उत्पल = न० उद् + पल–अच्। १ नीलपद्मे, २ कुमुदादौ, ३ कुष्ठोषघौ च। उत्क्रान्तं पलं मासम् अत्या० समा०। ४ मांसशून्ये त्रि०। “गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानान्” मेघ०। “यत्रोत्पलदलक्लैव्यमस्त्राण्यापुः सुरद्विषाम्” “मुहूर्त्तकर्णोत्पलतां प्रपेदे” “नवावतारं कमलादिवोत्पलम्” रघुः “अन्योन्यमुत्पीडयदुत्पला क्ष्याः” कुमा०। तच्च त्रिविधं नीलं रक्तंश्वेतञ्च “ध्रुवंस नीलोत्पलपत्रधारया” शकु०।

उत्पलगन्धिक = न० उत्पलस्य गन्धैव गन्धोऽस्य इत् समा० संज्ञायां कन्। गोशीर्षाख्ये चन्दने।।

उत्पलपत्र = न० उत्पलस्य पत्रमिव। १ तिलकभेदे स्त्रीणां स्तनादौ २ नखक्षते च। ६ त०। इन्दीवरस्य दले।

उत्पलपत्रक = न० उत्पलपत्रमिव कन्। उत्पलपत्राकारे सुश्रुतोक्ते शस्त्रभेदे। अर्द्धधारशब्दे ३७५ पृष्ठे तल्लक्ष्मादि दर्शितम्। “वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्द्धधाराणि छेदने भेदने च” सुश्रु०।

उत्पलभेद्यक = पु० सुश्रुतोक्ते कर्ण्णबन्धाकृतिभेदे। स च पञ्चदशविधः। तद्विमागलक्षणादि सुश्रु० दर्शितं यथा। “तत्र समासेन पञ्चदशकर्ण्णबन्धनाकृतयः। तद्यथा नेमिसन्घानक उत्पलभेद्यको वल्लूरक आसङ्गिमोगण्डकर्ण आहार्य्यो निर्व्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्द्ध्वकपाटसन्धिकः संक्षिप्तो हीनकर्ण्णो वल्लीकर्ण्णो यष्टिकर्ण्णः काकोष्ठक इति। तेषु पृथुलायतसमोभयपालिर्नेमिसन्धानकः। वृत्तायतसमोभयपालिरुत्पलभेद्यकः। ह्रस्व वृत्तसमोभयपासिर्वल्लूरकः। अभ्यन्तरदीर्घैकपालिरास- ङ्गिमः। बाह्यदीर्घैकपालिर्गण्डकर्ण्णः। अपालिरुभयतोऽप्याहार्य्यः। पीठोपमपालिरुभयतः, क्षीणपुत्रिकाश्रितो निर्व्वेधिमः। स्थूलाणुसमविषमपालिर्व्यायोजिमः। अभ्यन्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः। बाह्यदीर्घैकपालिरितराल्पपालिरर्द्धकपाटसन्धिकः। तत्र देशैते कर्ण्णबन्धविकल्पाः साध्यास्तेषां स्वनामभिरेवाकृतयः प्रायेण व्याख्याताः। संक्षिप्तादयः पञ्चासाध्यास्तत्र शुष्कशष्कुलिरुत्सन्नपालिरितराल्पपालिः संक्षिप्तः। अनधिष्ठानपालिः पर्य्यन्तयोः क्षीणमांसो हीनकर्ण्णः। तनु विषमाल्पपालिर्वल्लीकर्ण्णः। ग्रथितमांसस्तब्धशिरायत सूक्ष्मपालिर्यष्टिकर्णः। निर्मांससंक्षिप्ताग्राल्पशोणितपालिः काकोष्ठकपालिरिति”। “बन्धेष्वपि तु शोफदाहरागपाकपिडकास्रावयुक्ता न सिद्धिमुपयान्ति”।

उत्पलशा(सा)रिवा = त्रि० उत्पलं तदाकारपुष्पमस्त्यस्याः अर्श० अच् कर्म्म०। अनन्तमूलायां श्यामालतायाम्। “वृक्षादनी पयस्या च लता चोत्पलसा(शा)रिवा” सुश्रु०।

उत्पलषट्क = न० ज्वरातीसारचिकित्साङ्गे चक्र० उक्ते औषधभेदे। यथा “ज्वरातीसारे पेयादिक्रमः स्याल्लङ्घिते हितः। ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः। पृश्निपणींवलाविल्वनागरोत् पलधान्यकैः”।

उत्पलावती = स्त्री उत्पलमुत् पलाकारं नेत्रमस्त्यस्याः मतुप् मस्यवः संज्ञायां दीर्घः। अप्सरोभेदे” काशीख० ९ अ० अप्सरोलोलवर्ण्णने। “निर्मथ्यमानात् क्षोरोदात् पूर्ब्बमप्सरसस्त्वमूः। निःसृता त्रिजगज्जेतुर्मोहनास्त्रं मनोभुवः। “उर्व्वशी मेनका रम्भा चन्द्ररेखा तिलोत्तमा। वपुष्मती कान्तिमती लीलावत्युत्पलावती। अलम्बुषा गुणवती स्थूलकेशी कलावती। कलानिविर्गुणनिधिः कर्पूरतिलकोर्व्वरा। अनङ्गलतिका चापि तथा मदनमोहिनो। चकोराक्षी चन्द्रकला तथा मुनिमनोहरा। ग्रावद्रावा तपोद्वेष्ट्री चारुनासा सुकर्ण्णिका। दारुसंजीवनी सुश्रीः कृष्णशुल्का शुभानना। तपःशुलका तीर्थशुल्का दानशुल्का हिमावती। पञ्चाश्वमेधिका चैव राजसूयार्थिनी तथा। अष्टाग्निहोत्रिका तद्वद्वाजपेयशतोद्भता। कार्थ्यविस्मारयित्री च दृष्टिद्राया सुकल्पिनो। इत्याद्यसरसां श्रेष्ठं सहस्रं षष्टिसंयुतम्। एतस्मिन्नप्सरो लोवे वसन्त्यत्या अपि स्त्रियः”।

उत्पलिनी = स्त्री उत्पलानि सन्त्यस्मिन् देशे तेषां समुहो वा इति। १ उत्पलयुक्तलतायां, २ कुवलयसमुदाये च। “ववृषे सा महाराज बिभ्रती रूपमुत्तमम्। अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिस्वा शुभा” भा० व० ९६ अ०। २ उत्पलयुक्ते त्रि०।

उत्पवन = न० उद् + पु–ल्युट्। यज्ञियपात्रादिसंस्कारभेदे स च आश्व० गृ० १, ३, २, ३ सूत्रयोर्दर्शितो यथा। “पवित्राभ्यामाज्यस्योत्पवनम्” २ सू०। “अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेशमात्रौ कुशौ नानान्तयोर्गृहीत्वाङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां “सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति” प्रागुत्पुनाति सकृन्मन्त्रेण, द्विस्तूष्णीम्” ३ सू०। “कार्यमिति शेषः। अथ किंलक्षणे? पवित्रे कथं वा उत्पवनं? कार्यमित्येतद्द्वयं निर्णेतुमाह। प्रशब्दः सूक्ष्मच्छिन्नाग्रयोरनिवृत्त्यर्थः। न विद्यते अन्तर्मध्ये गर्भो ययोस्तौ तथोक्तौ प्रादेशमात्रौ कुशौ। एवंलक्षणयुक्तौ कुशौ पवित्रसंज्ञौ। नानेत्यसंसर्गार्थम्। पवित्रे अन्तयोरसंस्पृष्टे अङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्यां गृहीत्वा प्रागुत्पुनातिसकृत्न्मन्त्रेण, द्विस्तूष्णीम्” ना० वृ०। तत्र समन्त्रकामन्त्रकव्यवस्था नारा० वृत्तौ दर्शिता पूर्व्वेणामन्त्रकमुत् पवनं विधीयते। अनेन तु समन्त्रकम्। तत्र वैतानिके अमन्त्रकं गृह्ये कर्म्मणि समन्त्रकमित्येवं विनिवेशः” इति। “उत्पवनप्रकारः” शत० ब्रा०।

“प्रोक्षणीषु पवित्रे भवतः। ते तत आदत्ते, ताभ्यामाज्यमुत्पुनात्येको वाऽउत्पवनस्य बन्धुर्मेध्यमेवैतत्करोति। स उत्पुनाति “सवितुष्ट्वा प्रसवऽ उत्पुनाम्यच्छिद्रेण सूर्य्यस्य रश्मिभिरिति” सोऽसावेवबन्धुः”। “अथाज्यलिप्ताभ्यां पवित्राभ्याम् प्रोक्षणीरुत्पुनाति “सवितुर्वः प्रसवऽ उत्पुनाति” एको वा उत्पवनस्य वन्धुः” २२, २३, २४, १, ३, १, “द्रव्याणाञ्चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्” मनुः “प्रादेशप्रमाण कुशद्वयाभ्यामुत्पवनेन शुद्धिः” कुल्लू०।

उत्पश्ये = त्रि० उद् + दृश–कर्त्तरि श। १ ऊर्द्ध्वं प्रेक्षके। २ उन्मुखे ३ ऊर्द्ध्वदृष्टौ हेम०।

उत्पाटन = न० उद् + –पट–णिच् + ल्युट्। १ उन्मूलने सुश्रुतोक्ते २ व्रणवेदनाभेदे च। यथा “अत ऊर्द्ध्वं सर्वब्रणवेदना वक्ष्यामः तोदनभेदनताडनच्छेदनायमनमन्थनविक्षेपण चुम्चुमायननिर्दनावभञ्जनस्फोटनविदारणोत्पाटनकम्पन विविधशूलविशोषणविकरणपूरणस्तम्भनस्वप्नाबकुञ्चनाङ्कुशिकाः सम्भवन्ति”।

उत्पाटक = पु० उद् + पट–भेदने णिच्–ण्वुल्। १ उन्मूलके सुश्रुतोक्ते २ पाल्यामुपद्रवभेदे उत्पुटशब्दे विवृतिः।

उत्पाटिका = स्त्री ईद् + पट–णिच् ण्वुल् टाप् अत इत्। वृक्षस्यनीरसायां त्वचि “तस्य लोमानि पर्ण्णानि त्वगस्योत्पाटिका बहिः। त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः” वृ० उ०। उत्पाटनकत्त्र्यां स्त्रियां च।

उत्पात = पु० उद् + पत–घञ्। १ ऊर्द्ध्वपतने। उद् + पत–ण। अकस्मादागते प्राणिनां शुभाशुभसूचके दैवनिमित्ते २ भूकम्पादौ ३ सुश्रुतोक्ते विस्राव्यपाल्यामयभेदे च। “पाल्यामयास्तु विस्राव्या इत्युक्ताः प्राग्निबोध तान्। परिपोटस्तथोत्पात उन्मन्थो दुःखवर्द्धनः। पञ्चमः परिलेही च कर्णपाल्या गदाः स्मृताः। सौकुमार्य्याच्चिरोत्सृष्टः सहसाभिप्रवर्द्धिते। कर्णशोफो भवेत्पाल्यां सरुजः परिपोटवान्। कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः। गुर्व्वाभरणसंयोगात्ताडनोद्वर्षणादपि। शोफः पाल्यां भवेच्छ्यावो दाहपाकरुगन्वितः। रक्तो वा रक्तपित्ताम्यामुत्पातः सगदो मतः। बलाद्वर्द्धयतः कर्णं पाल्यां वायुः प्रकुच्यति। गृहीत्वा सकफं कुर्य्याच्छोफं तद्वर्णवेदनम्। उन्मन्थकः सकण्डूको विकारः कफवातजः। वर्द्धमाने यदा कर्णे कण्डूदाहरुगन्वितः। शोफो मवति पाकश्च त्वक्स्थोऽसौ दुःखवर्द्धनः। कफासृक्कृमयः कुर्य्युः सर्षपाभा विकारिणीः। स्राविणीः पीडकाः पाल्यां कण्डूदाहरुगन्विताः। कफासृक्कृमिसम्भूतः सविसर्पान्वितस्ततः। लिह्यात्सशष्कुलीं पालीं परिलेहीति स स्मृतः”।

शुभाशुभसूचकोत्पातश्च दिव्यान्तरीक्षभौमभेदात् त्रिविधः। स च वृ० सं० दर्शितो यथा “यानत्रेरुत्पातान् गर्गः प्रोवाच तानहं वक्ष्ये। तेषां सङ्क्षेपोऽयं प्रकृतेरन्यत्वमुत्पातः। अपचारेण नराणामुपसर्गः पापसञ्चयाद्भवति। संसूचयन्ति दिव्यान्तरिक्षभौमास्तदुत्पाताः। भनुजानामपचारादपरक्ता देवताः। सृजन्त्येतान्। तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत। दिव्यं ग्रहर्क्षवैकृतम् उल्कानिर्घातपवनपरिवेषाः। गन्धर्वपुरपुरन्दरचापादि यदान्तरिक्षं तत्। भौमं चरस्थिरभवं तच्छान्तिभिराहतं शममुपैति। नाभसमुपैति मृदुतां शाम्यति नो दिव्यमित्येके। दिव्यमपि शममुपैति प्रमूतकनकान्नगोमहीदानैः। रुद्रायतने भूमौ गोदोहात् कोटिहोमाच्च। आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोकेषु। पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः। अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानि। लिङ्गा- र्चायतनानां नाशाय नरेशदेशानाम्। दैवतयात्राशकटाक्षचक्रयुगकेतुभङ्कपतनानि। सम्पर्य्यासनसादनसङ्गाश्च न देशनृपशुभदाः। ऋषिधर्म्मपितृब्रह्मप्रोद्भूतं द्विजातीनाम्। यद्रद्रलोकपालोद्भवं पशूनामनिष्टं तत्। पुरु सितशनैश्चरोत्थं पुरोधसां, विष्णुजं च लोकानाम्। स्कन्दविशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम्। वेदव्यासे मन्त्रिणि विनायके वैकृतं चमूनाथे। धातरि सविश्वकर्म्मणि लोकाभावाय निर्दिष्टम्। देवकुमारकुमारीवनिताप्रेष्येषु वैकृतं यत् स्यात्। तन्नरपतेः कुमारककुमारि कास्त्रीपरिजनानाम्। रक्षःपिशाचगुह्यकनागानामेतदेव निर्देश्यम्। मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः। बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोवितः स्नातः। स्नानकुसुनानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम्। मधुपर्केण पुरोधा भक्ष्यैर्बलिभिश्च विधिवदुपतिष्ठेत्। स्थालीपाकं जुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः। इति विबुधविकारे शान्तयः सप्तरात्रं द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च। विधिवदवनिपालैर्य्यैः प्रयुक्ता न तेषां भवति दुरितपाको दक्षिणाभिश्च रुद्धः” देवप्रतिमावैकृतम्। “राष्ट्रे यस्यानग्निः प्रदीप्यते दीप्यते च नेन्धनवान्। मनुजेश्वरस्य पीडा तस्य सराष्ट्रस्य विज्ञेया। जलमांसार्द्रज्वलने नृपतिबधः प्रहरणे रणो रौद्रः। सैन्यग्रामपुरुषे च नाशो वह्नेर्भयं कुरुते। प्रासादभवनतोरणकेत्वादिष्वनलेन दाधेषु। नडिता वा षण्मासात् परचक्रस्यागमो नियमात्। धूमोऽनग्निसमुत्थो रजस्तमश्चाह्निजं महाभयदम्। व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि दोषकरम्। नगरचतुष्पादाण्डजमनुजानां भयकरं ज्वलनमाहुः। घूमाग्निविस्फुलिङ्गैः शय्याम्बरकेशगैर्मृत्युः। आयुधज्वलनसर्पणस्वनाः कोशनिर्गमणवेपनानि वा। वैकृ तानि यदि वायुधेऽपराण्याशु रौद्ररणसङ्कुलं वदेत्। मन्त्रैर्वाह्नैः क्षीरवृक्षात्समिद्भिर्होतव्योऽग्निः सर्षपैः सर्पिषा च। अग्न्यादीनां वैकृते शान्तिरेवं देयं चास्मिन् काञ्चनं ब्राह्मणेभ्यः”। इत्यग्निवैकृतम्। “शाखाभङ्गेऽकस्माद् वृक्षाणां निर्दिशेद्रणोद्योगम्। हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम्। राष्ट्रविभेदस्त्वनृतौ बालबधोऽतीव कुसुमिते बाले। वृक्षात् क्षीरस्रावे सर्वद्रव्यक्षयो भवति। मद्ये वाहननाशः संग्रामः शौणिते मधुनि रोगः। स्नेहे दुर्भिक्षभयं महद्भयं निःसृते ससिके। शुष्कविरोहे वीर्यान्नसङ्क्षयः शोषणे च विरु- ऊनाम्। पतितानामुत्थाने स्वयं भयं दैवजनितं च। पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपबधाय निर्दिष्टम्। धूमस्तस्मिन् ज्वालाथवा भवेन्नृपबधायैव। सर्पत्सु तरुषु वापि जनसङ्क्षयो विनिर्दिष्टः। वृक्षाणां वैकृत्ये दशभिर्मासैफलविपाकः। स्रग्गन्धधूपाम्बरपूजितस्य छत्रं निधायोपरि पादपस्य। कृत्वा शिवं रुद्रजपोऽत्र कार्य्यो रुद्रेभ्य इत्यत्र षडङ्गहोमः। पायसेन मधुना च भोजयेद् ब्राह्मणान् घृतयुतेन भूपतिः। मेदिनी निगदितात्र दक्षिणा वैकृते तरुकृते महर्षिभिः”। इति वृक्षवैकृतम्। “नलेऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम्। कथयति तदधिपतीनां यमलं जातं च कुसुमफलम्। अतिवृद्धिः शस्यानां नानाफलकुसुमभवो वृक्षे। भवति हि यद्येकस्मिन् परचक्रस्यागमो नियमात्। अर्धेन यदा तैलं भवति तिलानामतैलता वा स्यात्। अन्नस्य च वैरस्यं तदा च विन्द्याद्भयं सुमहत्। विकृतकुसुमं फलं वा ग्रामादथवा पुराद्बहिः कार्य्यम्। सौम्योऽत्र चरुः कार्यो निर्वाप्यो वा पशुः शान्त्यै। सस्ये च दृष्ट्वा विकृतिं प्रदेयं तत् क्षेत्रमेव प्रथमं द्विजेभ्यः। तस्यैव मध्ये चरुमत्र भौमं कृत्वा न दोषान् समुपैति तज्जान्”। इति सस्यवैकृतम्। “दुर्भिक्षमनावृष्ट्यामतिवृष्ट्यां क्षुद्भयं सपरचक्रम्। रोगो ह्यनृतुभवायां नृपवधोऽनभ्रजातायाम्। शीतोष्णविपर्य्यासे नो सम्यगृतुषु च सम्प्रवृत्तेषु। षण्मासाद्राष्ट्रभयं रोगभयं दैवजनितं च। अन्यर्तौ सप्ताहं प्रबन्धवर्षे प्रधाननृपमरणम्। रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिर्मरक। धान्यहिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्भयं विन्द्यात्। अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम्। उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः। छिद्रं वाप्यतिवृष्टौ शस्यानामीतिसञ्जननम्। क्षीरघृतक्षौद्राणां दध्नो रुधिरोष्णवारिणां वर्षे। देशविनाशो ज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम्। यद्यमलेऽर्के छाया न दृश्यते दृश्यते प्रतीपा वा। देशस्य तदा सहद्भयमायातं विनिर्देश्यम्। व्यभ्रे नमसीन्द्रधनुर्दिवा यदा दृश्यतेऽथवा रात्रौ। प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयं सुमहत्। सूर्य्येन्दुपर्जन्यसमीरणानां योगः स्मृतो वृष्टिविकारकाले। धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम्”। इति वृष्टिवैकृतम्। “अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते। शोषश्चाशोष्याणामन्येषां वा ह्रदादीनाम्। स्नेहासृङ्मांसवहाः सङ्कुलकलुषाः प्रतीपगाश्चापि। परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात्। ज्वालाधूमक्काथा रुदितोत्कुष्टानि चैव कूपानाम्। गीतप्रजल्पितानि च जनमरकाय प्रदिष्टानि। तोयोत्पत्तिरखाते गन्धरसविपर्यये च तोयानाम्। सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिरियम्। सलिलविकारे कुर्य्यात् पूजां वरुणस्य वारुणैर्मन्त्रैः। तैरेव च जपहोमं शुभमेवं पापमुपयाति”। इति जलवैकृतम्। “प्रसवविकारे स्त्रीणां द्वित्रिचतुःप्रभृतिसम्प्रसूतौ वा। हीनातिरिक्तकाले च देशकुलसङ्क्षयो भवति। बडवोष्ट्रमहिषगोहस्तिनीषु यमलोद्भवे मरणमेषाम्। षण्मासात्सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ। नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना। तर्पयेच्च द्विजान् कामैः शान्तिं चैवात्र कारयेत्। चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु। नगरं स्वामिनं यूथमन्यथा हि विनाशयेत्”। इति प्रसववैकृतम्। “परयोनावभिगमनं भवति तिरश्चामसाधु धेनुनाम्। उक्षाणा वान्योऽन्यं पिबति श्वा वा सुरभिपुत्रम्। मासत्रयेण विन्द्यात् तस्मिन्निःसंशयं परागमनम्। तत्प्रतिघातायैतौ श्रोकौ गर्गेण निर्दिष्टौ। त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत्। तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् स्यालीपाकेन धातारं पशुना च पुरोहितः। प्राजापत्येन मन्त्रेण यजेद्बह्वन्नदक्षिणम्”। इति चतुष्पादवैकृतम्। “यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहयुतम्। राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च। अनभिहततूर्य्यनादः शब्दो वा तेषां ताडितेषु यदि नायात्। व्युत्पत्तौ वा परागमो नृपतिमरणं वा। गीतरवतूर्य्यनादा नभसि यदा वा चरस्थिरान्यत्वम्। मृत्युस्तदा गदा वा विस्वरतूर्य्ये पराभिभवः। गोलाङ्गलयोः सङ्गे दर्वीशूर्पाद्युपस्करविकारे। क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्चेदम्। वायव्येष्वेषु नृपतिर्वायुं सक्तुभिरर्चयेत्। आ वायोरिति पञ्चर्चो जप्याश्च प्रयतै र्द्विजैः। व्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत्। बह्वन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः”। इति वायव्यवैकृतम्। “पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरम्। नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि। सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा वा। दीप्तायां दिश्यथवा क्रोशन्तः संहता भयदाः। श्वानः प्ररुदन्त इव द्वारे वाशन्ति जम्बुका दीप्ताः। प्रविशेन्नरेन्द्र- भवने कपोतकः कोशिको यदि वा। कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापाः। प्रतिलोममण्डलचराः श्येनाद्याश्चाम्बरे भयदाः। गृहचैत्यतोरणेषु द्वारेषु च पक्षिसङ्घसम्पाताः। मधुवल्मीकाम्भोरुहसमुद्भवाश्चापि नाशाय। श्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय। पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम्। मृगपक्षिविकारेषु कुर्य्याद्धोमान् सदक्षिणान्। देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः। सुदेवा इति चैकेन देया गावश्च दक्षिणा। जपेच्छाकुनसूक्तं वा मनोवेदशिरांसि च”। इति मृगपक्ष्यादिवैकृतम्। “शक्रध्वजेन्द्रकीलस्तम्भद्वारप्रपातभङ्गेषु। तद्वत्कपाटतोरणकेतूनां नरपतेर्मरणम्। सन्ध्याद्वयस्य दीप्तिधूमोत्पत्तिश्च काननेऽनग्नौ। छिद्राभावे भूमेर्दरणं कम्पश्च भयकारी। पाषर्ण्डानां नास्तिकानां च भक्तः साध्वाचारप्रोजिझतः क्रोधशीलः। ईर्ष्युः क्रूरो विग्रहासक्तचेता यस्मिन् राजा तस्य देशस्य नाशः। प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः। निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु। अङ्गारगैरिकाद्यैर्विकृतप्रेताभिलेखनं यस्मिन्। नायकचित्रितमथ वा क्षये क्षयं याति न चिरेण। लूतापटाङ्गशबलं न सन्ध्ययोः षूजितं कलहयुक्तम्। नित्योच्छिष्टस्त्रीकं च यद्गृहं तत्क्षयं याति। दृष्टेषु यातुधानेषु निर्दिशेन्मरकमाशु सम्प्राप्तम्। प्रतिघातायैतेषां गर्गः शान्तिं चकारे माम्। महाशान्त्योऽथ बलयो भोज्यानि सुमहान्ति च। कारयेत महेन्द्रं च माहेन्द्रीभिः समर्चयेत्”। इति शक्रध्वजेन्द्रकीलादिवैकृतम्। “नरपतिदेशविनाशे केतोरुदयेऽथ वा ग्रहेऽर्केन्द्वोः। उत्पातानां प्रभवः स्वर्तुभवश्चाम्यदोषाय। ये च न दोषान् जनयन्त्युत्पातास्तानृतुस्वभावकृतान्। ऋषिपुत्रकृतैः श्लौकैर्विद्यादेतैः समासोक्तेः। वज्राशनिमहीकम्पसन्ध्यानिर्घातनिःस्वनाः। परिवेषरजोधूमरक्तार्कास्तमनोदयाः। द्रुमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्गमाः। गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे। तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम्। अनग्निज्ज्वलनस्फोटधूमरण्वनिलाहतम्। रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम्। सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत्। शक्रायुध परीवेषविद्युच्छुष्कविरोहणम्। कम्पीद्वर्तनवैकृत्यं रसनं दरणं क्षितेः। सरोनद्युदपानानां वृद्ध्युर्द्ध्वतरणप्लवाः। सरणं चाद्रिगेहाणां वर्षाषु न भयावहम्। दिव्यस्त्रीभूतगन्धर्वविमानाद्भुतदर्शनम्। त्रक्षरताणां ग्रहन दर्शनं च दिवाम्बरे। गीतवादित्रनिर्घोषा वनपर्वतसानुषु। सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः। शीतानीलतु षारत्वं नर्दनं मृगपक्षिणाम्। रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी। दिशो धूमान्धकाराश्च सनभोवनपर्वताः। उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः। हिमपातानीलोत्पाता विरूपाद्भुतदर्शनम्। कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम्। चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु। पत्राङ्कुरन्नतानां च विकाराः शिशिरे शुभाः। ऋतुस्वभावजा ह्येते दृष्टाः स्वर्तौ प्रभप्रदाः। ऋतोरन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः। उन्मत्तानां च या गाथाः शिशूनां भाषितं च यत्। स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः। पूर्ब्बं चरति देवेषु पश्चाद्गच्छति मानुषान्। नाचोदिता वाग्वदति सत्या ह्येषा सरस्वती। उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा विख्यातो भवति नरेन्द्रवल्लभश्च। एतत्तन्मुनिवचनं रहस्यमुक्तं यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी” ४६ अ०। “दिव्यान्तरिक्षाश्रयमुक्तमादौ मया फलं शस्तमशोभनं च। प्रायेण चारेषु समाममेषु युद्धेषु मार्गादिषु विस्तरेण। भूयो वराहमिहि रस्य न युक्तमेतत् कर्तुं समासकृदसाविति तस्य दोषः। वज्ज्ञैर्न वाच्यमिदमेव फलानुगीतिर्यद्बर्हिचित्रकमिति प्रथितं वराङ्गम्। स्वरूपमेव तस्य तत् प्रकीर्तितानुकीर्तनम्। ब्रवीम्यहं न चेदिदं तथापि मेऽत्र वाच्यता। उत्तरवीथिगता द्युतिमन्तः क्षेमसुभिक्षशिवाय समस्ताः। दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकरास्ते। कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिराम्प्रभविष्णौ। निर्वैराः क्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगाः। पीडयन्ति यदि कृत्तिकां मघां रोहिणीं श्रवणमैन्द्रमेव वा। प्रोज्झ्य सूर्यमपरे ग्रहास्तदा पश्चिमा दिगनयेन पीद्ध्यते। प्राच्यां चेद्ध्वजवदवस्थिता दिनान्ते प्राच्यानां भवति हि विग्रहोनृपाणाम्। मध्ये चेद्भवति हि मध्यदेशपीडा रूक्षैस्तैर्न तु रुचिरैमयूखवद्भिः। दक्षिणां ककुभमाश्रितैस्तु तैर्दक्षिणापथपयोमुचां क्षयः। हीनरूक्षतनुभिश्च विग्रहः स्थूलदेवकिरणान्वितैः शुभम्। उत्तरमार्गे स्पष्टमयूखाः शान्तिकरास्ते तन्नृपतीनाम्। ह्रस्वशरीरा भस्मसवर्णा दोषकराः स्युर्देशनृपाणाम्। नक्षत्राणां तारकाः सग्रहाणां धूमज्वालाविस्फुलिङ्गान्विताश्चेत्। आलोकं वा निर्निमित्त न यान्ति याति ध्वंसं सर्वलोकः सभूपः। दिवि भाति यदा तुहिनांशुयुगं द्विजवृद्धिरतीव तदाशु शुभा। तदनन्तरवर्णरणोऽर्कयुगे जगतः प्रलयस्त्रिचतुःप्रभृति। मुनीनभिजितं ध्रुवं मघवतश्च भं संस्पृशन् शिखी घनविनाशकृत् कुशलकर्महा शोकदः। भुजङ्गममथ स्पृशेद्भवति वृष्टिनाशो घ्रुवं क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः। प्राग्द्वारेषु चरन् रविपुत्री नक्षत्रेषु करोति च वक्रम्। दुर्भिक्षं कुरुते भयमुग्रं मित्राणां च विरोधमवृष्टिम्। रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथवा शिखी। किं वदामि यदनिष्टसागरे जगदशेषमुपयाति सङ्क्षयम्। उदयति सततं यदा शिखी चरति भचक्रमशेवमेव वा। अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत्। धनुःस्थायी रूक्षो रुधिरसदृशः क्षद्भयकरो बलोद्योगं चेन्दुः कथयति जयं ज्यास्य च यतः। अवाक्शृङ्गो गोघ्नो निधनमपि सस्यस्य कुरुते ज्वलन्धूमायन् वा नृपतिमरणायैव भवति। स्निग्धः स्थूलः समशृङ्गो विशालस्तुङ्गश्चोदग्विचरन्नागवीथ्याम्। दृष्टः सौर्म्यरशुभैर्विप्रयुक्तो लोकानन्दं कुरुतेऽतीव चन्द्रः। पित्र्यमैत्रपुरुहूतविशाखात्वाष्ट्रमेत्य च युनक्ति शशाङ्कः। दक्षिणेन न शुभो हितकृत्स्याद् यद्युदक् चरति मध्यगती वा। परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा। परिधिस्तु प्रतिसूर्यो दण्डस्त्वृजुरिन्द्रचापनिभः। उदयेऽस्ते वा भानोर्ये दीर्घा रश्मयस्त्वमोघास्ते। सुरचापखण्डमृजु यद् रोहितमैरावतं दीर्घम्। अर्द्धास्तमयात्सन्ध्या व्यक्तीभूता न तारका यावत्। तेजः परिहानिमुखाद् भानोरर्द्धोदयं यावत्। तस्मिन् सन्ध्याकाले चिह्नैरेतैः शुभाशुर्भ वाच्यम्। सर्वैरेतैः स्निग्धैः सद्योवर्षं भयं रूक्षैः। अच्छिन्नः परिघो वियञ्च विमलं श्यामा मयूखा रवेः स्निग्धादीघितयः सितं सुरधनुर्विद्युच्च पूर्बोत्तरा। स्निग्धो मेघतरुर्दिवाकरकरैरालिङ्गितो वा यदा वृष्टिः स्याद्यदि वार्कमस्तसमये मेघो महांश्छादयेत्। खण्डो वक्रः कृत्स्नो ह्रस्वः काकाद्यैर्वा चिह्नैर्विद्धः। यस्मिन्देशे रूक्षश्चार्कस्तत्रभावः प्रायो राज्ञः। वाहिनीं समुपयाति पृष्ठतो मांसभुक् खगगणो युयुत्सतः। यस्य तस्य वलविद्रवोमहान् अग्रगैस्तु विजयो विहङ्गमैः। भानोरुटये यदि वास्तमये गन्धर्वपुरप्रतिमा ध्वजिनी। बिम्बं निरुणद्धि तदा नृपतेः प्राप्तं समरं सभयं प्रवदेत्। शस्ता शान्त द्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च। पांशुध्वस्या जनपदनाशं घत्तेरूक्षा रुधिरनिभा वा। यद्विस्तरेणकथितं मुनिभिस्तदस्मिन् सर्वं मया निगदितं पुनरुक्तवर्जम्। श्रुत्वापि कोकिलरुतं बलिभुग्विरौति यत्तत्स्वभावकृतमस्य पिकं न जेतुम्” ४७ अ०। एवमन्येऽप्युत्पाताः सन्ति विस्तरभयान्नोक्ता आकरे दृश्याः उत्पात विशेषे सङ्गणकर्मवर्ज्जनकालव्यवस्था रघुनन्देन दर्शिता यथा “गर्गः। दाहे दिशाञ्चैव धराप्रकम्पे वज्रप्रपातेऽथ विदारणे वा। धूमे तथा पांशुकरप्रपाते न कारयेन्माङ्गलिकादि कार्य्यम्। उल्कापाते च निर्घातेतथैवाकालवर्षणे। छिद्रे सूर्य्येविनिर्दिष्टे न कुर्य्यान्मङ्गलक्रियाम्। धूमकेतौ समुत्पन्ने ग्रहणे चन्द्रसूर्य्ययोः। ग्रहाणां सङ्गरे चैव न कुर्यान्मङ्गलक्रियाम्। द्विसूर्य्यं वा त्रिसूर्य्यं वा दृष्ट्वा गगनमण्डले। रात्रौ शक्रधनुश्चैव मङ्गलानि विवर्जयेत्। दिग्दाहे दिनमेकञ्च ग्रहे सप्त दिनानि च। भूमिकम्पे च सम्भूते त्र्यहाणि परिवर्जयेत्। उल्कापाते च त्रितयं धूमे पञ्च दिनानि च। वज्रपाते दिनमेकं वर्जयेत् सर्वकर्म्मसु”! भोजराजः “ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्गमोलकापतनादिदोषे। ब्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्ति केचित्”। “ग्रहणकाले भूकम्पोज्कापातवज्रपातादिदोषसमाहारे त्रयोदशाहं अशुद्वम्। किञ्चिदूनतत्समाहारेऽपि दशाहम्। ग्रहणाद्येकैकदोषे त्र्यहमिति” वाचस्पतिमिश्राः। अत्र स्मृतिसागर धृतसारसंग्रहे। “राज्यादिममहासिद्धौ यज्ञदानतपःसु च। होमस्वाध्याययोश्चैव वर्जयेद्दशरात्रकम्। लक्षहोमे महादाने वर्जयेत् सोमके मखे। तपःस्वाध्याययोश्चैव चिरारम्भे त्रयोदश” इति व्यवस्था अन्यत्र। “उल्कापाते भुवः कम्पे अकालवर्षगर्जिते। वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः। प्रयाणन्तु त्यजेत् क्षत्रः सप्तरात्रमतः परम्। ब्राह्मणः क्षत्रियो वैश्यस्त्यजेत् कर्म त्रिरात्रकम्। शुद्रस्त्यक्त्वा चैकरात्रं सर्व कर्म्म समाचरेत्”। पराशरः। “प्रयाणे सप्तरात्रं स्यात् त्रिरात्रं ब्रतबन्धने। एकरात्रं परित्यज्य कुर्यात् पाणिग्रहं ग्रहे”। भृगुः। “राजन्यानां तु सप्ताहं ब्राह्मणानां त्र्यहन्तथा। शूद्रस्यार्द्धदिनं प्रोक्तं सर्वकार्य्येषु वै भृगुः”। शूद्रस्यापद्विषयम्। कम्प इत्युपलक्षणम्। ग्रहणादावप्येवमेवान्यत्रै कत्र पठितत्वात्” मल० त०। पीयूषधारायां तु विशेष उक्तः। नारदः “अनिष्टे त्रिविधोत्पाते सिंहिका सुतदर्शने सप्तरात्रं न कुर्वीत यात्रोद्वाहादि मङ्गलम्” वविष्ठः सर्व्वग्रासे दिनान्यष्टौ सर्व्वकार्य्येषुवर्जयेत्। षट्दिनानि त्रिभागोने अर्द्धग्रासे चतुर्द्दिनम्। चतुर्थांशे त्रिरात्रं स्यात्र ग्रहणे चन्द्रसूर्य्ययोः” नारदः “उत्पातग्रहणादूर्द्ध्वं सप्ताहं निखिले त्यजेत्”। अङ्गिराः “सर्व्वग्रासे तु सप्ताहमर्द्धग्रासे दिनत्रयम्। त्रिद्व्ये काङ्गुलतोग्रासे दिनमेकं तु वर्जयेत्” “अनयोर्विषयव्यवस्था देशभेदेनाचारभेदेन चावगन्तव्या” पी० धा०। अत्यावश्यककार्य्ये परिहारस्तत्रोक्तः ज्योतिर्निवन्धे “दिनानि पञ्च वसिष्ठस्त्रिदिनं गर्गस्तु कौशिकस्त्वेकम्। यवना चर्य्यस्य मते पञ्च मुहूर्त्तांश्च दूषयति”। प्रागुक्तवराह प्रदर्शित शुभोत्पातैदुंष्टमेव दिनं वर्ज्यम्। “शुभदोत्पातैश्च दुष्टं दिनम्” मुहू० चि० उक्तेः। एवञ्च स्मार्त्तादिव्यवस्थापितं विवाहे ग्रहणे एकदिनवर्ज्जनम् अल्पग्रास बिषयमापद्विषयं वा उक्तवचनजातसामञ्जस्यात्। ग्रस्तादिविषये विशेषः ग्रहणशब्दे वक्ष्यते “एकतालैवोत्पातपवन प्रेवितोगिरिः” रघुः। ओषामासे मत्सरोत्पातवातः” माघः। “उत्पातेन ज्ञापिते च” पा०। “उत्पातग्रहदुष्टञ्च” ज्यो०।

उत्पातक = त्रि० उत्पातयति उत्पातं जनयति उद् + पतणिच् ण्वुल् १ उत्पातजनके उद् + पत–ण्वुल्। २ ऊर्द्धपतनशीले च। “दंशोत्पातकभल्लूकमक्षिकामशकावृतम्”। भा० स्वर्गा० २ अ०।

उत्पाद = पु० उतु + पद–भावे घञ्। १ उत्पत्तौ “दुःखे च शोणितोत् पादे शाखाङ्गच्छेदने तथा” या० उत्पत्तिशब्दे विवृतिः उत्क्षिप्तःपादोऽनेन। “उत्क्षिप्तपादे त्रि०।

उत्पादक = यु० ऊर्द्ध्वस्थिताः पादा अस्य कप्। अष्टपदे शरभाख्ये गजारातौ १ पशुभेदे तस्य पृष्ठस्थचतुश्चरणत्वादूर्द्ध पादत्वम्। उत्–पद–णिच्–ण्वुल्। २ पितरि पु०। ३ उत्पादनकर्त्तरि त्रि०। “उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता” “आहुरुत्पादकं केचिदपरे क्षेत्रिणं विदुः” “नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि” मनुः। स्त्रियां टापि अत इत्त्वम्। उत्पादिका ४ उत्पादकस्त्रियां ५ हिलभोचिकायां शब्दचि० ६ पूतिकायां भरतः ७ देहिकानामकीटे च स्त्री त्रिका०।

उत्पादन = न० उद् + पद–णिच्–ल्युट्। जनने उत्पत्तिकरणे “उत्पादनमपत्यस्य जातस्य पालनम् तथा” मनुः

उत्पादशय = पु० उत्पादः ऊर्द्ध्वक्षिप्तपादः सन् शेते शी-ल्यु। (टिटिर) १ टिट्टिभपक्षिणि हेमच०। २ शिशौ च। तयोः उत्तानपादतया शयनात्तथात्वम्। उत्पादं शयनमस्य उत्पादशयनोऽप्यत्र।

उत्पादित = त्रि० उद् + पद–णिच्–कर्मणि क्त। जनिते। “अप्यनारभमाणस्य विभोरुत्पादिताः परैः” माघः।

उत्पादिन् = त्रि० उद् + पद–णिनि। १ उत्पत्तिमति। “सर्व्वमुत्पादि भङ्गुरम्” हितो०। उत्पादयति णिच् णिनि। २ उत्पादके। “दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरस्तथा” या० स्मृ० उभयतः स्त्रियां ङीप्।

उत्पाद्य = अव्य० उद् + पद–णिच्–ल्यप्। १ जनयित्वेत्यर्थे “क्रीत्वा स्वयं वाप्युत्पाद्य” मनुः। “पुत्रानुत्पाद्य संस्कृत्यवृत्तिं चैषां प्रकल्पयेत्” स्मृतिः। कर्म्मणि यत्। जननीये त्रि०। “लावण्य उत्पाद्य इवास यत्नः” कुमा०

उत्पाली = स्त्री उन्नतिं पालयति पाल–अण् गौरा० ङीष्। आरोग्ये शब्दच०।

उत्पाव = पु० उद् + पु “उदि श्रयतियौतिपूद्रुवः” पा० अपं बाधित्वा घञ्। उत्पवने यज्ञियपात्रादेः संस्कारभेदे

उत्पिञ्जर(ल) = त्रि० उद् + पिजि–कलन् वा लस्य रः। अत्यर्थाकुले। “कुर्व्वाणमुत्पिञ्जरजातपत्रैः” माघः। उत्पिञ्जरीभूतदलैरित्यर्थः रलयोरभेदः” मल्लि०। “तदुत् पिञ्जलकं युद्धमासीद्देवासुरोपमम्” भा० द्रो० २५ अ०।

उत्पिब = त्रि० उद् + पा–श। उद्धृत्य पायिनि।

उत्पिष्ट = त्रि० उर्द्ध्वतः पिष्टं उद् + पिष–क्त। उर्द्धतः कृत पेषणे १ उन्मथिते। “सन्धिमुक्तमुत्पिष्ट विश्लिष्टं विवर्त्तितमवक्षिप्तमतिक्षिप्तं तिर्व्यक्क्षिप्तमिति षड्विधम्” सुश्रतीक्ते षड्विधसन्धिमुक्तरूपेऽस्थिभङ्गे तत् कार्य्यं तत्रोक्तं “विशेषेणोत्षिष्टे सन्धावुभयतः शोफावेदनाप्रादुर्भावोविशेषतस्तत्र नानाप्रकारा वेदना रात्रौ प्रादुर्भबन्ति”।

उत्पीड = त्रि० उद्–पीड–अच्। संघर्षणेन १ पीडके २ संबाधके च। भावे घञ्। ३ उन्मथने। “स तु वाणवरोत्पीडाद्विस्रवत्यसृगुल्वणम्” भा० व० २१ अ० “आकाङ्क्षन्तीं नयनसलिलोतीडरुद्धावकाशाम्” मेघ०। ल्युट्। उत्पीडन तत्र न०। अ। तत्रैव स्त्री। शतृ उत्पीडयत् उत्पीडाकारके। “अन्योन्यमुत्पीडयदुत्पलाक्ष्याः” कुमा०। स्त्रियां ङीप्

उत्पुच्छ = नामधातुः पुच्छमुदस्यति उद + पुच्छ + णिङ् उत्पुच्छयते।

उत्पुच्छ = पु० उत्क्षिप्तः पुच्छोयेन प्रा० व० वा क्षिप्तलोपः। ऊर्द्धक्षिप्त पुच्छे पशौ।

उत्पुट = त्रि० उद्घाटितं पुटमस्य प्रा० ब० वा घाटितलोपः। पुटशून्ये प्रफुल्ले। तेन निर्वृत्तम् सङ्कलादि० अण्। औत्पुट तेन निष्पाद्ये त्रि०। तेन हरति उत्सङ्गादि० ठञ् औत्पुटिक तेन हारके त्रि० स्त्रियां ङीप्।

उत्पुटक = पु० उद् + पुट–क्वुन। सश्रुतोक्ते पाल्यामुपद्रवभेदे। “अतऊर्द्ध्वं नामलिङ्गे वक्ष्ये पाल्यामुपद्रवान्। उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतोभृशम्। अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा। स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम्”। लेपमुत्पुटके दद्यात् तैल मेभिश्च साधितम्” सुश्रु०।

उत्पुत = त्रि० उद् + पु–क्त। पवित्रादिना कृतोत्पवनसंस्कारे पात्रादौ। इट्पक्षे उत्पवितोऽप्यत्र त्रि०। तेन हरति उत्सङ्गा० अण्। औत्पुत तेन हारके त्रि०।

उत्पेय = त्रि० उद्धृत्य पेयम्। उद्धृत्यपेये जलादौ।

उत्प्रभ = त्रि० उद्गता प्रभाऽस्य प्रा० ब० गतलोपः। १ उद्गत प्रभान्विते २ उदर्च्चिषि बह्नौ पु० हेम०।

उत्प्राशन = न० उद्धृत्य प्राशबम्। उत्तोल्य भोजने

उत्प्रास = पु० उद् + प्र + अस–दीप्त्यादिषु घञ्। उपहासे। “प्रियं सोत्प्रासवक्रोक्त्या मध्याधीरा दहेद्रुषा” सा० द०।

उत्प्रेक्षण = न० उद् + प्र–ईक्ष–भावे ल्युट्। १ उद्भावने २ लिङ्गादिना कस्यचित् पदार्थस्य सम्भावने। ३ ऊर्द्ध्वदृष्टौ त। णिनि। उत् प्रेक्षिन् तत्कारके त्रि० स्त्रियां ङीप्

उत्प्रेक्षा = स्त्री उद् + प्र + ईक्ष–अ। उद्भावने अर्थालङ्कारभेदे अलङ्कारशब्दे पृष्ठे ३९५ विवृतिः।

उत्प्लवन = न० उद् + प्नु–ल्युट्। उपरि प्लवने (भासा) अनिमज्जने

उत्प्लवा = स्त्री उत्प्लवति उद् + प्लु–अच्। सौक्ययां शब्दच०

उत्फाल = पु० उद् + फल–घञ्। १ उल्लम्फे २ ऊर्द्ध्वतोविसरणे च

उत्फुल्ल = त्रि० उद् + फल–क्त नि०। १ विकशिते दलानामन्योन्यविश्लेषेण प्रकाशिते “उत्फुल्लनीलनलिनोदर तुल्यभासः” माघः। २ उचाने त्रि० ३ स्त्रीणां गुप्तेन्द्रिये न० मेदि०।

उत्स = पु० उनत्ति जलेन उन्द–स किच्च नलोपः। पर्व्वतादेः १ स्रवज्जलस्य पातस्थाने। २ जलप्रवाहे च “आसिञ्चिन्नुत्वम् गौतमाय तृष्णजे” ऋ० १, ५४, ५, “विष्णोः पदे वरग्रे मध्व उत्सः” ऋ० १, ५४, ५ बहु साकं सिषिचुरुत्समुद्रिणम्” २, २४, ४, “उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान्” उथ० ६, १०६, १, उत्से भवः उत्सा० अञ्। औत्स तद्भवे त्रि० ३ ऋषिभेदे ततः गोत्रे अश्वादि० फञ् औत्सायन तद्गोत्रे पुंस्त्री० स्त्रियां ङीप्

उत्सक्थ = त्रि० ऊर्द्ध्वं गते सक्थिनी अस्य ष समा० स्त्रियां ङीष्। ऊर्द्धोरुके “उत्सक्थ्या अवगुदंधेहि समञ्जि चारया वृषन्” यजु० २३, ३१।

उत्सङ्ग = पु० उत्पत्य सजतेऽत्र उद् + सन्ज आधारे घञ्। १ मध्यभागे “दरीगृहोत्सङ्कनिषक्तभासः” कुमा० “दृषदोवासितोत्सङ्गाः” रघुः। “तत्सैकतोत्रसङ्गबलिक्रियाभिः” रघुः “शय्योत्सङ्गे निहितमसकृद्दुः खदुःखेन गात्रम्” मेघ०। २ क्रोडे “तस्योत्सङ्गप्रणयिन इव स्रस्तगङ्गादुकूलाम्” “उत्सङ्गे वा मलिनवसने सौम्य! निक्षिप्य वीणाम्” मेघ० ऊर्द्धतया सजतेऽत्राधारे घञ्। ३ उपरिभागे “सौधोत्सङ्गप्रणयविमुखो मास्म भूरुज्जयिन्याः” मेघ० उत्क्रान्तः सङ्गम् अत्या० स०। ४ सन्यासिनि सङ्करहिते तत्त्वज्ञे प्रा० स०। ५ ऊर्द्धृतः संसर्गे च।

उत्सङ्गादि = हरतीत्यर्थे ठञ्निमित्ते “हरत्युत्सङ्गादिभ्यः” पा० उक्ते शब्दसमूहे स च गण उत्सङ्ग उडुप उत्प्लुत उत्सन्न उत्पुट पिटक पिटाक” औत्सङ्गिकः सि० कौ०।

उत्सङ्गिन् = त्रि० उत्सङ्ग ऊर्द्ध्वसंसर्गः अस्त्यस्य इनि स्त्रियां ङीप्। ऊर्द्ध्वसंसर्गयुक्ते।

उत्सङ्गित = त्रि० उत्सङ्गिनः उत्संसृष्टाः कृताः उत्सङ्गिन् + तत्करोतीत्यर्थे णि–कर्मणि क्त। संसर्गयुक्तीकृते। “उत्सङ्गितोत्तुङ्गतरङ्गबाहुः” माघः।

उत्सञ्जन = न० उद् + सन्ज–णिच् ल्युट्। १ ऊर्द्ध्वतः संयोजने उत्क्षेपणे। “सम्भननोत्सञ्जनाचार्य्यकरणेत्यादि” पा० तत्र उत्सञ्जने “दण्डमुन्नयति उत्क्षिपतीत्यर्थः” गि–कौ०।

उत्सत्ति = स्त्री उद + सद–क्तिन्। उच्छेदे।

उत्सधि = पु० उत्सः जलप्रवाहोधीयतेऽस्मिन् धा–कि उप० स०। जलप्रवाहवति कूपादौ “अर्कैरूर्द्ध्वं नुनुद्र उत्सधिं पिबध्यै” ऋ० १, त्त८, ४,

उत्सन्न = त्रि० उद्–सद–क्त। १ उच्छिन्ने समूलमुच्छिन्ने २ नष्टे च “मकरध्वजैवोत्सन्नविग्रहः” काद० ३ अल्पायाससाध्ये च “उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यानि” शत० ब्रा० २, ५, २, ४८, दर्शपौर्ण्णमासवच्चातुर्मास्यानामनुष्ठानबाहुल्याभावादुसन्नयज्ञत्वम्” भा० तेन हरति उत्सङ्गा० ठञ्। औत्सन्निक तेन हारके त्रि०।

उत्सर्ग = पु० उद् + सृज–कर्मणि घञ्। १ सामान्यविधाने, तस्यासति बाधके सर्व्वतः प्रसृतत्वात्तथात्वम्। “क्वचिदपवादविषर्येऽप्युसर्गोऽभिनिविशते” पात० भा०। “अपवादैरिवोत्सर्गाः–कृतव्यावृत्तयः परैः” कुमा० २ न्याय्ये। भावे घञ्। ३ अपानवायोर्व्यापारे विष्ठोत्सर्गः ४ त्यागे ५ दाने “तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च” मनुः “श्रीलक्षणोत्सर्गविनीतवेशाः” कुमा० ६ समाप्तौ व्रतोत्सर्गः। “उत्सर्गमेके सुत्योपगुणत्वात्” आश्व० श्रौ० १, ४, २१, ० “स्तोमोत्सर्गो वैकस्याह्नः” कात्या० २४, ७, २५, ७ वार्षिकवेदपाठसमाप्तौ। वेदाध्ययनोत्सर्गकालश्च मिता० दर्शितो यथा “पौषमासस्य रोहिण्यामष्टकायामथापि वा। जलान्ते छन्दसां कुर्य्यादुत्सर्गं विधिवद्बहिः” या० “पौषभासस्य रोहिण्यामष्टकायां ग्रामाद्बहिर्जलसमीपे छन्दसां वेदानां स्वगृह्योक्तबिधिना उत्सर्गं कुर्य्यात्। यदा पुनर्भाद्रमासे उपाकर्भ तदा माघशुक्लस्य प्रथमदिवसे उत्सर्गं कुर्यात्। यथोक्तं मनुना “पौषे तु छन्दसां कुर्याद्बहिरुत्सर्जनम्बुधः। माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनीति”। तदनन्तरम्पक्षिणीमहोरात्रं वा बिरम्य शुक्लपक्षेषु वेदान् कृष्णेष्वङ्गान्यधीयीत। यथाह मनुः “यथाशास्त्रन्तु कृत्वैवमुत्सर्गं छन्दसां बहिः। बिरमेत्पक्षिणीं रात्रिं यद्वाप्येकमहर्निशम्। अत उर्द्धं तु छन्दांसि शुक्लेषु नियतः पठेत्। वेदाङ्गानि तु सर्बाणि कृष्णपक्षेषु सम्पठेदिति”। अत्रानध्यायमाह या० “त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु। उपाकर्मणि चोत्सर्गे स्वशाखश्रोत्रिये तथा” “उत्सर्गे मनूक्तपक्षिण्यहोरात्राभ्यां सहास्य विकल्प” इति मिता० “ओंपूर्वा व्याहृतीः सावित्रीञ्च त्रिरभ्यस्य वेदादिमारभेत्” “तथोत्सर्गे” आश्व० गृ० ३, ५, १२, १३, उत्सर्जनशब्दे विवृतिः।

उत्सर्गिन् = त्रि० उत्सर्गोऽस्त्यस्य इनि। उत्सर्गयुक्ते। “अयनमुत्सर्गिणाम्” २४, ४, २३, त्रिष्वभिप्लविकेषु एकस्याहेनाग्निष्टोमस्योत्सर्गेणास्योत्सर्गित्वम्” कर्कः। अयनं गवामयनम्।

उत्सर्जन = न० उद् + सृज–ल्युट्। १ दाने, २ त्यागे, च। वेदोत्सर्गरूपे षण्मासकर्त्तव्ये वैदिकानां ३ क्रियाभेदे स च आश्व० गृ० उक्तो यथा “मध्यमाष्टकायामेताभ्यो देवताभ्योऽन्नेन हुत्वाऽपोऽभ्यवयन्ति” २० सू०। “मध्यमाष्टकाग्रहणं षण्मासान्तोपलक्षणार्थम्”। तेन तस्याः समीपे माघ्यां पौर्णमास्यामित्यर्थः शाखान्तरे चैवं दृश्यते। “एताभ्यो देवताभ्यो हुत्वा सावित्र्यादिभ्य आज्यम्, इत्युक्तम्। अग्निमीड इत्यादिभ्योऽन्नेन हुत्वा स्थालीपाकग्रहणमकृत्वाऽन्नेनेति यत्नेन ब्रुवत् गृहसिद्ध मन्नं गाह्यमिति दर्शयति, ततः स्विष्टकृत्, ततो वेदारम्भ- णम्। ततो होमशेषं समाप्यापोऽबगाहन्त इत्यर्थः नारा० “एता एव तद्देवतास्तर्पयन्ति” २१ सू०। “स्नात्वा सावित्राद्या नव अग्निमीड इत्याद्याश्च विंशतिं तर्पयन्तीत्यर्थः। ऋग्देवता आदिश्य तर्पयेयुः। द्वितीयान्तं कृत्वा तर्पयामीत्येकान्नत्रिंशद्वाक्यानि कृत्वा तावत्कृत्वस्तर्पयेयुः” ना० वृ०। “आचार्यान् ऋषीन् पितॄंश्च” २२ सू०। यच्च ब्रह्मयज्ञाङ्गं तर्पणमुक्तं तदेतदङ्गत्वेनेदानीमपि कार्यमित्यर्थः। चशब्दो देवतातर्पण सनुच्चयार्थः। तेन प्रजापत्याद्या अपि तर्प्याः। देवतास्तर्पयन्तीत्यत्र देवताग्रहणमत्रापि समुच्चयार्थम् क्रमश्च तन्त्राक्त एव” ना० वृ०। “एतदुत्सर्जनम्” २३ सू०। “अस्येयं संज्ञा। ततः षण्मासान् षडङ्गान्यधीयीत। षण्मासानधीयीतेत्यारभ्य एवमन्ता धर्मा ग्रहणाध्ययन एतेत्याहुरेके। अन्ये त्वविशेषेणेत्याहुः” ना० वृ०। उत्सर्गशब्दे दर्शितेन कालेनास्य विकल्प० शाखिभेदेन व्यवस्थाप्यः “पौषे तु छन्दसां कुर्य्याद्बहिरुत्सर्जनं बुधः” भनुः।

उत्सर्पण = न० उद् + सृप्–ल्युट्। १ उत्सृज्य पुरतोगतौ, २ उल्लङ्घने च

उत्सर्पिन् = त्रि० उत्सर्पति णिनि। उत्पतिष्णौ “पयोधरोत्सर्पिषु शीर्य्यमाणः” रघुः। “उत्सर्पिभिः प्रांशुमिवांशुजालैः” किरा० २ अतिशयिते स्त्रियां ङीप्। “उत्सर्पिणी खलु महतां प्रार्थना” शकु० सा च हेमचन्द्रोक्ते कालचक्रार्न्तगते ३ कालगतिमेदे “सागर कोटिकोटीनां विंशत्या स समाप्यते। अवसर्पिण्यां षडरा उत्सर्पिण्यां तएव विपरीताः। एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम्” हेम०।

उत्सर्य्या = स्त्री उत् + सृ–यत्। १ ऋतुसत्यां गर्भयोग्यावस्थापन्नायां गवि जटा०

उत्सव = पु० उद् + सू–अप्। आनन्दजनकव्यापारे विवाहादौ। “ऋद्धिमन्तमधिकर्द्धिरुत्सवः पूर्व्वमुत्सवमपोहतुत्तरः” “स कृत्वा विरतोत्सवान्” रघुः। “धर्मसेतुसमाकीर्ण्णां यज्ञोत्सववतीं शुभाम्” “हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम्” भा० व० २०६ अ०

उत्सवसङ्केत = पु० उत्सव आनन्दजनकः सङ्केतः स्त्रीपुंसयोः रत्यर्थमनुरागादाह्वानम् यस्य। अस्येयं स्त्रीत्येवं दाम्पत्यनियमशून्ये स्त्रीपुंसयोरनुरागमात्रहेतुकस्वैरविहारशालिनि पार्वतीये जातिभेदे। भा० स० अर्ज्जुनस्योत्तरदिग्विजये “पौरवं युधि निर्ज्जित्य दस्यून् पर्व्वतबासिनः। गणानुत्सवसङ्केता नजयत् सप्त पाण्डवः, २६ अ० अत्र नीलक० दर्शितरीत्यैव व्याख्या। तद्धर्मके प्रतीचीस्थेऽपि जातिभेदे “गणानुत्सवसङ्केतान् व्यजयत् पुरुषर्षभः” नकुलस्य प्रतीचीविजये ३१ अ० “शरैरुत्सवसङ्केतान् स कृत्वा विरुतोत्सवान्” रघुः।

उत्सादन = उद् + सद–णिच्–ल्युट्। १ उत्सारणे, २ उद्वर्त्तने कषाय द्रव्येण स्नेहाद्यपसारणे ३ उच्छेदकरणे “उत्सादानार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह” भा० व० १०३ अ०। “उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः” भा० व०१०० अ०। “न हि द्वैतवने किञ्चित् विद्यतेऽन्यत् प्रयोजनम्। उत्सादनमृते तेषां वनस्थानां महाद्युते!” भा० व० २३७ अ०। स्थानान्तरनयने “क्रयणवेद्यारम्भण प्रवर्ग्योत्सादनेत्या०” कात्या०१४, १, १३, “उपसदन्ते प्रवर्ग्योत्सादनम्” कात्या० १८, ३, १०। उत्साद्यतेऽत्र उद् + सद–णिच् आधारे ल्युट्। महावीरादिपरित्यागदेशे। “उत्सादनदेशं गच्छन्ति सामगानानन्तरम्” कात्या० २६, ७, १०, उत्सादनदेशं प्रति आगच्छन्ति उत्सादनं महावीराणां परित्यागः स यत्र देशे विहितः श्रुतौ” कर्क०

उत्सादनीय = त्रि० उद् + सद–णिच्–कर्म्मणि अनीयर १ उच्छेद्ये २ उन्मूलनीये उस्वर्त्तनीये कषादिद्रव्ये। “कुर्य्यादुन्सादनीयानि सर्पींष्या लेपनानि” च सुश्रु०।

उत्सादि = पु० भवाद्यर्थे “उत्सादिभ्योऽञ् पा० अञ् प्रत्ययप्रकृतिशब्दगणे। स च उत्स उदपान विकर विनद महानद महानस महाप्राण तरुण तलुन (वष्कयाऽसे) पृथिवी धेनु पङ्क्ति जगती त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर ग्रीष्म पीलुकुण(उदः स्थानदेशे) पृशदंश भल्लकीय रथन्तर मध्यन्दिन वृहत् महत् सत्वत् कुरु पञ्चाल इन्द्रावसान उष्णिह् ककुभ् सुवर्ण देव (ग्रीष्मादच्छन्दसि) औत्स तद्भवे त्रि०।

उत्सादित = त्रि० उद् + सद–णिच्–क्त। उन्मूलिते उद्वर्त्तिते च “भद्रासनेषूपविष्टः परिधायाम्बरं लघुः। सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः। उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः” भा० द्रो० ८२ अ०।

उत्सारक = पु० उद् + सृ–णिच्–ण्वुल्। द्वारपाले हेमच० तेन हि प्रभुद्वारतो जना दूरीक्रियन्ते इति तस्य तथा अपसारके त्रि०।

उत्सारण = न० उद् + सृ–णिच्–ल्युट्। १ दूरीकरणे, २ चालने, ३ स्थानान्तरकरणे च।

उत्सारित = त्रि० उद् + सृ–णिच्–क्त। दूरीकृते चालिते “गुण्यान्त्यमङ्कंगुणकेन हन्यादुत्सारितेनैवमुपान्तमादीन्” लीला०

उत्साह = पु० उद् + सह–घञ्। १ उद्यमे, २ अध्यवसाये, कर्त्तव्य कृत्येषु ३ स्थिरतरे प्रयत्ने “उत्साहो मन्त्रमूलं स्यादिति नोतिविदां मतम्। प्रभुशक्तिर्मन्त्रमूला तस्मादुत् साहवान् भवेत्” इत्युक्ते राज्ञां ४ गुणविशेषे, “चारेणोत् साहयोगेन क्रिययैव च कर्मणाम्” मनुः। “नीताविवोत् साहगुणेन सम्पद्” कुमा०। ५ कल्याणे, शब्दरत्नावली ६ सूत्रे, मेदिनी “कार्य्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते” सा० द० उक्तलक्षण्के वीररसस्य ७ स्थायिभावे। स च वीररसस्य स्थायी भावः “रतिर्हासश्च शोकश्चक्रोधीत्साहौ भयं तथा। जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमस्तथा” स्थायिनो विमज्यस्य “उत्तमप्रकृतिर्वीरः उत्साहस्थायिभावकः” तत्रोक्तेः। तत्र उद्यममात्रे “मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन” शकु० “मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः” गीता “महोत्साहः स्थूललक्ष्यः कृतज्ञोवृद्धसेवकः” या० स्मृ० अस्त्यर्ये बला० मतुप् इनि वा उत्साहिन् उत्साहवत् तद्विशिष्टे त्रि० स्त्रियां ङीप्।

उत्साहक = त्रि० उद् + सह–ण्वुल्। उत् साहान्विते “तृजकाभ्यामिति” पा० षष्ठीनिषेधेऽपि याजका० षष्ठ्यो समासः। कार्य्योत्साहकः।

उत्साहन = न० उद् + सह–णिच्–ल्युट्। उत्साहजनने

उत्साहवर्द्धन = पु० उत्साहं वर्द्धयति वृध–णिच्–ल्यु। वीररसे। वृध–ल्युट् ६ त०। उत्साहस्य वृद्धौ न०।

उत्साहशक्ति = स्त्री उत्साहएवशक्तिर्बलम्! राज्ञां विक्रमहेतौ बले। “षड्गुणाः शक्तयस्तिस्त्रः प्रभावोत्साह मत्रजाः” अमरः। “कर्तव्येषु कर्येषु स्थेयान् प्रयत्न उत्साहः” मल्लि०।

उत्सिक्त = त्रि० उद् + सिच–क्त। १ उद्रिक्ते अतिशयिते २ वृद्धियुक्ते ३ उद्धते गर्विते च। “जानीयादस्थिरां वाचमुत्सिक्त मनसां तथा” मनुः।

उत्सुक = त्रि० उत्सुवति षु प्रेरणे मितद्र्वादि० डु कन्। १ इष्टावाप्तये कालक्षेपासहिष्णौ २ इष्टार्थोद्युक्ते च “दिनावसानोत्सुकबालवत्सा” “श्रुत्वा रामः पियोदन्तं मेने तत्सङ्गमोत्सुकः” “वत्सोत्सुकापि स्तिमिता सपर्य्याम्” “आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलों जहौ” रघुः। उत्सुकस्य भावः ष्यञ्। औत्सुक्य तद्भावे न०। “इष्टाम वाप्तेरौत्स्युक्यं कालक्षेपासहिष्णुता। चित्ततापत्व रास्वेददीर्घनिश्वसितादिकृत्” सा० द०। “औत्सुक्येन कृतत्वरा सहभुवा व्यावर्त्त्यमाना ह्रिया” रत्ना०। भृशा० अभूततद्भावार्थे क्यङ्। उत्सुकायते उत्सुकायमाना “यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके” भट्टिः

उत्सूत्र = त्रि० उत्क्रान्तः सूत्रम् अत्या० स०। विधानसूत्रातीते “अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना” माघः।

उत्सूर = पु० उत्क्रान्तः अतिक्रान्तः सूरं सूर्य्यम् अत्या० स०। दिनात्यये हेमच० उत् सूर्य्यादयोऽप्यत्र। “ओत् सूर्य्यमन्यान्त्स्वापयाब्युषम्”। अथ० ४, ५, ७, “उत्सूर्य्यशायिनश्चासन् सर्व्वेचासन् प्रगे निशा” भा० शा० २२८ अ०

उत्सृज्य = अ० उद् + सृज–ल्यप्। १ त्यक्त्वेत्यर्थे “ऋदुपत्वात् कर्म्मणि क्यप्। २ त्यक्तव्ये त्रि०

उत्सृष्ट = त्रि० उद् + सृज–क्त। १ त्यक्ते २ दत्ते च। “ब्राह्मणानाह यत्किञ्चित् मयोतुसृष्टं तु निर्ज्जने। तत् कश्चिदन्यो न नयेत् विभाज्यत्वं यथाक्रमम्। न वाह्यं न च तत्क्षीरं पातव्यं केनचित् क्वचित्”। ब्रह्म पु०। “महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः” या० स्मृ०।

उत्सेक = पु० उद् + सिच–घञ्। १ गर्व्वे, “उपदा विविशुः सम्यक्नोत्सेकाः कोशलेश्वरम्” रघुः। “नोत्सेकमगमच्चेदं कदाचिदिह नः कुलम्” भा० आ० ११० अ०। २ उद्रेके “पातव्यं श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे” सुश्रु०। ३ उद्धृत्य बहिः सेचने च।

उत्सेकिन् = त्रि० उत् सेक + अस्त्यर्थे इनि। १ अतिशयिते २ गर्वयुक्ते च स्त्रियां ङीप्। “भाग्येष्वनुत सेकिनी” शकु०

उत्सेचन = न० उत्क्रम्य आधारमतिक्रम्य सेचनम्। आधारातिक्रमेण प्लवने (उप्चान)

उत्सेध = पु० उत्सेधति कारणमतिक्रम्य वर्द्धते उद् + सिधगत्याम् अच। १ देहे तस्य शुक्रशोणितरूपसूक्ष्मकारणातिक्रमेण वर्द्धनात्तथात्वम्। भावे घञ्। २ उन्नतौ तस्य कृदभिहितभावत्वात् “पुत्रवित्तार्ज्जनात् पितेत्यादौ, पुत्रार्जितवित्त इव उन्नत्याश्रयेऽपि वृत्तिः तथात्वेऽपि विशेषणसमासे ब्राह्मणश्रमणादिवत् परनिपातः हिमनिष्यन्दपाण्डर इत्यादिवदिति भेदः। यथा “पयोधरोत्सेधनिपातचूर्ण्णिताः इति कुमा० “तस्य प्रमाणमार्द्रमाहिषचर्म्मोत् सेधमुपदिशन्ति” सुश्रु०। “उत् सेधनिर्द्धूतमहीरुहां ध्वजैः” माघः “तच्छाखाचमसा दीर्घाः प्रादेशाश्चतुरङ्गुलाः। तथैवोत्सेधतोज्ञेयाश्चतुरस्रास्तु इत्यपि” छन्दोगप० “पयोधरोत् सेधविशीर्ण्णसंहति” कुमा०। कर्त्तरि अच्। ३ उच्चे त्रि०। “वायव्यं श्वेतंपुच्छे उत्सेधमेव तं कुरुते तस्मादुत् सेधं प्रजाभयेऽभि संश्र- यन्ति” शत० ब्रा० १३, २, २, ९, “उत्सेधमुच्चं पर्व्वतादिकं प्रासादं वा” भा०।

उत्स्वन = पु० उच्चैःस्वनः। १ उच्चशब्दे। ब०। २ तद्वति त्रि०।

उत्स्वप्न = त्रि० उत्क्रान्तः अतिक्रान्तः स्वप्न तन्मर्य्यादाम् अत्या० स०। निद्रायां बाह्येन्द्रियाणां विलीनत्वेमन मनसैव सर्व्वव्यवहारनियमेन तदतिक्रमेण जाग्रदयस्थावत् स्पष्टवचनादिव्यवहारे। उत्स्वप्नमिव चरति क्यङ् उत्स्वप्तायते यथा मृच्छकटिके “विदूषक उत्स्वप्नायते” स्वप्नदृष्टपदार्थस्य स्पष्टवाचा व्यवहरतीत्यर्थः। एवमुत्तरराम चरितेऽपि “अत्थि एत्थ अज्जौत्त” इत्यादिना सीताया उत्स्वप्तो वर्ण्णितः।

उद् = अव्य० उ–क्विप् तुक् “उदोऽनूर्द्धचेष्टायाम्” पा० नि० पृषो० दत्वम्। १ प्रकाशे, २ विमागे, ३ लाभे, ४ ऊर्द्धे, ५ उत्कर्षे, ६ प्राबल्ये, ७ आश्चर्य्ये, ८ शक्तौ, ९ प्राधान्ये, १० बन्धने, ११ अभावे, १२ मोक्षे, “तस्य उदिति नामेति” श्रुतेः १३ ब्रह्मणि च। गणरत्ने उदः अर्थानंभिधाय उदाहृतं यथा “उत् प्राबल्यवियोगोर्द्ध्वकर्म्मलाभप्रकाशाश्चर्य्यमोक्षणाभावदलप्राधान्यशक्तिषु” तत्र प्राबल्ये उद्बलः वियोगे उद्गच्छति। ऊर्द्ध्वचेष्टायाम् उत्तिष्ठति। लाभे ग्रामात् शतमुत्पन्नम्। प्रकाशने उच्चरति चाश्चर्य्ये उत्मुकः। मोक्षणे उद्गतः। अभावे उत्पथः। दलने उत्फुल्लः। प्राधान्ये उद्दिष्टः शक्तौ उत्साहः”

उदक = न० उन्द–ण्वुल् नि० नलोपश्च। जले “अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठति” माघः। “सकृत् प्रसिञ्चत्युदकं नामगोत्रेण वाग्यतः। प्रोषिते कालशेषः स्यात् पूर्णेदत्तोदकः शुचिः”। या० स्मृ० “यावानर्थ उदपानेसर्व्वतः संप्लुतोदके” गीता। “उदकस्योदः संज्ञायाम्” पा० समासे संज्ञायामुदकस्योदादेश उदपानः उदधिः उदमेघः। क्षीरोदः। “पेषंवासवाहनधिषु” पा०। पूर्व्वपदस्थस्य उदादेशः। उदपेषं पिनष्टि उदवासः “सहस्यरात्रीरुदवासतत्परा” कुमा० उदवाहनः उदधिर्घटः पूरयितव्ये उकहलादौ परे वा। उदकुम्भ उदककुम्भः। “शान्त्युदकुम्भहस्ताः” भट्टिः पूर्वयितव्य इत्याद्युक्तेः उदकपर्वत उदकस्थाली इत्यादौ न। “मन्थौदनसक्तुविन्दुवज्वभारहारवीबधगाहेषु च” पा०। उदमन्थः उदकमन्थः (जलविलोडनम्)। उदौदनः उदकौदनः (उदकेन सिद्धः ओदनः)। “उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयात्” शत० ब्रा० १४, ९, ४, १५। उदसक्तवः (उदकमिश्रितसक्तवः)। उदाबन्दुः उदवज्रः उदभारः उदहारः (जलहारकः) उदवीबधः उदगाहः (जलावगाहः)पक्षे न। २ उदकसाघ्ये तर्पणे च। “ऊनद्विवर्षं निखनेत् न कुर्य्यादुदकं ततः”। “कृतोदकान् समुत्तीर्ण्णान्” “कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्विजाम् “न ब्रह्मचारिणः कुर्य्युरुदकं पतिताश्च ये। “नाशौचोदकभाजनम्” इति च या० स्मृ०।

उदककृच्छ्र = पु० “उदकसक्तुभ्यां मासाभ्यवहारेणौदककृच्छ्रः” इति विष्णूक्ते व्रतभेदे।

उदकक्रिया = स्त्री उदकेन क्रिया तर्पणम्। शास्त्र विहिते जलादितर्पणे “एवं मातामहाचार्य्यप्रेतानामुदकक्रिया” या० स्मृ०। “अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा। “पिण्डोदकक्रियाहेतोः” स्मृति “उदककर्मोदककार्य्यादयोऽप्यत्र न०। उदकदानमप्यत्र न०। “तोयकर्मणिचारब्धे राज्ञामुदकदानिके” भा० आ० १ अ०।

उदकपरीक्षा = स्त्री विवादादौ लौकिकप्रमाणालाभे कार्य्ये दिव्यशपथभेदे तत्प्रकारश्च मिता० व्य०। “सत्येन माभिरक्ष त्वं वरुणेत्यभिशाप्य कम्। नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत्” या० उक्तः। प्रपञ्चस्तु मिता० व्य०। दि० तत्वे च अनुसन्धेयः।

उदकम् = अव्य० उन्द–अकमु किच्च। क्लेदे गणर०। साक्षा० कृञिवा गतित्वम्। उदकंकृत्यौदकंकृत्वा क्लेदं कृत्वेत्यर्थः।

उदकमेह = पु० उदकमिव मेहः। सुश्रुतोक्ते मेहभेदे। तल्लक्षणं तत्रैव “तत्र श्वेतमवेदनमुदकसदृशमुदकमेही मेहति”। इक्षुमेह शब्दे ९१० पृष्ठे विवृतिः ततः अस्त्यर्थे इनि। उदकमेहिन् तद्युक्ते त्रि० स्त्रियां ङीप्।

उदकल = त्रि० उदकमस्त्यस्य सिध्मा० वा लच्। उदकयुक्ते लजभावे मतुप् मस्य वः। उदकवत् तत्रार्थेस्त्रियां ङीप्। पिच्छा० इलच्। उदकिल तत्रार्थे त्रि०।

उदकशुद्ध = त्रि० उदकेन शुद्धः। १ स्वाते २ उदकस्पर्शेन शद्धे च। ततः भवादौ अण् अनुशति० द्वि पदवृद्धिः। औदकशौद्ध तद्भवे त्रि०।

उदकषट्पल = न० “सक्षारैः पञ्चकोलैस्तु पलिकैस्त्रि गुणोदकैः। समक्षीरं घृतप्रस्थं ज्वरार्शःप्लीहकासनुत्” चक्रदत्तोक्ते घृतभेदे।

उदकान्त = पु० उदकमेवान्तः सीमा। उदकपर्य्यन्ते। “सरस्वत्याः पश्चिमे उदकान्ते दीक्षेरन्” आश्व० श्रौ० १२, ६, २, “ओदकान्तात्सुहृज्जनोऽनुगन्तव्यः” शकु०।

उदकीय = पु० नामधातु आत्मन उदकमिच्छति उदक + क्यच्। उदकीयति अतितर्षायान्तु उदन्यति।

उदकीर्ण्ण(र्य्य) = पु० उदकेन कीर्णः(र्य्यः)संज्ञायाम् उदादेशः। महाकरञ्जे राजनिर्घ० र्य्यान्तः रत्नमा०।

उदकेचर = पु० उदके जले चरति अच् वा सप्तम्या अलुक्। जलचरे मत्स्यादौ। अध्वर्य्युर्मत्स्य सामदोराजेत्याह तस्योदकेचरा विशस्त इव आसत इति मत्स्याश्च” शत० ब्रा० १३, ४, ३, १२ जलचरे १ पक्षिकूर्मादौ च ते च सुश्रुते विभाजिताः ते च आनूपशब्दे ७३१ पृष्ठे दर्शिताः। साप्तम्यालुकि उदकचरोऽप्यत्र, णिनि, उदकचारिन् अप्यत्र स्त्रियां ङीप्।

उदकोदर = न० सुश्रुतोक्ते उदरवृद्धिकारकरोगे। उदरशब्दे विवृतिः “उदकोदरिणस्तु वातहरतैलाभ्यामित्यादि” सुश्रु०

उदक्त = त्रि० उद् + अन्च–क्त। कूपादित उत्तोलिते। “उदक्तमुदकं कूपात्” सि० कौः।

उदक्प्रवण = त्रि० उदक् उत्तरा प्रवणं निम्नम्। क्रमशोदक्षिणत उत्तरनिम्ने। “ऊषर उदक्प्रवणे समे वा” कात्या० २, ३, ४। २ उत्तरमार्गगतिहेतौ च “एष वा उद्रक्प्रवणोयज्ञो यत्रैवंविद् ब्रह्मा भवति” छा० उ०। “उदक्प्रवणः उत्तरमार्गं प्रति हेतुरित्यर्थः” भा०। “प्राची हि देवानां दिगथो उदक्प्रवणोदोची हि मनुष्याणां, दिग्दक्षिणतः पुरोषं प्रत्युदूहत्येषा वै दिक् पितॄणां सा यद् दक्षिणा प्रवणा स्यात्” शत० ब्रा०। १, २, ५, १७।

उदक्य = त्रि० उदकमर्हति दण्डा० यत्। १ जलार्हे व्रीह्यादौ। २ तत्स्नानार्हेऽशुचौ ३ ऋतुमत्यां स्त्री। तस्याश्च स्नानदिव सपर्य्यन्तमशुद्धेः ततः शुद्ध्यर्थमुदकार्हत्वात् तथात्वम्। “उदक्या सूतिका वापि अन्त्यजं संस्पृशेद्यदि। त्रिखत्रेणैव शुध्येत इति शातातपोऽब्रवीत्” शु० त० वृद्धपरा०। “उदक्यया च संभाषां न कुर्व्वीत कदाचन” भा० अ० प० १०४ अ०। “उदक्ययासते ये च द्विजाः केचिदनस्नयः” भा० शान्ति० १६५ अ०। अथ प्रसङ्गात् प्रथमरजोदर्शनतिथ्यादिफलतदीयधर्मभेदा उच्यन्ते ते च विधामपारिजाते दर्शिता यथा। “प्रथमर्त्तौ द्वितीये वा शुभाशुभ निरीक्षणम्। कर्त्तव्यं ज्ञातिप्रिः सम्यग् धर्म्मशास्त्रबिधानतः”। तत्र वस्त्रफलम्। वराहसंहितायाम् “सुभगा श्वेतवस्त्राढ्या रोगिणीरक्तवाससा। नीलाम्बरधरा नारी विधवा जायते ध्रुवम्। भोगिनी पीतवस्त्रा स्यान्नववस्त्रा पतिब्रता। दुर्भगा शीर्णवस्त्रा च सुमगा क्षौमवस्त्रिणी”। रजोवर्णफलम्। “आलोहिते भवेद्बन्ध्या श्वेतवर्णे च पुत्रिणी। कृष्णे च विधवा नारी रजस्येतत्तुलक्षणम्” विवाहोत्तरकालभेदफलम् “ऊढानां वत्सरार्धेन मासे पक्षे तथा खलु। रज सोदर्शनं स्त्रीणां सर्वदैवाशुभावहम्”। अथ तिथिफलम् “आद्यर्त्तौ विधवा नारी प्रतिपद्यावृताऽसृजा। वैधव्यदा प्रतिपदा द्वितीया पुत्रवर्द्धिनी। सौभाग्यदा तृतीया च चतुर्थी सुखनाशिनी। पञ्चमी सुभगा चैव पष्ठी सम्पत्तिनाशिनी। सप्तमी धननाशाय, पुत्रदा सोख्य दाष्टमी। नवमी क्लेशदा स्त्रीणां दशमी च सुखप्रदा। एकादश्यर्थनाशाय द्वादशी रतिवर्द्धिनी। त्रयोदशी शुभाज्ञेया दुर्भगा च चतुर्दशी। पौर्णमासी त्वमावास्या दुःखरोगविवर्द्धिनी”। अथ मासफलम् तत्रैव “चैत्रेमासि विशेषेण वैधव्यं लभते ध्रुवम्। वैशाखे बहुपुत्राढ्या ज्यैष्ठे रोगावृता भवेत्। आषाढो मृत्युदः प्रोक्तः श्रावणोधनहा भवेत्। भाद्रे तु दुर्भगा क्लीवा ह्याश्विने च तपस्विनी। कार्त्तिके निर्द्धना बाला मार्गशीर्षेबहुप्रजा। पौषे स्यात् पुंश्चली नारी माघे पुत्रसुखान्विता। फाल्गुने सर्व्व सपन्ना प्रथमर्त्तौ फलं स्मृतम्”। अथवारफलम्। “आदित्ये विधवा नारी सोमे दैन्यमवाप्नुयात्। मङ्गले ह्याप्तघाताय बुधे च धनिनी भवेत्। गुरौ च भर्त्तृसुखदा कन्यापुत्रपसूर्भृगौ। पौश्चल्यकारिणी मन्दे म्रियते भर्त्तुरग्रतः”। अन्यत्रान्यथापि “रुग्णा पतिब्रता दुःख पुत्रिणी भोगभागिनी। पतिव्रता क्लेशभोगा सूर्य्यवारादिषु क्रमात्” अथ वेलाफलम्। “प्रातःकाले रजः स्त्रीणां प्रथसं शोकवर्द्धनम्। सङ्गवे सुखसन्तत्यै मध्याह्ने धनसन्ततिः। अपराह्णे धनावाप्तिः सायाह्ने मध्यमं फलम्। पूर्ब्बरात्रे सुखायालं मध्यरात्रे धनक्षयः। पररात्रेऽर्थ नाशाय प्रथमर्त्तुफलं स्मृतम्”। अथ स्थानफलम्। “गृहमध्ये सुस्वावाप्तिर्गृहद्वारे वियोगिनी। शय्यायां सुखदा भूमावनेकापत्यसन्ततिः”। द्रष्टृफलम्। “पुरन्ध्य्रा दृश्यते यत्तु रजः स्त्रीणां सुस्वाय तत्। विश्वस्तया तु यद्दृष्टं रजो वैधव्यदं स्मृतम्। रजः पश्यति चेत्कन्या पुमान्वा तत्सुखं भवेत्। स्वयं दृष्टं तथा स्त्रीणा मात्मघाताय कल्पते”। अथावासफलम्। “पितुर्गृहे रजो दैन्यं विदधाति पितुः कुले। देवस्थाने पितृस्थाने धनस्थानेऽन्यवेश्मनि। मार्गे भर्त्तृवियोगे च चण्डालाढ्ये मृतप्रजा”। अथ नक्षत्र फलम्। “अश्विनी सुखदा स्त्रीणां भरणी कामबर्द्धिनी। कृत्तिका दैन्यदा ज्ञेया रोहिणी सुखदा भवेत्। मृगस्तु कामभोगाय सुखदं रुद्रदैवतम्। अदित्यृक्षं सुखं दद्याद्गुरुभं सुखवर्द्धनम्। अश्लेषा शुभनाशाय शोकायाथ मघा मता। वैधव्यं फल्गुनीद्वन्द्वे हस्तः पुत्विवर्द्धनः चित्रा चित्रतनुं नारीं कुरुते नात्र संशयः। स्वाती शुभाय नारीणां विशाखा सुखनाशिनी। अनुराधार्थभोगाय ज्येष्ठा भर्तृवियोगदा। शुभहाप्यशुभं मूलं पूर्ब्बषाढार्थनाशिनी। सुखदा चोतराषाढा श्रवणः सुखवर्द्धनः। धनिष्ठापञ्चकं स्त्रीणां प्रथमर्त्तौ सुखप्रदम्। तिथिरेकगुणा प्रोक्ता नक्षत्रं च चतुर्गुणम्। बारः षष्ठगुणो ज्ञेयो मासश्चाष्टगुणः स्मृतः। वस्त्रं दशगुणंविद्याद्दर्शनं च ततोऽधिकम्। अशुभं चेद्रजः स्त्रीणां प्रथमर्त्तौ हि दृश्यते। विधान तत्र कर्त्तव्यमरिष्टघ्नं विशेषत” इति। अथ योगादिफलम्। परिधस्य तु पूर्ब्बार्द्धे व्यतीपाते च वैधृतौ। व्याघातशूलयोर्विष्ट्यामशुभं प्रथमार्त्तवम्”। विष्टिर्विष्टि भद्रेत्यर्थः। अन्यत्रापि। “अमा संक्रान्तिविष्ट्यादौ व्यतीपाते च वैधृतौ। परिघस्य तु पूर्व्वार्द्धे षट्च गण्डातिगण्डयोः। व्याघाते नव, शूले तु नाड्यः पञ्चदशैव तु। वैधव्यमर्थहानिञ्च सुतनाशं महत् भयम्। वैधव्यं शत्रुवृद्धिञ्च दारिद्र्यं क्षीणजीवनम्। तेजोहानिं समायाति एषु पुष्पवती क्रमात्। अथ राशिफलम्। “मेषे सव्यभिचारा स्याद्वृषभे परभोगिणी। मिथुने धनभोगाढ्या कर्कटे व्यभिचारिणी। पुष्पाढ्या सिंहराशौ तु कन्यायां श्रीमती तथा। विलक्षणा तुलायां तु वृश्चिके तु पतिब्रता। दुश्चारिणी धनुःपूर्वे त्वपरे च पतिब्रता। मकरे मानहीना च कुम्मे निर्द्धन बन्ध्यता। मीने विलक्षणा लग्ने ग्रहसंस्था विवाहवत्”। अथ लग्नफलम् नारसिंहीये०। “लग्नस्य सप्तमस्थाने सूर्य्यो वैधव्यकारकः। पुत्रहानिकरस्त्वारो बुधः सत्पुत्रदो भवेत्। वृहस्पतिर्धनायुष्यं शुक्रः सापत्न्यकारकः। शनैश्चरे च बन्ध्या स्याद्राहौ तु मरणं ध्रुवम्”। अथ गुरुशुक्रोदयफलम्। “आयुः श्रीः प्रीतिरारोग्यमुदिते गुरुभार्गवे। मन्दोदये विरोधः स्यात् क्लेशः स्यात्तामसोदये। तामसो राहुः। अन्यच्च। “संमार्जनीकाष्ठतृणाग्निशूर्पान् हस्ते दधाना कुलटा तदा स्यात्। तल्पोपयोगे तमसिस्थिता चेद्दृष्टं रजो भाग्यवती तदा स्यात्” इत्यादि सर्वं ज्योतिःशास्रतोऽवगन्तव्यम्। अथ ऋतुस्वरूपम्। “नाभिमूले स्थितं पुष्पञ्चतुर्दलसमन्वितम्। तास्वन् सर्वाश्च दधते गर्भसम्भवकारणम्। अधोमुखं स्थितं स्त्रीणां तद्दल मुकुलाकृति। बाल्यात्परवय प्राप्तौ मुकुलं विकसद्भवेत्। उत्फुल्लं कुसुमं स्त्रीणां स्वभावात् प्रस्रवेद्रजः। तदा प्रभृति सर्वासां मासि मासिऋतुर्भवेदिति”। अथ प्रथमर्त्तौ मङ्गलाचारः प्रयोगपारिजाते स्मृतिचन्द्रिकायाम्। “प्रथमर्त्तौ तु पुष्पिंण्याः पतिपुत्रवती स्त्रियाः। अक्षतैरासनं कुर्य्यात्तस्मिंस्तामुपवेशयेत्। हरिद्रागन्धपुष्पादीन् दद्यात्ताम्बूलकस्रजः। आशिषोवाचयेयुस्ताः पतिपुत्रवती भव। दापैर्नीराजनं कुर्यात्सदीपे वासयेद्गृहे। ताः सर्वाः पूजयेत्पश्चाद्गन्धपुव्याक्षतादिभिः। लवणापूपमुद्गादि दद्यात्ताभ्यः स्वशक्तितः”। अन्यच्चाह दक्षः। “आर्त्तवाभिप्लुता नारी नैका वेश्मनि संविशेत्। न संसर्गं ब्रजेदद्भिःस्नात्वा पापात्प्रमुच्यते। अञ्जनाभ्यञ्जने स्वानं प्रवासं दन्तधावनम्। न कुर्यात्सार्त्तवा नारी ग्रहाणामीक्षणं तथा। नखानां कृन्तनं रज्जुतालपत्रादिबन्धनम्”। नेत्यनुवृत्तौ सएव “दग्धे शरावे भुञ्जीत पेयं चाञ्जलिना पिबेत्”। अथ रजस्वला स्पर्शशुद्धिविधानम् स्मृतिरत्नावल्यां दक्षः “उदक्ये द्वे सगोत्रे वा सवर्णे वाऽथवा पुनः। तयोः स्नानं मिथः स्पर्शे पञ्चगव्यं ततः पिबेत्। सवर्णे योनिसम्बन्धे सगीत्रे च रजस्वले। मिथः संस्पृशतोऽमत्या स्नानमात्रेण शुद्ध्यतः। मत्यैकरात्रं नाश्नीतः पञ्चगव्यं पिबेत्ततः। उदक्ययोर्यदान्योन्यमसम्बन्धः सवर्णयोः। स्पृशेदमत्या स्नात्वा च तस्मिन्नाद्यात् शुचिर्भवेत्”। तस्मिन् स्पर्शदिने। “मत्या तु नाऽऽद्यादाशुद्धेर्भुक्ता चेत् प्रतिवासरम्। उपोषणं तदा केचिदाहुस्तदिदनसंख्यया। उपवासेत्पशक्ता चेत्तत्समं दानमाचरेत्। सम्भाषेतां स्पृशेतां वा ब्राह्मण्यौ च रजस्वले। आस्नानकालान्नाश्नीतोह्युभे मत्या मिथः क्वचित्। स्वात्वोपवासं कुर्य्यातां पञ्चगव्येन शुध्यतः। एवमभ्यसतश्चाब्दप्रायश्चितं समाचरेत्। मत्या रजस्वलान्योन्यं वृषलीं ब्राह्मणी स्पृशेत्। आस्नानकालान्नाश्नीयादतिकृच्छ्रं समाचरेत्। चाण्डालं सार्त्तवा नारी संस्पृशेत् भोजनान्तरे। वाग्यता बहिरासीनाऽऽस्नानकालादुपोषणम्। प्राजापत्यञ्चरेत् पश्चात् पञ्चगव्यं ततः पिबेत्। विप्रान् द्वादशसंख्याकान् भोजयित्वा विशुध्यति। पुष्पिणी संस्पृशेन्मोहादशुद्धं वा नरंस्त्रियम्। स्नानादर्वाङ् न मुञ्जीत भूक्त्वा कृच्छ्रं समाचरेत्। स्पृष्ट्वोदक्या पञ्चनखान् द्विशफैकशफान् पशून्। अण्डजानि च सर्वाणि नाद्यादा स्नानवासरात्”। परा- शरः। “रजस्वला यदा दष्टा शुना जम्बूकरासनैः। पञ्चरात्रं निराहारा पञ्चगव्येन शुद्ध्यति। उर्द्धं तु द्विगुणं यामे र्वक्त्रे तु त्रिगुणं तथा। चतुर्गुणं स्मृतं मूर्द्ध्नि दंशेऽन्यत्राव्रता मवेदिति”।

तस्या वैमित्तिकस्नानशुद्धिस्नानप्रकारस्तत्रैव दर्शितः यथा। तत्र वैमिचिकस्नातप्रकारस्तु स्मृव्यर्थसारे। “स्नाने नैपित्तिके प्राप्तै रजोदर्शने पात्रान्तरिततोयेन स्नात्वाद्भिः सिक्तगात्रा साङ्गोपाङ्गं वस्त्रं संनिष्पीड्यान्यवस्त्रधारणं कृत्वा व्रतञ्चरेदिति”। अथ शुद्धिस्नानं स्मृत्यर्थसारएव। “रजस्वला षष्टिमृत्तिकामिः शौसं कृत्वा मलं प्रक्षाल्यदन्तधावनपूर्व्वकं संगवे स्नायात्” इति। अथ स्नानानन्तरमपि रजःख्यवे विशेषोऽभिधीयते। कात्यायनेन “रजस्वला सदा नारी त्रिरात्रमशुचिर्भवेत्। प्रथमेऽहनि चाण्डाली द्वितीये ब्राह्मघातिनी। तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुद्ध्यति। मर्त्तुः शुद्धा चतुर्थेऽह्नि स्नाता नारो रबस्वला। दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यती” त्युक्त्वाभिहितम्। “रागजं रोगजञ्चैव द्रव्य जं कालजं तथा। यद्रागरोगद्रव्योत्थं तद्रक्तं प्राह मार्गवः। कालजं तु रजःसंज्ञं तस्मात् तत्रैव साऽशुचिः”। एषां लक्षणानि। “अर्वाक् प्रसूतेरुत्पन्नं मेदोबध्याङ्गवासु णत्। तद्रागजमिति प्रोक्तं प्रजोद्भेदसमुद्भवम्। रोगेण यद्रशः स्त्रीणामन्वहं संप्रवर्त्तते। नाऽशुसिः स्त्री ततस्तेन यतो वैकारिकं मलम्। अन्त्र्यदिदोषवैषम्यादसकृत्संप्रवर्त्तते। रोगजं तत्समुद्दिष्टमथ द्रव्यजमुच्यते। द्रव्यजं धातुवैषम्यहेतुद्रव्योपभोगजमिति”। “आरभ्य चार्त्तवदिनादेकविंशतिवासरे। मासादूर्द्ध्वं रजोयत् स्यात्तत्कालजमुदाहृतम्। रजस्वला यदा नारी पुनरेव रजस्वला। सा० विंशतिदिनादूर्द्ध्व त्रिरात्रमशुचिर्भवेत्”। ततः पूर्वं तु “रजस्वला यदि स्नाता पुवरेव रजस्वला। अष्टादशदिनादर्वागशुचित्वं न विद्यते। एकोबविंशतेरर्वागेकाहं स्यात् ततोद्व्यहम्। विंशत्प्रमृत्युत्तरेषु त्रिरात्रमशुचिर्भवेदिति”। कश्यपस्तु। “रजस्वला सती नारी पुनरेव रजस्वला। अष्टादशाहात् प्राम्बापि अशुचिः स्यात्त्रिरात्रकम्। त्रयोदशदिवादूर्द्ध्वं रजसा युज्यते यदा। अष्टादशाहात् वाग्वाऽपि त्रिरात्रमिति निश्चयः। एकादशेत्वहोऽरात्रं त्रिरात्रं द्वादशेऽहनि। उर्द्ध्वं त्रिरात्रं विज्ञेयमिति कुण्डलिचोदितमित्यादि” परस्परविरुद्ववचनम्” जातिगुणवयोऽ- स्थादेशर्भदेन व्यवस्थापनीयम्”। स्नानकालोत्तरानुत्तरत्वेन व्यवस्थेति रघु०। रजःकालाज्ञाने प्रजापतिराह “अविज्ञाते मले सा च मलवद्वसना यदि। कृतं गेहेषु जुष्ठं स्याच्छुद्धिस्तस्याः त्रिरात्रतः। रजः प्राप्तकालसंदेहेऽपि सएवाह। “निःसंदेहे परिज्ञाने आर्त्तवे शुद्धिकारणम्। संदेहमात्रे स्नानं स्यादित्युवाच प्रजापतिरिति”। अथ रात्रौ रजोदर्शने विशेषः। “अर्द्धरात्रपर्य्यन्तं पूर्व्वदिनमिव्यपरे परदिनगणना वा त्रिमागाया रात्रेर्मागद्वयं पूर्ब्बदियान्तर्गतमित्यव्ये। सूर्य्येदयाबधिपूर्वदिनमित्यपरे। तदाह काश्यपः। “उदिते तु यदा सूर्य्ये नारीणां दृश्यते रजः। जनवं वा विपत्तिर्वा यस्याहस्तस्य शर्वरो। अर्द्धरात्रावधिः कालः सूतकादौ विधीयते। रात्रिं कुर्य्यात्त्रिभागां तु द्वौ भागौ पूर्पगामिणौ। उत्तमोऽंशः प्रगातेन युज्यते मृतसूतके। रात्रावेव समुत्पन्ने मृते रजसि सूतके। पूर्व्वमेव दिनं ग्राह्यं यावन्नाम्युदितोरविरिति”। अत्रापि देशाचारादिना व्यवस्था द्रष्टव्या। अथ रजस्वलाया ज्वरादिरोगसंभवे शुद्धिविधानं स्मृत्यर्थसारे। रजस्वलां ज्वरितां चतुर्थेऽहनि सचेलनवगाह्याचम्य दशकृत्वोद्वादश कृत्वो वान्या तां स्पृष्टाचमेदिति”। उशनापि “ज्वराभिमूता था मारी रजसापि परिप्लुता। कथं तस्या भवेच्छौचं शुद्धिः स्यात् केव कर्मणा?। चतुर्थेऽहनि संप्राप्ते स्मृशेदन्या तु तां स्त्रियम्। सा सचेलावगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत्। दशद्वादशकृत्वो वा आचामेच्च पुनः पुनः। अन्वे च वाससां त्यामस्ततः शुद्धा भवेत्तु सा। दद्याच्छंक्त्या ततोदानं प्रुण्याहेन विशुध्यति। आतुराणां तु सर्वेषामेवं शुद्धिर्विधीयत” इति। अथोदक्यास्पष्टानां चेतनानां सचेलं स्नानम् अचेतनपीठादीनां प्रक्षाल नं, तत्रोदक्यादिस्पृष्टाचेतनस्पर्शे आचमनम् “उदक्याऽशुत्तिभिः स्नायात्संस्पृष्टस्तैरुपस्पशेदिति” याज्ञवल्क्यस्पररणात् उदक्यादिस्पृष्टचेतनस्पर्शे तु द्वितीयस्वापि स्नानमेव यथाह मनुः “दिवाकीर्त्तिमुदक्यां च पतितं सूतिकां तथा। शवन्तत्स्पर्शिनं चैव स्पृष्ट्वा स्नानेन शुद्ध्यति” तृतोयस्य त्वाचमनं यथाह संवर्त्तः “तत्स्मर्शिनं स्पृशेद्यस्तु स्नानं तस्य विधीयते। ऊर्द्ध्वमाचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा” एतदमतिविषयं बुद्धिपूर्वस्पर्शे तु तृतीयस्यापि स्नानमेव “पतितचण्डालसूतिकोदक्याशवस्पर्शितत् स्पर्श्युपस्पर्शने सचेलमुपस्पर्शनाच्छुद्धिरिति” गौतमस्यरणात्। चतुर्थास्याचमनं यथाह देवसः “उप- स्पृश्याशुचिस्पृष्टं तृतीयं चापि मानवः। हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुद्ध्यति” अशुद्धस्योदक्यादिस्पर्शेतु देवलः “अशुद्धान् स्वयमप्येतानशुद्वस्तु यदि स्पृशेत्। स शुध्यत्युपवासेन तथा कृच्छ्रेण वा पुनः। श्वादिस्पर्शे तूपवासःकृच्छ्रस्तु श्वपचादिके” इति। अधिकमार्त्तवशब्दे ८०८ पृष्ठे उक्तम्।

***