उपग = त्रि० उप + गम–ड। उपगन्तरि “ओषध्यः फलपाकान्ताबहुपुप्पफलोपगाः” मनुः। “त्रेतायां भावसंकल्पाः क्रियादानफलोपगाः” भा० व० १४९ अ०। “केन्द्रोपगा नवमपञ्चमगाश्च सर्वे” ज्यो० त०।
उपगण = त्रि० उपगतो गणो येन प्रा० ब० संख्यावचनत्वेऽपि “अबहुगणादिति” पा० निषेघात् न डच्। प्राप्तसमुदाये डचि तु चित्त्वात् अन्तोदात्तता स्यात्। अतस्तस्य पूर्वपदप्रकृतिस्वरार्थं डचोनिषधः। “रूपातिप्रसङ्गाभावेऽपि स्वरभेदार्थमेव पर्य्युदासः” सि० कौ० स्थितम्।
उपगत = त्रि० उप + गम–क्त। १ स्वीकृते, २ उपस्थिते, ३ ज्ञाते ४ प्राप्ते च “सर्व्वोहि नोपगतमप्यपचीयमानं वर्द्धिष्णुमाश्रयमनागतमभ्युपैति” माघः भावे क्त। ५ प्राप्त्याटौ न० उपगतं प्राप्तिः सूच्यत्वेनात्यस्य अच्। ६ प्राप्तिसूचके पत्रे च (रसिद)। “धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम्” या० स्मृ०। “उपगतं प्राप्तमिति यद्वा उपगतम् प्रवेशपत्रं स्वहस्तलिखितचिह्नितमधमर्ण्णायोत्तमर्ण्णोदद्यात्” मिता०।
उपगति = स्त्री उप + गम–क्तिन्। १ प्राप्तौ २ ज्ञाने ३ स्वीकारे च
उपगन्तृ = त्रि० उप + गम–तृच्। १ प्राप्तरि २ स्वीकर्त्तरि ३ ज्ञातरि च।
उपगम = पु० उप + गम–भावे घञ् अवृद्धिः। १ समीपगमने, २ अङ्गीकारे ३ ज्ञाने, च “सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्” मेघ०। “व्यावर्त्ततान्योपगमात् कुमारी” मृगवनोपगमक्षमवेशभृत्”। भावे ल्युट्। उपगमन मप्यत्र। “यथा कर्म्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम्” भा० आ० १०३ अ०।
उपगम्य(त्य) = अव्य० उप + गम–ल्यप् वा मलोपे तुक्। १ समीपं गत्वेत्यर्थे। कर्म्मणि ण्यत् उपगम्य। २ सामीप्येन गम्ये त्रि०।
उपगहन = पु० ऋषिभेदे “महानृषिश्च कपिलस्तथर्षिस्ताडकायनः। तथैव चोपगहनस्तथर्षिश्चामुरायणिः” भा० आ० ४ अ०।
उपगा = पु० उप + गै–क्विप्। यज्ञे १ उपगातरि ऋत्विग्भेदे। भावे अङ्। २ उपगाने स्त्री “उपगादर्शनाच्च” कात्या० ६, ७, ३, “उपगानदर्शनाच्चैवमवसीयते कर्कः।
उपगातृ = पु० उपगायति उप + गै–तृच्। यज्ञे उद्गातुः समीपे १ गातरि ऋत्विग्भेदे “वृहस्पतिरुद्गाता विश्वेदेवा उपगातारः” तैत्ति०। “ऋत्विग्व्यतिरिक्तानामुपगातॄणामनुपकॢप्तत्वादृत्विज एवोपगातारः” कात्या० ६, ७, ३, कर्कः। “स वडवा उपरुन्धन्ति संशिञ्जते यथोपगातार उपगायन्ति” शत० ब्रा० १३, २, ३, २। समीपगानकर्त्तरि त्रि० (दोयार) स्त्रियां ङीप्।
उपगामिन् = त्रि० उप + गम–णिनि स्त्रियां ङीप्। ० समीपगन्तरि २ स्वीकर्त्तरि ३ ज्ञातरि च
उपगिर(रि) = अव्य० सामीप्यादौ अव्ययी० वा अच्समा०। १ पर्व्वतसामीप्ये २ पर्व्वते इत्यर्थे च। गिरिमुपगतः अत्या० स०। उत्तरदिक्स्थे गिरिसन्निकृष्टे देशभेदे पु० “प्रययामुत्तरां तस्माद्दिशं धनदपालिताम्। अन्तर्गिरिञ्च कौन्तेयस्तथैव च बहिर्गिरिम्। तथैवोपगिरिञ्चैव विजिग्ये पुरुषर्षभः” भा० स० २६ अ०। अन्तोदात्तोऽयम्।
उपगीति = स्त्री “आर्य्याद्वितीयकार्द्धे यद्गदितं लक्षणं तत् स्यात्। यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते” वृ० र० उक्ते मात्रावृत्तभेदे।
उपगु = त्रि० उपगतो गौरस्य ह्रस्वः गोशब्दोनानार्थः। १ प्राप्त किरणादौ २ गोपाले च “उपगोरिदम् अण्। औपगव तत्सम्बन्धिनि त्रि०। “सामीप्येऽव्ययी०। ३ गोः सामीप्ये अव्य०।
उपगुध = त्रि० उप + गुध–रोधने क। सामीप्येन रोधके। स्त्रियां गौ० ङीष्।
उपगुरु = पु० उपगतः सादृश्येन गुरुम् अत्या० स० अन्तोदात्तः। तन्त्रोक्ते गुरुसदृशे उपदेशादिकारके। सामीप्यादौ अव्ययी०। २ गुरोः सामीप्ये ३ गुरावित्यर्थे च अव्य०।
उपगूढ = न० उप + गुह–भावे क्त। १ आलिङ्गने “उपगूढानि सवेपथूनि च” कुमा०। “विश्रमार्थमुपगूढमजस्रम्” माघः। कर्म्मणि क्त। २ आलिङ्गिते त्रि०। ततः ऋश्या० चतु- रर्थ्यां क। उपगूढक तत्सन्निकृष्टदेशादौ त्रि०।
उपगूहन = न० उप + गुह–ल्युट् ओरूत्। आलिङ्गने “स्मरन्मुकुन्दाङ्घ्र्युपगूहनं पुनः” भा० स्क० ५ अ०।
उपगोह्य = त्रि० उप + गुह–ण्यत् ऊत्त्वविधौ अच एव ग्रहणान्न ऊत्त्वम्। १ आलिङ्ग्ये, २ ग्राह्ये च। भावे ण्यत्। ३ आलिङ्गने। पक्षे क्यप् उपगुह्यमप्यत्र।
उपगौर = त्रि० उपगतो गौरम् अत्या० स०। गौरवर्णोपगते उपाद् द्व्यच्कत्वेऽपि गौरादिपर्युदासात् नान्तोदात्तता
उपग्रह = पु० उप + ग्रह–अप्। १ काराबन्धने, २ वन्दीकरणे, ३ उपयोगे, ४ आनुकूल्ये च। कर्मणि घञ्। ५ कारारुद्ध वन्ध्याम्। उपगतोग्रहं सादृश्येन अत्या० स०। ज्योतिषोक्ते ६ ग्रहतुल्ये ज्योतिः पदार्थे राहुकेत्वादौ “ग्रहाः सोपग्रहाश्चैव दृप्ताः परिषदां गणाः। एते चान्येच बहवोघोरास्त्रिदिववासिनः। परिचार्य्य महासेनं स्थिता मातृगणैः सह” भा० व० २२६ अ० “उपग्रहाः राहुप्रभृतयः नीलक० “सूर्य्यभात् पञ्चमं धिष्ण्यं ज्ञेयं विद्युन्मुखाभिधम्। शून्थञ्चाष्टमगं प्रोक्तं सन्निपातं चतुर्द्दशम्। केतुरष्टादशं प्रोक्तमुल्का स्यादेवविंशतिः। द्वाविंशतितमं कम्पस्त्रयोविंशञ्च वज्रकम्। निर्घातश्चतुर्विंशमुक्ता अष्टावुपाग्रहाः” ज्यो० त० उक्ते सूर्य्याक्रान्तनक्षत्रात् पञ्चमादिषु विद्युन्मुखादिसमाह्वयेषु ७ नक्षत्रेषु। तत्फलञ्च “प्रस्थाने विघ्नदा प्रोक्ताः सर्वकार्य्येषु सर्वदा” क्रूरवेधसमायोगे यस्यो पग्रहसम्भवः। तस्य मृत्युर्न सन्देहो रोगाद्वाऽथ रणादपि ज्यो० त०। ८ उपग्रहणशब्दार्थे च।
उपग्रहण = न० उप + ग्रह–ल्युट्। १ सामीप्येन ग्रहणे २ स्वीकारे “वेदोपग्रहणार्थाय तावग्राहयत प्रभुः” रामा० कात्यायनोक्ते आज्याधारकरणभेदे। “एकद्रव्ये साज्ये वेदेनोपग्रहणम्” कात्या० १, १०, ६, “दक्षिणहस्तस्थस्य साज्यस्यैकद्रव्यस्य हस्तकम्पनादिनास्कन्दनावरणार्थं सव्यहस्त गृहीतवेदेनाधारकरणमुपग्रहणमुच्यते” कर्कः। अप् उपग्रहोऽप्यत्र। “न सव्येन वेदोपग्रहः” तत्रैव कर्कः।
उपग्राह = पु० उप + ग्रह–णिच्–अच्। १ उपढौकने उपहारे (भेटदेओया) कर्म्मणि घञ्। २ उपहाररूपेण देये “उच्चावचानुपग्राहान् राजभिः प्रापितान् बहून्” भा० स० ५१ अ० “उपग्राहान् उपहारान्” नीलक०।
उपग्राह्य = त्रि० उप + ग्रह–णिच्–यत्। समीपे ग्राहयितुमुपस्थाप्ये १ उपढौकनीयद्रव्ये(भेटी) भावे यत्। २ उपहारे न०
उपघात = पु० उप + हन–घञ्। १ नाशने, २ कर्म्मायोग्यतासम्पादने “काकेभ्यो रक्ष्यतामन्नमिति बालोऽऽपि देशितः। उपघातप्रधानत्वात् न श्वादिभ्योऽपि रक्षति” मीमां० का०। “वीजदोषोपघातेन पण्ये दोषममुपागते” या० स्मृ०। ३ अपकारे। “स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च” मनुः। ४ इन्द्रियाणां स्वस्वकार्य्यजननासामर्थ्ये च “तथात्वञ्चेदिन्द्रियाणामुपघाते कथं स्मृतिः” भाषा०। इन्द्रियाणामुपघातश्च एकादेशेन्द्रियभेदेन बाधिर्य्यादिभेदात् एकादशविधः। अशक्तिशब्दे ४७३ पृ० विवृतिः। करणे घञ्। ५ रोगे ६ पापसमूहे च “रेतोरक्तगर्भोपघातः पञ्चगुणोजातकर्मणा प्रथममपोहति” अष्टाभिःसंस्कारैः गर्भोपघातात् पूतो भवति” हारी तः “उपघातः पापसङ्घः पञ्चगुणः पञ्चप्रकारः उपपातक जातिभ्रं शीकरसङ्करीकरणापावीकरणमलिनीकरणरूपपापपञ्चकसंघः” सं० त० रघु० “पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः। हूयते चानुपस्तीर्य उपघातः स उच्यते” गृह्यसंग्रहोक्ते ७ होमभेदे। “अनुपस्तीर्येत्यनेन स्रुचि यच्चतुरावर्त्तं पञ्चावर्त्तं वा घृतोपस्तरणादिकं तदत्र नास्ति मेक्षणादिना सकृद् गृहीत्वा होमः” व्र० त० रघु०। “चरौ तु बहुदैवत्यो होमः, स्यादुपाघतवत्” छन्दोग०।
उपघातक = त्रि० उप + हन–ण्वुल्। १ नाशके २ पीडके च काकशब्दस्य दध्युपघातकत्वेन काकाकाकोभयवृत्तिः, आलङ्कारिकाः “पुंसा सह समायोगो न स धर्मोपघातकः” भा० आ० ७३ अ० “कथं सक्तून् ग्रहीष्यामि भूत्वा धर्मोपघातकः” भा० आश्च० ९० अ०।
उपघातिन् = त्रि० उप + हन–णिनि स्त्रियां ङीप् १ नाशके २ पीडके च “शस्त्रं पातयेन्मर्म्मसिराम्रायुसन्धीनां चानुपघाति” सुश्रु०।
उपघ्न = पु० उप + हन–घञर्थे–क। आसन्ने आश्रये “छेदादिवोपघ्नतरोर्व्रतत्यौ” रघुः “पिप्रायाद्रिगुहोपघ्नान्” भट्टिः।
उपच(ज) = त्रि० उपचिनीति उपजायते वा उप + चि–जन–वा ड। चान्तपाठे वृद्धिकारके जान्तः अनन्तरजाते। “ब्रीहियवयोर्वा एतदुपचं (जं) यच्छमीधान्यं तद्ब्रीहियवावेतेन मूयांसौ करोति” शत० ब्रा० १, १, १, १०। भाष्यकृता तु अत्र उपचमिति पठित्वा शमीधान्यम् तिलमाषादि उपचिनोति उपचम् अल्पमाषपिष्टेन मिश्रितं ब्रीहिपिष्टं त्रिचतुरमामात् आरोपितम् उपचितं बहु भवतीति” व्याख्यातम्
उपचक्र = पु० उपगतः सादृश्येन चक्र चक्रवाकम् अत्या० स०। चक्रवाकपद्वशे पक्षिभेदे “भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्त्रिणः” भा० व० १५८ अ०। “चकौरैरुपचक्रैश्च पक्षिभिर्जीवजीवर्कः” भा० १७८ अ०। तत्पुरुषे उपाद्द्व्यच्कत्वादन्तोदात्तः। सामीप्यादौ अव्ययी०। २ चक्रस्य सामीप्ये ३ चक्रे इत्यर्थे च अत्र चक्रशब्दी नानार्थः।
उपचक्षुस् = न० उपगतञ्चक्षुर्दर्शनानुगुण्यार्थम् अत्या० स०। उपनेत्रे (चशमा) काचादिनिर्म्मिते दर्शनसाधने द्रव्यभेदे
उपचतुर = त्रि० उपगताश्चत्वारो यस्य प्रा० ब० गतलोपः डचोबाधकोऽच्। १ चतुर्ण्णां समीपवर्त्तिनि। चतुरस्य सामीप्यादौ अव्ययी०। २ दक्षसामीप्यादौ अव्य०।
उपचय = पु० उप + चि–भावे अच्। १ वृद्धौ २ उन्नतौ “स्वशक्त्युपचये केचित् परस्य व्यसने परे” माघः। “तदेतेषामस्मत्पुत्राणां ज्ञानोपचये भवन्तः प्रमाणम्” हितो० “षडृतवो भवन्ति दोषोपचयप्रकोपोपशमननिमित्तम्” सुश्रु०। “षष्ठत्रिदशलाभाश्च लग्नादुपचयाः स्मृताः” इति ज्योतिषोक्ते ३ लग्नात् षष्ठादिस्थानेषु च।
उपचरित = त्रि० उप + चर–क्त। १ उपासिते २ लक्षणया बोधिते च।
उपचर्म्म(न्) = अव्य० चर्मणः सामीप्यादौ अव्ययी० वा अच्समा०। १ चर्मसमीपे २ चर्मणीत्यर्थे च उगतश्चर्म अत्या० स०। नान्तः। चर्मोपगते त्रि० स्त्रियां वा डाप् मनन्तत्वान्न ङीप्।
उपचर्य्य = त्रि० उप + चर–कर्मणि यत् ततः उपशब्देन अवतरेत्यादिवत् सुप्सुपेति समासः सोपसर्गात्तु ण्यदेव स्यात्। १ सेवनीये “ये च यैरुपचर्य्याःस्युर्न्नियमैस्तान्निबोधत”। उपचर्य्यः स्त्रिया साध्व्या सततं देववत् पतिः” मनुः “अग्निवच्चोपचर्य्या वै ब्राह्मणाः कुरुसत्तम!” भा० आनु० ८ अ०। २ चिकि त्सनीये च। भावे यत् तथा समासः। ३ चिकित्सायाम् ४ सेवने च न०
उपचर्य्या = स्त्री उप + चर–भावे क्यप्। १ सेवने २ चिकित्सायां हला०
उपचाकु = त्रि० उप + चक प्रतीघाततृप्त्योः उण्। १ प्रतिधातके २ प्रीते च ततः बाह्वादि० अपत्यार्थे इञ्। औपचाकवि तदपत्ये पुंस्त्री०।
उपचायिन् = त्रि० उपचिनोति उप + चि–णिनि स्त्रियां ङीप्। उपचयकारके वृद्धिकारके। “इतो वृद्धोपचायित्वात् शिशुं मामद्य योधय” भा० आश्व० ७६ अ०।
उपचाय्य = पु० उपचीयतेऽग्निरत्र उप + चि–आधारे ण्यत्। यज्ञे इष्टकादिनिर्मिते अग्निधारणार्थे स्थलविशेषे “कथाभीरमसे नित्यमुपचाय्यवतां शुभे!” भट्टिः।
उपचार = पु० उप + चर–घञ्। १ चिकित्सायां, २ सेवायां, “स मे चिरायास्खलितोचाराम्”। “उपचाराञ्जलिखिन्न- हस्तया” रघुः। ३ व्यवहारे, “स्मृतेः उपचारात् अन्यार्थदर्शनाच्च” शव० भा० भूरिप्रयोगः अविग्रहशब्दे ४५१ पृष्ठे दर्शितः। ४ उत्कोचे ५ लक्षणया शक्यार्थत्यागेनान्यार्थ बोधने ६ अयथार्थवाक्येन सन्तोषकरणे च “उपचारपदं न चेदिदमिति” कुमारः ७ धर्म्मानुष्ठानमात्रे “वैश्यशूद्रोपचारञ्च” “व्रतचर्य्योपचारञ्च” मनुः। “प्रयुक्तपाणिग्रहणोपचारौ” कुमा०। करणे घञ्। ८ पूजासाधने द्रव्यभेदे “सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत्” रघुः पूजाङ्गीपचाराश्च नानाविधाः तत्र सर्वोपचारमन्त्रास्तु श्रीतारपूर्ब्बाः, कल्पयामि नमः इत्यन्ताः कार्य्याः। “सिद्धजामले “श्रीतारञ्च मुखे कृत्वा देयस्य भुवनेश्वरि! कल्पयामि नमः पश्चादुपचारेष्वयम् विधिरिति” इत्युपक्रम्य तन्त्रसारे “चतुःषष्ठ्युपचाराः दर्शिताः यथा आसनारोपणम् १। सुगन्धितैलाभ्यङ्गः २। मज्जनशालाप्रवेशनम् ३। मज्जनमणिपीठोपरिवेशनम् ४। दिव्यस्नानीयमुद्वर्त्तनम् ५। उष्णोदकस्नानम् ६। कनककलसस्थितसकलर्तार्थाभिषेचनम् ७। धौतवस्त्रपरिमार्ज्जनम् ८। अरुणदुकूलपरिधानम् ९ अरुणदुकूलोत्तरीयम् १०। आलेपमण्डपप्रवेशनम् ११। आलेपमणिपीठोपवेशनम् १२। चन्दनागुरुकुङ्कुमकर्पूरकस्तूरीरोचनादिव्यगन्धसर्वाड्रानुलेपनम् १३। केशभारस्य कालागुरुधूपमल्लिकामालतीजातीचम्पकाशोकशतपत्रपूगकुहरीपुन्नागकह्लारयूथीसर्वर्त्तुकुमुममालाभूषणम् १४। भूषणमण्डपप्रवेशनम् १५। भूषणमणिपीठोपवेशनम् १६। नवमणिमुकुटम् १७। चन्द्रशकलम् १८। सीमन्तसिन्दूरम् १९। तिलकरत्नम् २०। कालाञ्जनम् २१। कर्ण्णपालियुगलम् २२। नासाभरणम् २३। अधरयावकम् २४। प्रपदभूषणम् २५। कनकचित्रपादुका २६। महापादका २७। मुक्तावलिः २८ एकावलिः २९। देवछन्दकः ३०। केयूरयुगलचतुष्टयम् ३१। वलयावलिः ३२। उर्मिकावलिः ३३। काञ्चिदाम ३४ कटीसूत्रम् ३५। शोभाख्याभरणम् ३६। पादकटकम् ३७। रत्ननूपुरम् ३८। पादाङ्गुलोयकम् ३९। एककरे पाशः ४०। अन्यकरे अङ्कुशः ४१। पूर्ण्णेषुचापम् ४२। अपरकरे पुष्पवाणाः ४३। श्रीमन्माणिक्यपादुका ४४। स्वसमानवेशाभिरावरणदेवताभिः सहसिंहासनारोहणम् ४५। कामेश्वरपर्य्यङ्कोपवेशनम् ४६। अमृताशनचषकम् ४७। आचमनीयम् ४८। कर्पूरवटिका ४९। आनन्दोल्लासः ५०। सविलासहास ५१। मङ्गलारत्रिकम् ५२। श्वेतच्छत्रम् ५३। चामरयुगलम् ५४। दर्पणः ५५। तालवृन्तम् ५६। गन्धः ५७। पुष्पम् ५८। धूपः ५९। दीपः ६०। नैवेद्यञ्च ६१। एतानि कल्पयेत् एषामुपचाराणामभावे तन्मन्त्राजप्याः। “तदुक्तं नवरत्नेश्वरे। “चतुःषष्ट्युपचाराणामभावे तन्मनुं जपेत्। तत्तदेव फलं विन्देत् साधकः स्थिरमानसः”। “आचमनीयं प्रदातव्यमपचारान्तरान्तरे” तन्त्रसा० तानि च त्रीणि “स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम्” नरसिंहपु० तेन चतुषष्टिपूरणम्। एतच्च श्रीविद्याप्रकरणीयत्वात्तद्विषयम्। अन्यत्र यथागमं कल्पनीयम्। शङ्काचार्य्येण तु स्तोत्रच्छलेन अन्यविधाः चतुःषष्ट्यु पचारादर्शिता विस्तरभयान्न ते दर्शितास्तत्स्तोत्रेऽवसेयाः। अथाष्टादशोपचाराः। “आसनम् १ स्वागतम् २ पाद्यम् ३ अर्घ्यम् ४ आचमनीयकम् ५। स्नानम् ६ वस्त्रोपवीतञ्च ७ मूषणानि च सर्वशः ८। गन्धम् ९ पुष्पम् १० तथा धूपम् ११ दीपम् १२ अन्नञ्च १३ तर्पणम् १४ माल्यानुवेपनेचैव १५ १६ नमस्कारविसर्ज्जने १७ १८। अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत्”। अथ षोडशोपचाराः। “पाद्यमर्घ्यन्तथाचामं स्नानं वसनभूषणे। गन्धं पुष्पधूपदीपं नैवेद्याचमनन्ततः। ताम्ब लमर्च्चने स्तोत्रं तर्पणञ्च नमस्क्रियाम्। प्रयोजयेत् प्रपूजायामुपचारांस्तु षोडश” अथ दशोपचाराः। “पाद्यमर्घ्यं तथाचामो मधुपर्काचमौ तथा। गन्धादयोनिवेद्यान्ता उपचारा दश क्रमात्। अथ पञ्चोपचाराः। “गन्धपुष्पं तथा धूपं दीपं नैवेद्यमेव च। अखण्डं फलमासाद्य केवलं लभते ध्रुवम्” तन्त्रसा० विधानपा० विण्णुविषये अन्यविधा षोडशोपचारा दर्शिताः ते च तत्तन्मन्त्रसहिता मत्कृततुलादानादिपद्धतौ २२८ पृष्ठे दर्शिताः। आ० त० “आसन स्वागतं पाद्यमर्घ्य माचनीयकम्। मधुपर्काचमं स्नानवसनाभरणानि च। गन्धपुष्पे धूपदीपौ नैवद्यं वन्दनं तथा” एवं षोडशोपचाराः पठिता शक्तिभेदात् भेद उन्नेयः। तत्रासनादिकं यथा देयं तथोक्तं कालि० पु० “आसनं प्रथमं दद्यात् पौष्पं दारवमेव वा”। (वाकारात् रजताद्यासनम्)। “पाद्यार्थमुदकं पाद्यं केवलं तोयमेव तत्। तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत्”। (अर्घ्यमर्घ्य शब्दे उक्तम्)। “उदकं दीयते यत्तु प्रसन्नं फेनवर्जितम्। आचमनाय देवेभ्यस्तदाचमनमिष्यते। तत्तैजसेन पात्रेण शङ्खेनापि प्रदापयेत्। स्वर्ण्णरत्नोदके स्नानं कर्पूराद्य धिवासितम्। तैजसैः कांस्यपात्रैर्वा शङ्खेनाथ प्रदापयेत्। यद्दीयते देवताभ्यो गन्धपुष्पादिकं तथा। अर्घपात्रस्थितैस्तोयैरभिषिच्य समुत्गृजेत्। नैवेद्यं दक्षिणे वा मे पुरतो वा न पृष्ठतः। दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः। वामतस्तु तथा धूपमग्रे वा न तु दक्षिणे। निवेदयेत् पुरोभागे गन्धपुष्यञ्च मूषणम्” नरसि० पु०। “कार्पासं सर्वतोभद्रं दद्योत सर्वेभ्य एव हि। नैकान्तरक्तं दद्यात्तु वासुदेवस्य चेलकम्। तत् पूर्व्वं पूजयित्वैव मन्त्रैर्देवाय चोत्सृजेत्। निर्दशं मलिनं जीर्णं छिन्नं गात्रावलिङ्गितम्। परकीयं चाणुदष्टं सूचीविद्धं तथोषितम्। उप्तकेशं विधूतञ्च श्लेष्ममूत्रादिदूषितम्। वर्जयेत् स्वोपयोगे च यज्ञादावुपयोजने”। (उप्तकेशं केशेन सह वापितम्)। “पताकाध्वजवस्त्रादौ स्यूतं वस्त्रं नियोजयेत्। ग्रैवेयकादि संसक्तं सौवर्ण्णं राजतञ्च वा। निवेदयेत्तु देवेभ्यो नान्यतैजससम्भवम्। प्रावरः पान पात्रञ्च गण्डको गृहमेव च। पर्थ्यङ्कादि यदन्यच्च सर्व्वं तदुपभूषणम्”। गन्धविशेषो गन्धशब्दे वक्ष्यते।
उपचारच्छल = न० वाद्युक्त वाक्यस्य तत्तातात् पर्य्याविषयार्थान्तरपरत्वकल्पनेन छलात्मकासदुत्तररूपे दूषणभेदे। छलस्य सामान्यलक्षणविभागोपचारलक्षणोदाहरणानि गौ० सू० वृत्त्योर्दर्शितानि यथा। “वचनविघातोऽर्थविकल्पोपपत्त्या च्छलम्” सू०। “अर्थस्य वाद्यभिमतस्य योविकल्पोविरुद्धः कल्पो अर्थान्तरकल्पनेति यावत् तदुपपत्त्या युक्तिविशेषेण योवचनस्य वाद्युक्तस्य विघातोदूषणं तच्छलमित्यर्थः वक्तृतात्पर्य्याविषयार्थकल्पनेन दूषणाभिधानमिति फलितं तात्पर्य्याविषयत्वं विशेष्येविशेषणे संसर्गे वा यथा नेपालादागतोऽयं नवकम्बलवत्त्वादित्यत्र नवसंख्यापरत्वकल्पनयाऽसिद्ध्यभिधानं, प्रमेयं धर्म्मत्वादित्यत्र पुण्यत्वार्थकल्पनया भागासिद्ध्यभिधानं, वह्निमान् धूमादित्यत्र धूमावयवे व्यभिचाराभिधानम्” वृ०। “तत्त्रिविधं वाक्छलं सामान्यच्छलमुपाचारच्छलञ्च” सू०। “धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम्” सू०। “धर्मशब्दस्यार्थेन सम्बन्धस्तस्य विकल्पी द्विविधः कल्पः शक्तिलक्षणान्यतरूपस्तथा च शक्तिलक्षयोरेकतरवृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचार च्छलं यथा मञ्चाः क्रोशन्ति नीलोघट इत्यातौ मञ्चस्था एव क्रोशन्ति न तु मञ्चाः, एवं घटस्य कथं नीलरूपाभेदः, एवं अहं नित्य इति शक्त्या प्रयुक्ते अमुकस्मादुत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोऽप्यु पचारच्छलम्। वाद्यभिप्रेता- र्थस्यादूषणेन छलस्यासदुत्तरत्वम्। न च श्लिष्टलाक्षणिकप्रयोगाद्वादिन एवापराधः स्यादिति वाच्यं तत्तदर्थबोधकतया प्रसिद्धस्य शब्दस्य प्रयोगे वादिनोऽनपराधात् अन्यथा पर्वतोवह्निमानित्युक्ते पर्वतोऽयं कथमवह्निमानित्यादिदूषणेनानुमानाद्युच्छेदः स्यात्”।
उपचार्य्य = त्रि० उप + चर–कर्मणि ण्यत्। १ सेवनीये २ चिकित्सनीये च भावे ण्यत्। ३ चिकित्सायां हेम० ४ सेवायाञ्च न०।
उपचित् = त्रि० उपचिनोति देहम् उप + चि–क्विप्। देहवर्द्धके श्लीपदादौ “नाशयित्री वलासस्यार्शस उपचितामसि” यजु० १२, ९७। “उपचितः श्वयुथुगडुश्लीपदादयः” वेददी०।
उपचित = उप + चि–क्त। १ समृद्धे “मृगवयोगवयोपचितं वनम्” रघुः। २ दिग्धे च मेदि० ३ लेपनादिना वर्द्धिष्णौ निदिग्धे अमरः ४ समाहिते हेम० ५ सञ्चिते च “प्रयतत्वाद्वोपचितमशुभं नाशयतीति प्रायश्चित्तम्” हारीतः। “उपचितं सञ्चितम्” प्रा० त० रघुनन्दनः।
उपचिति = स्त्री उप + चि–चाय–चिभावो वा भावे क्तिन्। १ वृद्धौ २ उन्नतौ च।
उपचित्र = न० “उपचित्रमिदं सससाल्लगौ” वृ० र० उक्ते १ समवृत्तवर्णवृत्तभेदे। “विषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम्” तत्रोक्ते अर्द्धसमे २ वर्णवृत्तभेदे च। ३ धृतराष्ट्रपुत्रभेदे “चित्रोपचित्रौ चित्राङ्कश्चारुचित्राङ्गदश्च ह” धृतराष्ट्रपुत्रनामकथने। भा० आ० ६७ अ०।
उपचित्रा = स्त्री उपगता चित्रं वर्णम् चित्रां वा। मूषिकपर्ण्याम् (उन्दुरकानि) अमरः चित्रातारासमीपस्थायां २ स्वातौ ३ हस्तायाञ्च। राशिचक्रे तयोश्चित्रानुगतत्वात्तथात्वम्। ४ दन्तीवृक्षे राजनि० “द्विगुणितवसुलघुरचलधृतिरिह” इत्युपक्रम्य “वाणाष्टनवसु यदि लश्चित्रा उपचित्रा भवमे परयुक्ते” वृ० र० उक्ते षोडशमात्रात्मके ५ मात्रावृत्तभेदे च।
उपचेय = त्रि० उप + चि–कर्मणि यत्। अङ्कुशादिना विनाम्य चयनीये पुष्पादौ।
उपच्छन्दन = न० उप + छदि–णिच् भावे ल्युट्। सान्त्वेन प्रार्थने (फुसलान) “तथा निवेदितश्च नरपतिरसुभिर्मामवियोज्य उपच्छन्दनैरेव स्वं ते दापयितुं प्रयतिष्यते” दशकु०। २ उपमन्त्रणे च “उपमन्त्रणमुपच्छन्दनमिति” सि० कौ०।
उपच्यव = पु० उप + च्युङ्–गतौ भावे अप्। गृहात् निर्गमे। “यत्र नार्य्यपच्यवमुपच्यवञ्च शिक्षते” ऋ० १, २८, ३। “शालायानिर्गमनमुपच्यवम्” भा०।
उपजन = न० उपजायते जन–अच्। स्त्रीपुंसयोगेन जायमाने १ देहे। “नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्तः” छा० उ०। “मनसैव नोपजनं स्मरन् स्त्रीपुंसयोरन्योन्योपगमेन जायते इत्युपजनम् आत्मभावेन वात्मसामीप्येन वा जायते इत्युजनमिदं तन्न स्मरन्” भा०। भावे घञ् अवृद्धिः। २ स्तोमादि वृद्धौ पु०। “तत्रोपजनस्तार्क्ष्यवर्ज्जमग्ने सूक्तानाम्” आश्व० श्रौ० ९, १, १५ “तत्र स्तोमवृद्धावुपजनस्थानमुच्यते नारा वृ० “सोमातिरेके स्तुतशस्त्रोपजनः ६, ७, १ “तदा स्तुतशस्त्रयोरुपजनीभवति” नारा० वृ०। ३ उत्पत्तिमात्रे च “योगोहि प्रभवाप्ययौ” कठोप० भाष्ये योगोहि प्रभवाप्ययौ उपजनापायधर्म्मकौ” इति उक्तम्।
उपजप्य = त्रि० उप + जप–कर्म्मणि अर्हार्थे यत्। मेदनीये उ पपूर्व्वकाज्जपतेर्भेदार्थकत्वात्तथात्वम्। “उपजप्यानुपजपे द्बुध्येतैव च तत्कृतम्” मनुः।
उपजरस = अव्य० जरायाः समीपम् अच् समा० जरसादेशश्च। जरासामीप्ये।
उपजला = स्त्री उगगतो जलम् अत्या० स०। यमुनापार्श्वस्थे नदीभेदे “जलाञ्चोपजलाञ्चैव यमुनामभितो नदीम्” भा० व० १३० अ०।
उपजल्पिन् = त्रि० उप + जल्प–णिनि। उपदेशके। “अनाहूतोपदिष्टानामनाहूतोपजल्पिनाम्। ये लोकास्तान् हतः कर्ण्ण! मया त्वं प्रतिपत्स्यसे” भा० आ० १३६ अ०।
उपजाति = स्त्री “अनन्तरोदितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः। इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिष्विदमेव नाम” वृ० र० उक्ते वर्ण्णवृत्ते विभिन्नजातिद्वय पादद्वययोगात् चतुर्द्दशप्रकारभिन्ने छन्दोभेदे। यथा उपेन्द्रवज्रन्द्रवज्रयोः पादद्वयादियोगे १४ भेदाः। तत्र चतुश्चरणप्रस्तारे १६ भेदा भवन्ति तत्र शुद्धा एकैका तत्र न्नामभाक् शिष्टा चतुर्दश उपजातिसंज्ञाः। दिङ्मात्रं दर्श्यते। उ उ उ उ। इ उ उ उ। उ इ उ उ। इ इ उ उ। उ उ इ उ। इ उ इ उ। उ इ इ उ। इ इ इ उ। उ उ उ इ। इ उ उ इ। उ इ उ इ। इ इ उ इ। उ उ इ इ। इ उ इ इ। उ इ इ इ इ इ इ इ। अत्राद्यन्तयोः इन्द्रवज्रोपेन्द्रवज्रयोः शुद्धतया तद्भिन्नानां चतुर्द्दशानां भिन्नजात्योश्चरणद्वयलक्षणयोगात् उपजातित्वम्। यथा “अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यामित्यादि” रघुः। एवं वंशस्थेन्द्रवंशयोरपि। यथा “इत्थं रथाश्वेभनिषादिनां प्रगे, गणो नृपाणामथ तोरणाद्बहिः” माघः तुल्यसंख्यकवर्ण्णपादयोरे वोपजातित्वमिति न नियमः किन्तु भिन्नसंख्यकवर्ण्णपादयोरपि। “रामं लक्ष्मणपूर्व्वजं रघुवरं सीतापतिं सुन्दरं काकुत्स्थं करणामयं गुणनिधिं विप्रप्रियं धार्मिकम्। राजेन्द्रं सत्यसन्ध्यं दशरथतनयं श्यामलं शान्तमूर्त्तिम्। वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्” इति पद्ये शार्द्दूलविक्रीडितेन १९ उनविंशत्यक्षरपादकेन सह २१ एकविंशत्यक्षरपादक स्रग्धरायाः पादद्वयेन मिश्रणात् उपजातित्वम्। एवं “महिषेऽसुराणामधिपे देवानाञ्च पुरन्दरे” इति देवीमा० अनुष्टुब्वृहत्योः सङ्करादुपजातित्वम्।
उपजानु = अव्य० जानुनः समीपम् अव्ययी०। जानुसमीपे। “भीष्मोधनुष्मानुपाजन्वरत्निः” भट्टिः। तत्र प्रायभवेऽर्थे ततः ठक् उगन्तत्वात् ठस्य कः। औपजानुक तत्रप्रायभवे त्रि० “पाणी यस्योपजानुकौ” भट्टिः।
उपजाप = पु० उप + जप–धञ्। १ भेदे, अनैक्यसम्पादके व्यापारे। “उपजापः कृतस्तेन तानाकोपवतस्त्वयि” माघः “तेषु तेषु चाकृत्येषु प्रासरन् परोपजापाः” दशकु०। २ उपांशुजपे च।
उपजापक = त्रि० उप + जप–ण्वुल्। १ भेदके “धातयेद्विविधैर्दण्डैररीणाञ्चोपजापकान्” मनुः।
उपजापसह = त्रि० उपजापं भेदं सहते सह–अच्। भेदार्हे भेद्ये।
उपजिह्वा = स्त्री उपगता ऊर्द्ध्वमुखी जिह्वा यस्याः। १ काकी भेदे। प्रा० स०। २ उपरिस्थायां जिह्वायाञ्च (आलजिभ्) “उपजिह्वास्फिचौ बाहू” कायविभागे या० स्मृ०। सुश्रुतोक्ते मांसदोषजे ३ रोगभेदे “अधिमांसार्व्वुदार्शोऽधिजिह्वोपजिह्वोपकुशगण्डशुण्डिकालजीमांससंघातौष्ठप्रकोपगलगण्ड गण्डमालाप्रभृतयोमांसदोषजाः” स च सप्तसुमुखरोगेषूपजिह्वाधिजिह्वोपकुशदन्तवैदर्भप्रभृतिषु जिह्वागतमुखरोगभेदः। मुखरोगविभागे” सुश्रु०। “जिह्वागताश्च कण्टकास्त्रिविधास्त्रिभिर्दोषैरलासौपजिह्विकेति पञ्चधा विभज्य “जिह्वाग्ररूपः श्वयथुर्हि जिह्वानुन्नाम्य जातः कफरक्तयोनिः। प्रसेककण्डूपरिदाहयुक्ता प्रकथ्यतेऽसावपजिह्विकेति” लक्षितः। अत्र स्वार्थे कन्। “उपजिह्विकां तुसंलिख्य क्षारेण प्रतिसारयेत्” सुश्रु०। उपजिह्वे व इवार्थे कन्। ४ कीटभेदे हारा० कण्टकावृततनुत्वात्तथात्वम्
उपजीक = त्रि० उ + जीव–क्विप् स्वार्थे कन् वलोपः। उपजीवके “उद्भवन्ति उपजीका समुद्रादधिभेषजम्” अथ० २, ३, ४, “उपजीका आसिञ्चन् धन्वन्युदकम्”। ६, १००, २,
उपजीव = त्रि० उपगतो जीवं जीवनम् अत्या० स०। जीवनोपगते। “उपजीवाःस्थो जीव्यासम्” अथ० १९, ६९, २, उपाद् द्व्यच्कत्वेन तत्पुरुषेऽन्तोदात्तोऽयम्।
उपजीवक = त्रि० उप + जीव–ण्वुल्। १ उपजीवनोपायवति “सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः। अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः” भा० आ० २३ अ०। उपजीव्यतया २ इतरालम्बके ३ प्रयोज्ये “उपजीव्योपजीवकभावः” न्यायप्र० उपजीव्यशब्दे विवृतिः।
उपजीवन = न० उप + जीव–करणे ल्युट्। १ जीविकायाम्। “क्षत्रियस्यैतदेवाहुर्धर्भं कृष्णोपजीवनम्” भा० व० २१ अ०। “उपजीवनञ्च पर्जन्योदानमस्य परायणम्” भा० व० ३१ अ०। भावे ल्युट्। २ वृत्त्याद्यर्थमाश्रये “स्त्रीशूद्रविट्क्षत्रबधोनिन्दितार्थोपजीवनम्” या० स्मृ० “आत्मप्रदानं सौम्यं त्वमद्भ्यश्चैवोपजीवनम्” भा० स० ७६ अ०।
उपजीवनीय = त्रि० उप + जीव–कर्मणि अनीयर्। वृत्त्याद्यर्थमालम्वनीये “यत्र वा अस्यै बहुलतया ओषधयस्तदस्या उपजीवनीयतमम्” शत० ब्रा० १, ३, ३, १०, रसवतीमुपजीवनीयामकुर्वत” १, २, ५, ११,
उपजीविका = स्त्री उपजीवयति उप + जीव–करणे कर्तृत्वोपचारात् ण्वुल् अत इत्त्वम्। जीवनोपायभूतायां वृत्तौ।
उपजीविन् = त्रि० उप + जीव–णिनि। १ आश्रिते २ वृत्त्याद्यर्थमालम्बके च “भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम्” रघुः। “अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। नैषां प्रतिग्रहोदेयोन शिलाम् तारयेच्छिलाम्” “जातिमात्रोपजीवी वा कामं स्यात् ब्राह्मणब्रुवः” मनुः। स्त्रियां ङीप्
उपजीव्य = त्रि० उप + जीव–ण्यत्। १ आश्रये। २ ज्ञानसत्तावृत्त्याद्यर्थम् अवलम्बनीये “अलमुपजीव्यानां मान्यानांवाक्ये कटाक्षनिक्षेपेण” सा० द०। “उपजीव्यद्रुमाणाञ्च विंशतेर्द्विगुणीदमः” या० स्मृ०। “उपजीव्यबा धापत्तेः” शब्दचि०। उपजीव्यत्वञ्च स्वसत्ताप्रयोजकत्वम् स्व ज्ञानप्रयोजकत्वञ्च। उपजीव्योपजीवकभावश्च ज्ञानसत्त्वयोः प्रयोज्यप्रयोजकभावः। यथा एकस्यान्यसत्ताप्रयोजकत्वमपरस्य च तत्प्रयोज्यसत्ताकत्वम्। एवम् अन्यज्ञानप्रयोजकत्वम् अत्याधीनज्ञानविषयत्वं च यथायथं प्रयोगानुसारे बोध्यम्।
उपजोष = पु० उप + जुष–प्रीतौ घञ्। १ प्रीतौ २ सेवने च। ल्युट्। उपजोषणमप्यत्र न०।
उपजोषम् = अव्य० उप + जुष–प्रीतौ वा० अम्। १ प्रीतौ १ कल्याणे ३ यथाकर्म्मभोगमित्यर्थे च। तत्र प्रीतौ “यथो पजीषं सर्व्वश्च जनश्चिक्रीड भारत”! भा० आ० ११२ अ०। “यथोपजोषं विहितैर्हि कृष्णा” भा० आ० १९९ अ० अत्र सर्व्वत्र उपजोषशब्देनापि यथाशब्दस्याव्ययीभावोऽपि भवितुमर्हति। उप–सामीप्ये जोषम् मौनम्। ४ सामीप्येन मौने च “किमिदमुपजोषमास्यते” शकु०।
उपज्ञा = स्त्री उप + ज्ञा–कर्म्मणि अङ्। विनोपदेशेन स्वयमुद्भाव्ये १ प्रथमं ज्ञायमाने। उपज्ञाशब्दस्य तु तदादित्व विवक्षायाम् उत्तरपदस्थस्य तत्पुरुषे क्लीवता। “पाणिन्युपज्ञं व्याकरणम्” सि० कौ०। “अथ प्राचेतसोपज्ञं रामायणमितस्ततः” रघुः। “केकय्युपज्ञं वत वह्वनर्थम्”। भट्टिः भावे अङ्। २ आद्यज्ञाने तत्पुरुषे स्त्री न क्लीवता
उपज्ञात = त्रि० उप + ज्ञा–क्त। विनोपदेशेन ज्ञातेऽर्थे।
उपज्योतिष = न० उपगतं सादृश्येन ज्योतिषमत्या० स०। ज्योतिषशास्त्रानुकारिणि गणितादिशास्त्रे।
उपढौकन = न० उप + ढौक–भावे ल्युट्। १ उपहारे राजादेः संतोषार्थं द्रव्यादिप्रापणे (भेटदेओया) कर्म्मणि ल्युट्। २ उपह्रियमाणे उपायनद्रव्ये।
उपतन्त्र = न० उपगतं तन्त्रम् अत्या० स०। शिबोक्ततन्त्रसदृशे सिद्धर्षिकृते तन्त्रभेदे तच्च वाराहीतन्त्रे दर्शितं यथा “सैद्धोक्तान्युपतन्त्राणि कपिलोक्तानि यानि च। अद्भुतानि च तन्त्राणि जैमिन्युक्तानि यानि च। वशिष्ठः कपिलश्चैव नारदो गर्ग एव च। पुलस्त्यो भार्गवः सिद्धोयात्तवल्क्यो भृगुस्तथा। शुक्रो वृहस्पतिश्चैव अन्ये ये मुनिसत्तमाः। एभिः प्रणीतान्यन्यानि उपतन्त्राणि यानि च। न संख्यातानि तान्यत्र धर्म्मविद्भिर्महात्मभिः। सारात् सारतराण्येव सङ्ख्यातानि निबोधतेति”।
उपतप्त = त्रि० उप–आधिक्ये–तप–क्त। सन्तप्ते। “स्मरोपतप्तोऽपि भृशं न स प्रभुः” नैष०।
उपतप्तृ = त्रि० उप + तप–बा० भावे तृच्। १ सन्तापे। अमरे भावप्रकरणे “स्वारः स्पर्शःस्प्रष्टोपतप्तेति” पाठात् भावे एव तृच् इति क्षीरस्वामी। तेन शब्द कल्पद्रुमे तापकपर्य्यायताकथनं प्रामादिकमेव। कर्त्तरि तृच् स्त्रियां ङीप्। २ तापके ३ रोगादौ च।
उपताप = पु० उप + आधिक्ये तप–आधारे घञ्। १ त्वरायां भावे घञ्। २ सन्तापे ण्यन्ततपेरच् ३ रोगे मेदि०। करणे घञ् ४ अशुभे ५ पीडने च रत्नाबली। “दीक्षितानुपतापे” आश्व० श्रौ० ६, ९, १, पुंस्त्वोपघातेन्द्रियोपतापान् तथा मुखा- क्षिपाकरक्तपित्तवातशोणिताम्लीकाप्रभृतीनापादयति” सुश्रु०। “मानसागन्तुभिर्म्सातुरुपतापैः प्रपीडितः “बन्धोपतापैश्च भवेद्विशेषशिरोऽभितापः ससमीरणेन” सुश्रु०।
उपतापक = त्रि० उप + आधिक्ये तप–णिच् ण्वुल्। सन्ताप जनके।
उपतापन = त्रि० उप + आधिक्ये तप + णिच् ल्यु। सन्तापके।
उपतापिन् = त्रि० उप + आधिक्ये तप + णिनि। १ सन्तप्ते २ रोगिणि च। “गुवर्थं पितृमात्रर्थं स्वाध्यायार्थ्युपतापिनः” मनुः “उपतापी रोगी” कूल्लू०। णिच्–णिनि। ३ सन्तापकारके। “दातापरेभ्यो न परोपतापी” भा० आ० ११ अ०। उभयतः स्त्रियां ङीप्।
उपतारक = त्रि० उप + तॄ णिच्–ण्वुल्। सन्तारके।
उपतिष्य = न० उपगतं तिष्यम् अत्या० स०। पुष्यसमीपगे १ पुनर्वसुतारके २ अश्लेषानक्षत्रे च तयोः नक्षत्रचक्रे पुष्योपगतत्वात् तथात्वम्। उपाद् द्व्यच्कत्वादन्तोदात्तोऽयम्।
उपतीर = अव्य० सामीप्यादौ अव्ययी०। तीरसामीप्यादौ आद्युदात्तता एवम् उपतूल उपमूल उपशाल उपाक्ष इत्यादि तत्तत्सामीप्यादौ अव्य०। अव्ययीभावे आद्युदात्तञ्च
उपतैल = त्रि० उपगतस्तैलम् अत्या० स०। अभ्यक्ततैले उपाद् द्व्यच्कत्वादन्तोदात्तता स्त्रियां गौरा० ङीष्
उपत्यका = स्त्री उप + भवार्थे त्यकन् त्यकनो निषेधात् नातैत्त्वम्। पर्वतस्यासन्नायां मूमौ। “मलयाद्रेरुपत्यका” रघुः। प्राग्भागतापतददिहेदमुपत्यकासु” माघः। “कान्ततरेयं गन्धपाषाणवत्युपत्यका” दशकु०।
उपदंश = पु० उप + दन्श–कर्मणि घञ्। १ मद्यपानरोचके (चाटनी) भक्ष्यद्रव्ये, २ भक्ष्यद्रव्योपकरणमात्रे, च। “तथानुष्ठिते च तया द्वित्रानुपदंशानुपपाद्य” दशकुमा०। भावे घञ्। संदशने (कामडान) “दिदङ्क्षौ उपदंशेच्छावतीति” माघ टीकायां मल्लि०। कर्मणि घञ्। ४ समष्ठिलवृक्षे ५ शिग्रु वृक्षे च पु० राजनि०। ६ उपस्थरोगभेदे (वाओ) (गरमि) तन्निदानिनादि सुश्रुते उक्तं यथा। “तत्रातिमैथुनादतिब्रह्मचर्य्याद्वा तथा ब्रह्मचारिणीं चिरोत्सृष्टां रजस्वलां दीर्घरोमां कर्कशरोमां सङ्कीर्णरोमां निगूढरोमामल्पद्वारां महाद्वारामप्रियामकामामचौक्ष्यसलिलप्रक्षालितयोनिमक्षालितयोनिं योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेवमानस्य तथा करजदशनविषशूकनिपातनादर्द्दनाद्धस्ताभिघाताच्चतुष्पदोगमनादचौक्ष्यसलिलप्रक्षालनादवपीडनाच्छुक्रमूत्रवेगविधारणान्मैथुनान्ते वाऽप्रक्षालनादिभिर्स्मेढ्रमा- गम्य प्रकुपिता दोषाः क्षतेऽक्षते वा श्वयथुमुपजनयन्ति तमुपदंशमित्याचक्षते। स पञ्चविधस्त्रिभिर्द्दोषैः पृथक् समस्तैरसृजा चैकः। तत्र वातिके पारुष्यं त्वक्परिपुटनं स्तब्धमेढ्रता पुरुषशोफता विविधाश्च वातवेदनाः। पैत्तिके ज्वरःश्वयथुः पक्वोडुम्बरसङ्काशस्तीव्रदाहः क्षिप्रपाकः पित्तवेदनाश्च। श्लैष्मिके श्वयथुः कण्डूमान् कठिनः स्निग्धः श्लेष्मवेदनाश्च। रक्तजे कृष्णस्फोटप्रादुर्भावोऽत्यर्थमसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थं ज्वरदाहौ शोषश्च याप्यश्चैव कदाचित्। सर्व्वजे सर्व्वलिङ्गदर्शनमवदरणं शेफसः कृमिप्रादुर्भावो मरणं चेति”। एतद्व्याख्याच्छलेन भावप्र० उक्तं यथा
“तत्रोपदंशस्य विप्रकृष्ट निदानमाह”। हस्ताभिघातान्नस्व दन्तघातादाधारणाद्रत्युपसेवनाद्वा। योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः”। हस्ताभिघातात् हस्तेन मैथुनात्। नखदन्तघातात् नखदन्तयोर्घात स्थानत्वेनानुक्तेऽपि मेहने नखदन्तघातो बलवदनुरागो दयात्। उक्तञ्च कामशास्त्रे। “शास्त्रस्य विषयस्तावद् यावन्मन्दतरो रसः। रतिचक्रे प्रवृत्ते तु न शास्त्रं नापि च क्रमः”। कलहे दुष्टस्त्रीकृतो वा मेहने नखदन्तघातः। उत्कलादौ स्त्रियो मुखयोनयो भवन्ति। ताभिर्व्वा मेहने, नखदन्तघातः। योनिप्रदोषात् दीर्घकर्क्कशयोनिलोमयोगात्। योनिच्छिद्रस्यातिसूक्ष्मत्वाद्वा वातादिकृताद्वा योनिदोषात्। विविघापचारैः। दुष्टजलप्रक्षालन ब्रह्मचारिणीगमनादिभिः पञ्चोपदंशाः। वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकः आगन्तुजश्चेति। तत्र वातिकस्य पैत्तिकस्य चोपदंशस्य लक्षणमाह। “सतोदभेदस्फुरणैस्तु कृष्णैः स्फोटैर्व्यवस्येन्मरुतोपदंशम्। पीतैर्व्वहुक्लेदयुतैः सदाहैः पित्तेन रक्तैः पिशितावभासैः”। व्यवस्येत् जानीयात् पीतैः रक्तैर्वेति विकल्पः। श्लैष्मिकं सान्निपातिकञ्चाह। “सकण्डूरैः शोफयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन। नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम्”। असाध्यमाह। “विशीर्णमांसं कृमिभिः प्रजग्धं मुष्कावशेषं परिवर्ज्जयेत्तम्”। विशीर्णमांसं गलितमांसं प्रजग्धं खादितं मुष्कावशेषं विशीर्णसमस्तमेहनमांसत्वेनावशिष्टफलकोषमात्रम्। उत्पन्नमात्रस्य चिकित्साया अकरणं दोषमाह “सञ्जातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः। कालेन शोफकृमिदाहपाकैः प्रशीर्ण शिश्नोम्रियते स तेन”। विषये प्रसक्तः अतिस्त्रीरतः। लिङ्गार्शसमाह “अङ्कुरैरिव संजातैरुपर्य्युपरि संस्थितैः। क्रमेण जायते वर्त्तिस्ताम्रचूडशिखोपमा। कोषस्याभ्यन्तरे सन्धौ पर्वसन्धिगतापि च। सवेदनः पिच्छिला च दुश्चिकित्स्या त्रिदोषजा। लिङ्गवर्त्तिरिति ख्याता लिङ्गार्श इति चापरे”। लिङ्गं वर्त्तेः स्थानम्। कोषाभ्यन्तरे अण्डकोषाभ्यन्तरे। सन्धौ लिङ्गरन्ध्रसन्धौ पर्वसन्धिगता मणिपर्वणोः सन्धिगता”। तच्चिकित्सादि सुश्रु० चिकि० १९ अ०। “उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिन” इत्यादि उक्तम्
उपदर्शक = पु० उप + दृश–णिच्–ण्वुल्। १ द्वारपाले। २ दर्शयितरि त्रि० उप सामीप्ये दृश–ण्वुल्। समीपस्थतया द्रष्टरि ३ साक्षिणि। तस्य कार्य्यानुषङ्गित्वाभावादुपद्रष्टृत्वम्।
उपदश = त्रि० ब० व० दशानां समीपवर्त्तिनः ब० ब्री० डच् समा०। दशसंख्यासमीपवर्त्तिषु नवैकादशसंख्याकेषु।
उपदा = स्त्री उप–दा–भावे अङ्। १ उत्कोचे, २ उपढौकने च। “तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते” पा० कृदभिहितोभावो द्रव्यवत् प्रकाशते इत्युक्तेः” ३ उपह्रियमाणे द्रव्ये च। “उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम्” “वन्येतरा जानपदोषदाभिः” “प्रत्यर्प्य पूजामुपदाच्छलेन” रघुः। भावे ल्युट् उपदानमप्यत्र न०। स्वार्थे कन्। तत्रैव उत्कोचे च। उपदा + अभूततद्भावे भ्वादौ च्वि। उपदीभूतः उपदीकृतः “तस्य रत्नमुपदीकृतं नृपाः” माघः। उपददाति उप + दा–कर्त्तरि क्विप्। उपदाद्रव्यदातरि त्रि० “वर्ण्णायानुरुधं वनायोपदाम्” यजु० ३०, ९, “उपदाम् उपदानदातारम्” वेददी०
उपदानवी = स्त्री स्वर्भानुदानवस्य प्रभानामकन्याजे पुलोम्नः कन्या–भेदे। “स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु सुतात्रयम्। उपदानवी हयशिरा शर्म्मिष्ठा वार्षपर्व्वणी”। हरि० ३ अ० “उपदानवी सुतान् लेभे चतुरस्त्वैलिकात्मजान्। दुष्मन्तमथ सुष्मन्तं प्रवीरमनघं तथा” हरि० ३२ अ०।
उपदि(श)श् = अव्य० दिशि, दिशोः समीपं वा वा अच् समा०। १ दिशीत्यर्थे २ दिशोः सामीप्ये च० उपगता दिशौ अत्या० समा० हलन्तत्वाद्वा टाप्। दिशोर्मध्यवर्त्तिन्यां विदिशि कोणे स्त्री “आवृण्वन् सर्व्वतोव्योम दिशश्चोपदिशस्तथा” भा० व० १७१ अ०।
उपदिश = पु० “भगिन्यां वसुदेवस्य श्रुतश्रवसि जज्ञिरे। शिशुपालो दशग्रीवोरैभ्योऽथोपदिशो बली” हरिव० ११७ अ० उक्ते शिशुपालभ्रातरि वसुदेवस्य भागिनेये नृपभेदे
उपदिश्य = अ० उप + दिश–ल्यप्। १ उपदेशं कृत्वेत्यर्थे। उपदिशि भवः दिगा० यत्। २ विदिग्भवे त्रि०।
उपदिष्ट = त्रि० उप + दिश–कर्म्मणि क्त। यस्य जनस्य उपदेशः कृतस्तस्मिन् १ जने उपदेशेन २ ज्ञापिते च। “उपदिष्टातिदिष्ट गोत्रस्यैव निषेधः” उद्वा० त० रघुनन्दनः।
उपदी = स्त्री उपेत्य देयते खण्ड्यते उप + दो–घञर्थे क गौरा० ङीष्। (परगाछा) वन्दायां राजनि० स्वार्थे कन्। वा ह्रस्वः। उपदिका उपदीकाप्यत्र हेमचन्द्रः। “इमा वम्र्यो यदुपदीका” शत० ब्रा० १४, १, १, ८, अत्र वम्रीशब्दस्यैव वन्दापर्यायत्वश्रवणात् हेमचन्द्रे वम्प्रीतिपाठ कल्पनेन शब्दकल्पद्रुमे तत्पर्य्यायताकथनं प्रामादिकमेव २ कीटभेदे च मेदिनिः।
उपदीक्षिन् = पु० उपगतोदीक्षिणं सामीप्येन अत्या० स०। यज्ञे दीक्षितस्य निकटस्थे “उपदीक्षी स्वेष्वग्निषु नखनि कृन्तनाद्युद्वादनान्तं सन्निपातिकम्” कात्या० २५, १४, ३, “उपदीक्षी नेदिष्ठः” कर्कः।
उपदृश् = त्रि० उपरिस्थः सन् पश्यति उप + दृश–क्विन्। उपरिस्थतया द्रष्टरि साक्षिणि सूर्य्यचन्द्रादौ। “अयं सूर्य्य इवोपदृगयं सरांसि धावति” ऋ० ९, ५४, २, “अयं सोमः सूर्य्यैवयथा सूर्य्यः सर्व्वस्य लोकस्योपद्रष्टा तत्तत्कर्म्मणा मुपद्वगुपद्रष्टा” भा०। “भद्रा सूर्य्यैवोपदृशः”। ८, १०२, १५।
उपदृषद(द्) = अव्य० सामीप्यादौ अव्ययी० वा अच्समा०। दृषदः पाषाणस्य सामाप्यादौ
उपदेव = पु० उपगतोदेवम् सादृश्येन अत्या० स०। “देवकस्या भवन् पुत्राश्चत्वारस्त्रिदशोपमाः। देववानुपदेवश्च संदेवो देवरक्षितः” हरिवं० ३८ अ० उक्ते १ देवकनृपपुत्रभेदे। “अक्रूरेणोग्रसेनायां सुगात्र्यां कुरुनन्दन”। प्रसेनश्चोपदेवश्च जज्ञाते देवबर्चसौ” हरि० ३४ अ० उक्ते २ अक्रूरपुत्रभेदे च। देवतुल्यतेजस्कत्वाच्चानयोस्तथात्वम्। देवसदृशालौकिक सामर्थ्ययुक्ते ३ पिशाचादौ। अन्तोदात्तोऽयम्, उपदेवाश्च दश “विद्याधरोऽप्सरोयक्षोरक्षो गन्धर्वकिन्नरौ। पिशाचो गुह्यकः सिद्धोभूतोऽमी देवयोनयः” इत्यभरोक्ताः बोध्या एषाञ्चालौकिकशक्तिकत्वात्तथात्वम्। उपदेवतादयोऽप्यत्र।
उपदेवी = स्त्री “याः पत्न्योवसुदेवस्य चतुर्द्दश वराङ्गनाः। पौरवी रोहिणी १ नाम मदिराऽपि २ तथा धरा ३। वैशाखी च तथा भद्रा ४ सुनाम्नी ५ चैव पञ्चमी। सहदेवा १ शान्तिदेवा २ सन्देवा ३ देवरक्सिता ४। वृकदेव्युपदेवी ५, ६, च देवकी चैव सप्तमी७। १२। सुतनुर्बडवा चेति द्वे एते परिचारिके” १४। हरि० ३७ उक्ते वसुदेवस्य पत्नीभेदे। जातौ ङीष् २ विद्याधरादिजातिस्त्रियाम्।
उपदेश = पु० उप + दिश–घञ्। १ अनुशासने, २ हितकथने, प्रवर्त्तकवाक्ये च। “चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये। मन्त्रमात्रप्रकथनमुपदेशः सौच्यते” म० त० रामार्च्चनचन्द्रिकोक्ते ३ दीक्षाभेदे। तद्विस्तारस्तु तन्त्रसारे कलावत्यादिदीक्षाप्रकरणे दृश्यः। तदशक्तौ तु “तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्य साक्षतम्। तदम्बु नाभिषिच्याष्टवारं मूलेन के करम्। निधायाष्टौ जपेत् कर्ण्णे उपदेशे त्वयं विधिः”। विश्वसारतन्त्रोक्तः प्रकारोऽनुष्ठेयः। अब्जम् शङ्खं के मस्तके। “यथासंख्य मुपदेशः समानाम्” पा०। “बधनिर्धूतशापस्य कबन्धस्योपदेशतः” रघुः। “स्थिरोपदेशामुपदेशकाले” “तपस्विनामप्युपदेशतां गतम्” कुमा०। “आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्केणानुसंधत्ते स धर्म्मं वेद नेतरः”। “धर्म्मोपदेशं दर्पेण विप्राणामस्य कुर्व्वतः” मनुः। प्रायश्चित्तोपदेश प्रकारस्तु मिता० दर्शितो यथा। “विख्यातदोषः कुर्व्वीत पर्षदोऽनुमतं व्रतम्” या० स्मृ०। “योदोषो यावत्कर्त्तृसम्याद्यस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्षदुपदिष्टं व्रतं कुर्य्यात्। यद्यपि स्वयं सकलशास्त्रार्थविचारचतुरस्तथापि पर्षत्समीपमुपगम्य तया सह विचार्य तदनुमतमेव कुर्य्यात्। तदुपगमने चाङ्गिरसा विशेष उक्तः। “कृते निःसंशये पापे न भुञ्जीतानुपस्थितः। भुञ्जानो वर्द्धयेत् पापं यावन्नाख्याति पर्षदि। सचेलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः। पर्षदोऽनुमतस्तच्च सर्व्वं विख्यापयेन्नरः। व्रतमाधाय भूयोऽपि तथा स्नात्वा व्रतञ्चरेदिति”। विख्यापनञ्च पर्षद्दक्षिणादानानन्तरं कार्य्यम्। यथाह पराशरः। “पापम्प्रख्यापयेत्पापी दत्त्वा धेनुन्तथा वृषमिति”। एतच्चोपपातकविषयम्। महापातकादिष्वधिकङ्कल्प्यम्। यत्तूक्तम्। “तस्माद्द्विजः प्राप्त पापः सकृदाप्लुत्य वारिणि। विख्याप्य पापं वक्तृभ्यः किञ्चिद्दत्त्वा व्रतञ्चरेदिति”। तत्प्रकीर्णकविषयम्। पर्षत्स्वरूपञ्च मनुना दर्शितम्। “त्रैविद्योहैतुकस्तर्की निरुक्तो धर्म्मपाठकः। त्रयश्चाश्रमिणः पूर्ब्बे पर्षदेषा दशावरा”। हैतुकोमीमांसार्थतत्त्वज्ञः। तर्की न्यायशास्त्रकुशलः। तथान्यदपि पर्षद्द्वयन्तेनैव दर्शितम्। “ऋग्वेदविद्यजुर्वेदी सामवेदविदेव च। त्र्यवरा पर्षद्विज्ञेया धर्म्मसंशयनिर्ण्णये” इति। तथा। “एकोऽपि वेदविद्धर्मं यं व्यवस्येत्समाहितः। स ज्ञेयः परमोधर्म्मो नाज्ञानामुदितोऽयुतैरिति”। आसाञ्च पर्षदां सम्भवापेक्षया व्यवस्था। महापातकाद्यभेक्षया वा। यत्तु स्मृत्यन्तरेऽभिहितम्। “पातकेषु शतम्पर्षत्सहस्रं महदादिषु। उपपापेषु पञ्चाशत्स्वल्पे स्वल्पा तथा भवेदिति”। तदपि महापातकादिदीषानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं न पुनः संख्यानियमार्थं मन्वादिमहास्मृतिविरोधप्रसङ्गात्। तथा देवलेन चात्र विशेषो दर्शितः। “स्वयन्तु ब्राह्मणा ब्रूयुरल्पदोषेषु निष्कृतिम्। राजा च ब्राह्वणाश्चैव महत्सु सुपरिक्षितमिति”। तया च पर्षदा अवश्यं व्रतमुपदेष्ट व्यम्। “आर्त्तानां मार्गमाणानाम्प्रायश्चित्तानि ये द्विजाः। जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः” इत्यङ्गिरःस्मरणात्। तथा तया पर्षदा ज्ञात्वैव व्रतमुपदेष्टव्यम्। “अज्ञात्वा धर्म्मशास्त्राणि प्रायश्चित्तन्ददाति यः। प्रायश्चित्ती भवेत् पूतः किल्विषम्पर्षदं व्रजेदिति” वशिष्ठ स्मरणात्। क्षत्रियादीनान्तु कृतैनसां धर्मोपदेशे विशेषोऽङ्गिर सा दर्शितः। “न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतैनसः। अन्तरा ब्राह्मणं कृत्वा व्रतं सर्व्वं समादिशेत्। तथा शूद्रं समासाद्य सदा विप्रपुरस्सरम्। प्रायश्चित्तम्प्रदातव्यञ्जपहोमविवर्जितमिति”। तत्र च यागाद्यनुष्ठानशीलानाञ्जपादिकं वाच्यमितरेषान्तु तपः। “कर्म्मनिष्ठास्तपोतिष्ठाः कदादित् पापमागताः। जपहोमादिकन्तेभ्यो विशेषेण प्रदीयते। ये नामधारका विप्रा मूर्खा धनविवर्ज्जिताः। कृच्छ्रचान्द्रायणादीनि तेभ्योदद्याद्विशेषतः” तत्र च सत्येशपूजनप्रदक्षिणे कर्त्तव्ये इति विधानपरिजातादयः तन्मूलं तत्र दृश्यम्। मत्कृततुलादानादिपद्धतौ च प्रायश्चित्तप्रकरणे तत्प्रकारोदृश्यः। प्रा० त० “तोषयित्वा द्विजोत्तमान्” देवलवचने तोषयित्वेति श्रवणात् तस्यानतिकरत्वेन तद्ग्रहणे न दोषः प्रायश्चित्तद्रव्यग्रहणे च दोष इति” व्यवस्थापितम्। प्रा० वि० तत्प्रपञ्चितं यथा “नन्वेतद्द्रव्यग्रहणस्य पापजनकत्वे प्रमाणं नास्ति। न च पापक्षयार्थत्वात् पापजनकत्वं, प्रमाणाभावात् तुलापुरुष प्रतिग्रहस्यापि गर्हितत्वापत्तेः। तत्र च “अथातः संप्रवक्ष्यामि महापातकनाशनम्” इत्यनेन पापक्षयश्रवणात्। अथ प्रायश्चित्तश्रवणात् पापजनकत्वं यथा याज्ञवल्क्यः। “पात्रे धनं वा पर्य्याप्तं दत्त्वा शुद्धिमवाप्नुयात्” आदातुश्च विशुद्ध्यर्थमिष्टिर्वैश्वानरी स्मृता”। एतस्य महापातकविषयत्वादन्यस्य गर्हितत्वं न स्यात्। अत एव “नाददीत नृपः साधुर्म्महापातकिनोधनमिति” राज्ञोधनग्रहणनिषेधो महापातक एव मनुनोक्तः। पतितद्रव्यग्रहणस्यैव पापजनकचम् “पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृह्य चेति” वृहस्पतिवचनादिति चेन्न पातकेतरप्रायश्चित्त द्रव्यस्य ग्राह्यत्वापत्तेः उच्यते। “आदातुर्विशुद्ध्यर्थमिति” महापातके श्रवणेऽपि लाघवात् सामान्यश्रुतिरेव कल्पनीया पापक्षयमात्रसाधनत्वेन यदुत्सृष्टं तत् प्रायश्चित्तद्रव्यं न ग्राह्यमिति, होलाकाधिकरणन्यायात्। अत एव न तुलापुरुषादावतिव्याप्तिस्तस्य पापक्षयमात्रफलत्वाभावात् स्वर्गादिफलस्यापि तस्य श्रुतत्वात् अत उक्तयाज्ञवल्क्यवचनान्महापातकिप्रायश्चित्तद्रव्यग्रहे सकृत्कृते वैश्वानरीष्टिः। अत्यन्तावृत्त्या द्रव्यत्यागश्च जले क्षेपणीयः ब्रह्मचारिणे वा देयः। यद्यपि प्रायश्चित्तेतरपतितद्रव्यग्रहणे वृहस्पतिना चान्द्रायणमासोपवासौ विहितौ तथापि तावभ्यासविषयौ ज्ञेयौ लघुपापप्रायश्चित्तद्रव्यग्रहणे तु “यद्गर्हितेनार्जयन्ति कर्भणा ब्राह्मणा धनम्। तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव चेति” मनूक्तगायत्रीसहस्रजपमासैकगोष्ठवासपयः पानव्रतमाचरणीयम्। लघुतरपापप्रायश्चित्तग्रहणे तु “प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्। जपंस्तरत्समन्दीयं मुच्यते मानवस्त्र्यहादिति” मनूक्तं दिनत्रयं तरत्समन्दीयजपशतं कुर्य्यादिति”। तरत्समन्दीयञ्च पावमानसूक्तान्तर्गतं सूक्तं तच्च मत्कृततुलादानादिपद्धतौ १८०। १ पृष्ठे दृश्यम्।
उपदेशक = त्रि० उप + दिश–ण्वुल्। उपदेशकर्त्तरि। “उपदेशकमाहात्म्यादार्षज्ञानाच्च पाणिनेः” शब्दा० र०।
उपदेशसाहस्री = स्त्री वेदान्तप्रकरणभेदे तत्र हि उपदेशाः सहस्रं सन्तीति तस्यास्तथात्वम्।
उपदेशिन् = त्रि० उपदिशति उप + दिश–णिनि। उपदेशकर्चरि स्त्रियां ङीप्। “गतानुगतिकोलोकः कुट्टिनीमुपदेशिनीम्”। प्रमाणवति नो धर्म्मं यथा गोघ्नमपि द्विजम्” हितो०।
उपदेश्य = त्रि० उप + दिश–कर्म्मणि ण्यत्। १ अनुशासनीये। यस्य प्रवर्त्तनार्थमुपदेशः क्रियते तस्मिन् २ उपदेशार्हे कर्म्मादौ च “विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम्” अथ० ११, ८, २३
उपदेष्टृ = पु० उप + दिश–तृच्। १ गुरौ कर्मोपदेशके २ आचार्य्ये “चत्वारोवयमृत्विजः स भगवान् कर्म्मोपदेष्टा हरिः” वेणी०। “तस्योपदेष्टारमपि पूजयेच्च ततोगुरुम्। न पूज्यते गुरुर्यत्र सर्व्वास्तत्राफलाः क्रियाः” ति० त० वृह०। “उपदेष्टानुमन्ता च लोके तुल्यफलौ स्मृतौ” आ० त० पु०। ३ उपदेशदायके त्रि० स्त्रियां ङीप्।
उपदेह = पु० उपदिह्यते उपचीयतेऽनेन उप + दिह–घञ्। देहादिदृद्धौ गण्डमालाश्लीपदादिमिर्देहस्फोततायाम्। “कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनं स्तम्भः शैत्यञ्च यत्र तं श्लैष्मिकमिति विद्यात्” ब्रणविभागे सुश्रु० “गुदोपदेहशोफौ तु स्नेहोऽपक्वः करोति हि” तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणञ्चापकर्षति” सुश्रु०।
उपदेहिका = स्त्री उपदेहोविद्यतेऽस्याः ठन्। कीटभेदे (दीमक) हेम०।
उपदोह = पु० उपदुह्यतेऽत्र उप + दुह–आधारे घञ्। दोहनपात्रे “ददादि यौ वै कपिलां सवेलां कांस्योपदोहां द्रबिणैरुत्तरीयैः” भा० व० १८६ अ०। “सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहाम्”। “गाः कांस्योपदोहाश्च कन्याश्च वस्वलङ्कृताः” इति च हरि० ६ अ०।
उपद्रव = पु० उप + द्रु–भावे घञ्। १ उत्पाते। रोगारम्भके धातुवैषम्पजनिते २ विकारभेदे च। (उपसर्ग) तल्लक्षणमुक्तं वैद्यके। “यो व्याधि स्तस्य यो हेतुर्दोषस्तस्य प्रकोपतः। योऽन्योविकारो भवति स उपद्रव उच्यते” सुश्रुते चोक्तं “साध्ययाप्यासाध्यरोगभेदमुपक्रम्य। “तत्रौपसर्गिको यः पूर्ब्बोत्पन्नव्याधिं जघन्यकालजा तो व्याधिरुपसृजति स तन्मूल एवोपद्रवसंज्ञकः”। तेन उपसर्जकत्वात्तस्य तथात्वं अत्रार्थे कर्त्तरि अच् इति” विवेकः। स च व्याधिभेदेन नानाविधः। रोगभेदे तद्भेदाश्च तत्रैवोक्ता बहुशः। तत्र व्रणभेदे “अतिदग्धे मांसालम्बनंगात्रविश्लेषसिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति” पालीरोगे च “अत ऊर्द्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान्। उत्पाटकश्चोत्पुटकः स्रावः कण्डूयुतो भृशम्। अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा। स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम्” इति, विभज्य, तल्लक्षणचिकित्से उक्ते। वातव्याध्यादौ प्राणमांसक्षयादय उपद्रवाः। यथा “उपद्रवैस्तु ये जुष्टाव्याधयो यान्त्यसाध्यताम्। रसायनादिना वत्स! तान् शृण्वेकमना मम। वातव्याधिः प्रमेहश्च कुष्ठमर्शोभगन्दरः। अश्मरी मूढगर्भश्च तथैवोदरमष्टमम्। अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः। प्राणमांसक्षयकाशतृष्णाशोषवमीज्वरैः। मूर्च्छातिसारहिक्काभिः पुनश्चैतौपद्रुताः। वर्ज्जनीयाविशेषेण भिषजा सिद्धिमिच्छता” सुश्रु०। एवमन्येऽपि रोगभेदे उपद्रवा स्तत्रोक्ता दृश्याविस्तरभयान्नोक्ताः।
उपद्रष्टृ = त्रि० उप + दृश–तृच्–अम्। उपदर्शके साक्षिणि “अग्निर्वा उपद्रष्ट्रा वायुरुपश्रोतादित्योऽनुख्याता” तैत्ति० “उपद्रष्टाऽनुमन्ता च भर्त्ता भोक्ता महेश्वरः”। गीता “उपद्रष्टा पृथग्मूत एव समीपे द्रष्टा साक्षीत्यर्थः श्रीधरः “नमः प्रवक्त्रे नम उपद्रष्ट्रे” आश्व० श्रौ० १, २, १ सोऽयं प्रजानामुपद्रष्टा प्रविष्टः” शत० ब्रा० १, ३, ४, २, ५ “उपद्रष्टा साक्षी” भा०
उपद्रुत = त्रि० उप + द्रु–क्त। जातोपद्रवे “पुनश्चैत उपद्रुताः” सुश्रु०।
उपधर्म्म = पु० उप + हीने हीनोधर्म्मः प्रा० स०। अप्रधानधर्म्मे “वेदमेवाभ्यसेन्नित्यं यथाकालमतन्त्रितः। तंह्यस्याहुः परं धर्म्ममुपधर्म्मोऽन्य उच्यते” “एष धर्म्मः परः साक्षादुपधर्म्मोऽन्य उच्यते” मनुः “उपधर्मो जघन्यधर्म्मः” कुल्लू०।
उपधा = स्त्री उप + धा–अङ्। उपधाने स्थापने “धर्म्मार्थकाममोक्षैश्च प्रत्येकं परिशोधने। उपेत्य धीयते यस्मादुपधा तेन कीर्त्तिता” इत्युक्ते धर्म्मार्थाद्युपन्यासेन मन्त्रिणां २ परीक्षणे, “चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः” भट्टिः “अर्थकामोपधिभ्यां तु भार्य्यां पुत्रांश्च शोधयेत्। धर्मोपधाभिवैप्रांश्च सर्व्वाभिः सचिवान् पुनः” कालिका पु०। ३ छले च। “उपधाभिश्च यः कश्चित् परद्रव्यं हरेन्नरः” मनुः “तच्चापि श्रुत्वा भूयोभूय उपधाभिः” दशकु०। ४ उपाये च। “अयशोभिदुरालोके कोपधा मरणादृते” माघः। “अलोऽन्त्यात् पूर्ब्ब उपधा” पाणिन्युक्ते अन्त्यवर्ण्णात् ५ पूर्व्ववर्णे च। “अनौपधालोपनोऽन्यतरस्याम्” “कोपधाच्च” पा०। लिङ्गानुशासनसूत्रे कोपघात् खोपधादित्यादि मूरिप्रयोगः ६ उपाधौ च। उपधाभृतः।
उपधातु = पु० उप सादृश्ये प्रा० स०। खर्णादिप्रधानधातुसदृशेषु “सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम्। तुत्यं कांस्यञ्च रीतिश्च सिन्दूरञ्च शिलाजतु” भावप्र० उक्तेषु सप्तसु १ द्रव्येषु। “उपधातुषु सर्व्वेषु तत्तद्धातुगुणा अपि। सन्ति किन्त्वेषु ते गौणास्तत्तदंशाल्पभावतः” भावप्र०। तत्र कतमस्य द्रव्यस्य कतमोपधातुत्वं तन्निर्ण्णितं तत्रैव। “किञ्चित् सुवर्ण्णसाहित्यात् स्वर्ण्णमाक्षिकमीरितम्। उपधातुः सुवर्ण्णस्य किञ्चित् स्वर्ण्णगुणान्वितम्”। तारमाक्षिकमन्यत्तु तद्भवेद्रजतोपमम्। किञ्चिद्रजतसाहित्यात् तारमाक्षिकमीरितम्” २ “तुत्थं (तु~ते) ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत्। किञ्चित्ताम्रगुणं तस्माद्वक्ष्यमाणगुणञ्च तत्” ३। उपधार्तुभवेत् कांस्यं द्वयोस्तरणिरङ्गयोः। कांस्यस्य तु गुणाज्ञेयाः स्वयीनिसदृशाजनैः ४। रोतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च। पित्तलस्य गुणाज्ञेयाः स्वयोनिसदृशा गुणैः” ५। सीसोपधातुः सिन्दरं गुणैस्तत् सीसवन्मतम्। संयोगज प्रभावेन तस्याप्यन्ये गुणाः स्मृताः” ६। निदाघे धर्म्मसन्तत्या सतुषारं धराधराः। निर्यासवत् प्रमुञ्चन्ति तच्छिलाजतु कीर्त्तितम्। सौवर्ण्णं राजतं ताम्रमायसं तच्चतुर्विधम् ७। इति चतुर्ण्णां स्वर्ण्णादीनामुपधातुत्वात् शिलाजतुनश्चतुर्द्धा भेदः। एतेषामन्यान्यगुणास्तत्तच्छब्दे वक्ष्यन्ते। भावप्र० एतएवोपधातुत्वेन गणिताः शब्दकल्प० स्वर्ण्णमाक्षिकतुत्थकर्पूरकालाञ्जनमनःशिलाहरितालरसाञ्जनरूपा उपधातव इत्युक्तं तन्मूलं मृग्यम्। शरीरस्थेषु रसादिजन्येषु २ स्तनदुग्धादिषु च। देहस्थाः रसादयः सप्त धातवः तेभ्यो जाताश्च षडुप धातवः। तत्र रसात् स्तनदुग्धम्। रक्तात् स्त्रीरजः २ मांसात् वसा ३। मेदसो धर्म्मः ४। अस्थ्नोदन्तः ५। मज्जतः केशः ६। शुक्रात् ओजः ७। यथोक्तं शार्ङ्गधर। “स्तन्यं रजोवसास्वेदो दन्ताः केशास्तथैव च। औजस्यं सप्तधातूनां क्रमात् सप्तोपधातवः”। तत्र भावम० स्तन्यादि स्वरूपमुक्तं यथा “वनितानां प्रसूतानां धमनीभ्यां स्तनौगतात्। रसादेव हि जायेत स्तन्यं स्तनयुगाश्रयम्। शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्त्तिता। मेदसस्ताप्यमानस्य स्नेहो वा कथिता वसा”।
उपधान = न० उपधीयते शिरोऽत्र उप + धा आधारे ल्युट्। (वालिश) १ शिरोधाने। करणे कर्मणि वा ल्युट्। २ प्रणये, व्रतभेदे, हेम०। ३ विशेषे ४ प्रणये च विश्वः “सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये” माघः। “सोप्रधानां सविशेषां, पक्षे सगेन्दुकामिति” मल्लि० “पट्वोपधानाध्यासितशिरोभागेण” काद०। “आसन्दी सोपधाना दक्षिणानड्वान् यवाश्च” कात्या० २१, ४, ३०। ५ विषे मेदि० भावे ल्युट्। ६ समीपस्थापने न०। करणे ल्युट्। ७ उपधानसाधने मन्त्रे पु० “तद्वानासामुपधानोमन्त्रः” पा०
उपधानीय = न० उपधीयते शिरस उपरि उप + धा–कर्मणि अनीयर्। १ उपधाने (वालिश) २ समीपे स्थापनीये त्रि०।
उपधाभृत = त्रि० उपधया उपाधिना भृतः। “जातशस्यत्रिभागस्तु गृहीतश्चोपधाभृतः” वृह० उक्ते करभेदे।
उपधायिन् = त्रि० उपदधाति शीर्षभागे उप + धा–णिनि स्त्रियां ङीप्। शीर्घभागे उपधानत्वेन घारिणि। “अशेत सा बाहुलतीपधायिनी” कुमा०।
उपधारण = न० उप + धृ–णिच्–ल्युट्। उपरिस्थितस्य वस्तनः अङ्कुशादिना १ आकर्षणे। “अङ्कुशं शौचमित्याहुरर्थानामुपधारणे। आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत्” १४०। २ सम्यक्चिन्तने च। युच्। उपधारणा योगाङ्गे चित्तस्य एकविषये स्थापनार्थव्यापारभेदे स्त्री।
उपधावन = न० उप + धाव–ल्युट्। १ उपसरणे २ अनुचिन्तने
उपधि = पु० उप + धा–भावे कि। अन्यथास्थितस्य वस्तनोऽन्यथा प्रकाशनरूपे व्यापारे। “योगाधमनविक्रीक्ते योगदानपतिग्रहम्। यत्र वाप्य पधिं पश्येत् तत्सर्व्वं विनिवर्त्तयेत्” मनुः ३ छले अमरः “अरिषु हि विजयार्थिनः क्षितीशाः विदधति सोपधि सन्धिदूषणानि” किरा०। “बलोपधिविनिर्वृत्तान् व्यवहारान् निवर्त्तयेत्” या० स्मृतौ दीपकलिकायां पाठः। उपधिश्छलमिति शूलपा० बलोपाधीति” मिता० पाठः उपाधिर्भयादिरिति व्याख्यातञ्च। “बलोपधिकृतम्” या० स्मृ०। “पणं वितथमास्थाय सर्पैरुपधिना कृतम्” भा० अ० २७ अ०। “स्मृत्वा चैवोपधिकृवं मातुर्दास्यं निमित्ततः” ३४ अ०। आधारे कि। ३ रथचक्रे हेम०। उपधिना छलेन जीवन्ति ठक्। औपधिक भयादिदर्शनेन धनोपजीविनि “उत्कोचकाश्चौपधिका वञ्चकाः कितवास्तथा” मनुः औपधिका ये भयादिदर्शनादिनाधनमुपजीवन्तीति कुल्लू०। उपधिका इति पाठोऽनाकरः
उपधूपित = पु० उप + धूप–क्त। १ मृत्थौ २ सन्तापयुते त्रि०।
उपधूमित = त्रि० धूमोजातोऽस्य तारका० इतच् दाहकायोगात् अल्पं धूमितं प्रा० स०। १ जातधूमे (धोओयान) यात्रादौ वर्ज्जनीये ज्योतिषोक्ते सूर्य्यगन्तव्यदिग्भागे स्त्री “दग्धा दिगैन्द्री ज्वलिता दिगैश्युपधूमिता चानलदिक् प्रभाते प्रत्येकमेवं प्रहराष्टकेन क्रमाद्दिशीऽष्टौ सविता क्रमेत। दग्धा दिगुक्ता दिननाथयुक्ता विवस्वदाप्ता भवति प्रदीप्ता। संधूमिता यां सविता प्रयाता शेषा दिगन्ताः खलु पञ्चशान्ताः” पेयू० वसन्तराजः। तन्निदर्शनचक्रं यथा। दग्धा दीप्ता उपधूमिता ५ शान्ताः १ यामे ऐशी पूर्व्वा आग्नेयो याम्यादिसौम्यान्ताः २ यामे पूर्वां आग्नेयी याम्या नैरृत्यादीशानान्ताः ३ यामे आग्नेयी याम्या नैरृती पश्चिमादिपूर्वान्ताः ४ यामे याम्या नैरृती वारुणी वायव्यादिवह्निदिगन्ताः ५ यामे नैरृती पश्चिमा वायवी सौम्यादियाम्यान्ताः ६ यामे पश्चिमा वायवी उत्तरा ईशादिनैरृत्यन्ताः ७ यामे वाववी उत्तरा ऐशो पूर्वादिपग्रिमान्ताः ८ यामे उत्तरा ऐशी पूर्वा आग्नेय्यादिवायव्यन्ताः तत्र प्रहरभेदेन दग्धादित्रिके न गच्छेत् शान्तासु पञ्चसु गच्छेत्। एवं प्रधूमिता संधूमितादयोऽप्यत्र।
उपधृति = स्त्री उप + धृ–क्तिन्। १ सन्धारणे २ किरण हेम०।
उपधेय = त्रि० उप + धा–यत्। मन्त्रभेदेन स्थापनीये इष्टकादौ “वयःशब्दवन्मन्त्रोपधेयास्विष्टकासु” सि० कौ०।
उपध्मान = पु० उःउवर्ण्णः पश्च ध्मायतेऽनेन उप + ध्मा–करणे ल्युट्। ओष्ठे “तालव्या ओष्ठजावुपू” “उपूपध्मानीयानामोष्ठौ” सि० कौ० उक्तेः तस्य उवर्ण्णपयोरुच्चारस्थानत्वात्तधात्वम्। उपध्मान इति केचिदाहुः।
उपध्मानीय = पु० उपाध्माने ओष्ठे भवः छ। पफपरे विसर्गस्थानिके गजकुम्भाकृतितया लेखनीये वर्ण्णभदे उपध्मानशब्दे उदा०। उपाध्मानीय इति केचिदाहुः।
उपध्वस्त = त्रि० उप + ध्वन्स–क्त। १ नष्टे २ मिश्रिते च। “कृष्णग्रीवा आग्नेया बभ्रवः सौम्याः उपध्वस्ताः सावित्रा वत्सतर्यः” यजु० २४, २४ उपध्वंसनमधःपतनम्” वेददी० “एतद्ध्यस्यै रूपतममिवेति रोहिणी ह त्वेवोपध्वस्ता” शत० ब्रा० ४, ५, ८, २। “सहस्रदक्षिणे त्रिरात्रे प्रतिविभज्य नयन् रोहिणीमुपध्वस्ताम्” कात्या० १३, ४, १५। “उपध्वस्तां मिश्रिताम्” संग्रहवृत्तिः।
***