उन्द = क्लेदने रुधा० पर० सक० सेट्। उनत्ति उन्तः उन्दन्ति उन्द्यात् उनत्तु। औनत् औन्ताम् औन्दन् औनः–औनत्। औन्दीत्। उन्दाम्–बभूव आस चकार। उन्दिता उन्दिष्यति औन्दिष्यत्। उन्दन् उन्दनम् उत्तिः उन्नःउत्तः। “घृतप्रुषा मनसा हव्यमुन्दन्” ऋ० २, ३, २। “यत्र ह्याप उन्दन्त्यस्तिष्ठन्ति तदोषधयोजायन्ते” शत० ७, ५, २, ३। भ्वादित्वमपि। “शिरस्त्रिरुन्दति अदितिः केशान् वपत्याप उन्दन्तु वर्चसः इति” आश्व० गृ० १, १७, ७। णिच् उन्दयति–ते औन्दिदत्–त सन् उन्दिदिषति।
उन्दुर(रु) = पु० उन्द–उर–उरुवा। मूषिके मूषिकभेदास्तद्दंशोपद्रवाश्च सचिकित्साः सुश्रु० दर्शिता यथा। “अथाती मूषिककल्पं व्याख्यास्यामः। पूर्वमुक्ताः शुक्र विषा मूषिका ये समासतः। नामणक्षणभैवज्यैरष्टादश निबोध तान्। लालनः पुत्त्रकः कृष्णो हिंसिरश्चिक्विरस्तथा। छुछुन्दरोऽलसश्चैव कषायदशलोऽपि च। कुलिङ्गश्चाजितश्चैव चपलः कपिलस्तथा। कोकिलोऽरुणसंज्ञश्च महाकृष्णस्तथोन्दुरः। श्वेतेन महता सार्द्ध्वंकपिलेनाखुना तथा। मूषिकश्च कपोतामस्तथैवाष्ठादश स्मृताः। शुक्रं पतति यत्रैषां शुक्रघृष्टैः स्पृशन्ति वा। नस्कदन्तादिभिस्तस्मिन् गात्रे रक्तं प्रदुष्यति। जायन्ते ग्रन्ययः शेफा कर्णिका मण्डलानि च। पिडकोपचयश्चोग्रा विसर्पाः किटिभानि च। पूर्व्वभेदोरुजस्तीव्रा ज्वरोमूर्च्छा च दारुणा। दौर्व्वल्यमरुचिः श्वासो वमथुर्लोमहर्षणम्। दष्टरूपं समासोक्तमेतच्च व्यासतः शृणु। लालास्रावो लालनेन हिक्काच्छर्दिश्च जायते। तण्डुलीयककल्कन्तु लिह्यात्तत्र समाक्षिकम्। पुत्त्रकेणाङ्गसादश्च पाण्डुवर्णश्च जायते। चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः। शिरीषेङ्गुदकल्कन्तु लिह्यात्तत्र समाक्षिकम्। कृष्णेना सृक् छर्दयति दुर्दिनेषु विशेषतः। शिरीषफलकुष्ठन्तु पिवेत् किंशुकभस्मना। हिंसिरेणान्नविद्वेषो जृम्भा लोमाञ्चहर्षणम्। पिवेदारग्बधादिन्तु सुवान्तस्तत्र भानवः। चिक्विरेण शिरीदुःखं शोफो हिक्का वमी तथा। जाणिनीमदनाङ्कोठकषायैर्वामयेत्तु तम्। छुच्छुन्दरेण तृट्छर्दिज्यरोऽलावण्यमेव च। ग्रीवास्तम्भः पृष्ठशोको गन्धाऽज्ञानं विसूचिका। चव्यं हरीतकीं शुण्ठीं बिडङ्गं पिपूपलीं मधु। यवनालर्षभक्षारं वृहत्याश्चात्र दापयेत्। ग्रीवाऽ- स्तम्भोऽलसेनोर्द्ध्ववायुर्दंशे रुजा ज्वरः। महागदं ससर्पिष्कं लिह्यात्तत्र समाक्षिकम्। निद्रा कषायदन्तेन हृच्छोषः कार्श्यमेव च। क्षौद्रोपेताः शिरीषस्य लिह्यात् सारफलत्वचः। कुलिङ्गेन रुजः शोफो राज्यश्च दंशमण्डले। सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके। अजितेन वमी मूर्च्छा हृद्ग्रहः कृष्णनेत्रता। तत्र स्नुहीक्षीरपिष्टां कालिन्दीं मधुना लिहेत्। चपलेन भवेच्छर्दिर्मूर्च्छा च सह तृष्णया। सभद्रकाष्ठां सजटां क्षौद्रेण त्रिफलां लिहेत्। कपिलेन व्रणे कोथो ज्वरो ग्रन्व्युद्गमस्तथा। क्षौद्रेण लिह्यात्त्रिफलां श्वेतांचापि पुनर्णवाम्। ग्रन्थयः कोकिलेनोग्रो ज्वरो दाहश्च दारुणः। वर्षाभूनीलिनीक्वाथसिद्धं तत्र घृतं पिबेत्। अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान्। महाकृष्णेन पित्तञ्च श्वेतेन कफ एव च। महता कपिलेना सृक् कपोतेन चतुष्टयम्। भवन्ति चैषां दंशेषु ग्रन्थिमण्डलकर्णिकाः। पिडकोपचयाश्चोग्राः शोफश्च भृशदारुणः”।
उदुर(रू)कर्णी = स्त्री उन्दुरस्य कर्ण इव पर्णमस्याः गौ० ङीष्। आस्वुकर्ण्याम्। (उन्दुरकानी) स्वार्थे कन् तत्रैव
उन्दूरु = पु० उन्द–ऊरु। मूषिके।
उन्न = त्रि० उन्द–क्त। क्लिन्ने १ आर्द्रे (भिजे) २ दयापरे च। पक्षे उत्त आर्ट्टे त्रि०।
उन्नत = त्रि० उद् + नम–क्त। १ उच्चे, २ महति च। “उन्नतेन स्थितिमता धुरमुद्वहता भुवः” कुमा० “स्थितः सर्वोन्नतेनोर्वीम्” रघुः। “बन्धुरं तृन्नतानतम्” अमरः। “मधुरोन्नतभ्रु ललितञ्च दृशोः” माघः। सि० शि० उक्ते दिनमानज्ञानसाधने ३ उपायभेदे न०। “उक्ता प्रभाभिमतदिङ्गियमेन तावत् तामेव कालनियमेन च वचिम भूयः। म्यादुन्नतं द्युगतशेषकयोर्यदल्पं तेनोनित दिनदलं नतसंज्ञकं च। अथोन्नतादूनयुताच्चरेण क्रमादुदग्दक्षिणगोलयोर्ज्या। स्यात् सूत्रमेतद्गुणितं द्युमौर्व्या व्यासार्धभक्तं च कलाभिधानम्” शि०। “दिवसस्य यद्गतं यच्च शेषं तयोर्यदल्प तदुन्नतसंज्ञं ज्ञेयम्। तेनोन्नतेनोनीकृतं दिनदलप्रमाणं तन्नतसंज्ञं भवति। अथोन्नतादुन्नतकालादुत्तरगोखे च तेनौनिता दक्षिणे युताद्या ज्या तत्सूत्रम्। सा सूत्रसंज्ञेत्यर्थः। तत् सूत्रं द्युज्यया गुणितं त्रिज्यया भक्तं कलासंज्ञं भवति। अत्रोपपत्तिः। यस्मिन् काले छाया साध्या तस्मिन् काले स्वाहोरात्रवृत्ते यावतीभिर्घटिकाभिः क्षितिजादुन्नतो रविस्तासामुन्नतसंज्ञा। येक कालेन मध्याह्नान्नतस्तस्य नतसंज्ञा। अथ चरेणोनयुतस्योश्रतकालस्य किल ज्या साध्या। सा च ज्या मध्यावधिर्भवति। स च मध्यप्रदेशोऽहोरात्रवृत्तस्वोन्मण्डलसंपाते भवति। यत उन्मण्डलसंपाताभ्यामूर्ध्वमहोरात्रवृत्तस्यार्धमधोऽर्धम्। अत उत्मण्डलावधेर्जीवा साध्या। क्षितिजोन्मण्डलयोरन्तरं चरार्धम्। अतश्चरार्धेन वर्जितादुन्नतादुत्तरगोले, दक्षिणे तु युतात्। यत उत्तरगोले क्षितिजादुपर्युन्मण्डलं, दक्षिणेऽधः। तस्मात् कलाद्या ज्या साधिता सा त्रिज्यावृत्तपरिणता। सा च सूत्रसंज्ञा। अथ यदि त्रिज्यावृत्त एतावती तदा द्युज्यावृत्ते कियतीत्यनुपातेन द्युज्यावृत्तपरिणता। सा च कलासंज्ञा” प्रमि०। सि० शि० उक्तेग्रहाणामक्षलम्बज्ञानार्थे ४ उपायभेदे च। “यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्च भवतोऽक्षलम्बकौ। तौ क्रमाद्विषुवदह्न्यहर्दलेयेऽथ वा नतसमुन्नता लवाः” शि० “चक्रयन्त्रेण ग्रहवेधवद् ध्रुवं विध्येत्। तत्र यन्त्रनेम्यां य उन्नतांशास्तेऽक्षांशाः। ये नतास्ते लम्बांशाः। अथ वा विषुवद्दिनार्द्धे येऽर्कस्य नतोन्नतांशास्तेऽक्षलम्बांशा इति युक्तियुक्तम्” प्रमि०। “उन्नतं द्युनिशमण्डले कुजात् सावनं द्युतिविधौ हि तज्ज्यका। तिर्य्यगक्षवशतोऽक्षकर्णवच्छेदको न तु नरः स लम्बवत्” शि०। “दृङ्मण्डले क्षितिजादुपरि ग्रहपर्य्यन्तं येऽंशास्त उन्नताः खमध्यादधस्ते नताः। उन्नतांशानां ज्या शङ्कुः। नतांशज्या दृग्ज्या शङ्कुः कच्छन्नलिप्ताभिरूनः कार्य्यः। द्रष्टुः कुदलेनोच्छ्रितत्वात्। अयमर्थो ग्रहच्छायाधिकारे व्याख्यात एव” प्रमि०। “उदग्देशं याति यथा यथा नरस्तथा तथा स्यान्नतमृक्षमण्डलम्। उदग्दिशं पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः षलांशकाः” सि० शि०। ततः भावे ष्यञ् औन्नत्य न०। तल् उन्नता स्त्री। त्व उन्नतत्व न०, तद्भावे “तदेव नैसर्गिकमुन्नतत्वम्” रघुः
उन्नतकाल = पु० सि० शि० उक्ते छायातः कालज्ञानसाधने प्रक्रियाभेदे “पलश्रुतिघ्नस्त्रिगुणस्य वर्गोद्युज्येष्टकर्णाहतिहृद्भवेद्वां। इष्टान्त्यका तद्रहितान्त्यका या भवन्ति या उत्क्रमचापलिप्ताः। नतासवस्ते स्युरहर्दलं तैरूनीकृतं चोन्नतकाल एवम्” शि०। “त्रिज्यावर्गः पलकर्णेन गुण्यः द्युज्यया इष्टकर्णस्य च घातेन भाज्यः यत्फलं लभ्यते सेष्टान्त्यका। तयेष्टान्त्यया रहितया अन्त्याया यच्छेषं तस्योत्क्रमेण धनुः कार्य्यं तस्य धनुषोयावत्यः कलास्तावन्तस्तस्मिन् कालेन नतासवोज्ञेयाः तैर्नतामुभिरूनीकृता- दिनदलासव उन्नतासवः स्युः। प्रकारान्तरेण त्रेराशिकत्रयेणोपपत्तिः। यदोष्टच्छायाकर्णेन द्वादशाङ्गुलशङ्कर्लभ्यते तदा त्रिज्याकर्णेन क इति। अत्र त्रिज्याया द्वादश गुण इष्टकर्णो हरः। फलं महाशङ्कुः। अथ तस्य हृतिकरणार्थमनुपातः। यदि द्वादशाङ्गुशङ्कोर्विषुवत्कर्णः कर्णस्तदास्य महाशङ्कोः क इति। पूर्वं त्रिज्याया द्वादश गुण इद्रानीं हरः। अतस्तुल्यत्वाद्वादशाङ्कयोर्गुणहरयोर्नाशे कृते सति त्रिज्यायाः पलकर्णो गुण इष्टच्छायाकर्णो हरः फलमिष्टहृतिः। अथेष्टान्त्याकरणायानुपातः। यदि द्युज्यया त्रिज्या लभ्यते तदिष्टहृत्या किमिति। इदानीं त्रिज्या गुणो द्युज्या हरः। हरयोर्घातो हर इति दुज्येष्टकर्णाहतिर्भवति। गुणयोर्घाते त्रिज्यावर्गः पलकर्णगुणितो भवति। एवं फलमिष्टान्त्यका। तया वजिताया अन्त्याया यदवशेषं सा नतम्योत्क्रमज्या शरसंज्ञा। अतस्तस्या धनुरुत्क्रमेण स नतकालः स्यात्। नतकालो दिनार्धात् पतित उन्नतकालः स्यादित्युपपन्नम्” प्रमि०
उन्नतानत = न० उन्नतं च तदानतञ्च। उच्चनीचस्थानादौ। “बन्धुरं तून्नतानतम्” अमरः।
उन्नति = स्त्री उद् + नम–क्तिन्। १ वृद्धौ, २ उदये, ३ गरुडभार्य्यायाञ्च तत्र चन्द्रशृङ्गोन्नतिः सि० शि० उक्ता यथा “मासान्तपादे प्रथमेऽथ वेन्दोः शृङ्गोन्नतिर्यद्दिवसेऽवगम्या। तदोदयेऽस्ते निशि वा प्रसाध्यः शङ्कुर्विधोः स्वोदितनाडिकाद्यैः” शि०। “कृष्णाष्टम्या उपरि प्रथमेऽथ वा शुक्लाष्टम्याः प्रागेव यस्मिन्नभीष्टदिने शशिशृङ्गोन्नतिर्ज्ञातुमभीष्टा तस्मिन् दिने मासान्तपाद औदयिकौ चन्द्रार्कौ स्पष्टौ कार्यौ। प्रथमचरणे त्वस्तकालिकौ ततः शृङ्गोन्नतिर्ज्ञेया। निशि वा। एतदुक्तं भवति। मासान्तपाद उदयकाले शशिशृङ्गोन्नतिः साध्या। प्रथमा चरणे त्वस्तकाले। अथ वा किमुदयास्तनियमेन। यत्रोदये तत्रोदयात् प्रागिष्टघटीतुल्यकाले वा यत्रास्ते तत्रास्तादुपरोष्टासु घटीषु वा शृङ्गोन्नतिः साध्या। तत्र तात्कालिकौ चन्द्रार्कौ कृत्वा चन्द्रस्य स्फुटक्रान्त्युदयास्मलग्नोन्नत घटिकादिभिस्तदुपकरणैः शङ्कुः साध्यः। अतीपपत्तिः। चन्द्रस्यार्द्धादूने शुक्ले तत्कोटी शृङ्गाकारे भवतः। तत्रेष्टकाले कतरा शृङ्गोन्नतिर्मविव्यतीति ज्ञातस्यम्। तत्र शुक्लस्य शृङ्गाकारतार्धादूने शुक्ले। तच्चार्धादूनत्वं पादे प्रथमे च संभवति। द्वितीयतृतीबयोरपि चरणवोर्व्रह्मगुप्तादिभिः कृष्णशृङ्गोन्नतिरानीता सा मम न सम्म- ता। नहि नरैः कृष्णशृङ्गोन्नतिः स्पष्टोपलक्ष्यते। प्रसिद्धा तु शुक्लशृङ्गोन्नतिः। अत उक्तं मासान्तपादे प्रथमेऽथ येति। “वक्षोजौ करिकुम्भ विभ्रकरीमत्युन्नतिं, गच्छतः”। स्तोकेनोन्नतिमायाति” इति च सा० द०
उन्नतीश = पु० ६ त०। गरुडे त्रिका०।
उन्नद्ध = त्रि० उद् + नह–क्त। १ उद्बद्धे। उत्कटे च। “जह्यस्त्रतेज उन्नद्धमस्त्रज्ञोऽस्यस्त्रतेजसा” भा० १ स्क०। उन्नद्धं उत्कटम्”। श्रीधरः।
उन्नमन = न० उद + नम–ल्युट्। १ उन्नतौ। णिच्–ल्युट् न वृद्धिः। २ उत्तोलने सुश्रुतोक्ते ३ यन्त्रकर्म्मभेदे च। तानि चतुर्विंशतिः यथोक्तं तत्रैव। “यन्त्रकर्म्माणि तु निर्घातनपूरणबन्धनव्यूहनवर्त्तनचालनविवर्त्तनविवरणपीडनमार्गविशोधनबिकर्षणाहरणाकुञ्चनोन्नमनविनमनभञ्जनोन्मथनाचूषणैषणदारणर्जूकरणप्रक्षालनप्रधमनप्रमार्जनानि चतुर्विंशतिः”। उन्नमनञ्च व्रणरुधिरस्रावसाधनं यथोक्तं तत्रैव “सन्धिगतः पीद्ध्यमानो न प्रवर्त्तत आकुञ्चनप्रसारणोन्नमन विनमनप्रधावनात् कासनप्रवादैश्च स्रवति”।
उन्नमित = त्रि० उद् + नम–णिच्–क्त। १ उत्तोलिते, २ ऊर्द्धीकृते च “अथ प्रयत्नोन्नमितानमत्फणैः” कुमा० “क्वचिदुन्नमिताननौ” रघुः।
उन्नम्र = त्रि० उद् + नम–रन्। उन्नते “उन्नम्रताम्रपटमण्डप मण्डितं तत्” नाघः
उन्नय = पु० उद् + नी–“क्वचिदपवादघिषयेऽप्युत्सर्गोऽभिनिविशते” इत्युक्तेः अच्। कूपादितो जलादेरुत्तोलने अमरः।
उन्नयन = न० उद् + नी–ल्युट्। १ वितर्के, २ ऊर्द्ध्वप्रापणे च। “अनादिष्टांश्चेदोन्नयनश्रुतेः कात्या०” ९, ५, २४ उन्नयन श्रुतिश्च। “अतोहिदेवेभ्य उन्नयन्त्यतोमनुष्येभ्यः” शत० ब्रा० ४, ५, ६, ३, “चमसोन्नयनकाले बाहृत्य दध्नोन्मृद्य तच्चमसेनोन्नयेत्” कात्या० १०, ९, ३१, “तेष्वेवोन्नयनमभ्यभि सोमानुन्नयन्तीति श्रुतेः” कात्या० २२, १०, ५, “उन्नथत्यस्मात् अपादाने ल्युट्”। ३ पूतभृत्पात्रे। “उन्नयने च” कात्या० २५, १२, १४, तदेव भवति उन्नयत्यस्मादित्युन्नयनम् पूतभृदृच्यते” कर्कः। उन्नमित नयनं येन प्रा० ब०। उन्नमितनेत्रे त्रि०।
उन्नस = त्रि० उन्नता नासा यस्य अच् समा० नसादेशः। उन्नतनासिके। “उन्नसं दधती वक्त्रम्” भट्टिः।
उन्नाद = पु० उद् + नद–घञ्। उच्चशब्दे “शरभोन्नादसंजुष्टम् नानामृगनिषेवितम्” भा० ब० १५८ अ०।
उन्नाभ = पु० उन्नता नाभिर्यस्य अच् समा०। सूर्य्यवंश्ये नृपभेदे “उन्नाभ इत्युद्गतनामधेयः” रघुः असंज्ञायान्तु न अच्। उन्नाभिरित्येव त्रि०। उन्नता नाभिः प्रा० स०। उन्नतनाभौ पुंस्त्री०।
उन्नाय = पु० उद् + नी–“अवोदोर्नियः” पा० घञ्। १ ऊर्द्धनयने २ वितर्के ३ उच्चये च “उन्नायानधिगच्छन्तः प्रद्रायैयसुधा भृताम्” भट्टिः।
उन्नाह = पु० उद + नह–घञ्। १ उत्तोल्यबन्धने २ काञ्जिके न० हेमच०।
उन्निद्रा = त्रि० उद्गता निद्रा मुद्रा यस्य। १ विकसिते निद्राशब्दस्य मुकलीभावरूपनेत्रनिमीलनार्थकचेन तथात्वम्। “उन्निद्रपुस्प चणचम्पकपुष्पभासा” माघः। २ निद्रारहिते च। “तामुन्निद्रामवनिशयनां सौधवातायनस्थाम्” मेघ०। “शय्याप्रान्तविवर्त्तर्नर्विगमयत्युनिद्रएव क्षपाः” शकु०। उन्निद्रता च जागरणं तच्च विप्रलम्भशृङ्गारे कामकृतदशविधावस्थाभेदः ताश्चावस्थाः ४४७ पृ० उक्ताः।
उन्नीत = त्रि० उद् + नी–क्त। १ ऊर्द्ध्वं नीते २ वितर्किते च।
उन्नेतृ = त्रि० उद् + नी–तृच् स्त्रियां ङीप्। १ उर्द्ध्वंनायिनि २ उद्भावके च षोडशसु ऋत्विक्षु० ३ ऋत्विग्भेदे पु० स च अच्छावाकशब्दे ८५ पृ० दर्शितः। तस्य च गीते रुच्चतासम्पादनादुदकादुत्तारणाच्चोन्नेतृत्वम् “उन्नेतैनानुन्नयति” “उन्नेतरुन्नयोन्नयोन्नेतर्वस्वो अभ्युन्नयान इत्युन्नीयमानाजपन्ति” आश्व० श्रौ० ६, १३, १३, १४। “उन्नेता स्वशाखोक्तविधिना सर्वानुदकादुत्तारयति” “उन्नेतरित्येतं मन्त्रं जपन्ति” ना० वृ० “आहृतमृन्नेत्रा द्रोणकलशमिडामिव प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत” आश्व० श्रौ० ६, १२, १। “अथोन्नेत्र उपांशुसवनं प्रयच्छत्यथाहोन्नेतारमासृज ग्राव्ण” इति संप्रगृह्णाति प्रतिप्रस्थाता संस्रवानुन्नेता चससेनोदञ्चनेन वा” शत० ब्रा० ४, ३, ५, १८, २१। ततः उद्गात्रा० अण् न वृद्धिः। उन्नेत्र उन्नेतृसम्बन्धिनि त्रि०। “प्रतिप्रस्थाताग्नीध्रोन्नेत्रे” कात्या० २४, ४, ४६। वृद्धौ औन्नेत्रमित्यपि तत्रैव त्रि०।
उन्नेय = त्रि० उद्–नी–यत्। १ ऊर्द्ध्वंनयनीये २ उद्भावनीये च।
उन्मज्जक = पु० उद् + मस्ज–ण्वुल्। “कण्ठदघ्ने जले स्थित्वा” तपः कुर्वन् प्रवर्त्तते। उन्मज्जकः स विज्ञेयस्तापसोलोक पूजितः” इत्युक्तलक्षणे १ तापसे। जलादेरुपरि २ उत्प्लावके त्रि०।
उन्मज्जन = न० उद् + मस्ज–ल्युट्। मज्जनविपरीतव्यापारे (भासा) प्लवने।
उन्मण्डल = न० उल्लग्नं मण्डलम्। सि० शि० उक्ते दिन रात्र्योः क्षयवृद्धिसाधने मण्डलभेदे। ययाह तत्रैव। “पूर्बापरक्षितिजसंगभयोर्विलग्नं याम्ये ध्रुवे पललवैः क्षितिजादधःस्थे। सौम्ये कुजादुपरि चाक्षलवैर्ध्रुवे तदुन्मण्डलं दिननिशोः क्षयवृद्धिकारि” शि०। “समवृत्तक्षितिजयोर्यौ पूर्व्वापरौ संपातौ तयोर्ध्रुवचिह्नयोश्च सक्तं यन्निबध्यते तदुन्मण्डलसंज्ञम्। दिनरात्र्योर्वृद्धिक्षयौ तद्वशेन भवतः” प्रमि०। सूर्य्यसिद्धान्ते रङ्गनायेन च स्पष्टमुक्तं यथा “प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम्। उन्मण्डलं च विषुवन्मण्डलं परिकीर्त्यते” सू०। “प्राक्पश्चिमाश्रिता पूर्व्वपश्चिमसम्बद्धा साधिता रेखा समवृत्तमुच्यते। सैव रेखोन्मण्डलं विषुवन्मण्डलम्। चः समुच्चये। उभयसंज्ञकं कथ्यते। अत्रोपपत्तिः। क्षितिजपूर्बापरवृत्तसंयोगौ पूर्वापरे तत्सूत्रं पूर्वापरसूत्रमिति। पूर्वापरवृत्तस्य भूमावूर्ध्वाधरानुकारिवृत्तत्वेनादर्शनाद्रेखाकारतयैव दर्शनाच्च पूर्वापरवृत्तनपि तत्सूत्रम्। पूर्वापरवृत्तस्य सम मण्डलत्वेनाभिधानात् तद्रेखा सममण्डलसञ्ज्ञोक्ता। अथ स्वनिरक्षदेशक्षितिजवृत्तस्योन्मण्डलाख्यस्य तत्संयोगयोः संलग्नत्वात् तन्मध्यसूत्रत्वेन पूर्वापरसूत्रस्यापि सत्त्वात् पूर्वापरसूत्रमुन्मण्डलसञ्ज्ञम्। एतेनान्यदेशक्षितिजसञ्ज्ञया स्वदेशक्षितिजसञ्ज्ञा सुतरां सिद्धेति पूर्वापरसूत्रस्य क्षितिजवृत्तसञ्ज्ञा द्योतिता। पूर्वापरस्थानयोः क्षितजवृत्तस्य संलग्नत्वादुल्लिखितवृत्तस्य क्षितिजानुकारित्वाच्च” रङ्ग०। “उद्वृत्तादयोऽप्यत्र। परोऽथ वोद्वृत्तगते रवौ श्रुतिः” सि० शि०। प्रा० स०। २ ऊर्द्ध्वमण्डले त्रि०।
उन्मण्डलकर्ण = पु० सि० शि० उक्तेछायया दिनज्ञानार्थे उन्मण्डलस्थार्कस्य छायाकर्णे। तदानयनं तत्रैव यथा “युतायनांशार्कबृहद्भुजज्यया खरामतिथ्यभ्रभुवो” (१०१५ ३०) हृताः परः। पलश्रुतिघ्नः पलभाविभाजितः परोऽथ वोद्वृत्तगते रवौ श्रुतिः” शि०। “अर्कस्य सायनांशस्य बृहतीभुजज्या साध्या। न लघुखण्डज्येत्यथः। तया ज्यया पूर्णाग्नितिथिशून्यशशिनो (१० १५ ३०) भाज्याः। यल्लब्धमसौ पराख्यः। स परः पलकर्णेन गुण्यः पलभया भाज्यः। फलमुन्मण्डलगतस्यार्कस्य छायाकर्णो वा भवति” प्रमि०।
उन्मण्डलनृ = पु० सि० शि० उक्ते अक्षक्षेत्रप्रदर्शनार्थे उन्मण्डलशङ्कौ। “अग्रादिखण्डं कथिता च कोटिरुद्बृत्तना दोः श्रवणोऽपमज्या। उद्वृत्तना कोटिरथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या। खण्डं यदूर्द्ध्वं समवृत्तशङ्कोयत् तद्धृतेस्तावथ कोटिकर्णौ। अग्रादिखण्डं मुज एवमष्टौ क्षेत्राण्यमून्यक्षभवानि तावत्” शि०। “अत्र किल निरक्षदेशो यदेव विषुमन्मण्डलं तदेव सममण्डलम्। तथा क्षितिजादन्यदुन्मण्डं नाम वलयं नास्ति। तत्र ध्रुवौ च क्षितिजासक्तौ। अथ निरक्षदेशाद्द्रष्टा यथा यथोत्तरतो गच्छति तथा तथोदग्ध्रुवमुन्नतं पश्यति। तथा यैर्भागैर्ध्रुव उन्नतस्तैरेव भागैरक्षसंज्ञैः स्वस्वस्तिकाद्दक्षिणतो विषुवन्मण्डलं नतं पश्यति। विषुवन्मण्डलस्य तिर्यक्स्थितत्वात् तदाश्रितान्यहोरात्रवृत्तानि स्वस्थाने तिरश्चीनानि भवन्ति। अतः साक्षे देशे खगोलवलयानां तिरश्चीनखगोलवलयानां च संपातात् त्र्यस्राणि क्षेत्नाण्युत्पद्यन्ते। तान्यक्षक्षेत्रसंज्ञान्युपयोगित्वात् कथ्यन्ते। अक्षभा नाम पलमा प्रसिद्धा सा भुजः। द्वादशाङ्गुलः शङ्कुः कोटिः। अक्षकर्णस्तत्र कर्णः” प्रमि० उद्वृत्तनाप्यत्र। एवमुन्मण्डलादिशङ्कुरप्यत्र।
उन्मत्त = पु० उद् + मद–करणे क्त। १ धूस्तरे “विल्वैरण्डार्कवर्षाभूदधित्योन्मत्तशिग्रुभिः” सुश्रु०। २ मुचकुब्दवृक्षे च। कर्त्तरि क्त। ३ उन्मादवति, ४ ग्रहावेशवति च त्रि०। “बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम्” नारदः। “उन्मत्तेन वातिकाद्युन्मादयुक्तेन” मिता०। “उन्मत्तानाञ्च या गाथा शिशूनां चेष्टितं च यत्। स्त्रियो यच्च प्रभाषन्ते नास्ति तत्र व्यतिक्रमः” म० त० मत्स्यपु०। ४ उद्धते च उन्मत्तगङ्गम्। अतिशयेन मत्तः। ५ अतिमत्ते “मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः” पञ्चतन्त्रम्।
उन्मत्तक = पु० उन्मत्त इव कन्। १ तापसभेदे। अवधूतशब्दे ४२८ पृष्टे विवृतिः। स्वार्थे कन्। २ उन्मत्तार्थे। “क्लीबोऽथ पतितस्तज्ज पङ्गुरुन्मत्तको जडः” याज्ञवल्क्यः।
उन्मत्तगङ्ग = अव्य० उन्मत्ता उद्धता गङ्गा यत्र संज्ञायाम् अन्यपदार्थत्वे अव्ययी०। देशभेदे। “उन्मत्तगङ्गं नाम देशः” सि० कौ०।
उन्मत्तगीत = त्रि० उन्मत्तेन गीतम् “इत्यद्भूतेन कृतमिति” पा० ३ त०। उन्मत्तेन गीते एवम् उन्मत्तप्रलपिताद्यपि उन्मत्तेन प्रलपिताद्यर्थे त्रि०।
उन्मथन = न० उद् + मथ–भावे ल्युट्। १ उन्मर्द्दने २ हिंसने। “अन्योन्यसूतोन्मथनादभूताम्” रघुः “वायुनोन्मथनं चापि भ्रमश्च क्रमतस्तथा” सुश्रु०। सुश्रुतोक्ते ३ यन्त्रकर्मभेदे च उन्नननशब्दे ११९० पृ० दृश्यम्। कर्त्तरि ल्यु। ४ उन्मर्द्दनकारकेत्रि०। “विपक्षचित्तोन्मथना नखव्रणाः” किरा०
उन्मथित = त्रि० उद् + मथ–क्त। उद्घृष्टे मर्द्दिते।
उन्मद = पु० उद्गतोमदोमत्तताऽस्य प्रा० ब० गतलोपः। १ उद्गतमदे। “उन्मदमृगमदरभसवशंवदनवदलमालतमाले” जयदेवः “उदीरयामासुरिवोन्मदानाम्” रघुः “अथोर्स्मिलोलोन्मदराजहंसे” रघुः। ३ ब०। २ उद्गतमदसाधने “मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे” माघः।
उन्मदन = त्रि० उद्भूतोमदनोऽस्य प्रा० ब० भूतलोपः। उद्धूतकामे। “तदाप्रभृत्युन्मदना बभूव” कुमा०।
उन्मदिष्णु = त्रि० उद् + मद–ताच्छील्ये इष्णुच्। उन्मादशीले।
उन्मनस् = त्रि० उद्भ्रान्तं मनोऽस्य। १ उत्कण्ठायुक्ते, २ अन्यमनस्के च। “पयोधरेणोरसि काचिदुन्मनाः” माघः। “उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः” रघुः वा कप्। उन्मनस्कोऽप्यत्र। भृशा० अभूततद्भावे क्यङ् सलोपश्च उन्मनायते उन्मनायमानः “भृशमुन्मनायितम्”। चिव–कृभ्वस्तिषु सलोपश्च उन्मनोकरोति उन्मनीभवति उन्मनीस्यात्”।
उन्मनी = स्त्री उन्मनस् + पृषो०। योगिनामवस्थाभेदे। “उन्मन्यवस्थाधिगमाय विद्वनुपायमेकं तव निर्द्दिशामि। पश्यन्नदासीनदृशा प्रपञ्चं सङ्कल्पमुन्मूलय सावधानः” आचार्य्यः।
उन्मन्थ = पु० उद् + मन्थ–भावे घञ्। बधे २ हिंसने ३ उन्मर्द्दने च।
उन्मन्थन = न० न० उद् + मन्थ–ल्युट्। ऊर्द्ध्वतो दण्डादिना विलोडने। करणेल्युट्। तत्साधने २ दण्डादौ।
उन्मर्दन = न० उद् + मृद–ल्युट्। १ उद्घर्षणे सुश्रुतोक्ते वायुप्रसादनार्थे २ व्यापारभेदे। वायौ इत्युपक्रम्य सुश्रु० “त्वङ्मांसासृक्शिरां प्राप्ते कुर्य्याच्चासृग्विमोक्षणम्। स्रेहोपनाहाग्निकर्म्म बन्धनोन्मर्द्दनानि च” शूलोपद्रवनिवारणार्थे सुश्रुतोक्ते ३ व्यापारभेदे च” “वमनोन्मर्द्दनस्वेदलष्टनक्षपणक्रियाः”। करणे ल्युट्। ४ उन्मर्द्दनसाधने द्रव्यादौ। “अथैतान्युपकल्पयीत समावर्त्त्यमाने मणिं कुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रजमुन्मर्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचार्य्याय च” आ० गृ० ३, ८, १, “उन्मर्दनमभिषेकेऽवनीयैके” कात्या० १९, ४, ८। “उन्मर्दनचन्दनादि” कर्कः।
उन्मा = स्त्री उद् + मा–अ। ऊर्द्ध्वमाने। “सहस्रास्युन्मासि साहस्रोऽसि” यजु० १५, ६५; “उन्मा” उन्मानं तुलादि येददी०।
उन्माथ = पु० उन्मथ्यतेऽनेन उद् + मथ–करणे घञ्। १ आमिषदानेन मृगादिबन्धनार्थं निवेशिते कूटयन्त्रे (फांद) इति ख्याते। भावे घञ्। २ विलोड्योत्थापने, ३ हिंसने च। तत्रचागत्य चाण्डालोह्यरण्ये कृतकेतनः। प्रयोजयति चोन्माथं नित्यमस्तं गते रवी” भा० शा० १३८ अ०।
उन्माद = पु० उद् + मद–अधारे घञ्। रोगभेदे स च सुश्रुते दर्शितो यथा “अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः।। मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः। मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः।। एकैकशः समस्तैश्च दोषैरत्यर्थमूर्च्छितैः। मानसेन च दुःखेन स पञ्चविध उच्यते।। विषाद्भवति षष्ठश्च यथास्वन्तत्र भेषजम्। स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्त्ति च।। मोहोद्वेगौ स्वनः श्रोत्रे मात्राणामपकर्षणम्। अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम्।। वायुनोन्मथनञ्चापि भ्रमश्च क्रमतस्तथा। यस्य स्यादचिरेणैवमुन्मादं सोऽधिगच्छति।। रूक्षच्छविः परुषवाक् धमनी ततोवा श्वासातुरः कृशतनुः स्फुरिताङ्गसन्धिः। आस्फोटयन् पठति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्यनिलप्रकोपात्।। तृट्स्वेददाहबहुलो बहुभुग्विनिद्र श्छायाहिमानिलजलान्तविहारसेवी। तीक्ष्णो हि माम्बु निचयेऽपि स वह्निशङ्को पित्ताद्दिवा नभसि षश्यति तारकाश्च।। छर्द्यग्निसादसदनारुचिकासयुक्तो योषिद्विविक्तरतिरल्पमतिप्रचारः। निद्रापरोऽल्पकथनोऽल्पभुगुष्णसेवी रात्रौ भृशं भवति चापि कफप्रकोपात्।। सर्व्वात्मके त्रिभिरपि व्यतिमिश्रितानि रूपाणि वातकफपित्तकृतानि विद्यात्। सम्पूर्णलक्षणमसाध्यमुदाहरन्ति सर्व्वात्मकं क्वचिदपि प्रवदन्ति साध्यम्।। चौरैर्नरेन्द्रपुरुषैररिभिस्तथान्यै र्वित्रासितस्य धनबान्धवसंक्षयाद्वा। गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः।। चित्रं स जल्पति मनोऽनुगतं विसंज्ञो गायत्यथो हसति रोदिति चापि मूढः। रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः श्यावाननो विषकृतेन भवेत् परासुः।। स्निग्धं स्विन्नन्त् मनुजमुन्मादार्त्तं विबोधयेत्”। एतद्व्याख्याच्छलेन तत्रत्यविभागादि चोक्तं भावप्रकाशे “तत्र उन्मादस्य निरुक्तिमाह। “मदयन्त्युद्धता इत्यादि” सुश्रुतवाक्यम् यस्माद्धेतोरुद्धताः प्रवृद्धा दोषा उन्मार्गमास्थिताः मदयन्ति चित्तं विक्षिपन्त्यस्मिन्। अतोऽयमुन्माद इति कीर्त्तितः। स उन्मादः मानसोव्याधिः मनोवैकृत्यकरणात्। तस्यैवावस्थाभेदेन लक्षणान्तरमाह। “स चाप्रवृद्धस्तरुणैत्यादि” सुश्रु० “उन्मादस्य विप्रकृष्टनिदानमाह। “विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम्। उन्मादहेतुर्भयहर्षपूर्वो मनोऽमिघातो विषमाश्च चेष्टाः”। दुष्टं धत्तूरवीजादिसहितम्। अशुचि रजखलादिस्पृष्टम्। प्रधर्षणमभिभवः। विषमाश्च चेष्टाः बलवद्विग्रहादयः। सन्निकृष्टं निदानमाह। “एकैकशः इत्यादि” सुश्रु० तस्य सम्म्राप्तिमाह। “तैरल्पसत्वस्य मलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य। स्रोतांस्वधिष्ठाय मनोवहानि प्रमोहयन्त्याशु नरस्य चेतः”। अल्पसत्वस्य अल्पसत्वगुणस्य। मलाः वातादयः। बुद्धेर्निवासं हृदयं प्रदूष्येति। एतेनाश्रयस्य दुष्ट्या तदाश्रिताया बुद्धे रपि दुष्टिरक्ता। मनोवहानि स्रोतांसि हृदयश्रितानि दश एतानि विशेषतो बोद्धव्यानि। यतश्चरकेण सकलशरीरस्रोतांस्येव मनोधिष्ठानत्वेनोक्तानि। प्रमोहयन्ति विकृतं कुर्वन्ति। उन्मादस्य सामान्यं रूपमाह। “धीविम्नमः सत्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च। अबद्धवाक्चं हृदयञ्च शून्यं सामान्यमुन्मादगदस्य लिङ्गम्”। धीविभ्रमः शुक्तिकायां रजतज्ञानम्। सत्वपरिप्लवः सत्वं मनस्तस्य चाञ्चल्यम्। अबद्धवाक्त्वम् असम्बद्धभाषित्वम्। शूव्यं स्मृतिशून्यम्। वातिकोन्मादस्य निदानपूर्विकां सम्प्रा प्तिमाह। “रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनिलोऽतिवृद्धः। चिन्तातिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिं वाप्युपहन्ति शीघ्रम्”। प्रदूष्य प्रकर्षेण दूषयित्वा। तस्यैव रूपमाह। “अस्थानहास्यस्मृतिनृत्यगीतवागङ्गविक्षेपणरोदनानि। पारुष्यकार्श्यारुणवर्णताश्च जीर्णे बलञ्चानिलजस्य रूपम्”। अस्थाने अनवसरे हास्यादीनि रोदनान्तानि। जीर्णे आहारे। बलं व्याधेः। पैत्तिकस्य निदानपूर्विकां सम्प्राप्तिमाह। “अजीर्णकट्वम्लविदाह्यशीतैर्भोर्ज्यैश्चितं पित्तमुदीर्णवेगम्। उन्मादमत्युग्रमलात्मकस्य हृदिस्थितं पूर्ववदाशु कुर्यात्”। हृदि स्थितं पित्तं चितं सञ्चितम् पुनः अजीर्ण कट्वम्लविदाह्यशीतैर्भोर्ज्यैरुदीर्णवेगं सत् उन्मादं कुर्यात् पूर्ववत् हृदयं प्रदूष्य इत्यर्थः। तस्य रूपमाह “। अमर्षसंरम्भविनग्नमावाः सन्तर्जनाभिद्रवणौष्ण्यवोषः। प्रच्छायशीतान्नजलाभिलाषः पीतावभा पित्तकृतस्य लिङ्गम्”। अमर्षोऽसहिष्णुता। संरम्भः आरभटी आडम्बर इति यावत्। सन्तर्जनं परत्रासनम्। अभिद्रवणं पलायनम्। औष्ण्यं गात्रे। वोषो दाहविशेषः। प्रच्छायेत्यादि छायायां, शीतयोरन्नजलयोरभिलाषः। श्लैष्मिकस्य निदानपूर्विकां संप्राप्तिमाह। “सम्पूरणैर्मन्द विचेष्टितस्य सोष्मा कफो मर्मणि संप्रवृद्धः। बुद्धिं स्मृतिं बाप्युपहन्ति चित्तं प्रमोहयन् सञ्जनबेद्विकारम्”। संपूरणै र्भोजनादिभिः। मन्दविचेष्टितस्य व्यायामरहितस्य। सोष्मा कफ इति कफोऽप्युन्मादं करिष्यन् पित्तं सहाय मपेक्षते व्याधिस्वभावात्। मर्मणि अत्र मर्मशब्देन हृदयमुच्यते। विकारमुन्मादरूपम्। तस्य रूपमाह। “वाक्चेष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा। छर्दिश्च लाला च बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफात्मके स्यात्”। वाक्चेष्टितं मन्दं वचनमल्पम्। नारीविविक्त प्रियता नारीप्रियता विजनप्रियता च। भुक्ते सति बलं व्याधेः। सान्निपातिकस्य निदानपूर्वकं लक्षणमाह। “यः सन्निपातप्रभवोऽतिधोरः सर्वैः समस्तैः स तु हेतुभिः स्यात्। सर्वाणि रूपाणि विभर्त्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः” स सान्निपातिक उन्मादा। सन्निपातग्रहणेनैव सर्वात्मकत्वं लब्धम्। मुनः सर्वैरिति यत्कृतं तद्रजःस्तमःप्रापणार्थम्। तेन रजस्तमोमिलितैरित्यर्थः। तेन वातादयो रजस्तमोभिर्मनोदोषैर्सिलिताः समस्तैश्च निदानैः कुपिता उन्मादं जनयन्ति। सर्वैर्हेतुभिः समस्तैर्मिलितैः स्यात्। यतोऽन्योव्याधिः सर्वैर्हैतुभिर्मिलितैरेव भवतीति नियमो नास्ति। अयन्तु व्याधिस्वभावात् सर्वैर्हेतुभि र्मिलितैः स्यात्। तादृगुन्मादः विरुद्धभैषज्यविधिः विरुद्धभैषज्यविधिरिति कोऽर्थः। त्रिदोषजे प्रत्येकं वातादिप्रत्यनीका कार्य्या। सा च परस्पराविरोधिनी त्रिदोषं हन्ति किञ्चिदेव द्रव्यमामलकादि तच्चात्रायौगिकम्। अतएव विवर्ज्यः न चिकित्स्य इत्यर्थः”। मनोदुःखजस्य विप्रकृष्टं निदानमाह। “चोरै र्नरेन्द्रपुरुषैरित्यादि” सुश्रु०। अन्यैर्हिंस्रादिभिः। गाढमतिशयेन। क्षते अभिहते प्रियया प्राप्तुमशक्यया रिरंसोः पुरुषस्य विकारः उन्मादरूपः। तस्य रूपमाह। “चित्रं प्रजल्पतीत्यादि” सुश्रु० चित्रमाश्चर्य्यम्। मनोऽनुगतं गोप्यमपि। विसंज्ञो विरुद्धज्ञानः। अतीव मूढः अतीवज्ञानशून्यः। अत्र विकल्पो बोद्धव्यः। विषजस्य रूपमाह। “रक्तेक्षण इत्यादि” सुश्रु० परासुः मृतः। अरिष्टमाह। “अवाङ्मुखस्तून्मुखो वा क्षीणमांस वलो नरः। जागरूकोह्यसन्देहमुन्मादेन विनश्यति”। अथ देवादिकृतस्योन्मादस्य सामान्यं लक्षणमाह। “अमर्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादियुक्तः। प्रकोपकालो नियतश्च यस्य देवादिजन्मा स मनोविकारः”। अमर्त्यवाग्विक्रमवीर्य्यचेष्टः न मर्त्यस्येव मनुष्यस्येव वागादयो यस्य सः। विक्रमः पराक्रमः। वीर्यं शौर्य्यम्। ज्ञानादि विज्ञानबलादियुक्तः। ज्ञानं बुद्धिः। आदिपदेन तद्भेदा मेधाविचारणास्मृत्यादयो गृह्यन्ते। विद्धानं शि- ल्पादिविषयकं ज्ञानम्। चेष्टा पाटवम्। आदिपदेनाभिमानादि गृह्यते। नियतः वक्ष्यमाणतिथ्यादिभिः। मनोविकारः उन्मादः। तत्र देवाविष्टस्य लक्षणमाह। “सन्तुष्टःशुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रोऽवितथसंस्कृतप्रभाषी। तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः”। अतिदिव्यमाल्यगन्धः अतिशयो दिव्यमाल्यस्येव गन्धो यस्य सः। निस्तन्द्रः निद्रारहितः। अवितथं सत्यम्। ब्रह्मण्यःब्राह्मणभक्तः। दैत्याविष्टस्याह। “संस्वेदो द्विजगुरुदेवदोषभक्तो जिह्माक्षो विगतभयो विमार्गदृष्टिः। सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति स देवशत्रुजुष्टः”। विमार्गदृष्टिः कमार्गरतः। दुष्टात्मा दुष्टस्वभावः। गन्धर्वाविष्टस्याह। “हृष्टात्मा पुलिन बनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः। नृत्यन वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः”। हृष्टात्मा हृष्टजीवात्मा। पुलिनं तोयोत्यितं तटम् वनान्तरं वनमध्यम् तयोः सेवी। स्वाचारः अनिन्दिताचारः। प्रियाणि परि समन्ततीभावेन गीत गन्धमाल्यानि यस्य स तथा। चारु चाल्पशब्दमिति हसनक्रियायाविशेषणम्। यक्षाविष्टस्याह। “ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरोऽद्भुतगतिरल्पवाक् सहिष्णुः। तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः”। पित्राविष्टस्याह। “प्रेतानां स दिशति संस्तरेषु पिण्डान् शान्तात्मा जलमपि वाऽपसव्यवस्त्रः। मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्रहाभिजुष्टः”। प्रेतानां मृतानां पितॄणाम्। दिशति ददाति। अपसव्यवस्त्रः दक्षिणस्कन्धधृतोत्तरीयः। नागाविष्ट स्याह। “यस्तूर्व्यां प्रसरति सर्पवत् कदाचित् सृक्कण्यौ मुहु रपि जिह्वयावलेढि। क्रोधालुर्घृतमधुदुग्धपायसेप्सुर्विज्ञेयः स खलु भुजङ्गमेन जुष्टः”। प्रसरति सर्पवत् उरसा चलति। सृक्वण्यौ ओष्ठप्रान्तौ। राक्षसाविष्टस्याह। “गांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जोभृशमतिनिष्ठूरोऽतिशूरः। क्रोधालुर्विपुलबलो निशाविहारी शौचद्विट् भवति स राक्षसैर्गृहीतः”। अतिनिष्ठुरोऽतिनिर्दयः ब्रह्मराक्षसाविष्टस्याह। “देवविप्रगुरुद्वेषी वेदवेदाङ्गविच्छुचिः। आत्मपीडाकरोऽहिंस्रो ब्रह्मराक्षससेवितः। अहिंस्रः अहिंसाशीलः। पिशाचाविष्टस्याह। “उद्बस्त्रः कृशपरुषो विरुद्धभाषी दुर्गन्धो भृशमशुचिस्तथातिलोलः। बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः”। उद्वस्त्रः नग्नः। दिगम्बर इति विदेहवचनात्। (मु० सुश्रु० उद्धस्त इति पाठः) कृशो निर्मांसः। परुषो रूक्षः। अतिलोलः सर्वस्मिन् अन्नपाने लोलुपः। व्याचेष्टन् विरुद्धमाचेष्टन्। ग्रहा हिंसाक्रीडापूजार्थं गृह्णन्ति। अतएवोक्तम्। “अशुचिं भिन्नमर्य्यादं क्षतं वा यदि वाऽक्षतम्। हिंस्यु र्हिंसाविहारार्थं सत्कारार्थमथापि वा। तत्र हिंसार्थं गृहीतस्य लक्षणमाह। “स्थूलाक्षो द्रुतमटनः सफेणवामी निद्रालुः पतति च कम्पते च योऽति। यश्चाद्रिद्विरद नगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोदशेऽव्दे। यश्चाद्रीत्यादि यः पर्वतादिपतितः सन् ग्रहैर्गृह्यत इत्यर्थः। आदिशब्देन भित्तिप्रासादादयो गृह्यन्ते त्रयोदशेऽव्दे सर्व एव देवादिगृहीतोऽसाध्यः। देवादीना मावेशसमयमाह। “देवग्रहाः पौर्ण्यमास्यामसुराः सन्ध्ययो रप्रि। गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यपि। पितरः कृष्णपक्षे च पञ्चम्यामपि चोरगाः। रक्षःप्रिशाचा रत्रौ च चतुर्दश्यां विशन्ति हि”। कृष्णपक्षे अमायाम्। प्रायशःपदादन्यत्रापि। तिथ्यभिधानप्रयोजनं लक्षणार्थं तत्र तिथौ बलिदानार्थञ्च। ननु यदि देवादयो विशन्ति तदा विशन्तस्ते दृश्यन्ते कथं नेत्यत आह। “दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा। स्वमणिं भास्करार्च्चिश्च यथा देहञ्च देहधृक्। विशन्ति न च दृश्यन्ते ग्रहास्तद्ववच्छरीरिणम्”। दर्पणादीत्यादि शब्देनान्यदपि निर्मलद्रवद्रव्यं गृह्यते। छाया प्रतिविम्बम्। स्वमणिं सूर्वमणिम्। देहधृक् जीवात्मा”। भा० प्र०। एतानि च वाक्यानि सुश्रुतोत्तरतन्त्रस्थानि। तत्र हि “गुह्यानागतविज्ञानमनवस्था सहिष्णुता। क्रियावाऽमानुषी यस्मिन् स ग्रहः परिकीर्त्त्यते” इति ग्रहशब्दं परिभाष्य “असंख्येया ग्रहगणा ग्रहाधिपतयश्च ये। व्यज्यन्ते विविधाकाराभिद्यन्ते ते तथाष्टधा देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरोभुजङ्गाः। रक्षांसि या चापि पिशाचजातिरेषोऽष्टधा देवगणग्रहाख्यः” इति विभज्य “संतुष्टः शुचिरित्यादिना तज्जुष्टानां लक्षणान्थाह। तानि भा० प्र० सङ्गसङ्गत्योदाहृत्य व्याख्यातानीति द्रष्टव्यम्। अन्ते च प्रकृतदेवादीनां न क्वचित् प्रवेशः किन्तु तत्परिचारकाणामेव देवाद्याचरवतां प्रवेश इत्युक्तं यथा सुश्रु० उत्त०। “तपांसितीव्राणिंदया च दानं व्रतानि धर्मो नियमश्च सत्यम्। गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम्। न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति। ये वा विशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः। तेषां ग्रहाणां प्ररिचारका ये कोटीसहस्रायुतपद्मवंख्याः। असृग्वसामांसभुजः सुभीमा निशाविहाराश्च समाविशन्ति। निशाचराणां तेषां हि ये देवगणसंसृताः। ते तु तत्सत्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः। देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये। देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देवववत्। स्वामिशीलक्रियाचाराः क्रमएव सुरादिषु। नैरृतेया दुहितरस्तासां स प्रसवः स्मृतः। सत्यचादपवृत्तेषु वृत्तिस्तेषां गणैः कृता। हिंसाविहारा ये केचिद्दिव्य भावमुपाश्रिताः। भूतानीति कृता संज्ञा तेषां संज्ञा प्रवक्तृभिः। ग्रहसंज्ञाभिभूतानि यस्माद्वेत्त्यनया भिषक्। विद्यया भूतविद्यात्वमतएव निरुच्यते”। अथोन्मादस्य सामान्यचिकित्सा
‘वातिके स्नेहपानं प्राक् विरेकः पित्तसम्भवे। कफजे वमनं कार्य्यं परे वस्त्यादिकक्रमः। यच्चोपदेक्ष्यते किञ्चिदपस्मारे चिकित्सितम्। उन्मादे तच्च कर्त्तव्यं सामान्याद्दोषदूष्ययोः। जलादिद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा। रक्षेदुन्मादिनं यत्नात् सद्यः प्राणहरा हि ते। ते जलादयः”। विशेषचिकित्सा भा० प्र० आदौ दृश्या। सचायं रोगः। महापातककर्म्मविपाकजः। “उन्मादस्त्वग्दोषो राजयक्ष्मेत्यादि” शु० त० नारदोक्तेः “चित्तसंमोह उन्मादः कामशोकभयादिभिः”। सा० द० उक्ते २ व्यभिचारिभावभेदे।
उन्मादक = पु० उद् + मद–णिच्–ण्वुल्। उन्मादजनके धुस्तूरादौ।
उन्मादन = पु० उद् + मद–णिच्–ल्यु। १ कन्दर्पबाणभेदे त्रिका०। उर्न्मादकारके त्रि०।
उन्मादवत् = त्रि० उन्मादोऽस्त्यस्य मतुप् मस्य वः। उन्मादयुक्ते स्त्रियां ङीप्।
उन्मादिन् = त्रि० उद् + णिनि स्त्रियां ङीप्। उन्मत्ते “रक्षेदुन्मादिनं यत्नात्” सुश्रु०।
उन्मान = न० उद् + मा–भावे ल्युट्। ऊर्द्ध्वमाने तच्च प्रथितगुरुत्वेन पलादिमितपाषाणादिना तुलाधारफलके एकपार्श्वेस्थितेन अन्यपार्श्वस्थसुवर्ण्णादेरुन्नमनादिना गुरुत्वविशेषज्ञापनव्यापारः (ओजनकरा) “ऊर्द्ध्वमानं किलोन्मानम्” वार्त्तिकोक्ते ३ ऊर्द्ध्वतः प्रमाणे च। अस्मिन्नेवार्थे “प्रमाणे द्वयसज्दघ्नज्मात्रचः” पा० “प्रथमश्च द्वितीयश्च ऊर्द्ध्वमाने मतो सम” वार्त्तिकोक्तेः द्वयसच् दघ्नच्च। ऊरुद्वयसः ऊरुदघ्नः “गजपतिद्वयसीरिति” माघः। सामान्य- प्रमाणे तु मात्रजेव। ऊरुमात्रं प्रस्थमात्रम्। ४ करणे ल्युट्। २ तुलादौ। ३ द्रोणपरिमाणे पु० वैद्यकम्।
उन्मार्ग = त्रि० उत्क्रान्तः मार्गात् निरा० स०। मार्गातिक्रान्ते मार्गश्च पन्थाः रीतिश्च” “नाशयति च दिङ्मोहमिवोन्मार्गः” काद०। २ विरुद्धपथे च “मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः। उन्मार्गे वाच्यतां यान्ति महामात्राः समीपगाः” पञ्चतन्त्रम्। उन्मादशब्दे उदा०।
उन्मिति = त्रि० उद् + मद–क्तिन्। ऊर्द्ध्वमाने।
उन्मिष = त्रि० उद् + मिष–क। १ प्रफुल्ले २ किञ्चित्प्रकाशयुक्ते च
उन्मिषित = त्रि० उद् + मिष–क्त। १ प्रफुल्ले, विकसिते २ किञ्चित् प्रकाशिते च। “व्यलोकयन्नुन्मिषितैस्तडिन्मयैः” कुमा०।
उन्मीलन = न० उद् + मील–ल्युट्। १ विकाशे २ चक्षुरादेः पुटविभेदे (ताकान) “ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकः” भा० आ० ८४ अ०। “सम्मीलनीन्मीलनके तथैव” सि० शि०। मावे बञ् उन्मीलोऽप्यत्र पु०।
उन्मीलित = त्रि० उद् + मील–क्त। १ विकसिते “ते चीन्मीलित मालतीसुरभयः प्रौढाः कदम्बानिलाः” सा० द०। २ अमुद्रिते च णिच्–कर्मणि क्त। ३ प्रकाशिते “उन्मीलितं तूलि कयेव चित्रम्” कुमा०। ४ भेदितमुद्रणे नेत्रादौ “अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षुरन्मीलितं येन तस्मै श्रीगुरवे नमः” गुरुनतिमन्त्रः।
उन्मुक्त = त्रि० उद् + मुच–क्त। बन्धनरहिते
उन्मुख = त्रि० उद् + उर्द्ध्वं मुखमस्य। १ ऊर्द्ध्वास्ये, २ उद्युक्ते च। “उन्मुखद्वाःस्थवीक्षिताः” कुमा०। “तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे” कुमा०। “विपुलतरोन्मुखलोचनावलग्नम्” “दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः” माघः। “असौ शरण्यः शरणोन्मुखानाम्” “या नीतपौरा स्वपदोन्मुखेन”। “मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः” रघुः स्त्रियां ङीप्। “चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी” कुमा० “प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी” “पतिः प्रतीतः प्रसवोन्मुखीं प्रियाम्” “अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः” “इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा” मेघ०।
उन्मुद्र = त्रि० उद्गता मुद्रा यस्मात् प्रा० ब०। १ त्यक्तमुद्रे, २ विकसिते च
उन्मूल = नामधा० मूलत उत्पाटयति उद् + मूल–णिच्। उन्मूल यति ते “उन्मूलयन् महावृक्षान्” भा० ब० १४६ अ०
उन्मूलन = न० उन्मूल + णिच्–ल्युट्। उत्पाटने उद्गतमूलकरणे। “न पादपोन्मूलनशक्ति रंहः” रघुः!
उन्मूलित = त्रि० उन्मूलि–नामधा० क्त। उत्पाटिते “उन्मूलिता हलधरेण पदावघातैः” उद्भटः “दूरे फलानि हन्त भवता तन्मूलमुन्मूलितम्” उद्धवदू०।
उन्मृजावमृजा = स्त्री उन्मृज अवमृज इत्युच्यते यस्यां क्रियायां मयू० स०। उन्मार्जनावमार्जनार्थनिदेशक्रियायाम्।
उन्मृश्य = त्रि० उद् + मृश–क्यप्। “हस्तमुत्तोल्यस्पृश्ये। “इत्युन्मृश्या हैव द्यौरास” शत० व्रा० १, ४, १, २२, ल्यप्। २ ऊर्द्ध्वतः स्पृष्ट्वेत्यर्थे अव्य०।
उन्मेय = त्रि० उद् + मा–यत्। १ परिमेये “आचितः शकटोन्मेये” त्रिका०। २ उन्मानमेये सुवर्णादौ च।
उन्मेष = पु० उद् + मिष–घञ्। १ चक्षुरादेरुन्मीलने, किञ्चित्प्रकाशे च। “स्वकिरणपरिवेषोन्मेषशून्याः प्रदीपाः” रघुः। “दीर्घिकाकमलोन्मेषोयावन्मात्रेण साध्यते” कुमा० “विद्युदुन्मेषदृष्टिम” मेघ०। भावे ल्युट्। उन्मेषणमप्यत्र न० “मन्मथोन्मेषणातिविस्तीर्णा शोभैव कान्तिः” सा० द०।
उन्मोचन = न० उद् + मुच–ल्युट्। बन्धनात् उद्धृत्य विश्लेषणे। “उन्मोचनप्रमोचने उभेवाची वदामि” अ० ५, ३०, १,
उप = अव्य० वप–क। १ अधिकार्थे, २ हीने, ३ आसन्ने, ४ सामीप्ये, ५ सादृश्ये, ६ प्रतियत्ने सतो गुणान्तराधाने, ७ व्याप्तौ, ८ पूजायाम् ९ शक्तौ, १० आरम्भे, ११ दाने, १२ दोषाख्याने, १३ आचार्यकरणे १४ अत्यये, १५ निदर्शने च। गणरत्ने “उप सामोप्यसामर्थ्यव्याप्त्याचार्यकृतिमृतिदोष दानक्रियावीप्सारम्भाध्ययनपूजनेषु” इति उपार्थानुक्त्वा क्रमेणोदाजहार तत्र सामीप्ये उपकूपम्। सामर्थ्ये उपकरोति। व्याप्तौ उपकीर्ण्णम्। आचार्यकृतौ उपदिशति। मृतौ उपरतः, दोषे उपघातः (इन्द्रियाणां स्वग्राह्यग्रहणासामर्थ्यम् दाने उपहरति। क्रियाभेदे उपचरति। वीप्सायां देवं देवमुपचरति। आरम्भे उपक्रमते भोक्तुम्। अध्ययने उपाध्यायः। पूजने उपचरितः पिता पुत्रेण” इति। प्रतियत्ने (संस्कारे) “उपत्वानेष्ये समिधमाहरेति” छा० उ० सासीप्ये “उपोपविश्य प्राणान् संस्पृशन्” स० त० गो०। सादृश्ये उपदेवः उपधातुः। “उपोऽघिके च” पा० “१६ आधिक्ये “उप च त्रयोदश मामः” शत० ब्रा० ६, २, २, अस्य हीनेआ धिक्ये च कर्मप्रवचनीयता तत्र हीनार्थयोगे तत्सम्बन्धिनि द्वितीया। उप हरिं सुराः–हरेर्हीना इत्यर्थः। अधिकार्थयोगे सप्तमी। उप परार्द्धे हरेर्गुणाः परार्द्धादधिकाइत्यर्थः। सामोप्येऽव्ययीभावः उपकुम्भम् उपकूलम्। “उपसर्गाः क्रियायोगे” पा० क्रियायोगे उपसर्गता अन्यत्र गतिता ततः भवार्थे त्यकन् उपत्यका।
उपक = पु० उप + संज्ञायां कन्। १ ऋषिभेदे ततः नडा० फक्। औपकायनः तस्य अद्वन्द्वे द्वन्द्वे च बहुत्वे वा लुक्। अद्वन्द्वे औपकाः औपकायनाः। द्वन्द्वे उषकलमकाः औपकायनलामकायनाः। अनुकम्पितः उपेन्द्रदत्तादिः “प्राचामुपादेरडज्बुचौ” पा० वुच् “ठाजावूर्द्धं द्वितीयादचः” पा० इन्द्रदत्तलोपे। उपक २ अनुकम्पिते उपेन्द्रदत्तके पु०। पक्षे अडच् उपडः। चात् ठच् घन् इलच् च। तत्र ठचि उपिकः घनि उपियः इलचि उपिलः। तत्रार्थे पु० अजादावित्युक्तेः कनि न लुक्। उपेन्द्रदत्तकः। एवमन्यस्यापि उपपूर्व्वकस्य संज्ञाशब्दस्य रूपं बोध्यम्। तेन तत्रापि उपकादिशब्दवृत्तिः।
उपकण्ठ = त्रि० उगकतः कण्ठम् अत्या० स०। १ निकटे, २ कण्ठासन्ने च “तस्योपकण्ठे घननीलकण्ठः” कुमा०। “आकृष्य चापं श्रवणोपकण्ठे” “उपकण्ठं महोदधेः” रघुः ३ ग्रामान्ते ४ अश्वानामास्कन्दितगतौ च न०। विभक्त्यर्थे सामीप्ये वा अव्ययी०। ५ कण्ठ इत्यर्थे “रथाङ्गभर्त्त्रोऽभिनवं वरस्य यस्याः पितेव प्रतिपादितायाः। प्रेम्णोपकण्ढं मुहुरङ्कभाजो रत्नावलीरम्बुधिराबबन्ध” माघः। उपकण्ठम्–कण्ठे पक्षेऽन्तिके इत्यर्थः ६ कण्ठसामीप्ये च अव्य०
उपकनिष्ठका = स्त्री उपगता कनिष्ठिकाम् अत्या० स०। अनामाङ्गुलौ “अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशानानान्तयोर्गृहीत्वाङ्गुष्ठोपकानष्ठिकाभ्याम्” आ० श्व० गृ० १, ३, ३ “अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्रादयन्तः” ४, ५, ४।
उपकन्या = स्त्री उपगता कन्याम् अत्या० स०। कन्यासख्यादौ अस्य गौरा० पाठात् उपाद्द्व्यच्दत्वेऽपि नान्तोदात्तता।
उपकरण = न० उपक्रियतेऽनेन उप–कृ–ल्युट्। १ प्रधानसाधकेऽङ्गे यथान्नभोजनादौ व्यञ्जनादि, शयने खट्वादि, स्नानेऽनुलेपनादि, पूजायां पुष्पादि यागे पश्वादि। “यश्च वेश्म शुभं दद्यात् सर्वोपकरणान्वितम्” शु० त० नन्दिपु०। “भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान्” या० स्मृ०। २ नृपादीनां छत्रचामरादिपरिच्छेदे च। उपगतः करणम् अत्या० स०। ३ इन्द्रियानुगते त्रि० विभक्ष्यर्थे सामीप्ये वाऽव्ययी०। ३ करणे इत्यर्थे ४ इन्द्रियसामीप्ये च अव्य०।
उपकर्ण्ण = अव्य० विभक्त्यर्थे सामीप्ये वा अव्ययी०। १ कर्ण्ण इत्यर्थे २ श्रोत्रसामीप्ये च। तत्र प्रायभवः ठक् औपकर्णिकः तत्र प्रायभवे त्रि० “यःस्वामी मम कान्ताबानौपकार्ण्णकलोचनः” भट्टिः।
उपकर्त्तृ = त्रि० उप–कृ–तृच् खियां ङीप्। उपकारके आनु गुण्यकारुके “उपकर्त्त्रारिणा सन्धिर्न मित्रेणापकारिणा” माघः। “हीनान्यनुपकर्त्तृनि प्रवृद्धानि विकुर्वते” रघुः।
उपकलाप = अव्य० विभक्त्यर्ये सामीप्ये वाऽव्ययीं०। १ कलापे इत्यर्थे २ तत्सामीप्ये च ततो भवार्थे परिमुखा० ञ्य। औपकलाप्य तद्भवे त्रि०।
उपकल्प = त्रि० उपगतः कल्पम् अत्या० स। कल्पोपगते। गौरा० पाठात् उपात् द्व्यच्कत्वेऽपि नात्तोदात्तता।
उपकल्पन = न० उप + कृप–णिच्–ल्युट्। १ सम्पादने २ आयोजने च “वक्ष्याम्यतः परं सम्यगाहारस्योपकल्पनम्” सुश्रु० युच्। तत्रैव स्त्री। “एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम्” सुश्रु०।
उपकादि = पु० द्वन्द्वेऽद्वन्द्वे च बहुत्वे गोत्रप्रत्ययलुग्निमित्ते पाणिन्युक्ते शब्दसमूहे। स च उपक लमक भ्रष्टक कपिष्ठल कृष्णाजिन कृष्णसुन्दर चूडारक आडारक गडुक उदङ्क सुधायुक अबन्धक पिङ्गलक पिष्ट सुपिष्ट मयूरकर्ण खरीजङ्घ शलाथल पतञ्जल पदञ्जल कठेरणि कुषीतक काशकृत्स्न निदाघ कलशीकण्ठ दामकण्ठ कृष्णपिङ्गल कर्णक प्रर्णक जटिलक बधिरक जन्तुक अनुलोम अनुपद प्रतिलोम अपजग्ध प्रतान अनभिहित कमक वटारक लेखाभ्र कमन्दक पिञ्जलक वर्ण्णक मसूरकर्ण्ण मदाघ कबन्तक कमन्तक कदामत्त।
उपकार = पु० उप + कृ–भावे घञ्। प्रधानस्यानुगुण्यसंपादने, उपकृतौ “उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः” माघः। “कृतोपकारेव रतिर्वभूव” कुमा० “उपकारोमहांस्तात कृतोऽयं मम खेचरैः” भा० व० १५० अ०। तस्यो पकार्य्यारचितोपका(चा)रा” रघुः। उपकारश्च सहकारिभिः कारणस्य कार्य्योत्पादनार्थमानुगुण्यभेदः यथा दर्शादियागस्य प्रधानापूर्ब्बसाधनेऽङ्गादीनां प्रयाजादीनां कलिकापूर्ब्बसाधनद्वारा तदानुगुण्यम्। स च वौद्धैः कुर्व्वद्रूपतारूपस्य वीजादेरुच्छुनत्वस्य सम्पादनरूपातिशयाधानमुच्यते सर्व्व० दर्श०। “तथाहि सहकारिभिः सलिलपवनादिभिः पदार्थसार्थैराधीयमाने वीजस्यातिशये वीजमुत्पादकमभ्युपेयम् अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत्। वीजञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्ते अन्यथा सर्व्वदोपकारापत्तौ अङ्कुरस्यापि सदोदयः प्रसज्येतः तस्मादतिशयार्थमपेक्षमाणैः सहकारिभिरतिशयान्तरमाधेयं वीजे, तस्मिन्नप्युपकारे पूर्व्वन्यायेन सहकारिसापेक्षस्य वीजस्य जनकत्वे सहकारिसम्पाद्यवीजगतातिशयानवस्था प्रथमा व्यव- स्थिता। अथोपकारः कार्य्यार्थमपेक्ष्यमाणोऽपि वीजादिनिरपेक्षं कार्य्यं जनयति तत्सापेक्षो वा। प्रथमे वीजादेरहेतुत्वमापतेत्। द्वितीये अपेक्ष्यमाणेन वीजादिना उपकारे अतिशय आधेयः एवं तत्र तत्रापीति वीजादिजन्यातिशयनिष्ठातिशयपरम्परापात इति द्वितीयानवस्या स्थिरा भवेत्। एवमपेक्ष्यमाणेनोपकारेण वीजादौ धर्म्मिण्युपकारान्तरमाधेयमित्युपकाराधेयवीजातिशयाश्रयातिशयपरम्परापात इति तृतीयानवस्था दुरवस्था स्यात्। अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चातिशयात्माकुर्व्वद्रूपादिपदवेदनीयो जायत इति फलितम्।
उपकारक = त्रि० उप + कृ–ण्वुल्। १ उपकारकर्त्तरि। “आगन्तवोऽपि कदाचिदुपकारका दृश्यन्ते” हितो०। स्त्रीत्वे टापि अतैत्त्वे उपकारिका। सा च २ नृपालये, ३ पटनिर्म्मिते गृहे च। ४ कारणमात्रे त्रि०। “स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः” भाषा० णिनि। उपकारिन् उपकारके त्रि०। “तदुपकारीणि शरीरकसूत्रादीनि” वेदा० सा०। “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे” गीता “मात्रापित्रोर्गुरौ मित्रे विनीते चोपकारिणि” दक्षः। स्त्रियां ङीप्।
उपकार्य्य = त्रि० उप + कृ–ण्यत्। १ उपकारयोग्ये। २ राजालये, ३ पटनिर्म्मितराजसदने च स्त्री टाप्। “तस्योपकार्य्या रचितो पका(चा)रा” रघुः। “तीरोपकार्य्यां गतमात्र एव” शत्रुघ्नप्रतिविहितोपकार्य्यमार्य्यः” रघुः राजभवने “रम्यां रघु प्रतिनिधिः स नवोपकार्य्याम्”। “उपकार्य्या राजसद्मन्युपचारचितेऽन्यवदिति विश्वोक्तेः ५ उपचारव्याप्ते त्रि०
उपकिरण = न० उप + कॄ–ल्युट् नि० इत्त्वम्। १ व्याप्तौ २ समन्तात् विक्षेपे च “आखूत्करोत्किरणं वा” कात्या० २५, १०, २४। समीप्यादौ अव्ययी०। ३ किरणसामीप्यादौ अव्य०।
उपकीचक = पु० उपगतः कीचकम् अत्या० स०। विराटनृपश्यालककीचकानुजे विराटसैन्यभेदे “समवतेषु सर्व्वेषु तामूचुरुपकीचकाः। हन्यतां शीघ्रमसती यत्कृते कीचकोहतः”। ते च पञ्चाधिकशतमिताः कीचकत्वेनापि प्रसिद्धाः “एवं ते निहता राजन्! शतं पञ्च च कीचकाः। स च सेनापतिः पूर्बमित्येतत् सूतषट्शतम्” भा० वि० २२, २३ अ०।
उपकुञ्चि = स्त्री उप + कुन्च–इ। कृष्णजीरके।
उपकुञ्चिका = स्त्री उप + कुञ्च–ण्वुल् अतैत्त्वम्। १ तुत्थायां (तु~ते) २ सूक्ष्मैलायाञ्च। स्वार्थे कन्। ३ कृष्णजीरके।
उपकुर्व्वाण = पु० उपकुरुते गुरोर्दक्षिणादानादिना उप + कृशानच्। समावर्त्तनयोग्ये स्वाध्यायग्रहणावधिकब्रह्मचर्य्यवति १ व्रह्मचारिणि “न पूर्ब्बं गुरवे किञ्चिदुपकुर्वीत धर्म्मवित्। स्नास्यंस्तु गुरुणाऽऽज्ञप्तः शक्त्या गुर्व्वर्थमाहरेत्” मनुना स्नास्यतएव गुरूपकारविधानेन ततः पूर्ब्बमुपाकारकर्त्तृत्वनिषेधेन चास्यैवोपकर्त्तृत्वात्तथात्वम्। ब्रह्मचारी हि द्विविधः नैष्ठिक उपकुर्वाणश्च। यो निरवधि मरणान्तम् उपनयनादूर्द्ध्व गुरौ वसति स नैष्ठिकः। यस्तु स्वाध्यायग्रहणान्तं गुरौवसन् गुरुणानुज्ञातः गुरोरुपकारं कृत्वा स्नानगार्हस्थ्य करोति स उपकुर्व्वाणः। स्नास्यतो दक्षणा च मनुनोक्ता यथा “क्षेत्रं हिरण्यं गामश्व छत्रोपानहमासनम्। धान्यं शाकञ्च वासांसि गुरवे प्रीतिमावहेत्”। आश्व० गृ० ३, ८, १, २ तु “अथैतान्युपकल्पयीत समावर्त्त्यमाने मणिं कुण्डले वस्त्रयुगं छत्रमुपानद्युगं दण्डं स्रजमुन्मर्द्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचार्य्य च” “यद्युभयोर्न विन्देताचार्य्यायैव”। एकादश द्रव्याण्युक्तानि एतच्चोपलक्षणं गुरोरभिलषितं दद्यादित्यत्रैव तात्पर्य्यम् अत एव या० स्मृ० “गुरवे तु वरं दत्त्वा स्नायीत तदनज्ञया” तद्वरदानमेवोक्तम् “गुरवे पूर्बोक्ताय वरमभिलषितं यथाशक्ति दत्त्वा स्नायात् तदशक्तौ तदनुज्ञयाऽदत्तवरोऽपि” मिता०। संज्ञाया कन् तत्रैव। “उपकुर्वाणकास्तु स्वाध्यायग्रहणार्थाः” छा० उ० भा०। ताच्छील्ये चानश्। २ उपकारशीले त्रि०।
उपकुल्या = स्त्री उप + कुल–अघ्न्या० नि०। १ पिप्पल्याम् (पिपुल) अम० “हरिद्रोपकुल्याविशालेत्यादि” सुश्रु० तत्पर्य्यायगुणादि भा० प्र० दर्शितं यथा “पिप्ली मागधी कृष्णा वैदेही चपला कणा। उपकुल्यौषणा शौण्डी कोला स्यात् तीक्ष्णतण्डुला। पिप्पली दीपनी वृष्या स्वादुपाका रसायनी। अनुष्णा कटुका स्निग्धा वातश्लेष्महरा लघुः। पित्तला रेचनी हन्ति श्वासकासोदरज्वरान्। कुष्ठप्रमेहगुल्मार्शःप्लीहशूलाममारुतान्। आर्द्रा कफप्रदा स्निग्धा शीतला मधुरा गुरुः। पित्तप्रशमनी सा तु शुष्का पित्तप्रकोपिनी। पिप्पली मधुसंयुक्ता मृदुः कफविनाशिनी। श्वासकासज्वरहरी वृष्या मेधाग्नि वर्द्धिनी। जीर्णज्वरेऽग्निमान्द्ये च शस्यते गुडपिप्पली। कास्मजीर्णारुचिश्वासहृत्पाण्डुकृमिरोगनुत्। द्विगुणः पि- प्पलीचूर्णाद्गुडोऽत्र भिषजां मते”।। उपगतः कुल्याम् कृत्तिमसरः अत्या० स०। कुल्योपगते त्रि०। २ सामीप्यादौ अव्ययी०। ३ कुल्यासामीप्यादौ अव्य०।
उपकुश = पु० सुश्रुतोक्ते १ मुखरोगभेदे। “मुखरोगाः सप्तस्वाय तनेषु” इत्युपक्रम्य ओष्ठादीनि सप्तायतनानि उक्त्वा “दन्तमूलगतास्तु शीतादो दन्तपुप्पुटको दन्तवेटकः शौषिरो महाशौषिरः परिदर उपकुशोदन्तवैदर्भो वर्द्धऽधिमांसो नाड्यः पञ्चेति” दन्तमूलगतानुक्त्वा “वेष्टेषु दाहः पाकश्च तेभ्योदन्ताश्चलन्ति च। आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनाः। आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते। यस्मिन्नुपकुशः स स्यात् पित्तरक्तकृतागदः”। लक्षितः। “संशोध्योभयतः कार्य्यं शिरश्चोपकुशे तथा” सुश्रु०। सामीप्यादौ अव्ययी०। २ कुश इत्यर्थे २ कुशसामीप्य च अव्य०। उपगतः कुशम् अत्या० स०। ४ कुशोपगते त्रि०।
उपकूप = त्रि० उपगतः कूपं अत्या० स०। १ कूपीपगते देशे सामीप्यादौ अव्ययी०। २ कूपसामीप्ये ३ कूप इत्यर्थे च अव्य०।
उपकूल = न० कूले कूलस्य समीपं वा अव्य०। १ कूलेइत्यर्थे। २ तीरसामीप्ये च अव्य०। “उपकूल स कालिन्द्याः पुरीं पौरुष भूषणः” रघुः ततो भवादौ अण “अव्ययो भावाच्चेति” पा० “परिमुखादिभ्य एवेति” वार्त्तिके नियमनान्न ञ्य। औपकूलः तद्भवादौ त्रि०।
उपकृत = त्रि० उप + कृ–क्त। १ कृतोपकारे यस्योपकारः कृत स्तस्मिन्। भावे क्त। २ उपकारे न० “उपकृत बहु तत्रकिमुच्यते सुजनता प्रथिता भवता परम्” सा० द०। उपकृतमनेन इष्टा० इनि। उपकृतिन् येनोपकारः कृतस्तस्मिन् त्रि० स्त्रियां ङीप्।
उपकृष्ण = त्रि० उपगतः कृष्णम् अत्या० स०। १ कृष्णोपगते उपाद्द्व्यच्कत्वेऽपि गौरा० पाठात् नान्तोदात्तता। सामीप्यादौ अव्ययी०। २ कृष्णसामीप्यादौ अव्य०।
उपकॢप्त = त्रि० उप–कृप–क्त। १ नियते २ विन्यस्ते ३ उपभोगायसमर्थे च।
उपकोसल = पु० कमलापत्ये ऋषिभेदे। “उपकोसलोह कामलायनः सत्यकामे जाबाले ब्रह्मचर्य्यमुवास” छा० उ० “उपकोसलोनामतः कमलस्यापत्यं कामलायनः” भा०।
उपक्रम = पु० उप–क्रम–घञ् न वृद्धिः। १ उपायज्ञानपूर्बकारम्भे, २ प्रथमारम्भे “ज्योतिरुपक्रमात्तु तथाह्यधीयत एके” “समानाच्चासृत्युपक्रमादमृतत्वं चानुपोष्य” शा० सू०। “तत्र च प्रतिकुर्व्वन्ति यदि पश्यन्त्युपक्रमात्” भा० व० २१५ अ०। “उपक्रमोपसहारौ–हेतु- स्तात्पर्य्यनिर्ण्णये” वेदान्तिमते तात्पर्य्यनिर्णायके २ हेतुभेदे तत्र उपक्रमोपसंहाराभ्यां द्वाभ्यामेव तात्पर्य्यं निश्चीयते नत्वेकैकेनेति बोध्यम्। करणे घञ्। ३ सामाद्युपाये “सामादिभिरुपक्रमैः” मनुः। “उपक्रर्मरस्खलितैश्चतुर्भिः” रघुः। कर्मणि घञ्। ४ आरभ्यमाणे पु० तदादित्वविवक्षायाम् तदन्ततत्पुरुषस्यक्लीवता “नन्दोपक्रमं द्रोणः” पा० भा० “रामोपक्रममाचख्यौ रक्षःपरिभवं नवम्” रघुः। करणे घञ्। ५ चिकित्सायाम् सुश्रुते भूरिप्रयोगः।
उपक्रमण = न० उप + क्रम–भावे ल्युट्। १ आरम्मे करणे ल्युट्। २ तत्साधने सुश्रुतोक्ते दीर्घायुष्यादिज्ञानपूर्व्वकचिकित्सायाम् ३ भूमिकायां स्त्री ङीप्। स्वार्थे कन् अत इत्त्वम्। उपक्रमणिका। ग्रन्थप्रस्तावने मुखबन्धे।
उपक्रमणीय = त्रि० उप + क्रम–अनीयर्। १ आरम्भणीये। उपक्रमणे साधु–छ। २ चिकित्साङ्गेदीर्घायुष्यादिज्ञानसाधने लक्षणभेदे। आतुरचिकित्सार्थं यथोपक्रमणं कर्त्तव्यं तदा वेदके ३ ग्रन्थे च। तत्प्रकारादि सुश्रुते दर्शितं यथा। “अथात आतुरोपव्रमणीयमध्यायं व्याख्यास्यामः। आतुरमुपक्रममाणेन भिषजायुरेवादौ परीक्ष्येत। सत्येवायुषि व्याध्यृत्वग्निवयोदेहबलसत्वसात्म्यप्रकृतिभेषजदेशान् परीक्षेत। तत्र महापाणिपादपार्श्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटदीर्घाङ्गुलिपर्वोच्छ्वासप्रेक्षणबाहुं विस्तीर्णभ्रूस्तनान्तरोरस्कं ह्रस्वजङ्घामेढ्रग्रीवगम्भीरसत्वखरनाभिमनुच्चैर्बद्धस्तनमुपचितमहारोमशकणं पश्चान्मस्तिष्कं स्रातानुलिप्तं मूर्द्ध्वानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद्दीर्घायुः खल्वयमिति। तमेकान्तेनोपक्रमेत्। एभिर्लक्षणैर्विपरीतैरल्पायुर्मिश्रैर्मध्यमायुरिति। गूढसन्धिसिरास्नायुः संहताङ्गः स्थिरेन्द्रियः। उत्तरोत्त रसुक्षेत्रो यः स दीर्घायुरुच्यते। गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते। शरीरज्ञानविज्ञानैः स दीर्घायुः समासतः। मध्यमस्यायुषोज्ञानमत ऊर्द्ध्वं निबोध मे। अधस्तादूर्द्ध्वयोर्यस्य लेखा स्युर्व्यक्तमायताः। द्वे वा तिस्रोऽधिका वापि पादौ कर्णौ च मांसलौ। नासाग्रमूर्द्ध्वञ्च भवेदूर्द्ध्वलेखाश्च पृष्ठतः। यस्य स्युस्तस्य परममायुर्भवति सप्ततिः। जघन्यस्यायुषो ज्ञानमत ऊर्द्ध्वं निबोध मे। ह्रस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम्। तथोरस्य वलीढानि न च स्यात् पृष्ठमायतम्। ऊर्द्ध्वञ्च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः। हसतो जल्पतो वापि दन्तमांसं प्रदृश्यते। प्रेक्षते यश्च विभ्रान्तं स जीवेत्पञ्चविं- शतिमु। अथ पुनरायुषो विज्ञानार्थमङ्गप्रत्यङ्गप्रमाणसारानुपदेक्ष्यामः। तत्राङ्गान्यन्तराधिसक्थिबाहुशिरांसि तदयवाः प्रत्यङ्गानीति। तत्र स्वैरङ्गलैः पादाङ्गुष्ठप्रदेशिन्यौ द्व्यङ्गुलायते। प्रदेशिन्यास्तु मध्यमाऽनामिका कनिष्ठिका यथोत्तरं पञ्चमभागहीना। चतुराङ्गुलायते पञ्चाङ्गलविस्तृते प्रपदप्रादतले। पञ्चचतुरङ्गुलायतविस्तृता पार्ष्णिः। चतुर्दशाङ्गुलायतः पादः। चतुर्दशाङ्गुलपरिणाहानि पादगुल्फजङ्घाजानुमध्यानि। अष्टादशाङ्गुला जङ्घा जानूपरिष्टाद्द्वात्रिंशदङ्गुलमेवंपञ्चाशत्। जङ्घायामसमावूरू। द्व्यङ्गुलानि वृषणचिवुकदशननासापुटभागकर्णमूलनयनान्तराणि। चतुरङ्गुलानि मेहनवदनान्तरनासाकर्णललाटग्रीवोच्छ्रायदृष्ट्यन्तराणि। द्वादशाङ्गुलानि भगविस्तारमेहननाभिहृदयग्रीवास्तनान्तरमुखायाममणिबन्धप्रकोष्ठस्थौल्यानि। इन्द्रवस्तिपरिणाहांसपीठकूर्परान्तरायामः षोडशाङ्गुलः। चतुर्विंशत्यङ्गुलो हस्तः। द्वात्रिंशदङ्गुलपरिमाणौ भुजौ। द्वात्रिंशदङ्गुलपरिणाहावूरू। मणिबन्धिकूर्परान्तरं षोडशाङ्गुलम्। तलं षट्चतुरङ्गुलायामविस्तारम्। अङ्गुष्ठमूलप्रदेशिनीश्रवणापाङ्गान्तरमध्यमाङ्गुल्यौ पञ्चाङ्गुले। अर्द्धपञ्चाङ्गुले प्रदेशिन्यनामिके। सार्द्धत्र्यङ्गुलौ कनिष्ठाङ्गुष्ठौ। चतुर्विंशतिविस्तारपरिणाहं मुखग्रीवम्। त्रिभागाङ्गुलिविस्तारा नासापुटमर्य्यादा। नयनत्रिभागपरिणाहा तारका। नवमस्तारकांशो दृष्टिः। केशान्तमस्तकान्तरमेकादशाङ्गुलम्। मस्तकादवटुकेशान्तो दशाङ्गुलः। कर्णावट्वन्तरं चतुर्दशाङ्गुलम्। पुरुषोरःप्रमाणविस्तीर्णा स्त्रीश्रीणिः। अष्टादशाङ्गुलविस्त्रीर्णमुरः। तत्प्रमाणा पुरुषस्य कटी। सविंशमङ्गुलशतं पुरुषायाम इति भवन्ति चात्र पञ्चविंशे ततो वर्षेपुमान् नारी तु षोडशे। समत्वागतवीर्य्यौ तौ जानीयात् कुशलो भिषक्। देहः स्वैरङ्गुलैरेव यथावदनुकीर्त्तितः। युक्तः प्रमाणेनानेन पुमान् वा यदि वाऽङ्गना। दीर्घमायुरवाप्नोति वित्तञ्च महदृच्छति। मध्यम मध्यमैरायुर्वित्तं हीनैस्तथाऽवरम्। अथ सारान् वक्ष्यामि।। स्मृतिभक्तिप्रज्ञाशौर्यशौचोपेतं कल्याणाभिनिवेशं सत्वसारं विद्यात्। स्निग्धं संहतश्वेतास्थिदन्तनखं बहुल कामप्रजं शुक्रेण। अकृशमुत्तमबलं स्निग्धगम्भीरस्वरं सौभाग्योपपन्नं महानेत्रञ्च मज्ज्ञा। महाशिरःस्कन्धदृढदन्तहन्वस्थिनस्वमस्थिभिः। स्निग्धमूत्रखेदस्वरं वृहच्छरीरमायाससहिष्णुं मेदसा। अच्छिद्रगात्रं गूढास्थिसन्धिं मांसोप- चितञ्च मांसेन। स्निग्धताम्रनखनयनतालुजिह्वौष्ठपाणिपादतलं रक्तेन। सुप्रसन्नमृदुत्वग्रोमाणं त्वक्सारं विद्यादित्येषां पूर्वं पूर्वं प्रधानमायुःसौभाग्ययोरपि। भवति चात्र सामान्यतोऽङ्गप्रत्यङ्गप्रमाणादथ सारतः। परीक्ष्यायुः सुनिपुणो भिषक् सिध्यति कर्मसु।
व्याधिविशेषास्तु प्रागभिहिताः सर्व एवैते त्रिविधाः साध्या याप्याः प्रत्याख्येयाश्च तत्रैतान् भूयस्त्रिधा परीक्षेत किमसावौपसर्गिकः प्राक्केवलोऽन्यलक्षण इति। तत्रौपसर्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूलएवोपद्रवसंज्ञः। प्राक्केवलो यः प्रागेवोत्पन्नो व्याघिरपूर्वरूपोऽनुपद्रवश्च। अन्यलक्षणो यो भविष्यद्व्याधिख्यापकः स पूर्वरूपसंज्ञः। तत्र सोपद्रवमन्योन्याविरोधेनोपक्रमेत बलवन्तमुपद्रवं वा प्राक्केवलं यथास्वं प्रतिकुर्वीत। अन्यलक्षणे त्वादिव्याधौ प्रयतेत। भवति चात्र। नास्तिरोगो विना दोषैर्यस्मात्तस्माद्विचक्षणः। अनुक्तमपि दोषाणां लिङ्गैर्व्याधिमुपाचरेत्।
प्रागभिहिता ऋतवः। शीते शीतप्रतीकारौष्णे चोष्मनिवारणम्। कृत्वा कुर्य्यात् क्रियां प्राप्तां क्रियाकालं न हापयेत्। अप्राप्ते वा क्रियाकाले प्राप्ते वा न कृता क्रिया। क्रियाहीनाऽतिरिक्ता वा साघ्येष्वपि न सिध्यति। या तृदीर्ण्णं शमयति नान्यं व्याधिं करोति च। सा क्रिया न तु या व्याधिं हरत्यन्यमुदीरयेत्।
प्रागभिहितोऽग्निरन्नस्य पाचकः (व्रणप्रश्ने) स चतुर्व्विघो भवति दोषानभिपन्न एको विक्रियामापन्नस्त्रिविधो भवति विषमो वातेन, तीक्ष्णः पित्तेन, मन्दः श्लेष्मणा, चतुर्थः समः सर्वसाम्यादिति तत्र यो यथाकालमन्नमुपयुक्तं सम्यक् पचति स समः, समैर्दोषैः। यः कदाचित्सम्यक्पचति कदाचिदाध्मानशूलोदावर्त्तातिसारजठरगौरवान्त्रकूजनप्रवाहणानि कृत्वा स विषमः। यः प्रभूतमप्युपयुक्तमन्नमाशु पचति स तीक्ष्णः, स एवाभिवर्द्धमानोऽत्यग्निरित्याभाष्यते स मुहुर्भुहुः प्रभूतमप्युपयुक्तमाशुतरं पचति पाकान्ते च गलताल्वोष्ठशोषदाहसन्तापान् जनयति। यः स्वल्पमप्युपयुक्तमुदरशिरोगौरवकासश्वासप्रसेकच्छर्दिगात्रसदनानि कृत्वा महता कालेन पचति स मन्दः। विषमो वातजान् रोगान् तीक्ष्णः पित्तनिमित्तजान्। करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान्। तत्र समे परिरक्षणं कुर्व्वीत विषमे स्निग्धाम्लवणैः क्रियाविशेषैः प्रतिकुर्व्वीत तीक्ष्णे मधुरस्निग्धशीतैर्व्विरेकैश्च। एवमेवात्यग्नौ विशेषेण माहिषैश्च क्षीरदधिसर्पिर्भिर्मन्दे कटुतिक्तकषायैर्वमनैश्च। जाठरो भगवानग्निरीश्वरोऽन्नस्य पाचकः। सौक्ष्म्याद्रसानाददानो विवेक्तुं नैव शक्यते। प्राणापानसमानैस्तु सर्वतः पवनैस्त्रिभिः। ध्मायते पाल्यते चापि स्वे स्वे स्थाने व्यवस्थितैः।
वयस्तु त्रिविघं बालं मध्यं वृद्धमिति। तत्रोनषोडशवर्षा बालास्तेऽपि त्रिविधाः क्षीरपाः क्षीरान्नादा अन्नादाइति तेषु संवत्सरपराः क्षीरपा द्विसंवत्-रपराः क्षीरान्नादाः परतोऽन्नादा इति। षोडशसप्तत्योरन्तरे मध्यं वयस्तस्य विकल्पो वृद्धिर्य्यौवनं संपूर्ण्णता हानिरिति। तत्रा विंशतेर्वृद्धिरात्रिंशतो यौवनमा चत्वारिंशतः सर्व्वधात्विन्द्रियबलवीर्य्यसम्पूर्ण्णता। अतऊर्द्ध्वमीषत् परिहाणिर्य्यावत्सप्ततिरिति। सप्ततेरूर्द्धं क्षीयमाणधात्विन्द्रियबलवीर्य्योत्साहमहन्यहनि वलीपलितस्वालित्यजुष्टं कासश्वासप्रभृतिभिरुपद्रवैरभिभूयमानं सर्व्वक्रियास्वसमर्थं जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते। तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषजमात्राविशेषा भवन्त्यृते च परिहाणेस्तत्राद्यापेक्षया प्रतिकुर्वीत। भवन्ति चात्र। पाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु। भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत्। अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्जयेत्। तत्साध्येषु विकारेषु मृद्वीं कुर्य्यात् क्रियां शनैः।
देहः स्थूलः कृशो मध्य इति प्रागुपदिष्टः। कर्शयेद्वृंहयेच्चापि सदा स्थूलकृशौ नरौ। रक्षणञ्चैव मध्यस्य कुर्व्वीत सततं भिषक्।
बलमभिहितगुणं दौर्ब्बल्यञ्च स्वभावदोषजरादिभिरवेक्षितव्यम्। यस्माद्बलवतः सर्व्वक्रिया प्रवृत्तिस्तस्माद्बलमेव प्रधानमधिकरणानाम्। केचित् कृशाः प्राणवन्तः स्थूलाश्चाल्पबला नराः। तस्मात् स्थिरत्वव्यायामैर्ब्बलंवैद्यःप्रतर्कयेत्।
सत्वन्तु व्यसनाभ्युदयक्रियादिस्थानेष्ववैकल्यकरम्। सत्ववान् सहते सर्व्वं संस्तभ्यात्मानमात्मना। राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः।
प्रकृतिं भेषजं चोपरिष्टाद्वक्ष्यामः (प्रकृतिं शारीर स्थाने, भेषजं तत्तत्प्रकरणे)।
सात्म्यानि तु देशकालजात्यृतुरोगव्यायामोदकदिवास्वप्न रसप्रभृतीनि प्रकृतिविरुधान्यपि यान्यबाधकराणि भवन्ति। यो रसः कल्पते यस्य सुखायैव निषेवितः। व्यायामजात मन्यद्वा तत् सात्म्यमिति निर्दिशेत्।
देशस्त्वानूपो जाङ्गलः साधारण इति। तत्र बहूदकनि- म्नोन्नतनदीवर्षगहनो मृदुशीतानिलो बहुमहापर्व्वतवृक्षो मृदुसुकुमारोपचितशरीरमनुष्यप्रायः कफवातरोगभूयिष्ठश्चानूपः। आकाशसमः प्रविरलाल्पकण्टकिवृक्षप्रायोऽल्पवर्षप्रस्रवणोदपानोदकप्राय उष्णदारुणवातः प्रविरलाल्पशैलः स्थिरकृशशरीरमनुष्यप्रायो वातपित्तरोगभूयिष्ठश्च जाङ्गलः। उभयदेशलक्षणः साधारण इति। भवन्ति चात्र। समाः साधारणं यस्माच्छीतवर्षोष्ममारुताः। दोषाणां समता जन्तोस्तस्मात्साधारणो मतः। न तथा बलवन्तः स्युर्जलजा वा स्थलाहृताः। स्वदेशे निचिता दोषा अन्यस्मिन् कोपमागताः। उचिते वर्त्तमानस्य नास्ति देशकृतं भयम्। आहारस्वप्नचेष्टादौ तद्देशस्य गुणे सति देशप्रकृतिसात्म्यर्त्तुविपरीतोऽचिरोत्थितः। मम्पत्तौ भिषगादीनां बलसत्वायुषा तथा। केवलः समदेहाग्नेः सुखसाध्यतमो गदः। अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो व्यामिश्रलक्षणः। क्रियायास्तु गुणालाभे क्रियामन्यां प्रयोजयेत्। पूर्वस्यां शान्तवेगायां न क्रियासङ्करो हितः। गुणालाभेऽपि सपदि यदि सैव क्रिया हिता। कर्त्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि। यएवमेनं विधिमेकरूपं विभर्त्ति कालादिवशेन धीमान्। स मृत्युपाशान् जगतोगदौघान्छिनन्ति भैषज्यपरश्वधेन”।
उपक्रान्त = त्रि० उप + क्रम–क्त। १ आरब्धे २ विस्तृते शब्दार्थचि०
उपक्रिया = स्त्री उप + कृ–भावे श। उपकारे “तमपीह गुरुं विद्यात् श्रुतोपक्रियया तया” मनुः।
उपक्रोश = पु० उप–क्रुश–घञ्। निन्दायाम्। “नायं बिभेत्युपक्रोशादधर्म्माद्वा पुररोचनः” भा० आ० १४५ अ० “राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीनसैर्वा” रघुः अत्या० स०। २ उपगतक्रोशे आसन्नक्रोशे त्रि०। अव्ययी०। ३ क्रोशसमीपे अव्य०। भावे ल्युट् उपक्रोशनमप्यत्र। “वाक्सन्तक्षणैर्लोकोपक्रोशनैः” दशकु०। “कुलोपक्रोशनकरी कुलाङ्गारी निराश्रया” हरि० १७६ अ०।
उपक्रोष्टृ = पु० उप + क्रुश–तृच्। १ गर्द्दभे। २ निन्दके त्रि०। स्त्रियां ङीप्।
उपक्लेश = पु० उपक्लिश्नाति अनेन उप + क्लिश–करणे घञ्। मदादिषु।
उपक्व(क्वा)ण = पु० उप + क्वण–शब्दे “क्वणोवीणायाञ्च” पा० वा घञ् पक्षे अप्। वीणानिनादे।
उपक्षय = पु० उप + क्षि–अच्। १ अपचये हानौ। सामीप्यादौ अव्ययी०। २ निवाससमीपादौ, अव्य०। २ उपगतः क्षयम् अत्या० स०। ३ क्षयं प्राप्ते त्रि०। तत्पुरुषे उपाद्द्व्यच्कत्वादन्तोदात्तता।
उपक्षित् = त्रि० उप + क्षि–क्विप्। समीपनिवासिनि। “यस्य ते अग्ने अन्ये अग्नय उपक्षिती वया इव” ऋ० ८, १९, ३३।
उपक्षीण = त्रि० उप + क्षि–क्त तस्य न, दीर्घश्च। १ अपचयप्राप्ते २ सकार्य्याद्यसामर्थ्यं प्राप्ते च।
उपक्षेप = पु० उप + क्षिप–भावे घञ्। १ आक्षेपे, “कर्णनासाच्छेदोपक्षेपभीषिताभ्याम्” दशकु०। २ समीपे निक्षेपणे च।
उपक्षेपण = न० उप + क्षिप–ल्युट्। शूद्रस्वामिकान्नस्य विप्रगृहे पाकार्थं समर्पणे। “उपक्षेपणधर्मेण यत्तु पाचयते द्विजैः। अभोज्यं तद्भवेदन्नम्” शाम्ब० पु०। “उपक्षेपणधर्मेण शूद्रस्वामिकान्नस्य पाकार्थं ब्राह्मणगृहे समर्पणरूपेणेति” कल्पतरुः। २ समर्पणमात्रे च।
उपखात = अव्य० सामीप्यादौ अव्ययो० १ खातसामीप्ये २ य्याते इत्यर्थे च। उपगतः खातम् अत्या० स०। ३ खातानुगते। उपाद्द्व्यच्कत्वेन तत्पुरुषपक्षे अन्तोदात्ततेतिभेदः
***