उदार = त्रि० उद् + आ + रा–क। १ दातरि, २ महति, ३ सरले, ५ दक्षिणे, ५ गम्भीरे, ६ असाधारणे च। “मञ्जर्य्युदारा शुशुभेऽर्ज्जुनस्य” “सतथेति विनेतुरुदारमतेः” साकेतीपवनमुदारमध्युवास” “रघुः उदारमन्ते कलभाविकस्वरैः” माघः। “ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्बचः” “तथा हि ते शीलमुदारदर्शने!” कुमा०। ततो भावे ष्यञ् औदार्य्य न० तल् उदारता स्त्री त्व उदारत्व न० तद्भावे।
उदारथि = उद् + आ + ऋ–अथिन्। ऊर्द्ध्वमागन्तरि। “करम्भ ओषधे भव पीवो वृक्व उदारथिः” ऋ० १, १८७, १०, “करम्भं कृत्वा तिर्य्यं पीवस्फाकमुदारथिम्” अथ० ४, ७, ३।
उदारधी = स्त्री उदारा धीः। १ उत्कृष्टबुद्धौ उदारा धीर्यस्य। २ उत्कृष्टबुद्धिमति त्रि० “धियः समग्रैः स गुणैरुदारधीः। रघुः। उदारा महती सर्वार्थविषयत्वात् धीर्यस्य। ३ विष्णौ पु०। “निमेषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः” विष्णु स० “यः सर्वज्ञः सर्वविदिति” श्रुतेस्तस्य सर्वार्थविषयबुद्धिमत्त्वात्तथात्वम्।
उदावर्त्त = पु० उद् + आ + वृत–घञ्। रोगभेदे तल्लक्ष्मादि सुश्रुते दर्शितं यथा
“अथात उदावर्त्तप्रतिषेधमध्यायं व्याख्यास्यामः। अधश्चोर्द्ध्वञ्च भावानां प्रवृत्तानां स्वभावतः। न वेगान् धारयेत्प्राज्ञो वातादीनां जिजीविषुः। वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः। व्याहन्यमानैरुदितैरुदावर्त्तो निरुच्यते। क्षुत्तृष्णाश्वासनिद्राणामुदावर्त्तो विधारणात्। तस्याभिधास्ये व्यासेन लक्षणञ्च चिकित्सितम्। त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः। अपथ्यभोजनाच्चापि वक्ष्यते च तथापरः। आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम्। कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरञ्च घोरम्। कुर्य्यादपानाभिहतः स्वमार्गे हन्यात्पुरीषं मुखतः क्षिपेद्वा। आटोपशूलौ परिकर्त्तनञ्च सङ्गः पुरीषस्य तथोर्द्ध्ववातः १। पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते २ नरस्य। मूत्रस्य वेगेऽभिहते ३ नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम्। मेढ्रे गुदे वङ्क्षणमुष्कवोश्च नाभिप्रदेशेष्वथ वापि मूर्द्ध्नि। आनद्धवस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्त्तेः। मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् ४ पवनात्मकाः स्युः। श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः। आनन्दजं शोकसमुद्भवं वा नेत्रोदकं ५ प्राप्तममुञ्चतो हि। शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन। भवन्ति गाढं क्षवयोर्व्विघातात् ६ शिरोऽक्षिनासाश्रवणेषु रोगाः। कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वा प्रवृत्तिः। उद्गारवेगेऽभिहते ७ भवन्ति जन्तोर्व्विकाराः पवनप्रसूताः। छर्देर्व्विघातेन ८ भवेच्च कुष्ठं तेनैव दोषेण विदग्धमन्नम्। मूत्राशये वा गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च। शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे ९। तन्द्राङ्गमर्दावरुचिः श्रमश्चक्षुधोऽभिघातात् १० कृशता च दृष्टेः। कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघातात् ११ हृदये व्यथा च। श्रान्तस्य निश्वासविनिग्रहेण १२ हद्रोगमोहावथ वापि गुल्मः। जृम्भाङ्गमर्दो ङ्गशिरोऽक्षिजाड्यं निद्राभिघातादथ १३ वापि तन्द्रा। तृष्णादितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्। शकृद्वमन्तं मतिमानुदावर्त्तिनमुत्सृजेत्। सर्वेष्वेतेषु “विधिवदुदावर्त्तेषु कृत्स्नशः। वायीः क्रियाविधातव्या स्वमार्गप्रतिपत्तये”। उद्न उदकस्यावर्त्तः। २ जलस्य स्वतोभ्रमणे। ३ स्त्रीचिह्नरोगभेदे स्त्री सा च सुश्रुते दर्शिता यथा “विंशतिर्व्यापदोयोनेर्न्निर्दिष्टा रोगसङ्ग्रहे। मिथ्याचारेण ता स्त्रीणां प्रदुष्टेनार्त्तवेन च। जायन्ते वीजदोषाच्च दैवाच्च शृणु ताः पृथक्। उदावर्त्ता तथा बन्ध्या विप्लुता च परिप्लुता। वातला चेति वातोत्था पित्तोत्था रुधिरक्षरा। वामिनी स्रंसिनी चापि पुत्त्रघ्नी पित्तला च या। अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम्। श्लैष्मिका सकपा ज्ञेया षण्डी च फलिनी तथा। महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा”। “सफेनिलमुदावर्त्ता रजः कृच्छेणमुञ्चति”।
उदावसु = पु० निमिवंश्ये नृपभेदे। “निमिः परमधर्मात्मा सर्वसत्ववतां वरः। तस्य पुत्रोमिथिर्नाम बभूवानुपमद्युतिः। तस्यापि जनकोनाम जनकस्याप्युदावसुः” रामा० निमिवंशवर्णने। अयञ्च जनकः प्रसिद्धजनकाद्भिन्न एव तत्रैवान्ते “स्वर्ण्णरोम्णोऽभवच्चापि ह्रस्वरोमा सुतो बली। तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः। ज्येष्ठोऽहमनुजश्चायं भ्राता भम कुशध्वज इति” दशरथं प्रति स्वकुलकीर्त्तने जनकोक्तौ अहं शब्देनात्मनः कीर्त्तनेन ततो भेदप्रतीतेः।
उदास = पु० उद् + अस–घञ्। १ उत्पेक्षणे २ निरसने ३ उपेक्षायाञ्च।
उदासीन = त्रि० उद् + आस–शानच्। १ मध्यस्थे, २ विवदमानयो रेकतरपक्षानवलम्बके, जिगीषोर्नृपतेः शत्रुमित्रभूमितो व्यवहिते परतरे, अरिशब्दे ३५५ पृ० दर्शिते “मण्डला- द्बहिरेतस्मादुदासीनोबलाधिकः” इत्युक्त लक्षणे ३ राजभेदे। ४ उपेक्षके च “उदासीनवदासीनः” गीता०।
उदास्थित = पु० उद् + आ + स्था–क्त। १ द्वारप्राले २ चरे ३ अध्यक्षे च हेम० प्रव्रज्यारूढपतिते ४ प्रव्रज्यावसिते चरे च स च पञ्चविधचरान्तर्गतः। प्रव्रज्यावसितः प्रव्रज्यारूढपतित एव। तल्लक्ष्मादि “कृत्स्नं चाष्टविधं कर्म पञ्चवर्गञ्च तत्त्वतः” इति मनुवचनस्य कुल्लू० व्याख्यायाम्
“कापटिकोदास्थितगृहपतिवैदेहिकतापसव्यञ्जनात्मकं पञ्चविधं चारवर्गं पञ्चवर्गशब्दवाच्यं तत्त्वतश्चिन्तयेत्” इति संक्षेपेणोक्त्वा। तत्र परमर्म्मज्ञः प्रगलभच्छात्रः कपटव्यवहारित्वात्कापटिकस्तं वृत्त्यर्थिनमर्थमानाभ्यामुपगृह्य रहसि राजा ब्रूयात् “यस्य दुर्वृत्तम्पश्यसि तत्तदानीमेव मयि वक्तव्यमितिं। प्रव्रज्यारूढपतित उदास्थितः तं लोकेषुविदितदोषं प्रज्ञाशौचयुक्तं वृत्त्यर्थिनं ज्ञात्वा रहसि राजा पूर्ववद्ब्रूयात् बहूत्पत्तिकमठे स्थापयेत् प्रचुर शस्योत्पत्तिकम्भूम्यन्तरञ्च तद्वृत्त्यर्थमुपकल्पयेत् सचान्येषामपि पब्रजितानां राजचारकर्मकारिणां ग्रासाच्छादनादिकं दद्यात्। कर्षकः क्षीणवृत्तिः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनस्तमपि पूर्ववदुक्त्वा स्वभूमौ कृषिकर्म्म कारयेत्। बाणिजकः क्षीणवृत्तिः वैदेहिकव्यञ्जनस्तम्पूर्ववदुक्त्वा धनमानाभ्यामात्मीकृत्य बाणिज्यं कारयेत्। मुण्डोजठिलोवा वृत्तिकामस्तापसव्यञ्जनः सोऽपि क्वचिद्ग्रामे वसन् बहुमुण्डजटिलान्तरकपटशिष्यगणवृतो गुप्तराजोपकल्पितवृत्तिः तपस्यां कुर्य्यात् मासद्विमासान्तरितं प्रकाशं वदरादिमुष्टिमश्नीयात् रहसि च राजोपकल्पितं यथेष्ट माहारं कल्पयेत्। शिष्याश्चास्यातीतानागतज्ञागादिकं ख्यापयेयुः तेन बहुलोकवेष्टनमासाद्य सर्वेषां विश्वसनीय त्वात् सर्वे कार्य्यमकार्य्यञ्च पृच्छन्ति। एवंरूपं पञ्चवर्गं यथावच्चिन्तयेत्” विशेषेणोक्तम्।
उदाहरण = न० उद् + आ–हृ–भावे ल्युट्। एकदेशप्रसिद्ध्या सकलसिद्ध्यर्थं १ कथने। कर्मणि ल्युट्। इष्टसिद्ध्यर्थमुच्यमाने २ दृष्टान्ते, “त्वदुदाहरणाकृतौ गुणा इति सामुद्रिकसारमुद्रणा” नैव० प्रकृतसिद्ध्यर्थं निदर्शनरूपे ३ उपोद्घाते च। उदाह्रियेते व्याप्तिपक्षधर्म्मते येन करणे ल्युट् न्यायमते प्रतिवादिपराजयार्थं वादिना प्रयुक्तप्रतिज्ञादिपञ्चकान्तर्गते व्याप्तिपक्षधर्म्मताप्रदर्शके ४ वाक्यभेदे प्रतिज्ञादय गौ० सू० वृत्त्योर्दर्शिता यथा
“प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः”। अनेन विभागेन प्रतिज्ञाद्यन्यतमत्वमिति लक्षणं सूचितम् अत्र च प्रतिज्ञादीनां पञ्चानामवयवत्वकथनाद्दशावयववादोव्युदस्त इति मन्तव्यं ते च भाष्ये दर्शिता यथा “जिज्ञा सा संशयः शक्यप्राप्तिः प्रयोजनं सशयव्युदासश्चेति” एते प्रतिज्ञादिसहिता दश” व्याख्यातं चेदं तात्पर्य्यटीकायाम् “प्रयोजनं हानादिबुद्धयः तत्प्रवर्त्तिका जिज्ञासा, तज्जनकः संशयः, शक्यप्राप्तिः प्रमाणानां ज्ञानजननसामर्थ्यं, संशयव्युदासस्तर्कः, अयमेवार्थोनिबन्धे निष्टङ्कितः। जिज्ञासा विप्रतिपत्तिरिति कश्रित् एतेषाञ्च न न्यायावयवत्वं न्यायाघटकत्वात्। न न्यायजन्यबोधानुकूलत्वेनैवा वयवत्वं एकदेशस्यापि तत्त्वप्रसङ्गात् प्रयोजनेऽतिव्याप्तेश्च” वृत्तिः। तत्र उदाहरणलक्षणविभागौ तत्रैव दशितौ यथा
“साध्यसाधर्म्म्यात्तद्धर्म्मभावी दृष्टान्तौदाहरणम्” सू०। “दृष्टान्तौदाहरणमिति लक्षणं दृष्टान्तवचनं दृष्टान्तकथनयोग्यावयव इत्यर्थः तेन दृष्टान्तस्य सामयिकत्वेनासार्वत्रिकत्वेऽपि न क्षतिः। योग्यतावच्छेदकन्तु अवयवान्तराथानन्वितार्थकावयवत्वं तच्च द्विविधं अन्वयिव्यतिरेकिभेदात्तत्रान्वय्युदाहरणं लक्षयति साध्यसाधम्म्योत्तद्धर्म्मभावीति अन्थय्युदाहरणमिति शेषः परे तु सम्पूर्णसूत्रमन्वय्युदाहरण लक्षणमेव सामान्यलक्षण तूह्यमित्याहुः साध्यसाधर्म्म्या त्साध्यसहचरितधर्म्मात् प्रकृतसाधनादित्थर्थः तं साध्यरूपं धर्म्मं भावयति तथा च साधनवत्ताप्रयक्तसाध्यवत्तानुभावकोऽवयवः साध्यसाधनव्याप्त्युपदर्शक उदाहरणमिति यावत्। व्यतिरेक्युदाहरणं लक्षयति” वृ०। “तद्विपर्य्यायाद्वा विपरीतं व्यतिरेक्युदाहरणम्” सू०। तद्विपर्य्ययात् साध्यसाधनव्यतिरेकव्याप्तिप्रदर्शनात्तथा च साध्यसाधनव्यतिरेकव्याप्त्युपदर्शकोदाहरणं व्यतिरेक्युदाहरणं यथा जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् यन्नेवं तन्नैवं यथा घट इति। वाकारः प्रयोगमपेक्ष्य तथा चान्वय्युदाहरणं व्यतिरेक्युदाहरणं वा प्रयोक्तव्यतिमित्यर्थः” वृ०। चिन्तामणिकृता तु तल्लक्षणादिकमुक्तं यथा “हेतावुक्ते कथमस्य गमकत्वमित्याकाङ्क्षायां व्याप्तिपक्षधर्म्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तत्प्रदर्शनायोदाहरणं तत्रानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानजनकव्याप्यत्वाभिमतवन्निष्ठनियतव्यापकत्वाभिमतसम्बन्धबोधजनकशब्दत्वमुदाहरणत्वं सामान्यलक्षणम् साध्यसाधनसम्बन्धबोधकत्वं, साध्यसाधनाभावसम्बन्धबोधकत्वञ्च विशेषलक्षणद्वयम्। न्यायावयवदृष्टान्तवचनमुदाहरणमिति तु म दृष्टान्तप्रयोगस्य सामयिकत्वेनासार्व्वत्रिकत्वात्, योयोधूमवान् सोऽग्निमानित्येव व्याप्तिप्रतीतेः। नापि प्रकृतानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानविषयव्याप्त्युपनायकं वचनं तत्, उपनयातिव्याप्तेः। उपनयाभिधानप्रयोजकजिज्ञासाजनकबाक्यमुदाहरणम् एतदेवान्वयव्यतिरेकिव्याप्तिविषयत्वविशेषित विशेषलक्षणद्वयमित्यन्ये, अत्र च व्यभिचारवारणाय वीप्सामाहुः यत्र च सामानाधिकरण्यादेव व्याप्तिस्तत्र न वीप्सा केबलान्वयिन्यभेदानुमाने च वीप्सायामपि व्यभिचारतादवस्थ्यमिति तु वयं, वीप्सा च यत्पद, न तपदेऽपि विरुद्धरूपोपस्थितयोरपि तत्पदेन परामर्शाद्बुद्धिस्थवाचकत्वादिति न व्युत्पत्तिविरोधः यथा “यद्यत् पापं प्रतिजहि जगन्नाथ! नम्रस्य तन्म इत्यादौ”।
दीधितिकृता तु निष्कृष्योक्तम्। इतरार्थान्वितस्वार्थाबोधकन्यायावयवत्वमुदाहरणत्वम् अन्वयव्याप्तियोधक तत्त्वं व्यतिरेकव्याप्तिबोधकतत्त्वञ्च विशेषलक्षणद्वयमिति”। ४ कथाप्रसङ्गे च। “अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु” कुमा० “उदाहरणानि कथाप्रसङ्गाः तान्येववस्तूनि” मल्लि०। भावे ल्युट्। ५ कथनमात्रे। ६ लक्षणसम्बद्धतया प्रामाणिकवाक्योपन्यासे च।
उदाहार = पु० उद् + आ + हृ–घञ्। उदाहरणार्थे। क्तिन्। उदाहृति तत्रार्थे उक्तौ च स्त्री।
उदाहृत = त्रि० उद् + आ + हृ–क्त। १ दृष्टान्ततयोपन्यस्ते, २ कथिते च “श्रुतान्वितो दशरथ इत्युदाहृतः” भट्टिः। प्रामाणिकप्रयुक्ततया ३ उपन्यस्तेच।
उदित = त्रि० वद–क्त। १ कथिते। “श्रुतिस्मृत्युदितं धर्मम्” मनुः भावे क्त। २ कथने न० “पियः कियद्दूरमिति त्वयोदिते” नष० उद्–इण्–क्त। ३ उत्थिते, “तदुदितः स हि यो यदनन्तरः” नैष०। ४ उदयं प्राप्ते “उदिते जुहोति अनुदिते जुहोति” श्रुतिः “उदितेऽनुदिते चैव समयाध्युषिते तथा” मनुः। “उदिते जगतीनाथे यः कुर्य्याद्दन्तधावनम्” स्मृतिः। “उदितं सोमनक्षत्रं दृष्टा सद्यः शुचिर्भवेत्”। पारस्क० उदयप्राप्तिश्च ग्रहादौ भूवृत्तपादान्तरितदेशोपरिस्थे एव भवति सा च दिवा न भवति सहस्नांशुकराभिभूतत्वेन दर्शनयोग्यचाभावात्। तथा च दर्शनयोग्ये ग्रहादौ तच्छब्दस्य वृत्तिः। “उदिते मृतिसद्मेशे” नील० क० “चतुथ्योमुदितश्चन्द्रोनेक्षितव्यः कदाचन” इति व्याख्याने “उदितः कथितः” इति अर्द्धोदितव्यावृत्तिपरं वेति ति० त० उक्ते ५ मम्पूर्णोदिते च त्रि० भावे क्तः। ६ राशीनामुदये उग्ने। कर्त्तरिक्त। उदयं प्राप्ते ७ राशी च। “लक्ष- मेकन्तु दोषाणां हन्याच्चैवोदिते गुरुः” ज्योति० ८ नरपतिजयचर्य्योक्ते स्वरभेदे स च भुक्तावशिष्टःस्वरः यथा। “द्वादशाब्दादिनाड्यन्ताः स्वस्थानाच्चैव कालतः। उदयन्ते पुनस्तत्रान्तरे एकादशोदयैः। वर्षमासदिवानाडीपलानि च क्रमादिकम्। कालमानं मया प्रोक्तं पञ्चधा च स्वरोदये। यत् भुक्तं स्वस्वभोगेन लब्धं शेषोदितं भवेत्। लब्धे भुक्ताः स्वरा ज्ञेयाः शेषाङ्के तूदितस्वराः। अस्मिन् षष्ठ्या विभक्ते तु भुक्तं स्यादुदितस्वरे। उदितस्य स्वरस्य स्युर्नामस्वरवशेन तत्”। अधिकं चक्रशब्दे बालादिचक्रे बक्ष्यते। पञ्चस्वरोक्ते ९ स्वरभेदे च। तल्लेखन प्रकारश्च बालादिचक्रवत ज्ञेयः। तदप्युक्तं तत्रैव। “तिथिः प्रतिपदादिश्च कुजादिर्वारनिर्णयः। नन्दा भदा जयारिक्ता पूर्ण्णा चापि यथाक्रमम्। क्रमेणाङ्काः प्रदातव्या ग्राह्यश्चाङ्कसमुच्चयः। चन्द्राष्टौ ८१ प्रथमे देया नगनागं ८७ द्वितीयके। तृतीये चाग्निनवकं ९३ चतुर्थे तु ग्रहग्रहाः ९९। पञ्चोत्तरशतं १०५ देयम् क्रमेण पञ्चकोष्ठतः। अङ्कग्रहणन्तु “वयोराशिं स्वराङ्कञ्च एकीकृत्य त्रिधार्पयेत्”। इत्यादि सप्तादिशून्यगणनार्थं, सप्तशून्यशब्दे विवृतिः। एतेषां पञ्चकोष्ठस्थवर्ण्णादीनां संज्ञा तत्रैवोक्ता यथा “उदितं भ्रमितं भ्रान्तं सन्ध्यास्तं तदनन्तरम्” सं ज्ञान्तरमपि तत्रैव “जन्म कर्म्म च आधानं पिण्डं छिद्रं तथैव चेति “उदिते विजयोनित्यं भ्रमिते लाभ एव च। भ्रान्ते तु सिद्धिमाप्नोति सन्ध्यास्ते मरणं स्मृतम्। यत्र नामाक्षरं प्राप्तं तत्रैव उदितस्वरः। १० समृद्धे। “पुरोहितञ्च कुर्व्वीत दैवज्ञमुदितोदितम्” या० स्मृ०। विद्याभिजनानुष्ठानादिभिरुदितैः शास्त्रोक्तैरुदितं समृद्धम्” मिता०। ११ वालनामगन्धद्रव्ये ह्रीवेरे (बाला) न० अमरः।
उदिति = स्त्री उद् + इ–क्तिन्। उदये उद्गमने “यज्ञस्य वा मिशितिं वोदितिं वा” ऋ० ६, १५, ११।
उदीक्षण = न० उद + ईक्ष–ल्युट्। १ ऊर्द्ध्वदर्शने २ उद्भावने च।
उदीक्ष्य = अव्य० उद् + ईक्ष–ल्यप्। १ ऊर्द्ध्वं दृष्ट्वेत्यर्थे २ उद्भाव्येत्यर्थे च। कर्मणि ण्यत्। ३ उद्भावनीये ४ उदीक्षणीये च त्रि०
उदीचीन = त्रि० उदीचि उदीच्यां वा मवः खः उद्यादेशे अल्लोपे पूर्ब्बदीर्षः। उत्तरदिग्देशकालभवे। “उदीचीनप्रबणे करोत्युदीत्ती वै मनुष्याणां दिक्” शत० ब्रा० १३८, १, ६। “उदीचानदशं वै तत्पवित्र भवति” शत० ब्रा० १, ७, १, १३।
उदीच्य = त्रि० उदच् + भवार्थे यत् उद्यादेशः अल्लोपे दीघः उत्तरदिग्देशकालभवे। “शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव” रघुः। २ कर्मसमाप्तौ कर्त्तव्ये दक्षिणादिदानादिरूपे कर्मादौ च। “अश्वतरीरथानुदीच्येषु” कात्या० २२, २, २५। “अश्वतरीयुक्तान् रथानुदीच्येषु ददाति” कर्कः। यथा होमादौ प्रकृतहोमानन्तरं कर्त्तव्योदकाञ्जलिसेकदि। यथाह सं० त० “अथोदीच्यकर्म, तत्र गोभिलः। “समिधमाधायानुपर्य्युक्ष्य तथैवोदकाञ्जलीन् सिञ्चेत् अन्वमंस्थाः” इति यथायथमूह्यम्। उदीच्यदेशाश्च शरावत्याः पश्चिमोत्तरस्था देशभेदास्ते च मत्स्यपुराणे दर्शिताः यथा “वाह्लीका वाटधानाश्च आभीराः कालतोयकाः। परन्ध्राश्चैव शूद्राश्च पह्लवाश्चात्मखण्डिकाः। गान्धारा जवनाश्चैव सिन्धुसौवीरमद्रकाः। शका द्रुह्याः पुलिन्दाश्च पारदा हारमूर्त्तिकाः। रामठाः कण्ठकाराश्च केकया देशभानिकाः। क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च। आत्रेयोऽथ भरद्वाजः प्रस्थलाः सदशेरकाः। लम्पकास्तलगानाश्च सैनिकाः सहसाकुजैः एते देशा उदीच्यास्तु पुराणैः परिकीर्त्तिताः”। वृहत्सं० कूर्म्मविभागे तु अन्येएव ते उक्ता यथा “उत्तरतः कैलासो हिमवान्वसुमान् गिरिर्धनुष्मांश्च। क्रौञ्चो मेरुः कुरवस्तयोत्तराः क्षुद्रमीनाश्च। केकयवसातियामुनभोगप्रस्थार्जुनायनाग्नीध्राः। आदर्शान्तद्वीपित्रिगर्ततुरगाननाश्वमुखाः। केशधरचिपिटनासिकदासेरकवाटधानशरधानाः। तक्षशिलापुष्कलावतकैलावतकण्ठधानाश्च। अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः। माणहलहूणकोहलशीतकमाण्डवभूतपुराः। गन्धारयशोवतिहेमतालराजन्यखचरगव्याश्च। यौधेयदासमेयाःश्यामाकाः क्षेमधूर्त्ताश्च” अनयोर्विरोधपरिहारः अपेक्षाभेदात् नामान्तरानुल्लेखाच्च बोध्यः।
उदीच्यवृत्ति = स्त्री “षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः। न समात्र पराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः” इत्युपक्रम्य “उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः” वृ० र० उक्ते वैतालीयभेदे छब्दसि।
उदीप = त्रि० उद्गता आपोयतः अच् समा० ईत्वम्। उद्गतजले देशे।
उदीरण = न० उद् + ईर–ल्युट्। १ उच्चारणे “उद्घातः प्रणवोयासां न्यायैस्त्रिभिरुदीरणम्” कुमा० युच् तत्रैव स्त्री।
उदीरित = त्रि० उद् + ईर–क्त। १ कथिते २ उद्रिक्ते ३ प्रेरिते च। “अभिलाषमुदीरितेन्द्रियः” कुमा०। भावे क्त। ४ कथने न०।
उदीर्ण = त्रि० उद्–ऋ–क्त। १ उदिते २ महति ३ उद्रिक्ते च। “उदीर्णरागप्रतिरोधकं मुहुः” माघः। “भवल्लब्धवरो- दीण्णस्तारकाख्यो महासुरः” कुमा०। ४ विष्णौ पु०। “उदीर्ण्णः सर्वतश्चक्षुरनीशः शाश्वतःस्थिरः” विष्णु० स०।
उदुत्य = न० उदुत्यमितिपदयुक्तम्। सृर्य्योपस्थानार्थे मन्त्रे स च सन्ध्याप्रयोगे दृश्यः “उद्वयन्तमुदुत्यञ्च चित्रं देवेति तत्परम्। तच्चक्षुरित्युपस्थानं मन्त्रा ब्रध्नस्य सिद्धिदाः। काशीख०।
उदुम्बर = पु० उडुम्बरवत्। (यज्ञडुमुर) १ वृक्षे। २ देहल्यां ३ नपुंसके ४ कुष्ठभेदे च ५ ताम्रे न०। ६ अशीतिरत्तिकापरिमिते कर्षे पु०। उडुम्बरशब्दे उदा०। “यदुदुम्बरवर्णानां घटीषु मण्डलं महत्। शीतं न गमयेत् स्वर्गं किन्तत् क्रतुगतं नयेत्”। सौत्रमणीयागे सुरापाणदुष्टत्वबोधकम्। “ह्रीवेरचक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम्”। कच्छुरामूलकल्कं वा उदुम्बरफलोपमम्” सुश्रुतः। ७ साल्वजनपदावयवे च। “साल्वावयवेत्यादि” पा० ततोभवाद्यर्थेइञ्। औदुम्बरि तद्भवे त्रि० “साल्वावयवा उदुम्बरादयः” सि० कौ० उदुम्बर एव स्वार्थे अण् तस्मिन् ग्रामे। “औदुम्बरकापिष्ठलगजाह्वयश्चेति मध्यमिदम्” वृ० सं०। उदुम्बरे कृमिः पात्रेसमि० स०। उदुम्बरकृमिः तन्मध्यस्थकृमौ। उडुम्बर इव मशकः पात्रेसमिता० स। स्थूलमशके पु०
उदुम्बरदला = स्त्री उदुम्बरस्येव दलमस्याः। दन्तीवृक्षे राजनि०
उदुम्बरपर्ण्णी = स्त्री उडुम्बरपर्णीवत् सर्वम् न डत्वम्। तदर्थे
उदुम्बरावती = स्त्री उदुम्बफलानि बाहुल्येन सन्त्यस्यां नद्यां मतुप् संज्ञायां दीर्घः। नदीभेदे।
उदुम्बल = पु० उदुम्बरशब्दे रस्य वा लः। उदुम्बरे “उपेषन्तमुदुम्बलम् तुण्डेलमुतमुशालुदम्” अथ० ८, ६, १७,। उरुब लमस्य पृषो०। २ विस्तीर्णबलयुक्ते त्रि० उरूणसावसुतृषा उदुम्बलौ यमस्य दूतौ चरतोजना~ अनु” ऋ० १०, १४, १२, “उदुम्बलौ उरबलौ विस्तीर्णबलौ” भा०।
उदूखल = न० ऊर्द्ध्वं खं लाति ला–क पृषो० नि०। तण्डुलादि कण्डनार्थं काष्ठादिरचिते १ द्रव्ये, २ गुग्गुलौ च। “सधान्यमुदूखलं मुषलेनाभिहन्यात्” सुश्रु०। सुश्रुतोक्ते शारीरे २ सन्धिभेदे पु० सन्धयश्च सुश्रु० दर्शिताः “कोरोदूखलसामुद्गप्रतरतुन्नसेवनी वायसतुण्डमण्डल शङ्खावर्त्ताः” इत्यष्टविधान् सन्धीनुक्त्वा “कक्षावङ्खणदशनेषूदूखल इति उदूखलाकृतित्वाच्च तदस्थिकुहरस्य तथात्वम्।
उदूढ = त्रि० उद् + वह–क्त। १ ऊढे, २ स्थूले, ३ धृते च। “उदूढलोकत्रितयेनेति” माघः। “उदूढवक्षःस्थगितैकदिङ्मुखे” किरा० ४ विवाहितस्त्रियां स्त्री।
उदृच् = स्त्री उत्कृष्टा ऋक् समासान्तविधेरनित्यत्वात् न समा०। उत्कृष्टायामृचि। “मा पातमास्य यज्ञस्योदृचः मा पाह्यं हस आऽस्य यज्ञस्योदृचः” यजु० ४, ९, १० “उदृचः उत्तमाया ऋचः पर्यन्तम्” वेददी०। यजुर्भिर्यज्ञस्योदृचं गच्छन्ति यज्ञस्योदृचं गच्छानीति” शत० ब्रा० ३, १, १, १२ उद् + ऋचनुतौ क्विप्। २ उदये “सत्याः सन्तु यजमानस्य कामाः इत्याहै ष वै कामो यजमानस्य यदनार्त्त उदृचं गच्छति” तैत्ति० “स्वस्ति ते देव सोम सुत्यामुदृचमशीय” ऐत०
उदेजय = त्रि० उद् + एज–णिच्–खश्। उद्वेगकारके “उदेजयान् भूतगणान् न्यषेधीत्” भट्टिः।
उदौदन = पु० उदकेन सिद्ध ओदनः उदादेशः। जलमात्रसिद्धे उदकशब्दे उदा०।
उद्गत = त्रि० उद् + गम–क्त। १ उदिते, २ उत्पन्ने, “वयीऽतिपातोद्गतवातवेपिते” नैष०। ३ ऊर्द्ध्वगते, ४ उद्वान्ते च।
उद्गतशृङ्ग = पु० उद्गतमुत्यितं शृङ्गमस्य। जातशृङ्गावस्थापशौ
उद्गति = स्त्री उद् + गम–क्तिन्। १ उदये २ ऊर्द्ध्वगतौ ३ उत्पत्तौ च।
उद्गन्धि = त्रि० उत्कृष्टो गन्धोऽस्य प्रा० ब० कृष्टलोप इत्समा०। १ उत्कृष्टगन्धाढ्ये २ उत्कटगन्धयुक्ते च। “विजम्भणोद्गन्धिषु कुद्मलेषु” रघुः।
उद्गम = पु० उद्–गम–घञ् अमन्तत्वात् न वृद्धिः। १ उदये २ ऊर्द्ध्वगतौ ३ उद्भवे ४ उन्नतौ च। “रोमोद्गमः प्रादुरभूदुमायाः” कुमा० “फलेन सहकारस्य पुष्पोद्गम इव प्रजाः” रघुः। “हरिततृणोद्गमशङ्कया मृगीभिः” किरा० भावे ल्युट्। उद्गमनमप्यत्र न० “आङ उद्गमने” पा०
उद्गता = स्त्री “सजसादिमे सलघुके च नसजगुरुकेऽप्यथोद्गता। अङ्घ्रिगतभनजलगागयुताः सजसा जगौ च चरणमेकतः पठेत्” वृ० र० उक्ते विषमवृत्ते छन्दोभेदे।
उद्गमनीय = न० उद् + गम–अनीयर्। धौतवस्त्रद्वये “गृहीतपत्युद्गमनीयवस्त्रेति” कुमारः। “तत् स्यादुद्गमनीयंयत् धौतयोर्वस्त्रयोर्वुगम्” इत्यमरव्याख्यायां युगमित्यविवक्षितम् इति प्रायशः यल्लक्ष्यं तदेवेति व्याख्याय क्षीरस्वामी इममेव श्लोकमुदाजहार। “गृहीतं पतिं प्रति उद्गमनायं वस्त्रं ययेति मल्लि०। स्त्रीणाञ्चैकवस्त्रधारित्वं लोकप्रसिद्धं वैदिके कर्म्मणि एव द्विवस्त्रता अतएव पतिं प्रतीतीत्यध्याहृत्य व्याख्यातम्। “धौतोद्गमनीयवाससी” दशकुमा०।
उद्गाढ = न० उद् + गाह–क्त। १ अतिशये २ अत्यन्ते। ३ अतिशययुक्ते त्रि०। “प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयाः” सा० द०।
उद्गातृ = पु० उच्चैर्गायति साम उद् + गै–तृच्। १ सामवेद- गायके। अस्य च उद्गीथरूपसामावयवस्योच्चैर्गानादुद्गातृत्वम्। यथा चास्य तथात्वं तथा उद्गीथशब्दे बक्ष्यते। षोडशसु ऋत्विक्षु मध्ये २ ऋत्विग्भेदे। ते च ऋत्विजः अच्छावाकशब्दे ५४ पृ० दर्शिताः। “रथं हरेदथाध्वर्य्यु र्ब्रह्माधाने च वाजिनम्। होता चापि हरेदश्वमुद्गाता चाप्यनः क्रये” मनुः। राजसूये तस्य च दक्षिणाभेद उक्तः “सीवर्ण्णी स्रगुद्गातुः” आश्व० ९, ४, ९। उद्गातृप्रशंसनपूर्ब्बं तत्कर्म्म च शत० ब्रा० दर्शितं यथा। “गृणाति ह वा एतद्धोता यच्छंसति। तस्मा एतद्गृणते प्रत्येवाध्वर्युरागृणाति तस्मात् प्रतिगरोनाम। तं वै प्राञ्चमासीनमाह्वयते सर्वे वा अन्य उद्गातुः प्राञ्च आर्त्विज्यं कुर्वन्ति तथो हास्यैतत् प्रागेवार्त्विज्यं कृतं भवति। प्रजापतिर्वा उद्गाता। योषऽग्र्घोता स एतत् प्रजापतिरुदुगाता योषायामृचि होतरि रेतः सिञ्चतियत्स्तुते तद्धोता शस्त्रेण प्रजनयति तच्छ्यति यथायं पुरुषः शितस्तद्यदेनच्छ्यति तस्माच्छस्त्रं नाम” ४, ३, १, १, २, ३,। उद्गीथगानकर्त्तृत्वाच्च यथाऽस्योद्गातृत्वं तथोक्तं छा० उ०। “तस्यर्क् च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गार्तवास्य हि गाता” “एवमेवोद्गातारमुवाचोद्गातः! या देवतोद्गीथमन्वायत्ता ताञ्चेदविद्वान् उद्गास्यसि मूर्द्धा ते विपतिष्यतीति” च। तथाज्ञानपूर्व्वकोद्गानस्य फलमपि तत्रोक्तं यथा “य एवदेवं विद्वान् साम गायति उभौ स गायति सोऽमुनैव स एष ये चामुष्मात् पराञ्चोलोकास्तांश्चाप्नोति देवकामांश्च अथानेनैवमेवैतस्मादर्व्वाञ्चोलोकास्तांश्चाप्नोति मनुष्यकामांश्च। तस्मादुहैवं विदुद्गाता ब्रूयात् कं ते काममागानीति एष ह्येव कामागानस्येष्टे य एतदेवं विद्वान् साम गायति” छा० उ०।
उद्गार = पु० उद् + गॄ + ऋदोरपं बाधित्वा उन्न्योर्ग्रः” पा० घञ्। उद्वमने। “खर्जुरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु” रघुः। “सलिलोद्गारमुच्चैर्विमानाः” “धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति” मेघ०। “सनिर्झरोद्गार इवाद्रिराजः” रघुः। (डेकुर) इति २ कण्ठशब्दभेदे च। “धूमीद्गारे तथा वान्ते क्षुरकर्मणि मैथुने। भृतके सूतके चैव नित्यं नैमित्तिकं त्यजेत्” आ० त० स्मृतिः। वमनप्रकारः निदानादिसहितः सुश्रुते दर्शितो यथा
“अथातो वमनविरेचनव्यापच्चिकित्सितं व्याख्यास्यामः। वैद्यातुरनिमित्तं वमनं विरेचनं च पञ्चदशधा व्यापद्यते तत्र वमनस्याधोगतिरूर्द्ध्वं विरेचनस्येति पृथक्। समान- मुभयोः सावशेषौषधत्वं जीर्णौषधत्वं हीनाधिकदोषापहृतत्वं वातशूलमयोगातियोगौ जीवादानमाध्मानं परिकर्त्तिका परिस्रावप्रवाहिका हृदयोपसरणं विबन्धः इति। तत्र बुभुक्षापीडितस्यातितीक्ष्णाग्नेर्मृदुकोष्ठस्य चावतिष्ठमानं दुर्व्वलस्यवा गुणसामान्यभावाद्वमनमधोगच्छति। तत्रेष्मितानवाप्तिर्दोषोत्कर्षश्च तमाशु स्नेहयित्वा भयस्तीक्ष्णतरैर्वामयेत्। अपरिशुद्धामाशयस्योत्कृष्टश्लेष्मणः सशेषान्नस्य वाऽहृद्यमतिप्रभूतविरेचगं पीतमूर्द्ध्वं गच्छति तत्राशुद्धामाशयमुल्वणश्वेष्माणमाशु वामयित्वा भूयस्तीक्ष्णतरैर्विरेचयेत्। आमान्वये त्वामवत्सं विधानम्। अहृद्योऽतिप्रभूते च हृद्यं प्रमाणं युक्तञ्च। अतऊर्द्ध्वमुत्तिष्ठत्यौषधे न तृतीयं पाययेत्। ततस्त्वेनं मधुघृतफाणितयुक्तैर्लेहैर्व्विरेचयेत्। दोषविग्रथितमल्पमौषधमवस्थितमूर्द्ध्वभागिकमधोभागिकं वा न स्रंसयति दोषान्। तत्र तृष्णापार्श्वशूलं छर्द्दिर्मूर्च्छापर्वभेदोहृल्लासारत्युद्गाराविशुद्धिञ्च भवति। तमुष्णामिरद्भिराशु वामयेत्। सावशेषौषधमतिप्रधावितदोषमतिबलमसम्यग्विरिक्तमप्येवं वामयेत्। क्रूरकोष्ठस्यातितीक्ष्णाग्नरल्पमौषधमल्पगुणं वा भक्तवत्पाकमुपैति तत्र समुदीर्णा दोषा यथाकालमनिर्ह्रियमाणा व्याधिं बलविभ्रमञ्चापादयन्ति। तमनल्पममन्दमौषधञ्च पाययेत्। आस्नग्धस्विन्नेनाल्पगुणं वा भेषजमुपयुक्तमल्पान्दोषान्हन्ति। तत्र वमने दोषशेषः गौरवमुत्क्लेशं हृदयाविशुद्धिं व्याधिवृद्धिं करोति तत्र यथायोगं पाययित्वा वामयेद्दृढतरम्। विरेचन गुदपरिकर्त्तनमाध्मानं शिरोगौरवमनिस्मरणं वा वायोर्व्याधिवृद्धिं करोति। तमुपपाद्य भूयः स्नेहस्वेदाभ्यां विरेचयेद्दृढतरम्। दृढं बहुप्रचलितदोषं वा तृतीये दिवसेऽल्पगुणं चेति। अस्निग्धस्विन्नेन रूक्षमौषधमुपयुक्तमब्रह्मचारिणा वा वायुं कोपयति। तत्र वायुः प्रकुपितः पार्श्वपृष्ठश्रोणिमन्यामर्म्मशूलं मूर्च्छां भ्रमं संज्ञानाशञ्च करोति। तमभ्यज्य धान्यस्वेदेन स्वेदद्यित्वा यष्टीमधूकविपक्वेन तैलेनानुवासयेत्। स्नेहस्वेदाभ्यामविभावितशरीरेणाल्पमौषधमल्पगुणं वा पीतमूर्द्धमघोवा नाभ्येति दोषांश्चोत्क्लिश्य तैः सह बलक्षयमापादयति। तत्राध्मानं हृदयग्रहस्तृष्णा मूर्च्छा दाहश्च भवति तमयोगमित्याचक्षते तमाशु वामयेन्मदनफललवणाम्बुभिर्विरेचयेत्तीक्ष्णतरैः कषायैश्च। दुर्वान्तस्य तु समुत्क्लिष्टा दोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठपिडकाज्वराङ्गमर्दनिस्तोदनानिं कुर्वन्ति। वतस्तानवशेषान्महौषधेनापहरेत्। अस्निग्षस्विन्नस्य मृदु- विरिक्तस्याधोनाभेः स्तब्धपूर्णोदरता शूलं वातपुरीषसङ्गः कण्डूमण्डलप्रादुर्भावो भवति तमास्थाप्य पुनः संस्नेह्य विरेचयेत्तीक्ष्णेन। नातिप्रवर्त्तमाने तिष्ठति वा दुष्टसंशोधने तत्सन्तेजनार्थमुष्णोदकं पाययेत् पाणितापैश्च पार्श्चोदरमुपस्वेदयेत्। ततः प्रवर्त्तन्ते दोषाः। अनुप्रवृत्तेचाल्पदोषे जीर्णौपधं बहुदोषमहःशेषं बलञ्चावेक्ष्य भूयोमात्रां विदध्यात्। अप्रवृत्तदोषं दशरात्रादूर्द्ध्वमुपसं स्कतदेहं स्नेहस्वदाभ्यां सयः शोधयेत्। दुर्विरेच्यमास्थाप्य पुनं संस्नेह्य विरेचयेत्। ह्रीमयलोभैर्वेगाघातशीलाः प्रायशः स्त्रियो राजसमीपस्था सणिजः श्रोत्रियाश्च भवन्ति। तस्मादेते दुर्विरेच्या बहुवातत्वादत एव तानतिस्निग्धान् स्वेदोपपन्नान् शोधयेत्। स्निग्धस्विन्नस्यातिमात्रमतिमृदुकोष्ठस्य वा तीक्ष्णाधिकदत्तमौषधमतियोगं कुर्य्यात्। तत्र वमनातियोगे पित्तातिप्रवृत्तिर्ब्बलविस्रंसो वातकोपश्च बलवान् भवति तं घृतेनाभ्यज्यावगाह्यावगाह्य शीतास्वप्सु शर्करामधुभिश्रैर्लेहैरुपचरेद्यथास्वम्। विरेचनातियोगे कफस्यातिप्रवृत्तिरुत्तरकालञ्च सरक्तस्य तत्रापि बलविस्रसो वातकोपश्च बलवान् भवति तमतिशीताम्बुभिः पारषिच्यावगाह्य वा शीतैस्तण्डुलाम्बुभिर्म्मधुमिश्रैश्छर्द्दयेत्। पिच्छावस्तिं चास्मै दद्यात् क्षीरसर्पिषा चैनमनुवासयेत् प्रियङ्ग्वादि चास्मै तण्डुलाम्बुना पातुं प्रयच्छेत्। क्षीररसयोश्चान्यतरेण भोजयेत्। तस्मिन्नेव वमनातियोगे प्रवृद्धे शोणित ष्ठोवति छर्दयति वा तत्र जिह्वानिःसरणमक्ष्णोर्व्यावृत्तिर्हनुस हननं तृष्णा हिक्काज्वरा वैसंज्ञ्यमित्युपद्रवा भवन्ति तमजासृक्चन्दनोशीराञ्जनलाज चूर्णैः सशर्करोदकैर्मन्थं पाययेत्। पलरसैर्व्वा सघृतक्षौद्रशर्करैः शुङ्गाभिर्वा वटादीनां पेयां सिद्धां सक्षौद्रां वर्च्चोग्राहिभिर्वा पयसा जाङ्गलरसेन वा भोजयेत् अतिस्रुतशोणितविधोनेनोपचरेत्। जिह्वामतिसर्पितान्त्रिकटुकलवणचूर्णप्रघृष्टां तिलद्राक्षाप्रलिप्तां वा पीडयत् प्रविष्टायामम्लमन्ये तस्य पुरस्तात्स्वादयेयुः। व्यावृत्ते चाक्षिणो घृताभ्यक्ते पीडयेत्। हनुसंहनने वातश्लेष्महरं नस्यं स्वेदाश्च विदध्यात्। तृष्णादिषु च यथास्व प्रतिकुर्वीत। विसंज्ञे वेणुवीणागीतस्वनं श्रावयेत्”।
उद्गारस्याजीर्ण्णरोगालङ्गत्वमिद्गिरणशब्दे वक्ष्यते। अपय्यादिभोजनरूपकारणसहिताजीणं स्वरूपादि सुश्रते उक्तम्। “प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत। पूर्व्वभुक्तो विदग्धेऽन्ने भुञ्जानो हन्ति पावकम्। मात्रागुरुं परिहरे- दाहारं द्रव्यतश्च यः। पिष्टान्नं नैव भुञ्जीत मात्रया वा बुभुक्षितः। द्विगुणञ्च पिवेत्तोयं सुखं सम्यक् प्रजीर्य्यति। पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम्। गुरूणामर्द्धसौहित्यं लधूनां तृप्तिरिष्यते। द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते। द्रवाढ्यमपि शुष्कन्तु सम्यगेवोपपद्यते। विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति। पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति। स्रोतस्यन्नवहे पित्तं पक्तौं वा यस्य तिष्ठति। विदाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते। शुषकं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत्। आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः। अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः। अत्यम्बुपाद्राद्विषमाशताद्वा सन्धारणात्स्वप्तविपर्य्ययाच्च। कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य। ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन। प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति। माधुर्य्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमम्लभावम्। किञ्चिद्विपछं भृशतोदशूलं विष्टब्धमाबद्धविरुद्धवातम्। उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य। रसावशेषेण तु सप्रसेकं चतुर्थमेतत्प्रवदन्त्यजीर्णम्। मूर्च्छाप्रलापो वमथुः प्रसेकः सदनं भ्रमः। उपद्रबा भवन्त्येते मरणं चाप्यजीर्णतः। तत्रामे लङ्घन कार्य्यं विदग्धे वमनं हितम्। विष्टब्धं स्वेदनं पथ्यं रसशेषे शयीत च। वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना। कार्य्यं चानशनं तावद्यावन्न प्रकृतिं भजेत्। लघुकायमतश्चैनं लङ्घनैः समुपाचरेत्। यावन्न प्रकृतिस्थःस्याद्दोषतः प्राणतस्तथा। हिताहितोपसंयुक्तमन्नं समशनं स्मृतम्। बहु स्तोकमकाले वा विज्ञेयं विषमाशनम्। अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते। त्रयमेतन्निहन्त्याशु बहून् व्याधीन् करोति वा। अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति। तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात्। विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कण्ठगलञ्च यस्य। द्राक्षाऽभयां माक्षिकसम्पयुक्तां लीढ्वाऽभयां वा स सुखं लभेत। भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले। प्रातः स शुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितं हितार्थी। स्वल्प यदा दोषविबद्धमामं लीनं न तेजः पथमावृणोति। भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दवुद्धिं विषवन्निहन्ति।
इथमजीर्णताकारणप्रदर्शनपूर्वमुद्गारशुद्धेः प्रकारस्तत्रैव दर्शितः यथा “या मात्रा परिजार्य्योत चतुर्भागगतेऽहनि। सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता। या मात्रा परिजीर्य्येत तथार्द्धदिवसे गते। सा वृष्या वृहणी चैव मध्यदोषे च पूजिता। या मात्रा परिजीर्य्येत चतुर्भागावशेषिते। स्नेहनीया च सा मात्रा बहुदोषे च पूजिता।। या मात्रा परिजीर्येत तथा परिणतेऽहनि। ग्लानिमूर्च्छामदान्हित्वा सा मात्रा पूजिता भवेत्। अहोरात्रादसन्दुष्टाया मात्रा प्ररिजींर्यति। सा तु कुष्ठविषोन्मादग्रहापस्मारनाशिनी। यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः। पीतो ह्यतिबहुस्नेहो जनयेत्प्राणसंशयम्। मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति। विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत्। जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत्। तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा। स्युः पच्यमाने तृडुदाहभ्रमसादारतिक्लमाः। परिषिच्याद्भिरुष्णाभिजींर्णस्नेहं ततो नरम्। यवागूं पाययच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम्। देयौ यूषरसौ वापि सुगन्धी स्नेहववर्ज्जित्त्रौ। कृतौ वात्यल्पसर्पिष्कौ यवागूर्वा विधोयते। पिबेत्त्य्रहं चतुरहं पञ्चाहं षडहं तथा। सप्तरात्रात्परं स्नेहः सात्मीभवति सेवितः”।
उद्गारश्च नागवायुकार्य्यम् यथोक्त पदार्था० योगार्णवे “उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः। उन्मीलने स्थितः कूर्म्मोभिन्नाञ्जनसमप्रभः। कृकलस्तु क्षुते चैव जवाकुसुमसन्निभः। जृम्भणे देवदत्तःस्यात् शुद्धस्फटिकसन्निभः। धनञ्जयस्तथा घोषे महारजतवर्ण्णकः। ललाटे चोरसि स्कन्धे हृदि नाभौ त्वगस्थिषु। नागाद्या वायवः पञ्चदेहे तु परिवेष्टिताः”।
उद्गारशोधन = पु० उद्गारं शोधयति शुध–णिच्–ल्यु। कृष्णजिरके शब्दचि०।
उद्गारिन् = त्रि० उद् + गॄ–णिनि स्त्रियां ङीप्। उद्गारयुक्ते। “यत्ते मौलौ कनककपिशं सौरभोद्गारि वासः” उद्द्धवदू०। “धारास्वनोद्गारिदरीसुखोऽसौ” रघुः। “यः पण्यस्त्रीरति परिमलोद्गारिभिर्नागराणाम्” मेघ०।
उद्गिरण = न० उद् + गॄ–ल्युट् नि० इत्त्वम्। १ उद्वमने। उद्गारे (ढेकुर) २ कण्ठस्वरभेदे च। “आध्मानमुद्गिरणमन्नरसो विदाहोऽजीर्णस्य पानजनितस्य भवन्ति लिङ्गम्” सुश्रु०। उद्गारशब्दे विवृतिः।
उद्गीति = स्त्री उद् + गै–भावे क्तिन्। १ उच्चैर्गाने कर्मणि क्तिन्। “आर्य्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः। सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता” वृ० र० उक्ते मात्रा- वृत्तभेदे। उद् + गै–भावे क्त। उद्गीत उच्चैर्गाने न०।
उद्गीथ = पु० उद् + गै–थक्। सामगानावयवभेदे। “उद्गीथरम्यपदपाठवताञ्च साम्राम्” देवीम०। साम्नोहि पञ्चविधाः सप्तविधा वा अवयवाः। “प्रस्तावस्तत उद्गीथः प्रतिहार उपद्रवः। निधनं पञ्चधेत्याहुर्हिङ्कारः प्रणवस्तथा” माध० भाष्यधृतवाक्यात्। तत्र साम्र आद्योभागः प्रस्तोत्रा गेयः प्रस्तावनामा। द्वितीयोभाग उद्गात्रा गेय उद्गीथनामा। तृतीयोभागः प्रतिहर्त्त्रा गेयः प्रतिहारनामा। चतुर्थोभागः पुनरुद्गात्रा गेय उपद्रवनामा। पञ्चभिर्युगपत् गेयः निधननामा इति पञ्चविधः। गानार म्भकाले सर्वैरृत्विग्भिर्मिलित्वा हुङ्कारकरणरूपो हिङ्कारः, ओङ्कारपूर्व्वकत्वात् सर्वेषां वेदानां प्रणवरूपः प्रथमावयवः इति सप्तावयवयत्वं तदेतत् छा० उप० दर्शितम् यथा “समस्तस्य खलु साम्न उपासनं साधु” इति साधुत्वोपन्यासेन “अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनमित्यूर्द्धेषु अथावृत्तेषु द्यौर्हिङ्कार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी निधनम्,। कल्पन्ते हास्मै लोका ऊर्द्ध्वा श्चावृत्ताश्च य एतदेवं विद्वाल्लो~केषु पञ्चविधं सामोपास्ते” वृष्टौ पञ्चविधस्योपासनमुक्तं तत्रैव
“वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिङ्कारो, मेघो जायते स प्रस्तावो, वर्षति स उद्गीथो, विद्योतते स्तनयति स प्रतिहारः, उद्गृह्णाति तन्निधनं, वर्षति हास्मै वर्षयति ह य एतदेवंविद्वान् वृष्टौ पञ्चविधं सामोपास्ते। सर्व्वास्वप्सु पञ्चविधं सामोपासीत मेघो यत् सम्प्लवते स हिङ्कारो, यद्वर्षति स प्रस्तावो, याः प्राच्यः स्यन्दन्ते स उद्गीथो, याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम्। न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवंविद्वान् सर्व्वास्वप्सु पञ्चविधं सामोपास्ते”। ऋत्वादिषु पञ्चविधस्योपासनं तत्रैवोक्तम्
“ऋतुषु पञ्चविधं सामोपासीत वसन्तो हिङ्कारो, ग्रीष्मः प्रस्तावो, वर्षा उद्गीथः, शरत्प्रतिहारो, हेमन्तो निधनम्। कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतदेवं विद्वानृतुषु पञ्चविध सामोपास्ते”।
“पशुषुपञ्चविधं सामोपासीताजा हिङ्कारो,ऽवयः प्रस्तावो, गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम्। भवन्ति हास्य पशवः, पशुमान् भवति य एतदेवंविद्वान् पशुषु पञ्चविधं सामोपास्ते”
“प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिङ्कारो, वाक् प्रस्ताव, श्चक्षुरुद्गीथः, श्रोत्रं प्रतिहारो, मनो निधनं, परोवरीयांसि वैतानि। परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवंविद्वान् प्राणेषुपङ्कविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य”। वाचि सप्तविधस्य साम्र उपासनं तत्रैवोक्तम्
“अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत यत्किञ्च वाचो हुं इति स हिङ्कारो, यत्प्रेति स प्रस्तावो, यदेति स आदिः, (प्रणवः)। यदुदिति स उद्गीथो, यत्प्रतीति स प्रतिहारो, यदुपेति स उपद्रवो, यन्नीति तन्निधनम्। दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतदेवं विद्वान्वाचि सप्तविधं सामोपास्ते”। आदित्ये सप्तविधस्योपासनं तत्रैवोक्तम्
“अथ स्वल्वमुमादित्यं सप्तविधं सामोपासीत सर्व्वदा समस्तेन साम। मां प्रतिमां प्रतीति सर्व्वेण समः तेन साम। तस्मिन्निमानि सर्व्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिङ्कार, स्तदस्य पशवोऽन्वायत्तास्तस्मात्ते हिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः। अथ यत्प्रथमोदिते स प्रस्ताव, स्तदस्य मनुष्या अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनोह्येतस्य साम्नः। अथ यत्सङ्गववेलायां स आदित्यः (ओङ्कारः) तदस्य वयांस्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः। अथ यत्सम्प्रति मध्यन्दिने स उद्गीथ, स्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः। अथ यदूर्द्ध्वं मध्यन्दिनात् प्रागपराह्णत्स प्रतिहार, स्तदस्य गर्भा अन्वायत्तास्तस्मात्ते प्रतिहृता नावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः। अथ यदूर्द्ध्वमपराह्णात् प्रागस्तमयात्स उपद्रव, स्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनी ह्येतस्य साम्नः। अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तन्निदधति निधनभाजिनो ह्येतस्य साम्नः। एवं खल्वमुमादित्यं सप्तविधं सामोपास्ते”। अतिमृत्युफलाय सप्तविधसामोपासनं तत्रैवोक्तम्
“अथ खल्वात्मसम्मितमतिमृत्यु सप्तविधं सामोपासीद हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम्। आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम्। उद्गीथ इति त्र्यक्षरमुपद्रव इति चतु- क्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम्। निधनमिति त्र्यक्षरं तत्सममेव भवति, तानि ह वा एतानि द्वाविंशतिरक्षराणि। एकविंशत्यादित्यमाप्नोत्येकविंशो वा इतोऽसावादित्यो द्वाविंशेन परमादित्याज्जयति तन्नाकं तद्विशोकम्। आप्तोतीहादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य एतदेवंविद्वानात्मसम्मितमतिमत्यु सप्तविधं सामोपास्ते सामोपास्ते”।
पुनः पञ्चविधस्य मनआदिनाम्रा उपासनं तत्रोक्तं यथा “मनो हिङ्कारोवाक्यस्तावच्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम्। स य एवमेद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, महामनाः स्यात्तद्व्रतम्। अभिमन्थति स हिङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधनं संशाम्यति तन्निधनमेतद्रथन्तरमग्नौ प्रोतम्। स य एवमेतद्रथन्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत्तद्व्रतम्। उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सहं शेते स उद्गीथः प्रतिस्त्री सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम्। स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनीभवति मिथुनान्मिथुनात् प्रजायते सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, न काञ्चन परिहरेत्तद्व्रतम्। उद्यन् हिङ्कारः उदितः प्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं यन्निधनमेतद्वृहदादित्ये प्रोतम्। स य एवमेतद्वृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, तपन्तं न निन्देत्तद्व्रतम्। अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम्। स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपांश्च सुरूपांश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या वर्षन्तं म निन्देत्तद्व्रतम्। वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम्। स य एवमेवद्वैराजमृतुषु प्रोत वेद विराजति प्रजया पशुभिर्ब्रह्मवर्च्चसेन, सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, ॠतून्न निन्देत्तद्व्रतम्। पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्कर्यो लोकेषु प्रोताः। स य एवमेताः शक्कर्यो लोकेषु प्रोता वेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, लोकान्न निन्देत्तद्व्रतम्। अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गोथोऽश्वाः पतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः। स य एवमेता रैवत्यं पशुषु प्रोता वेद, पशुमान् भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, पशून्न निन्देत्तद्व्रतम्। लोम हिङ्कारः त्वक् प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम्। स य एवमेतद्यज्ञा यज्ञीयमङ्गेषु प्रोतं वेदाङ्गीभवति नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्मवति महान् कीर्त्त्या, संवत्सरं मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो नाश्नीयादिति वा। अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेताद्राजनं देवतासु प्रोतम्। स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानां सलोकतां सार्ष्टितां सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, ब्राह्मणान्न निन्देत्तद्व्रतम्। त्रयी विद्या हिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्वस्मिन् प्रोतम्। स य एवमेतत्साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति। तदेष श्लोको भवति ‘यानि पञ्चधा त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति। यस्तद्वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति’ सर्वमस्मीत्युपासीत तद्व्रतम्”।
एवं सामावयवानां तत्तद्दष्ट्योपासनमुक्त्वा उद्गीथरूपावयवस्य ओङ्कारादिदृष्ट्योपासनयुक्तं तत्रैव यथा “ओमित्येतदक्षरमुद्गीथः तद्वा एतन्मिथुनं यद्वाक् च प्राणश्चर्क च साम च। तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम्। आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते। तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चा- नुजानात्योमित्येव तदाह एषो एव समृद्धिर्यदनुज्ञा समर्द्धयिता ह वै कामानां भवति य एतदेवंविद्वानक्षरमुद्गोथमुपास्ते। तेनेयं त्रयी विद्या वर्त्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन। तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद। नाना तु विद्या चाविद्या च। यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्य्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति”। तस्य प्राणदृष्ट्या उपासन मुक्त तत्रैव “देवासुरा ह वैयत्र संयेतिरे उभये प्राजापत्यास्तद्व देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति। ते ह नासिक्य प्राणमुद्गीथमुपाञ्चक्रिरे तं हासुराः पापना विविधुः तस्मात्तेनोभयं जिंघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः। अथ ह वाचमुद्गीथमुपसाञ्चक्रिरे तां हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यञ्चानृतं च पाप्मना ह्येषा विद्धा। अथ ह चक्षुरुद्गोथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम्। अध ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयञ्चाश्रवणीयञ्च पाप्मना ह्यतद्विद्धम्। अथ ह मन उद्गीथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं सङ्कल्पते सङ्कल्पनीयञ्चासङ्कल्पनीयञ्च पाप्मना ह्येतद्विद्धम्। अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणम्नत्वा विध्वंसेत। एवं यथाश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते य एवं विदि पापं कामयते यश्चैनमभिदासति स एषोऽश्माखणः। नैवैतेन न सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्यष तेन यदश्नाति यत्पिबति तेनतरान् प्राणानवति। एतमु एवान्ततोऽवित्वोत्क्रामति व्याददात्येवान्तत इति”। अङ्गिरस्त्वेन तस्योपामनं तत्रैवोक्तम् यथा। “तं हाङ्गिरा उद्गीथमुपासाञ्चक्र एतमु एवाङ्गिरस मन्यन्ते अङ्गानां यद्रसः। तेन तं ह वृहस्पतिरुद्गीथमुपासाञ्चक्र एतमु एव वृहस्पतिं मन्यन्ते वाग्घि वृहती तस्या एष पतिः। तेन तं हायस्यमुद्गीथमुपासाञ्चक्र एतमु एवा यास्यं मन्यन्त आस्याद्यदयते। तेन तं ह वको दाल्भ्यो विदाञ्चकार। स ह नैमिषोयाणामुद्गाता बभूव स ह स्मैभ्यः कामानागायति। आगाता ह वै कामानां भवति य एतदेवंविद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन् वा एष प्रजाभ्य उद्गायति। उद्यंस्तमोभयमपहन्त्यपहन्ता ह वै भयस्य तममो भवति य एवं वेद। समान उ एवायञ्चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुञ्चोद्गीथमुपासीत”।
तस्य व्यानत्वेनोपासनं तत्रैव यथा
“अथ खलु व्यानमेवोद्गोथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः। अथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक्। तस्मादप्राणन्ननपानन्वाचमभिव्याहरति। या वाक् सर्क् तस्मादप्राणन्ननपानन्नृचममिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपानन् साम गायति यत्साम स उद्गोथस्तस्मादप्राणन्ननपान्नुद्गायति। अतो यान्यन्यानि वीर्य्यवन्ति कर्म्माणि य थाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्न नपानंस्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत”।
उद्गीथाक्षराणां प्राणादित्वेनोपासनं तत्रोक्तम्। “अथ खलूद्गीथाक्षराण्युपासीत उद्, गी थ” इति प्राण एवोत्, प्राणेन ह्युत्तिष्ठतिवाग्गी, र्वाचो ह गिर इत्याचक्षते अन्नं थम्, अन्ने हीदं सर्वं स्थितम्। द्यौरेवोत्, अन्तरिक्षंगीः, पृथिवी थम्, आदित्य एवोत्, वायुर्गीरग्निस्थम्, सामवेद एवोत्, यजुर्वेदो गीः, ऋग्वेदस्थं, दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः अन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद् गो थ इति”। तस्य प्रणवत्वेनोपासनं तत्रैव “अथ खलु य उद्गीथः स प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुस माहरतीति”। तस्य परोववीयस्त्वेनोपासनं तत्रोक्तं यथा “त्रयो होद्गीथे कुशला बमूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोदगीथे कथां वदाम इति। तथेति समुपविबिशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति। स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच। का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होबाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच। अपां का गतिरित्यसौ लोक इति होवाच अमुष्य लोकस्य का गतिरिति न स्वर्गं लोक मतिनयेदिति होवाच स्वर्गं वयं लोकं सामाभिसंस्थापयामः स्वर्गसंस्तावं हि सामेति। तं ह शिलकः शालावत्यश्चैकितायनं दालभ्यमुवाचाप्रतिष्ठित वै किल ते दाल्भ्य! साम यस्त्वेतर्हि ब्रूयान्मूर्द्धा ते विपतिष्यतीति मूर्द्धा ते विपतेदिति। हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाच अमुष्य लोकस्य का गतिरित्ययं लोक इति होवाच अस्य लोकस्य का गतिरिति न पतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः पतिष्ठासंस्तावं हि सामेति। तं ह प्रबाहणो जैवलिरुवाचान्तवद्धै किल ते शालवत्य! साम, यस्त्वेतर्हि ब्रूयान्मूर्द्धा ते विपतीष्यतीति मूर्द्धा ते विपतेदिति हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाच। अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्। स एष परो वरीयानुद्गीथः स एषोऽनन्तः परोवरीयो हास्य भवति परोवरीयसोह लोकान् जयति य एतदेवंविद्वान् परोवरीयां समुद्गोथमुपास्ते। तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरोयो हैभ्यस्तावदस्मि~ल्लोके जीवनं भविष्यति। तथा मुष्मि~ल्लोके लोक इति स य एतमेवंविद्वानुपास्ते परोवरीय एव हास्यास्मि~ल्लोके जीवन भवति तथाऽमुप्मि~ल्लोके लोक इति लोके लोक इति” उद्गीथस्य देवताऽपि तत्रोक्ता “अथ हैनमुद्गातोपससादोद्गातः या देवतोद्गीथमन्वायत्ता ताञ्चेदविद्वानुद्गास्यसि मूर्द्ध्वा तेंविपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति। आदित्य इति होवाच सर्वाणीह वा इमानि मूतन्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता ताञ्चेदविद्वानुदगास्यो मूर्द्धा ते व्यपतिष्यक्तथोक्तस्य मयेति”। अत्राकाशादित्यशब्दौ ब्रह्मपरौ आकाशस्तल्लिङ्गादित्यादि” शा० सू० भा० व्यवस्थापितम्।
उद्गीर्ण्णं = त्रि० उद् + गॄ–क्त। १ उद्वान्ते २ उद्गमिते। “प्रशमादर्च्चियामेतदनुद्गीर्ण्णसुरायुधम्” कुमा० “वलयकुलिशोदषट्टनोद्गीर्ण्णतोयम्” मेघ०।
उद्गूर्ण्ण = त्रि० उद् + गुरी–क्त। उद्यते डत्तोलिते “उद्गूर्ण्णल गुडाश्मभिः” स्मृतिः
उद्ग्रथित = त्रि० उद् + ग्रन्थ–क्त। उत्तोल्य ग्रथिते
उद्ग्रन्थ = त्रि० उद्गतोग्रन्थात् निरा० स०। १ उन्मुक्ते २ बन्धनोन्मुक्ते। उद + ग्रन्थ–घञ्। ३ उन्मोचने पु०।
उद्ग्रभण = न० उद् + ग्रह–ल्युट् वेदे हस्य वा भः। १ उद्धृत्यग्रहणे २ ऊर्द्धंविगृह्य दाने च “प्रतिमन्त्रञ्चोद्ग्रभणं तस्मिं स्तस्मिन्” कात्या० १६, ५, ११, भत्वाभावे उद्ग्रहणमप्यत्र। “तस्योद्ग्रहणायेव स्यात्” शत० ब्रा० १४, ५, ४, १२
उद्ग्राभ = पु० उद् + ग्रह–घञ वा वेदे हस्य भः। १ उद्धृत्य ग्रहणे २ ऊर्द्ध्वं विगृह्यदाने च। “वाजस्य माप्रसव उद्ग्राभेणोदग्रभीत्” यजु० १७, ६३, “उद्ग्राभेण ऊर्द्धं विगृह्य दीयते इद्ग्रभणम् दानम्” वेददी०। भत्वाभावे उद्ग्राहोऽप्युक्तार्थे २ बादभेदे च। उद्ग्राहमल्लः।
उद्ग्राहिणी = स्त्री उद् + ग्रह–णिनि ङीप्। पाशाख्यरज्ज्वौ स्वार्थे कन् अतैत्त्वम्। उद्ग्राहणिकाप्यत्र।
उद्ग्राहित = त्रि० उड्व + ग्रह–णिच्–क्त। १ उपन्यस्ते, २ बद्धे ३ उदीर्णे, ४ प्रत्यायिते, ५ ग्राहिते च मेदि०।
उद्घ = पु० उद् + हन–अप् नि०। १ हस्तपुटे, २ वह्नौ, देहवायौ, ३ प्रशंसायां ४ प्रशस्ते च “पिप्रायाद्रिगुहोपघ्नानुद्घान् संघसमागताम्” भट्टिः। अस्य च प्रशंसावचनतया जातिवाचकेन “प्रशसाचनैश्च” पा० समासे जातिवा चकस्य पूर्व्वनिपाते गवोद्घः अजोद्घ इत्यादि “उद्घादयश्च नियतलिङ्गा न तु विशेष्यलिङ्गाः” सि० कौ०।
उद्घट्टन = न० उद् + घट्ट–ल्युट्। उद्घर्षणेन चालने। युच्। उद्घट्टनापि तत्रैवार्थे स्त्री। “तत्रावश्यं वलयकुलिशोद्घट्टनीद्गीर्ण्णतोयम्” मेघ०।
उद्घन = पु० ऊर्द्धं निवेस्य हन्यतेऽत्र उद् + हन–आधार अप् नि०। काष्ठादितक्षणसाधनेऽधःस्थकाष्ठादौ यदुपरि निधाय काष्ठादिकं हन्यते तत्र। “लौहोद्घनघनस्कन्धा ललितापघनां स्त्रियम्” भट्टिः।
उद्घर्षण = न० उद् + घृष–ल्युट्। इष्टकादिकठिनादि द्रव्यैः गात्रादिमार्ज्जने। “उदघर्षणं तु विज्ञेयं कण्डू कीटमलापहम्” सुश्रु० “सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्व तेजनम्। उदघर्षणोत्सादनाभ्यां जायेयातामस शयम्” सुश्रु०। घञ् उद्घर्षोऽप्यत्र पु०।
उद्घस = न० उद् + घस कर्म्मणि अच्। मांसे हारा०।
उद्घाट = पु० उदघाट्यते प्रच्छादितवस्तु दर्शनार्थमत्र उद् + घटणिच्–आधारे अच्। प्रच्छादितस्य पण्यादिद्रव्यस्य दर्शनार्थोदघाटनाधारे राजस्थापिते गृहभेदे (चौकीघर)
उद्घाटक = पुंन० ० द् + घट–णिच्–ण्वुल्। कूपात् जलोद्धा रणार्थे (अरघट्) (घुरना) इति ख्याते यन्त्रभेदे। उदघाटनकारिणि त्रि० णिनि तत्रैव स्त्रियां ङीप्। “उद् घाटिनी कुञ्जिका” प्रसन्नरा० करणे ल्युट्। उद्घाटन तत्साधने न०। भावे ल्युट्। उद्घाटन प्रतिबन्धनिरासे, कृतबन्धस्य बन्धापकरणे च न० (खोला)।
उद्घाटित = त्रि० उद् + घट–णिच्–क्त। १ अपावृते आच्छादनरहिते प्रकाशिते आवरणरहिते कृतोद्घाटने।
उद्घाटितज्ञ = पु० उद्घाटितं प्रकाशितं यथा तथा जानाति ज्ञा–क। विज्ञे।
उद्घात = पु० उद् + हन–घञ्। (ठोकरलागा) १ प्रतिघाते। “यथावनुद्घातसुखेन मार्गम्” रघुः। “ययावनुद्घातसुखेन सोऽध्वना” माघः। “उद्घातिनी भूमिरिति रश्मिसंयमनात्” शकु०। “प्राणेन प्रेर्य्यमाणेन अपानः पीद्ध्यते यदि। गत्वा चोर्द्ध्वं निवर्त्तेत एतदुद्घातलक्षणम्” इत्युक्ते २ प्रागवायुनाऽपानाभिघाते। नाभिमूलात् प्रेरितस्य वायोर्विरिच्यमानस्य शिरस्यभिहननमुद्घात इत्युच्यते। ३ आरम्भे “उद्घातः प्रणवोयासाम्” कुमा० “आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः” रघुः। ४ उत्तुङ्गे ५ मुद्गरे ६ शास्त्र ग्रन्थपरिच्छेदे।
उद्घुषित = त्रि० उद् + घुष–रवे इट्। १ कृतोद्घोषे २ प्रकटिताभिप्राये वाक्ये न० अशब्दे तु उद्घुष्ट। उद्बद्धे मेदि०।
उद्घोष = पु० उद् + घुष–घञ्। उच्चशब्दकरणे “दोषोद्घोष भ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत्” सा० द०।
उद्दंश = पु० उद्दशति उद् + दन्श–अच्। मस्तकदंशके (उकुण) कीटभेदे।
उद्दण्ड = त्रि० दण्डोदमनम् नियमनम् उत्क्रान्तोदण्डम् अत्या० स०। १ प्रचण्डे। उन्नतो दण्डो यस्य। २ उन्नतदण्डयुक्ते त्रि० “उद्दण्डपद्म गृहदीर्घिकाणाम्” रघु०। “उद्दण्डधवलच्छत्रः” हितो०। प्रा० स०। ३ उन्नतदण्डे पु०
उद्दण्डपाल = पु० उन्नतदण्ड उद्दण्डः सैव पाल्यते पालकर्मणि घञ्। उन्नतदण्डाकारे १ सर्पभेदे २ मत्स्यभेदे च मेदि०
उद्दन्तुर = त्रि० उत्तुङ्गे। १ उन्नते २ उच्चदन्तान्विते च।
उद्दान = न० उद + दो–भावे ल्युट्। १ बन्धने अमरः “उद्दाने क्रियमाणे तु मत्स्यानां तत्र रज्जुभिः” भा० शा० १३७ अ० २ उद्यमे ३ चूल्ल्यां ४ बाडवानले ५ मध्ये ६ लग्ने च पु० विश्वः
उद्दान्त = त्रि० उद् + दम–क्त। अतिदमिते।
उद्दाम = त्रि० उद्गतं दाम्नः अच्समा०। १ बन्धनरहिते, “गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः” भा० व० १४६ अ०। अप्रतिनियमे २ स्वतन्त्रे ३ अत्युग्रे च। “उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि” मेघ० “नदत्याकाश गङ्गाया स्रोतस्युद्दामदिग्गजे” रघुः उत्कृष्टं श्रेष्ठं दाम पाशाख्यमस्त्रं यस्य। ४ वरुणे पु० ४ गम्भीरे त्रि० “उद्दामभावपिशुनामलवद्गुहास्वित्यादि” भाग० १ स्क०। ६ दण्डकभेदे च्छन्दोभेदे पु० “यदि न युगलं ततः सप्तरेफास्तदा दण्डवृद्धि प्रयातो भवेद्दण्डकः। प्रतिचरणविवृद्धरेफाःस्युरर्ण्णार्ण्णव व्यालजीमूतलीलाकरोददामशङ्खादयः” इति वृत्तर०।
उद्दाल = पु० उद् + दल + णिच्–अच्। १ बहुवारकवृक्षे, २ वनकोद्रवे “भोज्याः पुराणश्यामाककोद्रवोद्दालशालयः” सुश्रु०
उद्दालक = पु० उद्दलयति भूमिमुद्भिनत्ति + उद् + दल–णिच्ण्वुल्। १ वनकोद्रवे उत्पन्ने तु शिलाजत्वित्याद्युपक्रम्य “मद्गकोरदूषकश्यामाकोद्दालकादीनां विरुक्षणच्छेदनीयानाञ्चद्रव्याणां विधिवदुपयोगः” “अथ सर्वेषां प्राणिनामयमाहारार्थं वर्ग उपदिश्यते। तद्यथा रक्तशालिषष्टिकगङ्गुमुकुन्दकपाण्डुकपीतकप्रमोदककालकाशनकपुष्पककर्द्दमकशकुनाप्तुतसुगन्धकलमनीवारककोद्रवोद्दालकश्यामाकगोधूमवेणुयवादयः” इति च सुश्रुतः। आयोदधौम्यशिष्ये आरुणौ २ ऋपिभेदे। तस्य तन्नामकत्वप्राप्तिः भा० आ० ३ अ० उक्ता “यथा एतस्मिन्नन्तरे कश्चिदृषिर्धौम्योनामायीदधौम्यस्तस्य शिष्यास्त्रयो बभूवुः उपमन्युरारुणिर्वेदश्चेति। स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास गच्छ केदारखण्डं बधानेति। स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत् केदारखण्डं बद्धुं नाशकत्। स तत्र क्लिश्यमानोऽपश्यंदुपायं भवत्वेवं करिष्यामीति। स तत्र संविवेश। केदारखण्डे शयाने च तथा तस्मिंस्तदुदकं तस्थौ। ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् क्क आरुणिः पाञ्चाल्यो गत? इति। ते तं प्रत्यूर्चुभगन्। प्रेषितो गच्छ केदारखण्डं बधानेति। स एवमुक्तस्तान् शिष्यान् प्रत्थुवाच तस्मात् तत्र सर्वे गच्छामो यत्र स गत इति। स तत्र गत्वा तस्याह्वानाय शब्दञ्चकार। भो आरुणे। पाञ्चाल्य क्वासि वत्स! एहीति। स तत्श्रु० त्वारुणिरुपाध्यायवाक्यं तस्मात् केदारखण्डात् सहसा उत्थाय तमुपाध्यायमुपतस्थे। प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्द श्रुत्वैव सहसा विदार्य्य केदारखण्डं भवन्तमुपस्थितः। तदभिवादये भगवन्तमाज्ञापतु भवान् कमर्थम् करवाणीति। स एवमुक्त उपाध्यायः प्रत्युवाच यस्मात् भवान् केदारखण्डं विदार्योत्यितः तस्मादुद्दालक एव नाम्ना भवान् भविष्यतीति उपाध्यायेनानुगृहीतः”। “उद्दालकोहारुणिः श्वेतुकेतुं पुत्रमुवाच” छा० उ० “उद्दालकाद्युद्दालकोऽरुणादरुण” इति वृ० उ०।
उद्दालकपुष्पभञ्जिका = स्त्री उद्दालकानां पुष्पाणि भज्यन्ते यत्र क्रीडायाम् ण्वुल्। क्रीडाविशेषे यत्र उद्दालकपुष्पभञ्जनं क्रियते तस्यां क्रीडायाम्।
उद्दालकव्रत = न० उद्दालकं पापनाशकं व्रतम्। पतितसावित्रीकस्य कार्य्ये वशिष्ठोक्ते व्रतभेदे “पतितसावित्रीक उद्दालकव्रतं चरेत्। द्वौ मासौ यावकेन वर्त्तयेन्मासं माक्षिकेणाष्टरात्र घृतेन षड्रात्रमयाचितं त्रिरात्रमब्भक्षोऽहोरात्रमुपवसेत् इति” वशिष्ठः। मिता० प्रा० वि० उद्दालव्रतमित्येव पाठः संहिताग्रन्थे उद्बालकेति पाठः प्रामादिकः।
उद्दालकायन = पु० उद्दालकस्य गोत्रापत्यं फक्। ऋषिभेदे श्वेतकेतौ। तस्य तत्पुत्रत्वमुद्दालकशब्दे उक्तम्।
उद्दालवत् = पु० उद्दाली मूकेदारभेदः प्रकाशस्थानतया विद्यतेऽस्य मतुप्। उद्दालके ऋषौ। “यवमान् कृषिरुद्दालवान् धानान्तर्वान्” शत० ब्रा० ११, २३, ९।
उद्दास = पु० उद् + दास–घञ्। उत्पीडने ततः बला० अस्त्यर्थेमतुप् इनिर्वा। उद्दासवत् उद्दासिन् तद्वति त्रि० स्त्रियां ङीप्।
***