वाचस्पत्यम्
उदर to उदाप
links:
Menu अ–ह
Prev उदग–उदय
Next उदार–उद्दा
उदर
उदा
उदात्तर
UpasanaYoga
.org

उदर = न० उद् + ऋ–अप्। १ जठरे नाभिस्तनयोर्मध्यभागे। “दश स्थानानि दण्डस्येत्युपक्रम्य “उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमौ। चक्षुर्नासा च कर्ण्णौ च धनं देह स्तथैवच” मनुः। “मस्तकोदरपृष्ठनाभिललाटनासाचिवुकवस्तिग्रीवाइत्येता एकैकाः” शरीरविभागे सुश्रुतः। “उदरञ्च गुदौ कोष्ठ्यौ विस्तारोऽयमुदाहृतः” या० स्मृ०। “उदरेऽन्नपक्तिः” शत० ब्रा० ८, ६, २१, ३। “उदरं पारिमाति मुष्टिना” “सदसत्संशयगोचरोदरी” नैष० आधारे अप्। २ युद्धे। ३ मध्यभागमात्रे च “ताम्रोदरेषु तरुपल्लवेषु” रघुः “लतादिविहितोदरे” अम० “कुसुममिव पिनद्धंपाण्डुपत्रोदरेण” शकु० उद् + दृ–अप् पृषो० दलोपश्च, उदरस्थत्वाद्वास्योदरशब्दवाच्यता “तात्स्थ्यात्तद्धर्म्मताभ्याञ्च तत्समीपतयाऽपि च। तत्साहचर्य्यात् शब्दानां वृत्तिरुक्ताचतुर्विधा” भा० प्र० उक्तेः। ४ उदररोगे। उदररोगनिदानादि सुश्रुते उक्तं यथा “अथात उदराणां निदानं व्याण्वास्यामः। धन्वन्तरिर्धर्मभृतां वरिष्ठो राजर्षिरिन्द्रप्रतिमो बभूव। ब्रह्मर्षिपुत्रं विनयोपपन्नंशिष्यं शुभं सुश्रुतमन्वशात्सः। पृथक् समस्तैरपि चेह दोषैः प्लीहोदरं बद्धगुदं तथैव। आगन्तुकं सप्तममष्टमञ्च दकोदरं चेति वदन्ति तानि। सुदुर्बलाग्नेरहिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा। स्नेहादिमिथ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः। गुल्माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः। कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः। त्वचः समुन्नम्य शनैः समन्ताद्विबर्द्धमाणो जठरं करोति। तत्पूर्व्वरूपं बलवर्णकाङ्क्षाबलीविनाशी जठरे हि राज्यः। जीर्णापरिज्ञानविदाहवत्यो वस्तौ रुजः पादर्गतश्च शोफः। सङ्गृह्य पार्श्वोदरपृष्ठनाभीर्यद्वर्द्धते कृष्णसिरावनद्धम्। सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत् १। यच्छोषतृष्णाज्वरदाहयुक्तं पैत्तं सिरा यत्र भवन्ति पीताः। पीताक्षिविण्मूत्रनखाननस्य पित्तोदरम् २ तत्त्वचिराभिवृद्धि। यच्छीतलं शुक्लसिरावनद्धं गुरुस्थिरं शुक्लनखाननस्य। स्निग्धं महच्छोफयुतं ससादं कफोदरम् ३ तच्च चिराभिवृद्धि। स्त्रियोऽन्नपानं नखरोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः। यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसवनाद्वा। तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलिङ्गम् ५। तच्छीतवाताभ्रसमुद्भवेषु विशेषतः कुप्यति दह्यते च। स चातुरो मूर्च्छति सम्प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च। प्रकीर्त्तितं दूष्युदरन्तु घोरं प्लीहोदरम् कीर्त्तयतो निबोध। विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च। प्लीहाभिवृद्धिं सततं करोति प्लीहोदरम् ५ तत्प्रवदन्ति तञ्ज्ञाः। वामे च पार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र। मन्दज्वराग्निः कफपित्तलिङ्गैरुपदुतः क्षीणबलोऽतिपाण्डुः। सव्येतरस्मिन् यकृति प्रदुष्टे ज्ञेयं यकृद्दाल्युदरं तदेव। तस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा सहितैः पृथग्वा। सञ्चीयते तत्र मलः सदोषः क्रमेण नाड्यामिव सङ्करोहि। निरुध्यते चास्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम्। हृन्नाभिमध्ये परिवृद्धिमेति यच्चोदरं विट्समगन्धिकञ्च। प्रच्छर्दयत् बद्वगुदं ६ विभाव्यं ततः परिस्राव्युदरं निबोध। शल्यं यदन्नोपपहितं तदन्त्रं भिनत्ति यस्यागतमन्यथा वा। तस्मात् स्नुतान्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु मूयः। नाभेरधश्चोदरमेति वृद्धिं निस्तुद्ध्यतेऽतीव विदह्यते च। एतत्परिस्राब्युदरं ७ प्रदिष्टं दकोदरं कीर्त्तयतो निबोध। यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथ बा निरूढः। पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्वहानि। स्नेहोपलिप्तेष्वथ वापि तेषु दकोदरम्पूर्ववदभ्युपैति। सिग्धं महत्सम्परिवृत्तनामि भृशोन्नतं पूर्ण्णमिवाम्बुना च। यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं ८ तत्। आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निना। शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः। दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि। अन्ते सलिलभावन्तु भजन्ते जठराणि तु। सर्वाण्येव परीपाकात्तदातानि विवर्ज्जयेत्”। विस्तरस्तु भा० प्र० दृश्यः। गर्भपातनजारोगा यकृत्प्लीहजलोदराः इत्युक्तेः पुंस्त्वमपि। ५ अल्पे त्रि० “उदरमन्तरं कुरुते” श्रुतिः

उदरग्रन्थि = पु० उदरे ग्रन्थिरिव। गुल्मरोगे हेम०। गुल्मशब्दे विवृतिः उदरगुल्मोऽप्यत्र पु० “इक्षोर्विकारहारी च भवेदुदरगुल्मवान्” शाता० स्मृतिः।

उदरत्राण = न० उदरं त्रायतेऽनेन त्रै–ल्युट्। (कमरबन्ध) उदरबन्धवस्त्रे हेम०

उदरथि = पु० उद् + ऋ–घथिन्। समुद्रे उज्ज्वलदत्तः।

उदरपिशाच = त्रि० उदरे तत्पूर्त्तौ पिशाच इव। सर्व्वान्नभक्षके हेमच०।

उदरपूरम् = अव्य० उदर + पूर–साकल्ये णमुल्। उदरं साकल्येन पूरयित्वेत्यर्थे।

उदरम्भरि = त्रि० उदरं बिभर्त्तिं भृ–खि मुम् च। पञ्चयज्ञाव्यकरणेनात्मोदरमात्रपोषके।

उदररोग = पु० ६ त०। (उदरी) इति ख्याते रोगे। उदर शब्दे विवृतिः। उदरव्याधिरप्यत्र “कदलोयवक्षारन्तु पानीयेन प्रसाधितम्। तदास्वादेन नश्यन्ति उदरव्याधयोऽखिलाः” गरु० पु०।

उदरवत् = त्रि० वृद्धमुदरमस्त्यस्य तुन्दादि० वृद्धतायाम् मतुप् मस्यवः। वृददुदुदरयुक्ते। पक्षे–ठन्। उदरिक इनि। उदरिन् पिच्छा० इलच्। उदरिल उक्तार्थे त्रि० इनौ मतौ च स्त्रियां ङीप्।

उदरशय = पु० उदरे शेते शी–पार्श्वा० अच्। गर्मशये

उदरशाण्डिल्य = पु० ऋषिभेदे “हृद्यश्चोदरशाण्डिल्यः पाराशर्य्यः कृषीबलः” भा० स० ७ अ०। “तं हैतमतिधन्वा शौनकः उदरशाण्डिल्यायोक्त्वोवाच” छा० उ०।

उदराध्मान = न० ६ त०। (पेटफा~पा) रोगभेदे। तत्कारणमुक्तं सुश्रु० “कषायः संग्राहको रोपणः स्तम्भनः शोधनो लेखनः शोषणः पोडनः क्लेदोपशोषणश्चेति स एवं गुणोऽप्येकएवात्यर्थमुपसेव्यमानोहृतपीडास्यशोषोदराध्मानवाक्यग्रहमन्यास्तम्भगात्रस्फुरणचुमुचुमायनाकुञ्चनाक्षेपणप्रभृतीन् जनयति”। तच्चाजीर्ण्णस्य लिङ्गं तदप्युक्तं सुश्रुते तच्च उद्गिरणशब्दे वक्ष्यते।

उदरामय = पु० उदरस्यामं रोगं याति नयति या–क। स्वनामख्याते रोगे अतिसारशब्दे पृ० विवृतिः। “शीतं मधुयुतं कृत्वा पाययेतोदरायमये” “शर्करोपहितं शीतं पाययेच्चोदरामये” सुश्रु०।

उदरावर्त्त = पु० उदरे आवर्त्त इव गभीरत्वात्। नाभौ।

उदरिणी = स्त्री० उदरं तत्स्थगर्भोऽस्त्यस्याः इनि ङीप्। गभिल्याम्।

उदर्क = पु० उद् + अर्कं–अर्च–वा घञ्। १ उत्तरकाले २ भाविफलके शुभाशुभकर्म्मणि च। “तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च” “सोऽनुभूयासुखोदर्कान्” प्रेत्येह च सुखोदर्कान् प्रजाधर्मान् निबोधत” मनुः। “नन्वयमुदर्कः प्राक्तनस्य दुष्कृतस्य” दशकु०। “नानाप्रभृतयः समानोदर्का ऋतवो वा असृज्यन्त” शत० ब्र० ८, ७, १, ३।

उदर्च्चिस् = पु० उद् ऊर्द्ध्वमर्च्चिः शिखाऽस्य। १ उच्छिखे वह्नौ। उत्कृष्टकान्तित्वात् २ कदर्पे ऊर्द्ध्वरेतस्त्वात् ३ शिवे च। ४ उन्नतशिखान्विते त्रि० “प्रदक्षिणप्रक्रमणात् कृशानोरुदर्च्चिषस्तन्मिथुनं चकाशे” “ऋचेवोदर्च्चिषं सूर्य्यम्” रघुः। “स्फुरन्नुदर्च्चिः सहसा तृतीयादक्ष्णः कृशानुःकिल निष्पपात” कुमा०। प्रा० स०। ५ उद्गतायां शिखायां न० स्त्री०।

उदर्द्द = पु० उद् + अर्द्द–अच्। “वरटादष्टसंस्थानः शोथः संजायते बहिः। सकण्डूस्तोदबहुलश्छर्द्दिज्वरविदाहवान्। उदर्द्दमिति तं विद्याच्छीतपित्तमथापरे। वाताधिकं शीतपित्तमुदर्द्दञ्च कफाधिकम्” इति निदानोक्ते रोगभेदे।

उदर्य्य = त्रि० उदरे भवः उदर + यत्। जठरभवे “यदुदर्य्यस्य मेदसःपरिशिष्येत” शत० ब्रा० ३, ८, ४, ५, “पुरीतता नभ, उदर्य्येण चक्रवाकौ” यज० २५, ८।

उदलावणिक = त्रि० उदकीभूतं लवणमुदलवणम् उदादेशः। तेन पक्वम् ठञ् उत्तरपदवृद्धिः उदकीभूतलवणपक्वे व्यञ्जनादौ हलायु०।

उदवसित = न० उद् + अव + सि–सो–वा क्त। गृहे अमरः।

उदवाप = पु० उदकं वपति पिण्डस्थानीयतया वप–अण् उदादेशः उप० स०। जलमात्रेण १ श्राद्धकर्त्तरि २ तर्पणकारिणि च। तस्यापत्यम् इञ्। औदवापि तदपत्ये पुंस्त्री ततः तस्येदमित्यर्थे रैवति० छ। औदवापीय तत्सम्बन्धिनि त्रि०।

उदवास = पु० उदके ब्रतार्थं वास उदादेशः। ब्रतार्थे जलवासे। “अवाक्शिरास्तु योलम्बेत् उदवासं च योवसेत्। सततं चैकशायी यः स लभेतेप्सितां गतिम्” भा० आनु० १७ अ० “सहस्यरात्रीरुदवासतत्परा” कुमा०।

उदवाह = पु० उद उदकं वहति वह–अण् उप० स०। जलवाहके १ मेघे। “दिवा चित्तम कृण्वन्ति पर्जन्येनोदवाहेन” ऋ० १, ३८, ९, २ उदकवाहकमात्रे त्रि० “आ वोयस्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति” ऋ० ५, ५८, “उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः” अथ० १८, २, २२,

उदशराव = पु० उदकपूर्ण्णः शरावः शा० त० पूरयितव्ये एकहलादौ उदादेशः। जलपूर्ण्णे शरावे “उदशरावे आत्मानम- वेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽपेक्षाञ्चक्राते” छा० उ० ६ प्र०।

उदशुद्धि = त्रि० उद्ना उदकेन शुद्धिः। स्नाते तस्यापत्यम् इञ्। औदशुद्धि तदपत्ये पुं स्त्री ततः यूनि इञन्तत्वात् फिञ् तस्य पैला० लुक।

उदश्रु = त्रि० उद्गतमश्रु यस्य प्रा० ब० गतलोपः। उद्गत नेत्रजले “तस्य पश्यन् स सौमित्रिरुदश्रुर्वसतिद्रुमान्” रघुः।

उदश्वित् = न० उदकेन जलेन श्वयति वर्द्धते श्वि–क्किप् संज्ञायाम् उदादेशः। अर्द्धजलेन मथिते तक्रे अमरः। “पाने मूत्रमुदश्विच्च दधि शुक्तञ्च भोजने”। मर्द्दनं दध्युदश्विद्भ्यामथ वा तण्डुलाम्बुना” सुश्रु०।

उदसन = न० उद् + अस–ल्युट्। १ निरसने २ उत्क्षेपणे च।

उदस्थान = न० उद्गा प्लावितं स्थानं शाक० त०। १ उदक प्लाविते स्थाने। ततः भवार्थे उत्सा० अञ्। औदस्थान तद्भवे त्रि०। उदनि स्थानं वासः। २ जलवासे। तत् शीलमस्य छत्रा० ण। औदस्थान जलवासशीले त्रि०।

उदहरण = पु० उदकं ह्रियतेऽनेन हृ–करणे ल्युट् उदादेशः। कुम्भे। “प्रत्यगेकधनानयुग्मानुदहरणांस्त्रिप्रभृत्या पञ्चदशभ्यः” कात्या० ९, २, २३। “उदहरणाः कलसाः” इति कर्कः। “निधायोदहरणे त्रिर्विपल्ययते” “अथैतमश्मानमुदहरणेऽवधाय” शत० ब्रा०९, १, २, ५, ६, ९।

उदहार = त्रि० उदकं हरति हृ–अण् उप० स० उदादेशः। १ जलहारके “प्रविविक्तां नदीं रात्रावुदहारोऽहमागतः” दत्तक० स्त्रियां ङीप्। “उतेन गोपा अदृश्रन्नदृश्रनुदःहार्य्यः सदृष्टो मृड्याति” यजु० १६, ७। तेन सि० कौ० “टिडढाणञित्यादि” सूत्रे तद्धिताणन्तस्यैव ग्रहणोक्तिश्चिन्त्या अतएव मुग्धबो० कर्म्मण्यण्” पा० सूत्रपरिवर्त्तनेन “ढात् षण्” इति सूत्रे ङीषर्थं षित्त्वं कृतम्। तथा च कुम्भकारीत्येव साधु न तु कुम्भकारा। प्रयुज्यते च नाटकादौ प्रतिहारीत्येव तत्र च प्रतिशब्दस्य प्रत्येकार्थत्वात् कर्म्मोपपदत्वं सुलभम्। भावे घञ् ६ त०। २ जलहरणे च।

उदाज = पु० उद् + अज–घञ् न कुत्वं व्यभावः। पशुप्रेरश्चे

उदात्त = पु० उद् + आ + दा–क्त। वर्णोत्पत्तिस्थानेषु उच्चै रुच्चारिते १ स्वरे २ तद्युक्ते त्रि०। “उच्चैरुदात्तः” पा०। “ताल्वादिषु सभागेषु स्थानेषुर्द्धभागे निष्पन्नोजुऽदात्तः” सि० कौ०। “उदात्तश्चानुदात्तश्च स्वरितश्च स्वरा अचीति” शिक्षाकृदुक्तेः अचामेव त्रैस्वर्य्यम्। अनेकाच्कपदे “अनुदात्तं पदमेकवर्ज्जम्” पा० एकस्यैवोदात्तता अन्यस्य चानुदात्ततोक्ता। तत्रादौ सामान्यत उदात्तविधायकं सूत्रं दर्श्यते।

“अञ्चेश्छन्दस्यसर्व्वनामस्थानम्” पा०। अञ्चेः परा विभक्तिरुदात्ता। प्रतीचोबाहून्। “ऊडिदम्पदाद्यप्पुम् रैदुभ्यः” पा० ऊट् इदम् पदादि अप् पुम् रै दिव् इत्येभ्योऽसर्व्वनामस्थानविभक्तिरुदात्ता। प्रष्ठौहः। एभिर्नृभिः। पद्दन्नोमास् हृन्निश इति षट् पदादयः। पद्भ्याम्। दद्भिः। नसा मासि। हृदा निशा। पुंसः। राया। दिवः। “अष्टनो दीर्घात्” पा०। दीर्घान्तादष्टनः परः शसादिरुदात्तः। अष्टभिः। “शतुरनुमोनद्यजादी” पा० अनुम् यः शतृप्रत्ययस्तदन्तादनोदात्तात् परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता। जानती जानतः। दधती दधत इत्यादौ तु अभ्यस्तानामादिरित्याद्युदात्तत्वविधानेन अन्तोदात्तत्वाभावात् न तथा। सनुमस्तु तुदन्तोत्यादौ न। “उदात्तयणोहल्पूर्ब्बात्” पा० उदात्तस्थाने योयण् हल्पूर्ब्बस्तस्मात् परा नदी शसादिर्विभक्तिश्च उदात्ता। नेत्री, नेत्रा, कृण्वता सवित्रा। “नोङ्धात्वोः” पा० अनयोर्यणः परे शसादय उदात्ता न स्युः। ब्रह्मबन्ध्वासुभ्वा। “ह्रस्वनुडभ्यां मतुप्” पा० ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुप् उदात्तः। अब्धिमान् उदधिमान्। नुट् अक्षण्वन्तः। “रैशब्दाच्च” बा० रैवान्। “नामन्यतरस्यास्” पा०। मतुपि योह्रस्वस्तदन्तादन्तोदात्तात् परोनाम् उदात्तोवा। सुमतीनाम्” “ङ्याच्छन्दसि” पा० ङ्याः परोनाम् उदात्तो वा। अभिभञ्जतीनाम्। “षट्त्रिचतुर्भ्यो हलादिः” पा० एभ्योहलादिर्विभक्तिरुदात्ता। षड्भिः त्रिभिः। “न गोश्वन्सावर्ण्णराडङ् क्रुङ्भ्यः” पा० एभ्यः परं प्रागुक्तं सावेकाचस्तृतीया विभक्तिरिति न कार्य्यम्। “दिवोझल्” पा० दिवः परा झलादिर्वोदात्ता। “नृ चान्यतरस्याम्” पा०। नुः परा झलादिर्वोदात्ता। नृभिः। “उपोत्तमं रिति” पा० रित्प्रत्ययान्तमुपोत्तममुदात्तम्। आहवनीयः। “मतोः पूर्व्वमात् संज्ञायां स्त्रियाम्” मतोः पूर्वमाकारः उदात्तः संज्ञायां स्त्रियाम्। उदुम्बरावती शरावती अमरावती “एकादेशौदात्तेनीदात्तः” पा०। उदात्तेन सहैकादेश उदात्तःस्यात्। क्व वोऽश्वाः। “स्वरितोवानुदात्ते पदादौ” पा० अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्परितो वा पक्षे उदात्तः। “वीदंज्योतिर्हृदये”। “उच्चैजरां वा वषट्कारः” पा० यज्ञकर्म्मणि वषट्शब्द उच्चैस्तराम् अत्यन्तोदात्तः एकश्रुतिर्वा “सुब्रह्मणायां स्वरितस्योदात्तः” पा०। सुब्रह्मण्याख्ये निगदे एकश्रुतिर्न स्यात् स्वरितस्य उदात्तः स्यात्। “झल्युपोत्तमम्” पा० षट्त्रि चतुर्भ्यो वा झलादिर्विभक्तिस्तदन्तेपदे उपोत्तममुदात्तम्। पञ्चभिः दशभिः। “विभाषा भाषायाम्” पा०। उक्तविषये लोके वोदात्तः। “अन्तश्च तवै युगपत्” पा० तवै प्रत्ययान्तस्याद्यन्तौ युगपदुदात्तौ। दातवै। “अस्थिदधिसक्थ्यक्ष्णामनङङुदात्तः” पा०। दध्यादेशोऽनङुदात्तः “चतुरनडुहोरामुदात्तः” पा० इत्यादीनि उदात्तविधायकामि। तत्र बह्वच्के पदे कस्योदात्ततेति निर्ण्णयाय आद्यन्तोदात्तादिभेदेन” पा० त्रैविध्ययुक्तं तथा च केचिदाद्युदात्ताः केचिदन्तोदात्ताः केचित् मध्योदात्ताः। तत्राद्युदात्तताबिधायकसूत्राणि आद्युदात्तशब्दे ७०६ पृ० उक्तानि अन्तोदात्तविधायकानि अन्तोदात्तशब्दे २०६ पृ० दिङ्मात्रमुदाहृतानीत्यतः प्रसङ्गात्तान्यत्र प्रदर्श्यन्ते “उञ्छादीनाञ्च” पा० अन्त उदात्तः स्यात् उञ्चादयश्च। उञ्छम्लेच्छ जञ्ज जल्प जप बुध युग (गरोदूष्ये) (वेदवेष्टनबन्धाः करणे) (स्तुयुद्रुवश्छन्दसि) (वर्त्तनिःस्त्रोत्रे) (दरःश्वभ्रे) (सान्त्वतापौ भावगर्हायाम्) (उत्तमसत्तमौ सर्व्वत्र) भक्ष गन्धभोग मन्थ। अत्रैव निपातनात् युगबुधयोर्घञन्तत्वेऽपि न गुणः”। “चतुरः शसि” पा०। चतुरोऽन्तौदात्तः शसि परे। चतुरः। चतेरुरन्निति नित्त्वादाद्युदात्तत्वेऽपि शसि अन्तोदात्ततैव। “अन्तोऽवत्याः” पा० अवतीशब्दस्यान्त उदात्तः। वेत्रवती। “ईवत्याः” पा० ईवत्यन्त स्यापि अन्त उदात्तः। अहीवती मुनीवती। “चितः” पा० चित्प्रत्ययान्तस्यान्त उदात्तः स्यात्”। “चितः सप्रकृतेर्वह्वकजर्थम्” वार्त्ति०। चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तः। “नमन्तामन्यके सभे “यके सरस्वति” तकत् कुरुते “तद्धितस्य” पा० चितस्तद्धितस्यान्त उदात्तः पूर्वेण सिद्धे ञित्स्वरबाधनाय। चफञ् कौञ्जायनाः। “कितः” पा० कितस्तद्धितस्यान्त उदात्तः। ढक् आग्नेयः। “तिसृभ्योजसः” पा० अन्त उदात्तः। तिस्यः। “अन्तोदात्तादुत्तरपदादन्यतरस्याम्” पा० नित्याधिकारसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीया विभक्तिरन्तोदात्ता वा। परमवाचा। “थलिच सेटीडन्ते वा” पा० सेटि थलि परे इडुदात्तः इडन्तोवाआदिर्वा। लुलुविथ चत्वारोऽपि पर्य्यायेणोदात्ताः।

फिट्सूर्त्रषु १ मापदे केचित् शब्दा अन्तोदात्ताः दर्शिता यथा। “फिषोऽन्तौदान्तः” १। प्रातिपदिकं फिट् तस्यान्तौदात्तः स्यात्। उच्चैः। “पाटलापालङ्काम्बासागरार्था नाम्” २। एदर्थानामन्तौदात्तः। पाटला फलेरुहा सुरूपा पाकलेति पर्य्यायाः। लघावन्त इति प्राप्तः। पालङ्कोव्याधिधातआरेवतआरग्बध इति पर्य्यायाः। अम्बार्थः माता। उनर्वनन्तानामाद्युदात्ते प्राप्ते। सागरः। समुद्रः। “गेहार्थानामस्त्रियाम्” ३। गेहम्। नब्विषयस्येति प्राप्ते। अस्त्रियां किम् शाला आद्युदात्तोऽयम् इहैव पर्य्युदासाज्ज्ञापकात्। “गुदस्य च” ४। अन्तौदात्तःस्यान्नतु स्त्रियाम्। गुदम्। अस्त्रियां किम् “आन्त्रेभ्यस्ते गुदाभ्यः”। खाङ्गशिटामदन्तानामित्यन्तरङ्गमाद्युदात्तत्वम् ततष्टाप्। “ध्यपूर्व्वस्य स्त्रीविषयस्य” ५। धकारयकारपूर्वोयोऽन्त्योऽच् स उदात्तः। अन्तर्धा। स्त्रीविषयवर्ण्णेति प्राप्ते। छाया। माया। जाया। यान्तस्यान्त्यात् पूर्व्वमित्याद्युदात्तत्वे प्राप्ते। स्त्रीति किम् बाह्यम् यञन्तत्वादाद्युदात्तम्। विषयग्रहणं किम् इभ्या। क्षत्रिया। यतोऽनाव इत्याद्युदात्तैभ्यशब्दः। क्षत्रियशब्दस्तु यान्तस्यान्त्यात्पूर्व्वमिति मध्योदात्तः। “खान्तस्याश्मादेः” ६। नखम्। उखा। सुखम्। दुःखम्। नखस्य खाङ्कशिटामित्याद्युदात्ते प्राप्ते। उखा नाम भाण्डविशेषस्तस्य कृत्रिमत्वात् खय्युवर्ण्णं कृत्रिमाख्या चेदित्युवर्णस्योदात्तत्वे प्राप्ते। अश्मादेः किम् शिखा। मुखम्। मुखस्य स्वाङ्गशिटामिति नब्विषयस्येति वा आद्युदात्तत्वम्। शिखायास्तु शीङः खो निद्ध्व्रस्वश्चेति उणादिषु नित्त्वोक्तेः अन्तरङ्गत्वाट्टापः प्रागेव खाङ्गशिटामिति वा बोध्यम्। “बहिष्ठसंवत्सरतिशत्थान्तानाम्” ७। एषामन्तं उदात्तः स्यात्। अतिशयेन बहुलो बंहिष्ठः। नित्त्वादाद्युदात्ते प्राप्ते। “बंहिष्ठैरश्वैः सुवृता रथेन”। “यद्बंहिष्ठन्नाति विधे” इत्यादौ व्यत्ययादाद्युदात्तः। संवत्सरः। अव्ययपूर्व्वपदप्रकृतिस्वरोऽत्र वाध्यते इत्याहुः। सप्ततिः। अशीतिः। लघावन्त इति प्राप्ते। चत्वारिंशत्। इहापि प्राग्वत्। अभ्युत्था। “नावभृथस्य” ८। अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यते इत्याहुः। थाथादिसूत्रेण गतार्थमेतत्। “दक्षिणस्य साधौ” ९। अन्त उदात्तः स्यात्। साधुवाचित्वाभावे तु व्यवस्थायां सर्वनामतया खाङ्गशिटामित्याद्युदात्तः। अर्थान्तरे तु लघावन्त इति गुरुरुदात्तः। दक्षिणः सरलोदारपरच्छन्दानु- बर्त्तिष्विति कोशः। “स्वाङ्गाख्यायामादिर्वा” १०। इह दक्षिणस्याद्यन्तावुदात्तौ। दक्षिणो बाहुः आख्याग्रहणं किम्। प्रत्यङ्मुखमासीनस्य वामपाणिर्दक्षिणो भवति। “छन्दसि च” ११। अस्वाङ्गार्थमिदम्। दक्षिणः। इह पर्य्यायेणाद्यन्तावुदात्तौ। “कृष्णस्यामृगाख्या चेत्” १२। अन्तौदात्तः। वर्ण्णानान्तणेत्याद्युदात्ते प्राप्ते अन्तोदात्तो विधीयते। कृष्णानां व्रीहीणाम्। “कृष्णो नो नाव वृषभः”। मृगाख्यायान्तु “कृष्णो रात्र्यौ”। “वा नामधेयस्य” १३। “कृष्णस्येत्येव। “अयं वा कृष्णोऽश्विना”। कृष्णऋषिः। “शुक्लगौरयोरादिः” १४। नित्यमुदात्तः स्यादित्येके। वेत्यनुवर्त्ततैति तु युक्तम्। “सरो गौरा यथापि वेत्यत्रान्तादात्तदर्शनात्”। “अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः” १५। अङ्गुष्ठस्य स्वाङ्गानामकुर्व्वादीनामिति द्वितीयस्योदात्तत्वे प्राप्तेऽन्तोदात्तार्थ आरम्भः। वशाग्रहणं नियमाथं छन्दस्येवेति। तेन लोके आद्युदात्ततेत्याहुः। “पृष्ठस्य च” १६। छन्दस्यन्तौदात्तः स्यात् भाषायाम् वा। पृष्ठम्। “अर्ज्जुनस्य तृणाख्या चेत्” १७। उनर्वन्नन्तानामित्याद्युदात्तस्यापवादः। “अर्य्यस्य स्वाम्याख्या चेत्” १८। यान्तस्यान्त्यात् पूर्व्वमिति यतोऽनाव इति वाद्युदात्ते प्राप्ते वचनम्। “आशाया अदिगाख्या चेत्” १९। दिगाख्याव्यावृत्त्यर्थमिदम्। अतएव ज्ञापकाद्दिक्पर्य्यायस्याद्युदा त्तता। “इन्द्र आशाभ्यस्परि”। “नक्षत्राणामाब्विषयाणाम्” २०। अन्तौदात्तः स्यात्। अश्लेषाऽनुराधादीनां लघावन्त इति प्राप्ते। ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम् “न कुपूर्वः कृत्तिकाख्या चेत्” २१। अन्तौदात्ता न। कृत्तिका नक्षत्रम्। केचित्तु कुपूर्वो य आप् तद्विषयाणामिति व्याख्याय आर्य्यिका बहुलिका इत्यत्राप्यन्तोदात्तो नेत्याहुः। “घृतादीनाञ्च” २२। “घृतं मिमिक्षे” आकृतिगणः। “ज्येष्ठकनिष्ठयोर्वयसि” उदात्तः स्यात्। “ज्येष्ठ आह चमसा”। “कनिष्ठ आह चतुरः”। वयसि किम् ज्येष्ठः श्रेष्ठः, कनिष्ठोऽल्पिष्ठः। इह नित्त्वादाद्युदात्त एव। “विल्वतिष्ययोः स्वरितो वा” २४। अनयोरन्तः स्वरितो वा स्यात्। पक्षे उदात्तः। सि० कौ०। फिट्सूत्रे ३ पादे येषां द्वितीयाद्यचामुदात्तताऽभिहिता तत् प्रदर्श्यते “अथ द्वितीयं प्रागीषात्” १। ईषान्तस्य हलादेरित्यतः प्राक् द्वितीयाधिकारः। “त्र्यषां प्राङ्मकरात”। मकरवरुडेत्यतः प्राक् त्र्यचामित्यधिकारः। “स्वाङ्गानाम- कुर्वादीनाम्” ३। कवर्ग्गरेफवकारादीनि वर्ज्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमुदात्तम्। ललाटम्। कुर्वादीनान्तु कपोलः। रसना। वदनम्। “मादीनाञ्च” ४। मलयः। मकरः। “शादीनां शाकानाम्” ५। शीतन्या शतपुष्पा। “पान्तानां गुर्वादीनाम्” ६। पादपः आतपः। लघ्वादीनान्तु अनूपम्। “युतान्यण्यन्तानाम्” ७। युत अयुतम्। अनि धमनिः। अणि विपणिः। “मकरवरुडपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठायुतष्ठाकाशीनामादिर्वा” ८। एषामादिर्द्वितीयो वोदात्तः। मकरः। वरूड इत्यादि। “छन्दसि च” ९। अमकराद्यर्थ आरम्भः। लक्ष्यानुसारादादिर्द्वितीयं वोदात्तं ज्ञेयम्। “कर्द्दमादोनाञ्च” १०। आदिर्द्वितीयं वोदात्तम्। “सुगन्धितेजनस्य ते वा” ११। आदिर्द्वितीयन्तेशब्दश्चेति त्रयः पर्य्यायेणोदात्ताः। सुगन्धितेजनाः। “नपः फलान्तानाम्” १२। आदिर्द्वितीयञ्चोदात्तम्। राजादनफलम्। “यान्तस्यान्त्यात् पूर्व्वम्” १३। कुलायः। “थान्तस्य च नालघुनी” १४। नाशब्दो लघु च उदात्ते स्तः। सनाथा सभा। सरथा सेना “शिशुमारीदुम्बरबलीवर्दोष्ट्रारपुरूरवसाञ्च” १५। अन्त्यात् पूर्ब्बमुदात्तं द्वितीयं वा। “साङ्काश्यकाम्पिल्यनासिक्यदार्वाघाटानाम्” १६। द्वितीयमुदात्तं वा। “ईषान्तस्य हलादेरादिर्वा” १७। हलीषा। लाङ्गलीषा। ४ पादे “शकटिशकट्योरक्षरमक्षरं पर्य्यायेण” १। उदात्तम्। शकटिः। शकटी। “गोष्ठजस्य ब्राह्मणनामधेयस्य” २। अक्षरमक्षरं पर्य्यायेणोदात्तम्। गोष्ठजः ब्राह्मणः अन्यत्र गोष्ठजः पशुः। कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः। “पारावतस्योपोत्तमवर्जम्” २। शेषं क्रमेणोदात्तम्। पारावतः। “धूम्रजानुमुञ्जकेशकालबालस्थालीपाकानामधूजलस्थानाम्” ४। एषाञ्चतुर्णान्धूप्रभृतीश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि। धूम्रजानुः मुञ्जकेशः कालबालः स्थालीपाकः। “कपिकेशहरिकेशयोश्छन्दसि” १५। कपिकेशः हरिकेशः।

समासस्य बहुपदघटिततया कस्योदात्ततेति निर्णयाय केचित् पूर्व्वपदप्रकृतिस्वराः केचित् उत्तरपदप्रकृतिस्वराः केचित् पूर्व्वपदे आद्युदात्ताः केचिच्च तत्रान्तोदात्ताः केचित् उत्तरपदे आद्युदात्ताः केचिच्च तत्रान्तोदात्ताः इति विभागं मनसि निधाय पाणिनिना ६ अध्याये समासस्वरप्रकरणमारब्धं यथा “समासस्य” पा० अन्त उदात्तः। यज्ञश्रियम्। इति सामान्यतोविधाय विशेषमाह।

तत्रादौपूर्व्वपदप्रकृतिस्वरः। “बहुव्रीहौ प्रकृत्या पूर्वपदम्” पा०। उदात्तस्वरितयोगिपूर्व्वपदं प्रकृत्या स्यात् ब० व्री०। अन्तोदात्ततापवादः। “सत्यश्चित्रस्रवस्तमः”। सर्वानुदात्ते पूर्वपदे तु अन्तोदात्तएव। समपादः। “तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाऽव्ययद्वितीयाकृत्याः”। पा०। सप्तैते पूर्व्वपदभूतास्तत्पुरुषे प्रकृतिस्वराः। तुल्यश्वेतः समश्वेतः। किरिणा काणः किरिकाणः। मदयत्सखः। मदयति मादके इन्द्रे सखा। शस्त्रीश्यामः घन श्यामः। “अव्यये नञ्कुनिपातानामिति वाच्यम्” वार्त्ति०। अयज्ञः। नञित्याद्युक्तेः प्रोष्यपापीयानित्यादौ न। द्वितीया क्षणसुखम्। कृत्या भोज्योष्णम्। “वर्णोवर्णेष्वेनेते” पा० वर्ण्णवाचिन्युत्तरपदे एतवर्ज्जिते वर्ण्णवाचि पूर्व्वपदं प्रकृत्या तत्पुरुषे। कृष्णसारङ्गः। वर्ण्णः किं परमकृष्णः इत्यादौ, वर्णेषु किं कृष्णतिला इत्यादौ च न, एवं कृष्णैत इत्यत्रापि। “गाधलवणयोः प्रमाणे” पा० एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या। अरित्रगाधम् तत्प्रमाणमित्यर्थः। गोलवणम् यावद्गवे दीयते तावदित्यर्थः। “दायांद्यं दायादे” पा० धनदायादः। “प्रतिबन्धि चिरकृच्छ्रयोः” पा०। प्रतिबन्धिवाचि पूर्व्वपदं प्रकृत्या एतयोः परयोः। गमनचिरम्। कथनकृच्छ्रम्। गमनादिकारणविकलतया चिरकालभावि कृच्छ्रयोगितथा चात्र प्रतिबन्धः। अन्यत्र मूत्रकृच्छ्रमित्यादौ न। “पदेऽपदेशे” पा० व्याजवाचिनि उत्तरपदे प्रागुक्तम्। मूत्रपदेन प्रस्थितः। अनपदेशे तु विष्णुपदम् अत्र न “निवाते वातत्राणे” पा० पार्श्ववाचिनिवाते परे वातत्राणवाचिनि तत्पुरुषे प्रागुक्तम्। कुटीनिवातम्। वातत्रालाभावे तु राजनिवाते वसतीत्यत्रं न “शारदेऽनार्त्तवे” पा० आर्त्तवभिन्नवाचिनि शारदे परे प्रागुक्तम्। रज्जुशारदमुदकम्। रज्वाः सद्य उद्धृतमित्यर्थः। आर्त्तवार्थत्वे तु उत्तमशारदमित्यादौ न। अध्वर्युकषाययोर्जातौ” पा० एतयोः परयोर्जातिवाचकस्य प्राशुक्तम्। कठाध्वर्युः दौवारिककषायम्। अजातेस्तु परमाध्वर्युरित्यादौ न “सदृशप्रतिरूपयोः सादृश्ये” पा० पितृसदृशः पितृप्रतिरूपः। असादृश्ये तु परमसदृश इत्यादौ न। सादृश्यमत्र पूज्यता न तु सादृश्यमात्रम् सि० कौ०। “द्विगौ प्रमाणे” पा० द्विगौ प्रमाणवाचिनि परे पूर्वपदं प्रकृतिस्वरम्। प्राच्यसप्तसमः। सप्त समाः प्रमाणमस्य सप्तसमः ततः कर्म० “गन्तव्यपण्यं बाणिजे” पा० बाणिजशब्दे परे एतदर्थकौ प्राग्वत् तत्पुरुषे। मद्रबाणिजः गोबाणिजः। अगन्तव्यादौ तु परमबाणिज इत्यादौ न। “मात्रोपज्ञोपक्रमच्छाये नपुंसके” पा० “मात्रादिषु परतः नपुंसकवाचिनि तत्पुरुषे प्रकृत्या। भिक्षामात्रम्। पाणिन्युपज्ञम्। नन्दोपक्रमम्। इक्षुच्छायम्। नपुंसके किभ् वृक्षच्छाया इत्यादौ न। “सुखप्रिययोर्हिते” पा०। गमनसुखं गमनप्रियम्। “प्रीतौ च” पा० प्रीतौ गम्यायां प्रागुक्तम्। ब्राह्मणमुखं पयःपानम्। छात्रप्रियोऽनध्यायः। “स्वंस्वामिनि” पा०। गोस्वामी। अन्यत्र परमस्वामीत्यादौ न। “पत्यावैश्वर्ये” पा०। गृहपतिः। “न भूवाक्चिद्दिधिषु” पा० “प्रागुक्तं न। भूपतिः वाक्पतिः चित्पतिः दिधिषुपतिः। “वा भुवनम्” पा०। प्रागुक्तं वा। भुवनपतिः। “आशङ्काबाधनेदीयस्सु सम्भावने” पा०। गमनाशङ्कमस्ति गमनाबाधम् गमननेदीयः। गमनमाशङ्क्यते आवाध्यते निकटतरमिति सम्भाव्यते इत्यर्थः। असम्भावने तु परमनेदीय इत्यादौ न। “पूर्वे भूतपूर्वे” पा० भूतपूर्वार्थे पूर्वशब्दे परे पूर्वपदं प्रकृत्या। आढ्य पूर्वः। “सविधसनीडसमर्य्यादसवेशसदेशेषु सामीप्ये” पा०। मद्रसविधम्। एवं सनीडादिषु। असामीप्ये तु सह मर्य्यादया समर्य्यादं क्षेत्रम् चैत्रसमर्यादमित्यादौ न। “विस्पष्टादीनि गुणवचनेषु” पा०। विस्पष्टकटुकम्। विस्पष्ट विचित्र व्यक्त सम्पन्न पण्डित कुशल चपल निपुण” एते विस्पष्टादयः। अगुणवचने तु विस्पष्टब्राह्मण इत्यादौ न। “श्रज्यावमकन्पापवत्सु भावः कर्मधारये” पा०। श्रुज्य, अधम, कन् इत्यादेशवति पापिवाचिनि च परे भाववाचि पूर्वपदं प्रकृत्या। गमनश्रेष्ठं गमनज्यायः गमनावमम् गमनकनिष्ठम्। गमनपापिष्ठम्। “कुमारश्च” पा०। कर्मधारये पूर्वपदं प्रकृत्या। कुमारश्रमणः। “आदिः प्रत्येनसि” पा० कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्म्म०। कुमारप्रत्येनाः। “पूगेष्वन्यतरस्याम्” पा० कुमारचातकाः कुमारजीमूताः। “इगन्तकालकपालभगालशरीरेषु द्विगौ” पा०। इगन्ते पञ्चारत्निः। काले पञ्चमास्यः दशमास्यः। पञ्चकपालः पञ्चभगालः। (भगालः पात्रभेदः)। पञ्चशरीरः। “वह्वन्यतरस्याम्” पा०। प्रकृत्या वा। बह्वरत्निः बहुमास्यः। “दिष्टिवितस्त्वोश्च” पा०। प्रकृत्या वा। पञ्चदिष्टिः पञ्चवितस्तिः। “सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्” पा०। अकालवाचि सप्तम्यन्तम् एषु परेषु प्रकृत्या। साङ्काश्य- सिद्धः आतपशुष्कः भ्राष्ट्रपक्वः चक्रबन्धः। काले तु पूर्वाह्णसिद्ध इत्यादौ न। परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु” पा०। एते प्रकृत्या वर्ज्यमानाहोरात्रावयववाचिनि परे। परित्रिगर्त्तं वृष्टोदेवः। प्रतिपूर्वाह्णम्। प्रत्यपररात्रम्। उपपूर्वरात्रम्। अपत्रिगर्त्तम्। “उपसर्गा आद्युदात्ताः अभिवर्ज्जम्” इति बहुब्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम्” सि० कौ०। “राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु” पा०। बहुवचनान्तानां राजन्यानामन्धकवृष्णिषु वर्त्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या। शिनिवासुदेवाः। “संख्या” पा०। द्वन्द्वे संख्यावाचि पूर्वपदं प्रकृत्या “द्वादश त्रयोदश। “आचार्य्योपसर्जनश्चान्तेवासी” पा०। द्वन्द्वे प्रागुक्तम्। पाणिनीयवौडीयाः “कार्त्तकौजपादयश्च” पा०। द्वन्द्वे एषां पूर्वपदं प्रकृत्या। ते च कार्त्तकौजपौ सावर्णिकमाण्डूकेयौ अवन्त्यश्मकाः पैलश्यापर्णेयाः कपिश्यापर्णेयाः शौतिकाक्षपाञ्चालेयाः कटूकवाधूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाः आर्च्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डवतण्डाः अविमत्तकामविद्धाः बाभ्रवशालङ्कायनाः बाभ्रवदानच्युताः कठकालापाः कठकौथुमाः कौथुमलौगाक्षाः स्त्रीकुमारम् मौदपैप्यलादाः। वत्सजरन्तः सौश्रुतपार्थवाः जरामृत्यू याज्यानुवाक्ये। “महान् व्रीह्यपराह्णगृष्टीष्वास जावालभारभारतहैलिहिलरौरवप्रवृद्धेषु” पा०। एषु परेषु महच्छब्दः प्रकृत्या। महाव्रीहिः “सन्महदिति प्रतिपदोक्तसमास एवायं स्वरः न षष्ठीसमासे” सि० कौ०। “क्षुल्लकश्च वैश्वदेवे” पा०। क्षुल्लकवैश्वदेवम् महावैश्वदेवम्। क्षुधं लाति क्षुल्लः ततः कन्। “उष्ट्रः सादिवाम्योः” पा० उष्ट्रसादिः उष्ट्रवामिः। “गौःसादसादिसारथिषु” पा०। गोसादः गोसादिः गोसारथिः। “कुरुगार्हपतरिक्तगुर्वसूत जरत्यश्लीलदृढरूपापरेबडबातैतिलकद्र्वः पण्यकन्दलोदासीभाराणाञ्च” पा०। एषां सप्तानां समासानां दासीभारादेश्च पूर्वपदं प्रकृत्या। ६ त०। कुरुगार्हपतम्। “वृजेरिति वाच्यम्” वार्त्ति० वृजिगार्हपतम्। कर्म० रिक्तगुरुः। कर्म० असूतजरती। क० अश्लीलदृढरूपा। पारेवडवेव इवार्थे क० विभक्त्यलोपश्च नि०। क० वैतिलकद्रुः। क० पण्यकम्बलाः। ६ त०। दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिः ओषधिचन्द्रमाः आकृतिगणः। “यस्य ततपुरुषस्य पूर्वपदप्रकृतिस्वर इष्यते न विशिष्य विधानं स सर्वोऽपि दासीभारादिषु दृश्यः” सि० कौ० “चतुर्थी तदर्थे” पा०। चतु- र्थ्यन्तार्थाय यत् तद्वाचिनि परे पूर्वपदं प्रकृत्या। ४ त०। यूपदारु। “अर्थे” पा०। अर्थे परे चतुर्थ्यन्तं प्रकृत्या। देवार्थम्। “क्ते च” पा०। क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या। ४ त० गोहितम्। “कर्मधारयेऽनिष्ठा” पा०। क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या। श्रेणिकृताः पूगकृताः श्रेण्या कृतमित्यादौ न। निष्ठान्तस्यापि न, कृताकृतम्। “अहीने द्वितीया” पा०। अहीनवाचिनि समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या। कष्टं श्रितः कष्टश्रितः। ग्रामगतः “अनुपसर्ग इति वक्तव्यम्” वार्त्ति०। नेह सुखप्राप्तःकष्टाश्रितः। “तृतीया कर्मणि” पा०। कर्मवाचकक्तान्ते परे तृतीयान्तं प्रकृत्या। रुद्रहतः महाराजहतः। कर्मणि किं रथेनायातः रथायात इत्यादौ न। “गतिरनन्तरः” पा०। कर्मार्थक्तान्ते परेऽव्यवहितोगतिः प्रकृत्या। पुरोहितम्। व्यवधाने तु न अभ्युद्धृतः। “तादौ च निति कृत्यतौ” पा०। तकारादौ निति तुशब्दभिन्ने कृति परे गतिरनन्तरः प्रकृत्या। “प्रभूतौ सङ्गतिः गौः” कृत्स्वरापवादः। तौ तु न, आगन्तुः। “तवै चान्तश्च युगपत्” पा० तवै प्रत्ययान्तस्यान्त उदात्तः गतिश्चानन्तरः प्रकृत्या तच्च युगपत्। अन्वेतवै। “अनिगन्तोऽञ्चतौ वप्रत्यये पा०। अनिगन्तगतिर्वप्रत्ययान्ताञ्चतौ पर प्रकृत्या। “येपराञ्चस्तान्” “न्यधी” पा०। तस्मिन् परे न्यधी गती प्रकृत्या। न्यङ् अध्यङ्। “ईषदन्यतरस्याम्” पा०। ईषत्कडारः। ईषद्भेद इत्यादौ तु कृत्स्वरएव। “हिरण्यपरिमाणं धने” पा०। वा प्रकृत्या। द्विसुवर्णधनं कर्मधारयः। “प्रथमोऽचिरोपसम्पत्तौ” पा०। प्रथमः प्रकृत्या नूतनत्वे। प्रथमवैयाकरणः। सम्प्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः। मुख्यार्थत्वे तु न। “कतरकतमौ कर्म्मधारये” पा०। वा प्रकृत्या। कतरकठः। “आर्य्योब्राह्मणकुमारयोः” पा०। कर्म० प्रकृत्या। आर्य्यब्राह्मणः आर्यकुमारः। “राजा च” पा०। राजव्राह्मणः राजकुमारः। “षष्ठी प्रत्येनसि” पा० षष्ठ्यन्तोराजा प्रत्येनसि परे वा प्रकृत्या। राजप्रत्येनाः। कर्म० न। “क्ते नित्यार्थे” पा०। क्तान्ते परे नित्यार्थे समासे पूर्व्वं प्रकृत्या। नित्यहसितः “ग्रामः शिल्पिनि” पा०। वा प्रकृत्या। ग्रामनापितः। अशिल्पिनि न, ग्रामरथ्या। “राजा च प्रशंसायाम्” पा०। शिल्पि वाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या। राज नापितः राजकुलालः। अशिल्पिनि तु राजहस्तीत्यादौ न।

एवम् अन्तोदात्ततापवादं पूर्व्वपदप्रकृतिस्वरमभि- धाय आद्युदात्तस्वरमपि तदपवादतयाऽभिदधे।

“आदिरुदात्तः” पा०। अधिकारीऽयम्। “सप्तमीहारिणौ धर्म्येऽहरणे” पा० सप्तम्यन्तं हारिवाचि च आद्युदात्त स्यात् धर्म्ये परे अहरणे। देयं यः स्वीकरोति स हारीत्युच्यते धर्म्म्यमित्याचारनियतं देयम्। मुकुटेकार्षापणम्। हलेद्विपदिका। संज्ञायामिति सप्तमीसमासः कारणाम्नि चेत्यलुक्। याज्ञिकाश्वः वैयाकरणहस्ती। क्वचिदयमाचारः मुकुटादिषु कार्षापणादि भृतित्वेन देयम् याज्ञिकादीनां त्वश्वादिरिति तत्र याज्ञिकादीनां धर्म्यरूपदेयस्य स्वीकारित्वात् याज्ञिकादिपदस्यो दात्तत्वम्। बीजनिषेकादुत्तरकालं देहपुष्ट्यर्थं यद्दीयते तद्धरणं तस्मिन् परे न। वाडवहरणम्। वङवाया अयं वाडवः तस्मिन् हरणमित्यर्थः। परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते इत्यहरणनिषेधेन ज्ञापितम्। “युक्ते च” पा०। युक्तवाचिनि समासे पूर्ब्बमाद्युदात्तम्। गोवल्लवः। कर्त्तव्ये तत्परश्चेह युक्तः। “विभाषाध्यक्षे” पा०। अध्यक्षे परे प्रागुक्तं वा। गवाध्यक्षः। “पापञ्च शिल्पिनि” पा०। पापनापितः। पापाणके इति प्रतिपदोक्तस्यैव ग्रहणात् षष्ठीसमासे न। “गोत्रान्तेवासि माणवब्राह्मणेषु क्षेपे” पा०। क्षेपे गम्ये एषु पूर्व्वपदमाद्युदात्तं स्यात्। तत्र गोत्रे भार्य्यासौश्रुतः। सुश्रुतापत्यस्य भार्य्यप्रधानतयेह क्षेपः। अन्तेवासिनि। कुमारीदाक्षाः ओदनपाणिनीयाः। कुमार्य्यादिलाभका मनयैव दाक्ष्यादिप्रोक्तशास्त्राध्यायिनां क्षेपः। भिक्षामाणवः भिक्षां लस्येऽहमिति माणवः इति क्षेपः। भयब्राह्मणः भयेन ब्राह्मणः सम्पद्यते इति क्षेपः। “अङ्गानि मैरेये” पा० मधुमैरेयः मधुनो मद्याङ्गत्वात् तत्परे तथात्वम्। “भक्ताख्यास्तदर्थेषु” पा०। भिक्षादयोऽन्नविशेषाः कंसादिरूपपात्रस्य तदर्थत्वात् तत्परे भिक्षादीनां प्रागुक्तम्। भिक्षाकंमः भाजीकंसः। “गो विडालसिंहसैन्धवेषूपमाने” पा०। उपमानवाचिषु एषु पूर्व्वपदमाद्युदात्तम्। धान्यगवः धान्यं गौरिवेति वाक्ये गवाकृत्या सन्निविशेतं धान्यं धान्यगवः। गोविडालः। तृणसिंहः सक्तुसैन्धवः। “अके जीविकार्थे” पा०। अकान्ते परे जीविकार्थवाचिनि समासे पूर्व्वपदमाद्यु दात्तम्। दन्तलेखकः। दन्तलेखनेन जीविवावान्। “प्राचां क्रीडायाम्” पा०। प्राच्यानां क्रीडावाचिनि समासे अकान्ते परे प्रागुक्तम्। उद्दालपुष्पभञ्चिका। “अणि नियुक्ते” पा०। अणन्ते परे नियुक्तवाचिनि समासे प्रागुक्तम्। छत्रधारः। “शिल्पिनि चाकृञः” पा०। शिल्पिवाचिनि अकृञः पराणन्ते परे प्रागुक्तम्। तन्तुवायः। अशिल्पिनि तु न, कुशलावः। कृञोऽपि न कुम्भकारः। “संज्ञायाञ्च” पा०। अणन्ते प्रागुक्तम्। तन्तुवायो नाम लूताकृमिः। अकृञ इत्येव रथकारोनाम ब्राह्मण इत्यत्र न। “गोतन्तियवं पाले” पा०। गोपालः तन्तिपालः यवपालः। अनियुक्तार्थोऽयमारम्भः नियुक्ते तु पूर्व्वेण सिद्धः। “णिनि” पा०। णिन्यन्ते परे प्रागुक्तम्। पुष्पहारी। “उपमानं शब्दार्थप्रकृतावेव” पा०। उप मानवाचि पूर्व्वपदं णिन्यन्ते परे आद्युदात्तम्। उष्ट्र क्रोशी ध्वाङक्षरावी। अशब्दार्थे तु वृकवञ्चीत्यादौ न। प्रकृतिग्रहणेन उपसर्गेण शब्दार्थत्वे गर्द्दभोच्चारीत्यादौ न। “युक्तारोह्यादयश्च” पा०। एते आद्युदा त्ताः। युक्तारोही आगतरोही आगतयोधी आगतपञ्ची आगतनन्दी आगतप्रहारी। आगतमत्स्यः क्षीरहोता भगिनीभर्त्ता ग्रामगोधुक् अश्वत्रिरात्रः गर्गत्रिरात्रः व्युष्टित्रिरात्रः गणपादः एकशितिपाद् पात्रेसम्भितादयश्च युक्तारोह्यादिः। “दीर्घकाशतुषभ्राष्ट्रवटं जे” पा०। जे परे एतानि आद्युदात्तानि। दीर्घजः काशज इत्यादि। “अन्त्यात् पूर्व्वं वह्वचः” पा०। बह्वचः पूर्ब्बस्यान्त्यात् पूर्व्वपदं जे परे आद्युदात्तम्। उपसरजः। आमलकीजः। “ग्रामेऽनिवसन्तः” पा०। ग्रामे परे अनिवसद्वाचि पूर्व्वपदमाद्युदात्तम्। मल्लग्रामः, (मल्लसमूहः) देवग्रामः (देवस्वामिकः ग्रामः)। निवसतस्तु दाक्षिग्राम इत्यादौ न। “घोषादिषु च” पा० घोष इत्येवमादिषु चोत्तरपदेषु पूर्ब्बपदमाद्युदात्तं स्यात्। घोष कट बल्लभ ह्रद वदरी पिङ्खल पिशङ्ग माला रक्षा शाला कूट शाल्मली अश्वत्य तृण शिल्पी मुनि प्रेक्षा घोषादि। दाक्षिघोषः। “छात्र्यादयः शालायाम्” पा०। छात्रिशाला व्याडिशाला। ते च छात्रि पेलि भाण्डि व्याडि आखण्डि आटि गोमि। “प्रस्थेऽवृद्धमकर्क्यानीनाम्” पा०। प्रस्थपरे अवृद्धं (यस्याद्यचः वृद्धिर्न) तादृशपूर्वषदमाद्युदात्तं न तु कर्क्यादीनाम्। इन्द्रप्रस्थः। वृद्धस्य तु दाक्षिप्रस्थ इत्यादौ न। कर्क्यादयश्च कर्क्की मघ्नी मकरी कर्क्कन्धु शमी करीर कन्दुक कवल वदरी। “मालादीनाञ्च” पा०। वृद्धार्थमिदम्। मालाप्रस्थम्। मालादयश्च। माला शाला शोणा द्राक्षा स्राक्षा क्षामा काञ्ची एक काम। “अमहन्नवं नगरेऽनुदोचाम्” पा०। ब्रद्यनगरम्। महन्नवयोस्तु महानगरं नवनगरमित्यादौ न। उदीचान्तु कार्त्तिनगरमित्यादौ न। “अर्म्मे चावर्णं द्यच् त्र्यच्” पा०। अर्म्मे परे द्व्यच्कं त्र्यच्कं वाऽवर्णान्तं पूर्वपदमाद्युदात्तं स्वात्। गुप्तार्म्मम्। कुक्कुटार्म्मम्। अनवर्णस्य वृहदर्ममित्यादौ न। अधिकाच्केऽपि कपिञ्जलार्ममित्यादौ न। अमहवन्नमित्येव तेन महार्मम् नवार्ममित्यादौ न। “न भूताधिकसञ्जीवमद्राश्मकज्जलम्” पा०। अर्म्मे एतानि नाद्युदात्तानि। भूतार्मम्।

एवं समासे पूर्वपदस्य आद्युदात्तनामाभिधाय त स्यैव अन्तोदात्तताऽपि तत्र उक्ता यथा “अन्तः” पा० अधिकारोऽयं प्रागुत्तरपदादिग्रहणात्। “सर्वं गुणकात्र्स्न्ये” पा०। सर्व्वशब्दरूपं पूर्वपदमन्तोदात्तं स्यात् गुणसाकल्ये गम्ये। मर्वश्वेतः सर्वमहान्। श्वेतत्वमहत्त्वगुणाभ्यां कृत्स्नव्यापकताद्योतनादस्य तथात्वम्। सर्वसौवर्ण इत्यादौ तु गुणेन व्याप्त्यभावान्न। अप्ताकल्ये तु सर्वेषां श्वेततरः सर्वश्वेत इत्यादौ तरलोपे न। “संज्ञायां गिरिनिकाययोः” पा०। एतयोः पूर्ब्बमन्तोदात्तम्। अञ्जनागिरिः मौण्डिनिकायः। असंज्ञायान्तु परमगिरिः ब्राह्मणनिकाय इप्यादौ न। “कुमार्य्या वयसि” पा०। कुमारीपरे पूर्वपदमन्तोदात्तम् वयसि। वृद्धकुमारी जरत्कुमारी। कुमारीशब्दः पुंसा सह सङ्गमाभाववतीपरः वृद्धादिसामानाथिकरण्यात् वयोवाचित्वमत्र। अवयसि तु परमकुमारी त्यादौ न। “उदकेऽकेवले” पा० अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वपदमन्तोदात्तम्। गुडोदकम्। गुडमिश्रितमुदकमित्यर्यः स्वरे कृतेऽत्र एकादेशे स्वरितोवानुकात्ते पदादाविति पक्षे स्वरितः। अमिश्रे तु शीतोदकम् इत्यादौ न। “द्विगौ क्रतौ” पा० द्विगावुत्तरपदे कतुवाचिनि समासे प्रागुक्तम्। गार्ग्यत्रिरात्रः। अद्विगौ तु अतिरात्र इत्यादौ न “सभायां नपुंसके” पा० क्लीवान्त सभापरे प्रागुक्तम्। गोपालसभम्। अक्लीवे राजसभेत्यादौ न। तत्पुरुषस्यैव ग्रहणं तेन रमणीयसभं ब्राह्मणकुलमित्यादौ न। “पुरे प्राचाम्” पा०। देवदत्त पुरम्। नान्दीपुरम्। अप्राचि तु शिवपुरमित्यादौ न। “अरिष्टगौडपूर्वेच” पा०। अरिष्टपुरम्। गौडपुरम्। पूर्व्वग्रहणात् अरिष्टाश्रितपुरं गौडभृत्यपुरमित्यत्रापि स्यात्। “न हास्तिनफलकमार्द्देयाः” पा०। पुरे परे एतानि नान्तो दात्तानि। हास्तिनपुरम्। फलकपुरम्। सार्द्देयपुरम्। “कुसूलकूपकुम्भशालं बिले” पा० कुसूलबिलम्। कूपबिलमित्यादि “दिक्छब्दा ग्रामजनपदाख्यानचानराटेषु” पा०। एषु परेषु दिग्वाचकशब्दाः अन्तोदात्ताः। पूर्व्वेषुकामशमी। अपरकृष्णमृत्तिका। पूर्वपञ्चालाः पूर्व्वचानराटम्। इह पूर्वकालवाचित्वेऽपि पूर्वादेः दिशि दृष्टत्वाद्दिक्छब्दत्वम् “आचार्य्योपसर्जनश्चान्तेवासिनि” पा० आचार्य्योपसर्जने अन्तेवासिनि परे दिक्छब्दाः अन्तोदात्ताः। पूर्वपाणिनीयाः आचार्य्येत्युक्तेः पूर्ब्बान्तेवासीत्यादौ न। “उत्तरपदवृद्धौ सर्वञ्च” पा०। उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्व्वशब्दः दिक्शब्दश्चान्तोदात्तः। सर्वपाञ्चालः पूर्वपाञ्चालः। “बहुब्रीहौ विश्वं संज्ञायाम्” पा०। ब० ब्री० विश्वशब्दः पूर्व्वपदमन्तोदात्तं संज्ञायाम्। पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः। विश्वकर्मा विश्वदेवः। कर्म० विश्वेदेवा इत्यादौ न। अव्ययीभावात् बहुब्रीहावित्यधिकारः। “उदराश्वेषुषु” पा०। एषु परेषु पूर्वपदमन्तोदात्तं स्यात् बहुव्रीहौ। वृषोदरः हर्य्यम्बः महेषुः। “क्षेपे” पा०। निन्दने गम्ये प्रागुक्तम्। घटोदरः कटुकाश्वः चलाचलेषुः। अनुदर इत्यत्र नञ्सुभ्यामिति पूर्वप्रतिप्रतिषेधेन भवति” सि० कौ०। “नदी बन्धुनि” पा०। गार्गीबन्धुः। “निष्ठोपसर्गपूर्वान्यतरस्याम्” पा०। निष्ठान्तमुपसर्ग पूर्व्वपदमन्तोदात्तं वा। प्रधौतपादः।

एवं समासे आदिपदस्याद्यन्तोदात्ततां विधाय उत्तरपदस्याद्युदात्ततामाह यथा। “उत्तरपदादिः” पा०। उत्तपदाधिकारः आपादान्तम्। आद्यधिकारस्तु प्रकृत्या भगालमित्यवधिकः। “कर्ण्णोवर्ण्णलक्षणात्” पा०। वर्णबाचिनः लक्षणवाचिनश्च परः कर्ण्णशब्दः आद्युदात्तो बहुब्रीहौ। शुक्लकर्णः शङ्कुकर्णः। अन्यस्मात्तु शोभनकर्ण इत्यादौ न। “संज्ञौपम्ययोश्च” पा०। उत्तरपदस्थं कर्ण आद्युदात्तः। मणिकर्णः गोकर्णः। “कण्ठपृष्ठग्रीवाजङ्घञ्च” पा०। संज्ञौपम्ययोर्बहुब्रीहौ। संज्ञायाम् शिति कण्ठः काण्डपृष्ठः सुग्रीवः नाडीजङ्घः। औपम्ये खरकण्ठः गोपृष्ठः अश्वग्रीवः गोजङ्घः। “शृङ्गमवस्थायाञ्च” पा०। अबस्थायाम् उद्गतशृङ्गः द्व्यङ्गुलशृङ्गः अत्र शृङ्गोद्गमनादिना वयो ज्ञाप्यते। संज्ञायाम् ऋष्यशृङ्गः। औपम्ये मेषशृङ्गः। “नञोजरमरमित्रमृताः” पा०। नञः पराएते आद्युदात्ता बहु०। अजरम्। अमरम्। अमित्रम् अमृतम्। “सोर्मनसी अलोमोषसी” पा०। सोः परे लोमोषसी त्यक्त्वा मन्नन्तमसन्तं चाद्युदात्त बहु०। सुकर्माणः सुयुजः। सुमनाः सुब्रह्मा सुवर्च्चाः सुपेषसः। लोमोषसोस्तु सुलोमा सूषा इत्यादौ न। “क्रत्वादयश्च” पा०। सोः परे एते आद्युदात्ताः। सुक्रतुः सुप्रतोकः। क्रतु दृशीक प्रतीक प्रतूर्त्तिहव्यभग। “आद्यु दात्तं द्व्यच छन्दसि” पा०। यदाद्युदात्तं द्व्यच् तत् सोरु त्तरं बहुव्रीहौ तथैव स्यात् वेदे लोके तु न। स्वश्वाः सुरथाः। आद्युदात्तं किम् सुबाहुः। द्व्यच् किं सुगुः सहिरण्य इत्यादौ न। “वीरवीर्य्यौ च” पा०। वेदे सुवीरः सुवीर्य्यः लोके तु न। अत्र वीर्य्यग्रहणादन्यत्र वीर्य्यशब्दस्य यदन्तत्वेऽपि यतोनावैत्याद्युदात्तं नेति ज्ञापितम। “कूलतीरतूलमूलशालाक्षसममव्ययीभावे” पा०। बहुब्रीह्यधिकारोनिवृत्तः। अव्ययीभाव कूलादीन्याद्युदात्तानि स्युः। उपकूलम् उपतीरम् उपशालम्। उपाक्षं सुषमम् निःषमम्। तिष्ठद्ग्वादि० स०। “कंसमन्थशूर्पपाय्य काण्डं द्विगौ” पा०। द्धिगौ एतानि आद्युदात्तानि। द्विकंसः द्विमन्थः द्विशूर्पः द्विपाय्यम् द्विकाण्डम्। “तत्पुरुषे शालायां नपुंसके” पा०। क्लीवशालान्ते तत्पुरुषे उत्तरपदमाद्युदात्तम्। ब्राह्मणशालम्। “कन्था च” पा०। क्लीवलिङ्ग कन्थान्तस्तत्पुरुषः प्राग्वत्। सौशमिककन्थम्। “आदिश्चिहणादीनाम्” पा०। कन्थान्ते तत्पुरुषे क्लीवलिङ्गे चिहणादीनामादिरुदात्तः। न तु कन्थाशब्दरूपस्योत्तरपदस्य पूर्व्वापवादः। चिहणकन्थम्। चिहणादिश्च चिहण मडर मद्रुमर वैतुल पटत्क वैडालिकर्णक वैडालिकर्णि कुक्कुट चिक्कण चित्कण। “चेलखेटकटुककाण्डं गर्हायाम्” पा०। निन्दायां चेलादीन्युत्तरपदान्याद्युदात्तानि। पुत्रचेलम्। नगरखेटं दधिकटुकम्। प्रजाकाण्डम्। चेलादिसादृश्येन पुत्रादीनां निन्दा व्याघ्रा० स०। “चीरमुपमानम्” पा०। उत्तरपदस्थमुपमानं चीरम् आद्युद्यत्तम्। वस्त्रं चीरमिव वस्त्रचीरम्। अनौपम्ये तु परमचीरम् इत्यादौ न। “पललसूपशाकं मिश्रे” पा० मिश्रार्थे समासे उत्तरपदस्थानामेषां प्राग्वत्। घृतपललं घृतसूपः घृतशाकः। भक्ष्येण मिश्रीकरणमिति समासः। अमिश्रे तु परमपललमित्यादौ न। “कूलसूदस्थलकर्षाः संज्ञायाम्” पा०। उत्तरपदस्थानामेषामादिरुदात्तः संज्ञायाम्। दाक्षिकूलम्। शाण्डिसूदम्। दाण्डायनस्थली। दाक्षिकर्षः ग्रामभेदस्य एताःसज्ञाः। असंज्ञायां तु परमकूलमित्यादौ न। “अकर्म्मधारये रा- ज्यम्” पा०। ब्राह्मणराज्यम् कर्म्मधारये तु परमराज्यमित्यादौ न। “वर्ग्यादयः” पा०। अकर्म्मघारय इत्येव। अर्जुनवर्ग्यः वासुदेवपक्ष्यः कर्म्मधा० परमवर्ग्य इत्यादौ न। वर्ग्यादिश्च दिगाद्यन्तर्गणः तच्छब्दे दृश्यः। “पुत्रःपुम्भ्यः” पा०। पुंशब्देभ्यः परः पुत्र आद्युदात्तस्तत्पुरुषे। दासकिपुत्रः माहिषपुत्रः। स्त्रीभ्यस्तु दाक्षीपुत्र इत्यादौ न। “नाचार्य्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः” पा०। एभ्यः पुत्रोनाद्युदात्तः। आचार्य्यपुत्रः उपाध्यायपुत्रः। राजपुत्रः ईश्वरपुत्रः नन्दपुत्रः। ऋत्विक्पुत्रः याजकपुत्रः। संयुक्ताः संम्बन्धिनः। श्यालपुत्रः। ज्ञातिपुत्रः भ्रातुष्पुत्रः। “चूर्णादीन्यप्राणिषष्ठ्याः” पा०। एतानि प्राणिमिन्नषष्ठ्यन्तात् पराण्याद्युदात्तानि तत्पुरुषे। मुद्गचूर्ण्णम्। प्राणिनस्तु मत्स्यचूर्ण्णमित्यादौ न। चूर्ण्णादयश्च। चूर्ण्ण करिव करिष शाकिन शाकट द्राक्षा तूल कुन्दम दलप चमसी चक्वन चौल। “षट् च काण्डादीनि” पा०। काण्ड चीर पलल सूप शाक कूल इत्येतानि षट् अप्राणिषष्ठ्यान्तात् आद्युदात्तानि। दूर्वाकाण्डं दर्भचीरम् तिलपललम् मुद्गसूपः मूलकशाकम् नदीकूलम्। “कुण्डं वनम्” पा०। वनवाचिनि तत्पुरुषे कुण्डमाद्युदात्तम्। दर्भकुण्डम् कुण्डशब्दोऽत्र सादृश्ये।

अथ उत्तरपदे प्रकृतिस्वरविधानसूत्राणि। “प्रकृत्या भगालम्” पा०। भगालवाच्युत्तरपदं ततपुरुषे प्रकृत्या। कुम्भीभगालम्। कुम्भीनदालम् कुम्भीदापालम्। मध्योदात्ताएते। प्रकृत्येत्यधिकारः अन्त इति यावत्। “शितेर्नित्याबह्वच् बहुब्रीहावभसत्” पा०। शितेः परं नित्याबह्वच्कं प्रकृत्या बहुव्रीहौ। शितिपादः। शित्यंसः। पादः वृषा० आद्युदात्तः अंसशब्दः नित्स्वरवान्। शितेराद्युदात्तत्वात् बहुव्रीहौ पूर्व्वपदप्रकृतिस्वरापवादेन उत्तरस्य प्रकृतिस्वरविधानात्तस्य बाधः। “गतिकारकोपपदात् कृत्” पा०। एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे। गतेः, प्रकारकः प्रहरणम्। कारकात् इध्मप्रव्रश्चनः। उपपदात् उच्चैःकारम्। ईषत्करः। शेषषष्ठोस० तु देवस्य कारकः देवकारक इआत्यादौ न। “उभे वनस्पत्यादिषु युगपत्” पा०। एषु पूर्व्वोत्तर पदे युगपत् प्रकृत्या। वनस्पतिः वृहस्पतिः। ते च बनस्पति वृहस्पति शचीपति तनूनपात् नराशंस शुनःशेफ शण्डामार्कौ तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्यू। “देवताद्वन्द्वे” पा०। उभे युगपत् प्रकृत्यास्तः। इन्द्रावरुणौ। “नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु” पा०। पृथिव्यादिवर्ज्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तन्न। “इन्द्राग्निभ्यां कं वृषणः” पृथिव्यादौ तु द्यावापृथिव्यौ इत्यादौ स्यादेव। तत्र नि० आद्युदात्तः द्यावा, पृथिवीत्वन्तोदात्तः। एवं रुद्रसौमौ इन्द्रापूषणौ इत्यादौ।

अथोत्तरपदे अन्तोदात्तताविधायकसूत्राणि यथा “अन्तः” पा०। अधिकारोऽयम्। “थाथघञ्क्ताजवित्रकाणाम्” पा० थ, अथ, घञ्, क्त, अच्, अप् इत्र, क, एतदन्तानाम् उत्तरपदस्थानां गतिकारकोपपदात् परेषामन्त उदात्तः। तत्र थ अपभृथः। अथ आवसथः। घञ् प्रभेदः। क्त पुरुष्टुतः। अच् प्रक्षयः। अप् प्रलवः प्रस्तवः। इत्र प्रलवित्रम्। क गोवृषः मूल० क। गतिकारकोपदमिन्ने तु सुस्तुवैत्यादौ न सोः पूजार्थत्वेन गतित्वाभावात्। “सूपमानात् क्तः” पा०। सोरुपमानाच्च परं क्तान्तमन्तोदात्तम्। सुकृतम् शशप्लुतः। “संज्ञायामनाचितादीनाम्” पा०। गतिकारकोपपदात् क्तान्तमन्तोदात्तं न तु आचितादौ। “उपहूतः शाकल्यः” आचितादौ न। आचितादयश्च ६ ३९ पृ० दर्शिताः। “प्रवृद्धादीनाञ्च” असंज्ञार्थमारम्भः। प्रवृद्धं यानं प्रवृद्धोवृषलः। प्रयुतासूष्णवः। आकर्षे अवहितः (अवहितो भोगेषु)। खट्वारूढः कविशस्तः आकृतिगणोऽथम्। प्रवृद्धयानम्। अप्रवृद्धो वृषकृतो रथः। “कारकाद्दत्तश्रुतयोरेवाशिषि” पा०। कारकपदादुत्तर पदपदस्थयोर्दत्तश्रुतशब्दयोरेव संज्ञायामन्तोदात्तः आशीर्वादे गम्ये। देवदत्तः विष्णुश्रुतः। अनयोरेवेति नियमात् देवपालित इत्यादौ न। “इत्थम्भूतेन कृतमिति च” पा०। इत्थम्भूतेन कृतमित्यस्मिन्नर्थे यः समासः कृतः ततःक्तान्तमुत्तरपदमन्तोदात्तम्। सुप्तप्रलपितम्। अत्रकृतमिति सामान्यक्रियावाचि। तृतीया कर्मणीत्यस्यापवादः। “अनोभावकर्मवचनः” पा०। कारकात् परमनप्रत्ययान्तं भाववचनं कर्मवचनञ्चान्तोदान्तम्। भावे पयःपानम्। कर्मणि राजभोजनाः शालयः। “मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः” पा०। कारकात् पराण्येतानि तत्पुरुषेऽन्तोदात्तानि। कृत्खरापवादः।। मन् रथवर्त्म। क्तिन् पाणिनिकृतिः। करणे ल्युट् छन्दोव्याख्यानम्। तेन न पूर्ब्बेण गतार्थः। राजशयनम् राजासनम् अश्वस्थानम् एषु आधारे ल्युट्। ब्राह्मणयाजकः। याजकादिश्च याजकादिशब्दे वक्ष्यते गोक्रीताः। क रकभिन्नात्तु प्रभूतिः सङ्गतिः इत्यादौ तादौ नितीति स्वरः। “सप्तम्याः पुण्यम्” पा०। अन्तोदात्तम्। अध्ययनपुण्यम्। तृतीयातत्पुरुषे तु वेदपुण्यमित्यादौ न। “ऊनार्थकलहं तृतीयायाः” पा०। तृतीयायाः परावेतौ अन्तीदात्तौ तत्पुरुषे। माषोनम् माषविकलम्। वाक्कलहः। तृतीयापूर्वपदप्रकृतिस्वरापवादः। अर्थेति स्वरूपग्रहणं तेन धान्यार्थ इत्यत्रापि अर्थशब्दस्य तथात्वम्। ऊनशब्देन तदर्थग्रहणमिति केचित्। “मिश्रञ्चानुपसर्गमसन्धौ” पा०। तृतीयायाः परम् अनुपसर्गं मिश्रं प्राग्वत्। तिलमिश्रम् सर्पिर्मिश्रम्। मिश्रग्रहणेऽन्यत्र सोपसर्गस्य ग्रहणमिति अनुपसर्ग विशेषणात् ज्ञापितम्। सन्धौ तु ब्राह्मणमिश्रो राजा इत्यादौ न, ब्राह्मणैः सह ऐकार्थ्यमापन्न इत्यर्थः। “नञोगुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः” पा०। सम्पाद्याद्यर्थतद्धितान्तागुणनिषेधार्थकनञः परेऽन्तोदात्ताः। न कर्णवेष्टनाभ्यां सम्पादितं मुखं भवति अकार्णवेष्टनिकम्। न च्छेदमर्हति अच्छेदिकः। न वत्स्वेभ्योहितः अबत्सीयः। न सन्तापाय प्रभवति असन्तापीयः। “ययतोश्चातदर्थे” पा०। तदर्थार्थभिन्नौ ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्थस्य गुणनिषेधार्थात् नञः परस्यान्त उदात्तः। पाशानां समूहः पाश्या न पाश्या अपाश्या। अदन्त्यम्। तदर्थार्थान्ते तु अपाद्यमित्यादौ न। यतः तानुबन्धस्य ग्रहणात् इतरानुबन्धस्य यस्य अवामदेव्यमित्यादौ न। अत्र वामदेव ड्ड्यड्ड्याविति ड्यत् ड्य वा। “अच्कावशक्तौ” पा०। अजन्तं कान्तञ्च नञः परमन्तोदात्तमसामर्थ्येगम्ये। अपचः पक्तुं न शक्तः। अलिखः। सामर्थ्येतु अपचोदीक्षित इत्याद्रौ न। दीक्षितस्य न पाकासामर्थ्यं किन्तु निषेधादपचत्वम्। “आक्रोशे च” पा०। नञः परावच्कान्तावन्तोदात्तौ क्षेपे। अपचोजाल्मःपक्तुं न शक्नोतीत्येवमाक्षिप्यते। अक्षिपः। “संज्ञायाम्” पा०। नजः परमन्तोदात्तं संज्ञायाम् क्षेपे। अदेवदत्तः “कृत्योकेष्णुच्चार्वादयश्च” पा०। नञः परे एतेऽन्तोदात्ताः स्युः। कृत्य अकर्त्तव्यः। उक अनागामुकः। इष्णुच् अनलङ्करिष्णुः। खिष्णुचोऽपि। अनाढ्यम्भविष्णुः। अचारुः। चार्वायदश्च चारु साधु यौधकि अनङ्गमेजय वदान्य अकस्मात् (वर्त्तमानवर्द्धमानत्वरमाणध्रियमानह्रियमाणरोचमानशोभमानाःसंज्ञायाम्) (विकारसदृशे व्यस्तसमस्ते) गृहपति गृहपतिक (राजाह्नोश्छन्दसि) अराजा अनहः। भाषायां तु अव्ययस्वरः। “विभाषा तृन्नन्नतीक्ष्ण शुचिषु” पा०। तृन् अकर्त्ता। अनन्नम्। अतीक्ष्णम् अशुचिः। पक्षे अव्ययस्वरः। “बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने” पा०। एभ्य एतयोरन्त उदात्तः बहुव्रीहौ। इदं प्रथमं यस्य इदं प्रथमः। एवम् एतद्द्वितीयं तत्पञ्चमम। द्रव्यगणने तु अयं प्रथमः प्रधानं येषां ते इदंप्रथमा इत्यादौ न। बहुव्रीहावित्यधिकारः। “संख्यायाः स्तनः” पा०। द्विस्तना चतुःस्तना। “विभाषा छन्दसि” पा०। “द्विस्तनां करोति वामदेव्यः”। पक्षे न “संज्ञायां मित्राजिनयोः” पा०। देवमित्रः कृष्णाजिनम्। असंज्ञायां प्रियमित्रः इत्यादौ न। “ऋषिप्रतिषेधोमित्रे” वार्त्ति०। विश्वामित्र ऋषिः अत्र न। “व्यवायिनोऽन्तरम्” पा०। व्यवधायकात् पर मन्तरमन्तोदात्तम्। वस्त्रान्तरः। “मुखं स्वाङ्गम्” पा०। गौरमुखः। अस्वाङ्गे तु दीर्घमुखा शाला इत्यादौ न। “नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः” पा०। एभ्यः परं मुखंनान्तोदात्तम् तेन पूर्वपदप्रकृतिस्वरः। उच्चैर्मुखः। प्राङ्मुस्वः गोमुखः। गोमष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोबाध्यते पुरस्तादपवादन्यायात्। “निष्ठोपमानादन्यतरस्याम्” पा०। निष्ठान्तादुपमावाचिनश्च परं स्वाङ्गं मुखं वान्तोदात्तम्। प्रक्षालितमुखः पक्षे निष्ठोपसर्गेति पूर्वपदान्तीदात्तत्वम्। पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति। सिंहमुखः। पक्षे पूर्वपदप्रकृतिस्वरः। “जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः” पा०। सारङ्गजग्धः मासभूतः सुखभूतः। सुख दुःख तृप्त कृच्छ्र अस्त्र आस्त्र अलीक प्रतीप करुण सोद इत्येतानि सुखादीनि। आच्छादनात्तु वस्त्रच्छन्न इत्यादौ न। कुण्डकृतः कुण्डमितः कुण्डप्रतिपन्न इत्यादौ च न। वा जाते” पा०। एभ्यो जातिशब्दोऽन्तोदात्तः। दन्तजातः मासजातः। पक्षे पूर्व्वपदप्रकृतिस्वरः “नञ् सुभ्याम्” पा०। आभ्यां परमन्तोदात्तं वहुव्रीहौ। अव्रीहिः सुमाषः। “कपिपूर्वम्” पा०। नञ् सुभ्यां परमुत्तरपदस्य पूर्व्वमुदात्तं कपि परे। अब्रह्मबन्धुकः। सुकुमारीकः। “ह्रस्वान्ते अन्त्यात्पूर्वम्” पा०। ह्रस्वान्ते उत्तरपदे समासे अन्त्यात् पूर्व्वपदमुदात्तं नञ्सुभ्यां बहुव्रीहौ। अव्रीहिकः सुमाषकः। “बहोर्नञ्वदुत्तरपदभूम्नि” पा०। उत्तरपदार्थे बहुत्ववाचिनोबहोः परस्य पदस्य नञः परस्येव स्वरःस्यात्। बहुब्रीहिकः बहुमित्रः। अबहुत्वे तु बहुषु मानोऽस्य बहु मान इत्यादौ न। “न गुणादयोऽवयवाः” पा०। अवयर्व- वाचिवो बहोः परे गुणादयोनान्तोदात्ताः ब० व्री०। बहुगुणा रज्जुः। बह्वक्षरं पदम्। गुणादयश्च गुण अक्षर अध्याय सूक्त छन्दः मान। गुणादिराकृतिगणः। अनवयवे तु अध्ययनश्रुतसदाचारादिगुणपरत्वे बहुगुणोद्विज इत्यादौ न। “उपसर्गात् स्वाङ्गं घ्रुवमपर्शु” पा०। प्रपृष्ठः। अध्र वे तु उद्बाहुरित्यादौ विपर्शुरित्यादौ च न। “वनं समासे” पा०। समासमात्रे उपसर्गात् परं वनमन्तोदात्तं स्यात्। प्रवणम्। “अन्तः” पा०। अन्तर् शब्दात् परं वनमन्तोदात्तम् समासमात्रे। अन्तर्वणोदेशः। “अन्तश्च” पा०। उपसर्गादन्तशब्दोऽन्तोदात्तः। पर्य्यन्तः समन्तः। “न निविभ्याम्” पा०। न्यन्तः व्यन्त इत्यादौ न। पूर्ब्बपदप्रकृतिस्वरे यणि च कृते उदात्तस्वरितयोर्यण इति स्वरितः। “परेरभितोभावि मण्डलम्” पा०। परेः परम् अभितौभयतो भावि कूलादि, मण्डलं चान्तोदात्तम्। परिकूलम् परिमण्डलम्। “प्रादस्वाङ्गं संज्ञायाम्” पा०। प्रगृहम्। स्वाङ्गे तु प्रपदमित्यादौ न “निरुदकादीनि च” पा०। निरुदक निरुपल निर्म्मक्षिक निर्म्मशक निष्कालक निष्कालिक निष्येष दुस्तरीप निस्तरीक निरजिन उदजिन उपाआजिन (परेर्हस्तपादकेशकर्षाः) निरुदकादिराकृतिगणः। एतानि अन्तोदात्तानि। निरुदकम्। “अभेर्मुखम्” पा०। अबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थमारम्भः। अभिमुखा शाला। “अपाच्च” पा०। अपमुखम् अत्रापि पूर्व्ववदारम्भः। अपमुखा शाला “स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनासनाम च” पा०। अपादिमान्यन्तोदात्तानि। अपस्फिगम् अपपूतम्। अपाञ्जः। अपाध्वा समासान्तविधेरनित्यत्वात् नेह समा०। अपकुक्षि। अपसीरम् अपहलम्। अपनाम। स्फिगादिग्रहणमबहुब्रीह्यर्थम् अध्रुवार्थमस्वाङार्थञ्च। “अधेरुपरिस्थम्” पा०। अध्यरूढोदन्तोऽधिदन्तः दन्तस्योपरिजातोदन्त इत्यर्थः। अनुपरिस्थे अधिकरणमित्यादौ न। “अनोरप्रधानकनीयसी” पा०। अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम्। अनुगतोज्येष्ठम् अनुज्योष्टैत्यादि। अत्र पूर्ब्बपदार्थप्राधान्यात् ज्येष्ठशब्दस्याप्रधानत्वम्। अनुगतः कनीयान् प्रा० स०। अनुकनीयान्। अत्र उत्तरपदार्थप्राघान्यम्। प्राधान्यार्थमेव कनीयसः पृथग्ग्रहणम्। “पुरुषश्चान्वादिष्टः” पा०। अनोः परः अन्वादिष्टवाची पुरुषः अन्तोदात्तः। अन्वादिष्टः पुरुषः प्रा० स०। अनुपुरुषः। “अतेरकृत्पदे” पा०। अतेः परमकृदन्तं पदं पदशब्दश्चान्तोदात्तः। अत्यङ्कुशो- नागः। अतिपदा गायत्री। कृत्पदे तु अतिचार इत्यादौ न। “अतेर्धातुलोप इति वाच्यम्” वार्त्ति०। “प्रादिभ्योधातुजस्य वा चोत्तरपदलोप इति अत्यादयः क्रान्त्याद्यर्थे द्वितीयययेति यत्र धातुलोपस्तत्रेवायं स्वरः। तेन शोभनोगार्ग्यः प्रा० स०। अतिगार्ग्यः अत्र न। अतिक्रान्तः कारुकम्। आतिकारुक इत्यत्रापि स्यात् कारुकशब्दस्य कृदन्तत्वेऽपि धातुलोपएव कृदन्त निय मनात् अतिकार इत्यादौ तु थातुलोपभावान्नेति भेदः। “नेरनिधाने” पा०। निधानमप्रकाशः तद्भिन्ने प्रकाशार्थे नेरुत्तरपदमन्तोदात्तम्। निमूलम् न्यक्षम्। निधाने तु निहितो दण्डः निदण्ड इत्यादौ अप्रकाशितः गुप्तोदण्ड इत्यर्थके न। “प्रतेरंश्वादयस्तत्पुरुषे” पा०। प्रतिगतोऽंशुः प्रत्यंशुः प्रतिजनः प्रतिराजा समासान्तविधेनित्यत्वान्न टच्। बह्वब्रीहौ तु न। अंश्वादयश्च ३७ पृ० दर्शिताः। “उपाद्द्व्यजजिनमगौरादयः” पा०। उपात् परं द्व्यच्कमजिनञ्चान्तोदात्तम् न तु गौरादयः। ते च गौर तैष तैल लेट लोट जिह्वा कृष्णा कन्या गुध कल्प पाद। उपदेवः उपेन्द्रः उपाजिनम्। गौरादौ उपगौर इत्यादौ न। “सोरवक्षेपणे” पा०। आक्षेपे गम्ये सोःपरमन्तोदात्तम्। सुप्रत्यवसितः सुरत्रपूजार्थः वाक्यार्थस्तु निन्दा असूयथा तथाऽभिधानात्। “विभाषोत्पुच्छे” पा०। उत्पुच्छे शब्दे वान्तोदान्तः। उत्क्रान्तः पुच्छात्, पुच्छसुदस्यति उत्पुच्छयतेर्वा एरच्। उभयस्याप्यत्र ग्रहणम्। उत्पुच्छः। “द्वित्रिभ्यां पद्दन्मूर्द्धसु बहुब्रीहौ” पा०। आभ्यां परेष्वेषु अन्तोदात्तो वा बहुब्रीहौ। द्विपाद् त्रिपाद्। त्रिमूर्द्धा। ममासान्तविधेरनित्यत्वज्ञापकमिदम्। तत्पुरुषे तु द्वयोर्मूर्द्धा द्विमूर्द्धेत्यादौ न। “सक्थञ्चाक्रान्तात्” पा०। कृतसमासान्तसक्थस्य अक्रान्तात् परस्य वान्तोदात्तः। गौरसक्थः श्लक्ष्णसक्थः। क्रान्तात्तु चक्रसक्थ इत्यादौ न किन्तु षच्समासान्तस्य चित्त्वात् नित्यमन्तोदात्तता। “परादिश्छन्दसि बहुलम्” पा०। वेदे उत्तरपदस्थस्य शब्दस्यादि रुदात्तो बहुलम्। “अञ्जिसक्थमालमेत” बहुलग्रहणात् “परादिश्च परान्तश्च पूर्ब्बान्तश्चापि दृश्यते। पूर्ब्बादयश्च दृश्यन्ते व्यतयो बहुलं ततः” वार्त्ति०। इति समासस्वराः। एवमुदात्ते विहिते क्वचित्तस्य निघातेनानुदात्तता स्यात् तच्च निघातशब्दे सापवादं वक्ष्यते। “निहन्त्यरीनेकपदे यौदात्तः स्वरानिव” माघः। “अवि- कत्थनः क्षमावानतिगम्भीरो महासत्वः। स्थेयान् निगूढमानो धीरोदात्तो दृढव्रतः कथितः” सा० द० २ उक्ते (पूर्बपदलोपेन) नायकभेदे। भावे क्त। ३ दाने ४ वाद्यभेदे शब्दर० ५ अलङ्कारभेदे पु०। स च अलङ्कारशब्दे ३९६ पृष्ठे दर्शितः। कर्त्तरि क्त ६ महति ७ समर्थे ८ दातरि च त्रि०।

उदात्तराघव = न० नाटकभेदे।

उदान = पु० अन–घञ् ऊर्द्ध्वमानोऽस्य। ऊर्द्ध्वगतिशीले कण्ठादिदेशवर्त्तिनि प्राणवृत्तिभेदे वायौ। “अथ योऽस्योर्द्धसुषिः सौदानः स वायुः सआकाशः” छा० उ०। “आपादतलादारभ्योर्द्ध्वमुत्क्रमात् उत्कर्षार्थञ्च कर्म्म कुर्वन्निति उदानः” छा० उप० भा०। पदार्थादर्शे योगार्ण्णवे तत्स्थानाद्युक्तम् “स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः। उद्वेजयति मर्म्माणि उदानो नाम मारुतः। विद्युत्पावकवर्ण्णः स्यादुत्थानासनकारकः। पादयोर्हस्तयोश्चापि सर्वसन्धिषु वर्त्तते”। सुश्रुते च “यथाग्निः पञ्चघा भिन्नो नामस्थानात्मकर्म्मभिः। भिन्नोऽनिलस्तथा ह्येको नामस्थानक्रियोमयैः। प्राणोदानौ समानश्च व्यानश्चापान एव च। स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम्। वायुर्य्यो वक्त्रसञ्चारी स प्राणो नाम देहधृक्। सोऽन्नं प्रवेशयत्यन्तः प्राणांश्चाप्यवलम्बते। प्रायशः कुरुते दुष्टो हिक्काश्वासादिकान् गदान्। उदानो नाम यस्तूर्द्ध्वमुपैति पवनोत्तमः। तेन भाषितगीतादिविशोषोऽभिप्रवर्त्तते। ऊर्द्ध्वजत्रुगतान् रोगान् करोति च विशेषतः। आमपक्वाशयचरः समानी वह्निसङ्गतः। सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति हि। गुल्माग्निसङ्गातीसारप्रभृतीन्कुरुते गदान्। कृत्स्नदेहचरो व्यानो रससंवहनोद्यतः। स्वेदासृक्स्रावणो वापि पञ्चधा चेष्टयत्यपि। क्रुद्धश्च कुरुते रोगान् प्रायशः सर्वदेहगान्। पक्वाधानालयोऽपानः काले कर्षति चाप्ययम्। समीरणः सकृन्मूत्रशुक्रगर्भार्त्तवान्यधः। क्रुद्धश्च कुरुते रोगान्घोरान् वस्तिगुदाश्रयान्। शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः। युगपत्कुपिताश्चापि देहं भिन्द्युरसंशयम्” छान्दोग्ये च भोजनस्याग्निहोत्रस्थानीयतया सम्पादनेन प्राणादिपञ्चकाहुतेर्नित्यं कर्त्तव्यता तत्फलञ्चोक्तम् यथा। “उरएव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्य्यपचन आस्यमाहवनीय इत्युपक्रम्य”। (तद्भाष्ये च आस्यस्य हूयतेऽस्मिन्नन्नमित्याहवनीयत्वमुक्तम्) आहुतिप्रकारः फलसहितो दर्शितो यथा। “तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामांहुतिं जुहुयात्तां जुहुयात् प्राणाय स्वाहेति प्राणस्तृप्यति, प्राण तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति १। अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति, व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति तस्यानुतृप्ति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति २। अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्यपानस्तृप्यति, अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाघितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ३। अथ यां चतुर्थीं जुहुयात्तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति, समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ४। अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदानस्तृप्यति, उदाने तृप्यति वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किञ्च वायुश्चाकाशश्चाघितिष्ठतस्तत्तृप्यति तस्यानुतृप्ति तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ५। स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक् तत्स्यात्। अथ य एतदेवंविद्वानग्निहोत्रं जुहोति तस्य सर्व्वेष लोकेषु सर्व्वेषु भूतेषु सर्व्वेष्वात्मसु हुतं भवति। तद्यथेषीका तूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्व्वेपाप्मानः प्रदूयन्ते य एतदेवंविद्वानग्निहोत्रं जुहोति। तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हेवास्य तद्वैश्वानरे हुतं स्यादिति तदेष श्लोकः। यथेह क्षुधिता बाला मातरं पर्थ्युपासते। एवं सर्व्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति”।

उदापु = पु० उद् + आप–उन्। जरासन्धपौत्रे क्षतियभेदे। “जरासन्धस्य पुत्रोवै सहदेवः प्रतापवान्। सहदेवात्मजः श्रीमानुदापुः स महायशाः। उदापुर्जनयामास पुत्रं परमधार्मिकम्”। हरिव० ३२ अ०।

***