वाचस्पत्यम्
उत्पत्त to उत्पन
links:
Menu अ–ह
Prev उत्तरा–उत्पत
Next उत्पल–उदक
उत्पत्त
उत्पत्तिक
UpasanaYoga
.org

उत्पत्ति = स्त्री उद् + पत + क्तिन्। १ ऊर्द्ध्वपतने ऊर्द्ध्वगतौ। उत्पद्यते प्रथमतो ज्ञायतेऽनेन उद् + पद–करणे क्तिन्। प्राथमिकप्रतीतिविषयप्रवृत्तिसाधनेष्टसाधनताबोधके कर्मस्वरूपज्ञापके २ विधिवोक्ये यथा “स्वर्गकामोऽश्वमेधेन यजेतेत्यादि” वाक्यम् प्रथमं यागादौ इष्टसाधनत्वं बोधयत् तत्रं प्रवर्त्तयतीति तस्य तथात्वम् विधिशब्दे विवृतिः। “योगसिद्धिर्वा अर्थस्योत्पत्त्ययोगित्वात्” जैमि० सू०। उद् + पद० क्तिन्। आद्यक्षणसम्बन्धरूपे ३ उद्भवे। उत्पत्तौ वादिविपत्तयः सन्ति तथाहि असतः सदुत्पद्यते इति बौद्धाः। प्रागुत्पत्तेरसत्कारणव्यापारादुत्पद्यते इति नैयायिकादयः। प्रागुत्पत्तेः सदपि कारणव्यापारादभिव्यज्यते इति सांख्या वेदान्तिनश्च प्रतिपेदिरे तयोरवान्तरभेदः सतो विवर्त्त इति वेदान्तिनः परिणामः इति सांख्याः। तदेतत् सांख्य० कौ०। प्रदर्शितं यथा केचिदाहुरसतः “सज्जायत इति, एकस्य सतो विवर्त्तः कार्य्यजातं न वस्तु सदित्यपरे। अन्ये तु सतोऽसज्जायतैति। सतः सज्जायते इति वृद्धाः। तत्र पूर्व्वस्मिन् कक्षत्रये व्रधानं न सिध्यति। सुखदुःखमोहभेदवत्स्वरूपपरिणामशब्दाद्यात्मकत्वं हि ऊगत्कारणस्य प्रधानत्वं सत्त्वरजस्तमःस्वभावत्वम्। यदि पुनरसतः सज्जायेत असन्निरूपाख्यं कारणं कथं सुखादिरूपशब्दाद्यात्मकं स्यात् सदसतोस्तादात्म्यातुषपत्तेः। अर्थकस्य सतो विवर्त्तः शब्दादिप्रपञ्चस्तथापि सतः सज्जायत इति न स्यात्। नचाद्वयस्य प्रपञ्चात्मकत्वमपि त्वप्रपञ्चस्य प्रपञ्चात्मकतया प्रतीतिर्भ्रम एव। येषामपि कणभक्षाक्षचरणादीनां सतएव कारणादसतो जन्म तेषामपि सदसतोरेकत्वानुपपत्तेर्न कार्य्यात्मकं कारणमिति न प्रधानसिद्धिः। अतः प्रधानसिद्ध्यर्थं प्रथमं तावत्सत्कार्य्यं प्रतिजानीते” कौ०। “असदकरणादुपादानग्रहणात्सर्व्वसम्भवाभावात्। शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्य्यम्” का० “सत्कार्य्यं कारणव्यापारात् प्रागपीति शेषः। तथा च न सिद्धसाधनं नैयायिकनयैरुद्भावनीयम्। यद्यपि वीजमृत्पिण्डादिप्रध्वंसानन्तरमङ्कुरघटाद्युत्पत्तिसपलभ्यते तथापि न प्रध्वंसस्य कारणत्वमपि तु भावस्यैव वीजाद्यवयवस्य। अभावात्तु भावोत्पत्तौ तस्य सर्वत्र सुलभत्वात्सर्वत्र सर्वकार्य्योत्पाद प्रसङ्ग इत्यादि न्यायवार्त्तिकतात्पर्य्यटीकायामभिहितमस्माभिः। घ्रपञ्चप्रत्ययश्चासति बाधके न शक्योमिथ्येति वक्तुमिति कणभक्षाक्षचरणमतमवशिष्यते। तत्रेदं प्रतिज्ञातं सत्कार्य्यमिति। अत्र हेतुमाह असदकरणात्। असच्चेत्कारणव्यापारात् पूर्वं कार्य्यं नास्य सत्त्वं केनापि कर्तुं शक्यं न हि नीखं शिल्पिसहस्रेणापि शक्यं पीतं कर्तुम्। सदसत्त्वे घटस्य धर्माविति चेत् तथाप्यसति धर्मिणि न तस्य धर्म इति सत्त्वं तदवस्थमेव तथा च नासत्त्वम् असम्बद्धेनातदात्मना वाऽसत्त्वेन कथमसन् घटः। तस्मात्कारणव्यापारादूर्द्ध्वमिव ततः प्रागपि सदेव कार्य्यमिति। कारणाच्चास्य सतोऽभिव्यक्तिरेवावशिष्यते। सतश्चाभिव्यक्तिरुपपन्ना। यथा पीडनेन तिलेषु तैलस्य, अवघातेन धान्येषु तण्डुलानां, दोहनेन सौरभेयीषु पयसः। असतः करणे तु न निदर्शनं किञ्चिदस्ति। न खल्वभिव्यज्यमानं चोत्पद्यमानं वा क्कचिदसद्दृष्टम्। इतश्च कारणव्यापारात् प्राक् सदेव कार्य्यमित्याह उपादानग्रहणात् उपादानानि कारणानि तेषां ग्रहणं कार्य्येण सम्बन्धः उपादानैः कार्य्यस्य सम्बन्धादिति यावत्। एतदुक्तं भवति कार्य्येण सम्बद्धं कारणं कार्य्यस्य जनकं सम्बन्धश्च कार्य्यस्यासतो न सम्भवति तस्मात् सदिति। स्यादेतत् असम्बद्धमेव कारणैः कस्मात् कार्य्यं न जन्यते? तथा चासदेवोत्पत्स्यतेऽत आह सर्वसम्भवाभावात्। असम्बद्धस्य जन्यत्वे असम्बद्धत्वाविशेषेण सर्वं कार्य्यजातं सर्पस्माद्भवेत् नचैतदस्ति तस्मान्नासम्बद्धमसम्बद्धेन जन्यते अपि तु सम्बद्धं सम्बद्धेन जन्यते इति। यथाहुःसाङ्ख्यवृद्धाः “असत्त्वे नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः। असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिरिति”। स्यादेतत् असम्बद्धमपि तदेव तत् करोति यत्र यत्कारणं शक्तं शक्तिश्च कार्यदर्शनादवगम्यते अतो नाव्यवस्थेति अत आह शक्तस्य शक्यकरणात्। सा शक्तिः शक्तकारणाश्रया सर्वत्र वा स्याच्छक्ये वा। सर्वत्र चेत्तदवस्थैवाव्यवस्था शक्ये चेत्कथमसति शक्ये तदिति वक्तव्यम्। शक्तिभेद एव स तादृशो यतः किञ्चिदेव कार्यं जनयेन्न सर्वमिति चेत् हन्त भोः शक्तिविशेषः कार्य्यसम्बद्धो वा स्यादसम्बद्धो वा, सम्बद्धत्वे नासता उम्बन्ध इति सत् कार्य्यम्। असम्बद्धत्वे सैवाव्यवस्थेति सुष्ठूक्तं शक्तस्य शक्यकर णादिति। इतश्च सत्कार्य्यमित्याह कारणभावाच्च कार्य्यस्य कारणात्मकत्वात् न हि कारणाद्भिन्नं कार्य्यं कारणञ्च स- दिति कथं तदभिन्नं कार्य्यमसद्भवेत्” सा० कौ०। उत्पत्तेश्च यथा विर्भावरूपता तथाविर्भाव शब्दे ८३० उक्तम्।

व्याख्यात ञ्चैदस्माभिस्तट्टीकायां यथा असतः–सत्त्वेन वक्तुमशक्यात् निरुपाख्यात् अभावात् सत्–भावरूपं वस्तु, जायते जाततया व्यवह्रियते तथा हि अङ्कुरादिकं वीजनाशानन्तरमेव, दध्यादि दुग्धनाशानन्तरमेव, उत्पद्यमानं दृश्यते अतोऽनुमीयते कार्य्यभावा अभावकारणकाः कार्य्यत्वात् वीजनाशोत्तरजाताङ्कुरादिवत्। यत्रापि च तन्त्वादिषु पटकारणेषुस्वरूपेण नाशो न दृश्यते तत्राप्यनुमानेनैव तज्ज्ञानं जननीयम्। युक्तं चैतत् उत्पन्ने पटे यदि तन्तवो न नष्टास्तदा तन्तवैमे इति व्यवहारविषयताम पद्येरन् न च तथा, अतस्तत्र तन्तुव्यवहाराभावात् पटरूपेण व्यवहाराच्च तन्तवोनष्टा इत्यनुमातव्यम्। न च कारणनाशे दग्धतन्तुषु पटदाहवत् पटनाशापत्तिरित्याशङ्क्यम्, तन्तूनां पटकारणत्वस्याद्यापि असिद्धत्वात्, ये हि भावकारणका इति वदेयुस्तान् प्रत्येवैतद्दूषणमवतरेत् नाभावकारणतावादिनं प्रतीति सुस्थितमभावकारणवादिबौद्धादिमतम्। सतः त्रैकालिकबाधरहितात् कूटस्थवदपरिणामिनः विवर्त्तः स्वाज्ञानकल्पितः स्वज्ञाननिवर्त्त्यः परिणामविलक्षणः अत्यथाभावापत्तिः उपचारात् तथा उत्पद्यमानं कार्य्यजातमपि विवर्त्तः न वस्तु सदिति वस्तुतः पारमार्थिकेन सत्त्वेनं नान्वितं किन्तु व्यवहारयोग्यसत्तयान्वितम्। तथा हि शुक्तिकादौ रजतादिज्ञानं सर्वानुभवसिद्धं तच्च प्रत्यक्षमेव रजतं साक्षात्करोमीत्याद्यनुभवात् प्रत्यक्षे च विषयेन्द्रियसन्निकर्षस्य कारणत्वात् देशान्तरस्थितरजतस्य च चक्षुरसन्निकृष्टतया न प्रत्यक्षविषयता। न च पूर्वज्ञातस्य रजतस्य ज्ञानेन उपनीतस्य शुक्तिकायां भ्रम इति वाच्यम् ज्ञानोपनीतस्य ज्ञानस्वीकारे साक्षात्कारानुभवापलापापत्तेः। अतएव न पूर्वानुभूतरजतस्मरणमात्रमनुभवविरोधात्। अतोऽगत्या तत्र शुक्तिकायामसद्रजतमुत्पद्यते इत्येव कल्पनीयम्। तदुत्पत्तौ च शुक्तिकादिविषयकमज्ञानं कारणं रजतविषयसंस्कारश्च तत्सहकारितया कल्पनीयः। तदेव अध्यस्तत्वम् यदुत्पन्नस्व तस्यासतो रजतस्य शुक्तिकातादात्म्येन तत्प्रत्यक्षविषयता। तत्रोत्पन्नेऽपि रजते शुक्तिकाया गनागपि व्यावहारिकसत्त्वस्य व्याघातो न भवतीति यथा, एवं कूटस्थे अपरिणामिनि आत्मनि स्वाज्ञायेनावृते वियदादिकमध्यस्तमु- त्पद्यते तत्र च तदज्ञानं हेतुः तत्संस्कारश्च सहकारीति तथा च विवादाध्यासिता घटादयः सति अध्यस्तास्तज्ज्ञाननाश्यत्वे सति सत्तादात्म्येन प्रतीयमानत्वात् शुक्तितादात्म्येन प्रतीयमानशुक्तिज्ञाननाश्यरजतबदित्यनुमानात् अध्यस्तत्वं घटादानां सिद्धम्। अध्यस्तत्वं च साक्षात्कारिप्रत्यक्षविषयत्वं प्रागुक्तं तच्च तस्यासतोऽप्यनुत्पत्तौ प्रत्यक्षविषयता न स्यादिति अध्यस्तत्वरक्षायै तस्मिन्नुत्पत्तिरप्यङ्गीकार्य्या। ज्ञाननाश्यत्वं च तेषां मिथ्यात्वात् शुक्तिज्ञाननाश्यासद्रजतवदित्यनुमातव्यमित्यास्तां विस्तरेण इति वेदान्तिमतम्। सतो भावात् विद्यमानादेवेत्यर्थः। असत् उत्पत्तेः, कारणव्यापाराद्वा पूर्व्वमविद्यमानं, कारणव्यापारादुत्तरन्तु जायते सद्भवतीति काणादनैयायिकादयः। सतः सत्त्वाश्रयात् भावादेव सत्, कारणव्यापारात् प्रागपि, कारणावस्थारूपसूक्ष्मरूपेण विद्यमानं जायते कारणव्यापारात्तुअभिव्यज्यतेव्यवहारयोग्यतामापाद्यते इति यावदिति वृद्धाः साङ्ख्यादयः। एवमुत्पत्तिविषये चतुर्षु पक्षेषु स्थितेषु आद्यपक्षत्रये अनुमित्सितकार्य्यात्मककारणरूपप्रधानासिद्धिं क्रमशः प्रदर्शयितुं क्रमप्राप्तं बौद्धपक्षमाह यदि पुनरित्यादि। निरुपाख्यामनिर्वचनीयमिदन्तया वक्तुमशक्यमिति यावत् सति हि लक्षणे वस्तु तल्लक्षणवत्त्वेन वक्तुं शक्यम् अभावस्य च लक्षणाभावात् कथङ्कारं वक्तव्यता। यद्यपि भावभिन्नत्वं, सत्त्वेन प्रतीत्यनर्हत्वम्, असत्त्वेन प्रतीत्यर्हत्वं वा तल्लक्षणं कैश्चिदुच्यते तानि च सर्वाण्यपि अभावज्ञानसापेक्षतया दुर्ज्ञेयत्वादन्योन्याश्रयदोषग्रस्तत्वाच्चालक्षणान्येव। सुखदुःखमोहात्मककार्यदर्शनात् कारणस्यापि तथाभूतात्मकत्वमनुमित्सितं तच्च भावस्यैव कारणतापक्षे सेत्स्यति नाभावस्य भावाभावयोस्तादात्म्यानुपपत्तेरिति भावः। विवर्त्तवादे च कार्य्यजातस्याध्यासेन तादात्म्यभानेऽपि वस्तुतोऽसत्त्वेन सदसतोस्तादात्म्या नुपपत्त्या पूर्ववन्नानुमित्सितप्रधानसिद्धिरित्याह अथैकस्येत्यादि। सतोऽसज्जायते इति पक्षेऽपि सदसतोस्तदात्म्यानुपपत्त्यैव न प्रधानसिद्धिरित्याह सदसतोरेकत्वेइत्यादि। एवमाद्यपक्षत्रिके प्रधानासिद्धिमुद्भाव्य सत्कार्यपक्षे तत् साधयितुं सत्कार्यपक्षसभर्थनाय कारिकामवतारयति सत्कार्यं प्रतिजानीते इत्यादि। कार्थं सत् कारणव्यापारात् प्रागपि विद्यमानमित्यर्थः तेन कारणव्यापारोत्तरं सत्त्वस्य नैयायिकादिवादिषु सिद्धत्वेन न सिद्धलाधनमिति दर्शयितुं विशिनष्टि कारणव्यापारादित्यादि। चतसृषु वादिविप्रतिपत्तिषु दर्शितासु असत्कार्यपक्षनिराकरणेऽपि इतरयोः पक्षयोरनिराकरणात् तत्प्रक्षयोः प्रधानासिद्धिरित्याशङ्क्य मूले तन्निराकरणाभावेऽपि अयुक्तत्वादेव तयोः पक्षयोर्न ग्राह्यतेति कथयितुमादौ बौद्धपक्षं दूषयितुमुत्थापयति यद्यपीत्यादि। दूषयति तथापीत्यादि। अयमाशयः सम्बद्धं सम्बन्धिनमेव जनयतीति नियमेन कार्यकारणयोः सम्बन्धोऽपेक्षितः वीजनाशाङ्कुरयोश्च केनापि सम्बन्धेन न सम्बन्धिता घटते येन तयोः कार्यकारणभावः स्यात्। असम्बद्धस्य कार्यजनकत्वे सर्वस्मात् सर्वकार्योत्पत्तिरित्यव्यवस्था स्यात्। न च वीजेष्वेवाङ्कुरप्रागभावः न तन्तुष्वित्यत्र स्वभाव एव शरणं तथा च अङ्गुरप्रागभाव एव नियामकोभविष्यतीति वाव्यम् प्रागभावस्य सूक्ष्मावस्थातिरिक्तत्वे अङ्कुरतत्प्रागभावयोश्च विभिन्नकालिकतया केनापि सम्बन्धेन सम्बन्धित्वाभावेन नियामकत्वाभावात् असम्बद्धस्य नियामकत्वे पूर्वदोषतादवस्थ्यात्। न च प्रतियोगितासम्बन्धेन तयोः सम्बन्धितेति वाच्यम् अभावसम्बन्धिताया एव प्रतियोगितापदार्थतया तस्या अप्यस्मत्पक्षेऽसिद्धत्वात् न च वीजस्य नाशात् कथं तस्य अङ्कुरकारणत्वमिति, तस्य नाशेऽपि तदवयवस्यानाशात् तस्यैव कारणत्वं वाच्यमिति सर्वं सुस्थम्। विबर्त्तवादे च यद्यपि तदनन्यत्वमारम्भणशब्दादिभ्य इति शा० २, १, १४ सूत्रेण कार्यकारणयोरभिन्नत्वमेव स्वीकृतं तथापि घटपटादिज्ञानानामध्यस्तविषयकतया विषयाणां मिथ्यात्वं तैरङ्गीक्रियते तथा हि विवादाध्यासितानि घटादिज्ञानानि अध्यस्तविषयकाणि सत्याविषयकज्ञानत्वात् शुक्तिकायां रजतज्ञानवदित्यनुमानेन घटादिज्ञानानामध्यस्तबिषयकत्वं सिद्धे अध्यस्तस्य च ज्ञाननाश्यतया मिथ्यात्वमित्यसत्त्वमेव तथा च सदसदोस्तादात्म्यानुपपत्तिदोषेण नैतत्पक्षाश्रयणम्। किञ्च मिथ्यात्वं ज्ञाननिवर्त्त्यत्वं तच्च नेदं रजतमिति बाधबुद्ध्या यथा रजतस्य मिथ्यात्वं प्रसिद्धमेवं घटादेर्मिथ्यात्वसाधकस्य बाधस्यादर्शनान्न तस्य मिथ्यात्वमेवञ्च हेत्वसिद्धेः कथं घटादिज्ञानादावध्यस्तविषयकत्वसिन्निः। एतदर्थमेव असति बाधक इत्युक्तम्। तथा च शुक्तिरजतबाधकवदत्र बाधकाभावान्न तस्य मिथ्यात्वम्। न चाद्वैतश्लतिरेव बाधिका, तस्याः अन्यार्थपरतया द्वैताभावनिषेधपरत्वाभावात् अतएव “नाद्वैतश्रुरिविरीधो जातिपरत्वात्” इत्यनेन साङ्ख्यसूत्रेण श्रुतेः समानजातीवबहुजीवपरत्वं समर्थितम्। एवं पक्षद्वय- मयुक्तिकतया निरस्य दृढयुक्तिकस्य काणादादिपक्षस्य निरसनीयतयाऽवशेषतां दर्शयति कणभक्षेत्यादि कणमन्नकणं भक्षयतीति कणभक्षः कणादः। अक्षं चक्षुश्चरणे यस्येति अक्षचरणो गौतमस्तदनुसारिमतमित्यर्थः ननु भावस्य सत्त्वमसत्त्वं च कादाचित्को धर्मो न तु स्वाभाविकः तथा च उत्पत्तेः प्राक् असत्त्वं परतस्तु सत्त्वम् यथा घटे पाकात् पूर्वं श्यामता, पाकोत्तरं रक्तता, तद्वत् कालविशेषे धर्मविशेषो भविष्यतीति असत्कार्यपक्षेऽपि न काचित् क्षतिरिति शङ्कते सदसत्त्वे इति। परिहरति तथाप्यसतीति। अयमाशयः असत्त्वस्य भावधर्मत्वे उत्पत्तेः प्रागपि तस्य धर्मिणः सत्त्वं स्वीकर्त्तव्यं तथा हि धर्मसत्त्वं धर्मिसत्त्वं विनानुपपद्यमानं धर्मिसत्त्वमपि तदाक्षिपति तथा चापादकेन असत्त्वरूपधर्मसत्त्वेन आपाद्यस्य धर्म्मिसत्त्वस्य सिद्धिः इति। सत्त्वं कार्यसत्त्वं तदवस्थं उत्पत्तेः प्रागपि स्थितमिति न तदानीं धर्म्यसत्त्वासिद्धिरित्याह तथा च नासत्त्वमिति असत्त्वधर्मिणस्तदानीमपि सिद्धत्वान्न घर्म्यसत्त्वमित्यर्थः। तदेवोपपादयति असम्बद्धेनेत्यादि। असम्बद्धेन धर्म्मिणा सहेति शेषः असत्त्वेनेत्यत्रास्यान्वयः। अतदात्मना अतत्स्वरूपेण वा असत्त्वेन कथमसन् स्यात् असत्त्वाश्रयः स्यादित्यर्थः धर्म्मिणा सह सम्बद्धेनैव धर्मेण तदाश्रयत्वनियमात् असम्बद्धस्य च तादात्म्येनैव तथात्वनियमाच्च प्रकृते असत्त्वस्य घटेन सह सम्बन्धाभावात् तत्तादात्म्याभावाच्च न तदाश्रयत्वमिति भावः। सत्कार्यपक्षमुपसंहरति तस्मादिति। तैलस्य, तण्डुलानां, पयसश्चाभिव्यक्तिरित्यत्रानुकृष्याऽन्वयः। असत्त्वे कार्यस्य उत्पत्तेः प्रागसत्त्वे सत्त्वसङ्गिभिः सत्त्वाश्रयैः कारणैः सह सम्बन्धोनास्ति। असम्बद्धस्य चोत्पत्तौ प्रागुक्ता अव्यवस्थितिः सर्वस्मात् सर्वोत्पत्तिरित्येवं रूपा अव्यवस्था। प्रथमं तत्पदं द्वितीयान्तं कार्यपरम्, द्वितीयं तु कारणपरं प्रथमान्तम्। कार्य्यानुकूला कारणनिष्ठैव शक्तिः कार्यजनननियामिकेत्यवसेयम् तथा च कार्यस्यासत्त्वे कथं तदनुकूलत्वं तस्याः स्यादिति समर्थयितुं शक्तेरितरनिष्ठत्वं विकल्प्य दूषयति सा शक्तिरिति”।

यथा च असतोन सदुत्पत्तिः सतश्चाभिव्यक्ति स्तथा छा० उ० भाष्ययोः समर्थितं यथा “सदेव सौम्येदमग्र आसीदेकमेवाऽद्वितीयम्। तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतःसज्जायते। कुतस्तु खलु सौम्येवं स्यादिति? होवाच कथमसतः सज्जायेतेति?। सत्त्वेव सौम्येदमग्र आसीत् एकमेवाद्वितीयम्। तदैक्षत बहु स्यां प्रजायेयेति” छा० उ० “सदेव सदित्यस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्व्वगतम्। एकं निरञ्जनं निरवयवं विज्ञानं यदवगम्यते सर्व्ववेदान्तेभ्यः। एवशब्दोऽवधारणार्थः। किन्तदवध्रियते? इत्याह। इदं जनन्नामरूपक्रियावद्विकृतमुपलभ्यते यत्तत्सदेवासीदित्यासीच्छब्देन सम्बध्यते। कदा सदेवेदमासीदित्युच्यते अग्ने जगतः प्रागुत्पत्तेः। किं नेदानीमिदं सद् येनाग्रआसी दिति विशेष्यते, न, कथं तर्हि विशेषणम्? इदानीमपीदं सदेव, किन्तु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं चेतीदञ्च भवति। प्रागुत्पत्तेस्त्वग्रे केवलसच्छब्दबुद्धिमात्रगम्यमेवेति सदेवेदमग्र आसीदित्यवधार्य्यते। न हि प्रागुत्पत्तेर्नामवद्रूपवद्वेदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाल इव। यथा सुषुप्तादुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रेमेव केवलं वस्त्विति तथा प्रागुत्पत्तेरित्यभिप्रायः। यथेदमुच्यते लोके पूर्व्वाह्णे धटादिसिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतोऽपराह्णे तत्रैव घटशरावाद्यनेकभेदभिन्नं कार्य्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्व्वाह्णे आसीदिति, तथेहोच्यते सदेवेदमग्र आसीदिति। एकमेवेति। स्वकार्य्यपतितमन्यन्नास्तीत्येकमेवेत्युच्यते। अद्वितीयमिति। मृद्व्यतिरेकेण मृदो यथाऽन्यद्घटाद्याकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यते। अद्वितीयमिति नास्य द्वितीयं वस्त्वन्तरं विद्यत इत्यद्वितीयम्। ननु वैशेषिकपक्षेऽपि सत्सामानाधिकरण्यं सर्व्वस्योपपद्यते। द्रव्यगुणादिषु सच्छब्दबुद्ध्यनुवृत्तेः। सद्द्रव्यं सन् गुणः सत् कर्म्मे त्यादिदर्शनात्, सत्यमेर्व स्यादिदानीम्, प्रागुत्पत्तेस्तु नैवेदं कार्य्यं सदेवासीदित्यभ्यु पगम्यते वैशेषिकैः प्रागुत्पत्तेः कार्य्यस्यासत्त्वाभ्युपगमात्। न चैकमेव सदद्वितीयं प्रागुत्पत्तेरिच्छन्ति। तस्माद्वैशेषिकपरिकल्पितात् सतोऽन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः। तत् तत्र हैतस्मिन् प्रागुत्पत्तेर्वस्तुनिरूपणे एके वैनाशिका आहुर्वस्तु निरूपयन्तोऽसदभावातात्रं प्रागुत्पत्तेरिदं जगदेकमेवाग्रेऽद्वितीयमासीदिति। सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः। न तु सत्प्रतिद्वन्द्विवस्त्वन्तर- मिच्छन्ति। यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्विरीतं तत्त्वं भवतीति नैयायिकाः। ननु सदभावमात्रं प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः कथं प्रागुत्पत्तेरिदमासीदसदेकमेवाद्वितीथञ्चेति कालसम्बन्धः सङ्ख्यासम्बन्धोऽद्वितीयत्वं चोच्यते तैः। वाढम्। न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम्। असत्त्वमात्राभ्युपगमोऽप्ययुक्त एवाभ्युपगन्तुरनभ्युपगमानुपपत्तेः। इदानीमभ्युपगन्ताभ्युपगम्यते न प्रागुत्पत्तेरिति न प्रागुत्पत्तेः सदभावस्य प्रामाणाभावात्। प्रागुत्पत्तेरसदेवेति कल्पनानुपपत्तिः। ननु कथं वस्त्वाकृते शब्दार्थत्वेऽसदेवमेवाद्वितीयमिति पदार्थवाक्यार्थोपपत्तिस्तदनुपपत्तौ चेदं वाक्यमप्रमाणं प्रसज्येतेति चेत् नैष दोषः सद्ग्रहणनिवृत्तिपरत्वाद्वाक्यस्य। सदित्ययं तावच्छब्दः सदाकृतिवाचकः। एकमेवाद्वितीयमित्येतौ च समानाधिकरणौ। तथेदमासीदिति च। तत्र नञ् सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवाद्वितोयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निवर्त्तयति। अश्वारूढ इवाश्वालम्बनोऽश्वं तदभिमुखविषयान्निवर्त्तयति तद्वत्। न तु पुनः सदभावमेवाभिधत्तेऽतः पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरमिदमसदेवेत्यादि वाक्यं प्रयुज्यते। दर्शयित्वा हि विपरीतग्रहणं ततो निवर्त्तयितुं शक्यत इत्यर्थवत्ताऽसदादिवाक्यस्य श्रौतत्वं प्रामाण्यञ्च सिद्धमित्यदोषः। तस्मादसतः सर्व्वाभावरूपात्सद्विद्यमानमजायत समुत्पन्नम्। अडभावश्छान्दसः। तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधति। कुतस्तु? प्रमाणात् खलु हे सौम्य! एवं स्यादसतः सज्जायते इत्येवं कुतो भवेत् न कुतश्चित्प्रमाणादेवं सम्भवतीत्यर्थः। यदपि वीजोपमर्द्देऽङ्कुरो जायमाबो दृष्टोऽभावादेवेति तदप्यभ्युपगमविरुद्धं तेषाम्। कथं? ये तावद्वीजावयवा वीजसंस्थानविशिष्टास्तेऽङ्कुरेऽप्यनुवर्त्तन्त एव न तेषामुपमर्द्दोऽङ्कुरजन्मनि। यत्पुनर्वीजाकारसंस्थानं तद्वीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते यदङ्कुरजन्मन्युपमृद्येताथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतं तथाच सत्यभ्यु पगमविरोधः। अथ संवृत्त्याभ्युपगतं वीजसंस्थानरूपमुपमृद्यत इति चेत्। केयं संवृत्तिर्नाम किमसावभाव उत भाव इति। यद्यभावो दृष्टान्ताभावः। अथ भावस्तथापि नाभावादङ्कुरोत्पत्तिः वीजावयवेभ्यो ह्यङ्कुरोत्पक्षेः। अवयवा अप्युपमृद्यन्त इति चेत्। न तदवयवेषु तुल्यत्वात्। यथा वैनाशिकानां वीजसंस्थानरूपोऽवयवी नास्ति। तथावयवा अपीति तेषामप्युपमर्द्दानुपपत्तिः। वीजावयवानाममि सूक्ष्मावयवास्तदवयवानामप्यन्ये सूक्ष्मास्तदवयवा इत्येवं प्रसङ्गस्याऽनुवृत्तेः सर्व्वत्रोपमर्द्दानुपपत्तिः। सद्बुद्ध्यनुवृत्तेः सत्त्वानिवृत्ति श्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति। न त्वसद्वादिनां दुष्टान्तोऽस्त्यसतः सदुत्पत्तौः। मृत्पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनां, तद्भावे च भावात्तदभावे चाभावात्। यद्यभावादेव घट उत् पद्येत घटार्थिना मृत्पिण्डो नोपादीयेत। अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ प्रसज्येत न त्वेतदस्त्यतो नासतः सदुत् पत्तिः। यदप्याहुर्मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्वुद्धिर्घटबुद्धेः कारणमुच्यते न तु परमार्थत एव मृद्घटो वास्तीति तदपि मृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः सदुत्पत्तिः। मृद्बुद्धिघटबुद्ध्योर्निमित्तनैमित्तकतयानन्तर्य्यमात्रं न तु कार्य्यकारणत्वमिति चेतु न बुद्धीनां नैरन्तर्य्ये गम्यमाने वैनाशिकानां बहिर्द्वष्टान्तस्याभावात्। अतः कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथं केन प्रकारेणासतः सज्जायेतेति? असतः सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः। एवमसद्वादिपक्षमुन्मथ्योपसंहरति सत्त्वैव सौम्येदमग्र आसीदिति स्वपक्षसिद्धिः। ननु सद्वादिनोऽपि सतः सदुत्पद्यत इति नैव दृष्टान्तोऽस्ति। “घटाद्घटान्तरोत्पत्त्यदर्शनात्। सत्यमेवं न सतः सदन्तरमुत्पद्यते किं तर्हि सदेव संस्थानान्तरेणावतिष्ठते। यथा सर्पः कुण्डली भवति। यथा च मृच्चूर्ण्णं पिण्डघटकपालादिप्रभेदैः। यद्येवं सदेव सर्व्वप्रकारावस्थं कथं प्रागुत्पत्तेरिदमासीदित्युच्यते। ननु न श्रुतं त्वया सदेवेत्यवधारणमिदंशब्दवाच्यस्य कार्य्यस्य। प्राप्तं तर्हि प्रागुत्पत्तेरसदेवासीन्नेदं शब्दवाच्यमिदानीमिदं जातमिति, न सत एवेदंशब्दबुद्धिविषयतयावस्थानात् यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयेत्वेनावतिष्ठते तद्वत्। ननु यथा मृद्वस्त्वेवं पिण्डघटाद्यपि तद्वत्सद्वुद्धेरन्यबुद्धिविषयत्वात्कार्य्यस्य सतोऽन्यवस्त्वन्तरं स्यात्कार्य्यजातं यथाऽश्वाद् गौः, न पिण्डघटादीनामितरेतरव्यभिचारेऽपि मृत्त्वाध्यभिचारात्। यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटं तथापि पिण्डघटौ मृत्त्वं न व्यभिचरतस्तस्मान्मृन्मात्रं पिण्डघटौ, व्यभिचरत्यश्वं गौरश्वो वा गाम्, तस्मान्मृदादि संस्थानमात्रं घटादयः। एवं सत्संस्थानमात्रमिढं सर्ब्द मिति युक्तं प्रागुत्पत्तेः सदेयेति वाचारम्भणमात्रत्वाद्विकारसंस्थानमात्रस्य। ननु निरवयवं सत् “निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्” “दिव्यो ह्यमूर्त्तः पुरुषः स बाह्याभ्यन्तरो ह्यज” इत्यादिश्रुतिभ्यो, निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते। नैष दोषो रज्वाद्यवयवेभ्यः सर्पादिसंस्थानवद्बुद्धिपरिकल्पितेभ्यः सदवयवेत्यो विकारसंस्थानोपपत्तः। “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” “एवं सदेव सत्यमिति” श्रुतेः। एकमेवाद्वितीयं परमार्थत इदंबुद्धिकालेऽपि तत्सत् ऐक्षतेक्षां दर्शनं कृतवान्। अतश्च न प्रधानं साङ्ख्यपरिकल्पितं जगत्कारणम् प्रधानस्याचेतनत्वाभ्युपगमात्। इदन्तु सच्चेतनमीक्षितृत्वात्तत्कथमैक्षतेत्याह बहु प्रभूतं स्यां भवेयं प्रजायेय प्रकर्षेणोत्प्रद्येय। यथा मृद् घटाद्याकारेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुद्धिकल्पितेन। असदेव तर्हि सर्व्वं यद्गृह्यते रज्जुरिव सर्पाद्याकारेण, न, सत एव द्वैतभेदेनान्यथागृह्यमाणत्वान्नासत्त्वं कस्यचित् कचिदिति ब्रूमः। यथा सतोऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्द्धमसत्त्वं ब्रुवते तार्किका न तथाऽस्माभिः कदाचित्क्वचिदपि सतोऽन्यदभिधामनभिधेयं वा वस्तु परिकल्प्यते सदेव तु सर्व्वमभिधानमभिधीयते च यदन्यबुद्ध्या यथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते यथा, वा पिण्डघटादिर्मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके। रज्जुविबेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्त्तेत यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी तद्वत्सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्त्तेते। “यतो वाचो निवर्त्तन्तेऽप्राप्य मनसा सहेति” “अनिरुक्तेऽनिलयन “इत्यादिश्रुतिभ्यः” भा० वृ० उ० भाष्ये अभावादिकारश्चवादनिराकरणेन उत्पत्तेः प्रागपि सत्कार्य्यं कारणव्यापारादभिव्यज्यते इति स्थिरीकृतम् यथा। “नैवेह किञ्चनाग्र आसीत् मृत्युनैवेदमावृतमासीत् वृ० उ०। “नैवेह किञ्चनाग्र आसीत्। इह संसारमण्डले किञ्चन किञ्चिदपि नामरूपप्रविभक्त विशेषं नैवासीत् न बभूव। प्रागुत्पत्तेर्मन आदेः किं शून्यमेव स्यात्, नैवेह किञ्चनेति श्रुतेः न, कार्य्यं कारणं वासीदुत्पत्तेश्च। उत्पद्यते हि घटः। अतः प्रागुत्पत्तेर्घटस्य नास्तित्वम् नतु कारणस्य नास्तित्व” मृत्पिण्डादिदर्शनात्। यन्नोपलभ्यते तस्यैव नास्तिता। अस्तुकार्य्यस्य, नतु कारणस्य, उपलभ्यमानत्वात् न प्रागुत्पत्तेः सर्व्वा- नुपलम्भात्, अनुपलब्धिश्चेदभावो हेतुः सर्व्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्य्यञ्चोपलभ्यते। तस्मात्सर्वस्यैवाभावोऽस्तु, न मृत्युनैवेदमावृतमासीदिति श्रुतेः। यदि हि किञ्चिदपि नासात् येनाव्रियते यच्चाव्रियते तदा नावक्ष्यन्मृत्युनैवेदमावृतमिति। न हि भवति गगनकुसुमच्छन्नी बन्ध्यापुत्र इति। ब्रवीति च मृत्युनैवेदमावृतमासीदिति। तस्माद्येनावृतं कारणेन यच्चावृतं कार्य्यं प्रागुत्पत्तेस्तदुभयमासीच्छ्रुतेः प्रामाण्यात् अनुमेयत्वाच्च। अनुमीयते च प्रागुत्पत्तेः कार्य्यकारणयोरस्तित्वम् कार्य्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात् असति चादर्शनात्। जगतोऽपि प्रागुत्पत्तेः कारणास्तित्वमनुमीयते घटादिकारणास्तित्ववत्। घटादिकारणस्याप्यसत्त्वमेवानुपमृद्य मृत्पिण्डादिकं घटाद्यनुत्पत्तेरिति चेन्न मृदादेः, कारणत्वात्। मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः न पिण्डाद्याकारविशेषः तदभावे तदभावात्। असत्यपि पिण्डाकारविशेषे मृत्सुवर्ण्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते। तस्वान्न पिण्डाकारविशेषो घटरुचकादिकारणम्। असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्ण्णादिद्रव्यमेव कारणं नतु पिण्डाकारविशेषः। सर्व्वं हि कारणं कार्यमुत्पादयत् पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्व्वत् कार्यान्तरमुत्पादयति। एकस्मिन् कारणे युगपदनेककार्य्यविरोधात्। न च पूर्व्वकार्य्योपमर्दे कारणस्य स्वात्मोपमर्दो भवति। तस्मात् पिण्डाद्युपमर्दे कार्य्योत्पत्तिदर्शनमहेतुः। प्रागुत्पत्तेः कारणसत्त्वे पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तरिति चेत् पिण्डादिपूर्ब्बकार्य्योपमर्दे मृदादिकारणं नोपमृद्यते। घटादिकार्य्यान्तरेऽप्यनुवर्तत इत्येतदयुक्तम्। पिण्डधटादिव्यतिरेकेण मृदादिकारणस्यानुपलस्भादिति चेत् न मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात्। सादृश्यादन्वयदर्शनं कारणानुवृत्तेरिति चेन्न पिण्डादिगतानां मृदाद्यवयवानामेव घठादौ प्रत्यक्षत्वेऽनुमानाभासात्मादृश्यादिकल्पनानुपपत्तेः। न च प्रत्यक्षानुमानयोर्विरुद्धा व्यभिचारिता प्रत्यक्षपूर्व्वकत्वादमुमानस्य सर्व्वत्रैवानाश्वासप्रसङ्गात्। यदि च क्षणिकं सर्वं, तदेवेदमिति गम्यमानं तद्बुद्धेरपि अन्यतद्बद्ध्यपेक्षत्वे तस्या अप्यन्यबुद्ध्यपेक्षत्वमित्यनास्थायां तत्सदृशमिदमित्यस्या अपि बुद्धेर्मृषात्वात् सर्वत्रानाश्वासतैव। तदिदम्बुद्ध्योरपि कर्त्रभावे सम्बन्धानुपपत्तिः। मादृश्यात्सम्बन्ध इति चेन्न। तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः। असति चेतरेतरविषये सादृश्यग्रहणानुपपत्तिः। असत्येव सादृश्ये तद्बुद्धिरिति चेन्न। तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्विषयत्वप्रसङ्गात्। असद्विषयत्वमेव सर्व्वबुद्धीनामस्त्वेति चेन्न बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात्। तदप्यस्त्विति चेन्न। सर्व्वबुद्धीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः। तस्मादसदेतत् सादृश्यात्तु तद्बुद्धिरित्यतः सिद्धः प्राक्कार्योत्पत्तेः कारणसद्भावः। कार्यस्य चामिव्यक्तिलिङ्गत्वात्। कार्य्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः कथम्? अभिव्यक्तिलिङ्गत्वात्। अभिव्यक्तिर्लिङ्गमस्येत्यभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्वप्राप्तिः। यद्धि लोके प्रावृतं तम आदिना घटादि वस्तु तत् आलोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत् प्राक्सद्भावं न व्यभिरचति। तथेदमपि जगत् प्रागुत्पत्तेरित्यवगच्छामः। न हि अविद्यमानो घट उदितेऽप्यादित्य उपलभ्यते। ननु तेऽविद्यमानत्वाभावादुपलभ्यतैवेति चेत्। न हि तव घटादिकार्य्यं कदाचिदप्यविद्यमानमित्युदितेऽप्यादित्य उपलभ्येतैव। मृत्पिण्डेऽसन्निहिते तम आद्यावरणे चासति विद्यमानत्वादिति चेत् न द्विविधत्वादावरणस्य। घटादिकार्यस्य द्विविधं ह्यावरणं मृदादेरभिव्यक्तस्य तमःकुड्यादि प्राङ्मृदोऽभिव्यक्तेर्मृदाद्यवयवानां पिण्डादिकार्यान्तररूपेण संस्थानम्। तस्मात् प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्य्यस्यावृतत्वादनुपलब्धिः। नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्त्वभिव्यक्तितिरोभावयोर्द्विविधत्वापेक्षः। पिण्डकपालादेरावरणवैलक्षण्यादयुक्तमिति चेत् तमःकुड्यादि हि घटाद्यावरणं घटादिभिन्नदेशं दृष्टं न तथा घटादिभिन्नदेशे दृष्टे पिण्डकपाले तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैव घटस्यावृतत्वादनुपलब्धिरित्ययुक्तमावरणधर्मवैलक्षण्यादिति चेत् न क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात्। घटादिकार्ये कपालचूर्ण्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेत् न विभक्तानां कार्यान्तरत्वादावरणत्वोपपत्तेः। आवरणाभाव एव यत्नः कर्तव्य इति चेत् पिण्डकपालावस्थयोर्विद्यमानमेव घटादिकार्यमावृतत्वान्नोपलभ्यत इति घटादिकार्यार्थिना तदावरणविनाश एव यत्नः कर्त्तव्यो न घटाद्युत्पत्तौ। न र्चतदस्ति तस्मादयुक्तं विद्यमानस्यैवावृतत्वादनुपलर्ब्धिरिति चेत् न अनियमात्। न हि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्ति- र्नियता तम आद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रर्य त्नदर्शनात्। सोऽपि तमोनाशायैवेति चेत् दीपाद्युत्पत्तावपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय। तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते न हि घटे किञ्चिदाधीयत इति चैत् न प्रकाशवतो घटस्योपलभ्यमानत्वात्। यथा प्रकाशविशिष्टो घट उपलभ्यते प्रदीपकरणे, न तथा प्राक् प्रदीप्रकरणात्। तस्मात् न तमस्तिरस्कारायैव प्रदीपकरणम् किन्तर्हि प्रकाशवत्त्वाय। प्रकाशशत्त्वेनैवोपलभ्यमानत्वात्। क्वचिदावरणविनाशेऽपि यत्नः स्यात् यथा कुड्यादिविनाशे। तस्मान्न नियमोऽस्ति अभिव्यक्त्यर्थिनावरणविनाश एव यत्नः कार्य इति। नियमार्थवत्त्वाच्च। कारणे वर्तमानं कार्यं कार्यान्तराणामावरणमित्यवोचाम। तत्र यदि पूर्व्वाभिव्यक्तस्य कार्य्यस्य पिण्डस्य व्यवहितस्य वा कपालस्यविनाश एव यत्नः क्रियेत तदा विदलचूर्ण्णाद्यपि कार्य्यम् जायेत। तेनाप्यावृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरापेक्षैव। तस्माद्घटाद्यमिव्यक्त्यर्थिनो नियत एव कारकव्यापारोऽर्थवान्। तस्मात् प्रागुत्पत्तेरपि सदेव कार्यम्। अतीतानागतप्रत्ययभेदाच्च। अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्यययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम्। अनागतार्थिप्रवृत्तेश्च। नह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा। योगिनां चातोतानानतज्ञानस्य सत्यत्वात् असंश्चेद्भविष्यद्घट ऐश्वरम्भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात्। न च प्रत्यक्षमुपचर्य्यते। घटसद्भावे ह्यनुमानमवोचाभ विप्रतिषेधाच्च। यदि घटो भविष्यतीति कुलालादिषु व्याप्रियमाणेषु घटार्थं, प्रमाणेन निश्चितम्। येन च कालेन घटस्य सम्बन्धो भविष्यतीत्युच्यते तस्मिन्नेव काले घटोऽसन्निति। प्रतिषिद्धमभिधीयते भविष्यद्घटोऽसन्निति न भविष्यतीत्यर्थः अयं घटो न वर्त्तत इति यद्वत्। अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्यते घटार्थं प्रवृत्तेषु कुलालादिषु तत्र यथा व्यापाररूपेण वर्त्तमानास्तावत् कुलालादयस्तथा घटो न वर्त्तत इत्यसच्छब्दखार्थश्चेन्न विरुध्यते कस्मात् स्वेन हि भविष्यद्रूपेण घटो वर्त्तते। न हि पिण्डस्य वर्त्तमानता कपालस्य वा घटस्य भवति। न च तयोर्भविष्यत्ता घटस्य। तस्मात् कुलालादिव्यापारवर्त्तमानतायां प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते। यदि घटस्य यत्स्वम्भविष्यत्ताकार्य्यरूपं तत् प्रतिषिध्येत। तत्प्रतिषेधे विरोधः स्यात्। नतु तद्भवान् प्रतिषेधति। न च सर्वेषां क्रियावतामेकैव वर्त्तमानता भविष्यत्त्वं वा। अपि च चतुर्विधानामभावानां घटस्येतरेतराभावो घटादन्यो दृष्टो यथा घटाभावः पटादिरेव न घटस्वरूपमेव। न च घटाभावः सन् पटोऽभावात्मकः किन्तर्हि भावरूप एव घटस्य प्राक्प्रध्वंसात्यन्ताभावानामपि घटेन व्यपदिश्यमानत्वात् घट्स्येतरेतराभाववत् तथैव भावात्मकता अभावानाम्। एवञ्च सति घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्पत्तेर्नास्ति। अथ घटस्य प्रागभाव इति घटस्य यत् स्वरूपं तदेवोच्यते, घटस्येति व्यपदेशनुपपत्तिः। अथ कल्पयित्वा व्यपदिश्येत शिलापुत्त्रकस्य शरीरमिति यद्वत्। तथापि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशो न घटस्वरूपस्यैव। अथार्थान्तरं घटाद्घटस्याभाव इति उक्तोत्तरमेतत्। किञ्चान्यत्प्रागुत्पत्तेः शशविषाणवदमावभूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः द्विनिष्ठत्वात् सम्बन्धस्य। अयुतसिद्धानामदोष इति चेत् न भावाभावयोरयुतसिद्धत्वानुपपत्तेः। भावभूतयोर्हि युतसिद्धताऽयुतसिद्धता वा स्यान्न तु भावाभावयोरभावयोर्वा। तस्यात् सदेव कार्य्यं प्रागुत्पत्तेरिति सिद्धम्” एतदभिप्रेत्य गीतायामुक्तम् “नासतो विद्यते भावोनाभावो विद्यते सतः” इति

अथ भूतोत्पत्तिप्रकारः काणादभाष्यन्यायकन्दल्योर्दर्शितो यथा “ततः प्रातः प्राणिनांभोगभूतये महेश्वरस्य सिसृक्षानन्तरं सर्व्यात्मगतवृत्तिलब्धदृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो द्व्यणुकादिप्रक्रमेण महान् वायुः समुत्पन्नोदोधूयमानस्तिष्ठति” भा० “यद्यपि तदाऽऽत्मनां प्राणसंबन्धोनास्ति तथापि प्राणिन इत्युक्तं योग्यत्वात्। तेषां भोगभूतये सुखदुःखानुभवोत्पत्तये महेश्वरस्य सिसृक्षा सर्जनेच्छा जायते तदनन्तरं सर्वेष्वात्मसु गतान्यदृष्टानि वृत्तिं लभन्ते। यद्यपि युगपदुत्पद्यमानासंख्येयकार्य्योत्पत्तौ व्याप्रियमाणा दिगादिवन्नित्यत्वादेकैवेश्वरेच्छा क्रियाशक्तिरूपा तथाप्येषा तत्तत् कालविशेषसहकारिप्राप्तौ कदाचित् संहारार्था भवति कदाचित् सृष्ट्यर्था भवति यदा संहारार्था तदा तदनुरोधादंदृष्टादीनां वृत्तिनिरोध औदासीन्यलक्षणो जायते यदा त्वसौ सृष्ट्यर्था भवेत्तदा वृत्तिलाभः स्वकार्यजननं प्रति व्यापारी भवति। वृत्तिर्लब्धा यैस्तानि वृत्तिलब्धानि आहिताग्न्यादित्वात् निठायाः पूर्ब्बनिपातोदन्तजात इति यथा। सर्वात्मगतानि वृत्तिलब्धानि अदृष्टानि तान्यपेक्षन्ते ये तत् संयोगा आत्माणुसंयोगास्तेभ्यः पवनपरमाणुषु कर्म्माण्युत्पद्यन्ते पवनपरमाणवः समवायिकारणं लब्धवृत्त्यदृष्टवदात्माणुसंयोगोऽसमवायिकारणमदृष्टं निमित्तकारणमेवं कर्मोत्पत्तौ तेषां पवनपरमाणूनां परस्परसंयोगा जायन्ते तत्संसंयोगेभ्यश्च द्व्यणुकान्युत्पद्यन्ते तदनु त्र्यणुकानीति अनेन क्रमेण महान् वायुः समुत्पद्यमानो नभस्याकाशे दोधूयमानः क्वचिदप्रतिहतत्वायद्वेगातिशययुक्तस्तिष्ठति” क०। “तदनन्तरं तस्मिन्नाप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत् पन्नः पोप्लूयमानः” भा० “प्रतिरोधकाभावात् सर्वत्र प्लवमानस्तिष्ठति” क०। “ततस्तस्मिन्नेव पार्थियेभ्यः परमाणुभ्यो द्व्यणुकादिक्रमेण समुत्पन्ना महापृथिवीस्थिरस्वभावा तिष्ठति। ततस्तैजसेभ्यः परमाणुभ्यः समुत्पन्नो महांस्तेजोराशिर्देदीप्यमानस्तिष्ठति” भा०। “तदनन्तरं सलिलनिधेरुत्पत्त्यनन्तरं तस्मिन्नेव जलनिधौ पार्थिवेभ्यः परमाणुभ्यो महापृतिवी संहता स्थिरस्वभावाऽवतिष्ठते तदनन्तरं तस्मिन्नेव महोदघौ तैजसेभ्योऽणुम्यो द्व्यणुकादिक्रमेणोत्पन्नो महांस्तेजोराशिः केनचिदनभिभूतत्वाद्देदीप्यमानस्तिष्ठति यद्यपि पयःपावकयोः स्वाभाविकोविरोधोऽस्ति तथाप्यदृष्टवशादाधाराधेय भावोनानुपपन्नः” क०। “एवं समुत् पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात्तैजसेभ्योऽणुभ्यः पार्थिवपरनाणुसहितेभ्यो महदण्डमारभ्यते। तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य प्रजासर्गे नियुङ्क्ते” भा०। “एवमनन्तरोक्तेन क्रमेणोत्पन्नेषु महाभूतेषु महेश्वरस्वाभिध्यानमात्रात्संकल्पमात्रात् तैजसेभ्यः परमाणुभ्यः पार्थिवपरमाणुसहितेभ्योवृहदण्डं महड्डिम्बमारभ्यते डिम्बारम्भे पार्थिवा अवयवा उपष्टम्भकास्तेनेदं वह्निपुञ्जप्रायं मा भूत्। तस्मिन्नण्डे चत्वारि वदनकमलानि यस्य तं ब्रह्माणं सर्वलोकपितामहं सर्वेषामेव लोकानामाद्यं पुरुष समस्तैर्भुवनैः सहोत्पाद्य प्रजानां सर्गे जनने विनियुङ्क्ते “त्व मिदं कुर्व्विति” क०। “स च महेश्वरेण विनियुक्तो ब्रह्मातिशयज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्रणिगां कर्मविपाकं विदित्वा कर्म्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरोवर्ण्णान् यानि चोच्चावचानि भूतानि तानि सृष्ट्वाऽऽशयानुरूपैर्धर्म्मज्ञानवैराग्यैश्वर्य्यैः संयोजतीति” भा०। ज्ञानञ्च वैराग्यञ्चैश्चर्य्यञ्च ज्ञानवैराग्यैश्चर्य्याणि अतिशयेन ज्ञानादीनि तैः सम्पन्न उपचितः ज्ञानातिशथात् प्राणिनां धर्मा- धर्मौ यथावत् प्रत्येति। वैराग्यादपक्षपातेन प्रवर्त्तते। ऐश्वर्य्यात् कर्म्मफलं भोजयति। प्राणिनां कर्मविपाकं विदित्वेति विविधेन प्रकारेण पाकोविपाकः कर्मणां विपाकः कर्मविपाकस्तं विदित्वा एतावदस्य कर्मफलं भविष्यतीति ज्ञात्वा कर्म्मानुरूपाणि ज्ञानभोगोयूषि येषां तान् प्रजापतीन् दक्षाद्यान् मानसान् मनःसंकल्पप्रभवान् मनुदेवर्षिपितृगणान् मनून् देवानृषीन् पितृगणान् मुखबाहूरुपादतश्चतुरोवर्ण्णान् मुखात् ब्राह्मणान्, बाहुभ्यां क्षत्रियान्, उरुभ्यां वैश्यान्, पद्भ्यां शूद्रान्, अन्यानि चोच्चावचानि क्षुद्रक्षुद्रतराणि भूतानि सृष्ट्वा आशयानुरूपैराशेते फलोपभोगकालं यावत् आत्मन्यवतिष्ठत इत्याशयः कर्म तदनुरूपैर्ज्ञानधर्मवैराग्यैश्वर्य्यैः संयोजयतीति भात्रयाप्यन्यथा न योजयतीत्यर्थः”। यत् स्वलु केचिदेवमाचक्षिरे प्रेक्षावत्प्रवृत्तिरिष्टार्था वा स्यादनिष्टपरिहारार्था वा नचेष्टानिष्टप्राप्तिपरिहारार्था, न चेष्टानिष्टप्राप्तिपरिहारावीश्वरे समस्तावाप्तकामे सम्भवतः तेनास्य जनन्निर्माणे प्रवृत्तिरनुपपन्ना तत्रोत्तरं प्राणिनां भोगभूतय इति परार्था सिसृक्षायां प्रवृत्तिर्न स्वार्थनिबन्धनेत्यभिप्रायः। नन्वेवं तर्हि सुखमयीमेव सृष्टिं कुर्य्यात् न दुःखशवलां करुणंया प्रवृत्तत्वादित्यत्रैषपरिहारः प्राणिनां कर्मविपाकं विदित्वेति। परार्थं प्रवृत्तत्वेऽपि न मुखमयीमेव करोति विचित्रकर्म्माशयसहा यस्य कर्तृत्वादित्यर्थः नचैवं सति करुणाविरोधोदुःखोत् पादस्य वैराग्यजननद्वारेण परमपुरुषार्थहेतुत्वात् यदि धर्म्माधर्मावपेक्ष्य करोति नास्य खाधीनं कर्त्तृत्वमिति अनीश्वरतादोष इत्यस्यायं प्रतिसमाधिः। आशयानुरूपैः धर्मज्ञानवैराग्यैश्वर्य्यैः संयोजयति स हि सर्व्वप्राणिनां कर्मानुरूपं फलं प्रयच्छन् कथमनीश्वरः स्यादिति भावः न हि योग्यतानुरूपेण भृत्यानां फलविशेषप्रदः प्रभुरप्रभुर्भवति। कल्पादावुत्पन्नानां प्राणिनां सर्व्वशब्दार्थे ष्वव्युत्पन्नानां सङ्केतस्याशक्यकरणाच्छब्दव्यवहारानुपपत्ति रिति चोदनायां प्रत्यवस्थानवीजमिदं मानसानिति। योनिजशरीरं हि महता गर्भवासादिदुःखप्रबन्धेन विलुप्तसंस्कारं जन्मान्तरानुभूतस्य सर्वस्य न स्मरति। ऋषयः प्रजापतयो मनवस्तु मानसा अयोनिजशरीरविशिष्टा दृष्टसंवन्धिनो दृढसंस्काराः कल्पान्तरानुभूतं सर्व्वमेव शब्दनार्थव्यवहारं सप्तप्रतिबुद्धवत् प्रतिसन्दधते प्रतिसन्दधामाह परस्परं बहुपो व्यवहरन्ति। तेषां व्यव- हाराच्च तत्कालवर्त्तिनां प्राणिनामुत्पत्तिः तद्व्यवहाराच्चापरेषामित्युत्पद्यते व्यवहारपरम्परया शब्दार्थ व्युत्पत्ति रित्यर्थः” क०।

वेदान्तिमते भ्तोत्पत्तिप्रकारो वेदा० प० दर्शितो यथा। “तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्म्मसहकृतापरिमितानिरूपितशक्तिविशेषविशिष्ट मायासहितः सन्नामरूपात्मकं निखिलप्रपञ्चं प्रथमं बुद्धा वाकलय्य इदं करिष्यामीति सङ्कल्पयति “तदैक्षत बहु स्यां प्रजायेयेति” श्रुतेः। तत आत्मन आकाशादीनि पञ्चभूतानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते तत्राकाशस्य शब्दोगुणो, वायोस्तु शब्दस्पर्शौ तेजसस्तु शब्द स्पर्शरूपाणि, अपान्तु शब्दस्पर्शरूपरसाः, पृथिव्यास्तु शब्दस्पर्शरूपरसगन्धाः। न तु शब्दस्याकाशमात्रगुणत्वं वाय्वादावपि तदुपलम्भात्। नासौ भ्रमः बाधकाभावात्। इमानि भूतानि त्रिगुणमायाकार्याणि अतस्त्रिगुणात्मकानि। एतैश्च सत्वगुणोपेतैः पञ्चभूतैः श्रोत्रत्वक्चक्षूरसनघ्राणानि पञ्चेन्द्रियाणि मनोबुद्ध्यहङ्गारचित्तानि च जायन्ते। श्रोत्रादीनां पञ्चानांक्रमेणैव दिग्वातार्कवरुणाश्विना अधिष्ठातृदेवताः मनआदीनां चतुर्णां क्रमेण चन्द्रचतुर्मुखशङ्कराच्युताः अधिष्ठातृदेवताः। एतैरेव रजोगुणोपेतैः पञ्चभूतैर्यथाक्रमेण वाक्पाणिपादपायूपस्थाख्यानि कर्म्मेन्द्रियाणि जायन्ते। तेषाञ्च क्रमेण वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृदेवताः। रजोगुणोपेतैः पञ्चभूतैरेव पञ्च वायवः प्राणापानव्यानोदानसमानाख्याजायन्ते। तत्र प्रागननवान् वायुः प्राणोनासाग्रस्थानवर्त्ती। अवागननवानपानः पाय्वादिस्थानवर्त्ती। विष्वगननवान् व्यानः अखिलशरीरवर्त्ती। ऊर्द्ध्वमननवानुदानः कण्ठस्थानवर्त्ती। अशितपीतान्नादिसमोकरणः सभानः नाभिस्थानवर्त्ती। तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि जायन्ते “तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति” त्रिवृत्करणश्रुतेः पञ्चीकरणोपलक्षणार्थत्वात्। पञ्चीकरणप्रकारश्चेत्थम्। आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनचतुर्द्धा विभज्य तेषां चतुर्णामशानां वाय्वादिषु चतुर्भूतेषु संयोजनम्। एवं वायुं द्वेधा विभज्य तयोरेकं भागं पुनश्चतुर्द्धा विभज्य तेषां चतुर्णां आकाशादिषु संयोजनम्। एवं तेजोऽप्पृथिव्यंशानामपि। तदेवमेकैकमूतस्यार्द्धं स्वांशात्मकम् अर्द्धान्तरञ्च चतुर्विधभूतमयमिति पृथिव्या दौ स्वांशाधिक्यात् पृथिव्यादिव्यवहारः। तदुक्तम् “वैशेव्यात्तद्वादस्तद्वादः” (शा० सू०) इति। पूर्वोक्तैरपञ्चीकृतभूतैर्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्य्यन्तस्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्म्मोन्द्रयपञ्चकप्राणादिपञ्चकसंयुक्तं जायते। तदुक्तम्। “पञ्चप्राणमनोबुद्धि दशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनमिति”। तच्च द्बिविधं परमपरञ्च। परं हिरण्यगर्भलिङ्गशरीरं महत्तत्त्वरूपम्, अपरमस्मदादिलिङ्गशरीरञ्चाहङ्कारतत्त्वमित्याख्यायते। एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्योभूम्यन्तरिक्षस्वर्गमहर्ज्जनस्तपःसत्यात्मकस्योर्द्ध्वलोकसप्तकस्य अतलपातालवितलसुतलतलातलरसातलमहातलाख्यस्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणाञ्चोत्पत्तिः। तत्र जरायुजानि जरायुभ्योजातानि मनुष्यपश्वादिशरीराणि। अण्डजानि अण्डेभ्यो जातानि पक्षिपन्नगादिशरोराणि। स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरीराणि। उद्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादिशरीराणि। वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरित्वम्। तत्र परमेश्वरस्य पञ्चतत्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तो हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात्कर्त्तृत्वम्। इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भद्वारा “हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति” श्रुतेः हिरण्यगर्भोनाम मूर्त्तित्रयादन्यः प्रथमोजीवः “स वै शरीरी प्रथमः स वै पुरुषौच्यते। आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत”। “हिरण्यगर्भः समवर्त्तताग्रे” इत्यादि “श्रुतेः”।

सांख्यमते प्रकृतिरेका नित्या अचेतना साम्यावस्थापन्नसत्वरजस्तमआत्मिका, पुरुषास्तु बहवश्चिन्मात्रा अपरिणामिनः कूटस्था नित्याः। पूर्ब्बकल्पे प्रकृतिपर्य्यन्तसाक्षात्कारिणा प्रकृतिलोनोपाधिकेन आदिविदुषा ईश्वरपदाभिधेयेन स्यस्वामिभावरूपसंयोगवती स्वलीनाननन्तबुद्धितत्त्वनिष्ठपूर्ब्बकल्पार्ज्जितादृष्टसचिवा प्रकृतिः सर्गाद्यकाले सत्वादिगुणक्षोभमापग्रा महादाद्याकारेण परिणमते। यथा च परिणमते तथा दर्शितम् सां० सू० प्र० भाष्ययोः यथा। “सत्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहङ्गारोऽहङ्कारात् पञ्च तन्मात्राण्युभयभिन्द्रियं तन्मात्रेभ्यः स्थूलभूतानि पुरुष इति पञ्चविंशतिर्गणः” सू०। “सत्वादोनि द्रव्याणि न वैशेषिकदिवद्गुणाः संयोगवि- भागवत्त्वात् लघुत्वचलत्वगुरुत्वादिधर्मकत्वाच्च। तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात् पुरुषपशुबन्धकत्रिगुणात्मकमहदादिरज्जुनिर्मातृत्वाच्च प्रयुज्यते। तेषां सत्वादिद्रव्याणां या साम्यावस्थान्यूनानतिरिक्तावस्था न्यूनाधिकाभावेनासंहतावस्थेति यावत् अकार्य्यावस्थेति निष्कर्षः। अकार्यावस्थोपलक्षितं गुणसामान्यं प्रकृतिरित्यर्थः। यथाश्रुते वैषम्यावस्थायां प्रकृतिनाशप्रसङ्गात्। “सत्वं रजस्तम इति एषैव प्रकृतिः सदा। एषैव संसृतिर्जन्तोरस्याः पारे परं पदम्” इत्यादिस्मृति भिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च। सत्वादीनामनुगमाय सामान्येति। पुरुषव्यावर्त्तनाय गुणेति। महदादिव्यावर्त्तनाय चोपलक्षितान्तमिति। महदादयोऽपि हि कार्य्यसत्वादिरूपाः पुरुषीपकरणतया गुणाश्च भवन्तीति। तदत्र प्रकृतेः स्वरूपमेवोक्तम्। अस्या विशेषस्तु पश्चाद्वक्ष्यते। प्रकृतेः कार्यो महान् महत्तत्त्वम्। महदादीनां स्वरूपं विशेषश्च वक्ष्यते। महतश्च कार्योऽहङ्कारः। अहङ्कारस्य कार्यद्वयं तन्मात्राण्युभयमिन्द्रियं च। तत्रोभयमिन्द्रियं बाह्याभ्यन्तरभेदेनैकादशविधम्। तन्मात्राणां कार्याणि पञ्च स्थूलभूतानि। स्थूलशब्दात् तन्मात्राणां सूक्ष्मभूतत्वमभ्युपेयम्। पुरुषस्तु कार्यकारणविलक्षणः इति इत्येवं पञ्चविंशतिर्गणः पदार्थव्यूह एतदतिरिक्त पदार्थो नास्तोत्यर्थः। अथ वा सत्वादीनां प्रत्येकव्यक्त्यानन्त्यं गणशब्दो वक्ति। अयं च पञ्चविंशतिको गणोद्रव्यरूप एव। धर्मधर्म्यभेदात् तु गुणकर्मसामान्यादीनामत्रैवान्तर्भावः। एतदतिरिक्तपदार्थसत्त्वे हि ततोऽपि पुरुषस्य विवेक्तव्यतया तदसंग्रहे न्यूनतापद्येत”। प्रकृतेरचेतनत्वेऽपि पुरुषभोगापवर्गार्थं वत्सविवृद्ध्यर्थ मचेतनक्षीरवत् प्रवृत्तिः। यथोक्तं सां० का० कौ०। “पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः” का० “प्रधानस्येति कर्म्मणि यष्ठी प्रधानस्य सर्व्वकारक्षस्य यद्दर्शनं पुरुषेण तदर्थं, तदनेन भोग्यता प्रधानस्य दर्शिता ततश्च भोग्यं प्रधानं भोक्तारमन्तरेण न सम्मवतीति युक्तास्य भोक्त्रपेक्षा। पुरुषस्यापेक्षां दर्शयति पुरुवस्य कैवल्यार्थम्। तथा हि प्रधानेनासरिभन्नः पुरुपस्तद्गतं दुःखत्रयं स्यात्मन्यभिमन्यमानः कैवल्यं प्रार्थयते तच्च सत्वपुरुषान्यताख्यातिनिबन्धनम्। न च सत्वपुरुषान्वताख्यातिः प्रधानमन्तरेलेति कैवल्यार्थं पुरुषः प्रधानमपेक्षते। अनादित्वाच्च संयोगगपरम्परायाः भोगाय संयुक्तोऽपि कैवल्याय पुनः संयुज्यते इति युक्तम्। ननु भवत्वनयोः संयोगोमहदादिसर्गस्तु कुतस्त्य इत्यत आह तत्कृतः सर्गःसंयोगो हि न महदादिसर्गमन्तरेण भोगाय पर्य्याप्त इति संयोगएव भोगापवर्गार्थंसर्गं करोतीत्यर्थः” कौ० तथाऽचेतनायाः प्रवृत्तौ दृष्टान्तस्तत्रैवोक्तः “वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य। पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य” सां० का०।

पातञ्जले तु प्रतिकल्पमनेकेषां प्रकृतिलीनानां सर्गहेतुत्व कल्पने गौरवात् एकस्यैव ईश्वरस्य तदधिष्ठानत्वाङ्गीकारेण प्रकृतेस्तथा परिणाम इत्यङ्गीकृतं यथा च एकस्यैव सर्व्वोत्कर्ष सार्व्वज्ञ्यं तथा ईश्वरशब्दे १०५२ पृष्ठे सूत्रभाष्यविवरणेषु दर्शितम्। ४ अभिव्यक्तौ च अभिव्यक्तेर्यथा उत्पत्तिरूपता तथा अभिव्यक्तिशब्दे ३०० पृष्ठे दर्शितम्। एवं मूतभौतिकोत्पत्तिप्रकारः मतभेदेन निरूपितः। अथ विशेषभौतिकोत्पत्तौ कारणविशेषस्तावदभिधीयते तत्र जन्यमात्रोत्पत्तौ ईश्वरः अदृष्टं कालश्च निमित्तकारणमिति नैयायिकादयः। वेदान्तिमते ब्रह्मणोऽविद्याद्वारा निमित्तोपादानरूपोभयकारणता। सांख्यमते प्रकृतेरुपादानता। जन्यभावोत्पत्तौ द्रव्यमुपादानकारणं यथा घटे कपालम् पटे तन्तवः, कुण्डले, सुवर्ण्णम् समवायिकारणम्। तत्तदवयवसंयोगश्चासभवायिकारणम्। गुणोत्पत्तौ द्रव्यं समवायिकारणम् अवयवगुणोवह्न्यादिसंयोगो वा असमवायिकारणं यथा घटरूपे कपालरूपं, पटरूपे तन्तुरूपम्, श्यामघटे रक्तोत्पत्तौ अग्निसंयोगः। एवमात्मनि ज्ञानाद्युत्पत्तौ मनःसंयोगादि असमवायिकारणम्। संयोगविभागोत्पत्तौक्रिया असमवायिकारणम्, इत्याद्यूह्यम्। ध्वंसरूपाभावोत्पत्तौ प्रतियोगो निमित्तकारणम्। वाय्वादौ रूपाद्यभावस्यैवात्यन्ताभावतया नित्यत्वम् घटाभावस्य नाशे तु भूतले घटापसरणं तदनयनं च तदुत्पत्तौ निमित्तकारणं तेनायमुत्पत्तिविनाशशाली चतुर्थः संसर्गाभावः इति त्यायैकदेशिनः।

देहोत्पत्तिप्रकारः कायशब्दे, गर्मोत्पत्तिप्रकारश्च गर्भशब्दे वक्ष्यते। “उत्पत्तिमात्रे कर्त्तृत्वं सर्वत्रैशास्ति कारके। व्यापारभेदापेक्षायां करणत्वादिसम्भवः” मर्त्तृह०। “उत्पत्तिवद्वा वाहदोषः” सां० सू०। “न निरोधो नचोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षर्न वा मुक्त इत्येषा परार्थता” अभियुक्तोक्तिः। जीवोत्पत्तिस्तु देहाद्देहान्तर सम्बन्ध एव तन्निमित्तप्रकारादि। वृ० उ० भा० दर्शितं यथा “तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतोत्येवं हैवंविदं ब्रह्मायातीदमागच्छतीति” “तत्रास्येर्द शरीरं परित्यज्य गच्छतो नास्य देहान्तरस्योपादाने सामर्थ्यमस्ति देहेन्द्रियवियोगात्। न चान्येऽस्य भृत्यस्थानीया गृहमिव राज्ञे शरीरान्तरं कृत्वा प्रतीक्षमाणा विद्यन्ते। अथैवं सति कथमस्य शरीरान्तरोपादानमित्युच्यते। सर्बंह्यस्य जगत्स्वकर्म्मफलोपभोगायतनं कर्म्मफलोपभोगाय चायं प्रवृत्तो देहाद्देहान्तरं प्रतिपित्षुः। तस्मात्सर्वमेव जगत्स्वकर्म्मप्रयुक्तं तत्कर्मफलोपभोगयोग्यं साधनंकृत्वा प्रतीक्षत एव। “कृतं लोकं पुरुषोऽभिजायत इति” श्रुतेः। यथा स्वप्नजागरितं प्रतिपित्सोः। तत् कथमिति? लोकप्रसिद्धो दृष्टान्त उच्यते। तत्र यथा राजानं राज्याभिषिक्तमायान्तं स्वराष्ट्रे उग्रा जातिविशेषाः क्रूरकर्म्माणो वा प्रत्येनसः प्रति प्रत्येनसि पापकर्म्मणि नियुक्ताः प्रत्येनस्तस्करादिदण्डनादौ नियुक्ताः सूताश्च ग्रामण्यश्च सूतग्रामण्यः सूता वर्णसङ्करजा जातिविशेषा ग्रामण्यो ग्रामनेतारस्ते पूर्व्वमेव राज्ञ आगमन बुद्ध्वाऽन्नैर्भोज्यभक्ष्यादिप्रकारैः पानैर्मदिरादिभिरावसथैश्च प्रासादादिभिः प्रतिकल्पन्ते निष्पन्नैरेव प्रतीक्षन्तेऽयं राजा आयात्ययमागच्छतीत्येवं वदन्तः। एवं ह एवंविद कर्म्मफलस्य वेदितारं संसारिणमित्यर्थः। कर्म्मफलं हि प्रस्तुतं तदेवंशब्देन परामृश्यते। सर्व्वाणि भूतानि शरीरकर्तॄणि करणानुग्रहीतॄणि चादीत्यादिनि तत्कर्म्मप्रयुक्तानि कृतैरेव कर्म्मफलोपभोगसाधनैः प्रतीक्षन्ते। इदं ब्रह्म भोक्तृ कर्तृ चास्माकमायाति। तथेदमागच्छत्येवमेवं कृत्वा प्रतीक्षन्त इत्यर्थः भाष्यम्। तत्र विस्तरस्तत्रैवोक्तो यथा। “तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्याऽविद्यां गमयित्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरति। तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुतएवमेवायमात्मेदं शरीरं निहत्याऽविद्यां गमयित्वाऽन्यन्नवतरं कल्पाणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा मूतानाम्। स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजमयेः कामयीऽकाममयः क्रोषमयोऽक्रोधोगवो धर्म्ममयोऽधर्ममयः सर्व्वमयस्त- द्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्मवति पापकारी पापी भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेन। अथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते” वृ० उ०।

“एवं विद्यादिसम्भारसम्भृतो देहान्तरं प्रतिपद्यमानो मुक्त्वा पूर्वं देहं पक्षीव वृक्षान्तरं प्रतिपद्यते, अथ वाऽऽतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते किं वात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवत्याहोस्विच्छरीरस्थस्य सङ्कुचितानि करणानि मृतस्य भिन्नघटप्रदीपप्रकाशवत्सर्वतो व्याप्य पुनर्देहान्तरारम्भे सङ्कोचमृच्छन्ति किं वा मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रतिगच्छति किं वा कल्पनान्तरमे। वेदान्तसमय इत्युच्यते। “त एते सर्वएव समाः सर्वेऽनन्ता” इति श्रुतेः। सर्बात्मकानि तावत् करणानि सर्वात्मकप्राणसंश्रयाच्च तेषामाध्यात्मिकाधिभौतिकपरिच्छेदः प्राणिकर्म्मज्ञानभावनानिमित्तः। अतस्तद्वशात् स्वभावतः सर्वगतानामनन्तानामपि प्राणानां कर्म्मज्ञानवासनानुरूप्येणैव देहान्तरारम्भवशात् प्राणानां वृत्तिः सङ्कुचति विकसति च। तथाचोक्तम्। “समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समीऽनेन सर्वेणेति”। तथाचेदं वचनमनुकूलम् “स यो हैताननन्तानुपास्त” इव्यादि “तं यथा यथोपासत” इति च। तत्र वासनापूर्व्वप्रज्ञाख्या विद्या कर्म्मतन्त्रा जलूकावत्सन्ततैव स्वप्नकाल इव कर्म्मकृतं देहाद्देहान्तरमारभते हृदयस्थैव पुनर्द्दोहान्तरं पूर्वाश्रयं विमुञ्चतीत्येतस्मिन्नर्थे दृष्टान्त उपादीयते तत्तत्र देहान्तरसञ्चार इदं निदर्शनम्। यथा येन प्रकारेण तृणजलायुका तृणजलौका तृणस्यान्तमवसानं गत्वा प्राप्यान्यत्तृणं तृणान्तरमाक्रममाक्रम्यत इत्याक्रमस्तमाक्रममाक्रम्याश्रित्यात्मानमात्मनः पूर्वावयवमुपसंहरत्यन्त्यावयवस्थाने। एवमेवायमात्मा यः प्रकृतो यः संसारी इदं शरीरं पूर्वोपात्तं निहत्य स्वप्नं प्रतिपित्सुरिव पातयित्वा विद्यां गमयित्वा चेतनं कृत्वा स्वात्मोपसंहारेणान्यमाक्रमं तृणान्तरमिव तृणजलौका इव शरीरान्तरं गृहीत्वा प्रसारितया वासनयाऽऽत्मानमुपसंहरति। तत्रात्मभावमारमते। यथा स्वप्ने देहान्तरमारभते। स्वप्नदेहान्तरस्य इव शरीरारम्भवेशे आरभ्यमाणे देहे जङ्गमे स्थावरे वा। तत्र च कर्म्मवशात्करणानि लब्धवृत्तीनि संहन्यन्ते बाह्यञ्च कुशमृत्तिकास्थानीयं शरीरमारभ्यते। तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहः। या अग्न्यादिदेवताः संश्रयन्ते एष देहान्तरारम्भविघिः”।

तत्र देहान्तरारम्भे नित्योपात्तमेवोपादानमुपमृद्योपमृद्य देहान्तरमारभते आहोस्विदपूर्व्वमेव पुनः पुनरादत्त इत्यत्रोच्यते दृष्टान्तः। तत्तत्रैतस्मिन्नर्थे यथा पेशस्कारी पेशः सुवर्णं तत्करोतीति पेशस्कारी सुवर्णकारः पेशसः सुवर्णस्य मात्रामुपादायापच्छिद्य गृहीत्वाऽन्यत् पूर्व्वस्माद्रचनाविशेषाद्रन्यन्नवतरमभिनवतरं कल्याणात् कल्याणतरं रूपं तनुते निर्म्मिणोति एवमेवायमात्मेयादि पूर्व्ववत्। नित्योपात्तान्येव पृथिव्यादीन्याकाशान्तानि पञ्चभूतानि यानि “द्वे वाव ब्रह्मणो रूपे” इति चतुर्थे व्याख्यातानि पेशःस्थानीयानि। तान्येवोवमृद्योपमृद्यान्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानविशेषं देहान्तरमित्यर्थः। कुरुते पित्र्यं वा पितृभ्यो हितं पितृलोकोपभोगयोग्यमित्यर्थः। गान्धर्वं गन्धर्वाणामुपभोगयोग्यम्। तथा देवानां दैवम्, प्रजापतेः प्राजापत्यम्, ब्रह्मणः इदं ब्राह्मं वा, यथाकर्म्म यथाश्रुतमन्येषां वा भूतानां सम्बन्धि शरीरान्तरं कुरुत इत्यभिसम्बध्यते। यस्य बन्धनसङ्ज्ञका उपाधिभूता यैः संयुक्तस्तन्मयोऽयमिति विभाव्यते ते पदार्थाः पुञ्जीकृत्येहैकत्र प्रतिनिर्दिश्यन्ते। स वा अयं य एवं संसारत्यात्मा ब्रह्मैव पर एव योऽशनायाद्यतीतो विज्ञानमयो विज्ञानं बुद्धिस्तेनोपलक्ष्यमाणस्तन्मयः। कतम आत्मेति। योऽयं विज्ञानमयः। प्राणेष्विति ह्युक्तं विज्ञानमयो विज्ञानप्रायो यस्मात्तद्धर्म्मत्वमस्य विभाव्यते “ध्यायतीव लेलायतीवेति”। तथा मनोमयो मनःसन्निकर्षान्मनोमयः। तथा प्राणमयः प्राणः पञ्चवृत्तिस्तन्मयो येन चेतनश्चलतीव लक्ष्यते। तथा चक्षुर्म्मयोरूपदर्शनकाले। एवं श्रोत्रमयः शब्दश्रवणकाले। एवं तस्य तस्येन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति। एवं बुद्धिप्राणद्वारेण चक्षुरादिकरणमयः सन् शरीरारम्भकपृथिव्यादिभूतभयो भवति। तत्र पार्थिवादिशरीरारम्भे पृथिवीमयो भवति तथा वरुणादिलोकेष्वाप्यशरीरारम्भे आपोमयो भवति। तथा वायव्यशरीरारम्भे वायुमयो भवति। तथाकाशशरीरारम्भे आकाशमयो भवति। एवमेतानि तैजसानि देवशरीराणि। तेष्वारभ्यमाणेषु तत्तन्मयस्तेजोमयो भवति। अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि चातेजोमयानि। तान्यपेक्ष्याहातेजोमय इति एवं कार्य्यकरणसङ्घातमयः सन्नात्मा प्राप्तं वस्त्वन्तरं पश्यन्निदम्मयः, अदोमय इत्यप्राप्तव्यमिति। एवं विपरीतप्रत्ययस्तदभिलाषः काममयो भवति। तस्मिन् कामे दोषं पश्यतस्तद्विषयाभिलाषोपशमे चित्तं प्रसन्नमकलुषं शान्तं भवति तन्मयोऽकाममयः। एवं तस्मिन्विहते कामे केनचित्स कामः क्रोधत्वेन परिणमते तेन तन्मयो भवन् क्रोधमयः। स क्रोधः केनचिदुपायेन निवर्त्तितो यदा भवति तदा प्रसन्नमनाकुलं चित्तं सदक्रोध उच्यते। एवं तेन तन्मयः एवं कामक्रोधाभ्यामकामक्रोधाभ्याञ्च तन्मयो भूत्वा धर्म्ममयोऽधर्म्ममयश्च भवति। न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरुपपद्यते। “यद्यद्धि कुरुते कर्म्म तत्तत्कामस्य चेष्टितमिति” स्मरणात्। धर्म्ममयोऽधर्म्ममयश्च भूत्वा सर्वमयो भवति। समस्तं धर्माधर्म्मयोश्च कार्यं यावत्किञ्चिद्व्याकृतं तत्सर्वं धर्माधर्मयोः फलम्। तत्प्रतिपद्यमानस्तन्मयो भवति किं बहुना तदेतत् सिद्धमस्य यदयमिदम्मयो गृह्यमाणविषयादिमयस्तस्मादयमदोमयः अद इति परोक्षं कार्य्येण गृह्यमाणेन निर्द्दिश्यते। अनन्ता ह्यन्तःकरणे भावनाविशेषाः। नैव ते विशेषतो निर्द्देष्टुं शक्यन्ते। तस्मिंस्तस्मिन् क्षणे कार्यतोऽवगम्यन्ते। इदमस्य हृदि वर्त्ततेऽदोऽस्येति। तेन गृह्यमाणकार्य्येणेदम्मयतया निर्दिश्यते। परोक्षोऽन्तःस्थो व्यवहारोऽयमिदानीमदोमय इति। सङ्क्षेपतस्तु यथा कर्त्तुं यथा वाऽऽचरितुं शीलमस्य सोऽयं यथाकारी यथाचारी स तथा भवति। करणं नाम नियता क्रिया बिधिप्रतिषेधादिगम्या, आचरणं नाम अनियतमिति विशेषः। साधुकारी साधुर्भवति। यथाकारीत्यस्य विशेषणम्। पापकारी पापो भवति च। यथाचारीत्यस्य ताच्छील्यप्रत्ययोपादानात् अत्यन्ततात्पर्य्यतैव तन्मयत्वं न तु तत्कर्म्ममात्रेणेत्याशङ्क्यह। पुण्यः पुण्येन कर्म्मणा भवति पापः पापेनेति। पुण्यपापकर्म्ममात्रेणैव तन्मयता स्यान्न तु ताच्छील्यमपेक्षते। ताच्छील्ये तु तन्मयत्वातिशयैत्ययं विशेषः। तत्र कामक्रोधादिपूर्व्वकपुण्यापुण्यकारिता सर्व्वमयत्वे हेतुः संसारस्य कारणं देहाद्देहान्तरसञ्चारस्य च। एतत्प्रयुक्तो ह्यन्यदन्यद्देहान्तरमुपादत्ते। तस्मात्पुण्यापुण्ये संसारस्य कारणमेतत्। विषयौ हि बिधिप्रतिषेधावत्र शास्त्रस्य साफल्यमिति। अथोअप्यन्ये बन्धनमोक्षकुशलाः खल्वाहुः सत्यं कामादिपूर्व्वके पुण्यापुण्ये शरीरग्रहणकारणम्। तथापि कामप्रयुक्तो हि पुरुषः पुण्या- पुण्यकर्म्मणोपचिनोति। कामप्रहाणे तु कर्म्म विद्यमानमपि पुण्यापुण्योपचयकरं न भवति। उपचिते अपि पुण्यापुण्ये कर्म्मणी कामशून्ये फलारम्भके न भवतः। तस्मात्काभ एव संसारस्य मूलम्। तथाचोक्तमाथर्वणे “कामान् यः कामयते मन्यमानः स्वकर्म्मभिर्जायते तत्र तत्रेति”। तस्मात्काममय एवायं पुरुषो यदन्यमयत्वं तदकारणं विद्यमानमपोत्यतोऽवधारयति काममय एवेति। स च काममयः सन् यादृशेन कामेन यथाकामो भवति तत्क्रतुर्भवति सकाम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति स विहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते। क्रतुर्नाभाध्यवसायो निश्चयो यदनन्तरा क्रिया प्रवर्त्तते यत्क्रतुर्भवति यादृक्कामकार्य्येण क्रतुना यथास्वरूपः क्रतुरस्य सोऽयं यत्क्रतुर्भवतिं तत्कर्म्म कुरुते। यद्विषयः क्रतुस्तत्फलनिर्वृत्तये यद्योग्यं कर्म्म तत्कुरुते निर्वर्त्तयति। यत्कर्म्म कुरुते तदभिसम्पद्यते तदीयं फलमभिसम्पद्यते” भा०।

उत्पत्तिक्रम = पु० उत्पत्तौ क्रमः। जगतामुत्पत्तिपरिपाट्याम्। स च क्रमः “ब्रह्मेति प्रकृत्य तैत्ति० उ० भाष्ययोर्दर्शितो यथा।

“तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी प्रथिव्या ओषधयः ओषधिभ्योऽन्नम् अन्नाद्रेतः रेतसः पुरुषः। स वा एष पुरुषोऽन्नरसमयः “उष०। “तस्मादिति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते। एतस्मादिति। मन्त्रवाक्येन, अनन्तरं यथा लक्षितं यद्ब्रह्मैव ब्राह्मणवाक्येन सूत्रितम् यच्च सत्यं ज्ञानमनन्तं ब्रह्मेत्यनन्तरमेव लक्षितम् तस्मादेतस्माद्ब्रह्मण आत्मन आत्मशब्दवाच्यत्वात्। आत्मा हि तत्सर्वस्य “तत् सत्यं स आत्मेति” श्रुत्यन्तरादतो ब्रह्मात्मा। तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपादाकाशः सम्भूतः समुत्पन्नः। आकाशो नाम शब्दगुणोऽवकाशकरो मूर्त्तद्रव्याणां, तम्मादाकाशात् स्वेन स्पर्शगुणेन पूर्व्वण च कारणगुणेन शब्देन द्विगुणो वायुः, सम्भूत इत्यनुवर्त्तते। वायोश्च स्वेन रूपगुणेन पूर्वाभ्याञ्च त्रिगुणोऽग्निः सम्भूतः। अग्नेः स्वेन रसगुणेन पूर्वैश्च त्रिभिश्चतुर्गुणा आपः सम्भूताः। अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्चतुर्भिः पञ्चगुणा पृथिवी सम्भूता। पृथिव्या ओषधयः। ओषधोभ्योऽन्नम्। अन्नाद्रेतोरूपेण परिणतात्पुरुषः शिरःपाण्याद्याकृतिमान्। स वा एष पुरुषोऽन्नरसमयोऽन्नरसविकारः। पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतं रेतो वीजं तस्माद्यो जायते सोऽपि तथा पुरुषाकृतिरेव स्यात् सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् सर्व्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे चाविशिष्टे। कस्मात्? पुरुष एव गृह्यते प्राधान्यात्। किं पुनः प्राधान्यं कर्म्मज्ञानाधिकारः पुरुष एव हि शक्तत्वादर्थित्वाच्च अर्थी विद्वान् समर्थः कर्म्मज्ञानयोरधिक्रियते। “पुरुषत्वे वा विस्तरात्मा स हि विज्ञानेन सम्पन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मत्त्येनामृतमीक्षतीत्येवं सम्पन्नोऽथेतरेषां पशूनामशनापिपासे एवाभिज्ञानमित्यादिश्रुत्यन्तरदर्शनात्” भा०। एतेषाञ्च ब्रह्माधिष्ठितानामेव तत्तत्कार्य्यरूपेणाविर्भावः शा० सू० भाष्ययोर्निरूपितो यथा। “तदभिध्यानादेव तु तल्लिङ्गात् सः” सू०। “किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान् सृजन्त्याहोस्वित् परमेश्वर एव तेन तेनात्मनावतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति सन्देहे सति प्राप्तं तावत् स्वयमेव सृजन्तीति कुतः “आकाशाद्वायुर्वायोरग्निरित्यादि” स्वातन्त्र्यश्रवणात्। नन्वचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा, नैषदोषः। “तत्तेजऐक्षत ता आपऐक्षन्तेति च भूतानामपि चेतनत्वश्रवणादित्येवं प्राप्तेऽभिधीयते। स एव परमेश्वरस्तेन तेनात्मनावतिष्टमानोभिध्यायंस्तंतं विकारं सृजतीति कुतः? तल्लिङ्गात्। तथा हि शास्त्रम् “यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरोयमयतीत्येवंजातीयकं, साध्यक्षामेव भूतानां प्रवृत्तिं दर्शयति। तथा “सोऽकामयत बहु स्यां प्रजायेयेति” प्रस्तुत्य “सच्च त्यच्चाभवत् तदात्मानं स्वयमकुरुतेति” च तस्यैव सर्वात्मभावं दर्शयति। यत्तु ईक्षणश्रवणमप्तेजसोः, तत् परमेश्वरावेशवशादेव द्रष्टव्यं “नान्योऽऽतोस्ति द्रष्टा” इतीक्षित्रन्तरप्रतिषेधात् प्रकृतत्वाच्च सत ईक्षितुः “तदैक्षत बहु स्यां प्रजायेयेत्यत्र”। “भूतानामुत्पत्तिक्रमश्चिन्तितः” शा० भा०।

उत्पत्तिमत् = त्रि० उत्पत्तिर्विद्यतेऽस्य मतुप् स्त्रियां ङीप्। उत्पत्तिविशिष्टे “विपदुत्पत्तिमतामुपस्थिता” रघुः।

उत्पत्तिविधि = पु० उत्पत्तिः कर्मस्वरूपज्ञापको विधिः। “स्वर्गकामोऽश्वमेधेन यजेतेत्यादौ कर्म्मस्वरूपज्ञापके विधौ। विधिशब्दे विवृतिः। उत्पत्तिवाक्यमप्यत्र न०।

उत्पत्तिव्युत्क्रम = पु० उत्पत्तितोव्युत्क्रमः। उत्पत्तिक्रमात् विपरीते क्रमे। स च शा० सू० भाष्ययोर्दर्शितः यथा “भूतानामुत्पत्तिक्रमश्चिन्तितोऽथेदानीमप्ययक्रमश्चिन्त्यते “विपर्य्ययेण तु क्रमोऽतौपपद्यते च” शा० सू०। “किमनियतेन क्रमेणाप्ययः, उतोत्पत्तिक्रमेणाथ वा तद्विपरीतेनेति?। त्रयोऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्रह्मायत्ताः श्रूयन्ते “यतो वा इमानि मूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीति”। तत्रानियमोऽविशेषादिति प्राप्तम्। अथ वोत्पत्ते क्रमस्य श्रुतत्वात् प्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमःस्यादित्येवं प्राप्ते ततोब्रूमः विपर्य्ययेण तु प्रलयक्रमोऽत उत्पत्तिक्रमाद्भवितुमर्हति। तथा हि लोके दृश्यते येन क्रमेणसोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति। अपि च दृश्यते मृदोजातं घटाद्यप्ययकाले मृद्भावमप्येति अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीत्यतश्चोपपद्यते एतत्, यत् पृथिव्यद्भ्योजाता सती स्थितिकालव्यतिक्रान्तावपोऽपीयात्, आपश्च तेजसोजाताः सत्यस्तेजोऽपीयुः, एवं क्रमेण सूक्ष्म सूक्ष्मतरञ्चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्य्यजातं परमकारणं परमसूक्ष्मं ब्रह्माप्येतीति वेदितव्यम्। न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्य्याप्ययोन्याय्यः। स्मृतावप्युत्त्तिक्रमविपर्य्ययेणैवाप्ययक्रमस्तत्र तत्र प्रदर्शितः। “जगत्प्रतिष्ठा देवर्षे! पृथिव्यप्सु प्रलीयते। ज्योतिःष्वापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते” इत्येवमादौ। उत्पत्तिक्रमस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति न चासावयोग्यत्वादप्ययेनाकाङ्क्ष्यते। न हि कार्य्ये ध्रियमाणे कारणस्याप्ययोयुक्तः कारणाप्यये कार्य्यस्यावस्थानानुपपत्तेः। कार्य्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं दृष्टत्वात्” भा०। तदेतत् वेदा० प० स्पष्टमुक्तम् यथा। “भूतानां भौतिकानाञ्च न काग्णलयक्रमेण लयः कारणलयसमये कार्य्याणामाश्रयमन्तरेणावस्थानानुपपत्तेः किन्तु सृष्टिक्रमविपरीत क्रमेण तत्तत्कार्य्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजकतया उपादाननाशस्याप्रयोजकत्वात् अन्यथा न्यायमतेऽपि महाप्रलये पृथिवीपरमाणुगतरूपरसादेरविनाशापत्तेः। तथा च पृथिव्या अप्सु, अपां तेजसि, तेजसोवायौ, वायोराकाशे, आकाशस्य जीवाहङ्कारे, तस्य हिरण्यगर्भाहङ्गारे, तस्य चाविद्यायाभित्येवंरूपएव प्रलयः। तदुक्तम् विष्णुपुराणे “जगत्प्रतिष्ठा देवर्षे! पृथिव्यप्सु प्रलीयते। तेजस्यापः प्रलीयन्ते तेजोवायौ प्रलीयते। वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते। अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्रलीयये। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः”।

उत्पत्य = अव्य० उत् + पत–ल्यप्। ऊर्द्ध्वं पतित्वेत्यर्थे उत्पत्यपाकला मयू०। जन्मप्रभृत्युन्मत्ते

उत्पथ = पु० उत्क्रान्तः पन्थानम् अत्या० समा० अच्। गम्यपथातिक्रान्ते २ न्याय्यरीत्यतिक्रान्ते च। भिन्नपर्य्यादतया अपकृष्टः पन्थाः उदभावे प्रा० स० अच् समा० कदर्य्ये पथि “गुरोरप्यलिप्तस्य कार्य्याकार्य्यमजानतः। उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम्” भा० आ० १४० उ०। “प्रमदाह्युत्पथं नेतुं कामक्रोधव शानुगम्” मनुः। “क्षिप्तावरोधाङ्गनमुत्पथेन गाम्” माघः

उत्पन्न = त्रि० उद् + पद–क्त। उद्भूते। “औरसे पुनरुत्पन्ने तृतीयांशहराः सुताः” स्मृ० “उत्पन्नस्य पुनरनुत्पादः” न्यायप्र० उत्पन्नेन हरति उत्सङ्गा० ठञ्। औत् पन्निक तेन हारके त्रि०।

***