उत्तरा = अव्य० उत्तर + प्रथमापञ्चमीसप्तम्वर्थे आच्। उत्तरस्यां दिशि काले देशे वेत्याद्यर्थे। १ प्रययावुत्तरामुखः” भा० स० २९ अ०। २ उत्तरस्यां दिशि ३ विराटकन्यायां स्त्री। “प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु। क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते उत्तरा हि ता” इत्युक्तासु सपिण्डीकरणोत्तरासु वार्षिकश्राद्धक्रियायासु च स्त्री।
उत्तरात् = अव्य० अत्तर + दिग्देशकालविधये आति। उत्तरमुत्तरस्मादुत्तरस्मिन्नित्यर्चे। “पश्चादोत्तरादधरादापुरस्तात्” ऋ० ६, १९, ९। “त्वं नः पश्चादधरादुत्तरात् पुरः” ऋ० ८, ६१, १६।
उत्तरात्तात् = अव्य० उत्तरात् + बा० वेदे० त्रि० ताति। उत्तरादित्यर्थे। “सप्त वीरासोऽधरादुदायन्नष्टोत्तरात्तात् समजन्मिरन्ते” ऋ० १०, २७, १५। “पुरणात् सवितोत्तरात्तात् सविताऽधरात्तरात् १०, ३६, १४।
उत्तराधर = त्रि० कर्म्म० उत्तरश्च अघरश्च। उच्चावचे उत्तरधरा इव भवन्त्योयन्ति” शत० व्रा० ५, ३, ४, २१। उपरित मोष्ठे पु० “पुनर्बिवक्षुः स्फुरितोत्तराधर” कुमा०।
उत्तराधिकारिन् = त्रि० उत्तरं पूर्ब्बस्मामिस्यत्वोपरमानन्तरमधिकरोति तद्धने स्वाप्यमाप्तोति अधि + कृ–णिनि। पूर्ब्बस्यामिस्यत्वोपरमे तद्धने स्वामित्यप्राप्ते पूर्व्वस्वामिसम्यन्धिपुंत्रादौ स्त्रियां ङीष्। तत्र कस्व धने कस्याधिकारः। तत्र तावत् वङ्गदेशप्रचलितदायभागमतानुसारिक्रमोऽभिधीयते तत्र तद्व्या० श्रीकृष्णेनोक्तम् यथा। “अत्रायं मृतपुन्धनाधिकारिक्रमः। तत्र प्रथमं पुत्रः तदभाये पौत्रः तदभावे प्रपौत्रः, मृतपितृकपौत्र–मृतपितृपितामहकप्रपौत्रयोस्तु पुत्रेण मह युगपदधिकारः। प्रपौत्रपर्य्यन्ताभावे पत्नी सा च प्राप्तभर्त्तृदाया भर्त्तृकुलं तदभावे पितृकुलं वा समाश्रिता सती शरीररक्षार्थ भर्तृदायं भञ्जीत तथा भर्त्तुरुपकारार्थं यथाकथञ्चिद्दानादिकमपि कुर्व्वीत न तु स्त्रीधनवत् स्वच्छन्दं विनियुञ्जीत। तदभावे दुहिता तत्र प्रथमं कुमारी तदभावे नाग्दत्ता, तदभावे ऊढा सा च पुत्रवती सम्भावितपुत्रा च ते द्वे युगपदेवाधिकारिण्यौ, बन्ध्या पुत्रहीना विधवा च नाधिकारिणी। ऊढायाअभावे दौहित्रः। तदभावे पिता। तदभावे माता, तदभावे भ्राता, तत्रापि प्रथमं सोदरः तदभावे वैमात्रेयः, मृतस्य भ्रातृसंसृष्टत्वे तु सोदरमात्रविषये प्रथमं संसृष्टसोदर एवाधिकारी तदभावे चासंसृष्टसोदरः, एवं वैमात्रेयमात्रविषये प्रथमं संसृष्टवैमात्रेयः तदभावे चासंसृष्टवैमात्रेयः, यदा तु संसृष्टोवैमात्रेयः सोदरश्चासंसृष्टः तदा तावुभौ तुल्यवदकिकारिणौ। भ्रातॄणामभावे भ्रातृपुत्रः, तत्रापि प्रथमं सोदरभ्रातृपुत्रः तदभावे वैमात्रेयभ्रा तृपुत्रः, संसर्गे तु सोदरभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टसोदरभ्रातृपुत्रः तदभावे चासंसृष्टसोदरभ्रातृपुत्रः, वैमात्रेयभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टवैमात्रेयभ्वातृपुत्रः तदभावे चासंसृष्टवैमात्रेयभ्रातृपुत्रः, यदा तु सोदरभ्रातृपुत्रोऽसंसृष्टो वैमात्रेयभ्रातृपुत्रस्तु संसृष्टः तदा द्वौ भ्रातृवत्तु ल्याधिकारिणौ। भ्रातृपुत्राभावे भ्रातृपौत्रः तत्रापि भ्रातुः मोदरासोदरक्रमः संसर्गासंसर्गक्रमश्च बोध्यः। तदभावे पितृदौहित्रः स च सोदरभरिनीपुत्रः वैमात्रेयभगिनीपुत्रश्च, तदभावे पितामहः, तदभावे पितामही, तदभावे पितुः सहोदरः तदभावे पितुर्वैमात्रेयः। तदभावे पितृंसोदरपुत्रपितृवैमात्रेयपुत्रपितृसोदरपौत्रपितृवैमात्रेयपौत्राणां क्रमेणाधिकारः। तदभावे पितामहदौहित्रः तत्रापि पितृसोदरभगिनीपुत्रः पितृसैमात्रेयभगिनीपुत्रश्च, वक्ष्यमाणप्रपितामहदौहित्राधिकायेऽप्येवम्, तदभावे प्रपितामहः तदभावे प्रपितामही तदभावे पितामहसहीदरभ्रातृतद्वैमात्रेयभ्रातृतत्पुत्रपौत्रप्रपितामहदौहित्राः क्रमेणाधिकारिणः। एतावत्पर्य्यन्तानां धनिभोग्यपिण्डदातॄणामभावे धनिदेयपिण्डदातॄणां मातामहमातुलादीनामधिकारः तत्रापि प्रथमं मातामहस्तदभावे मातुलतत्पुत्रपौत्राणां क्रमेणाधिकारः तदभावे चाधस्तनसकुल्यानां धनिभोग्यलेपदातॄणां प्रतिप्रणप्तृप्रभृतिपुरुषत्रयाणां क्रमेणाधिकारः, तदभागे पुनरूर्द्ध्वतनसकुल्यानां धनिदेयलेपभुग्वृद्धप्रपिता- महादितत्सन्ततीनामासत्तिक्रमेणाधिकारः, तदभावे समानोदकानामधिकारः! तेषामभावे चाचार्य्यस्य तदभावे शिष्यत्य तदभावे सब्रह्मवारिणीऽघिकारः, तदभावे चैकग्रामस्थसगोत्रसमानप्रयरयोः क्रमेणाधिकारः। उक्तपर्य्यन्तानां सर्वेषां सम्बन्धिनामभावे ब्राह्मणधनवर्ज्जं राजा गृह्णीयात्, ब्राह्मणधनन्तु त्रैविद्यादिगुणयुक्ता ब्राह्मणा गृह्णीयुः। एवं वानप्रस्थधनं भ्रातृत्वेनानुमतोऽपरवानप्रस्थ एकतीर्थी गृह्णीयात्। तथा यतिधनं मच्छिष्यः। नैष्ठिकब्रह्मचारिणोधनमाचार्य्यः उपकुर्व्वाणस्य तु ब्रह्म वारिणोधनं पित्रादिर्गृह्णीयादिति सङ्क्षेपः”।
दायक्रमसंग्रहे भ्रातृदौहित्रपितृष्यदोहित्रपितामहसोदरदौहित्राणामप्यधिकारोऽभिहितः। विवादभङ्गार्णवमते पुत्रपौत्रदौहित्रयोरष्यधिकारः। इदन्तु वोध्यं पितृधनविभागे जनन्याः पुत्रतुल्यांशेऽधिकारः। पितामहधन विभागे च पितुर्जनन्याः पौत्रतुल्यां शेऽधिकारः। जीवद्भागे तु पित्रा पितामहेन वा भागद्वयं ग्राह्यम् अप्राप्तस्त्रीधनानां सर्वासां स्वस्वपत्नीनां पुत्रस्य मृतपितृपौत्रस्य चैकैकोऽंशोदेयः, अनेकपितृकाणां तु पितृतोभागकल्पना एवं मातृधने पितामहीधनेऽपि पितृतोभागकल्पना इति। स्थावरे तु विशेषः “अविभक्तं स्थावरं यत् सर्वेषामेव तद्भवेत्” वृहस्पतिवचनात् तुल्यरूपाणां सोदरासोदराणां समाधिकारः। स्त्रीधने विशेषस्तत्रैव। “अत्रायं स्त्रीधनाधिकारिक्रममिर्णयः। तत्र कन्याधने प्रथमं सोदरभ्रातुस्तदभावे मातुस्तदभावे पितुरधिकारः। वरदत्तातिरिक्तवाग्दत्ताधनेष्वेवं, वरदत्तधने तु वरस्याधिकार इति। ऊढाया यौतकधने प्रथमं कुमारी, तदभावे वाग्दत्ताऽधिकारिणी, एतयोरभावे ऊढयोः पुत्रवतीसम्भावितपुत्रयोर्युगपदधिकारः। एकस्या अभावेऽपरायाः, एतयोरभावे बन्ध्याविधवयोस्तुल्याधिकारः, एकाभावे चापरायाः,। ततः पुत्रदौहित्रपौत्रप्रपौत्रसपत्नीपुत्रपौत्रप्रपौत्राणां क्रमेणाधिकारः। ग्रन्यकृन्मते तु सपत्नीपुत्पानन्तर” दौहित्रस्याधिकार इति विशेवः। ततोब्राह्मादिविवाहपञ्चकसमयलब्धयौतकधने भर्त्ता, भ्राता माता पिता चेति क्रमः आसुरादिविवाहत्रयसमयलब्धयौतकधने माता पिता भ्राता भर्त्ता चेति क्रमः। ततो देवरः ततोदेवरपुत्रभ्रातृश्वशुरपुत्रौ, ततोभगिनोपुत्रः, ततोभर्त्तृभागिगेयः, ततोभ्रातृपुत्रः ततोजामाता, ततः श्वशुरः, भ्रातृश्वशुरः,। ततआनन्तर्य्यक्रमेण सपिण्डाः ततः सकुल्याः, ततः समानोदका इति। योतकातिरिक्तेऽपि पितृदत्ते प्रथमं कुसारी, ततः पुत्रः, ततः पुत्रवतीसम्भावितपुत्रे, ततः पौत्रदौहित्रप्रपौत्रसपत्नीपुत्रपौत्रप्रपौपुत्राः। ततो बन्ध्या विधवा च युगपदधिकारिण्यौ, ततोब्राह्मादिक्रमेणैव पूर्ब्बवत् क्रमः। पितृदत्तातिरिक्ते अयौतकधने तु पुत्रकुमार्य्योर्युगपदधिकारः, तयोरभावे पुत्रवतीसम्भावितपुत्रयोः, ततः पौत्रदौहित्रप्रपौत्रसपत्नीपुत्रपौत्रप्रपौत्राः क्रमेणाधिकारिणः,। ततो बध्या विधवा च युगपदधिकारिण्यौ ततः पूर्ब्बवत् व्राह्मादिक्रमः”। अत्र सर्षत्रप्रमाणं दायभागेऽनुसन्धेयम्।
चिन्तामणिमते पुत्रमृतकपौतृमृतपितापितामहकप्रपौत्राधिकारं दायभागमतवत् सप्रपञ्चं निरूप्य अपुत्रपुंधने विशेषोऽभिहितो यथा। “अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्” मनुः। “आपस्तम्बः अपुत्रधनाधिकारी आसन्नसपिण्डस्तदभावे व्यवहितस्तदभावे आचार्य्य स्तदभावेऽन्तेवासी”। याज्ञवल्क्यः “पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा। तत्सुतीगोत्रजोबन्धुः। शिष्यस्मब्रह्मचारिणः। एषामभावे पूर्व्वस्य धनभागुत्तरोत्तरः। स्वर्य्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः”। पितरावित्यत्र क्रमाकाङ्क्षायामादौ माता तदभावे पिता विष्णुस्मृत्येकमूलत्वात्। तत्सुतो भ्रातृपुत्रः अपुत्रस्य पुत्रपोत्रप्रपौत्रशून्यस्य। कात्यायनः “विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत्। भ्राता वा जननी बापि माता वा तत्पितुः क्रमात्”। पित्रर्ज्जितं पिता, भ्रात्राद्यर्ज्जितं भ्रात्रादिरिति व्यवस्थितोविकल्पः। पैष्ठीनसिः “अपुअस्य स्वर्य्यातस्य भ्रातृगामि धनं तदभावे पितरौ लभेताम्”। देवलः “ततीदायमषुत्रस्य विभजेरन् महोदराः। तुल्यादुहितरोवापि ध्रियमाणः पितापि वा। सवर्णाभ्रातरोमाता भार्य्या चेति यथाक्रमम्। एषामभावे गृह्णीयुः सकुल्याः सहवासिनः”। तुल्बाः सहोदराएव सवर्णाभ्रातरोऽत्र वैमात्रेयाः। अत्र च देवलोक्तक्रमेण सह विष्णुयाज्ञवल्क्योक्लक्रमयोर्व्विरोधमाशङ्क्य यथाक्रमिति पदं देवलीयं याज्ञवल्क्योक्तक्रमानतिक्रमेणेति हलायुधेन व्याख्यातम्। देवलवचनलिखनानन्तरं विष्णुयाज्ञवल्क्योक्तवचने लिखितवतः कल्पतरुकृतोऽप्येवमेवाशयः। एतच्चु न मनोरमं न हि स्वोक्तक्रममुल्लङ्घ्य परोक्तक्रमोयथाक्रममिति स्वोक्तस्यार्थोभवितुमर्हतीति उपस्थितं विहायानुपस्थितपरिग्रहगौरवात् एवमपि पैठीनसिवचनविरोधापरीहाराच्च। तस्मात्पूर्बपुरुषार्ज्जितधने विष्णु- याज्ञवल्क्योक्तक्रमस्तदन्यधने तु पैठोनस्याद्युक्तक्रम इति रत्नाकरः। बौधायनः “सपिण्डाभावे सापुल्यः तदभावे आचार्य्यः अन्तेवासी ऋत्विग्वा हरेत् तदभावे राजा”। सगौत्रजाभावे बन्धुः याज्ञवल्क्यवचनात् स च स्वबन्धुः पितृबन्धुः मातृबन्धुश्च। “आत्मपितुःष्वसुः पुत्रा आत्ममातुःष्वसुः सुताः। आत्ममातुलपुत्राश्च विज्ञेयाह्यात्मबान्धवाः। पितुः पितुःष्वसुः पुत्राः पितुर्मातुःष्वसुः सुताः। पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः। मातुः पितुःष्वसुः पुत्रामातुर्मातुःष्वसुः सुताः। मातुर्मातुलपुत्राश्च विज्ञेयामातृबान्धवाः”। एतेषां क्रमेणाधिकारः। तदयं संक्षेपः। आदौ पुत्रस्तदभावेपौत्रस्तदभावे प्रपौत्रस्तदभावे साध्वी भार्य्या तदभावे दुहिता तदभावे माता तदभावे पिता तदभावे दौहि त्रस्तदभावे भ्राता तदभावे तत्पुत्रस्तदभावे आसन्नसपिण्डस्तदभावे यथाक्रमं व्यवहितसपिण्डस्तदभावे आसन्नसकुल्यस्तदभावे व्यवहितसकुल्यस्तदभावे मातुलपुत्रादिः सर्वाभावे ब्राह्मणधनवर्ज्जं राजगामि ब्राह्मणधने तु ब्राह्मणान्तरमेव धनग्रहणाधिकारीति। याज्ञवल्क्यः “वानप्रस्थयति बह्मचारिणामृक्थमागिनः। क्रमेणाचार्य्यसच्छिष्यधर्म्मभ्रात्रेकतीर्थिनः”। क्रमेण प्रतिलोमक्रमेण तेन ब्रह्मचारिणोगुरुकुलस्थस्याचार्य्यः, यतेः सच्छिष्यः, वानप्रस्थस्य भ्रातृत्वेनानुमतोऽपरोवानप्रस्थएव”।
अधिकारिक्रमे पितृदौहित्रादेरकीर्त्तनात् तस्य नाधिकार इति विशेषः।
स्त्रीधने विशेषः “तत्र मनुः जनन्यां संस्थितायान्तु समं सर्वे सहोदराः। भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः। यास्तासां स्युर्दुहितरस्तासामपि यथांशतः। मातामह्याधनात् किञ्चित् प्रदेयं प्रीतिपूर्वकम्”। सममविषमांशम्, सनाभयः सहोदराः, भगिन्यः कुमार्य्य एव समांशास्तदाह वृहस्पतिः “स्त्रीधनं स्यादपत्यानां दुहिता च तदंशिनी। अप्रत्ता चेत्समूढा तु लभते मानमात्रकम्”। अपत्यानां पुत्राणां तदंशिनीति विशेषाश्रुत्या समत्व लाभः समूढा विवाहिता मानमात्रकं द्रव्यानुसारेण किञ्चित्। गौतमः “स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितामाञ्च”। “अप्रतिष्ठिता अनपत्या निर्धनभर्तृका दुर्भगा” चेति रत्नाकरादयः। एता अपुत्रा अपि पुत्रवन्मातृधनभाजः। मनुः “मातुश्च यौतुकं यत्स्यात्कुमारीभागएव सः”। यौतुकं विवाहकाले पित्रादितो लव्धम्। वशिष्ठः “मातुः पारिणाय्यं स्त्रियोविभजेरन्”। पारिणाय्यं परिच्छदादर्शकङ्कतिकादि। याज्ञवल्क्यः “मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः”। मातुर्धनं तदृणाच्छेषं दृणशोधनावशेषं दुहितरोभजेरन्, ताभ्य ऋते दुहितॄणामभावेऽन्वयः दौहित्रीदौहित्रौ मनुवचनानुरोधात्। ब्राह्म्यादिवैवाहिकं परिच्छदादिकञ्च यत्मातुर्धनं तद्विषयमेतत्। कात्यायनः “दुहितॄणामभावे तु ऋक्थम्पुत्रेषु तद्भवेत्। बन्धूनामप्यभावे तु भर्तृगामि तत् स्मृतम्। भगिन्योबान्धवैः सार्द्ध्वं विभजेयुः सभर्तृकाः। स्त्रीधनस्थेति धर्म्मोऽयं विमागस्तु प्रकल्पितः”। दुहितॄणामिति पारिणाय्यं विवाहकाले यौतुकलब्धं पितृदत्तञ्च यन्मातुर्धनं तत्तस्याः पुत्र्यभावे पुत्रगामि भवतीत्यर्थः तदतिरिक्तन्तु स्त्रीधनं तस्या अभावे पुत्रीपुत्रोभयगामि इत्युक्तमेव प्राक्। बन्धुदत्तमिति पित्रतिरिक्तेन दत्तं यत्तद्भ्रातॄभगिन्यौ किन्तु कन्या तत्समांशा विवाहिता तु किञ्चिद्भागभागिनीति भगिन्य इत्यादेरर्थः। अभावे पुत्रीपुत्राद्यभावे स्त्रियाधनं पतिगामीत्यर्थः मनुः “ब्राह्म्यदैवार्षगान्धर्ब्बप्राजापत्येषु यद्धनम्। अतीतायामप्रजायां भर्तुरेव तदिष्यते। यत्त्वस्याः स्याद्धनं किञ्चिद्विवाहेष्वासुरादिषु। अतीतायामप्रजायां मातापित्रोस्तदिष्यते”। अप्रजायामनपत्यायाम्। गौतमः “भगिनीशुल्कं सोदर्य्याणामूर्द्ध्वं मातुः पूर्व्वंचेत्येके”। आसुरादिविवाहत्रयलब्धविषयमेतत्। बौधायनः “ऋक्थं मृतायाः कन्यायागृह्णीयुः सोदराः खयम्। तदभावे भवेन्मातुस्तदभावे भवेत्पितुः” वि० चि०। अत्रयस्य भर्त्तृगामित्वमुक्तं तदभावे तत्सपिण्डानामासत्तिक्रमेणाधिकारः। यस्य तु पितृगामितोक्ता तत्न तदभावे तत्प्रत्यासन्नसापिण्डा अधिकारिणः इति बोध्यम्। मिताक्षरामते तु जन्माधीनस्वत्वाङ्गीकारेण पैतामहे पित्रे च धने पितापुत्रयोः पितामहपौत्रयोश्च तुल्याधिकारः। पितुः पितामहस्य चोपरमे पुत्रस्य, पौत्राणाञ्च स्वपितृयोग्येऽशेऽधिकारः। जीवद्विभागे तु स्वार्ज्जिते पितुर्द्व्यंशहारिता पैतामहे तुल्यांशिता। धनिकृतविभागे तदुपरमे पुत्रादिकृतविभागे च धनिपत्निनामेकैकांशेऽधिकारः। दुहितृणान्तु प्रत्येकं स्वजातीय कल्पितभागचतुर्थांशभागिता। सामुदयिकस्वत्वाङ्गीकारेण च भ्रात्रादीनामपुत्रादीनामवि भक्तत्वे संसृष्टत्वे च एकस्य मरणे इतरस्य स्वत्वस्थितेः तत्र पत्न्यादीनां न स्वत्वमुत्पद्यते तथा च विभक्तासंसृष्टधनएव पत्न्यादीनामधिकारः। पत्नीदुहितरश्चैवेत्यादि या० वचनात् तव्व वचनं चिन्तामणिमते ११०० पृष्ठे दर्शितम् तस्य वचनस्य व्याख्यायाम् मिता० तत्क्रमोदर्शितो यथा “तस्मादपुत्रस्य स्वर्य्यातस्य विभक्तस्यासंसृष्टिनः परिणीता स्त्री संयता सकलमेव धनं गृह्णातीति स्थितम्। तदभावे दुहितरः। दुहितर इति बहुवचनं समान जातीयानामसमानजातीयानाञ्च समयिषमांशप्राप्त्यर्थम्। तथा काव्यायनः। “पत्नी भर्तुर्द्धनहरो या स्याद व्यभिचारिणी। तदभावे तु दुहिता यद्यनूढा भवेत्तदेति” वृहस्पतिरपि “भर्तुर्द्धनहरी पत्नी तां विना दुहिता स्मृता” अङ्गादङ्गात्सम्भवति पुत्रवद्दुहिता नृणाम्। तस्मात्पितृधनं त्वन्यः कथं गृह्णाति मानवः” इति। तत्र चोढानूढासमवायेऽनूढैव गृह्णाति। “तदभावे तु दुहिता यद्यनूढा भवेत्तदेति” विशेषस्मरणात्। तथा प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता तदमावे प्रतिष्ठिता “स्त्रीधनं दुहितॄणाम् अप्रत्तानामप्रतिष्ठितानाञ्चेति” गौतमवचनस्य पितृधनेऽपि समानत्वात् नचैतत्पुत्रिकाविषयमिति मन्तव्यम्। “तत्समः पुत्रिकासुतः” इति पुत्रियास्तत्सुतस्य चौरससमत्वेन पुत्रप्रकरणेऽभिधानात्। चशब्दाद्दुहित्रभावे दौहित्रो धनभाक् यथाह विष्णुः। “अपुत्रपौत्रसन्ताने दौहित्रा धनमाप्नुयुः। पूर्ब्बेषां तु स्वधाकारे पौत्रा दौहित्रकाः समा” इति मनुरपि। “अकृता वा कृता वापि यं विन्देत्सदृशात्सुतम्। पौत्री माता महस्तेन दद्यात्पिण्डं हरेद्धनमिति”। तदभावे पितरौ मातापितरौ धनभाजौ। यद्यपि युगपदधिकरण वचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धन ग्रहणे पित्रोः क्रमो न प्रतीयते। तथापि विग्रहवाक्ये मातृशब्दस्य पूर्ब्बनिपातादेकशेषाभावपक्षे च मातापितरा विति मातृशब्दस्य पूर्ब्बश्रवणात्पाठक्रमावगमाद्धनसम्बन्धेऽपि क्रमापेक्षयां प्रतीतक्रमानुरोधेनैव प्रथमं माता धन भाक्, तदभावे पितेति गम्यते। किञ्च पिता पुत्रान्तरेष्वपि साधारणो माता तु न साधारणीति प्रत्यासत्त्यतिशयात् “अनन्तरः सपिण्डांद्यस्तस्य तस्य धनम्भवेदिति” वचनान्मातुरेव प्रथमन्धनग्रहणं युक्तं न च सपिण्डेष्वेव प्रत्यासत्तिर्नियामिका अपि तु समानोदकादिष्वप्य विशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिरेव नियामिकेत्य स्मादेव वचनादवगम्यत इति। मातापित्रोर्म्मातुरेव प्रत्यासत्त्यतिशयात् धनग्रहणं युक्ततरम्। तदभावे पिता धनभाक्। पित्रभावे भ्रातरी धनभाजः। तथा च मनुः। “पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वेति अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात्। मातर्यपि च वृत्तायां पितुर्माता हरेद्धनमिति” मनुवचनाज्जीवत्यपि पितरि मातरि वृत्तयां पितुर्माता पितामही धनं हरेन्न पिता। यतः पितृगृहीतन्धनं विजातीयेष्वपि पुत्रेषु गच्छति। पितामही गृहीतं तु सजातीयेष्वेव गच्छतीति पितामह्येव गृह्णातीति। एतदप्याचार्य्योनानुमन्यते। विजातींय पुत्राणामपि धनग्रहणस्योक्तत्वात् “चतुस्त्रिद्व्येकभागिनः” इत्यादिनेति। यत्पुनः “अहार्य्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः” इतिमनुस्मरणम् तन्नृपाभिप्रायं न पुत्राभिप्रायम्। भ्रातृष्वपि सोदराः प्रथमं गृह्णीयुर्भिन्नोदराणां मातृविप्रकर्षात्। “अनन्तरः सप्रिण्डाद्यस्तस्य तस्य धनं भवेदिति” स्मरणात्। सोदराणाममावे भिन्नोदरा धनभाजः। भ्रातॄणामप्यभावे तत्पुत्राः पितृक्तमेण्ण धनभाजः। भ्रातृभ्रातृपुत्रसमवाये म्रातृपुत्राणामनधिकारः भ्रात्रभावे भ्रातृपुत्राणामधिकारवचनात्। यदा त्वपुत्रे भ्रातरि स्वर्याते तद्भ्रातॄणामविशेषेण धनसम्बन्धे जाते भ्रातृधनविभागात्प्रागेव यदि कश्चिद्भ्राता मृतस्तदा तत्पुत्राणाम्पितृतोऽधिकारे प्राप्तेतेषां भ्रातृणाञ्च विभज्य ग्रहणे पितृतोभागकल्पनेति युक्तम्। भ्रातृपुत्राणानप्यभावे गोत्रजा धनभाजः गोअजाः पितामहादयः सपिण्डाः समानोदकाश्च तत्र पितामही प्रथमन्धनभाक्। “मातार्यपि च वृत्तायाम्पितुर्माता धनं हरेदिति” मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते धित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात्पितुर्माता धनं हरेदित्यस्य धनग्रहणाधिकारप्राप्ति मात्रपरत्वादुत्कर्षे तत्सुतानन्तरम् पितामही गृह्णातीत्य विरोधः। पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाः पितामहादयोधनभाजः भिन्नगोत्राणां सपिण्डानां बन्धु शब्देन ग्रहणात्। तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः पितामह सन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सून वश्चेत्येवमासप्तमात्समानगोत्राणां सपिण्डानान्धनग्रहणं वेदितव्यं तेषामभावे समानोदकानान्धनसम्बन्धः। ते च सपिण्डानामुपरि सप्त वेदितव्या जन्मनामज्ञाना वधिका वा। यथाह वृहन्मनुः। “सपिण्डता तु पुरुषे सप्तमे विनिवर्तते। समानोदकभावस्तु निवर्तेता चतुर्दशात्। जन्मनाम्नोः स्मृतेरेके तत्परङ्गोत्रमुच्यत” इति। गोत्रजाभावे बन्धवोधनभाजः। बन्धवश्च त्रिविधा आत्मबन्धवः पितृबन्धवो मातृबन्धवश्चेति। यथोक्तम्। आत्मपितुष्वसु पुत्रा इत्यादि चिन्तामणिमते ११०१ पृ० दर्शितम् तत्र चान्तरङ्गत्वात् प्रथममात्मबन्धवोधनभाजस्तदभावे पितृबन्धवस्तदभावे मातृबन्धव इति क्रमोवेदितव्यः। बन्धूनामभावे आचार्य्यस्तदभावे शिष्यः “पुत्राभावे यः प्रत्यासन्नः सपिण्डस्तदभावे आचार्यः आचार्य्याभावेऽन्तेवासी” इत्यापस्तम्बस्मरणात्। शिष्याभावे सब्रह्मचारी धनभाक् येन सहैकस्मादाचार्य्यादुपनयनाध्यनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी तदभावे ब्राह्मणद्रव्यं यः कश्चिच्छ्रोत्रियो गृह्णीयात् “श्रोत्रिया ब्राह्मणस्यानपत्यस्य ऋक्थम्भजैरन्निति” गौतमस्मरणात्। तदभावे ब्राह्मणमात्रम् यथाह मनुः “सर्वेषामप्यभावे तु ब्राह्मणारिक्थमागिनः। त्रैविद्याः शुचयोदान्तास्तथा धर्म्मोन हीयत” इति। न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात् “अहार्य्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिरिति” मनुवचनात्। नारदेनाप्युक्तम् “ब्राह्मणार्थस्य तन्नाशे दायादश्चेन्न कश्चन। ब्राह्मणायैव दातव्यमेनस्वी स्यान्नृपोऽन्यथेति”। क्षत्रियादिधनं सब्रह्मचारिपर्य्यान्तानामभावे राजा हरेन्न ब्राह्मणः। यथाह मनुः। “इतरेषान्तु वर्णानां सर्वाभावे हरेन्नृपः” इति। “पुत्राः पौत्राश्च दायं गृह्णन्ति। तदभावे पत्न्यादय इत्युक्तमिदानीन्तदुभयापवादमाह। “वानप्रस्ययतिब्रह्मचारिणां रिक्भागिनः। क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः” याज्ञ०। “वानप्रस्थस्य यतेर्ब्रह्मचारिणश्च क्रमेण प्रतिलोम क्रमेणाचार्य्यः सच्छिष्यो धर्मभ्रात्रेकतीथीं च रिक्थस्य धनस्य भागिमः। ब्रह्मचारी नैष्ठिकः उपकुर्वाणंस्य धनं मात्रादयएव गृह्णन्ति। नैष्ठिकस्य धनन्तदपवादत्वेनाचार्यो गृह्णाति इत्युच्यते। यतेस्तु धनं सच्छिष्पो गृह्णाति। सच्छिष्यः पुनरध्यात्मशास्त्रश्रवणधारणतदर्थानुष्ठानक्षमः दुर्वृत्तस्याचार्यादेरपि भागानर्हत्वात्। वानप्रस्थधनन्धर्म्भभ्रात्रेकतीर्थी गृह्णाति धर्मभ्राताएकतीर्थ्येकाश्रमी धर्मभ्रातासौएकतीर्थी च धर्मभ्रात्रेकतीर्थी। एतेषामाचार्यादीनामभावे पुत्रादिषु सत्खप्येकतीर्थ्येव गृह्णाति” मिता०। “सोदरस्यासंष्टत्वे वैमात्रेयस्य च संसृष्टत्वे तुल्याधिकारः। अत्रेदं बोध्यं “अपुपौत्रसन्ताने” इति वदता विष्णुना प्रपौत्रस्याप्यधिकारः सूचितः तस्यापि तत्सन्तानत्वात् सपिण्डत्वाच्च अन्यथा अधिकारिशृञ्जलायाम् उपरितनामामेव कीर्त्तनात् तस्यानधिकारत्वापत्तेः। अतएव अणादानप्रकरणे तत्सुतः पौत्र- सुतः प्रपौत्र अगृहीतवित्तःप्रपितामहकृतमृणं न दद्यादिति वदता मिताक्षराकृता प्रपौत्रस्याधिकारः सूचितः। तदधस्तनसन्तानस्य च प्रपितामहपौत्रपर्य्यन्ताभावेऽधिकारः तेषामसपिण्डत्वेऽपि गोत्रजसमानोदकत्वाविशेषात् सपिण्डाधिकारे अधन्तनानामेव प्रथमग्रहणवत् गोत्रजाधिकारेऽपिअधस्तनानामेव ऊर्द्ध्वतनापेक्षया प्रथमं ग्रहणौचित्यादिति एतन्मते च असगोत्रसपिण्डमध्ये, दौहित्रस्यैव ग्रहणात् पितामहदौहित्रादेर्नाधिकारः। बन्धुशब्दस्य असगोत्र सपिण्डपरत्वेऽपि बन्धुशब्दस्य पारिभाषिकपरत्वेन तेन कीर्त्तनादिति बहवः। वीरमित्रोदये तु विषमशिष्टभिया मातुलादीनामधिकारोव्यवस्थापितः तन्मते तेषां बन्धुपदेन ग्रहणात् इति भेदः। तथा दायलब्धधने पत्न्यायथेष्टं दानभोगादावधिकारः इति मिता० वीर० मते तु स्वामिन उपकाराभावे नटादौ दानेऽनधिकार इति भेदः। “आधिवेदनिकाद्यञ्चेति” याज्ञवल्क्यवचनेन स्त्रिया ऋक्थविभागक्रयादिलब्धधनमात्रस्य स्त्रीधनत्वं व्यवस्थाप्य तद्विभागः मिता० दर्शितो यथा “अतीतायामप्रजसि बान्धवास्तदबप्नुयुः” या०। तत्पूर्व्वोक्तं स्त्रीधनमप्रजस्यनपत्यायां दुहितृदौहित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां यान्धवा भर्त्रादयोवक्ष्यमाणा गृह्णीयुः। सामान्येन बांन्धवाधनग्रहणेऽधिकारिणो दर्शिताः। इदाना विवाहभदेनाधिकारिभेदमाह। “अप्रजःस्त्रीधनं भर्त्तुर्ब्राह्मादिषु चतुर्ष्वपि। दुहितॄणां प्रसुता चेच्छेषेषु पितृगामि तत्” या०। अप्रजःस्त्रियाः पूर्वोक्तायाब्राह्मदैवार्षप्राजापत्येष चतुर्षु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तन्धनं प्रथमं भर्तुर्भवति। तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति। शेर्षष्वासुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तदप्रजःस्त्रीधनं पितृगामि। माता च पिता च पितरौ तौ गच्छतीति पितृगामि एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम्। तदभावे तत्प्रत्यासन्नानां धनग्रहणम्। सर्वेष्वेव विवाहेषु प्रसूताऽपत्यवती चेत् दुहितॄणां तद्धनं भवति। अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते। साक्षाद्दुहितॄणाम् “मातुर्दुहितरःशेषम्” इत्यत्रोक्तत्वात्। अतश्च मातृधनं मातरि वृतायां प्रथमं दुहितरोगृह्णन्ति। तत्र चोढानूढासमवावेऽनूढा गृह्णाति। तदभावे परिणीता तत्रापि प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्णाति तदभावे प्रतिष्ठिता। यथाह गौतमः “स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां चेति”। तत्र चशब्दात्प्रतिष्टितानाञ्च। अप्रतिष्ठिता अनपत्या निर्द्धना वा। एतच्च शुल्कव्यतिरेकेण। शुल्कन्तु सोदर्य्याणामेव “भगिनीशुल्कं सोदर्य्याणासूर्द्ध्वं मातुरिति” गौतमवचनात्। सर्वासां “दुहितॄणां प्रसूता चेत्” इत्यस्माद्वचनात् तासां भिन्नमातृकाणां समवाये दौहित्रीणां किञ्चिदेव दातव्यम्। यथाह मनुः “यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः। मातामह्यांधनात् किञ्चित् प्रदेयं प्रीतिपूर्वकमिति”। दुहितॄणामप्यभावे दौहित्राधनहारिणः। यथाह नारदः। “मातुर्दहितरोऽभावे दुहितॄणां तदन्वयः” इति तच्छब्देन सन्निहितदुहितृपरामर्शात्। दौहित्राणामभावे पुत्रा गृह्णन्ति। “ताभ्य ऋते अन्वयः” इत्युक्तत्वात् मनुरपि दुहितॄणां पुत्राणाञ्च मातृधनसम्बन्धं दर्शयति। “जनन्यां संस्थितायां तु समं सर्वेसहोदराः। भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः” इति मातृकं रिकथं सर्वे सहोदराः समम्भजेरन् सनाभयोभगिन्यश्च समं भजेरन् इति सम्बन्धः न पुनः सहोदरा भगिन्यश्च संभूय भजेरन् इति इतरेतरयोगस्य द्वन्द्वैकशेषाभावादप्रतीतेर्विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेर्यथा देवदत्तः कृषिं कुर्य्यादुयज्ञदत्तश्चेति। समग्रहणमुद्धारविभागनिवृत्त्यर्थम्। सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम्। अनपत्यहीनजातिस्त्रीधनन्तु भिन्नोदराप्युत्तमजातीयसपत्नीदुहिता गृह्णाति तदभावे तदपत्यं तथा च मनुः “स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथञ्चन। ब्राह्मणीतद्धरेत् कन्या तदपत्यस्य वा भवेदिति”। ब्राह्मणीग्रहणमुत्तमजात्युपलक्षणम्। अतश्चानपत्यवैश्याधनं क्षत्रियाकत्या गृह्णाति। पुत्राणामभावे पौत्राः पितामहीधनहारिणः। “ऋक्थभाज ऋणं प्रतिकुर्य्युरिति” गौतमस्मरणात् “पुत्रपौत्रैरृणं देयमिति” पौत्राणामपि पितामह्यृणापाकरणेऽधिकारात्। पौत्राणामप्यभावे पूर्वोक्ताभर्त्रादयो बान्धवा धनहारिणः”। अत्रापि पुंधनवत् स्त्रीधनेऽपि प्रपौत्राधिकारो वेदितव्यः अगृहीतवित्तस्य प्रपौत्रस्य ऋणापकरणनिषेधेन पुंधन इव स्त्रीधनेऽपि तदधिकारस्य सूचितत्वात् इति स्मर्त्तव्यम्।
उत्तरापथ = पु० उत्तरा उत्तरस्यां पन्थाः अच् समा०। १ उत्तरस्यां दिशि स्थिते पथि २ देशमेदे च। “उत्तर पथजन्मानः कीर्त्तयिष्यामि तानपि। कौलकाम्बोजगान्धाराः किरातवर्वरैः सह”। शब्दार्थचि० पुरा०।
उत्तरापरा = स्त्री उत्तरस्याः अपरस्यादिशोऽन्तराला दिक् दिग्नाम् ब०। वायुकोणे “उत्तरापरामिमुखोऽन्वष्टमदिशमानक्षत्रदर्शनात्” आ० त० सांख्या० गृ०। “उत्तरापराभिमुखः वायुकोणाभिमुखः” रघु०।
उत्तराभास = पु० उत्तरमिवाभासते आ + भास–अच्। दुष्टोत्तरे उत्तरशब्दे १०९० पृष्ठे तल्लक्षणादि।
उत्तराम् = अव्य० उद् + उत्कर्षे तरप् आमु। अतिशयेनोत् कर्षे “उदेनमुत्तरां नयाग्ने घृतेनाहुतः” यजु० १७ं ५०। “अतिशयेन उत् उत्तराम्” वेददी०। एवम् तमप् आमु। उत्तमामप्यत्र अव्य०।
उत्तरायण = न० उत्तरा उत्तरस्यामयनं सूर्य्यादेः “पूर्ब्बपदात् संज्ञायाम्” पा० णत्वम्। सूर्य्यादेः १ उत्तरदिग्गमने अभेदोचारात् ७ ब० वा। वर्षस्यार्द्धे सूर्य्यस्य दक्षिणत उत्तरदिग्गमनसम्पादके २ षण्मासात्मके काले सूर्य्यदेः दक्षिणोत्तरयोरयनञ्च अयनसंक्रान्तिशब्दे ३३९ पृ० उक्तम् तथा च सूर्य्यस्योत्तरायणसंक्रमावधि षण्मासाः उत्तरायणकालः। “कर्कटादिस्थिते भानौ दक्षिणायनमुच्यते। उत्तरायणमप्युक्तं मकरस्थे दिवाकरे” म० त० विष्णुपु०। “एतन्मकरकर्कटादिसंक्रमेणायननिरूपणम् श्रौतस्मार्त्तकर्म्मार्थं धनुरादौ सूर्य्यसिद्धान्ताभिहितोदगयनादिनिरूपणन्तु रविगत्यनुसारेण दिनमानादिज्ञानार्थम्, इत्यत्यनयोर्न विरोधः” म० त० रघु०। “ततश्च मकरस्थिरसंक्रान्त्यवधिषड्मासाः स्थूलमुत्तरायणं चलमकरसंक्रान्त्यवधि तु सूक्ष्ममिति भेदः। अस्य प्रशंसाऽपि “स यत्रोदगावर्त्तते देवेषु तर्हि भवति देवास्तृंहति गोपायन्ति” शत० ब्रा० २, १, ३, ३। “यदुत्तरायणं तदहर्देवानाम् दक्षिणायनं रात्रिः संवत्सरोऽहोरात्रः” विष्णुः “अग्निर्ज्योतिरहःश्रुक्ल षण्मासा उत्तरायणम्” गीता। यथा चास्य सौरत्वं तथाऽयनशब्दे ३३५ पृ० कालमाधवीयधृतप्रमाणादिना व्यवस्थापितम्। उपचारात् ३ तथागमनारम्भसंक्रान्तौ “मृगकर्कटसंक्रान्ती द्वेतूदग्दक्षिणायने” सूर्य्य० सि०। तत्र पुण्यकालताविषये “यावद्विंशकला भुक्ता तत्पुण्यं चीत्तरायणे” “निरंशे भास्करे दृष्टे दिनान्तं दक्षिणारायने” म० त० भवि० पु० “भविष्यत्ययने पुण्यमतीते चोत्तरायणे” इति ति० त० देवीपु०। राशिसंक्रान्त्यभिप्रायमिदं वचनम् इति रघुनन्दनादवः। माधवादयस्तु चल संक्रान्तिपरत्वं तत्र विशेषपुण्यकालत्वं चाङ्गीचक्रुः। तच्च अयनसंक्रान्तिशब्दे ३३९ दर्शितम्। उत्तरायणकालाभिमानिनि मृतविद्वत्प्राणिनां ब्रह्मादिलोकप्रापणाय अतिवाहनायेश्वरनियुक्ते चेतने ४ पुरुषमेदे “आतिवाहिकास्तल्लिङ्गात्” शा० सू० भाष्ययोस्तथा व्यवस्थापितं तच्च आतिवाहिकशब्दे ६५१ पृ० दर्शितम्। तन्मूलमेव अग्निर्ज्योतिरित्यादिगीताव्याख्याने “अग्न्यादयस्तदभिमानिनोदेवा” इति श्रीधरोक्तम्।
उत्तरार्क = पु० काशीस्थे उत्तरस्यां दिशि अर्ककुण्ड सन्निधौ सूर्य्यमूर्त्तिभेदे। तद्विवृतिर्यथा “इति काशी प्रभावज्ञो जगच्चक्षुस्तमोपहा। कृत्वा द्वादशधात्मानं काशीपुर्य्यां व्यवस्थितः। लोलार्क उत्तरार्कश्च शाम्बादित्यस्तथैव च। चतुर्थो द्रुपदादित्योमयूखादित्यएव च। खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ। दशमोविमलादित्यो गङ्गादित्यस्तथैव च। द्वादशश्चार्य्यमादित्यः काशीपुर्य्यां घटोद्भव!। ४६ अ० इति द्वादशसूर्य्यभेदाभिधाय तत्स्थानानि तत्र क्रमशोऽभिहितानि। “अथीत्तरस्यामाशायां कुण्डमर्काख्यमुत्तरा। तत्र नाम्नोत्तरार्केण रश्मिमाली व्यवस्थितः” ४७ अ०।
उत्तरार्द्ध = न० उत्कृष्टमर्द्धम् उत्तरमर्द्धस्य एक दे० त० वा। देहपूर्व्वार्द्धे। तस्योत्कृष्टत्वात्तथात्वम् “व्यूह्य स्थितः किञ्चिदिवोत्तरार्द्धम्” रघुः। कर्म्म०। २ शेषार्द्धे च “अथ मध्येनैवोत्तरार्द्धेनाज्यमवेक्षते” शत० ब्रा० १, ३, १, १३
उत्तराशा = स्त्री कर्म्म०। उत्तरस्यां दिशि। उत्तराशाधीशादयः उत्तरदिगीशशब्दे पृ० १०९३ दृश्याः।
उत्तराश्मन् = पु० कर्म्म०। उत्तरप्रसिद्धप्रस्तरभेदे ततः ऋश्या० चतुरर्थ्याम् क। उत्तराश्मक तत्सन्निहितदेशादौ त्रि०।
उत्तराषाढा = स्त्री कर्म्म०। अश्विन्यादिनक्षत्रेषु एकविंशतितमे नक्षत्रे “उग्रः पूर्ब्बमघान्तकाध्रुवगणस्त्रीण्युत्तराणि स्वमूः” ज्यो० उक्तेरियंः ध्रुवगणः। तस्याः स्वरूपादि उडुचक्र शब्दे १०७१ पृष्टे उक्तम् इयं विश्वदेवताका अश्लेषाशब्दे ४९७ पृ० उक्ता।
उत्तरासङ्ग = पु० उत्तरे ऊर्द्ध्वभागे आसज्यते आ + सन्जकर्मणि घञ्। उत्तरीयवस्त्रे “शुक्लोत्तरासङ्गभृतो विशस्त्रान्” भट्टिः “त्वगुत्तरासङ्गवतीमधीतिनीम्” कुमा०। “कृष्णोत्तरासङ्गरुचम् विदधच्चौतपल्लवीम्” माघः। उत्तरस्यां दिशि २ आसङ्गे च। “शिशिरसमयसूर्य्यमिव कृतोत्तरासङ्गम्” काद०। रवेश्च यथा शिशिरसमये माघादौ उत्तरर्स्या दिशि गतिस्तयोत्तुरायणशब्दे ११०४ पृष्ठे उक्तम्।
उत्तरासद् = पु० उत्तरा उत्तरस्यां दिशि सीदति सद–क्विप्। उत्तरदिशि भागार्हेषु १ मित्रावरुणप्रधानेषु २ मरुत्प्रधानेषु च देवेषु “देवा मित्रावरुणनेत्रा मरुन्नेत्रा वोत्तरासदस्तेभ्यः स्वाहा” मित्रावरुणनेत्रेभ्यो मरुन्नेत्रेभ्यो वा देवेभ्य उत्तरासद्भ्यः स्वाहा” यजु० ९, ३६, ३७।
उत्तराह = पु० उत्तरमनन्तरमहः टच् समा०। अनन्तरदिने
उत्तराहि = अव्य० उत्तर + प्रथमाद्यर्थे दिग्देशकालविषये आहि। उत्तरस्मिन् उत्तरस्मात् उत्तर इत्यर्थे। “आहि च दूरे” पा० उक्तेः दूरएवास्य प्रवृत्तिः। “उदीचीमेव दिशन् प्राजनंस्तस्मादुत्तराहि वाग्वदति” शत० ब्रा० ३, २, ३, १५। “अव्ययात्त्यप्” पा० “क्वतसित्रेभ्य एव” इति वार्त्तिके नियमात् अतो भवार्थे अणेव। औत्तरा हिक तद्भवे त्रि०।
उत्तरिक = त्रि० उत्तर उल्लङ्घनमस्त्यस्याः ठन्। १ उत्तार्य्यनदादौ १ नदीभेदे स्त्री। “अनुज्ञातश्च भरतो वाहिनीः चतुरङ्गिणीः। ततः शीघ्रतरं प्रायादुत्तीर्योत्तरिकां नदीम्” रामा०।
उत्तरीय = न० उत्तरस्मिन् देहभागे भवः गहा० छ। ऊर्द्ध्वदेहधार्य्ये वस्त्रे “धौतोत्तरीयप्रतिमच्छवीनि” माघः स्तनोत्तरीयाणि भवन्ति साक्षात्” “अथास्य रत्नग्रघितोत्तरीयम्” रघुः। प्रतिनिधिपर्य्यान्तोत्तरीयधारणावश्यकतोक्ता आ० त० यथा। “विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च। श्रौतं स्मार्त्तं तथा कर्म न नग्नश्चिन्तयेदपि” भृगु० तद्धारणप्रकारश्च “यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः। तथा संधार्य्यते यत्नादुत्तराच्छादनं शुभम्” स्मृतिः। “स्नायाद्वै वाससी धौते अक्लिन्ने परिधाय च। अभावे धौतवस्त्राणां शाणक्षौमाविकानि च। कुतपो योगपट्टं वा द्विवासा येन वा भवेत्” या० स्मृ०। “येन वेति उपवीतेन तत्प्रनिधीभूतेन कुशरज्ज्वादिना” आ० त० रघु०। “यज्ञोपवीते द्वे धार्य्ये श्रौतस्मार्त्तेषु कर्मसु। तृतीयञ्चीत्तरीयार्थं वस्त्राणामतिदिश्यते” स्मृतिः। वर्ज्यान्याह “न स्यूतेन न दग्धेन पारक्येण विशेषतः। मूषिकोत्कीर्ण्णजीर्णेन कर्म्म कुर्य्याद्विचक्षणः” आ० त० भारतम्। “न रक्तमुल्वणं वासो न नीलञ्च प्रशस्यते। मलाक्तं च दशाहीनं वर्जयेदर्च्चने बुधः” नरसिं० पु०। “दशाहीनेन वस्त्रेण कुर्य्यात् कर्म्माण्यभावतः” उश०। “वस्त्रं नान्यधृतं धार्य्यं न रक्तं मलिनं तथा। जीर्णं वाऽपदशञ्चैव श्वेतं धार्य्यंप्रयत्नतः” विष्णुध० पु०।
उत्तरेण = अव्य० उत्तर + एनप्। आसन्नदिग्देशकालानां प्रथमापञ्चमीसप्तम्यन्तानामर्थेषु “तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम्” मेघ०। एतद्योगे द्वितीया। “किञ्चित् पश्चात् व्रज लघुगतिर्भूयएवोत्तरेण” मेघ०। “हृदयदेशमालभेतोत्तरेण” आश्व० गृ० १, २०९, “एतस्मिन् काले प्रपद्याच्छावाकौत्तरेणाग्नीध्रीयम्” आश्व० श्रौ० ५, ७, ३।
उत्तरेद्युस् = अव्य० उत्तरस्मिन् दिने उत्तर + एद्युस्। अनन्तरदिवसे इत्यर्थे।
उत्तरोत्तर = उत्तरस्मादुत्तरः। अनन्तरोदितानन्तरे। “पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा। तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः। एषामभावे पूर्ब्बस्य धनभागुत्तरोत्तरः” या० स्मृ०। २ क्रमेण उत्तरे। “उत्तरोत्तरमुत्कर्षो वस्तुनः सार “उच्यते सा० द०।
उत्त(रो)रौष्ठ = पु० उत्तरः उपरितनः ओष्ठः वा वृद्धिः। उपरितने ओष्ठे। “अधरो(रौ)ष्ठं दशति उत्तरो(रौ)ष्ठं वा लेढि” “उत्तरौष्ठञ्च योलिह्यादुद्गारांश्च करोति च” सुश्रु०
उत्तर्जन = न० उच्चैस्तर्ज्जनम् प्रा० स०। उच्चैर्भर्त्सने। तच्च क्रोधकार्य्यं यथाह सा० द०। “निन्दाक्षेपापमानादेरमर्षोऽभिनिविष्टता। नेत्ररागशिरःकम्पभ्रूभङ्गोत्तर्ज्जनादिकृत्”
उत्तलित = त्रि० उद् + तल–क्त। १ उत्क्षिप्ते।
उत्तान = त्रि० उद्गतस्तानो विस्तारो यस्य। (चित) मूमिलन्मपृष्ठतया ऊर्द्धभावेन १ स्थिते २ ऊर्द्धमुखे च। “उत्तानपाणिद्वयसन्निवेशात् प्रफुल्तराजीवामिवाङ्कमध्ये” कुमा०। “उरःस्थोत्तानचरणः सव्ये न्यस्येतरं करम्” उत्तानं किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा” या० स्मृ०। “पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्ज्जयेत् या० स्मृतिः “प्रत्येत्यप्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वा” कात्या० ८, २, ९। “उत्तानायै विचक्षणः” सुश्रु०
उत्तानक = पु० उद्–तन–ण्वुल्। उच्चटावृक्षे रत्नमा०
उत्तानपश्रक = पु० उत्तानमूर्द्धमुखं पत्रमस्य कप्। रक्ते एरण्डे राजनि०
उत्तानपाद = पु० स्वायम्भुव मनोः पुत्रे ध्रुवपितरि १ नृपभेदे। “वैराजात् पुरुषात् वीरं शतरूपा व्यजायत। प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत” हरि० २ अ०। “स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः। प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ। वासुदेवस्य कलना रक्षायां जगतः स्थितौ। जाये उत्तानपादस्य सुनीतिः मुरुचिस्तथा। सुरुचिः प्रेयसी पत्युर्गेतरा यत्सुतोध्रुवः” भाग० ४ स्क० ८ अ० इतौत्तरं तच्चरितं तत्र वर्णितम्। उत्तान उच्चस्थितः पादोऽस्य। १ परमेश्वरे पु० “पादोऽस्य सर्व्वाभूतानि त्रिपादस्यामृतं दिवीति” श्रुतेस्तस्य सार्व्वोपरिस्थपादत्वात् तथात्वम्। अस्य समासे वा अन्तलोपे उत्तानपादपि तत्रैव “भूर्जज्ञ उत्तानपदोभुव आशा अजायन्त”। “तदुत्तान पदस्परि” ऋ० १०, ७२, ३, ४, अत्र भत्वे पादः पदादेशः। ३ उत्तानपादयुक्ते शिशुप्रभृतौ त्रि०।
उत्तानपादज = पु० उत्तानपादात् जाते जन–ड। ध्रुवे तच्चरितं भागवते ४ स्क० ८ अध्यायादौ वर्ण्णितम्।
उत्तानशय = त्रि० उत्तानः ऊर्द्धमुखः सन्नेव शेते शी–अच्। अतिशिशौ तदानीमवताने सामर्थ्याभावादस्य तथात्वम्।
उत्तानशीवन् = त्रि० उत्तानः सन् शेते शी–ङ्वनिप्। अति शिशौ २ उत्तानस्थिते च। स्त्रियां ङीप् वनोरश्च। उत्तानशीवरी “ये पर्व्वताः सोमपृष्ठा आप उत्तानशीबरीः” अथ० ३, २१, १०।
उत्ताप = पु० उद् + तप–घञ्। १ उष्णतायाम्, २ सन्तापे च।
उत्तार = पु० उद् + तॄ–णिच् अच्। १ उद्वमने २ उल्लङ्घने ३ पारनयने च। “संसारसागरोत्तारतरणिः” प्रबोध० “स वोरामापदं प्राप्युनोत्तारमधिगच्छति” भा० उ० १२६ अ०। उच्चैस्तारः प्रा० स०। ४ अत्यन्तोच्चशब्दादो त्रि०।
उत्तारक = त्रि० उद् + तॄ–णिच् ण्वुल्। पारप्रापके।
उत्तारण = न० उद + तॄ–णिच्–ल्युट्। पारप्रापणे। कर्त्तरि स्थु। २ पारप्रापके त्रि० ३ विष्णौ पु० “उत्तारणीदुष्कृ तिहा” षिष्णुसं० “संसारमानरादुत्तारयतीत्युत्तारणः” भा०
उत्तार्य्य = त्रि० उद् + तॄ–णिच्–कर्म्मणि यत्। १ उद्वमनीये। “अज्ञानभुक्तं तूत्तार्य्यं शोध्यं वाप्याशु शोधर्नः” ममुः। स्यप्। २ उद्वमनं कृत्वेत्यर्थे अव्य०। उद् + तॄ–कर्म्मणि ण्यत्। ४ उल्लङ्घनीये त्रि०।
उत्ताल = त्रि० उद् + चुरा० तल–प्रतिष्ठायाम् अच्। प्रतिष्ठिते महति। “उत्तालतालीवनसंप्रवृत्तः” माघः।
उत्तिष्ठद्धोम = पु० ऊत्तिष्ठतोऽनुपविष्टस्य होमो यत्र। अनुपविष्टकर्त्तव्यहोमे यजतिरूपे यागभेदे। तत्र कुत्रोपपिष्टे न कुत्रवा उत्तिष्ठता होमः करणीय इति विचिकित्सायां यजतिजुहुत्योर्द्भेदप्रदर्शनेन तन्निर्णीतं कात्या० १, २, ५, ६, ७, सूत्रेषु “यजतिजुहुतीनां कोविशेषः” सू० “यजतीनां यागानां जुहोतीनां होमानाञ्च को विशेषः कोभेदः इति प्रश्नः” कर्मः। तिष्ठद्धोमाः वषट्कारप्रदानाः याज्यापुरीयुवाक्यावन्तञ्च यजतयः” सू०। ऊच्यन्ते इति शेषः। होम येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते वषट्कार प्रदानाः तथा याज्यावन्तः पुरोनुवाक्यावन्तश्च ये ते यजतय उच्यन्ते” कर्कः। “उपविष्टहोमाः स्वाहाकारपदाना जुहोतयः” सू०। “उपविष्टेन कर्त्रा होमोयेषु ते उपविष्टहोमाः स्वाहाकारेण प्रदानं येषु ते जुहोतय उच्यन्ते” कर्कः तिष्ठत्पदञ्च उत्तिष्ठत्परम्
उत्तिष्ठमान = पु० उद् + स्था–शानच्। वर्द्ध्वमाने “उत्तिष्ठमानस्तु परैर्नोपेक्ष्यः पथ्यमिच्छता” माघः। ऊर्द्धचेष्टायां तु शतृ। उत्तिष्ठत् अनुपविष्टे दण्डायमाने त्रि० स्त्रियाम् ङीप् नुम्”। उत्तिष्ठन्ती
उत्तीर्ण्ण = त्रि० उद् + तॄ–कर्तरि क्त। १ मुक्ते, २ पारङ्गते कर्म्मणि क्त। ३ कृतोत्तरणे नदादौ त्रि०।
उत्तुङ्ग = त्रि० उत्कृष्टं तुङ्गं प्रा० स०। अत्युन्नते। “उत्तुङ्गशैल शिखरस्थितपादपानां काकः कृशोऽपि फलमालभते सपक्षः। सिंहो बलो द्विरदकम्भविदारणोऽपि सीदत्यहोतरुतले खलु पक्षहीनः” उद्भटः “स्वर्गादुत्तुङ्गममलं विषाणं यत्र शूलिनः” भा० व० ८८ अ०। “करप्रचेया मुत्तुङ्गां प्रभुशक्तिं प्रथीयसीम्” “यच्छालमुत्तङ्गतया विजेतुम्” “उत्तुङ्गमातङ्गमितालघूपलम्” माघः।
उत्तुष = पु० उद्गतः कण्डनाभावेऽपि तुषोऽस्मात्। प्रा० ब० वा गतशब्दलोपः। लाजाख्ये (खै) भ्रष्टधान्ये
उत्तेजना = स्त्री उद् + तिज–णिच् युच्। १ प्रेरणायाम्, २ व्यग्रताकरणे, ३ उद्दीपने, ४ तीक्ष्णीकरणे च। “व्याघट्टनोत्तेजनया मणीनाम्” माघः ल्युट्। तत्रैव न०।
उत्तेजित = त्रि० उद् + तिज–णिच्–क्त। १ प्रेरिते, २ उद्दीपिते च। भावे क्त। ३ प्रेरणायाम् ४ उद्दीपने च न० “उत्तेजितं मध्यवेगं योजनं श्लथवल्गया” इत्युक्ते ५ अश्वगतिभेदे न०।
उत्तेरित = न० उद्–तॄ भावे इतच् गुणे नि० एत्वम्। १ अश्वगतिभेदे। अर्श आद्यचि। “उत्तेरितोऽतिवेगाढ्यो न शृणोति न पश्यति” इत्यक्तगतियुक्ते २ अश्वे पु०।
उत्तोरण = त्रि० उन्नतं तोरणमत्र प्रा० ब० वा नतलोपः। १ उच्च पुरद्वारयुक्ते नगरादौ। “उत्तोरणामन्वयराजधानीम्” रघुः। “उत्तोरणं राजपथं प्रपेदे” कुमा० उन्नतं तोरणम् प्रा० स०। २ उच्चे तोरणे पुंन०।
उत्तोलन = न० उद् + तुल–उन्मागे भावे ल्युट्। ऊर्द्ध्वं नीत्वा तोलने।
उत्तोलित = त्रि० उद् + चु० तुल–क्त। १ उत्क्षिप्ते, २ उत्क्षिप्य कृततोलने च
उत्त्यक्त = त्रि० उद् + त्यज–क्त। १ ऊर्द्ध्वक्षिप्ते, २ परित्यक्ते च।
उत्त्रास = पु० उद् + त्रस–घञ्। अतिभये।
उत्थ = त्रि० उद्–स्था–क। १ उद्गते २ समुद्भूते च। “रजांसि समरोत्थानि तच्छोणितनदीष्विव” रघुः। “भवत्सम्भावनोत्याय परितोषाय मूर्च्छते” कुमा०। “निदालस्य प्रमादोत्थं तत् तामसमुदाहृतम्” गीता “तपनं प्रियविच्छेदे स्मरावेशोत्थचेष्टितम्” सा० द०।
उत्थान = न० उद् + स्था–ल्युट्। १ ऊर्द्ध्वपतने, २ उद्यमे, ३ ऊर्द्ध्वभवनचेष्टायाम्, ४ उद्भवे च। करणे ल्युट्। ५ उत्साहे, ६ पौरुषे, ७ हर्षे च। अधिकरणे, ल्युट्। ८ रणे, ९ राज्यविन्तनरूपे १० तन्त्रे, ११ प्राङ्गणे, १२ चैत्ये च। “इन्दुं नवोत्थानमिवेन्दुमत्यै” रघुः “भ्रातॄणामविभक्तानां यद्युत्यानं भवेत् सह” मनुः। “मम धर्म्मार्थमुत्थानं न कामक्रोधसंज्ञितम्” रामा० “उत्थानमभिजानन्ति सर्वभूतानि भारत!। प्रत्यक्षं फलभश्नन्ति कर्म्मणां लोकसाक्षिकम्” भा० व० ३२ अ०। मेदच्छेद कृशोदरं लघु भवत्युत्थानयोग्यं वपुः” शकु० “पञ्च वा सप्त चाष्टौ च यैरुथानं न गच्छति” सुश्रु०। १३ प्रबोधे च “मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने” ति० त० पु०।
उत्थानैकादशी = स्त्री उत्थानस्य हरेः निद्रातःप्रबोधनस्य कालः एकादशी। चान्द्रकार्त्तिकशुक्लैकादश्याम्। तत्र काल व्यवस्था–ति० त० रघुनन्दनेन दर्शिता यथा मात्स्ये “शेते विष्णुः सदाषाढे माद्रे च परिवर्त्तते। कार्त्तिके परिबुध्येत शुक्लपक्षे हरेर्दिने” भविष्यनारदीययोः “मैत्राद्यपादे स्वपितीह विष्णुर्वैष्णव्यमध्ये परिवर्त्तते च। पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन” भविष्ये “निशि स्वापोदिवोत्थानं सन्ध्यायां परिवर्त्तनम्। अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत्”। अन्यत्र स्वापादिविहितरात्र्यादीतरकाले दशमीप्रतिपदोश्च। “किन्तन्मैत्राद्यपादेन? दशम्यंशेन यो दिवा। पौष्ण शेषेण किन्तेन? प्रतिपद्यथयोनिशि”। दशम्यंशेन दशम्या अंशोयत्र पादे तेन। यः पतिपदि वा प्राप्तस्तेन वा किम्?। अत्र दशमीप्रतिपदोर्वजनात् तदितरैकादश्यादिपञ्चतिथिषु मैत्रादिनक्षत्रपादविशेषलाभे द्वादशीं विनापि शयनादिरिति प्रतीयते। वचनान्तरम् “रेवत्यन्तो यदा रात्रौ द्वादश्या च समायुतः। तदा विबुध्यते विष्णुर्दिनान्ते प्राप्य रेवतीम्” दिनान्ते त्रिधाविभक्तदिन तृतीयभागे दिवोत्यानमित्यनुरोधात्। विष्णुधर्म्मोत्तरे “विष्णुर्दिवा न स्वपिति त च रात्रौ प्रबुध्यते। द्वादश्यामृक्षसंयोगे पादयोगो न कारणम्। अप्राप्ते द्वादशीमृक्षे उत्यानशयने हरेः। पादयोगेन कर्त्तव्ये नाहोरावं विचिन्तयेत् वराहपुराणम्। “द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे। आभाकासितपक्षेषु शयनावर्त्तनादिकम्” आभाकानाम् आषाढभाद्रकार्त्तिकानाम्। ततश्च द्वादश्यां निशादौ नक्षत्रमात्रयोगात् द्वादश्यामृक्षाभावे तिथ्यन्तरे निशाद्यनादरेण पादविशेषयोगात्, तदभावे द्बादश्यां सन्ध्यायामेव शयनादिकं बोधनन्तु द्वादश्यां रात्रौ रेवत्यन्तपादयोगे दिनतृतीयभाग इति विशेषः”।
उत्थापन = न० उद् + स्था–णिच्–ल्युट्। १ उत्तोलने उन्नती करणे २ चालने ३ प्रबोधने ४ उद्वमने च। “एवं यन्त्रीपायान न्यांश्च शिरोत्थापनहेतृन् बुद्ध्यावेक्ष्य” सुश्रु०।
उत्थाप्य = त्रि० उद् + स्था–णिच् कर्म्मणि यत्। १ उत्तोलनीये २ चालनीये। ल्यप्। ३ उत्तोल्येत्यर्थे ४ मिश्रीकृत्ये त्यर्थे “आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च” उत्थाप्य मिश्रीकृत्य प्रा० त० रघु०। ५ उत्तार्य्येत्यर्थे च अव्य०।
उत्थित = त्रि० उद् + स्था–क्त। १ वृद्धियुक्ते, २ उत्यानयुते, अनुपविष्टे। “अर्द्धाचिता सत्वरमुत्थितायाः” कुमा० रघुश्च “न यावदेतावुदपश्यदुत्थितौ” “भित्त्वोत्थितं भूमिमिवोरगाणाम्” माघः। ३ उत्पन्ने ४ उद्युक्ते च।
उत्थिताङ्गुलि = पु० उत्यिता उद्युक्ता अङ्गुलयो यत्र। (चापड) विस्तृताङ्गुलिके करतले चपेटे शब्दच०।
उत्पचनिपचा = स्त्री उत्पच निपचेत्युच्यते यस्यां क्रियायाम् मयू०। उद्धृत्य पाकादिनिदेशार्थक्रियायाम्।
उत्पचिष्णु = त्रि० उद् + पच–इष्णुच्। १ उद्धृत्य पचन शीले। प्रचः विक्लित्तिरूपपाकपरत्वे। ऊर्द्ध्वतः पाकशीले २ तृणादौ।
उत्पट = पु० उत्पटति उद् + पट–गतौ अच्। वृक्षादीनां त्वचमुद्भिद्य उद्गते निर्यासे। “त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः” शत० १४, ६, ९, ३१, “उत्पटः वृक्षनिर्यासः” भा०।
उत्पत = पु० उत्पतति ऊर्द्ध्वं गच्छति उद् + पत–अच्। १ पक्षिणि त्रिका० २ उत्पतनकर्त्तृमात्रे त्रि०।
उत्पतन = न० उद् + पत–ल्युट्। १ ऊर्द्ध्वगमने, २ उत्क्षेपणे च। उत्क्षेपणशब्दे उदा०।
उत्पतनिपता = स्त्री उत्पत निपत इत्युच्यते यस्यां क्रियायाम् मयू०। उत्पतनादिनिदेशार्थक्रियाथाम्।
उत्पताक = त्रि० उत्तोलिता पताका यत्र प्रा० ब० वा तोलितशब्दलोपः। उत्तोलितपता के पुरादौ। “पुरन्दरश्रीः पुरमुत्पपताकम्” रघुः
उत्पतित = त्रि० उद् + पत–क्त। ऊर्द्ध्वगते।
उत्पतिष्णु = उद् + पत–इष्णुच्। उत्पतनशीले। “ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः” रघुः “उत्पतिष्णू सहिष्णु च चेरतुः खरदूषणौ” भट्टिः।
***