्भानुश्चन्द्रः कर्कटकेश्वरः। मेषवृश्चिकयोर्भौमः कन्यामिथुनयोर्बुधः। धनुर्मीनयोर्देवेज्यः शुक्रोवृषतुलेश्वरः। शनिर्मकरकुम्भेश इत्येते राशिनायका”। “नवमांशामेषसिंहवापे, मेषादयः क्रमात्। क्रमाद्गोमृगकन्यासु ज्ञेयाः स्युर्मकरादयः। तुलामिथुनकुम्भेषु स्युः क्रमेण तुलादयः। अलिकर्कटमीनेषु क्रमात् स्युः कर्कटादयः” इति पी० धा०। अथ होरेशकथनम् “समगृहमध्ये शशिरविहोरा विषमभमध्ये रविशशिनोः सा” मु० चि०। “पञ्चदशभागात्मकैका होरा समराशिमध्ये प्रथमा चन्द्रस्यापरा सूर्य्यस्य। विषमराशिमध्ये प्रथमा रवेः परा चन्द्रस्येत्यर्थः। “होरार्केन्द्वीरोजराशौ समभे चन्द्रसूर्य्ययोरिति नारदोक्तेः” पी० धा०। अथ त्रिंशांशद्रेक्काणेशाः। “शुक्रज्ञजीवशनिभूतनयस्य बाणशैलाष्टपञ्चविशिखाः समराशिमध्ये। त्रिंशांशकोविषमभे विपरीतसस्माद्द्रेष्काणकाः प्रथमपञ्चनवाधिपानाम्” मु० चि०। समराशिमध्ये क्रमेण प्रथमतः पञ्चानामंशानां शुक्रः स्वामी ततः शैलानां सप्तानां ज्ञोबुधः। ततोऽष्टानां जीवो गुरुः। ततः पञ्चानां शनिः। ततो विशिखाबाणाः पञ्च तेषां भूतनयो भीमः। शुक्रज्ञेत्यादिसमाहारद्वन्द्वः। विषमभे तु अस्मात्समराशेर्व्विपरीतं ज्ञेयम्। यथा प्रथमतः पञ्चानां भौमः ततः पञ्चानां शनिः ततोऽष्टानां गुरुः। ततः सप्तानां बुधः ततः पञ्चानां शुक्रः इत्यर्थः। अयमेव त्रिंशांशकसंज्ञ इति। यथाह नारदः। “कुजार्कीज्यज्ञशुक्राणां बाणेष्वष्टाद्रिमार्गणाः भागाः स्युर्विषमे ते तु समराशौ विपर्य्ययात्” इति। द्वक्काणा राशिदशांशाः द्वादशसु राशिषु प्रथमोद्रेष्काणः प्रथमस्य स्वराश्यधीशस्य, द्वितीयोद्रेष्काणः पञ्चमराशीश्वरस्य, तृतीयः स्वराशितो नवमराशीश्वरस्य। यथा वृषे प्रथमो द्रेष्काणो वृषाधीशशुक्रस्य, स्वापेक्षपञ्चमकन्याधीशबुधस्य द्वितीयः, तृतीयः स्वापेक्षनवममकराधीशशनेरित्यर्थः। “स्युर्द्रेक्काणा लग्नपञ्चनवराशीश्वराः क्रमादिति” नारदोक्तेः पी० धा०। द्वादशांशेशानाह।

“स्याद्द्वादशांश इह राशित एव गेहं होराथ दृक्कनवमांशकसूर्यभागाः। त्रिंशांशकश्च षडिमे कथितास्तु वर्गाः सौम्यैः शुभं भवति चाशुभमेव पापैः” मु० चि०। “इह षड्वर्गे द्वादशांशः सार्द्धमंशद्वयं तत् स्वराशित एवे- ष्टांशान्तं गणितं सद् यस्तद्राशिस्वामी स द्वादशांशेश्वरः “आरभ्य लग्नराशेस्तु द्वादशांशेश्वराः व्रमादिति” नारदोक्तेः। अन्यच्चरणत्रयं स्पष्टतरम्। तदुक्तं वसिष्ठेन। “लग्नं तदर्द्धञ्च ततस्त्रिगागो नवांशकश्च द्विदशांशकश्च। त्रिंशांशकश्चेति हि वर्गषट्कं शुभं शुभव्योमचराधिपत्यम्। यः पापषड्वर्गभवो हि दोषः पञ्चाङ्गसौम्यग्रहलग्नजातम्। गुणौघमम्भोधिममोघवाणः शुष्यत्यशेषं खलु राघवस्येति”। तस्मात् सौम्यपापग्रहषड्वर्गसाङ्कर्ये सति सौम्यषड्वर्गस्त्रिभ्योऽधिकश्चेच्छुभः त्रिभ्योहीनश्चेदशुभ इत्यर्थः” पी० धा०। अथ गण्डान्तदोषः। “ज्येष्ठापौष्णमसार्पभान्त्यघटिकायुग्मं च मूलाश्विनीपित्र्यादौ घटिकाद्वयं निगदितं तद्भस्य गण्डान्तकम्। कर्काल्यण्डजभान्ततोऽर्धघटिका सिंहाश्च मेषादिगा पूर्णान्ते घटिकात्मकं त्वशुभदं नन्दातिदेश्चादिमम्” मु० चि०।

“गण्डान्तं नाम सन्धिविशेषः सचानेकविधः नक्षत्र सन्धिस्तिथिसन्धिर्लग्नसन्धिश्च तथा योगसन्धिः करणसन्धिर्वर्ष सन्धिरयनसन्धिरृतुसन्धिर्माससन्धिः पक्षसन्धिर्दिनसन्धीरात्रिसन्धिमध्याह्नसन्धिः प्रातःसायंसन्धिर्निशीथसन्धिश्च। तत्र तिथिनक्षत्रलग्नविशेषाणां यः सन्धिर्नियतकालः स गण्डान्तसंज्ञः। अन्येषां तु सन्धिर्नियतकालः सन्धिशब्दवाच्य एव। तत्रादौ नक्षत्रगण्डान्तमुच्यते। ज्येष्ठा प्रसिद्धा पौष्णभं रेवती सार्पभमश्लेषा एषामन्ते घटिकाद्वयम् (४ दण्डाः)। तथा मूलाश्विन्यौ प्रसिद्धे पित्य्रं मघा। एषामादौ घटिकाद्वयं च गण्डान्तन्नाम। तथा च रेवत्यश्विन्योरश्लेषामघयोर्ज्येष्ठामूलयोरन्तरालवर्त्तिघटीचतुष्टयं नक्षत्रगण्डान्तमशुभदम् तदुक्तं रत्नमालायाम्। “पौष्णाश्विन्योः सार्पपित्र्याख्ययोश्च यच्च ज्येष्ठामूलयोरन्तरालम्। तद्गण्डान्तं स्याच्चनुर्नाडिकं हि यात्राजन्मोद्वाहकालेष्वनिष्टमिति”। यत्तु वसिष्ठेनोक्तम् “यदन्तरालं पितृसार्पयोश्च मूलेन्द्रयोराश्विनपौष्णायोश्च। ससन्धि गण्डान्तमिति त्रयं तद्यामप्रमाणं शुभकर्महन्तृ इति”। यामः प्रहरो नक्षत्रभोगस्येति शेषः। नारदोऽपि “सार्पेन्द्र पौष्णधिष्ण्यान्ते षोडशांशा भसन्धयः। तदग्रभेष्वाद्यजाताः पापागण्डान्तसंज्ञकाः। उग्रं सन्धित्रितयजं गण्डान्तत्रितयं महत्। मृत्युदं जन्मयानादिविवाहस्थापनादिषु”। षोडशांशो नक्षत्रभोगस्यार्द्धप्रहर इति यावत्। आद्यजाताः षोडशाशाः। तदेतद्दोषमहत्त्वाल्पत्वसूच- नार्थम्। तथा हि। चतुर्घटिके नक्षत्रगण्डान्ते महान् दोषः, तदधिके त्वष्टघटिकात्मके मध्यमदोषः। ततोऽधिके चरणावधिके त्वल्पदोषः। अतएवोक्तं सूर्यसिद्धान्ते “सार्पेन्द्रपौष्णधिष्ण्यानामन्त्याः पादा भसन्धयः। तदग्रभेषु सार्द्धांशो गण्डान्तं नाम कीर्त्त्यते। व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा। एतद्भसन्धित्रितयं सर्वकर्मसु वर्जयेदिति”। अर्द्धांशश्चरणार्द्धं प्रहर इत्यर्थः। दीपिकायाञ्च। “आद्ये मघाचतुर्भागे मूलपादाद्य एव च। रेवत्यन्त्यचतुर्भागे विवाहः प्राणनाशक” इति। अथ लग्नगण्डान्तमुच्यते। कर्केति कर्कः प्रसिद्धः अलिर्वृऐकः अण्डजोमीनः एषाम्भानां लग्नानामन्तेऽर्द्धघटिका, तथा सिंहमेषौ प्रसिद्धौ अश्वोधनुः एषां लग्नानामादिभूतार्द्धघटिका गण्डान्तं नाम। तथा च कर्कसिंहयोर्वृश्चिकधनुषोर्मीनमेषयोर्वा लग्नयोरन्तरालवर्त्तिन्येका घटिका लग्नगण्डान्तमशुभदमित्यर्थः। यदाह कश्यपः “सिंहकर्कटयोश्चापकीटयोर्मीनमेषयोः। गण्डान्तमन्तरालं तन्नाडिका निधनप्रदेति”। यत्तु नारदेनोक्तम् “कुलीरसिंहयोः कीटचापयोर्मीनमेषयोः। गण्डान्तमन्तरालं स्यात् घटिकार्द्धं मृतिप्रदमिति”। वसिष्ठेनापि। “लग्नान्तरालं घटिकार्द्धमेतत्कुलीरहर्योरलिचापयोश्च। मीनाजयोःसर्वगुणान्निहन्ति लोभो यथा सर्वगुणान्नरस्येति”। तद्दोषाधिक्यसूचनार्थम्। अय तिथिगण्डान्तमुच्यते। पूर्णान्त इति। पूर्णाः पञ्चमीदशमीपञ्चदश्यस्तासामन्ते घटिकैका, तथा नन्दाः प्रतिपत्षष्ट्यैकादश्यस्तासामादिभूतैका घटिका तिथिगण्डान्तं नाम। तथा च पञ्चमीषष्ट्योर्दशस्येकादश्योः, पञ्चदशीप्रतिपदोर्वा तिथ्योरन्तरालवर्त्तिघटीद्वयं तिथिगण्डान्तमशुभमित्यर्थः। यदाह नारदः “पूर्णानन्दाख्ययोस्तिथ्योः सन्धिर्नाडीद्वयं सदा। गण्डान्तं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु” इति। यत्तु कश्यपेनोक्तम् “पूर्णानन्दाख्ययोस्तिथ्योः सन्धिर्नाडीचतुष्टयम्। उद्वाहजन्मयानेषु गण्डान्तं निधनप्रदमिति”। तद्दोषतारतम्यसूचनार्थम्। एवं गण्डान्तसंज्ञः सन्धिरुक्तः। तत्र तिथिलग्नगण्डान्तपरिहारः शाकल्यसंहितायाम्। “तथैव तिथिगण्डान्तं नास्तीन्दौ बलशालिनि। तथैव लग्नगण्डान्तं नास्ति जीवे बलान्विते” इति। अथात्र प्रसङ्गादन्येषामपि सन्धिरुच्यतेऽस्माभिः। यदाह गुरुः “घटिकाद्वयमृक्षान्ते मासान्ते तु दिनत्रयम्। वर्षान्ते वर्जयेत्पक्षं ग्रहणाद्दिनसप्तकमिति”। तिथ्यादिसन्धिम- प्याह वसिष्ठः “पक्षोऽवदसन्धिस्त्रिदिनञ्च माससन्धिस्त्रिना ड्यः खलु सन्ध्ययोश्च। नाड्यश्चतस्रस्तिथिऋक्षयोगस न्धिस्तदर्द्धं करणस्य सन्धिः”। वर्षेषु विशेपमाह स एव “सौराव्दान्ते त्यजेत्पक्षं चान्द्रे तु नवभन्त्यजेत्। सावनान्तेऽ ष्टभन्त्याज्यं नाक्षत्रे पौष्णभात् त्र्यहमिति”। अत्रापि विशेषमाह स एव। “अव्दाः स्युस्त्रिविधा जीवसौर चान्द्राह्वयाः सदा। तेषामादौ तथा चान्ते त्रिदिनं वर्जयेच्छुभे” इति। अयञ्च सर्वकार्यसाधारणो निषेधः अन्यथा मीनादित्ये विवाहप्रसङ्गाभावादेव वर्षान्तनिषेधस्य वैयर्थ्यापातात्। गुरुः “ऋक्षान्ते पुत्रनाशः स्यान्मासान्ते तु धनक्षयः। वर्षान्ते वर्गनाशः स्याद्ग्रहणात् सर्वनाशनमिति”। आवश्यकत्वे तु “नक्षत्रयोगतिथि सन्धिषु नाडिकैका तिथ्यष्टविंशतिपलैः सहितोभयत्र। कर्कालिमीनतनुसन्धिशु दिक्पलानि त्याज्यानि शेष विवरेषु च पञ्च पञ्चेति” वासनासिद्धं केशवार्कवाक्यमनु सर्त्तव्यम्। वासना च सिद्धान्तशिरोमणावभिहिता। “शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वोर्गतिविवरकलाभिर्भूय एवाभिरेव। पृथगथ गतिगुण्या नाडिकाः सन्धिराप्ता भतिथिकरणयोगानां फलं तत्र मिश्रमिति”। सन्धिफलमप्याह केशवार्कः। “सन्धौ पुरन्ध्री शुचमेति वध्या मृतप्रजा वा यदि सन्धिसन्धिः। वदन्ति वात्स्या ऋतुनाविमूढां निशीथमध्यंदिनसन्धिषूढाम्” तत्रार्द्ध रात्रमध्यन्दि नसन्धिः “मध्ये निशाह्नोर्घटीत्र्यंशम्” मु० चि०। इत्याद्ये प्रकरणेऽभिहितः। सन्धिसन्धिस्तु केशवार्केणोक्तः। “रवेर्भवेदेकगृहाधिकस्य यदंशवृन्दं खलु सायनस्य। तदत्र राशिद्वयभागतष्टं स्पष्टं वसन्तादृतवो भवन्ति। तत्सन्धयोगाङ्गघटीसमाः स्युर्द्विसङ्गुणाश्चेद्विषुवायनीयाः। स सन्धिसन्धिः खलु यत्र शेषं शून्यं भवेदेष विशेषपुण्यः” इति मीनसंक्रान्तिमारभ्य वसन्तर्त्ततुगणनेति पक्षमङ्गीकृत्यैकगृहाधिकस्येत्युक्तम्। गण्डान्तदोसपरिहारमाह वसिष्ठः “गण्डान्तदोषमखिलं मुहूर्तोऽभिजिदाह्वयः। हन्ति यद्वन्मृगव्याधः पक्षिसङ्घमिवाखिलम्”। तदेतद्दोषापवादाख्यस्य प्रकारस्य नियामकत्वाद्विवाहविषयं न जातकादौ” पी० धा०। अथ कर्त्तरीदोषः। “लग्नात् पापावृज्वनृजू व्ययार्थस्थौ यदा तदा। कर्त्तरी नाम सा ज्ञेया मुत्युदारिद्र्यशोकदा”। मु० चि० “यदा पापग्रहौ लग्नाद्व्ययार्थस्थावृज्वनृजू द्वादशस्थः पापग्रहोमार्गी, द्वितीयस्थः पापग्रहो वक्री स्यात्तदा कर्त्तरी नाम दोषः कृन्तति स्त्रीपुंसयोः प्राणांश्छेदयतीति कृती च्छेदन इति धात्वर्थानुसारादन्वर्था सम्मुखकर्त्तरीयं मृत्युदारिद्र्यशोकदा भवेत्। यदाह नारदः “लग्नाभिमुखयोः पापग्रहयोरृजुवक्रयोः। सा कर्त्तरीति विज्ञेया दम्पत्यीर्गलकर्त्तरी। कर्त्तरीदोषसंयुक्तं यल्लग्नं तत् परित्यजेत्। अपि सौम्यग्रहैर्युक्तं गुणैः सर्वैः समन्वितमिति”। गर्गोऽपि। “व्यये मार्गगतिः क्रूरो वक्री क्रूरो धने यदि। तौ च लग्नांशतुल्यौ च तदा घोराख्यकर्त्तरी”। यदा तु द्वितीये मागीं द्वादशे च वक्री अथ द्वापपि क्रूरौ व्ययार्थस्थौ सन्तौ शीघ्रिणौ वा स्यातां तदा कर्त्तरी नास्त्येव। यदाह वशिष्ठः “लग्नस्य पृष्ठाग्रगयोरसाध्वोः सा कर्त्तरी स्यादृजुवक्रगत्योः। तावेव शीघ्रौ यदि व्यक्तचारौ न कर्त्तरी चेति पितामहोक्तिरिति”। इयं कर्त्तरी चन्द्रस्यापि द्रष्टव्या। यदाह कश्यपः “चन्द्रस्य कर्त्तरी तद्वच्छुभ दृष्टा न दोषदेति”। परन्तु लग्नस्य चन्द्रस्य वा क्रूरग्रहमध्यगतत्वदोषोऽस्त्येव कर्त्तरीतोऽल्पफलः कन्यानाशकरत्वात्। यदाह वसिष्ठः। “क्रूरग्रहमध्यगते लग्ने चन्द्रेऽथ वा करग्रहणम्। ते यमसदनाभिमुखं गमनञ्चेच्छन्ति कन्यायाः” इति कर्त्तरीदोषेऽन्यदप्यपयादान्तरं “पापौ कर्त्तरिकारकावित्यादिना स्वयं वक्ष्यति। अत्र लग्नादित्युपलक्षणात् सर्वेषामपि भाबानां कर्त्तरीदोषोऽध्यवसेयः “यो यो भावः स्वामिदृष्टोयुतोवेत्यादिना” तुल्यन्यायत्वात्। तत्र लग्ने कर्त्तरी महादोषकरी लग्नभङ्गाधायकत्वात्तस्या अन्यत्र तादृशदोषाभाव इति तु तत्त्वम्” पी० धा०। अतःपरं राहुकेत्वोः पापग्रहत्वं व्यवस्थापितं तच्च केतुशब्दे विस्तरेण वक्स्यते। अथ युतयोगापरपर्य्यायसंग्रहदोषः। “चन्द्रे सूर्य्यादिसं युक्ते दारिद्र्यं मरणं शुभम्। सौख्यसापत्न्यवैराग्यं पापद्वययुते मृतिः” मु० चि० “सूर्य्ययुक्ते चन्द्रेदारिद्र्यं स्यात्। भौमादियोगे मरणादि फलं क्रमेण स्यादित्यर्थः पापग्रहराहित्येऽप्यशुभफलं राहुकेत्वोरपि द्रष्टव्यम्। यथाह नारदः “शशाङ्के ग्रहसंयुक्ते दोषःसंग्रहसंज्ञकः। सूर्य्येण संयुते चन्द्रे द्रारिद्य्रम्भवति ध्रुवम्। कुजेन मरणं व्याधिः सौम्येन त्वनपत्यता। दौर्भाग्यङ्गुरुणा युक्ते सापत्न्यम्भार्गवेण तु। प्रव्रज्या सूर्य्यपुत्रेणराहुणा कलहः सदा। केतुना सयुते चन्द्रे नित्यं कष्टंदरिद्रता। तस्मिन् संग्रहदोषे तु विवाहं नैव कारयेत्”। सापत्न्यं भर्त्तुरन्या भार्य्या स्यात्। अत्र गुरुबुधसाहित्यफलमशुभमुक्तम् ग्रन्थकर्त्र्य तु वसिष्ठवाक्ये कस्यचिन्मताभिप्रायेण शुभफलमुक्तम्। यथोक्तं वसिष्ठेन “दारिद्र्यं रविणा कुजेन मरणं सौम्येन न स्युः प्रजा दौर्भाग्यं गुरुणा सितेन सहिते चन्द्रे ससापत्नकम्। प्रव्रज्याऽर्कसुतेन सेन्दुजगुरौ वाञ्छन्ति केचिच्छुभं द्व्याद्यैर्मृत्युरसद्ग्रहैः शशियुतैर्दीर्घः पवासः शुभैरिति”। अत एव श्रीपतिनोक्तम्। “शुभञ्च दम्भोलिभृदीज्यविद्भ्यामिति” दम्भोलिभृदीज्योजीवः। पापेति। पापद्बयेन युते उपलक्षणत्वात्पापत्रयादियुते मृतिरेव स्यात्। “पापद्वययुते चन्द्रे दम्पत्योर्मरणं ध्रुवमिति” नारदीक्तेः। बहुसौम्यग्रहयोगे तु बहुकालं पत्युर्देशान्तरेऽवस्थानं स्यात् तद्वाक्यमधुनैवाभिहितम्। अथास्य परिहारो नारदीक्तः। “स्वक्षेत्रगः स्वोच्चगोवा मित्रक्षेत्रगतो विधुः। युतिदोषाय न भवेद्दम्पत्योः श्रेयसे तदेति”। क्वचिद्वर्गोत्तम इति पठ्यते। कश्यपेनापि। “तुङ्गमित्रस्वराशिस्थः शुभयुक्तः शुभप्रदः। एवंविधः क्रूरयुतः सम्पूर्णफलदःशशीति” पी० धा०। अथ जन्मराशिलग्नयोरष्टमलग्नदोषं सापवादमाह।

“जन्मलग्नभयोर्मृत्युराशौ नेष्टः करग्रहः। एकाधिपत्ये राशीशे मैत्रे वा नैव दोषकृत्” मु० चि०।

“जन्मलग्नजन्मराश्यीः सम्बन्धिनि मृत्युराशावष्टमलग्ने करग्रहोनेष्टः। यदाह नारदः “दम्पत्योरष्टमं लग्नंत्वष्टमोराशिरेव च। यदि लग्नगतः सोऽपि दम्पत्योर्निधनप्रदः। स राशिः शुभयुक्तोऽपि लग्नं वा शुभसंयुतम्। लग्नं विवर्ज्जयेत् यत्नात् तदंशांश्च तदीश्वरान्” इति। अत्र जन्मलग्ने जन्मराशौ च विशेषमाह कश्यपः। “इष्टं स्वजन्मलग्नं तज्जन्मराशिरनिष्टदः। लग्नगस्तु तयोः स्थानाच्छुभान्युपचयानि वै” इति। नारदोऽपि “जन्मराश्युद्गमोनैव जन्मलग्नोदयः शुभः। तयोरुपचयस्थानं यदि लग्नगतं शुभमिति”। अथाष्टमलग्नदोषपरिहारमाह। एकेति जन्मराशिजन्मलग्नयोरन्यतरस्य विवाहलग्नस्य च स्वाम्यैक्ये सति यथा मेषवृश्चिकयोः, तथा तयोराशीश्वरयोः मैत्रे यथा सिंहमीनयोः। अत्र हि सूर्य्यगुर्वोरन्योन्यप्रीतिरस्ति। एतादृशविषये विवाहो लग्नाष्टमदोषकृत् न स्यात्। यदाह कश्यपः “जन्मेशाष्टमलग्नेशौ मिथो मित्रे व्यवस्थितौ। जन्मराश्यष्टमर्क्षोत्थदोषो नश्यति भावतः” इति पी० धा०। परिहारान्तरमाह “मीनोक्षकर्कालिमृगस्त्रियोऽष्टमं लग्नं यदा नाष्टमगेहदोषकृत्। अन्योन्यमित्रत्ववशेन सा बधूर्भवेत्सुतायुर्गृहसौख्यभागिनी”। “उक्षा वृषः स्त्री कन्या अन्ये प्रसि- द्धाः एते राशयो यद्यष्टमलग्नं स्युः यथा सिंहान्मीनः तुलातोवृषः धनुषः कर्कः मेषात् वृश्चिकः मिथुनान्मकरः कुम्भात्कन्याऽष्टमलग्नम्। तदाष्टमगेहदोषकृन्न भवेत्। कुत इत्यत आह। अन्योन्येति। प्रागुक्तपरस्परप्रीति वशे। इदञ्चोपलक्षणम्। मेषवृश्चिकयोस्तुलावृषयोरेकाधिपत्यात्। एवं सति सा बधूः परिणीता कन्या सुता युर्गृहसौख्यभागिनी स्यात्। उक्तञ्च “झषकुलीरवृषालिमृगाङ्गना जननराशिविलग्नगृहाष्टमाः। शुभफला भृगुणा कथितास्तयोरधिपती सुहृदौ हि परस्परमिति”। परिहारान्तरमप्याह गुरुः। “लग्नादष्टमराशीशः केन्द्रगः शुभवीक्षितः। यद्यष्टमगतस्योक्त दोषमाशु व्यपोहति। रन्ध्रेशः स्वशुभांशस्थस्तुङ्गः स्वक्षेत्रमित्रगः। अष्टमस्थानदोषोहि विनश्यति न संशय” इति।

अथ लग्नेऽष्टमेशादियोगफलम्। “मृतिभबनांशोयदि च विलग्ने तदधिपतिर्वा न शुभकरःस्यात्। व्ययभवनं वा भवति तदंशस्तदधिपतिर्वा कलहकरः स्यात्” मु० चि०। “अष्टमभवननवांशोयदि विलग्ने स्यादथ वाष्टमभवनस्वामी विलग्ने स्यात्तदा शुभकरो न स्यात्। यदाह कश्यपः। “दम्पत्योरष्टमे लग्ने राशौ वापि तदंशके। तदीशे वा लग्नगते तयोर्मृत्युर्न मंशय” इति। अथ व्ययभवनञ्जन्मलग्नजन्मराशिभ्यान्द्वादशम्भवनम् अथवा व्ययांशो व्ययस्वामी यदि लग्ने स्यात्तदा कलहकृत् स्यात्। उक्तञ्च कश्यपेन “तथैव द्वादशे लग्ने तदंशे वा तदीश्वरे। विवाहे लग्नगे नैस्व्यं नित्यं स्यात् कलहोद्वयोरिति”। नारदेनापि “दम्पत्योर्द्वादशं लग्नं राशिर्वा यदि लग्नगः। अर्थहानिस्तयोस्तस्मात्तदंशस्वामिनन्त्यजेदिति”।

अथ विषघटीदोषः। “खरामतो३०ऽन्त्यादितिवह्निपित्र्यभे खवेदतः ४० के, रदत ३२ श्च सार्पभे। खवाणतो ५०ऽश्वे, धृतितो १८ र्यमाम्बुपे, कृते २० र्भगत्वाष्ट्र भविश्वजीवभे। मनो १४ र्द्विदैवानिलसौम्यशाक्रभे कुपक्षतः २१ शैवकरेऽष्टि १६ तोऽजभे। युगाश्वितो २४ बुध्न्यभतोययाम्यभे, खचन्द्रतो १० मित्रभवासवश्रुतौ। मूलेऽङ्गवाणाद् ५६ विषनाडिकाः कृता४ वर्ज्याः शुभेऽथोविषनाडिकाध्रुवाः। निघ्ना भमोगेन खतर्क ६० भाजिताः स्थुटाभवेयुर्विषनाडिकास्तथा” मु० चि०। “रेवतीपुनर्वसुकृत्तिकामघानक्षत्रेषु खरामतः त्रिंशत्घटिकोत्तरं कृताश्चतस्रो घटिकाविषनाडिकाः शुभकार्य्ये वर्ज्याःस्युरिति” तृतीयश्लोकेनान्वयः। एवं सर्व्वत्र व्याख्येयं के रोहिण्यां कृतेर्विंशतेः। अजभे पूर्ब्बभाद्रपदायाम् अन्या- नि पदानि स्पष्टानि। तदेवं षष्टिघटीरूपे नक्षत्रभोगे धुवकाश्चतस्रो विषनाडिकाः प्रोक्ताः न्यूनाधिकत्वे तु स्पष्टीकरणमुच्यते। अथो इति। विषनाडीनां ध्रुवाः खरामतः इत्येवमादायो नक्षत्रभोगेनेष्टेन निघ्नाः खतर्कैः षष्ट्या भाजितास्ततोविषनाडिका ध्रुवाः स्पष्टा भवेयुरित्यर्थः। अत्रोपपत्तिस्त्रैराशिकेन। यदि घटीषष्ट्यात्मकभभोगेनेमे ध्रुवका इमाश्चतस्रो विषनाडिकाश्च लभ्यन्ते। तदेष्टभभोगेन किमपि, ध्रुवाविषनाडिकाश्चेष्टभभोगेन गुण्याः षष्ट्या भाज्या फलितम्। यदाह कश्यपः “वियद्वाणा ५० वेददस्राः २४ खरामा ३० व्योमसागराः ४०। वेदचन्द्रा १४ श्चन्द्रदस्राः १२ खरामा ३० व्योमवाहवः २०। नेत्राग्नयो ३२ व्योमगुणाः ३० शून्यदस्रा २० गजेन्दवः १८। क्ष्मावाहवो २१ वियद्दस्राः २० शक्रा १४ श्चेन्द्राः १४ खभूमयः १०। वेदचन्द्रा १४ स्तर्कवाणा ५६ वेददस्राः २४ खबाहवः २०। व्योमेन्दवो १० व्योमचन्द्रा १० धृतय १८ स्तर्कभूमयः १६ वेदाश्विनः २४ खरामाः ३० स्युर्दस्रर्क्षात् घटिकाःक्रमात्। आभ्यः परस्तत्क्रमशश्चतस्रो विषनाडिकाः। ऋक्षाद्यन्तघटीनिघ्नाः षष्टिभक्ताः स्फुटाः स्मृताः। विष नाडीदोषदुष्टं लग्नं सर्व्वगुणान्वितम्। शुभैः सर्व्वैश्च संयुक्तमपि पञ्चेष्टकं त्यजेदिति”। वसिष्ठः कुर्व्वन्त्युद्वाहितां कन्यां विधवां वत्सरत्रयात्। अन्यस्मिन् मङ्गले ताश्च निधनं वाथ निर्द्धनमिति”। ताः विषनाडिकाः।

अथ प्रसङ्गात् ग्रन्थान्तरोक्तास्तिथिवारविषनाडिकाः प्रोच्यन्तेऽस्माभिः दैवज्ञम०। “तिथी १५ षु ५ नागाऽ ८ द्रि ७गिरी ७ षु ५ वारिधि ४ र्गजा ८ऽद्रि ९ दिक् १० पावक ३ विश्व १३ वासवाः १४। मुनीभ ७, ८ संख्याप्रथमा तिथेः क्रमात्परं विष स्यात् घटिकाचतुष्टयम्। नखा २० द्वयं २ द्वादश १२ दिक् १० च शैला७ वाणाश्च ५ तत्त्वानि २५ यथाक्रमेण। सूर्य्यादिवारेषु परं चतस्रोनाड्योविषं स्यात् खलु वर्जनीयम्”। ज्योतिः सागरे। “विवाहव्रतचूडासु गृहारम्भप्रवेशयोः। यात्रादिशुभकार्य्येषु विघ्नदा विषनाडिकेति”। अस्य परिहारमाह दैवज्ञम० गुरुः “चन्द्रोविषघटीदोषं हन्ति केन्द्रत्रिकोणगः। लग्नंविना शुभैर्दृष्टः केन्द्रे वा लग्नपस्तथेतिं” फलप्रदीपे “विषनाड्युत्यितं दोषं हन्ति सौम्यर्क्षगः शशी। मित्रदृष्टोऽथ वा स्वीयवर्गस्थो लग्नपो भवेत्” पी० धा०। अथ मुहूर्त्तेशाः।

“गिरिशभुजगमित्राः पित्र्यवस्वम्बुविश्वेऽभिजिदथ च विधाताऽपीन्द्र इन्द्रानलौ च। निरृतिरुदकनाथोऽप्यर्यमाऽथो भगः स्युः क्रमश इह मुहूर्त्ता वासरे वाणचन्द्राः” मु० चि०। “अत्र वाणचन्द्रा इत्युक्तेः मुहूर्त्तस्य पार्थक्येनात्रलक्षणं नोक्तम्। गिरिशो महादेवः भुजगः सर्पः मित्रः सूर्य्यविशेषः पित्र्यवस्वम्बुविश्वे प्रसिद्धाः अवृमोऽभिजित् ततो विधाता ब्रह्मा, इन्द्रः इन्द्रानलौ अत्र समुदितयोर्व्यासज्यवृत्तिदेवतात्वम् अत्र तुर्य्यमुहूर्त्तस्वामिनः पितर इत्यपेक्षितम् पित्र्यमिति नक्षत्रतदीशयोरभेदोपचारात् तस्य स्वामिनि वृत्तिः। निरृतीराक्षसः उदकनाथो वरुणः अर्य्यमा भगश्चेमौ सूर्य्यविशेषौ। इत्येतदीशा वाणचन्द्राः पञ्चदश वासरे मुहूत्तांः स्युः यदाह नारदः “दिवामुहूर्त्ता रुद्राहिमित्राः पितृवसूदकम्। विश्वे विधातृब्रह्मेन्द्रा इन्द्राग्न्यसुरतोयपाः। अर्यमाभगसंज्ञश्चविज्ञेयाः दश पञ्च चेति” पी० धा०।

“शिवोऽजपादादष्टौ स्युर्भेशा अदितिजीवकौ। विष्ण्वर्कत्वष्टृमरुतो मुसूर्त्ता निशि कीर्त्तिताः” मु० चि०।

“प्रथममुहूर्त्तस्वामी शिवः ततोऽजपादात् पूर्व्वाभाद्रपदादष्टौ भेशानक्षत्रस्वामिनोमुहूर्त्तेशाः स्युः। यथा “अजपादः अहिर्बुघ्न्यः पूषा अश्विनौ यमः अग्निर्ब्रह्मा सोम इत्यष्टौ भेशाः। ततोदशमेशोऽदितिः जीवको गुरुः। विष्ण्वर्कत्वष्टृमरुतः प्रसिद्धाः एतदीशा निशि मुहूर्त्ता प्रकीर्त्तिताः यदाह नारदः “ईशाजपादहिर्बुध्न्यपूषाश्वियमवह्नयः। धातृचन्द्रादितीज्याख्यविष्ण्वर्कत्वष्टृवायवः” इति। मुहूर्त्तलक्षणं कश्यपेनोक्तम्। “अह्नः पञ्चदशोभागोमुहूर्त्तोऽथ तथा निशः” इति। प्रयोजनमाह नारदः। “यस्मिनृक्षे हि यत्कर्म कथितं निखिलञ्च यत्। तद्दैवत्ये तन्मुहूर्त्ते कार्य्यं यात्रादिकं सदेति” यात्रेत्युपलक्षणं देवस्थापनाद्यपि कार्य्यम्। पी० धा०। एवं मुहूर्त्तेशे निरूपिते तद्दोषमाह।

“रवावर्य्यमा ब्रह्मरक्षश्च सोमे कुजे वह्निपित्र्ये बुधे चाभिजित् स्यात्। गुरौ तोयरक्षो भृगौ ब्रह्मपित्र्ये शना वीशसार्पौ मुहूर्त्ता निषिद्धाः” मु० चि०।

“रवेर्वारेऽर्यमा लक्षणया अर्यमस्वामिकचतुर्दशसंख्याकोमुह्र्त्तोनिषिद्धः। एवं सोमवारे ब्रह्मरक्षः द्वन्द्वैकवद्भावः। ब्रह्मरक्षःस्वामिकौ मुहूर्त्तौ निषिद्धौ एवं सर्वत्र व्याख्येयम्। ईशो महादेवः। यदाहनारदः। “अर्य्यमा राक्षसब्राह्मौ पित्र्याग्नेयौ तथाभिजित्। रक्षःसार्पौ ब्राह्मपित्र्यौ भौजङ्गेशाविनादिषु। वारेषु वर्जनीयास्ते मुहूर्त्ताः शुभकर्म्मणि” पी० धा०। “अथ वेधदोषं विवक्षर्विहितनक्षत्रादिकमभिजिन्मानञ्चाह

“निर्व्वेधैः शशिकरमूलमैत्रपित्र्यब्राह्मान्त्योत्तरप- वनैः शुभोविवाहः। रिक्तामारहिततिथौ शुभेऽह्नि वैश्वप्रान्त्याङ्घ्रिश्रुतितिथिभागतोऽभिजित् स्यात्” मु० चि०।

“मृगशिराहस्तमूलानुराधा मघारोहिण्युत्तराफाल्गुन्युत्तराषाढोत्तराभाद्रपदास्वातीनक्षत्रैः निर्वैधैः वेधाख्यदोषरहितैः विवाहः शुभः शुभफलप्रदः यदाह वसिष्ठः। “स्वातीमघायां निरृतौ ध्रुवान्त्यमित्रेन्दुहस्तेषु च कन्यकानाम्। पाणिग्रहस्त्विष्टफलप्रदः स्यादविद्धभेष्वेव गुणान्वितानामिति”। नारदोऽपि “पौष्णधात्रुत्तरामैत्रमरुच्चन्द्रार्कपित्र्यभैः। समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते” अर्कोहस्तः पी० धा०। वसिष्ठवाक्ये इष्टफलदैत्युक्ते अन्येषामपि ग्रहणमापद्विषये सूचितम् तेन “कुमार्याः पाणिं गृह्णीयात्त्रिषूत्तरादिषु” पारस्करसूत्रे चित्राश्रवणाधनिष्ठाश्विनीनां ग्रहणं तच्च तस्य यजुर्वेदीयगृह्यसूत्रकरत्वेन तद्वेदिविषयमापद्विषयं वेति ज्यो० रघु० अतएव भीमपराक्रमे अन्यान्यनक्षत्रेऽनिष्टमुक्तं यथा “पूर्वात्रये विशाखायां शिवाद्ये भचतुष्टये। ऊढा चाशु भवेत् कन्या विधवाऽतो विवर्जयेत्। विष्णुभात्तु त्रिके चित्रे ज्येष्ठायां ज्रलनेयमे। एभिर्विवाहिता कन्या भवत्येव सुदुःखिता”। अत्र चित्रादिवर्जनात् यजुर्वेदिनामप्यत्यन्तापद्येव ग्राह्यता। तिथिनिर्णयमाह रिक्तेति। रिक्तामाः प्रसिद्धाः आभिर्वर्जिततिथिषु शुभेऽह्नि शुभग्रहवासरेऽपि विवाहः शुभः। यदाह वसिष्ठः। “शुक्लद्वितीयादित एव कृष्णे पक्षे दशम्यन्तगताः प्रशस्ताः। तास्वष्टमीस्कन्दगणेशदुर्गाचतुर्दशी चापि तिथिर्विवर्ज्या। वाराः प्रशस्ताः शुभखेचराणां सूर्य्याकिवारौ खलु मध्यमौ तु। त्याज्यः सदा भूमिसुतस्य वारः कामार्कतिथ्योरपि तौ प्रदोषाविति” तौ सूर्य्यार्किवारौ त्रयोदशीद्वादश्योः प्रदोषौ प्रकृष्टदोषावित्यर्थः। गणेशश्चतुर्थी दुर्गा नवमी। अत्र यदि विचारितविवाहदिनमारभ्य चतुर्थीकर्मपर्य्यन्तं पित्र्याद्यावश्यकश्राद्धदिनममावास्या वा भवति तदा विवाहो न कार्य्यः। उक्तञ्च “विवाहमारभ्य चतुर्थिमध्ये श्राद्धं दिनं दर्शदिनं यदि स्यात्। वैधव्यमाप्नोति तदाशु कन्या जीवेत् पतिश्चेदनपत्यता स्यादिति। अन्यच्च। “विवाहमध्ये यदि तत्क्षयाहस्तत्रान्नमुख्याः पितरो न यान्ति। वृत्ते विवाहे परतस्तु कुर्यात् श्राद्धं स्वधाभिर्न तु दूषयेत् तमिति। पी० धा०। तेन कृष्णपक्षे द्वादश्यादिदिनचतुष्टये आपद्यपि विवाहो न कार्यः। रिक्ताया वर्ज्यत्वेऽपि शनिवारयुक्तायास्तस्याः ग्राह्यता इति गौडा अनार्षमूलत्वात्तच्चिन्त्यम् “न वारदोषाः प्रभवन्ति रात्रौ सूर्यावनीसूनुशनैश्चरणामिति”। गौडावदन्ति तन्मूलमपि मृग्यम्”। अथाभिजित्प्रमाणम्। वैश्वेति पी० धा० “अभिजिच्चब्दे २२७ पृ० तद्विवृतिः।

अथ पञ्चशलाकचक्ने विद्धनक्षत्राणि। “वेधोऽन्योन्यमसौ विरिञ्च्यभिजितोर्याम्यानुराधर्क्षयोर्विश्वेन्द्वोर्हरिपित्र्ययोर्ग्रहकृतोहस्तोत्तराभाद्रयोः। स्वातीवारुणयोर्भवेन्निरृतिभादित्योस्तथोफान्त्ययोः खेटे तत्र गते तुरीयचरणाद्योर्वा तृतीयद्वयोः” मु० चि०।

“विरञ्चिः रोहिणी रोहिण्यभिजितोर्ग्रहैः क्रूराक्रूरैः कृतोवेधोऽन्योन्यं परस्परं भवेत्। रोहिणीस्थे ग्रहे अभिजिद्विद्धः अभिजित्स्थे रोहिणी विद्धेत्यर्थः। एवं सर्व्वत्र उफा उत्तरफल्गुनी। तन्न्यासप्रकारमाह नारदः। “तिर्य्यक् पञ्चोर्द्धगाः पञ्च रेखे द्वे द्वे च कोणयोः। शुम्भुकोणे द्वितीयेऽग्निधिष्ण्यं चक्रे च विन्यसेत्। मान्यतः सामिजिन्त्येकरेखाकोणे च विद्धभमिति”। चक्रे तस्मिन्नेकरेखास्थितेन त द्विद्धर्क्षं खेचरेण प्रदिष्टम्। क्रूरैर्विद्धं सर्वधिष्ण्यं विवर्ज्यं सौम्यैर्विद्धं नाखिलं पाद एवेति”। नन्वष्टाविंशतिर्नक्षत्राणि चक्रे तत्र द्वयोर्द्वयोः परस्परवेधे चतुर्दश युग्मानि वक्तव्यानि स्युः कथमष्टावेवामिहितानि उच्यते विवाहे ह्येकादशनक्षत्राणामेव प्राशस्त्याभिधानात् तद्वेधोपयोगीन्येतावन्त्येव युग्मानि सम्भवन्तीति तावतामेवाभिधानम्। अतएव दैवज्ञम० “रोहिण्यभिजितोर्मूलादित्ययोर्मृगवैश्वयोः। रेवत्युत्तरफाल्गुन्योर्मघाश्रवणयोर्भवेत्। हस्तोत्तराभाद्रपदोः स्वातीवारुणयोर्मिथः। अनुराधाभरण्योश्च वेधोऽयं पञ्चरेखजः” इति तथैवोक्तम्। वाराहविवाहपटले प्रत्येकवेधफलानि “रविवेधे वैधव्यं पुत्रनाशं करोति कुजवेधे। बन्ध्या पण्डितवेधे दीक्षाकरणं करोति गुरुवेधः। भृगुसुतवेधेऽपुत्रा दासी रविजातराहुसम्भूते” इति। पण्डितो बुधः दीक्षाकरणं प्रव्रज्याम् चरणवेधमाह खेट इति। तत्र तस्मिन् नक्षत्रे विद्यमाने ग्रहे सति यदि चतुर्थपादेऽस्ति तदा विद्धनक्षत्रस्य प्रथमपादे वेधः। यदि तृतीयपादे तदा द्वियीयचरणस्य वेधः एवं यदि द्वितीयपादस्थः तदा तृतीयपादे वेधः यदि प्रथमपादे तदा चतुर्थपादस्य वेध इत्यर्थः। यदाह वसिष्ठः “अतोऽन्त्यपादमादिगोद्विर्तायगस्तृतीयकम्। तृतीयगोद्वितोयकञ्चतुर्थगस्तु चादिमम्। भिनत्ति वेधकृद्ग्रहोनचान्यपादमादिशेत्”। एतद्यद्यपि शुभाशुभग्रहसाधारणं प्रतीयते तथा पि सौम्यग्रहपरन्द्रष्टव्यम्। यतोवसिष्ठेनैव खार्जूरदोषाभिधानावसरे “विषप्रदिग्धेन हतस्य पत्रिणा मृगस्य मांसं श्रुभदं क्षतादृते। तथैव पादो न शुभोऽवशिष्टपादाः शुभाश्चेति पितामहेन” इत्याशङ्क्य समाहितम् “पादएव न शुभः शुभग्रहैर्विद्ध इत्यखिलशास्त्रसंमतम्। क्रूरविद्ध भयुतं न शोभनं शोभनेषु गदितं न पादतः इति। नारदः। “पादमेव शुमैर्विद्धमशुभैश्चैव कृत्स्नभम्” इति। कश्यपोऽपि। “क्रूरविद्धं युतन्धिष्ण्यं क्रूराक्रान्तञ्च कृत्स्नभम्। मणिहेममयंहर्म्यम्भूताक्रान्तमिव त्यजेत्” इति कृत्स्नभं सकलनक्षत्रम्। तस्मात्क्रूरग्रहविद्धे संपूर्णनक्षत्रत्यागः शुभविद्धे चरणत्याग इति सिद्धान्तः। तत्र विवाहे पञ्चशलाकावेध एव यदाह वसिष्ठः “पञ्चशलाकाचक्रे पाणिग्रहणे भवेधविधिरुक्तः। शस्तशुभमित्रकृतः सप्तशलाकाजैतरत्रेति”। श्रीपतिः “बधूप्रवेशने दाने वरणे पाणिपीडने। वेधः पञ्चशलकाख्योऽन्यत्र सप्तशलाकक” इति पी० धा०। अत्र केचित् सप्तशलाकाचक्रवेधमाहुः। तत्र विद्धनक्षत्राणि यथा “शाक्रेज्ये, शतभानिले, जलशिवे, पौष्णार्य्यमर्क्षे, वसुद्वीशे, वैश्वसुधांशुभे, हयभगे, सार्पानुराधे, तथा। हस्तोपान्तिमभे, विधातृबिधिभे, मूलादिती त्वाष्ट्रभाऽजाङ्घ्री, याम्यमघे, कृशानुहरिभे, विद्धे कुभृद्रेथके” मु० चि० “कुभृद्रेखके सप्तशलाके चक्रे शाक्रेज्येज्येष्ठापुष्यनक्षत्रे मिथः क्रूराधिष्ठितत्वेन विद्धे ज्ञेये। एवं जलशिवे पूर्ब्बषाढार्द्रे विद्धेज्ञेये एवं सर्व्वत्र। वैश्वसुधांशुभे उत्तरषाढामृगशिरसी, हयभगे अश्विनीपूर्व्वफाल्गुन्यौ, उपान्तिमभं उत्तराभाद्रपदा, अत्र मूलवाक्यं स्वरोदयस्थं यज्ञोपवीतप्रकरणे भिहितम्। चक्रोद्धारो व्यवहारसमुच्चये “सप्त सप्त विनिपात्य रेखिकास्तिर्यगूर्ध्वमथ कृत्तिकादिकम्। लेखयेदभिजिता समन्वितञ्चैकरेखगमेन विध्यते” दीपिका। “यस्याः शशी सप्तशलाकभिन्नः पापैरपापैरथवा विवाहे। उद्वाहवस्त्रेण तु संवृताङ्गी श्मशानभूमिं रुदती प्रयाति”। तथा च भोजः। “विद्धे सप्तशलाकाख्ये बिधवा लग्नवाससा। पुनर्यात्यचिरान्नारी मुखाग्नौ मुखचन्द्रिकाम्”। वैधव्यञ्च नक्षत्रसंख्यातुल्याब्दैर्बवति तदुक्तं वराहेण “नक्षत्रजमुद्वाहे फलमब्दैस्तारकामितैः सदसदिति”। अत्रापि तुल्यन्यायत्वात् क्रूरवेधे पूर्णं नक्षत्रन्त्याज्यम् शुभग्रहवेधे पादस्त्याज्यः इति ध्येयम्। पी० धा०। “सप्तशलाकाजैतरत्रेति” प्रागुक्तवचनात् “भुक्तम्भोग्यन्तथाक्रान्तं विद्धं पापग्रहेण च। शुभाशुभेषु कार्य्येषु वर्जनीयं प्रयत्नतः” स्वरोदयवाक्यांच्च अस्य कर्मकार्येषु वर्ज्यतया चतुर्दशयुग्मानामिहोक्तिः” अत्रापवादः “ऋक्षाणि क्रूरविद्धानि क्रूरमुक्तादिकानि च। भुक्त्वा चन्द्रेण मुक्तानि शुभार्हाणि प्रचक्षते”। मु० चि० “क्रूरग्रर्हैर्विद्धानि ऋक्षाणि तथा क्रूरैर्मुक्तानि त्यक्तानि। आदिशब्दात् क्रूरैराक्रान्तानि क्रूरैर्गन्तव्यानि च त्रिविधोत्पातैर्दूषितानि ज्ञेयानि तानि यदि चन्द्रेण भुक्त्वा मुक्तानि तदा शुभार्हाणि प्रचक्षते वदन्ति मुनय इति शेषः। यदाह वात्स्यः “भुक्तम्भोग्यन्तथाक्रान्तं विद्धं पापग्रहेण भम्। मङ्गलेषु च कार्य्येषु यत्नतः परिवर्जयेदिति”। वसिष्ठोऽपि “उत्पातभङ्ग्रहणभङ्क्रूरविद्धस्थितञ्च यत्। दहत्येव शुभं कर्म्म राघवाग्निशरोम्बुधिमिति”। शार्ङ्गीये “क्रूराश्रितङ्क्रूरविभुक्तविद्धङ्गन्तव्यधिष्णेषु कुमारिकाणाम्। वदन्ति पाणिग्रहणे मुनीन्द्रावैधब्यमव्दैस्त्रिभिरेवमाहुरिति”। अस्यापवादमाह केशवार्कः। “उत्पातपापग्रहदूषित न्भं यदीन्दुराक्रम्य पुनर्भुनक्ति। तदा तदर्हङ्किल मङ्गलेषु त्यजेत्समाक्रान्तधनूरवीन्द्वोरिति”। अयमवधिराक्रान्तनक्षत्र भिन्नविषयो वेदितव्यस्तत्र हि चाण्डालधृतहस्तस्नानवच्चन्द्रभोगस्यानिर्णेजकत्वात्। तदुक्तं शार्ङ्गीय “यद्धिष्ण्यन्दोषसंयुक्तं स्यात्तथापीन्दुसंयुतम्। शुभकार्य्येषु तत्त्याज्यमन्यकर्म्मसु सिद्धिदम्। यथा हि चाण्डालधृतैकहस्तो मज्जन्नगाधेऽपि सरित्प्रवाहे। भवेन्न पूतः शशिमोगतोऽपि तथा न शुध्येदुडु पापयुक्तम्। स्पृष्ट्वा गते तु चाण्डाले शुद्धिराप्लवनाद्यथा। तथा भुक्त्वा गते क्रूरे चन्द्रभोगाद्विशोधनमिति। अतएवोक्तं वसिष्ठेन “गन्तव्यधिष्ण्यङ्खलु भुक्तभं यत् क्रूरैर्महोत्पातविदूषितञ्च। चन्द्रोपभोगादमलन्तदानीं शुभेषु कार्येषु शुभप्रदं चेति। एतच्च सामान्यन्यायत्वात् क्रूरविद्धे भे चन्द्रभोगादपि शुद्धिर्नास्तीत्युक्तम् यत्तु नारदेनोक्तम् “ग्रहणोत्पातभन्त्याज्यं मङ्गलेषु ऋतुत्रयम्। यावच्च रविणा भुक्त्वा मुक्तन्तद्दग्धकाष्ठवदिति” “तद्यावद्वचनं वाचनिकमिति” न्यायेन ग्रहणोत्पातभयोः षण्मासपर्य्यन्तं निषेधस्ततोऽपि यावद्रविणा भुक्त्वा न त्यक्तन्तावत्त्यजेत् तत्रापि चन्द्रग्रहण एव सूर्य्यग्रहणीयनक्षत्रस्य तु षण्मासानन्तरं सूर्य्यभोगासम्भव एव अतो न क्रूरमुक्तादी रविभोगापेक्षा उत्पातभस्य चन्द्रोपभोगोऽप्यावश्यको वसिष्ठवाक्यालोचनात्। अत्र क्रूरवेधे निखिलभं त्याज्य न चरण एव। तदुक्तं कश्यपेन “क्रूरविद्ध- युतन्धिष्ण्यं निखिलं नैव पादतः। अन्यैरपि गुणैर्युक्त सर्व्वदोषविवर्जितम्। त्यजेदनर्घमाणिक्यङ्कलङ्कोपहतं यथेति” अयञ्च क्रूराधिष्ठितत्वे दोषः क्रूर ग्रहचन्द्रयो रेकराशिस्थत्वे वेदितव्यः। यदा तु चन्द्रः प्रथमपादे क्रूरग्रहश्च तृतीयपादे एवं सति राशिभेदोऽपि जायते तदा क्रूरग्रहाधिष्ठितत्वदोषोनास्तीति ध्येयम्। उक्तञ्च ज्योतिर्निबन्धे। “एकस्मिन्नपि धिष्ण्ये भिन्ने राशौ खल ग्रहे शशिनि। तच्चन्द्रर्क्षे कुर्य्याद्विवाहयात्रादिकं सर्वमिति” यथा मृगशिरसि प्रथमे पादे चन्द्रः तृतीये क्रूरग्रहः तत्र सत्यप्येकनक्षत्रत्वे राशिभेदोद्वयोरिति पी० धा०।

अथ लत्तादोषः। “ज्ञराहुपूर्णेन्दुसिताः स्वपृष्ठे भं सप्तगोजातिशरैर्मितं हि। संलत्तयन्तेऽर्कशनीज्यभौमाः सूर्य्याष्टतर्काग्निमितं पुरस्तात्” मु० चि०।

“सप्त प्रसिद्धाः गावोनव जातयोद्वाविंशतिः शराः पञ्च एतैर्मितम्भम् स्वाक्रान्तनक्षत्रात् ज्ञराहुपूर्णेन्दुसिताः स्व पृष्ठे संलत्तयन्ते यथा बुधः सप्तनं, राहुर्नवमं, पूर्णेन्दुः पूर्णिमान्तचन्द्रोद्वाविंशम्, तच्च गतकृष्णपक्षे पञ्चमी षष्ठीसप्तमीनामन्यतमायां सम्भवति। शुक्रः पञ्चमं स्वपृष्ठे लत्तयतीत्यर्थः अर्कशनीज्यभौमाः क्रमेण पुरस्तादग्रे सूर्य्याष्टतर्काग्निमितं संलत्तयन्ते यथा सूर्य्यः स्वाक्रान्त नक्षत्राद्द्वादशं, शनिरष्टमम्, गुरुः षष्ठम्, भौमस्तृतीयभम् अग्रतोलत्तयतीत्यर्थः। यदाह नारदः “पुरतः पृष्ठतोऽर्काद्या दिनर्क्षं लत्तितञ्च यत्। अर्काकृतिगुणाङ्गर्त्तुवाणाष्टनवसङ्ख्यभमिति, सूर्य्यः पुरतः, चन्द्रः पृष्ठतः एवं क्रमेण भौमादयोपि पुरतः पृष्ठतश्च लत्तयन्तीत्यर्थः। वराहोऽपि “सूर्य्योद्वादशमृक्षं षष्ठं गुरुरवनिजस्तृतीयन्तु। संलत्तयति दिवाकरपुत्रोऽष्टममग्रतः पादैः। पश्चाद्द्वाविंशतिभम्पौर्णिमचन्द्रस्तु पञ्चमं शुक्रः। स्वर्भानुरपि नवमं सप्तममृक्षं शशाङ्कसुत” इति प्रत्येकं वेध फलमाह सएव। “रविलत्ता वित्तहरी नित्यङ्कौजी विनिर्दिशेन्मरणम्। चान्द्री नाशङ्कुर्याद्बौधी नाशं वदत्येव। सौरी मरणं कथय ति बन्धुविनाशं वृहस्पतेर्लत्ता। मरणं लत्ता राहोः कार्य विनाशम्भृगोर्वदन्तीति” नन्वग्रलत्ता वा पृष्ठलत्ता वा वक्तव्या किमिति न द्वैरूप्यकथनम्। अत्र समावत्ते केशवार्कः” “इति सति द्युसदामभिलत्तने यदनुलत्तनमुक्तमृषिव्रजैः। तदुडुपश्चिमपूर्ब्बविभागयोरनधिकाधिकदोषविवक्षयेति”। अत्र राहोः सदा वक्रिवान्नवमगणना क्रमेणैव ग्राह्या यथाश्विन्यां राहुः तदा अश्लेषां लत्तयति। सम्मुखलत्ता वादिमतेऽपि वक्रगामिना राहुणा सन्मुखमश्विनीरेवतीत्यादिगणनया विंशतिभम् अश्लेषैव नत्वन्यथाश्रयितव्यमिति साम्प्रदायिकाः” पी० धा०। अथ पातदोषः। “हर्षणवैधृति साध्यव्यतिपातकगण्डशूलयोग नाम्। अन्ते यन्नक्षत्रं पातेन निपातितन्तत् स्यात्”। मु० चि०। “हर्षणेत्यादि षड्योगानां अन्ते यच्चन्द्रनक्षत्रं भवेत् तत्पातेन चण्डीशचण्डायुधाख्येन निपाति तं स्यात् यदाह त्रिविक्रमः “साध्यहर्षणशूलानि वैधृतिव्यतिपातयोः। षड्भङ्गण्डस्य चान्ते स्यात्तत् पातेन निपातितमिति”। नारदेन प्रकारान्तरेणैतत्प्रकारसम्पादकः पातोऽभिहितः। “सूर्यभात्सार्पपित्र्यान्त्यत्वाष्ट्र मित्रोडुविष्णुभे। सङ्ख्यया दिनभे तावदाश्विभात्पातदुष्टभम्”। वसिष्ठेनापि “रविभादहिपितृमित्रत्वाष्ट्रभहरिपौष्ण्यभेषु गणितेषु। आश्विनभादिन्दुयुतौ तावति वै पतति गणनया पातः। अयमपि पातोदोषश्चण्डीशचण्डायुधाह्वयोज्ञेयः। अखिलेषु मङ्गलेष्वपि वर्ज्योयस्माद्विनाशदः कर्त्तुरिति” यद्यप्यत्र हर्षणादीनामुपादानं नास्ति तथाप्यभिहिताश्लेषादिनक्षत्रसाहित्येन पाताभिधानात्तत्तुल्य सख्याकेष्वेव योगेषु पातसम्भवो जायते इति मत्वा हर्षणादीनामनुक्तिः। एवञ्च प्रागुक्तेषु दशसु विरुद्धयोगेषु लत्तापातयोः पृथक् कीर्त्तनम्”। ज्यो० त० रघुनन्दनेन “ऋक्षं द्वादशमुष्णरश्मिरवनीसूनुस्तृतीयं गुरुः षष्ठ चाष्टयमर्कजस्तु सुरतोहन्ति स्फुटं लत्तया” इत्यादि रत्नमालावाक्य मुक्त्वा “लत्तापातोऽयमिति, यदुक्तं तच्चिन्त्यमूलम् तयोर्विभिन्नदोषत्वात् अन्यथा प्रागुक्तव्यवहारोच्चयवाक्येवर्ज्यदशसंख्यानुपपत्तेः तद्वाक्ये पातशब्दस्याश्रवणाच्च। अथ क्रान्तिसाम्यम् “पञ्चास्याजौ गोमृगौ तौलिकुम्भौ कन्यामीनौ कर्क्यली चापयुग्मे। तत्रान्योन्यञ्चन्द्रभान्वोर्निरुक्तं क्रान्तेः साम्यं नो शुभं मङ्गलेषु” मु० चि०। “पञ्चास्याजौ सिंहमेषौ अन्ये प्रसिद्धाः। एषु राशियुग्मेषु चन्द्रभान्वोः पाठक्रमेण व्युत्क्रमेण वा स्थितयोः क्रान्तिसाम्यं निरुक्तन्तन्मङ्गलेषु नो शुभं स्यात्। अत्र पञ्चास्याजावित्येवमादीनाङ्ग्रहणमुदाहरणदिक्प्रदर्शनार्थत्वात्सर्व्वथा सूर्याचन्द्रमसोः सायनयोर्योगः षड्राशिमितो द्वादशराशिमितो वा विवक्षितस्तदैव क्रान्तिसाम्यस्य सम्भवात्। अतः सम्मतिवाक्यस्यानवसरः नन्वेतावन्त एव षड्राशियोगा द्वादशराशियोगा वा सम्भवन्तीति चेन्न राश्यन्तावच्छेदस्थित्याधिकानामपि सम्भवात् प्रत्यंश- कलाविकलान्तस्थितत्वेनानन्तभेदसम्भवाच्चातः प्रागुक्तं व्याख्यानं ज्यायः। क्रान्तिसाम्यस्य च महापात इति नाम। एतस्य निन्द्यतामाह वसिष्ठः “दोषो महापात इति प्रसिद्धः सवैधृतोहन्ति बधूं वरं च। तं रक्षितुं लग्नगुणास्त्वशक्ताः स्वबान्धवा नाऽशनितोऽपघातम्”। अशनिर्वज्रम्। नारदोऽपि “यस्मिन् दिने महापात स्तद्दिनं वर्जयेत् शुभे” इति अतएव पतननात्पातः सकलशुभकर्मणामित्यन्वर्थतापि। सा च स्पष्टा सोमसिद्धान्ते। “यच्छुभानां विनाशाय नदन्निव पतत्ययम्। व्यतीपातः प्रसिद्धोऽत्र संज्ञाभेदेन वैधृतिः” इति। महापातशब्दस्य रूढिस्तु रवीन्दुक्रान्तिसाम्य एव नत्वन्येषां ग्रहाणां क्रान्ति साम्ये। यथा जलजशब्दस्य रूढिः कमले न तु भेकाद्रौ। क्रान्तिर्नाम ग्रहाणां दक्षिणोत्तरवृत्ते गमनम्। या च सूर्यस्य क्रान्तिः सा यदा चन्द्रक्रान्त्या तुल्या स्यात्स पातमध्यकालः। तत्रोत्सर्गतोरवीन्दुक्रान्त्योः समानत्वं भुजसाम्ये सति मवति। भुजोनाम “त्र्यूनं भुजः स्यात् त्र्यधिकेन हीनं भार्द्धञ्च भार्द्धादधिकं विभार्द्धम्। नवाधिकेनोनितमर्कभं चेति” लक्षणलक्षितः तत्साम्यं तु सूर्याचन्द्रमसोर्योगे षड्राशितुल्ये द्वादशराशितुल्ये वा सति भवति। अतएव ग्रन्थकृता तादृशायोगा एव पठिताः। “विनाशपातेन्दुमिहायनांशकैर्युतोरविः शीतकरश्च गृह्यते। समापमत्वे व्यतिपात वैधृताह्वयास्तदैक्ये रसभेऽर्कभे क्रमात्” इति भास्कराचार्य्योक्तिमङ्गीकृत्य सामान्यतः क्रातिसाम्यदिवसस्य शीघ्रोपस्थित्यर्थं भुजसाम्यप्रतिपादनम्। तदुक्तं वसिष्ठेन स्वसिद्धान्ते “चक्रे चक्रार्द्धतुल्ये वा कियद्भागाधिकोनके। सायनार्केन्दुयोगे चेत्तदा पातस्य सम्भवः। शुभमङ्गलकर्माणि लोकानां च बिनाशयेत्। स्नानदानादिकं तत्र जपश्राद्धादिकाः क्रियाः। कदापि कुरुतेमर्त्यः सुमहत् फलमश्नुते। सूर्यग्रहे कुरुक्षेत्रे कोटिस्वर्णार्पणे फलम्। तत् फलं लभते पाते स्नानश्राद्धजपादिना। उत्पत्तौ लक्षगुणितं भ्रमणे कोटिसङ्गुणम्। पातेऽथार्बुदसङ्गुण्यं पतिते दत्तमक्षयमिति”। तथा सूर्यसिद्धान्तेऽपि। “एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा। तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः। विपरीतायनगतौ चन्द्रार्को क्रान्तिलिप्तिकाः। समास्तदा व्यतीपातोभगणार्द्धन्तयोर्युतौ। तुल्यांशुजालसम्पर्कात्तयोस्तु प्रवहाहतः। तादृक् क्रीधोद्भवोवद्विर्लोकाभावाय जायते” इति। अतएवानन्तरोत्पन्नक्रान्तिसाम्ये महापातदोषो नास्त्येव। तदुक्तं गणेशदैवज्ञैः “पूर्वं तत् स्यात् पातमध्यं द्वितीयं पूर्वैर्नोक्तं तद्यतोनातिदुष्टमिति”। अनेनैवाशयेन वसिष्ठेन स्वसंहितायामुक्तम्। “शास्त्रात् समानीत महातिपातः सवैधृतोहन्ति वधूं वरं च। त्रिःसप्तवारानिव जामदग्न्यक्रोधोऽचिरात् क्षत्रकुलं समस्तमिति”। शास्त्राद्गणितशास्त्रोक्तान्महापाताधिकारादित्यर्थः। तत्र हि योगादेव महापातस्यानित्यत्वात्तस्यैव दोषत्वं नान्यस्येत्यर्थादुक्तं भवति। किञ्चपञ्चाङ्गीयोऽपि योगः सूर्याचन्द्रमसीर्योगादेव साधितः स्पष्टाधिकारेऽतस्तस्मादेव महापातोऽपि साधयितुमुचित एव “पी० धा०। अथ खार्जूरापरपर्यायैकार्गलदोषः “व्याघातगण्डव्यतिपातपूर्वे शूलान्त्यबज्रे परिघातिगण्डे एकार्गलाख्योह्यभिजित्समेतोदोषः शशी चेद्विषमर्क्षगोऽर्कात्” मु० चि०। “अन्त्योवैधृतिः। अन्ये प्रसिद्धाः। यस्मिन्दिने व्याघातादिके विरुद्धे दुष्टयोगे सति अर्कादर्कनक्षत्राच्छशी चन्द्रोऽभिजित्समेतोविषमे विषमसंख्याके ऋक्षे नक्षत्रे स्यात्तदा खार्जूरचक्रोत्पन्न एकार्गलाख्योदोषः स्यात्। यदा समे स्यात्तदा न दोषः इत्यर्थः। यदाह त्रिविक्रमः “विरुद्धनामयोगेषु साभिजिद्विषमर्क्षगः। अर्कादिन्दुस्तदा योगोनिन्द्य एकार्गलाभिधः” इति वसिष्ठेन तच्चक्रमभिहितम्। “अन्त्यातिगण्डपरिघव्यतिपातपूर्वव्याघातगण्डवरशूलमहाशनीषु। चित्रानुराधपितृपन्नगदस्रभेषु साहित्यमूनशशिसूरिषु मूर्द्धभेषु। “रेखामेकामूर्द्ध्वगां षट् च सप्त तिर्यक् कृत्वाप्यत्र खार्जूरचक्रे। तिर्यग्रेखा संस्थयोश्चन्द्रभान्चोर्दृक्सम्पातोदोष एकार्गलाख्यः। “खरकरतुहिनांश्वोर्दृष्टिसम्पातजातस्त्वनलमयशरीरस्तूद्गिरन्नग्नि संस्थान्। भुवि पतति जनानां मङ्गलध्वंसनाय गुणगणशतसङ्घैरप्यवार्योऽग्निकोपः” इति अत्र वसिष्ठवाक्येऽ भिजित्साहित्यमास्त न वेति सन्देहः नारदस्त्वमिजिद्वर्जितं चक्रमाह “व्याघातशूलपरिघपातपूर्वेषु सत्स्वपि। गण्डातिगण्डकुलिशवैधृत्या सहितेषु च। अदितीन्दुमघाह्याद्यमूलमैत्रेज्यभानि च। ज्ञेयानि सहचित्राभिर्मूध्नि भानि यथाक्रमम्। लिखेदूर्ध्वगतामेकान्तिर्यग्रेखास्त्रयोदश। तत्र खार्जूरिके चक्रे कथितं मूर्ध्नि भं न्यसेत्। भान्येकरेखागतयोः सूर्याचन्द्रमसोर्मिथः। एकार्गलो दृष्टिपाताच्चाभिजिद्वर्जितानि वै। लाङ्गले कमठे चक्रेफणिचक्रे त्रिनाडिके। अभिजिद्गणना नास्ति चक्रे खार्जूरिके तथेति”। कश्यपेनापि एकार्गलोदृष्टिपात- श्चाभिजिद्रहितानि वै” इति। तत्र त्रिविक्रमकेशवार्कवाक्ययोः समूलत्वस्य शिष्टसम्मतत्वान्नारदादिवाक्यैः सह विकल्पः ततोऽनयोः पक्षयोर्यंथादेशाचाराद्व्यवस्थेति युक्तं प्रतीमः” पी० धा०। खार्जूरवेधे ज्यो० ति० “एकामूर्द्ध्वगतां त्रयोदश तथा तिर्यग्गताः स्थापयेत्। रेखाश्चक्रमिदं बुधैरभिहितं खार्जूरिकं तत्र तु। व्याघातादि तु मूर्ध्नि भन्तु कथितं तत्रैक्यरेखास्थयोः सूर्याचन्द्रमसोर्मिथोनिगदितो दृक्पात एकार्कलः” “व्याघातादीति व्याघातयोगसंख्याङ्कस्त्रयोदशाङ्कः। तथा च हस्तादीनि नक्षत्राणि देयानीत्यर्थः” इति यद्व्याख्यातं तच्चिन्त्यमुक्तवाक्यैःः व्याघातादिदुष्टयोगयुक्तदिवसे एव खार्जूरवेधप्रतिपादनात् तत्र लेख्यनक्षत्रादीनां च नारदेन विशेषाभिधानाच्च।

अथोपग्रहदोषः स च उपग्रहशब्दे १२०२ पृ० उक्तप्रायः विशेषार्थं पुनरुच्यते।

“शराष्टदिक्शक्रनगातिघृत्यस्तिथिर्घृतिश्च प्रकृतेश्च पञ्च। उपग्रहाः सूर्यभतोऽब्जताराः शुभा न देशे कुरुबाह्लिकानाम्”। “सूर्यभतः सूर्यक्रान्तनक्षत्रादब्जताराः चन्द्रनक्षत्राणि पञ्चाष्टदचतुर्दशसप्तैकोनविंशतिपञ्चदशाष्टादशैकविंशतिद्वाविंशतित्रयोविंशतिचतुर्विंशतिपञ्चविंशतिसंख्याकाश्चेत्स्युस्तदोपग्रहनामकादोषाः स्युः प्रकृतिरेकविंशतिः ततः पञ्च। यदाह नारदः “भूकम्पः सूर्यभात्सप्तमर्क्षे विद्युच्च पञ्चमे। शूलोऽष्टमे च नवमेऽशनिरष्टादशे ततः। केतुः पञ्चदशेदण्डश्चोल्का एकोनविंशतौ। निर्घातपातसंज्ञश्च ज्ञेयः स नवपञ्चमे। मोहनिर्घातकम्पाश्च कुलिशं परिवेषकम्। विज्ञेयाश्चैकविंशाख्यादारभ्य च यथाक्रमम्। चन्द्रयुक्तेषु भेष्वेषु शुभकर्म्म न कारयेदिति”। वराहः “उपग्रहर्क्षेषु विवाहिता स्त्री सूर्यर्क्षतो दुर्भगतामुपैति”। अन्यत्रापि। “गृहप्रवेशे द्रारिद्र्यं विवाहे मरणं भवेत्। प्रस्थाने विपदः प्रोक्ता उपग्रहदिने यदीति”। एवं सामान्यतो निषेधमभिधाय देशभेदेन परिहारमाह। शुभा इति। “बाह्लिके कुरुदेशे च वर्जयेद्भमुपग्रहमिति” कश्यपोक्तेः” पी० धा०। अत्रापवादः।

“पातोपग्रहलत्तासु नेष्टोऽङ्घ्रिः स्वेटपत्समः” मु० चि०।

“पातश्चण्डीशचण्डायुधाख्योदोषः उपग्रहः प्रागुक्त एव। लत्ता ज्ञराहुपूर्णेन्दु सिताः” इत्यादिनोक्ता, तत्र खेटपत्समः ग्रहचरणतुल्यो नक्षत्रचरणोऽनिष्टः अस्यार्थः पाते उपग्रहे च रविर्यस्मिन् स्यात्तत्संख्यचरणस्तस्य नक्षत्रस्य वर्ज्योनान्यः लत्तायान्तु लत्ताकारिणोग्रहायच्चरणे स्युस्तत्संख्य एव पादी वर्ज्योनान्यः। उक्तं च मुहूर्त्तदीपिकायाम् “उपग्रहेषु लत्तायां तथा चण्डायुधाह्वये ग्रहोऽस्ति यत्प्रमाणांशे विद्धांशस्तत्प्रमाणकः” इति उपग्रहचण्डायुधयोः सूर्यकृतोऽङ्घ्रिर्ग्राह्यस्तस्यैव सम्भवात्। अयञ्च परिहारस्तुल्यन्यायत्वात् खार्जूरकेऽपि द्रष्टव्यः। सूर्यो यस्मिन् पादे भवेत्तत्समसंख्यश्चरण एकरेखावस्थितचन्द्रनक्षत्रस्य वर्ज्य इत्यर्थः “खार्जूरिकसमाङ्घ्रिभमिति” नारदोक्तेः ज्योतिर्निबन्धे गर्गः “पूर्वाह्णे दण्डदोषः स्यादपराह्णे तु मोहजः। उल्का चैवार्द्धरात्रे तु कम्पोऽहोरात्रदूषकः”। तत्रापि “कम्पोल्कादण्डमोहानामङ्घ्रिभमिति” नारदोक्तेः कालभेद एव वर्ज्यः “स्वरमासदशर्त्तव ७, १२, १०, ६, आदितो घटिकास्तेषु वर्जनीयाः पराः शुभा” पी० धा०।

अथ वारदोषः। स च अर्द्धयामकुलिकयमघण्टभेदात् त्रिविधः। ते च कश्यपेनोक्ताः यथा “शैलाक्षश्रुतयः सूर्य्ये चन्द्रे षड्वेदपर्वताः। भौमे वाणाग्निनेत्राणि सौम्ये वेदाक्षिवायवः। गुरुवारेऽग्निचन्द्रेभाः शुक्रे नेत्राद्रिवह्नयः। शनौ चन्द्रेभतर्काःस्युः कुलिकोयमघण्टकः। अर्द्धपहरसंज्ञश्च मङ्गलेषु विवर्जयेत्। वारदोषेण दुष्टन्तल्लग्नं सर्वगुणान्वितम्। त्यजेद्यथा पुरोडाशं वायसोपहतन्तयेति”। फलमाह वसिष्ठः “निधनं प्रहरार्द्धे तु निस्वत्वं यमघण्टके। कुलिके सर्व्वनाशः स्याद्रात्रावेते न दोषदाः” पी० धा०। दिवसाष्टमभागात्मकाश्चैते। तत्र अर्द्धयामशब्दे ३७६ पृ० अर्द्धयामविशेष उक्तः। मुहूर्त्तात्मककुलिकस्तु कुलिकशब्दे वक्ष्यते तत्र कुलिकमुहूर्त्तमुपक्रम्य श्रीपतिना “यात्रायां मरणं काले वैध्यव्यं पाणिपीडने। व्रने ब्रह्मबधः प्रोक्तः सर्वं कर्म ततस्त्यजेत्” उक्तम्। अथ जामित्रदोषः। “लग्नाच्चन्द्रान्मदनभवनगे खेटे न स्यादिह परिणयनम्। किंवा वाणाशुगमितलवगे जामित्रं स्यादशुभकरमिदम्” मु० चि०। “विवाहलग्नाच्चन्द्राद्वा सप्तमं भवनं गृहं जामित्रं तत्र गते खेटेपरिणयनं न स्यात्। उक्तञ्च “जामित्रं द्विविधं प्रोक्तं गर्गगालवगौतमैः। तस्माल्लग्नाच्च चन्द्राच्च जामित्रं परिवर्ज्जयेदिति”। तत्स्वरूपमाह महेश्वरः “लग्नाच्छीतकराद्ग्रहा द्युनगता नेष्टा विवाहे स्मृताः” इति। वसिष्ठः लग्नप्रकरणे” सर्वे जामित्रसंस्थाविदधति मरणम्” इत्याहस्म। लल्लः “पापात् सप्तम्गः शशी यदि भवेत् पापेन युक्तोऽथवा यत्नेनापि विवर्जयेन्मुनिमते दोषोऽपि संकथ्यते। उद्वाहे विधवा, व्रते तु मरणं, शूलञ्च पुंस्कर्मणि, यात्राय। विपदो, गृहेषु दहनः, क्षौरेऽपि रोगो महान्”। भुजबलः “चन्द्रात् सप्तमराशिगे दिनकरे त्यक्ता धनैः कन्यका भौमे च प्रमदा प्रयाति विलयं, सौरे च बन्ध्या सरुक्। जीवः शुक्रशशाङ्कजौ शुभकराः केचिद्वदन्ति क्रमात् भर्तृप्रेप्सितदीक्षितास्तभवने नित्यं प्रवासान्वितेति”। अस्यापवादमाह। किंवाशब्दोविकल्पे पूर्वग्रहाधिष्ठितराशेः मप्तमराशिस्थितत्रिंशद्भागात्मके लग्नेऽपि चन्द्रोनिषिद्ध इत्युक्तमिदानीन्तदधिष्ठितराशिनवांशमारभ्य वाणाशुगाः पञ्च पञ्चाशत् तन्मितनवांशगे लग्नेचन्द्रे सति जामित्रं स्यात्। यथा मेषराशौ पञ्चमनवांशे भौमोऽस्ति तस्मात् तुलायां पञ्चमनवांशस्थं लग्नं तत्र चन्द्रो वा निषिद्धोऽन्येऽष्टौ नवांशाः शुभाः। एवंविधं सूश्मं जामित्रमिदमशुभकरं स्यात्। यदाह महेश्वरः “कैश्चित् कामनवांशकादिषु शरैस्तुल्ये नवांशे स्थिताः” इति। केशवार्कस्तु चन्द्रनवांशाःदेवाह। “हिमरश्मिनवांशकात् खलो यदि खेटः शरः सायकांशके। अयमन्यगुणैर्न हन्यते निबिडैरत्युपसर्गडम्बरः” अपवादान्तरमाह राजमार्त्तण्डः “तुङ्गत्रिकोणभवने भवने निजे वा सौम्याधिमित्रगृहगोऽपि तदीक्षितो वा। जामित्रवेधजनितानपहृत्य दोषान् दोषाकरः सुखमनेकविधं विधत्ते” इति। व्यवहारसमुच्चयेऽपि। “स्वोच्चेऽथवा स्व भवने स्फुरदंशुजालः सौम्यालये हितगृहे शुभवर्गगो वा। जामित्रकारिपरिसञ्चितदोषराशिं हृत्वा ददाति बहुशः सुखमेव चन्द्रः”। कालखण्डे वात्स्यायनः “गुरुश्चन्द्रश्च जामित्रे तिष्ठेद्यदि बलान्वितः। धनसौभाग्यपुत्रांश्च लभते नात्र संशयः। मणिमुक्ताप्रवालैश्च सुवर्ण्णाभरणैः शुभैः। शोभिता तु सदा तिष्ठेद्गुरुणापि निरीक्षिते। सा तु भर्त्तुः प्रिया नित्यं बुधे चन्द्रस्य सप्तमे” पी० धा०।

“एकार्गलोपग्रहपातलत्ताजामित्रकर्त्तर्युदयास्तदोषाः। नश्यन्ति चन्द्रार्कबलोपपन्ने लग्ने यथार्काभ्युदये तु दोषा” मु० चि०। “एकार्गलः खार्जूरचक्रोक्तः उपग्रहः शराष्टेत्यादिनोक्तः पातश्चण्डीशचण्डायुधम् लत्ता ज्ञरांह्वित्यादिनोक्ता, जामित्रमधुनोक्तम्। कर्त्तरी, लग्नात् पापादित्याद्युक्ता उदयास्तदोषा वक्ष्यन्ते। एवंविधादोषा नश्यन्ति। कदा विवाहलग्ने चन्द्रार्कयोर्बलं स्वोच्चमित्रादिराशि- स्थितत्वरूपं विहितस्थानस्थितत्वञ्च तेनोपपन्ने सहिते सति। अर्कस्य सूर्य्यस्याभ्युदये दोषा रात्रिर्यथा नश्यतीर्त्यर्थः। गाढान्धकारयुक्तापि रात्रिरेकाकिना सूर्य्यस्योदयेन स्वयमेव नश्यतीति यथा” पी० धा०।

प्रसङ्गादन्यान्यदोषस्य देशान्तरविषयत्वमाह “उपग्रहर्क्षं कुरुबाह्लिकेषु कलिङ्गवङ्गेषु च पातितम्भम्। सौराष्ट्रशाल्वेषु च लत्तितम्भं त्यजेत् तु विद्धं किल सर्वदेशे” मु० चि०।

“कुरवोवाह्लीकाश्च पश्चिमदेशास्तेषूपग्रहदोषाक्रान्तम्भं त्यजेन्न तदरिक्तसर्वदेशेषु तेषु शुभमेवेत्यर्थः। कलिङ्गोवङ्गश्च प्राग्देशौ बहुवचनान्मगधाङ्गादयोऽपि। तेषु चण्डीशचण्डायुधापरपर्यायं पातं त्यजेत्। न तु क्रान्तिसाग्यरूपं पातं तस्य महापातत्वव्यवहारात्। सौराष्ट्रः शाल्वदेशः पश्चिमदेशविशेषः बहुवचनाद्ग्रामबाहुल्यं तेषु लत्तितं लत्तासंजातास्य तद्भं परित्यजेत्। विद्धं क्रूरेण शुभेन वा पञ्चशलाकादिचक्रद्वारा भिन्नम्भं भूतलवर्त्तिसर्वदेशेषु त्यजेत्। किल निश्चयेन नत्वस्य देशभेदेन परिहारः एतदपि वाक्यं सम्मत्यन्तरं नार्हति। विवाहपटलेऽपि “लत्तामालवके देशे पातः कोशलेके तथा। एकार्गलन्तु काश्मीरे वेधं सर्वत्र वर्जयेदिति”। वराहः। “युतिदोषस्तु विन्ध्याख्ये देशे नान्येषु केषु चेति”। दशयोगो भवेद्गौडे जामित्रस्य च यामुने। वेधदोषश्च शेषेषु इत्यादि वाक्यानां यथादेशाचारात् व्यवस्था” पी० धा०।

अथ दशयोगः “शशाङ्गसूर्य्यर्क्षयुतेर्भशेषे खं भूयुगाङ्गानि दशेशतिथ्यः नागेत्पवोऽङ्केन्दुमिता नखाश्चेद् भवन्ति चैते दशयोगसंज्ञाः” मु० चि०। “चेद्यदि चन्द्रसूर्य्यनक्षत्रयोर्युतेर्योगाद्भैः सप्तविंशत्याभक्ताद्यच्छेषस्तस्मिन शून्यैकचतुःषड्दशैकादशपञ्चदशाष्टादशैकोनविंशतिविंशतिसंख्याके सति एते अङ्काः दशयोगसंज्ञा भवन्ति नान्ये इत्यर्थः। शिष्टामां दशानामङ्कानामभिहितत्वाद्दशयोग इत्यन्वर्थसंज्ञा तदुक्तं दीपिकायाम् “तिथ्यङ्गवेदैकदिगूनविंशभैकादशाष्टादशविंशसंख्याः। इष्टोडुना सूर्य्ययुतोडुना वा योगादमी चेद्दशयोगदोषः”। लल्लोऽपि “यस्मिन्नृषे रविस्तिष्ठेद् यस्मिन्नृक्षे शशी तधा। धिष्ण्ये द्वयोर्योगहृते शेषः स्यात् वादितोदश। शून्यवेदर्त्तुरूपाणि दिग्रुद्रतिथयोधृतिः। जनविंशा नखाश्चेति दश योगाः प्रकीर्त्तिता” इति पी० धा० तत्फलम् “वाताभ्राग्निमहीपचोरमरणं रुग्वज्ववादाः क्षतिर्योगाङ्के दलिते सभे मनुयुतेऽयौजे तु सैकेऽर्द्धिते। भन्दास्रादथ सम्मितास्तु मनुभीरेखाः क्रमात् संलिखेद्वेधीऽस्मिन् ग्रहचन्द्रयोर्न शुभदः स्यादेकरेखास्थयोः” मु० चि०।

“शून्यशेषे वातदोषः स्यात् एकशेषेऽभ्रान्मेघात्, चतुर्ष्ववशिष्टेष्वग्नेः, षट्सु महीपाद्राज्ञः, दशसु चौरात्, एकादशसु मरणं द्वयोरन्यतरस्य वा, पञ्चदशसु रुक् अष्टादशसु वज्रम् एकोनविंशतिशेषे वादः कलहः, विंशतिशेषे क्षतिः द्रव्यनाशः स्यात्। यदाह लल्लः “मरुन्मेघाग्निभूपालचौरमृत्युरुजोऽशनिः। कलिर्हानिर्दशोद्वाहे दोषास्त्याज्याः सदा बुधैः”। विवाहादौ प्रतिष्ठायां व्रते पुंसवने तथा। कर्णवेधे च चूडायां दशयोगं विवर्जयेदिति”। अथापवाद उच्यते। योगाङ्क इति। योगाङ्के समे युग्मसंख्याके सति दलिते सत्यर्द्धीकृते मनुभिश्च चतु र्दशभिर्युते योगाङ्के तदा दास्रादश्विनीतोभं नक्षत्रं स्यात्। यथा समाङ्के अङ्कयोगः दशाङ्कः १० अर्द्धितः ५मनुयुतः १९मूलनक्षत्रं जातम्। अथ योगाङ्के अयुग्मसंख्याके सति सैके एकयुक्तं ततोऽर्द्धिते अश्विनीतोभं स्यात्। यथा विषमाङ्को योगःपञ्चदश सैकः १६ अर्द्धितः ८ पुष्यनक्षत्रं जातम्। तच्चक्रं यथा अथ मनुभिः सम्मिताश्चतुर्दश रेखास्तिर्यक् क्रमात् संलिखेत्। अनेन पकारेण यन्नक्षत्रमागतं तत आरभ्य साभिजिन्नक्षत्रवृन्दमस्मिंश्चके लेख्यं तत्र स्वाक्रान्तनक्षत्रे स्थाप्याः। दिननक्षत्रे च चन्द्र एवं सति यदि ग्रहचन्द्रावेकरेखास्थौ स्यातां तयोस्तादृशयोः परस्परावलोकनरूपोवेधोन शुभदः। उक्तञ्च ज्योतिःसागरे “योगाङ्के विषमे सैके समे सवसुलोचने२८। दलीकृतेऽश्विनीपूर्वदशयोगमुदाहृतम्। दशयोगे महाचक्रे प्रमादाद्यति विध्यते। क्रूरैः सौम्यग्रहैर्वापि दम्पत्योरेकनाशनमिति” दशयोगापवादान्तरमाह भरद्वाजः। “गुरौ लग्नाधिपे शुक्रे सवीर्ये लग्नकेन्द्रगे। दश दोषा विनश्यन्ति यथाग्नौ तूलराशयः”। व्यासोऽपि “शुक्रेण गुरुणा वापि संयुतं दृष्टमेव च। दशयोगसमायुक्तमपि लग्नं शुभावहमिति” पी० धा०। अपवादान्तरं ज्यो० त०। “आद्यपादस्थिते सूर्ये तुरीयांशः प्रदुष्यति। द्वितीयस्थे तृतीयस्थो विपरीतमतोऽग्यथा”। विपरीतं चतुर्थस्थे आद्यः तृतीयस्थे द्वितीयो दुष्यति नात्यस्थे नान्यपादो दुष्यतीत्यर्थः।

अथ वाणदोषः “लग्नेनाढ्यायाततिथ्योऽङ्कतष्टाः शेषे नागद्व्यब्धितर्केन्दुसंख्ये रोगोवह्नीराजचौरौ च मृत्युर्वाणश्चायं दाक्षिणात्यप्रसिद्धः” मु० चि०। “शुक्लपक्षप्रतिप- दमारभ्य गततिथ्योऽङ्कैर्नवभिस्तष्टाः शेषे नागसंख्येऽष्टसंख्ये रोगाख्योवाणः। एवं द्विसंख्ये शेषे वह्न्याख्यः चतुःसंख्ये शेषे राजा। तर्काः षट् तत्संख्ये शेषे चौराख्यः एकसंख्ये शेषे मृत्युसंज्ञोवाणः। अयं च दाक्षिणात्येषु महाराष्ट्रदेशीयेषु प्रसिद्धः तेन देशाचारात् व्यवस्थया बाणस्य त्यागः। न तु प्राच्योदीच्यपाश्चात्त्यानाम्। तौक्तं सप्तर्षिमते विवाहपटले। “गततिथियुतलग्नं पञ्चधा स्थापनीयं तिथि १५ रवि १२ दश १० नागै ८ र्वेद ४ युक्तं क्रमेण। नव ९ हृतशर५ शेषे वाणसंज्ञाः क्रमेण रुगनलनृप चौराः पञ्चमोमृत्युसंज्ञ इति” पी० धा० अथ प्राच्याख्यवाणापवादौ

“रसगुणशशिनागाब्ध्याढ्यसंक्रान्तियातांशकमितिरथ तष्टाङ्कैर्यदा पञ्चशेषाः। रुगनलनृपचौरा मृत्युसज्ञश्च वाणो नवहृतशरशेषे शेषकैक्ये सशल्यः” मु० चि०। “रसगुणशशिनागाब्धिभिराढ्याचासौ संक्रान्तियातांशक मितिश्चेति स्पष्टनिरयनांशसूर्यसंक्रान्तिभुक्तांशानाम्मितिः संख्या पञ्चधा स्थाप्या कलादिकमुपेक्ष्यम्। सा क्रमेण पटत्र्येकाष्टचतुर्भिराढ्या संयोज्याङ्कैर्नवभिस्तष्टा सती यदा पञ्चशेषा यस्मिन् स्थले पञ्चावशिष्यन्ते तत्र क्रमेणरुगादिवाणीज्ञेयः। यथा आदौ पञ्चशेषेरोगवाणः द्वितीये पञ्चशेषेऽग्निवाणः तृतीये पञ्चशेषे राजवाणः चतुर्थे पञ्चशेषे चौरवाणः पञ्चमे पञ्चशेषे मृत्युवाणः तस्मात्तस्माद्भयं भवतीत्यर्थः। यदाह कश्यपः “संक्रान्तियातांशकनन्दशेषस्तर्काग्निरूपाष्टयुगैः समेतः। तष्टोग्रहै रोगहुताशभूपस्तेनामृतिश्चेति च पञ्च वाणाः। इति पञ्चेति पृथक् पृथक् पदं शिष्यन्ते तदा वाणाः स्युरित्यर्थः। तत्र वाणीद्विविधः एकः काष्ठशल्योऽपरोलोहशल्यः तत्राभिहितो वाणः काष्ठशल्य उच्यते। अस्य नाम प्राच्याख्यो वाण इत्याहुः। तेन तादृशे वाणे लग्ने तथा पीडा न भवेत्तदर्थं तदपवादभूतो लोहशल्यसहितो वाण उच्यते न वेति। यानि प्रागागतानि शेषाणि तेषामैक्ये नवहृते पश्चाच्छरशेषे सति सशल्यः लोहसहितोवाणः स्यात्। पञ्चव्यतिरिक्ते शेषे शल्यसहितो दुष्टवाणः। अयं तुल्यन्यायत्वात् प्राक् पद्योक्तेऽपि बाणे सशल्यो वाणोज्ञेयः ज्योतिश्चिन्तामणावन्यथा वाणीऽभिहितः। “तिथिवारभलग्नाङ्कोरसाग्न्यब्जाष्टवेदयुक् ६, ३, १, ८, ४, नन्दाप्त पञ्चशेषे रुग्वह्निराट्चौरमृत्युकृदिति” पी० धा०। अथ समयादिभेदेन वाणापवादः “रात्रौ चौररुजौ दिवाऽग्निनृपती त्याज्यौ सदा सन्ध्ययोर्भृत्युश्चाथ शनौ नृपो- विदि मृतिर्भौमेऽग्निचौरौ रवौ। रोगोऽथ व्रतगेहगोपनृपसेवायानपाणिग्रहे वर्ज्याश्च क्रमतो बुधैरुगनलक्ष्मापालचौरा मृतिः” मु० चि०। “रात्रौ चोररुजौ वाणौ त्याज्यौ, दिवा दिवसेऽग्निनृपती वह्निराजवाणौ त्याज्यौ सन्ध्ययोः प्रातःसायंसन्ध्ययोः सदा मृत्युर्वाणस्त्याज्यः। ज्योतिःप्रकाशे “रोगञ्चौरन्त्यजेद्रात्रौ दिवा राजाग्निपञ्चकम्। उभयोः सन्ध्ययोर्मृत्युमन्यकाले न निन्दितः”। अथ शनौ शनिवारे नृपवाणः, विदि बुधवारे मृतिवाणः, भौमेऽग्निचौरबाणौ रवौ रोगवाणः त्याज्यः। उक्तञ्च दैवज्ञम० “रवौ रोगं, कुजे वह्निं, शनौ च नृपपञ्चकम्। वर्जयेच्च कुजे चौरं, बुधवारे च मृत्युदमिति”। एतेषु शुभकर्म्मसु एते वाणा वर्ज्याः यथा व्रते यज्ञोपवीते रुक्, गेहं गृहं तस्य गोप आच्छादनं तत्रानलोऽग्निः, नृपसेवायां क्ष्मापालोराजा, याने यात्रायां चौरः पाणिग्रहे मृतिर्वाणो वर्ज्य इत्यर्थः। तदुक्तं ज्योतिःप्रकाशे “नृपाख्यं राजसेवायां गृहगोपेऽग्निपञ्चकम्। याने चौरं, व्रते रोगन्त्यजेन्मृत्युं करग्रहे इति”। केचिदेवं पाठमाहुः। व्रते विवर्जद्रोगं गृहगोपेऽग्निपञ्चकम्। यात्रायां राजचौरख्यौ विवाहे मृतिपञ्चकमिति” पी० धा०।

अथ लग्नसप्तमयोः शुद्धाबुपयोगिग्रहदृष्टिभेदः “त्र्याशं त्रिकोणं चतुरस्रमस्तं पश्यन्ति खेटाश्चरणाभिवृद्ध्या। मन्दोगुरुर्भूमिसुतः परे च क्रमेण संपूर्णदृशो भवन्ति” मु० चि०।

“खेटाग्रहायन्मिन् स्थाने तिष्ठन्ति तस्मात् कथ्यमानानि स्थानानि चरणाभिवृद्ध्या पादवृद्ध्या पश्यन्ति तद्यथा त्र्याशं तृतीयं दशमञ्चैकचरणदृष्ट्या पश्यन्ति त्रिकोणं नवपञ्चमं द्विचरणदृष्ट्या पश्यन्ति। चतुरस्रं चतुर्थम् अष्टमं च त्रिचरणदृष्ट्या पश्यन्ति। अस्तं सप्तमस्थानं चतुश्चरणदृष्ट्या पश्यन्ति। अनेन तत्तद्ग्रहोद्भवशुभफलं चरणाभिवृद्ध्यैव मवतीत्यपि सूचितम्। तदुक्तं वराहेण “दशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रं च। पश्यन्ति पादवृद्ध्या फलानि चैवं प्रयच्छन्तीति”। मन्द इति। मन्दः शनैश्चरः स्वस्थानात् त्र्याशं संपूर्णदृक् चतुश्चरणदृष्टिः। एवं गुरुस्त्रिकोणं, भूमिसुतः चतुरस्रं, परे चन्द्रबुधसूर्यशुक्राः क्रमेण सप्तमे संपूर्णदृश इत्यर्थः यदाह गार्गिः। “दुश्चिक्यदशमान्, सौरिस्त्रिकोणस्थान् वृहस्पतिः। चतुर्थाष्टमगान् भौमः शेषाः सप्तमसंस्थितान्। भवन्ति वीक्षणे नित्यमेवाधिकफला ग्रहाः” इति। वराहोऽपि “पूर्णं पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः। चतुरस्रं मूमिसुतः सितार्कवुधहिमकराः कलत्रं चेति” पी० धा०। अत्रापि शब्दात् सप्तमस्थानेऽपि पूर्णदृष्टिः एवं शनिकुजयोः। अतएव मु० चि० परे चेत्युक्तम् तत्प्रमाणञ्च ग्रहदृष्टिशब्दे वक्ष्यते।

अथ लग्ननिरूणम्। दीपिका कन्यातुलाभृन्मिथुनेषु साध्वी शेषेष्वसाध्वी धनवर्जिता च। निन्द्येऽपि लग्ने द्विपदांश इष्टः कन्यादिलग्नेष्वपि नान्यभागः”। कन्यादिलग्नेष्वपि द्विपदांशएव इष्टोनान्य इत्यर्थः। वक्ष्यमाणवचने चरे चराशवर्ज्जनात् चरलग्नेऽपि तुलातिरिक्तद्विपदांशस्य ग्राह्यता “धनुषि कुलटा तत्पूर्व्वार्द्धे सतीत्यपरे जगुः” विवाहपटले धनुरुत्तरार्द्धनिषेधात् पूर्व्वार्द्धस्य ग्राह्यतैव। मासभेदे लग्नभेदानां शून्यत्वात् तत्तन्मासे शून्यलग्ने विवाहो नेष्टः यदाह व्यव० च० “घटमत्स्यवृषा युग्ममेषकन्यालयतुला। चापः कर्की मृगः सिंहश्चैत्रादौ शून्यराशयः” पङ्ग्वादिलग्नानि यानि वक्ष्यन्ते तान्यपि तत्रत्काले वर्ज्ज्यानि।

अथ लग्नसप्तमशुद्धी “यदा लग्नांशेशोलवमथ तनुं पश्यति युतोभवेद्वाऽयं वोढुः शुभफलमनल्पंरचयति। लवद्यूनस्वामी लवमदनभं लग्नमदनम् प्रपश्येद्वा बध्वाः शुभमितरथा ज्ञेयमशुभम्” मु० चि०। “यदा लग्नांशेशोलग्नांशस्तस्येशः स्वामी लवं नवांशं पश्यति। अथ वाऽयं नवांशेन सहयुतो वा भवेत्तदा वोढुर्वरस्यानल्पं बहुशुभफलं रचयति। यथा मेषलग्ने मिथुनांशस्तदीशो बुधः तुलायां मिथुनं पश्यति तत्र तिष्ठति वा अयमुदयशुद्धेः प्रथमः कल्पः। तदलाभे तु लग्नांशेशस्तनुं लग्नं पश्यति लग्नेन सह युतो वा भवेत्तदापि वोढुः शुभफलमनल्पं स्यात् यथा मेषलग्न एव मिथुननवांशस्वामी बुधोमकरे स्वनवांशं न पश्यति किन्तु लग्नं पश्यति अथवा मेष एव तिष्ठति। अयं लग्नशुद्धेः द्वितीयः प्रकारः। लवेति। लवद्यूनस्वामी लवान्नवांशात् द्यूनं सप्तमनवांशस्त्रत्स्वामी लवमदनभं लवान्मदनभं सप्तमनवांशं पश्यति तेन सह युतो वा भवेत् तदा बध्वा अनल्पं शुभं रचयति। यथा मिथुननवांशात् सप्तमोधनुरंशस्तदधीशोगुरुर्मेषु धनुः पश्यति तत्र तिष्ठति वा अयमस्तशुद्धेः प्रथमः प्रकारः। तदलाभे तु लवद्यूनस्वामी लग्नमदनं सप्तमभवनं पश्यति सप्तमभवनेन सहयुतो वा भवेत्तदा बध्वाः शुभं यथा मेषलग्ने गुरुः कर्के सप्तमतुलागतं स्वनवांशं धनूरूपं न पश्यति किन्तु सप्तमभवनं तुलां पश्यति अथवा तुलायामेवास्ति। अथमस्तशुद्धेर्द्वितीयः प्रकारः। इतरथेति इतरथा यदा लग्नांशेशोलवन्तनुं वा न पश्यति तत्र युतो वा न स्यात्तदा वरस्याशुभं मृत्युः स्यात्। यदा त्वस्तांशेशोऽस्तांशमस्तभवनं वा न पश्यति तत्र युतो वा न स्यात्तदा कन्याया अशुभं मृत्युरित्यर्थः। यदाह कश्यपः “स्वस्वेशेनोदयास्तांशौ वीक्षितौ वाथ संयुतौ। लग्नं वास्तगृहं तत्तदंशेशेनेक्षितं युतमिति” तदाऽशुभमित्यनुषङ्गः। वसिष्ठः इष्टोदयांशे निजपत्यदृष्टे वरस्य मृत्युस्तनुसंयुते च। अस्तांशकेऽप्येवमदृष्टयुक्ते स्वस्वामिना नाशमुपैति कन्येति”। तुल्यन्यायत्वाल्लग्नेऽप्यस्तलग्नेऽपि उदयलवांशास्तांशस्वामिनोर्दृष्ट्यभावेऽप्येतदेव फलं ध्येयम्। “लवेशोलवं लग्नपोलग्नगेहं प्रपश्येन्मिथो वा शुभं स्याद्वरस्य। लवद्यूनपोऽंशं द्युनं लग्नपोऽस्तं मिथोवेक्षते स्याच्छुभं कन्यकायाः” मु० चि०। “नवांशस्वामी नवांशं प्रपश्येल्लग्नस्वामी लग्नं प्रपश्येत्तदा वरस्य शुभं स्यात्। अथ वा मिथः परस्परं लवस्वामी लग्नं लग्नेशोलवकं प्रपश्येत् तदाऽपि वरस्य शुभम् एवं लवद्यूनपोनवांशात्सप्तमनवांशस्वामी अंशं द्यूनमंशं सप्तमराशिमीक्षते लग्नपः लग्नस्वामी अस्तं लग्नात्सप्तमभवनमीक्षते तदा कन्यायाः शुभं स्यात्। वा अथवा मिथः सप्तमाधीशोलग्नसप्तमं वीक्षते लग्नात्सप्तमाधीशश्चांशसप्तममीक्षते तदापि कन्यायाः शुभं स्यात्। अत्रान्यथात्वे दम्पत्योरशुभमित्यर्थः।

यदाह नारदः “लग्ननवांशकौ स्वस्वपतिना वीक्षितौ युतौ। न चेद्वान्योऽन्यपतिना शुभमित्रेण वा थवा। वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ। एवन्तौ वीक्षितौ युक्तौ मृत्युर्बध्वाः करग्रहे”। वसिष्ठोऽपि “उदयांशः सस्वनाथो मित्रसौम्येन वा युतः। प्रेक्षितो वा तथास्तांशो दम्पत्योः पुत्रपौत्रदः” इति। परस्परवीक्षणेऽप्येतदेव फलं ध्येयं नारदवाक्यस्वरसात् पी० धा०। “लवपतिशुभमित्रं वीक्षतेऽंशन्तनुं वा परिणयन करस्य स्याच्छुभं शास्त्रदृष्टम्। मदनलवपमित्रं सौम्यमंशद्युनं वा तनुमदनगृहं चेद्वीक्षते शर्म बध्वाः” मु० चि०। “अथ पूर्वोक्तप्रकारेणोदयास्तशुद्धेरभावेऽपि तृतीयप्रकार उच्यते। लवपतीति शुभमित्रं शुभञ्च तन्मित्रं चेति कर्म धारयः। लवपतेर्लग्ननवांशेशस्य शुभग्रहः सोमबुधगुरुशुक्राणामन्यमश्चेन्मित्रंस्यात्स चेदंशं स्वनवांशन्तनुं लग्नं वा वीक्षते तदा परिणयनकरस्य वरस्य शास्त्रदृष्टं वसिष्ठोक्तपुत्रपौत्रादिप्राप्तिरूपं शुभं फलं स्यात् अथ वा एवं मदनलवस्यास्तांशेशस्य मित्रं सौम्यं चेत् स्यात्तच्चांशात् द्यूनं सप्तमनवांशं चेद्वीक्षते वा अथ वा तनुमदनगृहं लग्नात्सप्तमभवनज्ञेद्वीक्षते तदा बध्वाः शास्त्रदृष्टं शर्म स्यात्। यद्युभयत्रापि नवांशस्वामिनो मित्रं पापग्रहश्चेत्तस्य दृष्टिरशुभैवेति फलितार्थः। यदाह वराहः “शुद्धस्त्विह स्यान्न यदोदयांशोलग्ने नवांस्तांशमुपैति शुद्धिम्। तदा सुहृत्सौम्यनिरीक्षितोयः शुभाय स स्यात्प्रपदन्ति सन्तः” इति। कश्यपः “राश्यंशौ मित्रसौम्येन वीक्षितौ वाथ संयुतौ। उदयास्तांशयोः शुद्धिस्त्रिविधा मङ्गलप्रदेति”। वसिष्ठः “लग्नास्तशुद्ध्या रहितः सदीषः करोति मृत्युं वरकन्ययोश्च। त्रातुं तदा लग्नगुणास्त्वशक्तास्तं बन्धुवर्गा इव सर्पदष्टमिति”। केचित्तु विवाहादौ वज्रयोगं निषिद्धमाहुस्तल्लक्षणम्। “तिथिवारं च नक्षत्रं नवभिश्च समन्वितम्। सप्तभिस्तु हरेद्भागं शेषाङ्के फलमादिशेत्। त्रिशेषे तु जलं विद्यात् पञ्चशेषे प्रभञ्जनः। सप्तशेषे वज्रपातोज्ञेयं वज्रस्य लक्षणमिति टोडरानन्दे” पी० धा० अथ सूर्य्य संक्रातिदोषः “विषुवायनेषु परपूर्ब्धमध्यमान्दिवसांस्त्यजेदितरसंक्रमेषु हि। घटिकास्तु षोडश शुभक्रियाविधौ परतो पि पूर्ब्बमपि सन्त्यजेद्बुधः” मु० चि०। “विषुवन्तुलामेषसंक्रान्ती अयनं कर्कमकरसंक्रान्ती एवञ्चतसृषु विषुवायनाख्यासु संक्रान्तिषु परपूर्ब्बमध्यमान् दिवसान्बुधः शुभक्रियाविधौ विवाहयज्ञोपवीतादि शुभकार्य्येषु त्यजेत्। इतरास्वष्टसंक्रान्तिषु संक्रमकालात्परतोऽग्वेऽपि पूर्ब्बं प्रागपि षोडश घटिकाः मिलित्वा द्वात्रिंशद्घटिकास्त्यजेत्! यदाह वसिष्ठः “विषु वतोरयनयोर्दिवसत्रयं हरिपदे षडशीतिमुखेषु च। पूर्वतोऽपि परतोऽपि संक्रंमान्नाडिकाश्च खलु षोडश त्यजेत्। संक्रान्तिदोषे त्वचिरात् कृतं यदुद्वाहपूर्वाखिल मङ्गलाद्यम्। लाक्षासमूहज्वलिताग्निमध्ये बिलीयते तद्वदशेषमेतदिति” उद्वाहादिग्रहणात्स्नानादावनिषेधः। तद्वाक्यानि संक्रान्तिप्रकरणेऽस्माभिरुक्तानि। किन्तद्दिनत्रयं त्याज्यं किं संक्रान्तिकालात् प्राग्दिनत्रयमुत तदनन्तरमुत मध्यमं वेति पक्षत्रयसम्भवे निर्णयमाहगुरुः। “अयने विषुवे पूर्व्वम्परं मध्यन्दिनन्त्यजेत्। अन्य संक्रमणे पूर्व्वाः पराः षोडश नाडिका इति”। अयञ्च निषेधः सायनसंक्रान्तिष्वपि ध्येयः। यदाह वसिष्ठः “यदाऽ- यनप्रवेशः स्यात्तदा तद्राशिसंक्रमः। तस्मिन्नपि दिने त्याज्या नाड्यः षीडश षोडशेति”। शौनकः “अयनद्वये समूढा भर्त्तारं नाभिनन्दते नारी। विषुवद्वयेऽपि बिधवा षडशीतिमुखेषु सा म्रियते। विष्णुपदेषु विगीता कन्या विकलेन्द्रिया व्यतीपाते। वैधृतिविष्ट्योर्भ्रष्टा सुभगा शेषेषु करणेष्विति” पी० धा०। अथ पङ्ग्वन्धादिलग्नदोषः “घस्रे तुलाली बधिरौ मृगाश्वौ रात्रौ च सिंहाजवृषा–दि वान्धाः। कन्यानृयुक्कर्कटका निशान्धा दिने घटीऽन्त्यो निशि पङ्गुसंज्ञः” मु० चि०। “घस्रे दिवसे तुलावृश्चिकौ बधिरौ स्मृतौ, मृगाश्वौ मकरधनुषी रात्रौ न तु दिवसे, सिंहाजवृषा दिवान्धा दिवसे बधिरौ न तु रात्रौ। कन्या नृयुक्कर्कटा निशान्धारात्र्यन्धा न तु दिवान्धाः। घटः कुम्भोदिने पङ्गुसंज्ञो नतु रात्रौ। अन्त्योमीनो निशि पङ्गु संज्ञोन तु दिने। यदाह वसिष्टः “मेषादिचान्धकं षट्कं चत्वारोबधिराः स्मृताः। द्वौ पङ्गूचेति विज्ञेयावित्येतद्रा शिलक्षणम्। मेषो वृषो मूगेन्द्रश्च दिवसेऽन्धाः प्रकीर्त्तिता। नृयुक्कर्कटकन्याश्च रात्रावन्धाः प्रकीर्त्तिंताः। तुला च वृश्चिकश्चैव दिवसे बधिरौ तथा। धनुश्च मकरश्चैव बधिरौ निशि कीर्त्तितौ। कुम्भमीनौ च पङ्गू द्वौ दिवारात्रौ यथाक्रममिति”। कुम्भोदिवा पङ्गुर्मीनो रात्रौ पङ्गुः, अनेन यस्मिन्काले लग्नस्य योऽन्धपड्ग्वादिदोषः उक्तस्तस्मिन्नेव काले तल्लग्नन्दोषावहं न कालान्तरे” पी० धा०। तत्फलम्। “दारिद्र्यम्बधिरतनौ दिवान्धलग्ने वैधव्यं शिशुमरणं निशान्धलग्ने पङ्ग्वङ्गे निखिलधनानि नाशमीयुः सर्वत्राधिपगुरुदृष्टिभिर्न दोषः” मु० चि०। “वसिष्ठः “अन्धे वैधव्यमाप्नोति दारिद्र्यं बधिरे तथा। अथ नाशो भवेत् पङ्गाविति धात्रा विनिर्म्मितम्”। व्यासः “मासशून्याह्वयास्तारा राशयो बधिरादयः। गौडमालवयोस्त्याज्यास्त्वम्यदेशे न गर्हिता इति पी० धा०।

अथ नवांशशुद्धिः। “कार्मुकतौलिककन्यायुग्मलवे झषगे वा। यर्हि भर्वदुपयामस्तर्हि सती खलु कन्या” मु० चि०। “कार्मुकं धनुस्तौलिकं तुला नृपुग्मं मिथुनम् एषामंशे नवांशे झषगे मीनगते वाशब्दश्चेकीयमसूचनार्थः धनुरादिनवांशाः सर्वमुनिसम्मता इत्यर्थः तेष्वंशेष यर्हि यदा उपयामो विवाहो भवेत्तर्हि कन्या विवाहोत्तरं सती पतिव्रता खलु यदाह विसष्ठः “लग्ने हि सर्वे शुभराशयश्च शुभेक्षिता वाथ युताः शुभाः स्युः। नवांशकस्तौलिनृयुग्मकन्याचापाद्य- भागः शुभदो न चान्ये। द्विभर्तृका मेषनवांशके स्यात् झषांशके सा पशुशीलयुक्ता। धनान्विता पुत्रवती तृतीये कुलीरकांशे कुलटाप्यजस्रम्। सिंहांशके सा पितृमन्दिरस्था कन्यांशके वित्तयुता सुशीला। तुलांशके सर्व्वगुणास्पदा सा कीटां शके निःस्वतराविशीला। चापांशकाद्ये धनिनी द्वितीये भागेऽन्यसक्ता मलिना गदाढ्या१ निःस्वा मृगांशे विगुणा घटांशे विभर्तृका योगरता विशीर्णा। मीनांशके भर्तृसुतार्थहीना शुभग्रहै र्युक्तनिरीक्षिते वा। तस्मात्सदैवोक्तनवांशकेषु कुर्याद्विवाहङ्गुणसंघवृद्ध्यै। नवांशदोषः सकलङ्गुणौघं लग्नोत्थसौम्यग्रहसम्भवञ्च। ध्रुवं निहन्त्येव वृकोऽजसङ्घंषड्वर्गजं सौम्यवियच्चराणाम्”। पशुशीलयुक्ता पशुचारपरा गदोरोगः एते एव च नवांशाः सकलमुनिभिरुक्ताः “तुलामिथुनकन्यांशाधनुराद्यार्द्धसंयुताः। एते नवांशाः शुभदा यदि नान्त्यांशकाः खल्विति” नारदोक्तेः शौनकस्तु मीनांशकमपि शुभमाह “सुदती सौभाग्यवती प्रहसितवदना च मीनांशे” इति। तत्र निबेधस्य तुल्यबलत्वात्षोडशीग्रहाणाग्रहणवद्विकल्प इत्याहुः तन्न एकबाधेनोपपत्तावनेकबाधोनन्याय्य इति वहुमुनिवचनप्रामाण्यात् मीनांशत्याग एवोचितेनि त्वेकमुनिवचनानुरोधात्पाक्षिकोविकल्पविधिस्तस्याष्टदोषग्रस्तत्वात्। का तर्हि शौनकवाक्यस्य गतिरिति चेत् गुणवद्वरोपलब्धौ लग्रान्तरासम्भवे मीनांशको निषि द्धोऽपिप्रशस्त इत्येवं विषया गतिर्युक्ता” पी० धा०। “अन्त्यनवांशे न च परिणेया काचन वर्गोत्तममिह हित्वा। नो चरलग्ने चरलवयोगे तौलिमृगस्थे शशभृति कुर्य्यात्” मु० चि०। “विहितनवांशेष्वपि यथा मेषलग्ने धनुर्नवांशोऽन्तिम इत्येवं विधिविषये लग्नान्तिमनवांशे काचन कन्या न परिणेया न विवाह्या। परन्तु वर्गोत्तमं नवांशं हित्वा तत्र विवाह उचित एव। यथा मिथुनलग्ने मिथुनांशोऽन्तिमोऽपि वर्गोत्तमः। यदाह कश्यपः “अन्त्यांशका अपि श्रेष्ठा यदिवर्गोत्तमाह्वयाः। अनुक्तांशास्तु न ग्राह्या यतस्ते कुनवांशकाः” इति। वसिष्ठोऽपि “वर्गोत्तमं विनान्त्यांशे विवाहो न शुभप्रदः। वर्गोत्तमश्चेदन्त्यांशः पुत्रपौत्रादिवृद्धिदः” इति। अन्यच्च नो चरलग्ने इति। तौलिमृगस्थे तुलामकरस्थे शशभृति चन्द्रे सति चरलग्ने विहितचरलवयोगे नो कुर्य्यात्। यथा मेषलग्ने तुलांशे उक्तञ्च केशवार्केण “चरलवं चरवेश्मगमुत्सृजेन्मृगतुला धरगे मृगलक्ष्मणि। युवतिरत्र भवेत् कृतकौतुका मदन- वत्यनवत्यजनोन्मुखीति”। अनवो जीर्ण्णोभर्त्ता तस्य त्यजने त्यागे उन्मुखी परपुरुषरता स्यादित्यर्थः पी० धा०।

अथ लग्नादिस्थ ग्रहदोषः “व्यये शनिः स्वेऽवनिजस्तृतीये भृगुस्तनौ चन्द्रखला न शस्ताः। लग्नेट् कविर्ग्लौश्च रिपौ मृतौ र्ग्लार्लग्नेट्णुभाराश्च मदे च सर्वे” मु० चि०।

“व्यये द्वादशस्थाने स्थितः शनिः न शस्तः “सोमपकुलेऽपि हि जातां द्वादशगे मद्यपां कुरुते” इति शौनकोक्तेः। अत्र रविसुते इत्यनुवर्त्तते। “खे दशमेऽवनिजो मङ्गलो न शस्तः। “शाकिनी व्योम्नि वक्रे” इति केशवार्कोक्तेः। तृतीयो भृगुः शुक्रः न शस्तः “धन्या धनगे शुक्रे कृपणत्वं प्राप्नुयान्नारी। दुश्चिक्यगते तु कन्या त्र्यब्दाद्भर्द्रुः कनीयसा–स्वजते” इति शौनजोक्तेः। तनौ लग्ने चन्द्रः खलाः पापग्रहाश्च न शस्ताः। “लग्नस्थेऽर्के कन्या विधवा संवत्सरेऽष्टमे भवति। लग्नस्थो हिमरश्मिर्मृत्यु कुर्य्यात् त्रयोदशे मासे। भौमः सद्यो विधवां लग्नस्थोऽव्दान्न सोम्यदृग्योगात्। कामयति नीचवर्णाल्ल~ ग्नस्थे रविसुते बहून् पुरुषान्। शनिवद्विधुन्तुदस्य तु विज्ञेयं सदसदिति विज्ञैरिति” शौनकीक्तेः। लग्नेट् लग्नस्वामी, कविः शुक्रः ग्लओश्चन्द्रश्च रिपौ षष्ठस्ताने न शस्तः। “रन्ध्रे कुजे सौम्यस्वगे च मृत्युः षष्ठाष्टगे जग्नपतौ च मृत्युरिति” ज्योतिर्निबन्धोक्तेः। “भृगुषट्काह्वयो दोषोलग्नात् षष्ठगते सिते। उच्चगे शुभसंयुक्ते तल्लग्नं सर्वदा त्वजेदिति” नारदोक्तेः। “अव्दचतुष्कान् मृत्युर्दम्पत्योः षष्ठगे चन्द्रे” इति शौनकोक्तेः। ग्लौश्चन्द्रः लग्नेट्ट् शुभाश्चन्द्रबुधगुरुशुक्राः आरोभौमश्चैते मृतावष्टमस्ताने न शस्ताः “मासत्रयेण विधवां निधनगश्चन्द्रमाः कुरुते” मासत्रयेण कन्या निधनस्थे याति पञ्चत्वम्”। बुधैत्यनुवर्त्तते। “दम्पत्योर्निधनस्थः सप्तदशाव्दाद्वियोगदो जीवः। पञ्चत्वं नयति भृगुर्निधनस्थः सप्तभिर्वर्षैरिति” शोनकोक्तेः। नारदः “कुजाष्टमो महादोषो लग्नादष्टमगे कुजे। शुभत्रययुतं लग्नं त्यजेत् तत्तुङ्गगो यदि”। अत्र सम्मतिः प्रागुक्ता। लग्नेट् च पुनः सर्व्वे सूर्य्यादयोग्रहा मदे सप्तमस्याने न शसाः निषिद्धाः। “सर्वे जामित्रसंस्थाविदधति मरणमिति” वसिष्ठोक्तेः। कश्यपोऽपि “सप्तस्थानगाः सर्वे ग्रहाः कुर्व्वन्ति शीघ्रतः। दम्पत्योर्मरणं यत् स्यादेकस्य च न संशयः” इति अर्थादन्येषु स्थानेषु ग्रहाः समीचीनास्तत्र केषुचित् स्थानेषु शुभा एव केषुचिन्मध्यमा एवेत्येतदपि वक्ष्यति। अतोऽमुमर्थमतिसंक्षिप्य त्रिवि कमेण निषिद्धस्थानान्येवोक्तानि। “त्याज्या लग्नेऽव्धयोमन्दात्, षष्ठे शुक्रेन्दुलग्नपाः। रन्ध्रे चन्द्रादयः पञ्च सर्व्वेऽस्तेऽब्जगुरू समाविति”। (मन्दादब्धयः चत्वारो मन्दरवि चन्द्रकुजा इत्यर्थः)। अब्जगुर्वोः समत्वं शौनकमतेन तादृशविरुद्धफलाभावात्। यदाह “कन्यास्तिस्रो जनयति सापत्न्यं चैव सप्तमे शशिनि”। “शीलचरित्रोपेताङ्करोति पत्युः कलत्रगे द्वेष्यामिति”। गुरुरित्यनुवर्त्तते अत्र वचनद्वयप्रामाण्याद्विकल्पः। यत्त्वत्रिणोक्तं “जामित्रगो यदि भवेदुशना बुधो वा गीर्वाणनाथसचिवः सितचन्द्रपक्षे। कन्याविवाहसमये परिहृत्य दोषान् सौभाग्यपुत्रसहितां वनितां करोतीति” तच्चन्द्रजामित्रविषयम्। तथा च भुजबलः “स्त्रीणां विवाहे तु बलैरुपेताः पत्युः प्रणाशं विहगा विदध्युः। त्यक्त्वाबुधं दैत्यगुरुं गुरुं च निशाकरादस्तगृहप्रपन्नाः” इति। अतएव दीपिका “रविमन्दकूजाक्रान्तं मृगाङ्कात् सप्तमं त्यजेत्। विवाहयात्रा चूडासु गृहकर्म्मप्रवेशने” इतिपी० धा०

अथ लग्नतःस्थानविशेषे ग्रहभेदानां शस्तता “त्र्यायाष्टषट्सु रविकेतुतमोऽर्कपुत्रास्त्र्यायारिगः क्षितिसुतो द्विगुणायगोऽब्जः। सप्तव्ययाष्टरहितौ ज्ञगुरू सितोऽष्टत्रिद्यूनषड्व्ययगृहान् परिहृत्य शस्तः” मु० चि०।

“तृतीयैकादशाष्टमषष्ठस्थानेषु रविकेतुतमोऽर्कपुत्राः शस्ताः शुभफलदातारः। यदाह शौनकः “बन्धुजनेभ्यः पूजां त्रिंशद्वर्षाणि सहजगे त्वर्के। प्राप्नोति धनं षष्ठे त्र्यव्दादूर्द्धं सुताश्चैव। दम्पत्योः सह मरणं निधनस्थेऽर्केऽष्टसप्तत्या। कारयति धनविवृद्धिं त्र्यव्दाधूर्द्धं तथा यगः सवितेति” (रवेः) धनदान्यपुत्रयुक्तां पञ्चमसंवत्सरात्तृतीयस्थः। षष्ठः षड्भिर्मासैरसपत्नीं कन्यकां कुरुते। निधनगतार्किः कुर्य्यादामरणादामयवियुक्ताम्। आयगतार्किः कन्यां त्रिवर्गयोग्यां करोति षण्मासादिति” (शनेः) अत्र राहुकेत्वोश्च फलं शनिवदेवेति “स्वर्भानौ वाप्यथ शिखिनि वा लग्नबावादिसंस्थे” इति वसिष्ठोक्तेः त्र्यायारिगः तृतीयैकादशषष्ठस्थानस्थितः क्षितिसुतो भौमः शस्तः। “सहजस्थो भूमिसुवः सौभाग्यकरस्तु यावदायुष्यम्। संवत्सरेण विपुलं धनागमं शत्रुसंस्थस्तु। मणिकाञ्चनरत्नाढ्यामेकादशगः कुजोऽव्दषट्केन” इति शौनकीक्तेः। अब्जश्चन्द्रोद्विगुणायगोद्वितीयतृतीयैकादशस्थः शस्तः। “अव्दाद्धनसंयुक्तां करोति चन्द्रो धने नार्य्याः। चन्द्रस्तृतीय राशौ सौभाग्यकरस्तु यावदायुष्यम्। लग्नादेकादशगः कन्यामिन्दुर्धनान्वितां कुरुते” इति शौनकोक्तेः। ज्ञगुरू बुधवृहस्पती सप्तमद्वादशाष्टमातिरिक्तस्थानस्थितौ शस्तौ। उक्तस्थानानाम् अशुभत्वादन्येषां शुभदातृत्वात्। यदाह वसिष्ठः। “प्रीतिर्वृद्धिः सगुणनिरतिर्वन्धुपूजा सुताप्तिः सद्वैपक्ष्यं तनयरहितं त्वन्यथा भर्त्तृनाशः। धर्मे बुद्धिर्भवति धरणीलब्धिरत्येव वृद्धिर्हानिः स्त्रीणां हिमकरसुते लग्नभावादिसंस्थे” इति। “लक्ष्मीप्राप्तिर्भवति सुयशाः प्रीतिरन्योन्यवृद्धिरिष्टप्राप्तिर्बहुविधमयं चाश्रमाणां विरक्तिः। पापासक्तिः सुकृतविरतिर्भूरिलाभः सुरेज्ये स्त्रीणां सौख्यं रिपुकृतभयं लग्नभावादिसंस्थे” इति अयं शुभदैवं अयः शुभावहो विधिहित्यमरः। क्लीबत्वं त्वार्षम् केचिद्बहुविधभयमिति” पठन्ति तन्मकारे भवकारभ्रान्तेः “उभयकुलानन्दकरीं करोति न चिराद्गुरुः षष्ठे” इति षष्ठस्थानस्थितगुरोः शौनकेनापि सम्यक्फलाभिधानात्। सित इति अष्टमतृतीयसप्तषड्द्वादशस्थानानि परिहृत्य त्यक्त्वात्येषु स्थानेषु सितः शुक्रः शस्तः। तदुक्त वसिष्ठेन “भोगप्राप्तिर्विविधविभवं स्वैरवृत्तिर्महत्त्वं द्युम्नाधिक्यं भवति निधनं सर्व्वनाशोऽवसुत्वम्। तथ्यप्रीतिर्बहुविधगुणाः सर्वसम्पत्समृद्धिरस्वं स्त्रीणामुशनसि तथा लग्नभावादिसंस्थे” इति द्युम्नं द्रविणम्। अवसुत्वं दरिद्र्यता। अस्वं दारिद्र्यम्। वसिष्ठः “मृत्युर्नैस्वं बहुविधधनं भ्रातृहानिः प्रजानां व्याधिः सौख्यं बहुविधमतोभर्त्तृहानिश्चिरायुः। श्रेयोहानिर्भवति हृदयव्याधिरर्थागमश्च भानौ स्त्रीणामतिशयरुजा लग्नभावादिसंस्थे। (रवेः) नाशः सम्पद्बहुविधयशोबन्धुवृद्धिः प्रजाप्तिः शस्त्रान्म्रत्युर्भवति न चिराद्दीर्घसापत्न्यबाधा। प्रव्रज्यात्वं दुहितृजननं वर्द्धनं भोगमाक्त्वं दास्यं स्त्रीणां तुहिनकिरणे लग्नभावादिसंस्थे (इन्दोः)। अत्र चतुर्थचन्द्रस्य प्रजाप्तिः फलमभिहितम् श्रीपतिनापि “सुखे तु कथितो बन्धुक्षयः कैश्चनेत्येकीयमतमनुसृत्योक्तमिति ग्रन्थकृता चतुर्थस्थानस्य मध्यमत्वमङ्गीकृतम्। “बधूं श्वशुरवियुक्तां चतुर्थस्थः शशी त्वाव्दादिति” शौनकः। विरुद्धार्थयोः का गतिति चेत्। बालचन्द्रविषयमशुभफलम् तद्भिन्नचन्द्रविषयं शुभफलम्। उक्तञ्च केशवार्केण “वालोऽब्जः प्रियविरहं शनिः स्तनाम्भःशून्यत्वं सृजति सुखे सुवासिनीनामिति” वसिष्ठः “मुत्युः शोको बहुविधधनं भ्रातृवैरं कुबुद्धिर्लक्ष्मीप्राप्तिर्भवति मरणञ्चोभयोर्वंशनाशः। स्त्रीणां द्वेषो व्यसननि रतिः पुत्रपौत्रादिसिद्धिर्भीतिर्भूमेर्बलिनि तनये लग्नभावादिसंस्थे” (कुजस्य)। स्वच्छन्दत्वं कदशनरतिर्वल्लभत्वं विशीलं व्याधिः सुश्रीर्मृतिरथ सुखं गर्भपातप्रवृत्तिः द्यूतासक्तिर्भवति रविजे वैभवं वक्त्ररोगं स्वर्भानौ वाप्यथ शिखिनि वा लग्नभावादिसंस्थे” पी० धा० बुधादीनामनुपदमुक्तम्।

अथ लग्नादिभञ्जककर्त्तर्य्यादिदोषापवादः

“पापौ कर्त्तरिकारकौ रिपुगृहे नीचास्तगौ कर्त्तरीदोषोनैव सितेऽरिनीचगृहगे तत्षष्ठदोषोऽपि न। भौमेऽस्ते रिपुनीचगे न हि भवेद्भौमोऽष्टमो दोषकृन्नीचे नीचनवांशके शशिनि रिप्फाष्टारिदोषोऽपि न” मु चि०।

“तत्र कर्त्तरीयोगलक्षणं लग्नात् पापावित्यादिनोक्तं यौ क्रूरौ ग्रहौ कर्त्तरिकारकौ रिपुगृहे शत्रुगेहे स्थितौ नीचेऽस्तगौ स्वनीचराशिस्थितौ अस्तं गतौ वा तदा कर्त्तरीनैव स्यात् यदाहुः कश्यपनारदवसिष्ठाः “पापयोः कर्त्तरीकर्त्त्रीः शत्रुनीचगृहस्थयोः। यदा चास्त गयोर्वापि कर्त्तरी नैव दोषदा” इति इदं विशेषणं शत्रुगृहस्थत्वादिकं समुच्चितं व्यस्तं समस्तं वा ध्येयम, अपवादान्तरमुक्तं दैवज्ञम० गर्गेण। “क्रूरकर्त्तरिसंयुक्तं लग्नं चन्द्रं च न त्यजेत्। केन्द्रत्रिकोणसंस्थेषु गुरुभार्गववित्सु च”। “विधौ धनोपगे शुभग्रहेऽथवान्त्यगे गुरौ। न कर्त्तरी भवत्यहोजगाद वादरायणः। क्रूरद्वयस्यान्तरगंविलग्नं मृतिप्रदं चन्द्रमसञ्च रोगदम्। शुभैर्धनस्थैरथ वाऽन्त्यगे गुरौ न कर्त्तरी स्यादिह भार्गवाविदुरिति”।

अथ षष्ठशुक्रापवाद उच्यते। “सिते शुक्र्ऽरिगृहगे नीचगृहगे वा सति तत्षष्ठदोषो भृगुषट्कदोषोऽपि न स्यात् यदाह कश्यशः “नीचराशिगते शुक्रे शत्रुक्षेत्रगतेऽपि वा। भृपुषट्कोत्थितो दोषो नास्ति तत्र न संशयः” अथाष्टममौमदोषापवाद उच्यते। भौमेऽस्ते अस्तं गते रिपुनीचगे शत्रुगृहे वा स्वनीचगृहगे वा सत्यष्टमो भौमो न दोषकृत् स्यात्। उक्तं च कश्यपेन “अस्तगे नीचगे भौमे शत्रुक्षेत्रगतेऽपि वा। कुजाष्टमोद्भवोदोषो न किञ्चिदपि विद्यते” इति। अथ षडष्टद्वादशस्थान चन्द्रापवाद उच्यते। शशिनि चन्द्रे नीचनवांशके वा सति रिप्फाष्टारिदोषोऽपि द्वादशाष्टमशत्रुस्थानस्थित चन्द्रदोषोऽपि न स्यात्। “नीचराशिगते चन्त्रे नीचांशकगतेऽपि वा। चन्द्रे षष्ठारिरिप्फस्थे दोषो नास्ति न संशयः इति” कश्यपोक्तेः पी० धा०।

अथाव्दाद्यादिदोषापवादः “अव्दायनर्तुतिथिमासभपक्ष दग्धतिथ्यन्धकाणबाधिराङ्गमुखाश्च दोषा। नश्यन्ति विद्गुरुसितेष्विह केन्द्रकोणे तद्वच्च पापविधुयुक्तनवांशदोषाः” मु० चि०।

“अव्ददोषः१ अयनदोषः२ ऋतुदोषः३ तिथिदोषोरिक्तादिः४ मासदोषः५ नक्षत्रदोषः क्रूरसहितादिः ६। पक्षदोषस्त्रयोदशदिनात्मकादि ७ दग्धा तिथिः प्रसिद्धा चापान्त्यगेत्यादिनोक्ता ८। अन्धकाणबधिराख्योलग्नदोषः९ तन्मुखास्तदादयोऽन्ये अकालवृष्ट्याद्या दोषा विद्गुरु सितेषु केन्द्रकोणे केन्द्रं सप्तमस्थानरहितं विवक्षितं जामित्रदोषस्य सत्त्वात्। अतएवोक्तमग्रे “त्रिकोणे केन्द्रे वा मदनरहिते” इति कोणे नवपञ्चमे सत्सु नश्यन्ति। उक्तञ्च कश्यपेन “अव्दायनर्त्तुमासोत्थाः पक्षतिथ्यृक्षसम्भवाः। ते सर्वे नाशमायान्ति केन्द्रसंस्थे शुभग्रहे। काणान्धबधिरोद्भूता दग्धलग्नतिथेर्भवाः। ते दोषानाशमायान्ति केन्द्रसंस्थे शुभग्रहे” इति। “अकालजाश्च नीहारविद्युत्पांश्वभ्रसम्भवाः। परिवेषप्रतिसूर्यशक्रचापध्वजादयः। दोषप्रदा मङ्गलेषु कालजाश्चेन्न दोषदाः। गुररेकोऽपि केन्द्रस्थः शुक्रो वा यदि वा बधः। हरेः स्मृतिर्यथा हन्ति तद्वद्दोषानकालजान्। लत्तोपग्रहचण्डीशचन्द्रजामित्रसम्भवान्। तत् केन्द्रगोगुरुर्हन्ति सुपर्णः पन्नगानिवेति”। तद्वच्चेति तथा यदि पापः क्रूरोविधुयुक्तराशेर्नवांशे स्याद्यथा सचन्द्रे मेषे सूर्यनवांशस्तद्दीषोऽभिहितो यज्ञोपवीतप्रकरणे तदा तत्कृतदोषो नश्यति। उक्तञ्च संहिताप्रदीपे “सचन्द्रराशेरशुभीनवांशः प्रीक्तः सपापोऽपि विलग्नसंस्थः। त्रिकोणकेन्द्रेषु गुरुः सितो वा यदा तदाऽ सावशुभोऽपि शस्तः पी० धा०।

अथ बहुविधदोषापवादः “केन्द्रे कोणे जीव आये रवौ वा लग्ने चन्द्रे वा पि वर्गोत्तमे वा। सर्वे दोषानाशमायान्ति चन्द्रे लाभे तद्वद्दुर्मुहूर्तांशदोषाः” मु० चि०। “केन्द्रं प्रसिद्धं कोणं नवपञ्चमं तत्र च जीवो गुरुः स्यात्तदा सर्वे दोषानाशमायन्ति उपलक्षणत्वाद्बुधशुक्रावपि। यदाह नारदः उक्तानुक्ताश्च ये दोषास्तान्निहन्ति बली गुरुः केन्द्रसंस्थः सितोवापि पन्नगान् गरुडो यथेति” सितो बुधस्याप्युपलक्षकः। उक्तञ्च कश्यपेन “काव्ये गुरौ वा सौम्ये वा यदा केन्द्रत्रिकोणगे। नाशं यान्त्यखिलादोषाः पापानीव हरिस्मृतेरिति” तत्रापि लग्नाख्यकेन्द्रस्यातिबलत्वात्तत्र स्थितो जीवः सर्वारिष्टहरः तदुक्तं वसिष्ठेन “कुनवांश दोषाः ये लग्नदोषाः पापैः कृता दृष्टिनिपातदोषाः। लग्ने गुरुस्तान्विमलीकरोति फलं यथाम्भः कतकद्रुमस्येति”। अयवा आये एकादशे रवौ सति दोषनाशः। “यत्रैकादशगे सूर्ये दोषा नाशं ययुस्तदा। स्मरणादेव रुद्रस्य पापं जन्मशतोद्भवमिति”। अथवा लग्ने वर्गोत्तमे स्वनवांशयुक्ते यथा मिथुने मिथुनांशः तदा दोषनाशः। अथवा चन्द्रे वर्गोत्तमे स्वनवांशस्थिते वा सति दोषनाशः। द्वितीयवाशब्दस्यानुक्तसमुच्चयार्थत्वाच्चन्द्रो लग्नादुपचय ३, १०, ११ स्थाने चेत् स्यात्तदापि सर्वदोषनाशः। एवं क्रमेण परिहारत्रयमुक्तं यदाह कश्यपः “वर्गोत्तमगते लग्ने वर्गदोषा स्वयं ययुः। चन्द्रे वोपचये वापि ग्रीद्मे कुसरितो यथेति”। चन्द्रे इति तद्वत्तेनैव प्रकारेण दुर्मुहूर्त्ता रवावर्यभेत्यादयः, अंशदोषाः पापग्रहनवांशाख्यास्ते सर्वे चन्द्रे लामे एकाशस्थानस्थिते सति नाशमायान्ति। “मुहूर्तलग्नषड्वर्गकुनवांशग्रहीद्भवाः। ये दोषास्तान्निहन्त्येव यत्रैकादशगः शशीति”। अन्यदप्याह कश्यपः “लग्नाद्दुःस्थानगव्योमचरोत्थं दोषसञ्चयम्। शुभः केन्द्रगतोहन्ति दावाग्निर्विपिनं यथेति” पी० धा०। “त्रिकोणे केन्द्रे वा मनरहिते दोषशतकं हरेत् सौम्यः शुक्रोद्विगुणमपि लक्षं सुरगुरुः। भवेदाये केन्द्रेऽङ्गप उत लबेशो यदि तदा समूहं दोषाणां दहन इव तूलं शमयति” मु० चि०। “त्रिकोणे ५, ९ केन्द्रे सप्तरहिते १, ४, १०, यदि सौम्यो बुधस्तिष्ठेत्तदा दोवशतकं हरेत्। उक्तस्थानस्थितः शुक्रोऽपि द्विगुणं दोषशतकं दोषद्विशतीं हरेत्। तथोक्तस्थानस्थितो गुरुरपि लक्षं दोषान् हरेत्। यदाह नारदः “दोषाणां हि शतं हन्ति बलवान् केन्द्रगोबुधः। अपहाय द्युनं शुक्रोद्विगुणं लक्षमङ्गिराः”। अत्र शतशब्देनानेकसंख्यात्वं विवक्षितम्। अतएवाह कश्यपः “बलवान् केन्द्रगः सौम्यो हन्ति दोषशतत्रयम्। द्यूनं विहान दैत्येज्यः सहस्रं लक्षमङ्गिराः” इति। भवेदिति अङ्गपोलग्नस्वामी उत शब्दोवार्थे लवेशो लग्नगतांशनाथो वा आये ११ केन्द्रे १, ४, १० यदि भवेत्तदा स दोषाणां समूहं शमयति तत्र दृष्टान्तः दहनोऽग्निस्तूलं कार्पासमिव शमयति। तदुक्तं नारदेन “लग्नेट् लग्नांशनाथो वा चायनः केन्द्रगोऽपि वा। राशिं निहन्ति दोषाणामिन्धनानीव पावकः”

अथ ग्रहवशेन श्वशुरादिशुभाशुभनिरूपणम् “श्वश्रूः सितोऽर्कः श्वशुर, स्तनुस्तनु, र्जामित्रपः स्याद्दयितो, मनः शशी। एतद्बलं संप्रतिभाव्य तान्त्रिकस्तेषां सुखं संप्रवदेद्विवाहतः” मु० चि०। “शुक्रः श्वश्रूः सूर्यः श्वशुरः, अत्र कन्यानिमित्तशुभाशुभस्य विचारास्पदत्वात्तस्याः कन्यायाः श्वश्रूर्वरमाता श्वशुरोवरपिता, तनुर्लग्नं तनुः स्वशरीरं, जामित्रपः सप्तमाधीशोदयितो भर्त्ता ज्ञेयः, शशी मनोज्ञेयम् एतद्बलम् एतेषां शुक्रादीनां बलं विचार्यतान्त्रिकः तन्त्रसिद्धान्तवित् विवाहतो विवाहादनन्तरं तेषां श्वश्र्वादीनां सुखं स्यादिति प्रवदेत्। यदाह शौनकः “श्वशुरः सहस्रकिरणः श्वश्रूर्भृगुनन्दनो विनिर्दिष्टः। होरागमार्थकुशलैर्जामित्रपतिः पतिः स्त्रीणाम्। शरीरं लग्नवशात् सुखदुःखं मानसंशशाङ्कवशादिति”। शार्ङ्गीयेऽपि “श्वशुरोऽर्कः, सितः श्वश्रूः, स्त्रीणामस्तपतिः पतिः। एभिरुच्चोपगैरेषां शुभं नीचादिगैरसदिति” विशेषान्तरमप्युक्तं शार्ङ्गीये “सूर्यात्पतिः, स्त्री च विधो, स्तथाराद्वित्तं, सुतो ज्ञाच्छ्वशुरं गुरोश्च। धर्मः सितादर्कसुताच्च वेश्म, ब्रूयात्समुद्वाहविधौ स्वयुक्त्या, एतैर्नीचस्थितैः शत्रुगतैर्वाहादिकं न सत्। स्वगृहोच्च त्रिकोणस्थैः शुभमेषां यथोदितमिति”।

अथ संकीर्ण जातीनां विवाहे नियतकालविशेषः “कृष्णे पक्षे सौरिकुजार्केऽपि च वारे वर्ज्येनक्षत्रे यदि वा स्यात्करपीडा। संकीर्णानां तर्हि सुतायुधनलाभ प्रीतिप्रास्यै सा भवतीह स्थितिरेषा” मु० चि० “कृष्णपक्षे शनिभौमार्कवारे विवाहोक्तनक्षत्रादिभिन्ननक्षत्रेषु चकाराद्व्याघातशूलेत्यादि दुष्टयोगेष्वपि यदि संकीर्णानाम् अनुलोमप्रतिलोमजानां करपीडा विवाहः स्यात्। तर्हि सा करपीडा सुतायुर्धनलाभप्रीतिप्रात्यै भवति। एषा स्थितिराचारोऽस्त्रि, अनुलोमजामूर्द्धावसिक्तादयः प्रतिलोमजाश्चाण्डालादयः। वाकारग्रहणमेतदभावे विवाहाद्यावश्यकत्वे च प्रागुक्तदिनेऽपि स्यादिति सूचनार्थन्। तदुक्तं शार्ङ्गीये “कृष्णेपक्षे भानुभौमार्कजानां वारे योगे चापि विष्ण्ये निषिद्धे। संकीर्णानां दारकर्म प्रशस्तं प्रीत्यर्थायुःप्राप्तये शौनकाद्याः” इति। केशवार्कः “प्रायेण सङ्करभुवामशुभर्क्षपक्ष क्रूरक्षणेषु शुभकृत् करपीडनं स्यात्” इति

अथ लग्ने वक्तव्ये तदलाभे नोधूलिनिरूपणप्रशंसे “नास्यामृक्षं न तिथिकरणं नैव लग्नस्य चिन्ता नो वा वारो न च लवविधिर्नोमुहूर्त्तस्य चर्चा। नो वा योगो न मृतिभवनं नैव जामित्रदोषो गोधूलिः ला मुनिभिरुदिता सर्वकार्येषु शस्ता” मु० चि०। “यदयं न ऋक्षमित्यादिः स स्तुत्यर्थवादः तेन गोधूल्याः प्रशंसायां तात्पर्यं न तु विधिरन्यथा निषिद्धेषु अमावास्याभद्राभरणीत्यादिष्यपि गोधूलिलग्नं भवितुं युक्तं स्यात्। सामान्यवैयर्थ्यापत्तेरिष्टापत्तिरपि वक्तुमशक्या। तस्मादभिहिततिथ्यादिष्वेव यावच्छक्याखिलदोषप्ररिहार पूर्वकघटीलग्नं कार्यं तदभावे गोधूलिलग्नं कार्यम्। यदाह लल्लः “लग्नं यदा नास्ति विशुद्धमन्यद्गोधूलिकां साधु तदा वदन्ति। लग्ने विशुद्धे सति वीर्यवुक्ते गोधूलिका मेव फलं विधत्ते। शुभाशुभयुतं सर्वं राशेर्दोषन्त्वनिन्दितम्। विवाहलग्नवच्छेषङ्गोधूलीं प्राह भागुरिरिति” किञ्च “कुलिकं क्रान्तिसाम्यं च मूर्तौ षष्ठाष्टमः शशी। पञ्च गोधूलिके त्याज्या अन्ये दोषाः शुभावहाः” इति दैवज्ञमनहरीयवाक्यमपि सार्थकम्। गोधूल्यधिकारे आह नारदः “प्राच्यानां च कलिङ्गानां मुख्यं गोधूलिकं स्मृतम्। गान्धर्वादिविवाहेषु वैश्योद्वाहे चायोजयेत्। चतुर्थमभिजिल्लग्नमुदयर्क्षात्तु सप्तमम्। गोघूलिकं हि भवति सम्पत्पुत्रादिसौख्यदमिति”। दैवज्ञम० “घटीलग्नं यदा नास्ति तदा गोधूलिकं शुभम्। शूद्रादीनां बुधाः प्राहुर्न द्विजानां कदाचन। महादोषान् परित्यज्य प्रोक्तधिष्ण्यादिकेषु च। कारयेद्गोरजोयावत्तावल्लग्नं शुभावहमिति। लग्नशुद्धिर्यदा नास्ति कन्या यौवनशालिनी। तदा वै सर्ववर्णानां लग्नं गोधूलिकं शुभमिति”। अतएव भूपालवल्लभे “विप्रेषु घटिकाऽलाभे दातव्यं गोरजो बुधैः। संकीर्णे गोरजः शस्तं परेषु द्वितयं शुभमिति” तत्र गोधूलिसूक्ष्मकालसमयः केशवार्केणोक्तः “अत्रोभयत्र घटिकादलमिष्टमाहुर्ग्राह्यं तदम्बरमणेरपि चार्द्धबिम्बादिति” केचित्तु यावद्दिनान्ते दिशि पश्चिमाषां पश्येत्तॄतियं रविबिम्बभागम्। तस्मात्परं नाडीकयुग्ममेके गोधूलिकालं मुनयोवदन्तीति, तदेतयोः पक्षयोर्यथादेशाचारं व्यवस्था पी० धा०। “पिण्डीगूते दिनकृति हेमन्तर्तौ स्यादर्द्धास्ते तपसमये गोधूलिः। संपूर्णास्ते जलधरमालाकाले त्रेधा यीज्या सकलशुभे कार्यादौ” मु० चि०। “हेमन्ताख्ये ऋतौ हेमन्तशब्देन शीतकाल उपलक्ष्यते मार्गशीर्षादिमासचतुष्टये इत्यर्थः तत्र दिनकृति सूर्ये पिण्डीमूते ओदनगोलकसदृशे सन्ध्यायां नीहाराद्यावृतत्वेन निःप्रभे इत्यर्थः। तस्मिन् समये गोधूलिर्ज्ञेया तथा तपसमये उष्णकाले चैत्रादिचतुष्टये सूर्येऽर्द्धास्ते अर्द्धबिम्बस्य दृश्यत्वे च सति गोधूलिः। जलघरामेघास्तेषां मालासमूहस्तस्योत्पादके काले वर्षाकाले श्रावणादिमासचतुष्टये सूर्ये संपूर्णास्तेऽदर्शनं गते सति गोधूलिः। केवलमियं न विवाहे एव किन्तु सकलशुभे समस्तशुभकार्यादिष्वपि ज्ञेया। यदाह वराहः “गोधूलिं त्रिविधां वदन्ति मुनयो नारीविवाहादिके हेमन्ते शिशिरे प्रयाति मृदुतां पिण्डीकृते भास्करे। ग्रीष्मेऽर्द्धास्तमिते वसन्तसमये भानौ गते दृश्यतां सूर्ये चास्तमुपागते भगवति प्रावृट्शरत्कालयोरिति”। पी० धा०।

अथ गोधूलिसमयेऽवश्यवर्ज्यदोषाः “अस्तं याते गुरुदिवसे सौरे सार्के लग्नान्मृत्यौ रिपुभवने लग्ने चैन्दौ। कन्यानाशस्तनुमदमृत्युस्थे भौमे वोढुर्लाभे धनसहजे चन्द्रे सौख्यम्” मु० चि०। “गोधूलिरित्यतुन्वर्त्तते गुरुदिवसे वृहस्पतिवारे, सूर्य्येऽस्तंयाते सूर्य्यास्तादनन्तरं गोधूलिः शुभा स्यात् न तु सूर्य्यातात्पूर्वमर्द्धघटिकङ्गोधूलिलग्नं कार्य्यमर्द्धयामसद्भावात्। तथा सौरे शनिवारे सार्के सूर्य्यदर्शनसहिते गोधूलिः शुभा। न तु सूर्य्यास्तादनन्तरङ्कुलिकसद्भावात्। उपलक्षणत्वात् क्रान्तिसाम्यमपि त्याज्यम् तथा लानात्सायङ्कालीनलग्नान्मृत्यावष्टमे रिपुभवने षष्ठे वा लग्न एव वा चन्द्रे सति कन्यानाशः स्यात्। तदुक्तं दैवज्ञ० “कुलिकङ्क्रान्तिसाम्यञ्च मूर्त्तौ षष्ठाष्टमः शशी। पञ्च गोधूलिके त्याज्या अन्ये दोषाः शुभाबहाः”। अत्र कुलिकशब्देन तत्कालसम्भाव्यार्द्धयामाख्योवारदोषो गृह्यते अन्येषान्त्वसम्भव एव। लग्नस्थे मदनस्थे मृत्युस्थे वा भौमे सति वोढुर्वरस्य नाशो भवति तदुक्तञ्ज्योतिःसंहितासारे “षष्ठेऽष्टमे मूर्त्तिगते शशाङ्के गोधूलिके मृत्युमुपैति कन्या”। कुजेऽष्टमे मूर्त्तिगतेऽथवास्ते वरस्य नाशं प्रवदन्ति गर्गाः” अन्योऽपि विशेषस्तत्रैव “षष्ठाष्टमे चन्द्रजचन्द्रजीवे क्षौणीसुते वा भृगुनन्दने वा। मूर्तौ च चन्द्रे नियमेन मृत्युर्गोधूलिकं स्यादिह वर्जनीयमिति”। “धिष्ण्यङ्क्रूरयुतन्त्याज्यं मूर्त्तौ षष्ठाष्टमः शशी। गोरजस्तत्प्रशसन्ति सन्तः शनिदिनं विनेति”। उक्तञ्च “केशवार्केण गोधूलिकेऽपि विधुरष्टमषष्ठमूर्त्तौ यन्मोचयन्ति तदथो स्वरुचिंप्रपन्नाः। पञ्चाङ्गशुद्धिमयमेव विवाहधिष्ण्यैर्यस्मादिदं सततमस्तगते पतङ्गे। नांशो न लग्नमिह दृष्टयुतं स्वभर्त्त्रा नार्कारसौरितमसामपि सङ्ग भङ्गः। किञ्चान्द्रचारभयमेकमिहास्तु किञ्च नात्र प्रमाणवचनङ्किमपि श्रतं नः”। सार्के शनौ विरविचित्र शिखण्डिसूनौतत्केवलङ्कुलिकयामदलोपलम्भादिति”। चन्द्रे लाभस्थे वित्ते द्वितीयस्थे सहजस्थे वा सति स्त्रीपुरुषयोः सौख्यं स्यात्। तदुक्तं संहितासारे “यत्रैकादशगश्चन्दोद्वितीयो वा तृतीयगः। गोधूलिका स विज्ञेया शेषा धूलिरिति स्मृतेति” पी० धा०

ज्यो० त० मासभेदे फलभेदः। “मार्गे गोधूलियोगे प्रभवति विधवा, माघमासे तथैव, पुत्रायुर्धनयौवनेन सहिता कुम्भेस्थिते भास्करे। वैशाखे शुभदा, प्रजाबलवती, ज्यैष्ठे पतेर्मानदा आषाढे धनधान्यपुत्रबहुला, पाणिग्रहे कन्यका।

अथ विवाहादौ वर्ज्ज्यदोषसमष्टिः “उत्पातान् सह पातदग्धतिथिभिर्दुष्टांश्च योगांस्तथा चन्द्रेज्योशनसामथास्तमयनं तिथ्याः क्षयर्द्धी तथा। गण्डान्तञ्च सविष्टि संक्रमदिनं तन्वंशपास्तं तथा तन्वंशेशविधूनथाष्टरिपुगान् पापस्य वर्गांस्तया। सेन्दुक्रूरखगोदयांशमुदयास्ताशुद्धिचण्डायुधम्। खार्जूरं दशयोगयोगसहितं जामित्रलत्ताव्यधम्। वाणोपग्रहपापकर्तरि तथा तिथ्यृक्षयोगोत्यितं दुष्टं योगमथार्द्धयामकुलिकाद्यान् वारदोषानपि। क्रूराक्रान्तविमुक्तभं ग्रहणभं यत् क्रूरगन्तव्यभं त्रेधोत्पातहतञ्च केतुहतभं सन्ध्योदितम्भं तथा। तद्वच्च ग्रहभिन्नयुद्धगतभं सर्वानिमान् सन्त्यजेदुवाहे शुभकर्मसु ग्रहकृतान् लग्नस्य दोषानपि” मु० चि०। “उत्पातादीन्दोषानु द्वाहे यज्ञोपवीतादिशुभकर्मसु च सन्त्यजेदिति तृतीय श्लोकेनान्वयः। उद्वाहग्रहणं गोबलीवर्द्दन्यायेन मुख्यत्वसूचनार्थम्। उत्पातान् त्रिविधान् दिव्यान्तरिक्षभौमान् लक्षणया तत्सम्बन्धिनः सप्त वर्ज्यदिवसांस्त्यजेत्। यदाह गुरुः “दिग्दाहे वा महादारुपतने चाम्बुवर्षणे। उल्कापाते महावाते महाशनिनिपातने। अनभ्राशनि पाते च भूकम्पे परिवेषयोः। ग्रामोत्पाते शिवाशब्दे दुर्निमित्ते नशोभने। केतवो यत्र दृश्यन्ते स धूमा वा पृथग्विधाः। चन्द्रसूर्य्यग्रहे चैव वर्जयेद्दिनसप्तकमिति”। पातो महापातः क्रान्तिसाम्यमिति यावत् तद्गणितप्रसिद्वम्। दग्धतिथयः “चापान्त्यगे गोषटगे इत्यादिनोक्ताः एतैः सह त्यजेदिति सम्बन्धः तथा दुष्टान् योगान् व्यतीपात वैधृतिपरिवार्द्धादीन्। अथ चन्द्रेज्योशनसां चन्द्रगुरु शुक्राणाम् अस्तमयनमस्तं च तिथ्याः क्षयर्द्धी तिथिक्षयं तिथिवृद्धिं च पुनर्गण्डान्तं नक्षत्रतिथिलग्नैः त्रिविधं विष्टिर्भद्रा संक्रमदिनं तद्दिवसे वर्ज्या घटिकाः, ग्रयनेषु विषुवेषु च पूर्बापरं त्रिदिनमिति विशेषोध्येयः। ताभ्यां सहि- तमिति पूर्बेण सम्बन्धः। तन्वंशन्तनुर्लग्रम् अंशोलग्नगत विहितनवांशः तौ पातः तन्वंशपौ तयोरस्तं लग्नाधीशास्तं लग्नगतनवांसाधीशास्तं चेत्यर्यः तथा तन्वंशेशविधून् लग्ननवांशेशचन्द्रान् अष्टरिपुगान् अष्टमगतान् षष्ठस्थान् इन्दुश्च क्रूरखगश्चेन्दुक्रूरखगौ उदयो लग्नञ्च अंशो नवांशश्च उदयांशमिति समाहारद्वन्द्वैकवचनं इन्दुक्रूरखगाभ्यां सहितमुदयांशम्। इन्दुसहितं लग्नं लग्नाश च क्रूरग्रहेण सहितं लग्नं लग्नांशं चेत्यर्थः। पापस्येत्ये कत्वमविवक्षितं पापानां वर्गानित्यर्थः उदयाशुद्धिरस्ताशुद्धिश्च उदयास्ताशुद्धिः चण्डायुधम् “चण्डायुधं हर्षणवैधृतिसाध्येत्यादिनोक्तम्। खार्जूरं व्याघातगण्डेत्यादिनोक्तं दशयोगः “सूर्यर्क्षचन्द्रर्क्षयुतेरित्यादिनोक्तः, योगो ग्रहयुतिश्च तत्सहितं जामित्रलत्ताव्यधम् समाहारद्वन्द्वैकवचन जामित्र द्विविधं लग्नजामित्रं चन्द्रजामित्रञ्च लग्नाच्चन्द्रेत्यादिनोक्तं लत्ता “ज्ञराहुपूर्णेन्दुसिता” इत्युक्ता व्यधम् वेघं सप्तशलाकोक्तं पञ्चशलाकोक्तञ्च। वाणाः पञ्चकम् उपग्रहः प्रसिद्धः शराष्टदिक् शक्रेत्यादिः पापकर्त्तरी क्रूरग्रहकर्त्तरी समाहारद्वन्द्वैकवचनं तिथ्यृक्षवारोत्थितं दुष्टं योगं तिथिनक्षत्रवारै रुथितं उत्पन्नं दुष्टयोगम्। तथा तिथिनक्षत्रोद्भवं वैश्वमादिमे इत्यादि। तिथिवारोद्भवं सूर्य्येशपञ्चेत्यादिनक्षत्रवारोद्भवं याम्यन्त्वाष्ट्रमित्यादि अनेकं दुष्टयोगम् अथार्द्धयामकुलिकाद्यान् वारदोषानपि स्पष्टार्थम् आदिशब्देन दुर्मुहूर्त्तादिकान्। क्रूराक्रान्तविमुक्तभं क्रूराक्रान्तं क्रूरविमुक्तञ्च भंग्रहणभं यस्मिन् भे सूर्य्यचन्द्रोपरागो जातस्तद्भं यत् क्रूरगन्तव्यभं क्रूरेण जिगमिषितं यद्भं नक्षत्रं त्रेधोत्पातहतञ्च भम्। त्रिविधीत्पातैर्दिव्यभौमान्तरिक्षैर्हतं तन्मासषट्कं त्याज्यमेवं ग्रहणनक्षत्रमपि। केतुहतभञ्च केतुना हतम्भञ्च। सन्ध्योदितम्भम् अत्र सन्ध्याशब्देन साथंसन्ध्या गृह्यते। तत्रोदितं तत्काले यन्नक्षत्रस्य क्षितिजे उदयस्तत्तु सूर्य्यर्क्षाच्चतुर्दशं नक्षत्रमित्यर्थः। न तु प्रातःसन्ध्यायान्तत्र हि सूर्य्येणाक्रान्तभुक्तान्यतरत्वसत्त्वात्। यदुक्तं केशवार्केण “तरणितारकतोऽपि चतुर्दशं तदस्विलेऽपि खिलं शुभकर्मणीति”। तारकशब्दः क्लीबेऽपि। ननूपग्रहत्वादेव निषेधे सिद्धे पुनर्दोषाभिधान किमर्थम् उच्यते उपग्रहर्क्षदोषस्य सत्यावश्यकत्वे कुरुबाह्लिकदेशविषयत्वाच्चतुर्दशस्य च दोषाधिक्यसूचन्कादावश्यकेऽपि सर्वदेशविषयत्वेन निषैधो यथा स्यादिति। ग्रहभिन्नयुद्धगतभं ग्रहेण भेदितं ग्रहयुद्धगतञ्च षण्मास निषिद्धं तथा ग्रहकृतान् लग्नस्य दोषान्। “व्यये शनिःखेऽवनिजैत्यादिकान् लग्नसम्बन्धिदोषान् सन्त्यजेत्”। पी० धा०। ज्यी० त० ज्योतिःसारसंग्रहवाक्यम् “विवाहे तु दिवाभागे कन्या स्यात् पुत्रवर्जिता। विरहानलदग्धा सा नियतं स्वामिघतिनी” एतद्वचनस्यार्षमूलानुपलम्भात् पाश्चात्त्यादिभिरप्रामाणिकत्वमुररीकृत्यं दिवाऽपि विवाह आचर्यते। कन्यादानं च रात्रावपि कर्त्तुं शक्यते यथाह ज्यो० त० भारतम् “रात्रौ दानं न शंसन्ति विना चाभयदक्षिणाम्। विद्यां कन्यां द्विजश्रेष्ठाः दीपमन्नं प्रतिश्रयम्”। तत्रैव व्यासः रिक्तासु विधवा कन्या दर्शेऽपि स्याद् विवाहिता। शनैश्चरदिने चैव यदा रिक्ता तिथिर्भवेत्। तस्यां विवाहिता कन्या पतिसन्तानवर्द्धिनी” इत्युक्तेः शनिवारे रिक्तायामपि विवाह इति गौडाः। पाश्चात्त्यादिभिरेतद्वचनममूलकमेवेति मत्वा शनियुक्तरिक्तायां न तदा चर्य्यते। अथ विवाह्यस्त्रीशुभाशुभलक्षणान्युच्यन्ते। वृह० ७० अ० “स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समोपतिचचारुनिगूढगुल्फौ। श्लिष्टाङ्गुली कमलकान्तितलौ च यस्यास्तामुद्वहेद्यदि भुवोऽधिपतित्वमिच्छेत्। मत्स्याङ्कुशाब्जयवव्ज्रहलासिचिह्नावस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ। जङ्घे च रोमरहिते विशिरे सुवृत्ते जानुद्वयं सममनुल्वणसान्धिदेशम्। ऊरू घनौ करिकरप्रतिमावरोमावश्वत्यपत्रसदृशं विपुलं च गुह्यम्। श्रोणीललाट मुरुकूर्म्मसमुन्नतं च गूढो मणिश्च विपुलां श्रियमादधाति। विस्तीर्णमांसोपचितो नितम्बो गुरुश्च धत्ते रशनाकलापम्। नाभिर्गभीरा विपुलाङ्गनानां प्रदक्षिणावर्तगता प्रशस्ता। मध्यं स्त्रियास्त्रिवलिनाथमरोमशं च वृत्तौ घनावविषमौ कठिनावुरस्यौ। रोमापवर्जितमुरो मृदु चाङ्गनानां ग्रीवा च कम्बुनिचितार्थसुखानि धत्ते। बन्धुजीवकुसुमोपमोऽधरो मांसलो रुचिरविम्बरूपभृत्। कुन्दकुड्मलनिभाः समा द्विजा योषितां पतिसुखामितार्यदाः। दाक्षिण्ययुक्तमशठं वरपुष्टहंसवलुगु प्रभाषितमदीनमनस्पसौख्यं। नासा समा समपुटा रुचिरा प्रशस्ता दृग्नीवनीरजदलद्युतिहारिणी च। नो सङ्गते नातिपृथू न लग्ने शस्ते भ्रुवौ बालशशाङ्कवक्रे। अर्द्धेन्दुसंस्थानमरोमशं च शखं ललाटं न नतं न तुङ्गम्। कर्णयुग्ममपि युक्तमांसकं शस्यते मृदु समं समाहितम्। स्निग्धनीलमृदुकुञ्चितैकजा मूर्धजाः सुखकराः सभं शिरः। भृङ्गारासनवाजिकृञ्जररथश्रीवृक्षयूपेषुभिर्मालाकुण्डलचाम- राङ्कुशयवैः शैलैर्ध्वजैस्तेरणैः। मत्स्यस्वस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः पादे पाणितलेऽपि वा युवतयो गच्छन्ति राज्ञीपदम्। निगूढमणिबन्धनौ तरुणपद्मगर्मोपमौ करौ नृपतियोषितां तनुविकृष्टपर्वाङ्गुली। न निम्नमति नोन्नतं करतलं सुरेखान्वितं करोत्यविधवां चिरं सुतसुखार्थसम्भोगिनीम्। मध्याङ्गुलिं या मणिवन्धनोत्या रेखा गता पाणितलेऽङ्गनायाः। ऊर्ध्वस्थिता पादतलेऽथवा या पुंसोऽथवा राज्यसुखाय सा स्यात्। कनिष्ठिकामूलभवा गता या प्रदेशिनीमध्यमिकान्तरालम्। करोति रेखा परमायुषः सा प्रमाणमूना तु तदूनमायुः। अङ्गृष्ठमूले प्रसवस्य रेखाः पुत्रा बृहत्यः प्रमदास्तु तन्व्यः। अच्छिन्नदीर्घा वृहदायुषां ताः स्वल्पायुषां छिन्नलघुप्रमाणाः। इतीदमुक्तं शुभमङ्गनानामतो विपयस्तमनिष्टमुक्तम्। विशेषतोऽनिष्टफलानि यानि समासतस्तान्यनुक्वीर्तयामि। कनिष्ठिका वा तनदन्तरा वा महीं न यस्याः स्पृशती स्त्रियाः स्यात्। गताऽथ वाङ्गुष्ठमतीत्य यस्याः प्रदेशिनी सा कुलटातिपापा। उद्वद्धाभ्यां पिण्डिकाभ्यां शिराले शुष्के जङ्घे रोमशे चातिमांसे। वामावर्तं निम्नमल्पं च गुह्यं कुम्भाकारं चोदरं दुःखितानाम्। ह्रस्वयाऽतिनिःस्वता दीर्घया कुलक्षयः। ग्रीवया पृथूत्यया योषितः प्रचण्डता। नेत्रे यस्याः केकरे पिङ्गले वा सा दुःशीला श्यावलोलेक्षणा च। कूपौ यस्या गण्डयोश्च स्मितेषु नि सन्दिग्धं बन्धकीं तां वदन्ति। प्रविलम्बिनि देवरं ललाटे श्वगुरं हन्त्युदरे स्फिचोः पतिं च। अतिरोमचयान्वितीत्तरोष्ठी न शुभा भर्तुरतीव या च दीर्घा। स्तनौ सरोमौ मलिनोल्बणौ च क्लेशं दधाते विषमौ च कर्णौ। स्थूलाः कराला विषमाश्च दन्ताः क्लेशाय चौर्याय च कृष्णमांसाः। क्रव्यादरूपैर्वृककाककङ्कसरीसृपोलूकसमानविह्नैः। शुष्कैः सिरालैर्विषमैश्च हस्तैर्भवन्ति नार्य्यः सुखवित्तहीनाः। या तृत्तरोष्ठेन समुन्नतेन रूक्षाग्रकेशी कलहप्रिया सा। प्रायो विरूपासु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति। पादौ सगुल्फौ प्रथमं प्रदिष्टौ जङ्घे द्वितीयं च सजानुचक्रे। मेढ्रोरुमुष्कं च ततस्तृतीयं नाभिः कटिश्चेति चतुर्थमाहुः। उदरं कथयन्ति पञ्चमं हृदयं षष्ठमतः स्तनान्वितम्। अथ सप्तममंसजत्रुणी कथयन्त्यष्टममोष्ठकन्धरे। नवमं नयने च सभ्रुणी सकलाटं दशमं शिरस्तथा। अशुभेष्वशुभं दशाफलं चरणाद्येष शुभेषु शोभनम्”। काशीखण्डे ३७ अध्याये स्त्रीणां शुभाशुभलक्षणान्युक्तानि यथा “सदा गृही सुखं भुङ्क्ते स्त्री लक्षणवती यदि। अतः सुखसमृद्ध्यर्थमादौ लक्षणमीक्षयेत्। वपुरावर्त्तोगन्धश्च छाया सत्वं स्वरोगतिः। वर्णश्चेत्यष्टधा प्रोक्ता बुधैर्लक्षणभूमिका। आपादतलमारभ्य यावन्मौलिरुहं क्रमात्। शुभाशुभानि वक्ष्यामिलक्षणानि मुने। शृणु। आदौ पादवले रेखा ततोऽङ्गुष्ठाङ्गुलीनखाः। पृष्ठं गुल्फद्वयं पार्ष्णी जङ्घे रोमाणि जानुनी। ऊरू कटिर्नितम्बः स्फिग् भगोजघनवस्तिके। नाभिः कुक्षिद्वयं पार्श्वोदरमध्यबलित्रयम्। रोमाणि हृदयं वक्षो वक्षोजद्वयचूचकम्। जत्रुस्कन्धांसकक्षादोर्मणिबन्धकरद्वयम्। पाणिपृष्ठं पाणितलं रेखाङ्गुष्ठाङ्गुलीनखाः। पृष्ठं कृकाटिकाकण्ठे चिवुकञ्च हनुद्वयम्। कपोलवक्त्रमधरोत्तरौष्ठद्विजजिह्विकाः। घण्टिकातालुहसितं नासिका क्षुतमक्षिणी। पक्ष्मभ्रूकर्णभालानि मौलिसीमन्तमौलिजाः। षष्टिः षडुत्तरा योषिद ङ्गलक्षणसत्खनिः। स्त्रीणां पादतलं स्निग्धं मांसलं मृदुलं समम्। अस्वेदमुष्णमरुणं बहुभोगोचितं स्मृतम्। रूक्षं विवर्णं परुषं खण्डितप्रतिविम्बकम्। सूर्पाकारं विशुष्कं च दुःखदौर्भाग्यसूचकम्। चक्र स्वस्तिकशङ्खाब्जध्वजमीनातपत्रवत्। यस्याः पादतले रेखा सा भवेत् क्षितिपाङ्गना। भवेदखण्डभोगार्हा यामध्याङ्गुलिसङ्गता। रेखाखुसर्पकाकाभा दुःखदारिद्र्य सूचिका। उन्नतोमांसलोऽङ्गुष्ठो वर्त्तुलोऽतुलभोगदः। वक्रो ह्रस्वश्च चिपिटः सुखसौभाग्यभञ्जकः। विधवा विपुलेन स्याद्दीर्घाङ्गुष्ठेन दुर्भगा। मृदवोऽङ्गुलयः शस्ताघनावृत्ताः समुन्नताः दीर्घाङ्गुलीभिः कुलटा, कृशाभिरति निर्द्धना। ह्रस्वायुष्या अ ह्रस्वाभिर्भुग्नाभिर्भुग्नवर्त्तिनी। चिपिटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी। परस्परं समारूढा यदाङ्गुल्यो भवन्ति हि। हत्वा बहूनपि पतीन् परप्रेष्या तदा भवेत्। यस्याः पथि समायान्त्या रजोभूमेः समुच्छलेत्। सा पांशुला प्रजायेत कुलत्रयविनाशिनी। यस्याः कनिष्ठिका भूमिं न गच्छन्त्याः परिस्पृशेत्। सा निहत्य पतिं पापा द्वितीयं कुरुते पतिम्। अनामिकाच मध्या च यस्या भूमिं न संस्पृशेत्। पतिद्वयं निहन्त्याद्या द्वितीया च पतित्रयम्। पतिहीनत्वकारिण्यौ हीने तेद्वे इमे यदि। प्रदेशिनी भवेद्यस्याश्चाङ्गुष्ठव्यतिरेकिणी। कन्यैव कुलटा सा स्यादेषएव विनिञ्चयः। स्निग्धाः समुन्नतास्ताम्रावृत्ताः पादनखाः शुभाः। राज्ञीत्वमूचकं स्त्रीणां पादपृष्ठं समुन्नतम्। अस्वेदमसिराढ्यं च मसृणं मृदुमांसलम्। दरिद्रा मध्यनम्रेण सिरालेन सदाऽध्वगा। रोमाढ्येन भवेद्दासी निर्मांसेन च दुर्भगा। गूढौ गुल्फौ शुमायोक्तावसिरालौ सुवर्त्तुलौ। सुपुष्टौ शिपिलौ दृश्यौ स्यातां दौर्भाग्यसूचकौ। समपार्ष्णिः शुभानारी पृथुपार्ष्णिश्च दुर्भगा। कुलटोन्नतपार्ष्णिश्च दीर्घपार्ष्णिश्च दुःखभाक्। रोमहीने समे स्निग्धे यज्जङ्घे क्रमवर्त्तुले। सा राजपत्नी भवति विसिरे सुमनोहरे। एकरोमा राजपत्नी द्विरोमापि सुखास्पदम्। त्रिरोमा रोमकूपेषु भवेद्वैधव्यदुःखभाक्। वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते। निर्मांसं स्वैरचारिण्या दरिद्रायाश्च विश्लथम्। विसिरैः करभाकारैरुरुभिर्मसृणैर्घनैः। सुवृत्तैरोमरहितैर्भवेयुर्भूपवल्लभाः। बैधव्यं रोमशैरुक्तं दौर्भाग्यं चिपिटैरपि। मध्यच्छिद्रैर्महादुःखं दारिद्र्यं कठिनत्वचैः। चतुर्भिरङ्गुलैः शस्ता कटिर्विंशति संयुतैः। समुन्नतनितम्बाढ्या चतुरस्रा मृगीदृशाम्। विनता चिपिटा दीर्घा निर्मांसा सङ्कटा कटिः। ह्रस्वरोमयुता नार्य्या दुःखवैधव्यसूचिका। नितम्बविम्बो नारीणामुन्नतोमांसलः पृथुः। महाभोगाय संप्रोक्तस्तदन्योऽ शर्म्मणे मतः। कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ घनौ। स्फिचौ बलिविनिर्युक्तौ रतिसौख्यप्रवर्द्धमौ। शुभः कमठपृष्ठाभोगजस्कन्धोपमोभमः। वामीन्नतस्तु कन्याजः पुत्रजोदक्षिणोन्नतः। आखुरोमा गूढमांसः सुश्लिष्टः संहतः पृथुः। तुङ्गः कमलवर्णाभः शुभोऽश्वत्यदलाकृतिः। तुरङ्गखुररूपोऽयश्चुल्लीकोढरसन्निभः। रोमशोविवृतास्यञ्च दृश्यनासोऽतिदुर्भणः। शङ्खावर्त्तोभगोयस्याः सा गर्भमिह नेच्छति। चिपिटः कर्पराकारः किङ्करीपददो भगः। वंशवेतसपत्राभो गजरोमोग्रनासिकः। विकटः कुटिलाकारो लम्बगल्लस्तथा शुभः। भगस्य भालं जघनं विस्तीर्णं तुङ्गमांसलम्। मृदुलं मृदुलोमाढ्यं दक्षिणावर्त्तमीलितम्। वामावर्त्तं च जिमांसं भुग्नं वैध्यव्यसूचकम्। सङ्कटस्यपुटं रूक्षं जधनं दुःखदं सदा। वस्तिः प्रशस्ता विपुला मृद्वी स्तोकसमुन्नता। लोमशा च सिराला च रेखाङ्का नैव शोभना। गम्भीरा दक्षिणावर्त्ता नाभी स्यात् सुखसम्पदे। वामावर्त्ता समुत्ताना व्यक्तग्रन्धिर्न शोमना। सूते सुतान् बहून्नारी पृथुकुक्षिः सुखास्पदम्। क्षितीशं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा। उन्नतेन वलीभाजा मावर्त्तेनापि कुक्षिणा। बन्ध्या प्रव्रजिता दासी क्रमाद्योषा भवेदिह। समैः समांसैर्मृदुभिर्योषिन्मग्नास्थिभिः शुभैः। पार्श्वैः सौभाग्यसुखयोर्निधानं स्यादसंशयम्। यस्या दृश्यसिरे पार्श्वे उन्नते रोमसंयुते। निरपत्या च दुःशाला सा भवेद्दुःखशेवधिः। उदरेणातितुच्छेन विसिरेण मृदुत्वचा। योषिद्भवति भोग्याढ्यानित्यमिष्टान्नसेविनो। कुम्भाकारं दरिद्राया जठरं च मृदङ्गवत्। कुष्माण्डाभंयवाभं च दुःपूरं जायते स्त्रियाः। सुविशालोदरी नारी निरपत्था च दुर्भगा। प्रलम्बजठरा हन्ति श्वशुरं चापि देवरम्। मध्यक्षामा च सुभगाभोगाढ्या सबलित्रया। ऋज्वी तन्वी च रोमाली यस्याः सा नर्मशर्मभूः। कपिला जटिला स्थूला व्युच्छिन्ना रोमराजिका। वैरवैधव्यदौर्भाग्यं विदध्यादिह योषितां। निर्लोम हृदयं यस्याः समं निम्नत्ववर्जितम्। ऐश्वर्यं चाप्यवैधव्यं प्रियप्रेम च सा लभेत्। विस्तीर्णहृदया योषा पुंश्चला निर्दया तथा। उद्भिन्नरोमहृदया पतिं हन्ति विनिश्चितम्। अष्टादशाङ्गुलततमुर पीवरमुन्नतम्। सुखाय, दुःखाय भवेद्रोमशं विषमं पृथु। घनौ वृत्तौ दृढौ पानौ समौ शस्तौ पयोधरौ। स्थूलाग्रौ विरलौ सूक्ष्मौ वामोरूणां न शर्मदौ। दक्षिणोन्नतवक्षोजा पुत्रिणीष्वग्रणीर्मता। वामोन्नतकुचा सूते कन्यां सौभाग्यसुन्दरीम्। अवघट्टघटी तुल्यौ कुचौ दौःशील्यसूचकौ। पीवरास्यौ सान्तरालौ पुथूपान्तो न शोभनौ। मूलेस्थूलौ क्रमकृशावग्रेतीक्ष्णी पयोधरौ। सुखदौ पूर्वकाले तु पश्चादत्यन्तदुःखदौ। सुदृश्यं चूचुकयुगं शस्तं श्यामं सुवर्त्तुलम्। अन्तर्मग्नं च दीर्घं च कृशं क्लेशाय जायते। पीवराभ्यां च बाहुभ्यां धनधान्यनिधिर्बधूः। श्लथास्थिभ्यां च निम्नाभ्यां विषमाभ्यां दरिद्रिणी। अबन्धावनतौ स्कन्धावदीर्घावकृशौ शुभौ। वक्रास्थूलौ च रोमाढ्यौ प्रेष्यवैधव्यसूचकौ। निगूढसन्धी स्रस्ताङ्गौ शुभावंसौ सुसंहतौ। वैधव्यदौ समुच्चाग्रौ निर्मांसावतिदुःस्वदौ। कक्षे सुसूक्ष्मरोमे च तुङ्गे स्निग्धे च मांसके। शस्ते, न शस्ते गम्भीरे सिराले स्येदमेदुरे। स्यातां दौषौ स्वनिर्दोषौ गूढास्थिग्रन्थिकोमलौ। विस्सिरौ च विरोमाणौ सरलौ हरिणीदृशाम्। वैधव्यं स्थूलरोमाणौ ह्रस्वौ दौर्भाग्यसूचकौ। परिक्लेशाय नारीणां परिदृश्यशिरोभुजौ। अम्भोजमुकुलाकारमङ्गुष्ठाङ्गुलि सन्नखम्। हस्तद्वयं मृगाक्षीणां बहुभीगाय जायते। मृदुमध्योन्नतं रक्तं तलं पाण्योररन्ध्रकम्। प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभाश्रयम्। विधवा बहुरेखेण विरेखेण दरिद्रिणी। भिक्षुकी शुषिराढ्येन नारी करतलेन वै। विरोम विसिरं शस्तं पाणिपृष्ठं समुन्नतम्। वैधव्यहेतु रोमाढ्यं निर्म्मासं स्नायुमत् त्यजेत्। व्यक्ताव्यक्ता गभीरा च स्निग्धा पूर्ण्णा च वर्त्तुला। कररेखाङ्गनायाः स्याच्छुभा भाग्यानुसारतः। मत्स्येन सुभागा नारी स्वस्तिकेन च सुप्रजाः। पद्मेन भूपतेः पत्नी जनयेम्भूपतिं सुतम्। चक्रवर्त्तिस्त्रियाः पाणौ नन्द्यावर्त्तः प्रदक्षिणः। शङ्खातपत्रकमठा देवमातृत्वसूचकाः। तुलामालाकृती रेखा बणिकपत्नीत्वहेतुका। गजवाजिवृषाकाराः करे वामे मृगीदृशाम्। रेखाः प्रासादवज्राभा ब्रूयुस्तीर्थकराः शुभम्। कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा। तोमराङ्कुशकोदण्डै राजपत्नी भवेत् ध्रुवम्। अङ्गुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम्। यदि सा पतिहन्त्रा स्याद्दूरतस्तां त्यजेत् सुधीः। त्रिशूलासिगदाशक्तिदुन्दुभ्याकृतिरेखया। नितम्बिनी कीर्त्तिमती पादेन पृथिवीतले। कङ्कजम्बूकमण्डूकवृकवृश्चिलभोगिनः। रासभोष्ट्रविडालाः स्युः करस्था दुःखदाः स्त्रियाः। शुभदः सरलाङ्गुष्ठो वृत्तोवृत्तनखोमृदुः। अङ्गुल्यश्च सुपर्व्वाणो दीर्घा वृत्ताः क्रमात् कृशाः। चिपिटाच्छपुटा रूक्षाः पृष्ठरोमयुजोऽ शुभाः। अतिह्रस्वाः कृशा वक्रा विरला रोगहे काः। दुःखायाङ्गुलयः स्त्रीणां बहुपर्व्वसमन्विताः। अरुणाः सशिखास्तुङ्गाः करजाः सुदृशां शुभाः। निम्ना विवर्णाः सूक्ष्माभाः पीता दारिद्र्यदायकाः। नखेषु विन्दवः श्वेताः प्रायः स्युः सैरिणीस्त्रियाः। पुरुषा अपि जायन्ते दुःखिनः पुष्पितैर्नखैः। अन्तर्निमग्नवंशास्थिः पृश्निः स्यान्मांसला शुभा। पृष्ठेन रोमयुक्तेन वैधव्यं लभते ध्रुवम्। भुग्नेन विनतेनापि ससिरेः नापि दुःखिता। ऋज्वो कृकाटिका श्रेष्ठा समांसा च समुन्नता। शुष्का सिराला लोमाढ्या विशाला कुटिलाऽशुभा। मांसलो वर्त्तुलः कण्ठः प्रशस्तश्चतुरङ्गुलः। शस्ता ग्रीवा त्रिरेखाढ्या त्वव्यक्तास्थिसुसंहता। निर्मांसा त्रिपिटा दीर्घा स्थपुटा न शुभप्रदा। स्थूलग्रीवा च विधवा वक्रग्रीवा च किङ्करी। बन्ध्या हि चिपिटग्रीवा ह्रस्वग्रीवा च निःसुता। चिवुकं द्व्यङ्गुलं शस्तं वृत्त पीनं सुकोमलम्। स्थूलं द्विधा संविभक्तमायतं रोमशं त्यजेत्। हनुश्चिवुकसंलग्ना निर्लोमा सुघना शुभा। वक्रा स्थूला कृशा दीर्घा रोमशा न शुभप्रदा। शस्तौ कपोलौ वामाक्ष्याः प्रीनौ वृत्तौ समुन्नतौ। रोमशौ परुषौ निम्नौ निर्मांसौ परिवर्ज्जयेत्। समं समांसं सुस्निग्धं स्वामोदं वत्तुलं मुखम्। जनेतृवदनच्छायं धन्यानामिह जायते। पाटलो वर्त्तुलः स्निग्धोरेखाभूषितमध्यमूः। सीमन्तिनीनामधरी धराजानिप्रिया भवेत्। कृशः प्रलम्बः स्फुटितो रूक्षो दौर्भाग्यसूचकः। श्यावः स्थूलोऽधरौष्ठः स्माद्वैधव्यकलहप्रदः। मसृणोमत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः। किञ्चिन्मध्योन्नतोऽ रोमा विपरीतो विरुद्धकृत्। गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः। अधस्तादुपरिष्टाच्च समस्तोकसमन्विताः। पीताः श्यावाश्च दशनाः स्थूला दीर्घा द्विपङ्क्तयः। शुक्त्याकाराश्च विरला दुःखदौर्भाग्यकारिणः। अधस्तादधिकैर्दन्तैर्भर्त्तारं भक्षयेत् स्फुटम्। पतिहीना च विकटैः कुलटा विरलैर्भवेत्। जिह्वेष्टमिष्टभोक्त्री स्याच्छोणामृद्वी तथा सिता। दुःखाय मध्यसंकीर्ण्णा पुरोभागसविस्तरा। सितया तोयमरणं श्यामया कलहप्रिया। दरिद्रिणी मांसलया लम्बयाऽभक्स्यभक्षिणी। विशालया रसनया प्रमदातिप्रमादभाक्। स्निग्धं कोकनदाभासं प्रशस्यं तालु कोमलम्। सिते तालुनि वैधव्यं पीते प्रव्रजिता भवेत्। कृष्णेऽपत्यवियोगार्त्ता रूक्षे चौरकुटुम्बिनी। कण्ठे स्थूला सुवृत्ता च क्रमतीक्ष्णा च लोहिता। अप्रलम्बाण्डभा घण्टा स्थूला कृष्णा च दुःखदा। अलक्षितद्विजं किञ्चित् किञ्चित्फुल्लकपोलकम्। स्मितं प्रशस्तं सुदृशामनिमीलितलोचनम्। समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा। स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता। आकुञ्चितारुणाग्रा च वैधव्यक्लेशदायिनी। परप्रेष्या च चिपिटा ह्रस्वा दीर्घा कलिप्रिया। दीर्घं सकृत् क्षुतं दीर्घं युगपद्द्वित्रिपिण्डितम्। ललनालोचने शस्ते रक्तान्ते कृष्णतारके। गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मणी। उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत्। मेषाक्षी महिषाक्षी च केकराक्षी न शीभना। कामग्रहिला नितरां गोपिङ्गाक्षी सुदुर्वृता। पारवताक्षी दुःशीला रक्ताक्षी भर्त्तृघातिनी। कोटरानयना दुष्टा गजनेत्रा न शोभना। पुंश्चली वामकाणाक्षी बन्ध्या दक्षिणकाणिका। मधुपिङ्गलाक्षी रमणी धनधान्यसमृद्धिभाक्। पक्ष्मभिःसुघनैः स्निग्धैः कृष्णैः सूक्ष्मैः सुपुण्यभाक्। कपिलैर्विरलैः स्थूलैर्निन्द्या भवति भावनी। भ्रुवौ सुवर्त्तुले तन्व्यौ स्निग्धे कृष्णे सुसंहते। प्रशस्ते मृदुरोमाणौ सुभ्रुवः कार्मुकाकृती। खररोमा च पृथुला विकीर्ण्णा सरला स्त्रियाः। न भ्रूः प्रशस्ता मिलिता दीर्घलोमा च पिङ्गला। लम्बकर्ण्णौ शुभावर्त्तौ सुखदौ च शुभप्रदौ। शष्कुलीरहितौ निन्द्यौ सिरालौ कुटिलौ कृशौ। भालः सिराविरहितौ निर्लोमार्द्धेन्दुसन्निभः। अनिम्नस्त्र्यङ्गुलोनार्य्याः सौभाग्यारोग्यकारणम्। व्यक्तस्वस्तिकरेखञ्च ललाटं राज्यसम्पदे। प्रलम्बमलिकं यस्या देवरं हन्ति सा ध्रुवम्। रोमशेन सिरालेन प्रांशुला रोगिणी मता। सीमलः सरलः शस्तोमौलिः शस्तः समुन्नतः। गजकुम्भनिभो वृत्तः सौभाग्यैश्वर्य्यसूचकः। स्थूलमूर्द्धा च विधवा दीर्घशीर्षा च बन्धकी। विशालेनापि शिरसा मवेद्दौर्भाग्यभाजनम्। केशा अलिकुलच्छायाः सूक्ष्माः स्निग्धाः सुकोमलाः। किञ्चिदाकुञ्चिताग्राश्च कुटिला अतिशोभनाः। परुषाः स्फुटिताग्राश्च विरलाश्च शिरोरुहाः। पिङ्गलालघवोरूक्षा दुःखदारिद्र्यबन्धदाः। तिलकं लाञ्छनं वापि हृदि सौभाग्यकारणम्। यस्या दक्षिणवक्षोजे शोणे तिलकलाञ्छने। कन्याचतुष्टयं सूते सूते सा च सुतत्रयम्। भ्रुवोरन्तर्ललाटे वा मसकोराज्यसूचकः। वामे कपोले मसकः शोणोसिष्टान्नदः स्त्रियाः। तिलकं लाञ्छनं शोणं यस्या वामकुचे भवेत्। एकं पुत्रं प्रसूयादौ ततः सा विधवा भवेत्। गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः। तदा क्षितिपतेः पत्नी सूते वा क्षितिपं सुतम्। नासाग्रे मसकः शोणो महिष्या एव जायते। कृष्णः स एव भर्त्तृघ्न्याः पुंश्चल्याश्च प्रकीर्त्तितः। नाभेरधस्तात् तिलकं मसको लाञ्छनं शुभम्। मसकस्तिलकश्चिह्नं गुल्फदेशे दरिद्रकृत्। करेकर्ण्णेकपोले वा कण्ठे वामे भवेद् यदि। एषां त्रयाणामेकन्तु प्राग्गर्भे पुत्रदं भवेत्। भालगेन त्रिशूलेन निर्म्मितेन स्वयम्भुवा। नितम्बिनी सहस्राणां स्वामित्वं योषिदाप्नुयात्। सुप्ता परस्परं या तु दन्तान् कटकटायते। सुलक्ष्मापि न सा शस्ता यत् किञ्चित् प्रलपेत् तथा। पाणौ प्रदक्षिणावर्त्तो धर्म्यो वामो न शोभनः। नाभौ श्रुतावुरसि वा दक्षिणावर्त्त ईरीतः। सुखाय दक्षिणावर्त्तः पृष्ठवंशस्य दक्षिणे। अन्तःपृष्टे नाभिसमो वृद्धायुःपुत्रवर्द्धनः। राजपत्न्याः प्रदृश्येत भगमौलौ प्रदक्षिणः। स चेच्च कटिभागे स्याद्वह्वपत्यसुखप्रदः। कटितोगुह्यवेधेन पत्यपत्यनिपातनः। स्यातामुदरवेधेन पृष्ठावर्त्तौ न शोभनौ। एकेन हन्ति भर्त्तारं भवेदन्येन पुंश्चली। कण्ठगोदक्षिणावर्त्तो दुःखवैधव्यहेतुकः। सीमन्तेऽथ ललाटे वा त्याज्यौ दूरात् प्रयत्नतः। सा पतिं हन्तिवर्षेण यस्या मध्येकृकाटिकम्। प्रदक्षिणो वा वामो वा रोम्णामावर्त्तकः स्त्रियाः। एको वा मूर्द्धनि द्वौ वा वामे वामगती अपि। आदशाहं पतिघ्नौ तौ त्याज्यौ दूरात् सुबुद्धिना। कठ्यावर्त्ता च कुलटा नाभ्यावर्त्ता पतिव्रता। पृष्ठावर्त्ता च भर्त्तृघ्नी कुलटा वाऽथ जायते”।

अथ कन्यायाः समयविशेषे जन्मवशात् विषकन्यात्व दोषः यथाह जातकालङ्कारे। “भौजङ्गे ९ कृत्तिकायां शतभिषजि तथा सूर्य्यमन्दारवारे भद्रासंज्ञे तिथौ या ननु जननमियात् सा कुमारी विषाख्या। लग्नस्थौ सौम्यखेटावशुभगगनगश्चैकआस्ते ततो द्वौ वैरिक्षेत्रानुयातौ यदि जनुषि तदा सा हि कन्या विषाख्या। मन्दाश्लेषाद्वितीया यदि तदनु कुजे सप्तमी वारुणर्क्षे २४ द्वादश्यां वा द्विदैवे १६ दिनमणि दिवसे यज्जनिः सा विषाख्या। धर्म्मस्थो भूमिसूनुस्तनुसदनगतः सूर्य्यसूनुस्तदानीं मार्त्तण्डः सूनुयातो यदि जनिसमये सा कुमारी विषाख्या। लग्नादिन्दोः शुभो वा मदनगृहपतिर्द्यूनयायी विषाख्यं दोषं चैवानपत्यं तदनु च नियतं हन्ति वैधव्यदोषम्”। अन्योऽपि वैधव्यादियोगोऽन्यत्रोक्तः यथा होरागमरत्ने “त्यक्ता धवेनोष्णकरेऽस्तसंस्थे बाल्येऽपि भौमे विधवा प्रदिष्टा। पापग्रहालोकनवर्गयाते कन्यैव बन्ध्या भवतीति सूतौ। वैधव्यं क्रूरखेटैर्मदनगृहगतैर्मित्रितैः स्यात् पुनर्भूः पापैस्तैर्वीर्य्ययुक्तैर्भवति परिहृता प्रेयसा सौम्यदृष्टे। अन्योन्यांशस्थयोश्च क्षितिसुतसितयोर्बन्धकी योषिदुक्ता चन्द्रोर्व्वीसूनुशुक्रा यदि मदनगृहे प्रेयसोऽनुज्ञया सेति” “लग्ने व्यये च पाताले इत्यादि” प्रागुक्तम्। एवमन्येऽपि वैधव्यादियोगा आकरे दृश्याः। मु० चि० तत्पपिहाराय विधिरुक्तः यथा “जन्मोत्यं च विलोक्य बालविधवायोगं विधाय व्रतं सावित्र्या उत पैप्पलं हि सुतया दद्या दिमां वा रहः। सल्लग्नेऽच्युतमूर्त्ति पिप्पलघटैः कृत्वा विवाहं, स्फुटं दद्यात्तां चिरजीविनेऽत्र न भवेद्दोषः पुनर्भूभवः” संहितासारे “अवैधव्यकरैर्योगैर्विवाहपटलोदितैः। वरायायुष्मते देया कन्या वैधव्ययोगजा” ज्ञानभास्करे “बलवद्विधवायोगे बाल्ये सति मृगेक्षणाम्। पिता रहसि कुर्व्वीत तद्भङ्गं शास्त्रसम्मतम्” मार्क० पु० “बालवैधव्ययोगेऽपि कुम्भद्रुप्रतिमा- दिभिः। कृत्वा लग्नं रहः पश्चात् कन्योद्वाह्येति चापरे”। तत्र सावित्रीपिप्पलादिव्रतविष्णुप्रतिमादिविवाहप्रयोगादयश्च” पी० धा० विधानपारिजातादौ च दृश्याः।

उपयमन = न० उप + यम–ल्युट्। १ विवाहे२ संयमने ३ वह्नेरधःस्थापने च। करणे ल्युट्। ४ बन्धनसाधने कुशादौ।

उपयमनी = उपयम्यते कर्म्मणि ल्युट्। अग्न्याधानाङ्गे सिकतादौ “उभयमनीरुपकल्पयन्ति” शत० ब्रा० ३, ५, ३, १। “उप अग्नेरधस्तात् यम्यन्त इत्युपमन्यः सिकताः” भा०। “उपयमनीरुपनिवपति” कात्या० ५, ४, २०। “आहवनीयस्योपयमनीष्वाग्नीध्रीयस्याक्षोपाञ्जने च” ८, ६, ३,

उपयष्टृ = पु० उप–यज–तृच्। षोडशसु ऋत्विक्षु मध्ये प्रतिप्रस्थात्राख्ये ऋत्विम्भेदे। “मनोमे हार्द्दियच्छेति ततोहोपयष्टात्मानं नानुप्रवृणक्ति” शत० ब्रा० ३, ८, ५, ५।

***