उद्दित = त्रि० उद् + दो–क्त। बद्धे भरतः

उद्दिष्ट = त्रि० उद् + दिश–क्त। १ उपदिष्टे, २ अभिलषिते “तत्समुदिष्टं कर्म” संक्षिप्तसारः छन्दःशास्त्रोक्ते निर्द्धारितगुर्व्वादिस्थितिकभेदस्य प्रस्तारे कतमसंख्यकत्वज्ञानार्थे ३ उपायभेदे न०। तत्प्रकारो यथा “उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान् समालिखेत्। लघुस्था ये तु तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत्” वृत्तर०। आद्यात् आद्यवर्णमारभ्य उपरि यथोत्तरं द्विगुणान् द्विगुणान् अङ्कान् समालिखेत् तत्र लघुवर्णोपरिस्थाङ्कैर्मिलितैः एकेन युक्तैः उद्दिष्टं स्यात्। यथा त्र्यक्षरप्रस्तारे मध्यगुरुको भेदः प्रस्तारे कियत्संख्यक इति प्रश्ने यथोत्तरं द्विगुणान् द्विगुणान् अक्षरसंख्यया अङ्कान् दद्यात् तत्र आद्यलघूपरिस्थेनैकाङ्केन तृतीय लघूपरिस्थचतुरङ्केण योगे पञ्चाङ्कः एकेन युक्तः षडङ्कः संपद्यते एवञ्च षष्ठोऽयं भेदैत्युत्तरम्। एवमन्यत्र कल्प्यम्। सर्वगुरुकभेदे तु लघुवर्णाभावात् योजकाङ्काभावेन एकमात्रेण योज्याङ्केन प्रथमोभेद इत्युन्नेयम्। मात्रावृत्ते उद्दिष्टं विस्तरभयान्नोक्तमाकरे दृश्यम्।

उद्दीपक = त्रि० उद् + दीप–णिच् ण्वुल्। उद्भासके प्रकाशके।

उद्दीपन = न० उद् + दीप–णिच्–ल्युट्। १ प्रकाशने, २ उत्ते- जने च। ल्यु। अलङ्कारोक्ते रसाद्युद्दीपके “उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये” “रत्याद्युद्बोधकालोके विभावाः काव्यनाट्ययोः। आलम्बनोद्दीपनाख्यौ तस्य भेदा बुभौ स्मृतौ” आलम्बनस्य चेष्टाद्या देशकालादयस्तथा” सा० द० उक्ते आलम्बनस्य ३ चेष्टादौ विभावे यथा शृङ्गारे रसे “चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम्” हासे “विकृताकारवाक्चेष्टं यदालोक्य हसेज्जनः। तदत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम्”। करुणे “शोऽकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम्। तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः”। वीरे “आलम्बनविभावास्तु विजेतव्यादयोमताः। विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः”। भयानके “यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम्। चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः”। जुगुप्सायाम् “दुर्गन्धमांसपिशितमेदांस्यालम्बनं मतम्। तत्रैव कृमिपाताद्यमुद्दीपनमुदाहुतमु”। अद्भुते “पीतवर्णो, वस्तु लोकातिगमालम्बनं मतम्। गुणानां तस्य महिसा भवेदुद्दीपनं पुनः”। शान्ते “परमात्मस्वरूप वा तस्यालम्बनमिष्यते। पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः। महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः” सा० द०।

उद्दीप्त = त्रि० उद् + दीप–क्त। प्रकाशान्विते।

उद्दीप्र = पु० उद् + दीप्–रन्। १ गुग्गुलौ वाच २ उद्दीप्ते त्रि०।

उद्दृप्त = त्रि० उद + दृप–क्त। उद्धते गर्व्वान्विते

उद्देश = पु० उद् + दिश + घञ। १ अनुसन्धाने, २ अन्वेषणे, ३ अभि लाषे ४ उपदेशेच। आधारे घञ्। ५ उपदेशदेशे “यथोद्देशं संज्ञापरिभाषम्” व्या० परिभाषा। व्याख्यातैषा नागेशेन “उद्देशमनतिक्रम्य यथोद्देशम्। उद्देश उपदेशदेशः। अघिकरणसाधनश्चायम्। यत्र देशे उपदिश्यते तद्देश एव वाक्यार्थबोधेन गृहीतसत्तया गृहीतपरिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः। देशश्चोच्चारणकाल एवात्र शास्त्रे व्यवह्रियते। तत्तद्वाक्यार्थबोधे जाते भविष्यति किञ्चिदनेन प्रयोजनमिति ज्ञानमात्रेणसन्तुष्यद्यथाश्रयग्राहिप्रतिपत्त्यपेक्षोऽयम्” इति “इदित्” पा० १, १, ११ सूत्रे कैयटः। केचित्तु परिभाषाविषये “तस्मिन्” पा० १, १, ६६ इत्यादिवाक्यार्थबोधे मप्तमोनिर्देशादि क्वेति पर्य्यालोचनायां सकलतद्विध्युपस्थितौ सकलतत्संस्काराय गुणभेदं परिकल्प्यै कवाक्यतयैब नियमः। कार्य्यकालपक्षे तु त्रिपाद्यामप्युपस्थितिरिति विशेषः। एतदेवाभिप्रेत्य “अधिकारो नाम त्रिप्रकारः कश्चिदेकदेशस्थः सर्वशास्त्रमभिज्वलयति यथा प्र- दीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयतीति” “षष्ठी स्थाने” [१, १, ४९ इति पा० सूत्रे भाष्य उक्तम्। अधिकारशब्देन पारार्थ्यात् परिभाषाप्युच्यते। “कश्चित्परिभाषारूप” इति कैयटः। दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम्। एतच्च पक्षद्वयसाधारणं भाष्यं, पक्षद्वयेऽपि प्रदेशैकवाक्य ताया इतः प्रतीतेः। तत्रैतावान्विशेषः। यथोद्देशे परिभाषादेशे सर्वविचिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरेकवाक्यतापरिभाषणम्। तदुक्तं “क्ङिति च” १, १, ५ पा० इति सूत्रे कैयटेन। “यथोद्देशे प्रधानान्यात्मसंस्काराय संनिधीयमानानि गुणभेदं प्रयुञ्जत इति”। कार्य्यकाले तु तत्तद्विधिप्रदेशे परिभाषाबुद्ध्यैकतेति। अत्रैकदेशस्थ इत्यनेन तत्र तत्र तत्तद्बुद्धावपि तत्तद्देशस्थत्वं वारयति यथा व्यवहर्तॄणां कार्यार्थमनेकदेशगमनेऽपि न तत्तद्वेशीयत्वव्यवहारः किं त्वभिजनदेशीयत्वव्यवहार एव तद्वत्”। ६ संक्षेपे “एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरोमया” गीता “समासकथनमुद्देशः इति सुश्रुतोक्ते ७ तन्त्राधिकरणभेदे। उत्कृष्टोदेशः प्रा० स०। ७ उत्कृष्टदेशे च “नवने नन्दनोद्देशे न चैत्ररथसंश्रये” रामा०। “अस्ति क्वचिद्वनोद्देशे” हितो० भूरिप्रयीगः ततस्तसिल्। उद्देशादित्याद्यर्थे अव्य०।

उद्देशक = पु० उद् + दिश–ण्वुल्। १ उपदेशके २ उदाहरणवाक्ये च। “अत्रोद्देशक इति” लीला० भूरिप्रयोगः। ३ प्रच्छके “उद्देशकालापवदिष्टराशिः” लीला० इष्टकर्म्म शब्दे ९९१ पृ० दृश्यम्। “उद्देशेन पूजाभिसन्धिना रोपितः कन्। पूजाद्यभिसन्धिना रोपिते वृक्षादौ “चैत्यमायतने बुद्धविप्रोद्देशकवृक्षयोः” त्रिका० इति केचित् उद्देशशब्देन बहुब्रीहौ कप् इति तु न्याय्यम्।

उद्देश्य = त्रि० उद् + दिश–ण्यत्। १ अभिसन्धेये यमुद्दिग्य विधेयप्रवृत्तिस्तस्मिन् २ अनुवाद्ये। उद्देश्यविधेययभावस्थले “अनुवाद्यमनूक्त्वैव न विधेयमुदीरयेत्” इति नियमात् उद्देश्यवाचकस्य प्राक् प्रयोगः यथा पर्वतो वह्निमान्। वह्निः पर्त्तते इत्यादौ तु वह्नेरेवोद्देश्यत्वं पर्वतवृत्तित्वं तत्र विधेयम्। अतएव “न्यक्कारोह्ययमेव मे यदरयः” इत्यादौ अयंपदस्य उददेश्यवाचितयादौ प्रयोगौचित्येन परतः प्रयोगात् वाक्यगतविधेयाविमर्पदोष इति समर्थितमालङ्कारिकैः। “वृद्धिरादैच् इति” पा० सूत्रेऽपि तथैव भाष्यकृताङ्गीकृत्य मङ्गलार्थमेव तथाप्रयोग इत्युक्तम् यथा “एतदेकमाचार्य्यस्य मङ्गलार्थं मृष्यताम्। माङ्गलिक आचार्य्योमहतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते। सङ्गलादीनि च शास्त्राणि प्रथन्ते वीरपुरुषकाणि भवन्त्यायुष्मत्पुरुषाणि च अध्येतारश्च वृद्धियुक्ता यथा स्युरिति। सर्व्वत्रैव हि व्याकरणे पूर्व्वोच्चरितः संज्ञी परोच्चारितः संज्ञेति “अदेङ् गुणः” इति यथेत्यन्तेन। उद्देश्यविधेयभावेनान्वयस्थले विवक्षया उभयलिङ्ग वचनानुसारेण प्रयोगः यथा वेदाः प्रमाणं भवति भवन्ति वा। “अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरःस्थिताः” “मुखदृगोष्ठमरीपि मनोभुवा तदुपमाः कुसुमान्यखिलाः शराः” इति नैषधे उयथैव प्रयोगः। व्युत्पत्तिवादे तु गदाधरेण उद्देश्यवचनानुसारेणैव वचनादिप्रयोग इति महतायासेन व्यवस्थापितं तच्च तत एवावसेयम्। “उद्देश्यप्रतिनिर्देश्यव्यतिरिक्त विषयत्वात्” सा० द०। उद्देश्यमेव प्रतिनिद्देश्यम् प्राग् विधेयस्योद्देश्यतया पुनर्निर्देशकर्म्म इत्यर्थः यथा “उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्युदाहृतौ प्राक् विधेयस्य ताम्रस्य अस्ततागुणविधानार्थं पुनः प्रतिनिर्देशात् कथितपदत्वं न दोषायेति तदाशयः। तदन्यत्रैव तस्य दोष इति वोध्यम्। अनुवाद्यता च प्रमाणान्तरसिद्धस्थ किञ्चिद्धर्म्मविधानार्थम् पुनरुपन्यास्यता यथा पर्व्वतोवह्निभान् इत्यादौ पर्वतरूपोद्देश्यस्य सिद्धत्वेऽपि वह्निमत्त्वरूगधर्मविधानार्थमुपन्यासः। ततो भावे तल्। उद्देश्यता स्त्री त्व। उद्देश्यत्व न०। विषयताविशेषे सा च अनुमितौ शाब्दबोधे च विशेष्यतारूपा प्रवृत्तौ तु स्वजनकेच्छाविषयत्वरूपा “स्वर्गकामो यजेतेत्यादि” वाक्यजनितेष्टसाधनताज्ञानतः स्वर्गफलोद्देशेनैव यागे प्रवृत्तेः इति स्वर्गस्य तत्रोद्देश्यता एवमन्यत्राप्यूह्यम्। इच्छाविषयत्वे च “अवच्छेदावच्छेदन साध्यसिद्धेरुद्देश्यत्वे” गदा०।

उद्देश्यासिद्धि = स्त्री ६ त०। अनुमित्सितस्यासिद्धिरूपे अनुमितिदोषभेदे

उद्देहिका = स्त्री उद्गतो देहोऽस्य कप् अत इत्त्वम्। कीटभेदे हारा०।

उ(द्द्यो)द्योत = पु० उद् + द्युत–घञ् वा दलोपः। विशिष्टप्रकाशे “त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्य्यैरिवोदितैः” भा० अनु० १४ अ०। “निरवद्यविद्योद्द्योतेन द्योतितस्तत्त्वतोऽयमर्थः” दायभा० उद् + द्युत–णिच्–अच्। २ किरणावलोव्याख्याने ३ नागेशकृते काव्यप्रदीपव्याख्याने ४ महाभाष्यप्रदीपव्याख्याने च ग्रन्थे पु० ५ उदद्योतके त्रि०

उद्द्राव = पु० उद्–द्रु–घञ्। १ पलायने अमरः। उत्कृष्टो द्रावोयस्य प्रा० ब०। २ उत्कृष्टगतियुक्ते। “यते स्वाहा धावते स्वाहोद्द्रावाय स्वाहोद्द्रुताय स्वाहा” यजु० २२, ८, “उद् अधिकोद्रावोयस्य सौद्द्रावः” वेददी० “उदि श्रयतियौति प्रुद्रुवः” पा० उत्पूर्व्वकादेव घञ् विधानात् केवलात्तु “ॠदोरप्” पा० अबेव। तेन तथाविग्रहकल्पनं निर्मूलमेव। तत्र संज्ञाया कर्त्तरि घञ् इत्येवोचितम्।

उद्धत = पु० उद् + हन–क्त। १ राजमल्ले। २ वाक्यादिचञ्चले, ३ अविनीते, ४ प्रगलभे ५ उद्गते च त्रि०। “परिगतोज्वलदुद्धतबालधिः” भट्टिः “मदोद्धताः प्रत्यनिलं विचेरुः” कुमा० “सहजचापलदोषसमुद्धतः” “जनावरुद्धोद्धतसिन्धुरंहसाम्” प्रचुरोद्धतध्वजविलम्बिवाससः “अथानुद्धतमुद्धवः” माघः। ५ कृतोल्लेखने च। “उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्णे परिवृते प्रागद्वारे पिण्डं निदधात्योषघय इति” कात्या०१ ६, ३, १४, “परिवृते उद्धते कतोल्लेखने अवोक्षिते सिक्ते” यजु० ११, ४७ मन्त्रे वेददी०। ततो भावे ष्यञ्। औद्धत्य न०। तल्। उद्धता स्त्री, त्व, उद्धतत्व न०, तद्भावे चाञ्चाल्यादौ।

उद्धतमनस्कत्व = न० उद्धतं मनोयस्य कप् तस्य भावः त्व। अभिमाने गर्वे शब्दचन्द्रिका।

उद्धति = स्त्री उद् + हन–गतौ–क्तिन्। १ उद्गतौ २ उन्नतौ। हनआघाते क्तिन्। ३ पाषाणादिनाऽऽघाते (ठोकरलागा) “अभूतलस्पर्शितया निरुद्धतिस्तवावतीर्णोऽपि न लक्ष्यते रथः” शकु०।

उद्धम = त्रि० उद् + ध्मा–श धमादेशः। कृतशब्दे “ध्वनीनामुद्धमै रेभिः” भट्टिः।

उद्धमचूडा = स्त्री उद्धम–चूडे! इत्युच्यते यस्यां क्रियायाम् मरयू० स०। चूडां प्रति उद्ष्मानार्थनिदेशक्रियायाम्। एवं उद्धरचूडा उद्धमविधमा अपि मयू० स०। तत्तत्क्रियार्थं निदेशक्रियायाम्।

उद्धय = त्रि० उद् + धेट–श। उद्धृत्य पानकर्त्तरि। “मधूनाभुद्धयै र्भृशम्” भद्धिः।

उद्धरण = न० उद् + हृ–भावे–ल्युट्। १ मुक्तौ, २ वमने, ३ ऋणशुद्धौ, ४ उन्मूलने ५ उत्तारणे। “दिनानि दीनोद्धरणोचितस्य” रघुः। “तेषामुद्धरणार्थाय इमं पिडं ददाम्यम्” वायुपु०। “कण्टकोद्धरणे नित्यमातिष्ठेत् यत्नमुत्तमम्” मनुः। ६ उत्थापने। “प्रतिकर्मोद्धरणसंप्रसङ्गे” कात्या० १, ३, २६ “आहवनीयदक्षिणाग्न्यो र्गार्हपत्यादुद्धरणं कर्त्तव्यम्” कर्कः। ७ उद्धृत्य हरणे परिवेषणे च। “सव्येन वोद्धरणं सामर्थ्यात्” कात्या० ४, १, १०, “उद्धरणं परियेषणम्” कर्कः। ८ बहिर्निष्काशने। “दिवैव प्रदहनोद्धरणे” कात्या० ०१६, ४, उद्धरणं बहिर्निष्काशनम्” कर्कः। ९ उत्पादने। “आहवनायजागरणे तत एवोद्धरणम्” कात्या० २५, ३, ५, “तत्र वाहवनीयोद्धरणम्” कर्कः। आग्न्युद्धारशब्दे तत्प्रकारः ६३ पृ० उक्तः। कर्मणि ल्युट्। १० वान्तेऽन्नादौ।

उद्धरणीय = त्रि० उद + हृ–कर्मणि अनीयर्। १ उन्मूलनीये २ उत्थापनीये ३ आहरणीये च। तव्य उद्धर्त्तव्योऽप्यत्र त्रि०।

उद्धरावसृजा = स्त्री उद्धर अवसृज इत्युच्यते यस्यां क्रियायाम् मयू० स०। उद्धरणावसर्जनार्थनिदेशक्रियायाम्।

उद्धर्त्तृ = त्रि० उत् + हृ–तृच् स्त्रियां ङीप्। १ उद्धारकारके २ उन्मूलके ३ तारणकारके च। “विवीतभर्त्तुस्तु पथि चौरोद्धर्त्तुरवीतके” या० स्मृ० स्त्रियां ङीप्। ण्वुल्। उद्धारक उक्तार्थे त्रि०

उद्धर्ष = पु० उत्कृष्ट उद्भूतोवा हर्षः प्रा० स०। १ उत्कृष्टे २ हर्षे उद्भूतहर्षे च। उद्भूतोहर्ष यस्य प्रा० ब०। ३ जातहर्षे त्रि० “उद्धर्षय मघवन्नायुधानि” यजु० ७। ४२ “उद्धर्षय उद्भूतहर्षयुक्तंकुरु” वेददी० नामधातुरूपम्। तत्र हेतुणिजन्तरूपमित्येव न्याय्यम्।

उद्धर्षण = न० उद् + हृष–णिच–ल्युट्। १ हर्षयुक्तकरणे २ प्रोत्साहने च “हितमुद्धर्षणं चैव उवाच प्रथितं वचः” रामा० “एवमेतन्महाबाहो! यथा वदसि पाण्डव!। कृतमुद्धर्षणं पूर्बम्” इत्यादिषु भा० आश्र० १७ अ० बहुकृत्वः पयोगः। आधारे ल्युटू। २ रोमाञ्चे हेम०।

उद्धर्षिन् = त्रि० उद् + हृष–णिच्–णिनि। उद्धर्षकारके स्त्रियां ङीप्। सा च वसन्ततिलकाख्ये वर्ण्णवृत्तभेदे। “उक्तावसन्ततिलका तभजा जगौगः। सिंहोन्नतेयमुदिता मुनिकश्यपेन। उर्द्धर्षिणीयमुदिता मुनिसैतवेन” वृ० र०।

उद्धव = पु० उद् + हु–आधारे अप्। १ यज्ञाग्नौ, २ उत्सवे अमरः। ३ कृष्णदयिते यादवविशेषे च। उद्धवश्च यादवविशेषः। वृष्णिवंशबर्णने। “उद्धवो देवभागस्य, महाभाग! सुतोऽभवत्। पण्डितानां परं प्राहुर्देवश्रवसमुद्धवम्” हरिवं० ३५ अ०। “भारतीमाहितभरामथानुद्धतमुद्धवः” माघः। भाग० ११ स्क० एनं प्रत्येव भगवतोज्ञानोपदेशो वर्णितः स एव उद्धवसंवादत्वेन प्रसिद्धः पारायणे च षष्ठदिने तत्पर्यन्ताध्येयता “यावदुद्धवसंवादं षष्ठेऽह्नि परिकीर्त्तवेत्” इत्युक्तेः

उद्धवदूत = न० उद्धवोदूतोयत्र। दूतत्वेन उद्धवं परिकल्प्य गो- प्युक्तिरूपे काव्यभेदे उद्धवसन्देशोऽपि काव्यभेदे पु०।

उद्धस्त = त्रि० उत्क्षिप्तौ हस्तौ येन प्रा० व०। उत्क्षिप्तहस्ते उद्बाहौ “उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः। बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः” सुश्रु०।

उद्धान = न० उद्धीयतेऽस्मिन्नग्निः धाञ्–आधारे ल्युट्। १ चूल्ल्याम्। कर्मणि ल्युट्। २ वमिते, ३ उद्गते च।

उद्धान्त = पु० उद् + धा बा० झ। मदशून्ये १ हस्तिनि अमरः २ वमिते रमा०

उद्धार = पु० उद्ध्रियते उद् + हृ भावे–घञ्। १ मुक्तौ, २ ऋणशुद्धौ ३ उद्धारणे। कर्मणि घञ्। सर्वधनादुद्धृत्य ज्येष्ठादिभ्योदेये ४ अंशभेदे यथा चोद्धारस्तथा मनुना दर्शितः यथा “ज्येष्ठस्य विंशौद्धारः सर्वद्रव्याच्च यद्वरम्। ततोऽर्द्धं मध्यमस्य स्यात्तुरीयन्तु यवीयसः।” “ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम्। येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमन्घनम्। सर्व्वेषान्धनजातानामाददीताग्य्रमग्रजः। यच्च सातिशयं किञ्चिद्दशतश्चाप्नुयाद्वरम्। उद्धारो न दशखस्ति सम्पन्नानां स्वकर्म्मसु। यत्किञ्चिदेव देयन्तु ज्यायसे मानवर्द्धनम्। एवं समुद्धृतोद्धारे समानंशान् प्रकल्पयेत्। उद्ध्वारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना।” अन्योऽपि विशेषः स्मृत्यन्तरे उक्तः किन्तु “तथोद्धा रविभागस्तु नैव संप्रति वर्त्तते” मिता० स्मृत्युक्तेः इदानीमुद्धारो नास्तीति सर्व्वनिवन्धकर्त्तॄणामैकमत्यात्तन्नोक्तम् “स्वान्वययोग्यपदान्तराक्षेपेण श्रुतपदस्य ५ परित्यागे यथा गां बधान अश्वमानयेत्यादौ आवापोद्धाराभ्यां गोशब्दस्य सास्रादिमानर्थः” सा० द०। अन्वयव्यतिरेकावेवावोपोद्धाराविति तु तत्त्वम्। “जगन्नाथस्यायं सुरधुनि! समुद्धारसमयः” गङ्गालहरी। ६ वर्ज्जने च “पण्यं समुद्धतोद्ध्वारं विक्रेयं वित्तवर्द्धनम्” मनुः “उद्धृतोद्धारमित्यस्य “वर्जनीयवर्जितम्” कुल्लूक० व्याख्या। ७ उत्कर्षे च “सगुणानामेव कर्मणामुद्धार उपजने” आश्व० श्रौ० १२, ४, १४ “यस्मात् प्रधानकर्म्मणामुद्धारे उपजने उत्कर्षेच सगुणानायेव सर्वत्रोद्धरणम्” ना० वृ०

उद्धारण = न० उद् + धृ + णिच्–ल्युट्। १ उत्थापने “लाङ्गूलोद्धारणोद्धुरः” भा० व० १४७ अ०। हृ–णिच् ल्युट्। २ उद्धारसम्पादने।

उद्धि = पु० उद् + धा–कि। ऊर्द्ध्वंधारके। “पुरोडाशाः शफा अन्तरिक्षमुद्धिः” अथ० ८, ९, २२, “उद्धारको दशरात्र उद्धिः पृष्ठ्याभिप्लवौ चक्रे” शत० ब्रा० १२, २, २, २।

उद्धुर = त्रि० उद्गता धूरस्मात् प्रा० व० अच् समा०। १ निरक्षे २ भारशून्ये ३ दृढे। “प्रसकालकुचबन्धुरोद्धुरोरः” माघः। “जघनमंसबन्धोद्धुरम्” मालतीमा०। “यत्नवानपि तु श्रीमाल्ला~ङ्गूलोद्धारणोद्धुरः” भा० व० १४७ अ०। ४ उच्चेच “पश्चाद्बद्धभुजं पितरमुद्धुरध्वनिमहाजनानुयातमानीय” दशकु०।

उद्धूत = त्रि० उद् + धू–क्त। उत्कम्पिते “उद्धूतमुच्चैर्ध्वजिनीभिरंशुभिः” माघः। “पुनानं पवनोद्धूतैः” रघुः।

उद्धूनन = न० उद् + धू–णिच्–नुक् भावे ल्युट्। १ उत्क्षेपणे २ उत्कल्पने च।

उद्धूपन = न० उद् + धूप–आयाभावपक्षे भावे ल्युट्। १ द्रव्यविशेषेण ऊर्द्ध्वसन्तापनरूपे व्यापारे (भावरादेओया) “गृध्रोलूकपुरीषाणि केशा हस्तिनखाघृतम्। वृषभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च” सुश्रु०। (करणे ल्युट्) २ तत्साधने द्रव्ये। “सर्षपाः सर्पनिर्म्मोको वचाकाकादनीघृतम्। उष्ट्राजाविगवाञ्चैव रोमाण्युद्धूपनं शिशोः। गृध्रोलूकपुंरीषाणि यवा यवफलो घृतम्। सन्ध्ययोरुभयोः कार्य्यमेतदुद्धूपनं शिशोः” सुश्रु०।

उद्धूलन = न० धूलिवदुन्मर्दयति उद् + धूलि–णिच्। उद्धूलयति ततः भावे ल्युट्। १ धूलिवन्मर्द्दने २ पाकार्थोपकरणभेदे च। (मशालाचूर्ण्ण) “चूर्णस्योद्धूलनं देयं भोज्ये क्षीरेक्षुसम्भवे। व्यञ्जनेषु च सर्व्वेषु शाकजेष्वन्नजेषु च। मांसमत्स्यभवेष्वेवं प्रलेहतलनादिषु। आदावेव पचेत् स्नेहे ततोहिङ्गूदकं क्षिपेत्। वेसवारं सलवणं क्षिप्त्वा तत् पिशितं पचेत्। अर्द्धस्विन्ने क्षिपेत्तक्रमथ वा दाडिमीरसम्। सिद्धे पाके च दातव्यं चूर्णमुद्धूलनस्य तत्” पाकशास्त्रम्।

उद्धूषण = न० उद् + धूष–ल्युट्। रोमाञ्चे हला०

उद्धृत = त्रि० उद् + हृ–क्त। १ उत्क्षिप्ते, २ भुक्तोज्झिते, ३ उत्तोलिते, ४ पृथक्कृते, ५ उच्छेदिते च। “इतीव वाहैनिर्जवेग दर्पितैः पयोधिरोधक्षममुद्धृतं रजः” नैष० “उद्धृतासि पिनाकिना” छुरिकार्च्चामन्त्रः। “पयोऽनुद्धृतसारञ्च” “गृहेऽप्युद्धृततज्जलैः” आ० त० पु० “उद्धर्त्तुमैच्छत् प्रसभोद्धृतारिः” रघुः।

उद्धृतपाणि = त्रि० उत्तरीयात् उद्धृतः बहिष्कृतः पाणिर्येन। उत्तरीयवहिष्कृतहस्ते। स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्” मनूक्तकर्म्मण्येव तथा भवनम्।

उद्धृति = स्त्री उद् + हृ–क्तिन्। १ उत्क्षेपणे २ उत्तोलने च। “शल्योद्वृतिर्व्रणज्ञानं दूतस्वप्ननिदर्शनम्” सुश्रु०।

उद्ध्मान = न० उद्धमति वह्निरत्र उद् + ध्मा–ल्युट्। १ चूल्ल्याम्

उद्ध्य = पु० उज्झ–क्यप् “भिद्योद्ध्यौ नदे” पा० नि०। नदभेदे “कूलं भिद्योद्ध्यसन्निभौ” भट्टिः “तोयदागमैवोद्ध्यभिद्ययोः” रघुः।

उद्बन्धक = पु०। (धोपा) वर्णसङ्करभेदे। “आयोगवेन विप्रायां जातास्ताम्रोपजीविनः। तस्यैव नृपकन्यायां जातः सूनिक उच्यते। सूनिकस्य नृपायान्तु जाता उद्बन्धकाः स्मृताः। निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवन्त्यतः” उशना।

उद्बन्धन = न० उद् + बन्ध–भावे ल्युट्। ऊर्द्धतः पाशादिना गलादिबन्धने। “उद्बन्धनमृता ये च गतिर्येघां न विद्यते। तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम्” वायु पु० गयामाहात्म्ये “विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्। करिष्ये न हि तानृद्धान् पुनर्द्रष्टुमिहोत्सहे” भा० व० ७ अ०। “जलाग्न्युद्बन्धनभ्रष्टाः प्रव्रज्यानशनच्युताः। विषप्रपतनप्रायादात्मघातच्युताश्च ये। सर्व्वे ते प्रत्यवसिताः सर्व्वेधर्म्मबहिष्कृताः। चान्द्रायणेन शुद्ध्येयुस्तप्तकृच्छ्रद्वयेन वा” प्रा० वि० यमः। भावे घज् उद्बन्घोऽप्यत्र पु०।

उद्बा(द्वा)हु = त्रि० उत्तोलिती(वा)बाहुर्येन प्रा० ब०। उत्तोलितवाहौ “प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः रघुः।

उद्बुद्ध = त्रि० उद् + बुध–क्त। १ विकसिते न्यायादिमते ज्ञातवस्तुनः संबन्धिज्ञानादिना २ कृतोद्दीपने संस्कारे च। यथा हस्तिदर्शनात् अनुभूतहस्तिपकसंस्कारस्य उद्बोधरूपे उद्दीपने कृते हस्तिपकः स्मर्य्यते इति। ३ प्रबुद्धे ४ जागरिते च “उद्बुद्धां च जगद्धात्रीं पूजयेद्दीपमालया” ति० त० पु० येन येन वस्तुना संस्कार उद्बुध्यते तथा उद्बोधकशब्दे वक्ष्यते। “उद्बुद्धं कारणैः स्वैःस्वैर्बहिर्भावं प्रकाशयेत्” सा० द०

उद्बोध = पु० उद् + बुध घञ्। १ किञ्चिद्बोधे न्यायादिमते स्मृतिजननाय २ संस्कारोद्दीपने च। “उत्साहादिसमुद्बोधः साघारण्याभिमानतः” ननु कथं रामादिरत्याद्युद्बोघकारणे सीतादिभिः सामाजिकानां रत्युद्बोधः” इति “रत्याद्युद्बोधका लोके विभावाःकाव्यनाट्ययोः इति” च सा० द०।

उद्बोधक = त्रि० उद्बोधयति उद् + बुध–णिच्–ण्वुल्। १ उद्दीपके २ उद्बोधकारके ३ सूर्य्ये पु० उदयेन सर्वेषां प्रबोधकत्वात्तस्य तथात्वम्। उद्बोधकानि च न्यायसूत्रवृत्त्योर्दर्शितानि यथा

“प्रणिघाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधान सुखदुःखेच्छाद्वेषभयार्थित्वक्रियारामधर्म्माधर्मानमित्तेभ्यः” सू०

“स्मरणमित्यनुवर्त्तते निमित्तशब्दस्य द्वन्द्वात्परं श्रुतस्य प्रत्ये- कमभेदेनान्वयः। प्रणिधानं मनसोविषयान्तरसञ्चारवारणम्। निबन्ध एकग्रन्थोपनिबन्धनं यथा प्रमाणेन प्रमेयादिस्मरणम्। अभ्यासः संस्कारबाहुल्यम् एतस्य यद्यपि नोद्बोधकत्व तथापि तादृशे शीघ्रमुद्बोधकसमवधानं स्यादित्याशयेन तदुपन्यासः। अभ्यासोदृढतरसंस्कारः उद्बोधकत्वेनोक्तैति केचित्। लिङ्गं व्याप्यं व्यापकस्य स्मारकम्। लक्षणं यथा कपिध्वजादि अर्जुनादेः। सादृश्यं देहादेः। परिग्रहः स्वीकारस्तस्य स्वस्वामिभावोऽर्थः तदेकतरेणान्यतरस्मरणम्। आश्रयाश्रितौ राजादितत्यरिजनौ परस्परस्मारकौ। सम्बन्धोगुरुशिष्यभावादिः गोवृषन्यायात् पृथगुक्तः। आनन्तर्य्यं प्रोक्षणावघातादेः। षियोगोयथा दारादेः। एककार्य्याअन्तेवासिप्रभृतयः परस्परस्मारकाः। विरोधादहिनकुलादेरन्यतरेणापरस्मरणम्। अतिशयः संस्कारौपनयनादिराचार्य्यादिस्मारकः। प्राप्तिर्धनादेर्दातारं स्मारयति। व्यवधानमावरणं यथा खड्गादेः कोषादि। सुखदुःखयोरन्यतरेणापरस्य ताभ्यां तत्प्रयीजकस्य वा स्मरणम्। इच्छाद्वेषौ यद्विषयकतया गृहीतौ तस्य स्मारकौ। भयं मरणादेर्भयहेतोर्व्वा स्मारकम्। अर्थित्वं दातुः। शाखादेः क्रिया वाय्वादेः, रागात्प्रींतेः पुत्रादेःस्मरणं, धर्म्माधर्म्माभ्यां जन्मान्तरानुभूतसुखदुःखसाधनयोः प्रागनुभूतसुखादेश्च स्म रणमिति उक्तेषु च किञ्चित्स्वरूपसत्किञ्चिच्च ज्ञातमुद्बोधकं शिष्यव्युत्पादनाय चायं प्रपञ्चः” वृ०।

उद्भट = पु० उद् + भट–करणे–अप्। तण्डुलादेः प्रस्फोटनहेतौ १ शूर्पे, तदाकारत्वात् २ कच्छपे, ३ श्रेष्ठाशये महाशये, ४ प्रवरे, च “पदेपदे सन्ति भटारणोद्भटाः” नैष० उद्गतो भटात् ग्रन्थात्” निरा० त०। ग्रन्थबहिर्भूते लोकप्रसिद्धेऽज्ञातवक्तृकेश्लोके।

उद्भव = पु० उद् + भू–भावे अप्। १ उत्पत्तौ। “स्थैर्य्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः” या० स्मृ०। कर्त्तरि अच्। २ उत्पत्तिमति। “दिलीपसूनुर्मणिराकरोद्भवः” “सोमोद्भवायाः सरितो नृसोमः” रघुः। “लुप्तावददोषोऽत्रिमतेन मध्ये सोमोद्भवायाः सुरनिग्नगायाः” लल्लः। “विष्णुपादोद्भवा गङ्गा” पुरा० “सत्वमात्रोद्भवत्वात्ते भिन्ना अप्यनु भावतः” सा० द०। अपादाने अप्। ३ उत्पत्त्यपादाने। “अहमन्तश्च भूतानामुद्भवश्च भविष्यताम्” गीता। उद्गतो भवात् निरा० स०। ४ संसारातीते ५ विष्णौ पु०। “उद्भवः क्षोभणोदेवः” विष्णुस० “प्रपञ्चोत्पत्त्युपादनकारणत्वात् उद्भवः, उद्गतः संसारादिति वा” भा० उभयथा वाक्यम्। ६ उद्भूतत्वे विशेषगुणगते जातिभेदे उद्भूतशब्दे विवृतिः।

उद्भावन = न० उद् + भू–णिच्–ल्युट्। १ कल्पने, २ उत्पादने च उद् + चु० भू० ल्युट्। ३ चिन्तने ४ उत्ग्रेक्षणे च “उद्भावनमकुर्व्वन्तौ विदुरस्य मते स्थिताः” भा० आ० १४१ अ०

उद्भास = पु० उद् + भास–भावे घञ्। उद्दीप्तौ। ततः अस्त्यर्थे “नैकाक्षारात् कृतो जातेः सप्तम्याञ्च न तौ स्मृतौ” वात्ति० घञ्रूपकाक्षरात् इनेरप्राप्तौ बाला० पाठात् मतुप् इनि र्वा। उद्भासवत् उद्भासिन्–तद्युक्ते त्रि०। “विभूषणोद्भासि पिनद्धभोगि वा” कुमा० स्त्रियां ङीप्।

उद्भिज्ज = पु० उद्भिनत्ति क्विप् उद्भित् तथा सन् जायते जन–ड कर्म्म०। भूमिमुद्भिद्य जाते १ तरुगुल्मादौ “उद्भिज्जाः स्थावराः सर्वेवीजकाण्डप्ररोहिणः” इति मनुः। पदा० योगार्ण्णवे। “देहश्चतुर्विधोजन्तोर्ज्ञेय उत्पत्तिभेदतः। उद्भिज्जः स्वेदजोऽण्डोत्थश्चतुर्थश्च जरायुजः। उद्भिद्य भूमिं निर्गच्छन्नुद्भिदः स्थावरश्च यः” इति विभज्य तदुत्पत्तिप्रकारस्तत्र दर्शितः “उद्भिज्जाः स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः। तत्र सिक्ता जलैर्भूमेरूष्मभिश्च विपाचिताः। वायुना व्यूहमानास्तु वीजत्व प्रतियन्ति ते। तथाचोप्तानि वीजानि संसिक्तान्यम्भसा पुनः। उच्छूनतां मृदुत्वं च मूलभावं प्रयान्ति च। तन्मूलादङ्कुरोत् पत्तिरङ्कुरात् पर्ण्णसम्भवः। पर्ण्णात्मकस्वतःकाण्डः काण्डाच्च प्रसरः पुनः”। एतेषां च यथा पापभोगायतनवत्त्वात् देहवत्त्वं तथाऽयोनिजशब्दे ३४७ पृष्ठे उक्तम् “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” या० स्मृतौ शारीरपापेन तेषां देहोत्पत्तिश्रवणात् भोगायतनदेहवत्त्वमुन्नेयम्। अतएव मुक्तावल्याम् चेष्टाश्रयत्वं शरीरलक्षणमुक्त्वा “वृक्षादीनामपि चेष्टासत्त्वान्नाव्याप्तिः। न च वृक्षादीनां शरीरित्वे किं मानम्? इति वाच्यम् आध्यात्मिकवायुसन्धन्धस्य प्रमाणत्वात् तत्रैव किं मानम्? इति चेत् भानक्षतसंरोहणादिना तदनुमानात्” इत्युक्तम्। यथा च स्थावराणां स्वस्वकर्मोत्पन्नदेहसत्त्वं तथाऽवरोहशब्दे ४४० पृष्ठे शा० सू० भाष्येण दर्शितम्। तेषां विमागोन्यायकन्दल्याम् दर्शितं यथा “स्थावरास्तृणौषधिलतावतानवनस्पतय इति” भा०। “तृणमूलपादिः ओषधयः फलपाकान्ता गोधूमादयः, ये न पुष्पफलास्ते वृक्षा कोविदारप्रभृतयः लता प्रसिद्धैव। अवतन्वन्ति अवताना विटपास्तद्वन्तः केतकी बीजपुरादयः ये विना पुष्पं फलन्ति ते वनस्पतय ओदुक्षरादयः”। न्या० क०। २ भूमिमुद्भिद्यजातमात्रे त्रि० स्थाव- रादिविभागे सुश्रुतः “द्रव्याणि पुनरोषधयस्ता द्विविधाः स्थावरा जङ्गमाश्च। तासां स्थावराश्चतुर्विधाः। वनस्पतयी वृक्षा वीरुध ओषधय इति। तास्वपुष्पाः फलवन्तोबनस्पतयः पुष्पफलवन्तो वृक्षाः। प्रतानवत्यः स्कन्धिन्यश्च वीरुधः। फलपाकनिष्ठा ओषधय इति। जङ्गमा अपि चतुर्विधा जरायुजाण्डजस्वेदजोद्भिज्जाः। तत्र पशुमनुष्यव्यालादयो जरायुजाः। खगसर्पसरीसृपप्रभृतयोऽण्डजाः। कृमिकीटपिषीलिकाप्रभृतयः स्वेदजाः। इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः”।

उद्भिद् = पु० भूमिमुद्भिनत्ति उद् + भिद्–क्विप्। १ वृक्षतृणगुल्मवल्लोलतारूपे पञ्चविधे स्थावरभेदे उद्भिज्जशब्दे उदा०। उद्भिनत्ति पशून्। २ यागभेदे “उद्भिदा यजेत” श्रुतिः उद्भिदादिशब्दानां यथा कर्म्मनामधेयता व्युत्पत्तिसहितं जै० सू० भाष्ययोस्तथा दर्शितं यथा “उक्तं समाम्नायैदमर्थ्यं तस्मात् सर्व्वं तदर्थं स्यात् १, ४, १, सू०। ‘उद्भिदा यजेत’ ‘बलविदा यजेत’ ‘अभिजिता यजेत’ ‘विश्वजिता यजेत’ इति समामनन्ति, तत्र सन्देहः, किम् उद्भिदादयो गुणविधयः, आहोस्वित् कर्मनामधेयानि इति। कुतः संशयः? उभयथाऽपि प्रतिभाति वाक्यात्, उद्भिदा इत्येष शब्दो यजेतैत्यनेन संबध्यते, स किं वैयधिकरण्येन संबन्धमुपैति, उद्भिदा द्रव्येण यागमभिनिर्वर्त्तयेदिति, उत सामानाधिकरण्येन, उद्भिदा यागेन यजेत इति द्बेधाऽपि एतस्मिन् प्रतिभाति वाक्ये, सम् भवति सशयः।

किं तावत् प्राप्तम्? उक्तमस्माभिः समाम्नायस्यैदमर्थ्यं, कश्चिदस्य भागोविधिः, योऽविदितमर्थं वेदयति, यथा ‘सोमेन यजेत’ इति कश्चिदर्थवादः, यः प्ररोचयन् विधिं स्तौति, यथा ‘वायुर्वै क्षेपिष्ठा देवता’ इति, कश्चित्मन्त्रः, योविहितमर्थं प्रयोगकाले प्रकाशयति, यथा ‘र्बर्हिर्देवसदनन्दामि’ इत्येवमादि, तस्मादुद्भिदादयोऽमीबां प्रयोजनानामन्यतमस्य प्रयोजनाय भवेयुः, तत्र तावन्नार्थवादः, वाक्यशेषो हि स भवति विधातव्यस्य, न च मन्त्रः, एवंजातीयकस्य प्रकाशयितव्यस्य अभावात्, पारिशेष्यात् गुणविधिः, उद्भिद्गुणता यागस्य विधीयते प्रसिद्धेरनुग्रहात्, गुणविधेरर्थवत्त्वात्, प्रवृत्तिविशेषकरत्वाच्च। न च, एषां यागार्थता लोकेऽवगम्यते! न च, वेदेन परिभाष्यते! अतोगुणविधयः। ‘यदि गुणविधिः, न तर्हि कर्म विधीयते, अविहिते व कर्मणि तत्र गुणविधानमनर्थकम्’। न इति ब्रूमः, प्रकृतौ ज्योतिष्टोमे गुणविधानमर्थवद्भविष्यति, यदि नामधेयं स्यात्, यावदेव यजेत इति, तावदेव उद्भिदा यजेत इति, न प्रवृत्तौ कश्चित् गुणविशेषः स्यात्। गुणविधौ च गुणसंयोगात् अभ्यधिकमर्थं विदधत उद्भिदादयः शब्दा अर्थवन्तो भविष्यन्ति तस्मात् गुणविधय इत्येवं प्राप्तम्” भा० “अपि वा नामधेयं स्यात् यदुत्पत्तावपूर्ब्बमविधायकत्वात्” १, ४, २, सू० “अपि वा इति पक्षो विपरिवर्त्त्यते। नामधेयं स्यात् इति प्रतिजानीमहे, एवमविहितमर्थं विधास्यति ज्योतिष्टोमात् यागान्तरं, श्रुतिश्चैवं यागमभिधास्यति, इतरथा श्रुतिरुद्भिदादीन् वक्ष्यन्तो उद्भिदादिमतो लक्षयेत्! उद्भिद्वता यागेन कुर्य्यादिति। यागेन कुर्य्यात् इति यजेतेत्यस्यार्थः करणं हि यागः। उद्भिदाद्यपि तृतीयानिर्द्देशात् करणं, तत्र उद्भिदा यागेन इति कर्मनामधेयत्वेन सामानाधिकरण्यसामञ्जस्यं, द्रव्यवचनत्वे मत्वर्थलक्षणया सामानाधिकरण्यं स्यात्। श्रुतिलक्षणा बिशये च श्रुतिर्ज्यायसी। तस्मात् कर्मनामधेयम्। ‘ननु मसिद्धं द्रव्यवचनत्वनपह्रूयेत, अप्रसिद्धं कर्मवचनत्वं प्रतिज्ञायेत’ उच्यते, तृतीयानिर्द्देशात् कर्मवचनता। कुतः? करणवाचिनी हि प्रातिपदिकात् तृतीया भवति, करणं च यागः, तेन यागवचनमिममनुमास्यामहे।

“नैतद्युक्तं, यदि तृतीयार्निर्द्देशे सति उद्भिदादिभ्यः शब्देभ्यो यागे बुद्धिरुत्पद्येत, स्यादेतदेवं, न हि नो बुद्धि रुत्पद्यते, तस्मात् अयुक्तम्। तृतीयावचनम् अन्यथा नोपपद्यते” इति चेत्। कामं नोपपादि, न जातुचित् अनवगम्यमानेऽपि यागवचनो भविष्यति, तस्मात् गुणविधयः। लक्षणेति चेत्, वरं लक्षणा कल्पिता, न यागाभिषानं, लौकिकी हि लक्षणा, हठोऽप्रसिद्धकल्पनेति। अपि च यदि नामधेयं विधीयते, न यागः, अथ यागः, न नामधेयम्, उभयविधाने वाक्यभेदः” इति। उच्यते, न नामधेय विधायिष्यते, अनुवादा हि उद्भिदादयः। कुतः प्राप्तिः? इति चेत्। ततोऽभिधीयते, उच्छब्दसामर्थ्यात् भिच्छब्दसामर्थ्याच्च उद्भिच्छब्दः क्रियावचनः, उद्भेदनं प्रकाशनं पशूनामनेन क्रियते इत्युद्भित् यागः, एवमाभिमुख्येन जयात् अभिजित्, विश्वजयात विश्वजित्, एव सर्वत्र। अतः कर्मनामधेयम्। यत्त्वप्रवृत्तिविशेषकरोऽनर्थकः इति, नामधेयेऽपि गुणफलोपबन्धेनार्थवत्, तस्मात् कर्मनामधेयान्येवंजातीयकानि–इति सिद्धम्” भा० गवामयने यज्ञे सप्रममासिकोत्तमाभिप्लविकस्थाने ३ एकादशे दिने। “सप्तमस्य मासस्योत्तमयोरभिप्लवयोः स्थाने त्रिवृद्व्यूहोदशरात्र उद्भिद्बलभिदौ” आश्व० श्रौ० १२, १, ५, “सप्तमस्य मासस्य ये त्रयोऽभिप्लवाः तेषां वौ उत्तमाभिप्लवौ तयोः स्थाने त्रिवृत्स्तोमको व्यूहोदशरात्रः उद्भिद्बलभिदौ च द्बे अहनी इत्येतानि द्वादशाहानि” नारा० वृ०। गवामयनशब्दे विवृतिः।

उद्भिद = पु० उद् + भिद–क। १ वृक्षादौ पञ्चविधे स्थावरे। २ उद्भेदके त्रि० “होता यक्षत्तनूनपातमुद्भिदम्” यजु० ३८, २५ “उद्भिदं यज्ञफलानामुद्भेत्तारम्” वेददी०।

उद्भिन्न = त्रि० उद् + भिद–क्त। १ उत्पन्ने कर्मणि क्त। २ द्विधाकृते दलिते च। “योवनोद्भिन्नशैशवा”।

उद्भूत = त्रि० उद् + भू–क्त। १ उत्पन्ने “शिवलिङ्गतयोद्भूतः कोटिसूर्य्यसमप्रभः” ति० त० पु० “समुद्रमथनोद्भूतः” कलसमन्त्रः न्यायमते २ प्रत्यक्षयीग्ये “उद्भूतरूपं नयनस्य गोचरः” उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः” भाषा०। उद्भूतत्वञ्च उद्भवापरपर्य्यायो रूपादिविशेषगुणगतोजातिभेदः कणा० सूत्रवृत्तौ उक्तः यथा “अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः” क० सू०। “तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम्” सू०। “रूपगतोविशेषोरूपविशेषः तच्चोद्भूतमनभिभूतत्वंरूपत्वञ्च तस्माद्रूपस्योपलब्धिः। नन्वेवं परमाणोर्द्व्यणुकस्य च रूपं गृह्येतेत्यत उक्तमनेकद्रव्यसमवायादिति अनेकपदं भूयस्त्वपरं तेनानेकानि भूयांसि द्रव्याणि आश्रयतया यस्य तदनेकद्रव्यं त्रसरेणुप्रभृति तत्समवायात्, घटादयोऽप्यवयवद्वयारब्धाः परम्परयाऽनकद्रव्याश्रया एव, रसस्पर्शादौ रूपत्वविरहात् चाक्षुषत्वाभावः चाक्षुषे तेजसि च उद्भूतत्वविरहात्,। उद्भवः रूपादिविशेषगुणगतो जातिविशेष एव रूपत्वादिव्याप्यः। नन्वेवं शुक्लत्वसुरभित्वकटुत्वादिभिरपि परस्परभावानुपपतिरेव तत्तद्व्याप्यतन्नानात्वकल्पने तु कल्पनागौरवम् उद्भवपदस्य नानार्थत्वञ्चेति चेन्न वाह्यैकैकेन्द्रियग्रहणयोग्यगुणत्वस्यैपोपाधेरुद्भवत्वात् तदुपाधिविरहस्यैवानुद्भवत्वात्,। अनुद्भवाभाव एव उद्भव इति केचित्। तच्चिन्त्यम् अनुद्धवस्याप्येवं व्यवस्थापयितुमशक्यत्वात्। अतीन्द्रियविशेषगुणत्वमनुद्भूतत्वमिति चेत् एवं तर्हि ऐन्द्रियकविशेषगुणत्वस्यैवोद्भवत्वापत्तेः। ऐन्द्रियकत्वावच्छेदकं किमिति चेत् तुल्यम्, विशेषगुणेष्वेकैवोद्भूतत्वं जातिः गुणगतजातौ परस्पर- भावानुपपत्तिर्न दोषायेत्यपि वदन्ति। तेनेति रूपप्रत्यक्षज्ञानेनेत्यर्थः यथा रूपविशेषात् रूपत्वानभिभूतत्वोद्भूतत्वलक्षणात्, रूपोपलब्धिस्तथा रसविशेषात् रसत्वानमि भूतत्वोद्भूत्वलक्षणात् रसोपलब्धिः एवमितरत्रापि योज्यम्। अनेकद्रव्यसमवायश्चातिदेश्यः। घ्राणरसनत्वगिन्द्रियाणामनुद्भवाद्गन्धरसस्पर्शानामग्रहणम् पाषाणादावनुद्भवाद्गन्धरसयोः। तद्भस्मनि तयोरुपलम्भात् तयोः पाषाणादावुपलम्भ एव न तुस्पष्ट इत्येके। विभक्तावयवाप्यद्रव्यरूपानुद्भवात्तदग्रहणम् एवं रसस्यापि। उष्णजले तेजीरूपस्यानुद्भवात् स्पर्शस्य चाभिभवात् विततकर्पूरचम्पकादौ रूपरसस्पर्शानामनुद्भवादनुपलम्भः। कनकादौ रूपमुद्भूतमेव शुक्लत्वभास्वरत्वे परमभिभूते। रूपमप्यभिभूतमित्येके कनकग्रहणन्तु रूपान्तरसाहचर्य्यात्। अभिभवश्च बलवत्सजातीयग्रहणकृतमग्रहणं न तु बलवत्सजातीयसम्बन्धमात्रम्, बलवत्सजातीयसम्बन्धस्याप्यग्रहणनिरूप्यतया अग्रहणस्यैवोपजीव्यत्वात् नचाग्रहणप्रयोजकत्वेन बलवत्सजातीय एवोपजीव्यः, अग्रहणस्य ग्रहणप्रागभावस्य तदत्यन्ताभावस्य वा तदप्रयोज्यत्वात् ग्रहणध्वंसस्य च तत्राभावात्। तवापि तर्हि बलवत्सजातीयग्रहणकृतमग्रहणमनुपपन्नमेबेति चेत् अस्त्वेवं तथापि सजातीयस्य बलवत्त्वे दुर्बलत्वे वा तादृशसम्बन्धसत्त्वे वा ग्रहणाग्रहणे एव प्रयोजके एवेति स एवाभिभवपदार्थः”।

उद्भूति = त्रि० उद् + भू–क्तिन्। १ उत्पपत्तौ। उत्कृष्टा भूतिः। २ उत्तमविभूतौ ३ औन्नत्येच। “उमा बधूर्भवान् दाता याचितार इमे वयम्। वरः शम्भुरलं ह्येष त्वत्कुलोदभूतये विधिः” कुमा०।

उद्भेद = पु० उद् + भिद–अच्। १ रोमाञ्चे। भावे घञ्। २ उद्भिद्योत्पत्तौ ३ प्रकाशे च। “उमास्तनोद्भदमनु प्रवृद्धः” कुमा०। “तं योवनोद्भेदविशेषकान्तम्” रघुः। “पुष्पोद्भेदं सह किसलयैर्भूषणानां विशेषात्” मेघ०। “कन्दोद्भेदावैद्रुमा वारिणीव” माघः। “हसितंतु वृथाहासो यौवनोद्भेदसम्भवः” “शृङ्गोहि मन्मथोद्भेदस्तदागमनहेतुकः” सा० द०। ३ मेलने च “गङ्गोद्भेदं समासाद्य त्रिरात्रोपोषितोनरः” भा० व० ८४ अ०। ल्युट्। उद्भेदनमप्यत्र न०। चमसोद्भेदनं विप्रास्तत्रापि कथयन्त्युत” भा० व० ८८ अ०। “उद्भेदनं प्रकाशनम्” उद्भिच्छब्दे शवरभा०।

उद्भ्रम = पु० उद् + भ्रम–करणे घञ् न वृद्ध्विः। १ उद्वेगे भावे घञ्। २ समन्तात् भ्रमणे। भावे ल्युट्। उद्भमणमप्यत्र न०

उद्भ्रान्त = न० उद् + भ्रम–भावे क्त। १ उद्भ्रमणे अम० स्वार्थे कन्। घूर्णितगतौ शकु०। अन्तर्भूतण्यर्थे भावे क्त। २ बाहुमुद्यम्य खड्गभ्रामणे। उद् + भ्रम–कर्त्तरि क्त। ३ भ्रान्तियुक्ते ४ ऊर्द्ध्वं भ्रमणकर्त्तरि च त्रि०। “मारीचोद्भ्रान्तहारीताः, रघु०

उद्य = त्रि० वद–क्यप्। कथनीये “अनृतोद्यं न तत्रास्ति” भट्टिः सुप्युपपद एवास्य साधुत्वम् न पृथक्प्रयोग इति।

उद्यत् = त्रि० उद् + या–शतृ। उद्गच्छति “उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः” का० प्र० “उद्यन् समुद्रादुत वा पुरीषात्” यजु० २९, १२। “नेक्षेतोद्यन्त मादित्यम्” मनुः। स्त्रियां ङीप्। सा च २ विष्टुतिभेदे च सा च ताण्ड्य० ब्रा० दर्शिता “तिसृभ्योहिङ्करोति स प्रथमया, तिसृभ्योहिङ्करोति स मध्यमया, तिसृभ्योहिङ्करोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः”। “एकैकस्य साम्नः पञ्चविभक्तयः प्रस्तावोद्गीथप्रतिहारोपद्रवनिधनाख्याः, तत्र हिङ्कारस्त्रिभिरुद्गातृभिः सर्व्वत्र कर्त्तव्यः अतएव सूत्रकृतोच्यते “साम्ने साम्ने हिङ्कुर्युरिति” तिसृभ्य इति “क्रियार्थोपपदस्य च कर्म्मणि स्थानिनः” पा० कर्मणि चतुर्थी तिस्र ऋचो गातुं हिङ्कुर्यात् एकवचनमतन्त्रम् उक्तादेव हेतोः” अतस्त्रयोऽप्युद्गातारो हिङ्कुर्युरित्यर्थः। एवमुत्तरत्रापि हिङ्कारविधायकेषु वाक्येषु योजना। स हिङ्करोति स हिंकर्त्ता प्रथमया त्रिरुक्तया गायेत् अयं प्रथमः पर्य्याषः। त्रिसृभ्यो हिङ्करोति स हिङ्कर्त्ता मध्यमया त्रिरुक्तया गायेत् अयं द्वितीयः पर्यायः, पुनरपि तिसृभ्यो हिङ्करोति स हिङ्कर्त्ता तृचस्योत्तमा अन्त्या तया त्रिरुक्तया गायेत् एषः तृतीयः पर्य्यायः। अनेन पर्य्यायेण त्रिवृत्स्तोमः सम्पद्यते उक्तप्रकारेण त्रिधा वर्त्तत इति त्रिवृत् स्तोमः तस्य विष्टुतिरेषा उद्यती ऊर्द्ध्वं गच्छन्ती उक्तेवु पर्यायेषु प्रथममध्यमोत्तमक्रमेण ऊर्द्ध्वं गमनादन्वर्थसंज्ञेयमेषा त्रिवृतः प्रथमा विष्टुतिः” मा० सामसं० भाष्ये माधवेनौद्यतीनामकविष्टुतेः प्रकारः स्पष्टं दर्शितो यथा “पठितानां नवानामृचां गानं त्रिभिः पर्यायैः कर्त्तव्यम् तत्र प्रथमपर्याये त्रिषु सूक्तेषु आद्यास्तिस्र ऋचः, द्वितीये पर्याये मध्यमाः, तृतीये पर्याये चोत्तमाः। तिसृभ्य इति तृतीयार्थे पञ्चमी, हिङ्करोति गायतीत्यर्थः। सेयं यथोक्तप्रकारीपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः (स्तुति–प्रकार–विशेषः), अस्याः विष्टुतेरुद्यती नामेति, भा० पञ्चदशस्तोमेऽपरा उद्यती विष्टुतिः ता० ब्रा० दर्शिता यथा “तिसृभ्यो हिङ्करोति स पराचीमिः, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिस्म एकया, सप्तभ्यो हिङ्करोति स तिसृभिस्स एकया स तिसृभिरुद्यती पञ्चदशस्य विष्टुतिः” ब्रा० “त्रिषु पर्यायेषूत्तरोत्तरसंख्योत्कर्षमेत्युद्यती पञ्चदशस्य विष्टुतिरिति। त्रिषु पर्यायेषूत्तरोत्तरसंख्योत्कर्षमेतीत्युद्यतीत्युच्यते” भा०। सप्तदशस्तोमस्यापराप्युद्यती तत्रैव दर्शिता “अथोद्यत्याख्यां सप्तदशस्तोमस्यापरां विष्टुतिमाह” भा०। “तिसृभ्यो हिङ्करोति स पराचीमिः, पञ्चभ्यो हिङ्करोति स एकया स तिसभिस्स एकया, नवभ्योहिङ्करोति स तिसृभिस्सतिसृभिस्स तिसृभिरुद्यती सप्तदशस्य विष्टुतिः” ब्रा०। “तिसृभ्यः पञ्चभ्यो नवभ्य इति क्रमेण सख्याया ऊर्द्ध्वगमनादुद्यती ऊर्द्ध्वं गच्छन्ती एतत्संज्ञा एषा सप्तदश स्तोमस्य विष्टुतिः” भा०। अयं संक्षेपः गवामयने त्रिवृदादयः स्तोमाः विहिताः तेषां त्रिवृदादिस्तोमानां तिस्रोविष्टुतयः (सन्निवेशविशेषरूपेण स्तवनानि) तत्र वहिष्पवमानसाधनस्य त्रिवृत्स्तोमस्य तिस्रो विष्टुतयः उद्यती कुलायिनी परिवर्त्तिनी चेति तत्राद्या दर्शिता अन्त्ये तत्तच्छब्दे वक्ष्येते।

उद्यत = त्रि० उद् + यम–कर्त्तरि–क्त। १ उद्यमयुक्ते कृतोद्यमे “आततायी बधोद्यतः” अमरः। भावे क्त। २ उद्यमे न०। यमेर्नियमनार्थत्वे कर्मणि क्त। ३ उत्तोलिते ४ उद्यमिते “प्रवृक्तस्तेज उद्यत आश्विनः” यजु० ३९, ५। “उद्यम्यते इत्युद्यतः” वेददी०। “पर्य्यायोद्यतकार्म्मुकौ” रघुः।

उद्यति = स्त्री उद् + यम–भावे क्तिन्। उद्यमे। “वैश्वदैवानि जुहोत्यश्वमेधस्योद्यत्यै” शत० ब्रा० १३, १, ८, १।

उद्यम = पु० उद् + यम–घञ् न वृद्धिः। १ प्रयासे प्रयत्नभेदे २ उद्योगे। “निशम्य चैनां तपसे कृतोद्यमाम्” “शशाक मेना न नियन्तुमुद्यमात्” कुमा०। ३ उत्तोलने च “विप्रदण्डोद्यमे कृच्छ्रमतिकृच्छ्र निपातने” या० स्मृ०।

उद्यमन = न० उद् + यम–णिच्–ल्युट्। १ उत्क्षेपणे २ उत्तोलने।

उद्यमित = त्रि० उद् + यम–णिच्–क्त। १ उत्तोलिते २ उद्यमाय प्रेरिते। “आत्मनोमधुमदोद्यमितानाम्” किरा०।

उद्यान = पुंन० उद्यायतेऽत्र उद् + या–आधांरे ल्युट् अर्द्धचादि। आरामे। तत्करणप्रकारादि आरामशब्दे ८०१ पृ० उक्तम्। “बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या” “उद्यानानां नवजलकणैर्यूथिकाजालकानि” मेघ०

उद्यानपाल = त्रि० अद्यानं पालयति पाल–अण् उप० स०। (माली) उद्यानरक्षके “उद्यानपालसामान्यमृतवस्त मुपासते” कुमा०। ण्वुल्। उद्यानपालकोऽप्यत्र। स्त्रियां टाप् अतैत्त्वम्। “ततः प्रविशति उद्यानपालिका” मालविकाग्निमित्रनाटकम्।

उद्यापन = पुंन० उद् + या–णिच्–ल्युट् अर्द्धर्चादि। व्रतादिसमापने ब्रतप्रतिष्ठायाम्। हेमाद्रौ व्रतखण्डं “उद्यापनं प्रवक्ष्यामि” इत्यसकृत्व्रतभेदे प्रयोगः। प्रतिष्ठा च कर्म्मान्तरं न तदङ्गमिति” रघु०। अस्येतिकर्त्तव्यतासामान्यप्रकारः व्रतततत्त्वादौ अनुसन्धेयः। विशेषतस्तु तत्तद्व्रतोक्तविधायवाक्येभ्योऽवसेयः विस्तरस्तु हेमाद्रौ व्रतखण्डे दृश्यः। तत्र तिथि० त० व्रतारम्भप्रतिष्ठयोर्वर्ज्यकालमाह ज्योतिषे “गुरोर्भृगोरस्तबाल्ये वार्धके सिंहके गुरौ। वक्रिजीवाष्टविंशेऽह्नि गुर्वादित्ये दशाहिके। पूर्वराशावनायातातिचारिगुरुवत्सरे। प्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके। कम्पाद्यद्भुत सप्ताहे नीचस्थेज्ये मलिम्लुचे। भानुलङ्घितके मासि क्षये राहुयुते गुरो। पौषादिकचतुर्मासे चरणाङ्कित वर्षणे। एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये। तृतीयेन तु सप्ताहे माङ्ग्यल्यानि शुभान्विताः। विद्यारम्भकर्णवेधौ चूडोपनयनोद्वहान्। तीर्थस्नानमनावृत्तं तथानादिसुरेक्षणम्। परीक्षाऽऽरामयज्ञांश्च पुरश्चरणदीक्षणे। व्रतारम्भप्रतिष्ठा च गृहारम्भप्रवेशने। प्रतिष्ठारम्भणे देवकूपादेर्वर्जयन्ति च। द्वात्रिंशद्दिवसाश्चास्ते जीवस्य भार्गवस्य च। द्वासप्ततिर्महत्यस्ते पादास्ते द्वादश क्रमात्। अस्तात् प्राक् परयोः पक्षं गुरोर्व्वार्द्धकवालते। पक्षं वृद्धोमहास्तेतु भृगुर्बालोदशाहिकः। पादास्ते तु दशाहानि वृद्धःशुक्रो दिनत्रयम्”। एवं व्रतारम्भप्रतिष्ठयोर्वज्ज्यकालोक्तेः सिंहस्थरवौ तदकर्त्तव्यताकल्पनं साहसमेव हरितालिकादिव्रते तद्वर्जनस्यासम्भवात् तस्य सिंहस्थरविकत्वेनैव निमित्तत्वात् तच्च हरितालिकाशब्दे वक्ष्यते। सिंहस्थरविककालस्याशुद्धिबोधक वाक्यस्य व्रतारम्भप्रतिष्ठाव्यतिरिक्तविषयकत्येनाप्युपत्तेः। “पूर्णे काले व्रतानां तु प्रतिष्ठां विधिवच्चरेत्। न तत्र कालनियमस्तत्र विघ्ने पराविदके इति” वचनात् पूर्ण्णकाले न समयाशुद्धिर्बाधिकेति केचित्। एतद्वचनस्यामूलकत्वमाहुरन्ये।

उद्याम = पु० उद्यम्यतेऽनेन उद् + यम–करणे घञ् वा वृद्धिः। ऊर्द्ध्वनियमनसाधने रज्ज्वादौ। “शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वारूपाणीति” कात्या०१ ६, ५, ६, उदूर्द्ध्वं यम्यते नियम्यते यैस्ते उद्यामाः षडुद्यामारज्जवः ऊर्द्धाकर्षणहेतवोयस्य” यजु० १३, १०३ मन्त्रव्या० वेददी० “षडुद्यामं भवांत षड्ढि दिशो मौञ्जं त्रिवृत्” “संवत्सर एषोऽग्निरृतवः शिक्यमृतुभिर्हि संवत्सरः शक्नोति स्थातुं यच्छक्नोति तस्माच्छिक्यमृतुभिरेवैनमेतद्बिभर्त्ति षडुद्यामं भवति षड्ढ्यृतवः” शत० ब्रा० ६, ७, १, १६, १८,

उद्याव = पु० उद् + यु–अपं बाधित्वा “उदि श्रयतियौतिप्रुद्रुवः” पा० घञ्। ऊर्द्ध्वतोमिश्रणे अनुदि तु अबेव।

उद्यास = पु० उद + यस–घञ्। १ उद्यमे कर्त्तरि संज्ञायां घञ्। २ देवभेदे पु०। “आयासाय स्वाहा प्रयासाय स्वाहा संयासाय स्वाहा वियासाय स्वाहोद्यासाय स्वाहा” यजु० ३९, ११, “आयासादयो देवविशेषाः” वेददी०।

उद्योग = पु० न० उद् + युज–घञ् अर्द्वर्चादि। १ उद्यमे कर्म्मकरणार्थं प्रयासभेदे “उद्योगादनिवृत्तस्य सुसहायस्य धीमतः। छायेवानुगता तस्य नित्यं श्रीः सहचारिणी” नीति०। “शब्दादिविषयोद्योगकर्म्मण मनसा गिरा” या० स्मृतिः। “उद्योगंसर्व्वसैन्यानां दैत्यानामादिदेश ह” देवीमा०। भीजसेनवत् उत्तरपदलोपे २ उद्योगपर्व्वणि च। “उद्योगः सैन्यनिर्याणं श्वेतीपाख्यानमेव च” भा० आ० १ अ० “उद्योगे भरतश्रेष्ठः मर्व्वकामगुणान्वितम्। भोजनं भोजयेद्विप्रान् गन्धमाल्यैरलङ्कृतान्” भा० स्वर्गा० ६ अ०

उद्योगपर्वन् = न० उदयोगस्य प्रतिपादकं पर्व्व। व्यास रचितभारतान्तर्गते पञ्चमे पर्बणि। “उदयोगपर्व्व विज्ञेयमतऊर्द्ध्वं महाद्भुतम्”। “उद्योगपर्व्व विज्ञेयं पञ्चमं शृण्वतः परम्” तत्रत्यवृत्तान्तमुपवर्ण्य। “उद्योग पर्व्व निर्द्दिष्टं सन्धिविग्रहसम्मितम्” भा० आ० १ अ०।

उद्योगिन् = त्रि० उद + युज–घिणुन्। उद्योगयुक्ते। “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति। दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः” हितो०।

उद्योजक = त्रि० ऊद् + युज–ण्वुल्। प्रवर्त्तके।

उद्र = पु० उनत्ति क्लिद्यति उन्द–रक्। जलविडाले। (उद्विराल)

उद्रङ्क(ङ्ग) = पु० सौभपुरे व्योमचारिपुरभेदे जटाधरः।

उद्रथ = पु० उद्गतोरथो यस्मात्। १ रथकीले। उद्गतरथतुल्यः पक्षो यस्य। ताम्रचूडविहगे। मेदिनिः।

उद्रपारक = पु० “धृतराष्ट्रकुले जातान् शृणु नागान् यथातथम्” इत्युपक्रम्य “भैरवोमुण्डवेदाङ्गः पिशङ्गश्चोद्र- पारकः” भा० आ० ५७ अ० सर्पसत्रेहतनागौक्ताः।

उद्रिक्त = त्रि० उद् + रिच–क्त। १ अतिशयिते, २ अधिके, ३ स्फुटे च

उद्रेक = पु० उद + रिच–घञ्। १ वृद्धौ, २ अतिशये, ३ उपक्रमे च। “गतोभक्त्युद्रेकः प्ररिणतिमसौ चक्रवपुषा” पुष्पदन्तः। “प्रक्षीयते धनोद्रेको जनानामविजानताम्” भा० ब० १९२ अ०। “स्नेहोरागश्च तन्त्रा च मोहोद्रेकश्च केवलः” भा० अनु० २ अ०। ४ महानिम्बे स्त्री राजनि०।

उद्वंशीय = न० सामभेदे। “तदाहुरीर्म्म एव वा एषा होत्रा यदच्छावाक्या यदच्छावाकमनुसन्तिष्ठत ईश्वरेर्मा भवितोरिति यद्युक्थं स्यात्त्रैककुभञ्चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये वीर्य्यं वा एते सामनी वीर्य्यएवान्ततः प्रतितिष्ठन्ति”। व्रा० “अतोयदीयमुक्थम् उक्थसंस्थं स्यात् उक्तदोषपरिहाराय त्रैककुभं चोद्वं शीयं चोभे सामनी अन्ततस्तृतीयसवनस्यान्ते प्रतिष्ठाप्ये त्रैककुभं ब्रह्मसाम उद्वंशीयमच्छावक्यसामेत्येबं कर्त्तव्ये इत्यर्थः” ता० ब्रा० भा०।

उद्वत् = त्रि० उद् उत्कर्षितस्वभावोऽस्त्यस्य वा मतुप् मस्य वः। १ उत्कृष्टे २ उन्नते च। “स उद्वतोनिवतोयाति वेविषत्” ऋ० ३, २, १०। “उद्वतः उच्छ्रायवतः” भा० “उद्वत्स्वस्मा अकृणोतना” १, १६१, ११। “उद्वत्सून्नतेषु” भा०।

उद्वत्सर = पु० उत्क्रान्तोरविसंक्रान्तिं चान्द्रोमासोयत्र प्रा० ब०। वत्सरपञ्चकान्तर्गते वत्सरभेदे इदावत्सरहावदे विवृतिः उदावत्सरोऽप्यत्र।

उद्वपन = न० उद् + वप–ल्युट्। १ दाने २ उत्तोलने (तोला)। “उखायाभस्मोद्वपनमस्तमिते पात्रे” “अनुदिते भस्मोद्वपनादि” कात्या० १६, ६, १, ३। उत्क्रान्तोवपनम् अत्या० स०। ३ उत्पाटने च।

उद्वमन = न० उद् + वम–ल्युट् उदुपसर्गस्य धात्वर्थानुगममात्रमत्र। वमने। उद्गारशब्दे विवृतिः।

उद्वयस् = त्रि० उद्गतं वयोऽन्नं यस्मात् प्रा० ब०। अन्नोत्पादके वायौ “अपां रसमुद्वयसं सूर्य्ये सन्तं समाहितम्” यजु० ९, ३, “उद्गतं वयोऽन्नं यस्मात् वायोः स उद्वया वायुः वायुनैव हि धान्यानि निष्पद्यन्ते” वेददी०। उत्क्रान्तो वयः कालिकावस्थाम् अत्या० स०। अतिक्रान्त वयसि वृद्धे त्रि०।

उद्वर्त्त = पु० उद् + वृत–घञ्। १ अतिशये २ आधिक्ये च। (उपचान) णिच्–घञ्। चूर्णविशेषैः २ देहस्थमलाद्यपसारणव्यापारे।

उद्वर्त्तन = न० उद्वर्त्त्यतेऽनेन उद् + वृत–णिच् करणे–ल्युट्। १ शरीरनिर्मलीकरणद्रव्यादौ। चूर्णैरुद्वर्त्तनैः पालीं तैलाक्तामवचूर्ण्णयेत्” सुश्रु०। “नाक्रमेद्रक्तविण्मूत्रष्ठीवनोद्वर्त्तनादि च” या० स्मृतिः। भावे ल्युट्। २ द्रव्यभेदैः स्नेहाद्यपहारार्थेव्यापारे च। “उद्वर्त्तनं वातहरं कफमेदोविनाशनम्। स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्” “यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्त्तनं हितम्। शतावर्य्यश्व गन्धाभ्यां पयस्यैरण्डजीवनैः” “ततोऽस्य बलातैलमभ्यङ्गार्थेऽवचार्य्यम् यवपिष्टमुद्वर्त्तनार्थे” सुश्रु०। ३ विलेपने, ४ घर्षणे च। उद् + वृत–ल्युट्। ५ उत्पतने ६ उल्लुण्ठने च “गात्रस्योर्त्तनञ्चैव हितं संवाहनानि च” सुश्रु० “चटुलशफरोद्वर्त्तनप्रेक्षितानि” मेघ०।

उद्वर्त्तनीय = त्रि० उद्वर्त्तनाय हितम् छ। उद्वर्त्तनसाधने द्रव्ये “इदमुद्वर्त्तनीयं गोधूमवचूर्णमिति” दुर्गार्चापद्धतिः।

उद्वर्द्धन = न० उद् + वृध–ल्युट्। १ अन्तर्हासे त्रिका०। णिच्ल्युट्। २ वृद्धतासम्पादने। ल्यु। ३ वृद्धिसम्पादके त्रि०।

उद्वर्हण = न० उद् + वर्ह–ल्युट्। १ उन्मूलने २ उत्पाटने ३ उद्धरणे। क्त। उद्वर्हित उन्मूलिते त्रि०

उद्वह = पु० उद्वहति ऊर्द्ध्वं नयति उद् + वह–अच्। पुत्रे “पुन्ना म्नो नरकाद्यस्मात् पितरं त्रायते सुतः” स्मृतेस्तस्य नरक त्राणकर्त्तृत्वात् तथात्वम् २ वंशकारके “उदयमस्तमतञ्च रघूद्वहात्” “पार्थिवीदुद्वहद्रघूद्वहः” रघुः ३ कन्यायां स्त्री ऊर्द्ध्वं प्रवहवायोरुपरिवहति अच्। वायुसप्तार्गते ४ तृतीयस्कृन्धस्थे वायौ पु०। आवहशब्दे विवृतिः “आवहः प्रवहश्चैव विवहश समीरणः। परावहः संवहश्च उद्वहश्च महाबलः। तथा परिवहः श्रीमानुत्पातभयशंसिनः। इत्येते क्षुभिताः सप्त मारुता गगनेचराः” हरि० २३६ अ०। बा० भावे अप। ५ विवाहे “चूडोपनयनोद्वहान्” राजमा०।

उद्वहन = न० उत्तोल्य वहनम्। उत्तोल्य स्कन्धादिना वहने। “कृष्णेन देहोद्वहनाय शेषः” कुमा० “कैलासनाथोद्वहनाय भूयः” “आपीनभारोद्वहनप्रयत्नात्” रघु० २ विवाहे च “भुवः प्रयुक्तोद्बहनक्रियायाः” रघुः। “स्वपितृभ्यः पितादद्यात् सुतसंस्कारकर्म्मसु। पिण्डानोद्वहनात्तेषां तदभावेऽपि तत्क्रमात्” स्मृतिः।

उद्वादन = न० उद् + वद–णिच्–ल्युट्। १ उच्चैरावेदने। “उपदीक्षी स्वेष्वग्निषु नखनिकृन्तनाद्युद्वादनान्तं सान्निपातिकम” कात्या० २५, १४, ३, “उपदीक्षी नेदिष्ठः स्वानग्नीन् विहृत्य नखनिकृन्तनाद्युद्वादनान्तं सान्निपातिकंकर्म्मकुर्य्यात्” कर्कः। उद्वादनप्रकारश्च शन० ब्रा० ३, २, १, ३९, दर्शि- तोयथा “अथैक उद्वदति दीक्षितोऽयं ब्राह्मणोदीक्षितोऽय ब्राह्मण इति निवेदितमेवैनमेतत्सन्तं देवेभ्यो निवेदयत्ययं महावीर्य्योयोयज्ञं प्रापदित्ययं युष्माकैकोऽभूत्तं गोपायते त्येवैतदाह त्रिष्कृत्याह”। “उद्वदति उच्चैरावेदयति” भा० २ उच्चैर्वाद्यकरणे च उद् + वच–णिच् ल्युट्। उद्वावचनमप्यत्र न० “यथेन्द्र उद्वाचनं लब्धा चक्रे अधस्पदम्” अथ० ५, ८, ८,

उद्वान = पु० उद् + वन–संभक्तौ घञ्। १ उद्वमने णिच्–कर्म्मणि अच्। २ उद्वमिते त्रि० रायमुकुटः।

उद्वान्त = न० उद् + वम–क्त। कृतोद्वमने उद्गीर्ण्णे अमरः।

उद्वाप = पु० उद् + वप–भावे घञ्। १ उन्मूलने २ उद्धरणे। ३ श्रूयमाण परिपरित्यागे पश्चात् “आवापोद्वापाभ्याम्” मुक्ता०। कर्म्मणि घञ्। उद्वाप्य सञ्चीयमाने ४ भस्मादौ। “कपालानि भस्मोद्वापे कुर्य्यात्” कात्या० ५, २, ६, भस्मोद्वापशब्देन प्रत्यहं गार्हपत्यादिखरेभ्यो भस्मोद्धृत्य यो राशिः क्रियते सौच्यते कर्क्वः”। णिच्–भावे अच्। ५ मुण्डने।

उद्वाय = पु० उद् + वा–घञ्। १ उद्वासने २ उपशमे। तत आचारे क्विप्। उद्वायति। “वायुर्वाव संवर्गोयदा वा अग्निरुद्वायति वायुमेवाप्येति” छा० उ०। “उद्वायति उद्वासनं प्राप्नोत्युपशाम्यति” भा०। गणव्यत्ययोवात्र।

उद्वास = पु० उद् + वास–घञ्। स्वस्थानातिक्रमेण अस्तप्राप्तौ “अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वासः” छा० उ० भा०। ततः बलादि० इनि मतुप् वा। उद्वासिन् उद्वासवत् तद्वति त्रि० स्त्रियां ङीप्।

उद्वासन = न० उद् + वस–ल्युट्। १ मारणे उद् + वस + णिच्ल्युट्। २ विसर्जने। स्रुगादीनाम् उद्धोत्तलनेनान्यत्र स्थापनरूपे अग्न्याधानाङ्गे ३ संस्कारभेदे “अप उपस्पृश्य शालाद्वार्य्ये परिस्तरणपातसंसादनप्रोक्षणाज्यनिर्वपणाधिश्रयणस्रुक्संमार्जनोद्वासनावेक्षणानि कृत्वाग्नीध्र उत्पय पश्चादाज्यग्रहणम्” कात्या० ९, १, २, “अत्रोद्वासनमाहवनीय श्रायिणः २, ७, ८, “आज्याधिश्रयणस्रुक्संमार्जनोद्वासनावेक्षणानि” कात्या० ८, ६, ३१, ४ स्थानान्तरनयने च “दक्षिणतोऽधिश्रयणोद्वासने” २५, ८, ९, भस्मनि अधिश्रयणमुद्वासनं च गार्हपत्याद्दक्षिणस्यां दिशि कुर्यात्” कर्कः।

उद्वास्य = अव्य० उद् + वस–णिच्–ल्यप्। विसृज्येत्यर्थे “उद्वास्य देवं स्वेधाम्नि” तन्त्रम्। २ स्थानान्तरं नीत्वेत्यर्थे च कर्मणि यत्। ३ उत्तोलनीये ४ उद्धरणीये च त्रि०।

उद्वाह = यु० पु० उद् + वह घञ्। विवाहे स च ज्ञानविशेष इति रघु० येन ज्ञानेन ममेयं भार्या, ममायं पतिरिति व्यवहारो भवति तादृशं ज्ञानम्। तच्च सम्बन्धभेदेनोभय निष्ठम्। चरमसंस्कार इति नव्यनैयायिकाः। चरमत्वञ्च संस्कारप्रागभावासहचरितत्वम्। द्वितीयविवाहस्य संस्कारत्वाभावात् तत्प्रागभावसत्त्वेऽपि आद्यविवाहे चरमत्वाक्षतिः। तत्र च स्त्रियाः संस्काररूपतया विवाहत्वव्यवहारः। यस्य पुरुषस्य विवाहात् प्रागेव चूडादिषु जातेषु मरणम् तत्र पुरुषे चूडादौ संस्कारप्रागभावासहचरितत्वात् अतिव्याप्ते र्नैतत् नाय्यम्। किन्तु शास्त्रविहितसंस्कारान्तिमत्वमेव चरमत्वमिति युक्तम्। शास्त्रेषु च संस्कारेषु विवाहस्यैबान्तिमतया विधानादितरेषामुपान्तिमत्वादिनेति नातिप्रसङ्गः। यूपाहवनीयादौ यथा संस्कारादेव तत्तच्छब्दप्रवृत्तिः एवं शास्त्रविधिना कृतसंस्कारयोरेव दम्पत्योस्तच्छब्दप्रवृत्तिः। संस्कारश्चालौकिकत्वात् तत्तत्कर्मकलापसाध्य इति न आदानभात्रेण तत्सिद्धिः। अतएव “अविप्लुत ब्रह्मचर्यो लक्षण्यां स्त्रियमुद्यहेदिति” या० स्मृतौ “उद्वहेत द्विजोभार्याम्” इत्यादौ च विधिश्रवणम्, आदानमात्रस्य प्रमाणान्तरप्राप्ततया तदंशे विधित्वासम्भवात् अप्राप्तप्रापकस्यैव विधित्वात् अतएव “पाणिग्रहणिकामन्त्रा नियतं दारलक्षणम्। तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे” इति मनुना मन्त्रविशेषाणामेव भार्य्यात्वरूपसंस्कारप्रयोजकत्वमभिहितम्। आदानमात्रस्य विवाहत्वे तस्य च लौकिकत्वात् गृहीतेतरद्रव्यवत् तद्दानविक्रयापत्तिःस्यात् “न निष्क्रयविसर्गाभ्यां भर्त्तुर्भार्य्या वियुज्यते” इति कात्यायनेन दानविव्रयाभ्यां भार्य्यत्वविगमाभावं वदता च बिवाहस्य लौकिकत्वं निरासितम्। किञ्च विवाहसंस्कारस्य वैधत्वे यथाविधानमेव तत्र प्रवार्त्ततव्यम्। विधानातिक्रमे च कर्त्तुः प्रत्यवायोऽनिष्टं च फलं भवतीति गम्यते। तद्विघानप्रकारश्च आश्व० गृ० १, ४, कण्डिकादौ दर्शितः अन्येऽपि प्रकारस्तत्तद्गृह्यकारैरुक्तः। स च ततोऽसेयः। उद्वाहे वर्ज्जयनीयकन्याः स्मृतिषु दर्शिता यथा। “असपिण्डा च या मातुरसगोत्रा च या पितुः सा प्रशस्ता द्विजातीनां दारकर्म्मणि मैथुने” मनुः। असपिण्डाश्च असपिण्डशब्दे ५४१ पृ० मतभेदेनोक्ताः। “अनन्य पर्व्विकां कान्तामसपिण्डां यवीयसीम्। अरोगिणीं भ्रातृमतीमसामानार्षगोत्रजाम्” याज्ञ०। अन्यपूर्वाश्च। “सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः। वाचा दत्ता मनोदत्ता कृतकौतकमङ्गला। उदकस्पर्शिता या च या च पाणिगृहीतिका। आग्निंपरिगता या च पुगर्मूप्रभवा च या। इत्येताः काश्यपेनोक्तादहन्ति कुलमग्निवत्” काश्य०। “तत्र सपिण्डासगोत्रासमान प्रवरासु भार्य्यात्वमेव नोत्पद्यते रोगिण्यादिषु भार्य्यात्वे उत्पन्नेऽपि दृष्टदोष एव” मिता० एवमेव रघुनन्दनादयः। समानार्षाश्च आर्षशब्दे ८१३ पृष्ठे दर्शिताः। “सगोत्रां मातुरप्येके नेच्छेन्त्युद्वाहकर्म्मणि। जन्मनाम्नोरविज्ञा ने उद्वहेताविशङ्कितः” इति उ० त० व्यासः। “मातुलस्य सुता मूढ्वा मातृगोत्रां तथैव च। समानप्रवरां चैव गत्वा चान्द्रायाणं चरेत्” मिता० स्मृ०। “आ सप्तमात् पञ्चमाच्च बन्धुभ्यः पितृमातृतः। अविवाह्या सगीत्रा च समानप्रवरा तथा। पञ्चमे सप्तमे वापि येषां वैवाहिकी क्रिया। ते च सन्तानिनः सर्वे पतिताः शूद्रतां गताः” नारदः। बन्धवश्च उत्तराधिकारशब्दे १०९९ पृ० दर्शिताः। “सगोत्राञ्चेदमत्याउपयच्छेन्मातृवदेनाम् बिभृयात् समानार्षेयां विवाह्य चान्द्रयणं चरेत्” सुमन्तुः “समानगोत्रप्रवरां समुद्वाह्योपगम्य च। तस्यामुत्पाद्य चाण्डालं ब्राह्मण्यादेव हीयते। आप०। “सर्व्वाः पितृपत्न्यो मातरस्तद्भ्राता मातुलास्तदपत्यानि भगिन्यस्तदपत्यानि भागिनेयानि ता धर्म्मतोऽविवाह्याः अन्यथा सङ्करकारिण्यस्तथाध्यापयितुरिति” सम्न्तुः। “अध्यापयितुरेतद्विवाहमन्त्रपाठयि तुरेतत् सङ्करकारित्वमिति” रत्नाकरादयः। अध्यापयितुर्गुरोः कन्या अविवाह्येति रघुनन्दनेनोक्तम् “समानप्रवरा वाऽपि शिष्यसन्ततिरेव च। व्रह्मदातुर्गुरोश्चैव सन्ततिः प्रतिषिध्यते” मत्स्यपु०। “मातुर्य्यन्नाम गुह्यं स्यात् सुप्रसिद्धमथापि वा। तन्नाम्नी या भवेत् कन्या मातृनाम्नीं प्रचक्षते। प्रमादात् यदि गृह्णीयात् प्रायश्चित्तं समाचरेत्। ततश्चान्द्रायणं कृत्वा तां कन्यां परिवर्ज्जयेत्” मत्स्य पु०। तथा श्यालिकापुत्र्या अपि पुत्र स्थानिकतया अविवाह्यत्वमुक्तं दत्तकमी० दृश्यम्। अत्र सपिण्डविषयेऽपवादः “सन्निकर्षेऽपि कर्त्तव्यं त्रिगोत्रात् परतो यदि”। मत्स्य पु०। “असम्बन्धा भवेद्मातुः पिण्डे नैवोदकेन वा। सा विवाह्या द्विजातीनां त्रिगोतान्तरिता च या”। मनुः। शूद्राणान्तु अतिदिष्टादिष्टगोत्रभागित्वेन सगोत्राविवाहो न निषिद्धः इति रघनन्दनादयः। “द्विजानामसवर्ण्णासु कन्यासूपवमस्तथा” वृह० ना० उक्तेः कलौ असवर्ण्णाविवाहनिषेधात्तद्विशेषोनाभिहितः। द क्षिणस्यां मातुलकत्योद्वाहस्तु शिष्टैरपि क्रियते तस्य स्मृतिविरुद्धत्वेऽपि किञ्चित् श्रौतं लिङ्गमास्थाय तेषांतथाचरणमिति बहवः। तस्य श्रौतलिङ्गस्यान्यार्थपरता पराशर भाष्यादौ दर्शिता। अतएव द्वारकारूपदक्षिणदेशवासिनां तथाचरणे भाग० १० स्कन्दे। “यद्यप्यनुस्मरन् वैरं रुक्मी कृष्णावमानतः। व्यतरत् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम्”। “दीहित्रायानिरुद्धाय पौत्रीं रुक्म्यददद्धरेः। रोचनां बद्ववैरोऽपि स्वसुः प्रियचिकीर्षया जानन्नधर्म्मं तद्यौनं स्नेहपाशवशानुगः”। अधर्मं जानन्नित्युक्तं तेन तस्याधर्मत्वम्। “मातुलस्य सुतामूढ्वेति” प्रागुक्तवचनाच्चतस्याधर्मत्वम् सुव्यक्तमेव। स च विवाहोऽष्टविधः “ब्राह्मोदैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः। गान्धर्वोराक्षमश्चैव पैशाचश्चाष्टमोऽधमः” मनुः एतेषां लक्षणं तत्तच्छब्दे दृश्यम्। “येन भार्य्या हृता पूर्बं कृतोद्वाहा परस्य वै” हरिवं०।

उद्वाहन = न० उद् + वह–णिच्–ल्युट्। १ पुत्रादेरुद्वाहसम्पादने २ उन्नयने ३ स्थानान्तरनयने। उद्वाह्यते स्थानान्तरं नीयतेऽनेन उद् + वह–णिच्–करणे ल्युट्। ४ उद्धारणसाधने “उद्घाटनं घटीयन्त्रं सलिलोद्वाहने प्रहेः” अमरः। उद + वह–स्वार्थे णिच्–भावे ल्युट्। ५ विवाहे। वाहनस्य हलाकर्षणस्योपरि वाहनं कर्षणं यत्र। ६ द्विहल्ये क्षेत्रे यत्र प्रथममेकवारं कृष्ट्वा पुनः कर्षणंक्रियते तादृशे क्षेत्रे हेम०।

उद्वाहनी = स्त्री उदूह्यते स्वार्थे णिच्–कर्मणि ल्युट्। वराटके (कडि) हेम०।

उद्वाहिक = त्रि० अद्वाहः प्रयोजनमस्य ठक् संज्ञापूर्वकविधेरनित्यत्वात् न वृद्धिः। विवाहसाधने मन्त्रादौ “नोद्वाहिकेषु मन्त्रेषु विधवावेदनं क्वचित्” मनुः। वृद्धौ औद्वाहिकोऽप्यत्र त्रि०।

उद्वाहित = पु० स्त्री उद्वाहोजातोऽस्य तारका० इतच्। जातविवाहे “बाले वृद्धे तथैवास्तं गते च दैत्यमन्त्रिणि। उद् वाहितायां कन्यायां दम्पत्योरेकनाशनम्” राजमा०।

उद्वाहिनी = स्त्री उद्वाहः उद्धरणं साध्यतयाऽस्त्यस्याः इनि ङीप्। रज्ज्वो मेदिनिः।

उद्विग्न = त्रि० उद् + विज–कर्त्तरि क्त। उद्वेगयुक्ते, “निमग्नोदिवग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी” भट्टिः। दुःखपरिहाराक्षमतया २ व्याकुलचित्ते, ३ क्षुभिते च!

उद्वीक्षण = न० उद् + वि + ईक्ष–भावे ल्युट्। १ ऊर्द्ध्वदृष्टौ। करणे ल्युट्। २ तत्साधने नेषो “सखीजनोद्वीक्षणकौमुदीमुखम्” रघुः।

उद्वीत = त्रि० उद् + वि + इ–क्त। विशेषेणोद्गते। (छयलापिहओया) समन्तात् प्लाविते “ततोयुधिष्टिरानीकमुद्वीतार्णवनिस्वनम्” भा० द्रो० १६ अ०।

उद्वृत्त = त्रि० उद्गतो वृत्तात् निरा० स०। १ दुर्वृत्ते। उद् + वृत–क्त। २ उत्क्षिप्ते ३ भुक्तोज्झिते। ४ अधिके। “उद्वृत्तोहि ग्रन्थः समधिकफलमाचष्टे” व्या० न्यायः। “कल्पक्षयोद्वृत्तमिवार्ण्णवाम्भः” भा० आ० प० ७। ५ क्षुभिते च “उद्वृत्तनक्रात् सहसोन्ममज्ज” रघुः।

उद्वेग = पु० उद् + विज–घञ्। १ व्याकुलचित्ततायाम् २ विरहजन्ये दुःखोद्गमे, “मनोभिः सोद्वेगैः प्रणयविहतिध्वस्तरुचयः” किरा०। “सहसोद्वेगमियं व्रजेदिति” रघुः। “शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः” मेघ०। “योजिह्वाग्रं बाधते उद्वेगं जनयति शिरोगृह्णीते नासिकाञ्च स्रावयति स कटुकः” सुश्रु०। “सङ्क्षोभेष्वप्यनुद्वेगो माधुर्य्यं परिकीर्त्तितम्” सा० द०। ३ भये च। ४ गुवाकफले न०। उद्गतोवेगोऽस्मात्। ५ निश्चले, ६ स्तिमिते ७ शीघ्रगामिनि च त्रि०।

उद्वेजन = त्रि० उद् + विज–भावे ल्युट्। १ उद्वेगे अमरः “परदाराभिमर्षेषु प्रवृत्तान्नॄन् महीपतिः। उद्वेजनकरैर्दण्डैश्चिह्नयित्वा प्रवासयेत्” मनुः तस्मै साधु छ। उद्द्वेजनीय उद्वेजके त्रि० “परिहरेदुद्वेजनीयाश्चकथाः” सुश्रु०।

उद्वेजित = त्रि० उद् + विज–णिच्–क्त। कृतोद्वेगे “उद्द्वेजिता वृष्टिभिराश्रयन्ते” कुमा०।

उद्वेदि = त्रि० उन्नता वेदिर्यत्र प्रा० ब० नतलोपः। उन्नतवेदिके। “विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम्” रघुः

उद्वेप = पु० उद् + वेप–भावे घञ्। १ उत्कम्पने। कर्त्तरि अच्। २ तद्युक्ते त्रि०। ततः तेन निर्वृत्तमित्यर्थे संङ्कुला० अण् औद्वेप तन्निर्वृत्ते त्रि०। स्त्रियां ङीप्।

उद्वेल = त्रि० उत्क्रान्तोबेलाम् अत्या० स०। १ वेलातिक्रान्ते २ मर्य्यदातिक्रान्ते “भयमप्रलयोद्वेलादाचख्युर्नैरृतोदधेः” रघु

उद्वेष्टन = न० उद् + वेष्ट–ल्युट्। १ हस्तपादयोर्बन्धने, २ उपह्वेषे च। “वक्त्रे मधुरता तन्द्रा हृदयोद्वेष्टनं भ्रमः” “हृदयोद्वेष्टनं तन्त्रा लालास्रुतिररोचकः” सुश्रु०। उद्गतं वेष्टनात् निरा० त०।। ३ उन्मुक्तबन्धने त्रि०। “कयाचिद्वेष्टन वान्तमाल्यया” रघुः कुमारश्च

उद्वोढृ = पु० उद् + वह–तृच्। परिणेतरि। “उद्बोढापि भवेत् पापी संसर्गात् कुलनायिके!। वेश्यागमनजं पाप तस्य पुंसोदिनेदिने” महानि० त०।

उध्रस = उञ्छे क्य्रा० पर० अक० सेट्। उध्रस्नाति औध्रासीत् उध्रसाम्–बभूव आस चकार।

उध्रस = उत्क्षेपे उञ्छे च (कणशआदाने) चु० सक० सेट्। उध्रसयति ते। औदिध्रसत् त

***