उत्क्रान्त = त्रि० उद् + क्रम–कर्त्तरि क्त। १ अतिक्रान्ते देहाद्देहान्तरप्राप्त्यै २ अपसृते मृतेच। “उत्क्रान्तानामामिषायोपरिष्टात्” माघः “उत्क्रान्तानां मृतानाम्” मल्लि०।
उत्क्रान्ति = स्त्री उत् + क्रम–क्तिन्। देहादुत्क्रमणे अपसरणे च उत्क्रमणशब्दे विवृतिः।
उत्क्रीश = पु० उद् + क्रुश–अच्। १ कुररीपक्षिणि। अयञ्च पक्षी सुश्रु० जलचरमध्य प्लवत्वेन संघचारित्वेनोक्तः। “हंससारसक्रौ ञ्चेत्याद्युपक्रमे “मद्गूत्क्रोशकाचाक्षेत्यानीनुक्त्वा “प्लवाः संघचारिण” इत्यन्तेन। “उत्क्रोशरससंसिद्धा मनल्पस्नेहां यवागूं पाययेत्” सुश्रु०। २ उच्चैःक्रन्दिनि त्रि०। ततः चतुरर्थ्याम् उत्करा० छ। उत्क्रोशीय तत्सन्निहिते देशादौ।
उत्क्लेदिन् = त्रि० उद् + क्लिद–णिच्–णिनि। ऊर्द्ध्वतः क्लेदकारके आर्द्रीकारके “लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम्” सुश्रु०। स्त्रियां ङीप्।
उत्क्लेश = पू० उद् + क्लिश–घञ्। ऊर्द्ध्वगवायुकृते क्लेशे स च “उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकं ष्टीवनेरितम्। हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्द्दिशेत्” इत्युक्तलक्षणः रोगभेदः। “गुरुपाकसृष्टविण्मुत्रतया कफोत्क्लेशेन च” “क्लिन्नमुत्क्लेशजननम्” “तृष्णाशूलकफोत्क्लेशच्छर्द्दिश्वासनिवारणम्” सुश्रु० ल्युट्। उत्क्लेशनमप्यत्र न० “दद्यादुत्क्लेशनं पूर्व्वम्” सुश्रु०।
उत्क्लेशक = त्रि० उद् + क्लिश–णिच्–ण्वुल्। १ उत्क्लेशकारके “कौण्डिल्यकः करभक इत्युपक्रमे” क्लीतः कृमिःशरारी च यश्चाप्युत्क्लेशकः स्मृतः”। एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेव च” सुश्रुतोक्ते २ अग्निप्रकृतिके कीटभेदे। उत्क्लिश्नाति उद् + क्लिश–णिनि। ३ ऊर्द्ध्वगवायुहेतुक्लेशकारके त्रि० स्त्रियां ङीप्ं। “अम्लीभूतं कफोत्क्लेशि न हितं तत् पिपासवे” सुश्रु०।
उत्क्षिप्त = त्रि० उद् + क्विप्–क्त। १ ऊर्द्ध्वं क्षिप्ते “क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना” “उत्क्षिमुच्छ्रितशतांशुकरावलम्बैः” माघः २ उच्चाटिते च। (रक्षिभिः) उत्क्षिप्तगुल्मैश्च तथा हयैश्च सपताकिभिः” भा० व० १५ अ० “गुल्मो यत्र स्थितेन योधसंघेन चतुर्दिगवस्थितारिपवोद्रष्टु बाणादिना प्रहर्त्तुं। शक्यन्ते ताद्दशमुच्चस्थानमुत्क्षिप्तगुल्मैः परकीयगुल्मोच्चाटनकरैः” लीलक०। धुस्तूरे पु० शब्दच०। तस्य फलसेवने जन्मत्तताधायकत्वात्तथात्वम्।
उत्क्षिप्तिका = स्त्री घत्क्षिप्तः धुस्तूरैव कन् स्त्रीत्वात् टापि अत इत्त्यम्। धुस्तूराकारे कर्ण्णमूषणभेदे हेमचन्द्रः।
उत्क्षेप = पु० उद् + क्षिप–घञ। १ उर्द्ध्वक्षेपणे “पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम्” मेघ०। “पक्षोत्क्षेपात् समोदिष्टः” सुश्रु०। कर्त्तरि अच्। २ उत्क्षेपकारके त्रि०
उत्क्षेपक = त्रि० उद् + क्षिप–ण्वुल्। १ ऊर्द्ध्वं प्रक्षेपके २ उत्क्षिप्यापहारके चौरे च। “उत्क्षेपकग्रन्थिभेदौ करसंदशहीनकौ। कार्य्यौ द्वितीयापराधे करपादैकहीनकौ” या० स्मृ० वस्त्राद्युत्क्षिपत्यपहरतीत्युत्क्षेपकः। शस्त्रादिबद्धं स्वर्ण्णादि विस्रस्योत्कृत्य वा योपहरत्यसौ ग्रन्थिभेदः तौ यथाक्रमङ्करेण सन्दंशसदृशेन तर्ज्जन्यङ्गुष्ठेन हीन कौ कार्य्यौ द्वितीयापराधे पुनः करश्च पादश्च करपाद तच्च तदेकञ्च करपादैकन्तद्धीनं ययोस्तत्करपादैकहीनकौकार्य्यौ। उत्क्षेपकग्रन्थिभेदकयोरेकमेकं करम्पादञ्च छिन्द्यादित्यर्थः। एतदप्युत्तमसाहसप्राप्तियोग्यद्रव्य विषयम्। “तदङ्गच्छेद इत्युक्तोदण्ड उत्तमसाहस” इति नारदवचनात्। तृतीयापराधे तु बध एव। तथा च मनुः “अङ्गुलीं ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे। द्वितीये हस्तचरणौ तृतीये बधमर्हतीति” मिता०।
उत्क्षेपण = न० उद् + क्षिप–ल्युट्। १ ऊर्द्ध्वक्षेपणे। “उत्क्षेपणं तथावक्षेपणमाकुञ्चनं तथा। प्रसारणञ्च गमनं कुर्म्माण्येतानि पञ्च च” भाषा० “उतक्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्म्माणि” कणा० सू० “इतिरवधारणार्थः भ्रमणादेरपि गमनान्तर्गतत्वात्। अत्र च उत्क्षेपणत्वावक्षेप्रणत्वाकुञ्चनत्वप्रसारणत्वगमनत्वानि कर्म्मत्वसाक्षांद्व्याप्याः पञ्च जातयः। नन्वेतदनुप्रपन्नंगमनस्य कर्म्मपर्य्यायत्वात् सर्व्वत्र गच्छतीतिबुद्धेर्दृष्टत्वादुत्क्षेपणत्वादीनां चतसृणां जातीनां परस्परात्यन्ताभावसमानाधिकरणानां सामानाधिकरण्याननुमवात् चतस्र एव कर्म्मत्वव्याप्या जातय इति चेत् सत्यं कर्म्मपर्य्याय एव गमनं पृथगभिधानन्तु भ्रमणरेचनस्यन्दनोर्द्ध्वज्वलननमनोन्नमनांदीनां भिन्नभिन्नबुद्धिव्यपदेशभाजामेकेन शब्देन सङ्ग्रहार्थं यद्वा गमनत्वमपि कर्म्मत्वव्याप्या पञ्चमी जातिरेव तेन भ्रमणरेचनादिष्वेव गमनप्रयोगो मुख्यः उत्क्षेपणावक्षेपणादिषु यदि गमनप्रयोगस्तदा भाक्तः स्वाश्रयसंयीगविभागासमवायिकारणत्वमेव गौणमुख्यसाधारणो धर्म्मः गमनत्वजातेस्त्वनियतदिग्देशसंयोगविभागासमवायिकारणत्वमेव व्यञ्जकं तच्च भ्रमणादिषु सर्व्वत्रेति गमनग्रहणेनैव तेषां ग्रहणमिति। निष्क्र- मणत्वप्रवेशनत्वादिका तु न जातिः एकस्मिन्नेव कर्म्मणि गृहाद् गृहान्तरं गच्छति पुरुषे कस्यचित् द्रष्टुः प्रविशतीति प्रत्ययः कस्यचित्तु निष्क्रामतीति तत्र जातिसङ्करः स्यात् तथा भ्रमणादेरेकस्या जलप्रणाल्या निष्क्रम्यापरां प्रविशति निष्क्रामति प्रविशतीति प्रत्ययद्वयदर्शनादुपाधिसामान्यमेवैतदध्यवसेयम्। उत्क्षेपणादौ तु मुसलमुत्क्षिपाणीतीच्छाजनितेन प्रयत्नेन प्रयत्नवदात्मसंयोगादसमवायिकारणाद्धस्ते तावदुत्क्षेपणं तत उत्क्षेपणविशिष्ट हस्तनोदनादसमवायिकारणात् मुसलेऽप्युत्क्षेपणाख्यं कर्म्मं युगपद्वा तत् ऊर्द्ध्वमुत्क्षिप्तयोर्हस्तमुसलयोरवक्षेपणेच्छाजनितप्रयत्नवदात्मसंयोगाद्धस्तनोदनाच्च युगपदेव हस्ते मुसले चावक्षेपणम् उलूखलपातानुकूलं संजायते ततो दुढतरद्रव्यसंयोगाद् यदकस्मान्मुसलस्योर्द्ध्वगमनं भवति तत्र नेच्छा न वा प्रयत्नः कारणं किन्तु संस्कारमात्रादेव मुसलस्योत्पतनं तच्च गमनमात्रं नतूत्क्षेपणं, भाक्तस्तत्रोत्क्षेपणव्यवहारः एवमनुलोमप्रतिलोमवायुद्वयसङ्घट्टवशाद्वाय्योस्तत्प्रेरिततृणतूलकादौ चोत्क्षेपणव्यवहारो भाक्तः। एवं स्रोतोद्वयसङ्घट्टवशाज्जलोर्द्ध्वगमनेऽपि। एवमुत्क्षेपणावक्षेपणव्यवहारः शरीरतदवयवतत्संयुक्तमुसलतोमरादिष्वेव मुख्यः। भवति हि हस्तमुत्क्षिपति तोमरमुत्क्षिपतीति एवमवक्षिपतीत्यपि” उपस्करः। उत्क्षेणञ्च श्रौते कर्म्मणि गोघ्राणायोग्यदेशक्षेपणे भवति तथा हि। “मूतयोः कृत्वा वेणुयष्ट्यां वा कुपे वाऽऽसज्योभयतः स्थाणुवृक्षवंशवल्मीकानामन्यतमस्मिन्नुत्क्षेपणवदासजत्येतत्ते” कात्या० ५, १०, २१। “उत्क्षेषणवदिति गोरध्राणदेशम्” कर्कः यजु० ३, ६१ मन्त्रव्या० “गोभिराघ्रातुमशक्यत्वादिति” बेददी० तत्पदं व्याख्यात्। “अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात्” शकु०। करणे ल्युट्। २ धान्यमर्दनकाष्ठादौ मेदि० ३ उदञ्चने ४ षोडशपणे च हेमच०। कर्म्मणि ल्युट्। ५ व्यजने न०।
उत्खचित = त्रि० उद् + खच–बन्धे क्त। १ उद्ग्रषिते २ रचिते च। “कुसुमोन्खचितान् बलीभृतः” रघुः।
उत्खला = स्त्री उद् + खल–जन्यर्थे–अच्। मुरानामगन्धद्रव्ये शब्दच०।
उत्खात = त्रि० उद् + खन–क्त। १ उन्मूलिते २ उत्पाटिते “फलैः संबर्द्धयामासुरुत्खातप्रतिरोपिताः” रघुः। “रथेनानुत्खातस्तिमितगतिना शकु० भावे क्त। ३ उत्खनने न०। उत्खातकेलिः।
उत्खातकेलि = पु० उत्खातमुत्खबमेव केलि। “उत्खात- केलिः शृङ्गाद्यैर्वप्रक्रीडा निगद्यते” इत्युक्तलक्षणे वृषगजादेः शृङ्गादिना मृत्तिकाखननरूपक्रीडायाम्।
उत्खाय = अव्य० उद् + खन–ल्यप्। उत्पाट्येत्यर्थे। “वङ्गानुत्खाय तरसा” रघुः पक्षे उत्खन्येत्यप्यत्र।
उत्खेद = पु० उद् + खिद–भावे घञ्। छेदने उद् + खदधातौ अमरः। उदा०।
उत्त = त्रि० उन्द–क्लेदने क्त वा तस्य नः। क्लिन्ने आर्द्रवस्तुनि
उत्तंस = पु० उद् + तसि–अच्। १ कर्णाभरणे, २ शिरोभूषणे च। “नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि” सा० द०। अस्य कर्णमूषणवाचकत्वेऽपि कर्णपदसमभिव्याहारे भूषणमात्रपरता तत्काले कर्णस्थितत्वद्योतनार्थं वा कर्ण्णादिशब्दप्रयोगः।
उत्तट = त्रि० उत्क्रान्तं तटम् अत्या० त०। तटपर्य्यन्ताप्लावके “उत्तटा इव नदीरयाः स्थलीम्” रघुः।
उत्तप्त = त्रि० उद् + तप–क्त। १ संतप्ते २ शुष्कमांसे न० भावे क्त। ३ उत्तापे न०। उद्गतं तप्तं तापो यस्य। ४ स्नाते त्रि० मेदि०
उत्तब्ध = त्रि० उद् + स्तन्भ–क्त। १ ऊर्द्ध्वस्तब्धे २ ऊर्द्धावस्थिते।
उत्तम = त्रि० उद् + तमप्। १ उत्कृष्टे। “ज्योतिषामुत्तमोदेव। दीपोऽयं प्रतिगृह्यताम्” दीपमन्त्रः “अदस्त्वया मुन्नमनुत्तमं तमः” माघः “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः” गीता। द्विजोत्तमः नरोत्तमः नृपोत्तम! “घर्मोऽधर्मविदुत्तमः” विष्णुसह०। उत्–उद्गतः अतिशये तमप्। २ विष्णौ पु०। “अनादिनिधनो धाता विधाता धातुरुत्तमः” विष्णुसह०। “धातुरुत्तम इति नामैक सविशेषणं सामानाधिकरण्येन। सर्वधातुभ्यः पृथिव्यादिभ्य उत्कृष्टश्चिदातुरित्यर्थः धातुर्विरिञ्चेरुत्कृष्ट इति वा। नामद्वयं वा कार्य्यकारणप्रपञ्चधारणात् धातुश्चिद्धातुः उत्तमः सर्व्वेषामुद्गतानामुद्गतत्वादुत्तमः” भा०। ३ अन्त्ये। “उत्तमैकाभ्याञ्च” पा०। “उत्तमशब्दीऽन्त्यार्थः” सि० कौ०। उत्तानपादस्य पुत्रभेदे ४ ध्रुवसपत्नभ्रातरि पु० स च उत्तानपादस्य सुरुचौ भार्य्यायामुत्पन्नः। “जाये उत्तानपदस्य सुनीतिः सुरुचिस्तथा। सुरुचिः प्रेयसी पत्युर्नेतरा यत् सुतोध्रुवः। एकदा सुरुचेः पुत्रमङ्कमारीप्यलालयन्। उत्तमं मारुरुक्षुस्तं ध्रुवं राजाभ्यनन्दत” भा० ४ स्क० ८ अ०। “उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा। हतः पुण्यजनेनाजौ तन्मातास्य गतिं गता” भा० ४, स्क० १० अ०। प्रियव्रतस्य ५ पुवभेदे स एव तृतीयमनुः यथोक्तं भाग० ८ स्कं० १ अ०। “तृतीय उत्तमो नाम प्रियव्रतसुतोमनुः। पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप!। वशिष्टातनयाः सप्त ऋषयः प्रमदादयः। सत्यावेदश्रुता भद्रादेवा इन्द्रस्तु सत्यजित्। धर्म्मस्य सुनृतायान्तु भगवान् पुरुषोत्तमः। सत्यसेन इति ख्यातः जातः सत्यव्रतैः सह”। हरिवं० ७ अ० तु औत्तमित्वेनायं पठितः यथा। “स्वायम्भुवोमनुस्तात! मनुः स्वारोचिषस्तथा। औत्तमिस्तामसश्चैव रैवतश्चाक्षुषस्तथा। वैवस्वतश्च कौरव्य! साम्प्रतोमनुरुच्यते” इति सप्तमनूनुद्दिश्य। “इदं तृतीयं वक्ष्यामि तन्निबोध नराधिप!। वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः। हिरण्यगर्भस्य सुता ऊर्जा नाम सुतेजसः। ऋषयोऽत्र मया प्रोक्ताः कीर्त्त्यमानान् निबोध तान्। औत्तमेयान् महाराज! दशपुत्रान् मनोरमान्। ईष ऊर्जस्तनूर्ज्जश्च मधुर्माधव एव च। शुचिः शुव्रुः सहश्चैव नभस्यो नभएव च। भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम्”। तत्र स्वार्थे इञ् औत्तमिः। ॠषिपुत्रादिनामभेदस्तु कल्पभेदादविरुद्धः”।
उत्तमफलिनी = कर्म्म० नित्यस०। (क्षीराइ)। दुग्धिकावृक्षे रत्नमा०।
उत्तमर्ण = पु० उत्तममृणमस्य। ऋणप्रयोजके (महाजन)। उत्तमर्णवृद्ध्यादिग्रहणधर्मोविष्णुना दर्शितो यथा “अथोत्तमर्णोऽधमर्णाद्यथादत्तमर्थं गृह्णीयात् द्विकं त्रिकं चतुष्कं पञ्चकञ्च शतं वर्णानुक्रमेण प्रतिमासम्। सर्वेवर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः। अकृतामपि वत्सरातिक्रमेण यथाविहिताम्। आध्युपभोगे वृद्ध्यभावः। दैवराजोपघातादृते विनष्टमाधिमुत्तमर्णोदद्यात्। अन्तवृद्धौ प्रविष्टायामपि। न स्थावरमाधिमृते वचनात्। गृहीतधनप्रवेशार्थमेव यत् स्थावरं दत्तं तद्गृहीतधनप्रवेशे दद्यात्। दीयमानं प्रयुक्तमर्थमुत्तमर्णस्यागृह्णतस्ततः परं न वर्द्धते। हिरण्यस्य परा वृद्धिर्द्विगुणा, धान्यस्य त्रिगुणा, वस्त्रस्य चतुर्गुणा, सन्ततिः स्त्रीपशूनाम्। किण्वकार्पाससूत्रचर्म्मायुधेष्टकाङ्गाराणामक्षया, अनुक्तानां द्विगुणा। प्रयुक्तमर्थं यथा कथञ्चित् साधयन्न राज्ञोवाच्यः स्यात्। साध्यमानश्चेद्राजानमभिगच्छेत्तत्समं दण्ड्यः। उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमर्णोराज्ञे धनदशभागसम्मितं दण्डं दद्यात्। प्राप्तार्थश्चोत्तमर्णोविंशतितितममंशम्। सर्व्वापलाप्येकदेशविभावितोऽपि सर्वं द- द्यात्। तस्य च भावनास्तिस्रोभवन्ति लिखितं साक्षिणः समयक्रिया च। ससाक्षिकमाप्तं ससाक्षिकमेव दद्यात्। लिखितार्थप्रविष्टे लिखितं पाटयेत्। असमग्रदाने लेख्यासन्निधाने चोत्तमर्णोलिखितं दद्यात्”। अधिकमृणशब्दे वक्ष्यते। उत्तमं देयत्वेनास्त्यस्य ठन्। उत्तमर्ण्णिकोऽप्यत्र। “पञ्च पञ्चशतम् दाप्यः प्राप्तार्थोह्युत्तमर्ण्णिकः” या० स्मृ०। “यैर्यैरुपापैरर्थं स्वं प्राप्नुयादुत्तमर्ण्णिकः। स्तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकम्” मनुः “ते च उपाया वृहस्पतिना दर्शिताः यथा। “छद्मना याचितञ्चार्थमानीय ऋणिकाद्बलैः। अन्याहृतादि वाऽऽहृत्य दाप्यते तत्र सोपधिः। दारपुत्रपशून् हृत्वा कृत्वा द्वारोपवेशनम्। यत्रार्थी दाप्यतेऽर्थं स्वं तदाचरितमुच्यते। बद्ध्वास्वगृहमानीय ताडनाद्यैरुपक्रमैः। ऋणिको दाप्यते यत्र बलात्कारः स कीर्त्तितः”।
उत्तमशाख = पु० उत्तमा उत्कृष्टा शाखाऽस्य। उत्ष्टकृशास्वे द्रुमे गहा० चतुरर्थ्यां छ। ऊत्तमशाखीय तत्सन्निहितादौ त्रि०।
उत्तमश्लोक = त्रि० उत्तमः श्लोकः चरितं यस्य। १ पुण्यकीर्त्तौ कम्म०। २ उत्तमे काव्ये पु०। स च ध्वनिरूपः “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्यात् ध्वनिर्बुधैः कथितः” काव्यप्र० उक्तलक्षणः।
उत्तमस् = त्रि० उल्लङ्घितं तमो येन प्रा० ब० वा लङ्घितलोपः। १ उल्लङ्घिततमस्के २ तमोऽतीते च। “क उत्तमःश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात्” भाग० १० स्क० १ अ०
उत्तमसाहस = पु० साहसमधिकृततयाऽस्त्यस्य अर्श० अच् + कर्म्म०। स्मृत्युक्ते साहसाधिकारेण विहिते १ उत्कृष्टे दण्डे। “पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः। मध्यमः पञ्च विज्ञेयः सहस्रं त्वेष चोत्तमः” मनुः “अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम्” या० स्मृ० नानास्थाने उत्तमदण्डविषयमाह विष्णः यथा दण्ड्य इत्युपकुमे “परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम्”। “व्यङ्ग्यतायुक्ताक्षेपे कार्षापणशतम्” “मातृयुक्तेतूत्तमम्” “पारजायी सवर्ण्णागमने तूत्तमसाहसं दण्ड्यः”। “अदुष्टां (कन्याम्) दुष्टामिति ब्रुवन्नुत्तमसाहसम्” “फलोपगमद्रुमोच्छेदी कीटोपघाती तूत्तमसाहसं दण्ड्यः” (अवगोरयिता) शस्त्रेणोत्तमसाहसं दण्ड्यः” नेत्रकन्धराबाहुसक्थ्यं सभङ्गेचोत्तमम्” (साहसं दण्ड्यः) “रत्नान्यपहार्य्युत्तससाहसम्”। “यस्तयोः (पितापुत्रयोर्विवादे) पान्तरः स्यात्तस्योत्तमसाहसः “तुलामानकूटकर्तुश्च तदकूटे कूटवादिनश्च द्रव्याणां प्रतिरूपविक्रयिकस्य च”। “सम्भूय बणिजां पण्यमनर्घेणावरुन्धताम्” प्रत्येकं “विक्रीणताञ्च”। “यस्तूत्तमवर्णान् दास्ये नियोजतिस्योत्तमसाहसदण्डः”। “सीमाभेत्तारमुत्तमसाहसेन दण्डयित्वा पुनः सीमां कारयेत्” “अभक्ष्यस्याविक्रेयस्य च विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसम् दण्डनीयः। “भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु”। २ प्राणिहिंसादिरूपे बलकृते कर्म्मभेदे न०। तत्रोत्तमसाहसादिस्वरूपलक्षणविभागादि मिता० दर्शितं यथा। “सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम्” या० स्मृ०। “सामान्यस्य साधारणस्य यथेष्टं विनियोगानर्हत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम्। कुतः प्रसभहरणात् प्रसह्याहरणाब्बलावष्टम्भेन हरणादिति यावत्। एतदुक्तं भवति। राजदण्डञ्जनाक्रोशं चोल्लङ्घ्य राजपुरुषेतरजनसमक्षं यत्किञ्चिद्धरणमारणपरदारप्रधर्षणादिकं क्रियते तत् सर्वं साहसमिति साहसलक्षणम्। अतः साधारणधनपरधनयोर्हरणस्यापि बलावष्टम्भेन क्रियमाणत्वात्साहसत्वमिति। नारदेनापि साहसस्य स्वरूपं विवृतम्। “सहसा क्रियते कर्म यत् किञ्चिद्बलदर्पितैः। तत्साहसमिति प्रोक्तं सहो बलमिहोच्यते”। तदिदं साहसञ्चौर्य्यवाग्दण्डपारुष्यस्त्रीसंग्रहेषु व्यासक्तमपि बलदर्पावष्टम्भोपाधितोभिद्यत इति दण्डातिरेकार्थं पृथगभिधानस्य दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैविध्यमभिधाय तल्लक्षणन्तेनैव विवृतम्। “तत् पुनस्त्विविधं ज्ञेयं प्रथमं मध्यमन्तथा। उत्तमञ्चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक्। फलमूलोदकादीनां क्षेत्रोपकरणस्य च। भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम्। वासःपश्वन्नपानानां गृहोपकरणस्य च। एतेनैव प्रकारेण मध्यमं साहसं स्मृतम्। व्यापादोविषशस्त्राद्यैः परदाराभिमर्शनम्। प्राणोपरधि यच्चान्यदुक्तमुत्तमसाहसम्। तस्य दण्डः क्रियाक्षेपः प्रथमस्य शताबरः। मध्यमस्य तु शास्त्रज्ञैर्दृष्टः पञ्चशतावरः। उत्तमे साहसे दण्डः सहस्रावर इष्यते। बधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने। तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहमे” इति। बधादयश्चापराधतारतम्यादुत्तमसाहसे समस्ताव्यस्ता वा योज्याः”। तत्र परद्रव्यापहरणरूपे साहसे दण्डमाह” मिता०। “तन्मूल्याद्द्विगुणोदण्डोनिह्नवे तु चतुर्गुणः” या० स्मृ०। “तस्यापहृतद्रव्यस्य मूल्याद्द्विगुणोदण्डः यः पुनः साहसं कृत्वा नाहमककार्षमिति निह्नुते तस्य मूल्याच्चतुर्गुणो दण्डो भवति। एतस्मादेव विशेषदण्डविधानात् प्रथमसाहसादिसामान्यदण्डविधानमपहारव्यतिरिक्तविषयम्” मिता०
उत्तमस्त्रीसंग्रहण = न० परस्त्रियाः संग्रहणं कर्म्म०। स्मृत्युक्ते परस्त्रियामुत्तमे मिथुनाभावाय प्रवृत्तिरूपव्यापारभेदे तत्स्वरूपविभागादि मिता० दर्शितं यथा “प्रथम साहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम्। “त्रिविधन्तत्समाख्यातमधमं मध्यमोत्तमम्। अदेशकालभाषाभिर्निर्जने च परस्त्रियाः। कटाक्षावेक्षणं हास्यम्प्रथमं साहसं स्मृतम्। प्रेषणङ्गन्धमाल्यानान्धूपभूषणवाससाम्। प्रलोभनञ्चान्नपानैर्मध्यमं समुदाहृतम्। सहा सनं विविक्तेषु परस्परमपाश्रयः। केशाकेशि ग्रहश्चैव सम्यक् संग्रहणं स्कृतम्”। स्त्रीपुंसयोर्मिथुनीभावः संग्रहणं संग्रहणज्ञानपूर्ब्बकत्वात्तत्कर्तुर्दण्डविधानस्य तज्ज्ञानोपायन्तावदाह। “पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः। सद्योवा कामजैश्चिह्नैः प्रतिपत्तौ द्वयोस्तथा” या० स्मृ०। संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर्ल्लिङ्गैर्ज्ञात्वा ग्रहीतव्यः। परस्परकेशग्रहणपूर्ब्बकाक्रीडा केशाकेशि “तत्र तेनेदमिति सरूप” इति पा० बहुब्रीहौ सति “इच् कर्म्मव्यतिहारे” पा० इति समासान्त इच् प्रत्ययः अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः। ततश्चायमर्घः। परभार्य्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदशनादिकृतव्रणैः रागकृतैर्लिङ्गैर्द्वयीः सम्पतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः। परस्त्रीग्रहणं नियुक्तावरुद्बादिव्युदासार्थम्। किञ्च। “नीवीस्तनप्रावरण सक्थिकेशावमर्शनम्। अदेशकालसम्भाषं सहैकस्थानमेव च” या० स्मृ०। यःपुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्द्धरुहादिस्पर्शनं साभिलाषैवाचरति। तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुलेऽकाले संलापनङ्क रोति। परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते। सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः। एतच्चाशङ्क्यमान दोषपुरुषविषयमितरस्य न दोषः। यथाह मनुः। “यस्त्वनाक्षारितः पूर्व्वमभिभाषेत कारणात्। न दोषम्प्राप्नुयात्किञ्चिन्न हि तस्य व्यतिक्रमः” इति यः परस्त्रिया स्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम्। “स्त्रियं स्पृशेददेशे यः स्पृष्टोबा मर्षयेत्तथा। परस्परस्यानुभते सर्वं संग्रहणं स्मृतमिति” यश्च मयेयं विदग्धाऽसकृद्रमि- तेति श्लाघया भुजङ्गजनसमक्षङ्ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम्। “दर्पाद्वा यदि वा मोहात् श्लाघया वा स्वयं वदेत्। पूर्ब्बं मयेयम्भुक्तेति तच्च संग्रहणं स्मृतम्”
उत्तमा = स्त्री उत्कृष्टसोन्दर्य्यान्वितायाम् स्त्रियाम् अमरः।
उत्तमाङ्ग = न० कर्म्म०। मस्तके। “बभौ पतद्गङ्ग इवोत्तमाङ्गे” कुमा०। “कश्चिद् द्विषत्खड्गहृतोत्तमाङ्गः” रघुः। “पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन” मनुः। मस्तकस्य अङ्गेषूत्तमत्वं चक्षुरादीन्द्रियाधारत्वात् प्राणवायुसञ्चारस्थानत्वात् सर्वेषामङ्गानामुपरिवर्त्तमानत्वाच्च। अतएव “गर्भस्य हि सम्भवतः प्रथमं शिरः सम्भवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रियाणाम्” सुश्रु० शौनकीयमते इन्द्रियमूलत्वमस्योक्तम् “तच्च शरीरम् षडङ्गं शाखाश्चतस्रो मध्यं पञ्चमं षष्ठं शिर” इति सुश्रु० षडङ्गविभागे हस्तपादानां चतुर्ण्णां शाखात्वेन मध्यमस्य मध्यत्वेन उप्रवर्ण्यसर्वशेषे शिरसः कथनं पूर्वोक्तहेतोः प्राधान्यात्तस्येति बोध्यम्। प्रत्यङ्गविभागेऽपि “मस्तकोदरेत्यादिना सुश्रु० मस्तकस्य प्रथमनिर्देशः प्राधान्यादेव लोकेऽपि मस्तकच्छेदनेऽवशिष्टाङ्गैः न प्रत्यभिज्ञा छिन्नमस्तकमात्रेण तु प्रत्यभिज्ञा इत्यतो मस्तकस्य प्रत्यभिज्ञासाधनत्वादपि उत्तमत्वम्” कथमन्यथा देवदत्तादिदेहस्य हस्तादिषु च अङ्गेषु मध्ये हस्तादिना न प्रत्यभिज्ञा इत्यतः मस्तकस्य उत्कृष्टत्वम्। हस्तादिच्छेदनेऽपि जीवनसम्भवात् मस्तकस्य छेदने तदभावादपि मस्तकस्य प्राधान्यमित्यपि मन्तव्यम्।
उत्तमाम्भस् = न० सांख्यशास्त्रप्रसिद्धे नवविधतुष्टिमध्ये तुष्टिभेदे “नापहत्य भूतानि विषयोपभोगः सम्भवतीति हिंसादीषदर्शनात् विषयोपरमे या तुष्टिः सा पञ्चमी उत्तमाम्भ उच्यते” सा० कौ०। अस्यास्तुष्टैः अम्भसोऽङ्करं प्रतीव विवेकख्यातिं प्रति हेतुत्वात्तथात्वम्।
उत्तमाय्य = त्रि० उत्तमं क्रियते उत्तम–णिच्–कर्म्मणि बा० आय्य नि० णिलोपः। उत्तमीकृते। “उतेदमुत्तमाय्यम्” ऋ० ९, २२, ६, “उत्तमाय्यमुत्तमीकृतम्” भा०।
उत्तमारणी = स्त्री उत्तममृच्छति ऋ–अनि ङीप्। इन्दीवर्य्याम्
उत्तमौजस् = त्रि० उत्तममोजो यस्य। १ उत्कृष्टतेजस्के दशमन्वन्तराधिपमनोः २ पुत्रभेदे पु० हरिवं० “दशमे त्वथ पर्य्याय” इत्युपक्रम्य “मनोः सुतोत्तमौजाश्च दुणिः खञ्जश्च वीर्य्यवान्। शतानीको निरामित्रो वृषसेनो जयद्रथः। मूरिद्युम्नः सुवर्च्चाश्च दश त्वेते मनोः सुताः” ७ अ०। सुतौत्तमौजा इत्यत्र सन्धिरार्षः। द्वापरयुगीये ३ युधामन्युभ्रातरि नृपे पु०। “नेह पश्यामि विबुधा! राधेयममितौजसम्। भ्रातरौ च महात्मानौ युधामन्यूत्तमौजसौ” भा० स्वर्गा० २ अ०। “युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्य्यवान्ः” गीता “उत्तमौजाश्च शल्यश्च कौरवाः कैकयास्तथा” हरिवं ९२ अ०। “उत्तमौजास्तथा शाल्वः कैरलेयश्च कौशिकः” हरिवं० ९९ अ०।
उत्तम्भ = पु० उद् + स्तन्भ–घञ्। १ प्रवृत्तिरोधिकायामनिष्टसाधनतोनिवृत्तौ। (थामा) २ अवलम्बे च।
उत्तम्भन = न० उ + स्तम्भ–ल्युट्। १ अवलम्बने। करणे ल्युट् २ तत्साधने। “वरुणस्योत्तम्भनमसि” यजु० १४, ३३। “समीपेऽन उपस्थाप्योत्तम्भनेन स्तम्भ्नाति” कात्या० ७, ९, २३।
उत्तर = न० उत्तीर्य्यते प्रकृताभियोगोऽनेन उद् + तॄ–अप्, उद्तरप् वा। राजसमीपे वादिकृताभियोगापनोदके उत्तराख्ये १ व्यवहाराङ्गे द्वितीयपादे “प्रश्नश्चोद्यधिया पृच्छा तस्य खण्डनमुत्तरमित्युक्ते” २ दोषभञ्जनवाक्ये। ३ जिज्ञासितविषयावेदके वाक्ये। ४ उदीच्यां दिशि स्त्री। अनन्तरे ५ देशे, ६ काले च पु०। ७ अनन्तरोत्तरदिग्देशकालवृत्तौ त्रि० अंश्विन्यादिषु १२, २१, २६; संख्यकेषु ८ नक्षत्रेषु न० स्त्री। “उत्तरात्रययाम्यरोहिणीरौद्रसार्पपितृभेषु चाग्निभे” “रेवत्युत्तररोहिणी मृगशिरो मूलानुराधा भघा” “त्रीण्युत्तराणि स्वभूः” ज्यो० त०। तत्र वादे उत्तरतदाभासादिलक्षणादि मिता० दर्शितं यथा। “श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ” या०। “श्रुतोभाषार्थोयेन प्रत्यर्थनाऽसौ श्रुतार्थस्तस्योत्तरं पूर्वपक्षादुत्तरत्र भवतीति उत्तरं लेख्यं लेखनीयम्। पूर्वावेदकस्यार्थिनः समीपे उत्तरञ्च यत्पूर्वोक्तस्य निराकरणन्तदुच्यते। यथाह। “पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम्। अव्याख्यागम्यमित्येतदुत्तरन्तद्विदोविदुरिति”। पक्षस्य व्यापकन्निराकरणसमर्थम् सारं न्याय्यं न्यायादनपेतम्, असन्दिग्धं सन्देहरहितम्, अनाकुलं पूर्व्वापराविरुद्धम्, अव्याख्यागम्यं अप्रसिद्धपदयोगेन दुःश्लिष्टविभक्तिसमासाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद्व्याख्येयार्थन्न भवति तत्सदुत्तरम्। तच्चतुर्व्विधम्। सम्प्रतिपत्तिर्मिथ्या प्रत्यवस्कन्दनं पूर्वन्यायश्चेति। यथाह कात्यायनः। “सत्यं मिथ्योत्तरञ्चैव प्रत्यवस्कन्दनं तथा। पूर्व्वन्यायविधिश्चैवमुत्तर स्याच्चतुर्विधमिति”। तत्र सत्योत्तरं यथा रूपकशतम्मह्यन्धारयतीत्युक्ते सत्यन्धारयामीति। यथाह। “साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता”। मिथ्योत्तरन्तु नाहन्धारयामीति। तथा च कात्यायनः। “अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम्। मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः” इति। तच्च मिथ्योत्तरञ्च तुर्विधम्। “मिथ्यैतन्नाभिजानामि तदा तत्र न सन्निधिः। अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधमिति”। प्रत्यवस्कन्दनन्नाम सत्यं गृहीतं प्रदिदत्तं प्रतिग्रहलब्धमिति वा। यथाह नारदः “अर्थिना लेखितोयोऽर्थः प्रत्यर्थी यदि तन्तथा। प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतमिति”। प्राङ्न्यायोत्तरन्तु यत्राभियुक्त एवं ब्रूयादस्मिन्नर्थे अनेनाहमभियुक्तस्तत्र चायं व्ववहारमार्गेण पराजित इति। उक्तञ्च कात्यायनेन “आचारेणावसन्नोऽपि पुनर्लेखयते यदि। सोऽभिधेयोजितः पूर्व्वं प्राङ्न्यायश्च स उच्यते” इति। एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहितानाम् उत्तरवदभासमानानामुत्तराभासत्वमर्थसिद्धं स्पष्टीकृतञ्च स्मृत्यन्तरे। “सन्दिग्धमन्यत् प्रकृतादत्यल्पमतिमूरि च। पक्षैकदेशव्याप्यन्यत्तथा नैवोत्तरम्भवेत्। यद्व्यस्तपदमव्यापि निगूढार्थन्तथाकुलम्। व्याख्यागम्यमसारञ्च नोश्तरं स्वार्थसिद्धये” इति। तत्र सन्दिग्धम् सुवर्णशतमनेन गृहीतमिति उक्ते सत्यं गृहीतम्, सुवर्णशतम्माषशतं वेति। प्रकृतादन्यत् यथा सुवर्णशताद्यभियोगे पणशतन्धारयामीति। अत्यल्पं सुवर्णशताभियोगे पञ्च धारयामीति। अतिमूरि सुवर्णशताभियोगे द्विशतन्धारयामीति। पक्षैकदेशव्यापि हिरण्यवस्त्राद्यभियोगे हिरण्यं गृहीतन्नान्यदिति। व्यस्तपदम्। ऋणादाना भियोगे पदान्तरेणोत्तरम्। यथा सुवर्णशताभियोगे अनेनाहन्ताडित इति। अव्यापि देशस्थानादिविशेषणाव्यापि। यथा मध्यदेशे वाराणस्यां पूर्ब्ब स्यां दिशि क्षेत्रमनेनापहृतमिति पूर्व्वपक्षे लिखिते क्षेत्रमपहृतमिति। निगूढार्थं यथा सुवर्णशताभियोगे किमहमेवास्मै धारयामीत्यत्र ध्वनिना प्राड्विवाकः सभ्योवाथीं वान्यस्मै धारयतीति निगूढार्थम् आकुलं पूर्व्वापरविरुद्धम्। यथा सुवर्णशताभियोगे कृते सत्यं गृहीतन्न धारयामीति। व्याख्यागम्यम् दुःश्लिष्टविभक्तिसमासाध्याहाराभिधानेन अन्यदेशभाषाभिधानेन वा। यथा सुवर्ण्णशतविषये पितॄणामभि- योगे गृहीतं शतं वचनात् सुवर्ण्णानां पितुर्न जानामी ति। अत्र पितुर्वचनात् सुवर्ण्णानां शतं गृहीतमिति न जानामीति। अन्याय्यं न्यायविरुद्धम्। यथा सुवर्णशतमनेन वृद्ध्या गृहीतं वृद्धिरेव दत्ता न मूलमिति अभियोगे सत्यं वृद्धिर्दत्ता न मूलं गृहीतमिति। उत्तरमित्येकवचननिर्देशादुत्तराणां सङ्करोनिरस्तः। यथाह कात्यायनः। “पक्षैकदेशे यत्सत्यमेकदेशे च कारणम्। मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरमिति”। अनुत्तरत्वे कारणन्तेनैवोक्तम्। “नचैकस्मिन् विवादे तु क्रिया स्याद्वादिनोर्द्वयोः। नचार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयमिति”। मिथ्याकारणोत्तरयोः सङ्करेऽर्थिप्रत्यर्थिनोर्द्वयोः क्रिया–प्राप्नोति। “मिथ्या क्रिया पूर्व्ववादे कारणे प्रतिवादिनीति स्मरणात्। तदुभयमेकस्मिन् व्यवहारे विरुद्धम्। यथा सुवर्णशतं रूपकशतं चानेन गृहीतमित्यभियीप सुवर्ण्णं न गृहीतं रूपकशतं गृहीतं प्रतिदत्तञ्चेति। कारण प्राङ्न्यायसङ्करे तु प्रत्यर्थिन एव क्रियाद्वयम्। “प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियामिति”। यथा सुवर्णं गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेण पराजित इति। अत्र च प्राङ्न्याये जयपत्रेण वा प्राङ् न्यायदर्शिभिर्वा भावयितव्यम्। कारणोत्तरे तु साक्षिलेख्यादिभिर्भावयितव्यमिति विरोधः। एवमुत्तरत्रय सङ्करेऽपि द्रष्टव्यम्। यथाऽनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्णं गृहीतं प्रतिदत्तञ्च रूपशतं तु न गृहीतं वस्त्वविषये पूर्वन्यायेन पराजित इति। एवञ्चतुःसङ्करेऽपि। एतेषाञ्चानुत्तरत्वं योनपद्येन। तस्य तस्यांशस्य तेन तेन विनाऽ सिद्धेः क्रमेणोत्तरत्वमेव। क्रमश्चार्थिनः प्रत्यर्थिनः सभ्यानाञ्चेच्छया भवति यत्र पुनरुभयोः सङ्करे यस्य प्रभूतार्षबिषयत्वन्तत्क्रियोपादानेन पूर्ब्बं व्यवहारः प्रवर्त्तवितव्यः पश्चादल्पविषकीत्तरोपादानेन व्यवहारो द्रष्टव्यः। यत्र च सम्प्रतिपत्तेरुत्तरान्तरस्य सङ्करस्तत्रोत्तरान्तरीपादानेन व्यवहारो द्रष्टव्यः। सम्प्रतिपत्तौ क्रियाभावात्। यथाहारीतेन “मिथ्यीत्तरङ्कारणञ्च स्यातामेकत्र चेदुभे। सत्यं वापि सहान्येन तत्र ग्राह्यं किमुत्तरम्” इत्युक्त्वोक्तम्। “यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम्। उत्तरन्तत्र तज्ज्ञेयमसङ्कीर्णमतोऽन्यथा”। सङ्कीर्ण्णम्भवतीति शेषः शेषायेक्षया ऐच्छिकः क्रमो भवतीत्यर्थः। तत्र प्रमूतार्थं यथाऽनेन सुवर्ण्णं रूपकशतं वस्त्राणि च गृहीतानि इत्यभियोगे सत्यं सुवर्णं गृहीतं रूपकशतञ्च न गृहीतं वस्त्राणि तु गृहीतानि प्रतिदत्तानि चेति अत्र मिथ्योत्तरस्य प्रमूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्त्तयितव्यः। पश्चाद्वस्त्रविषयो व्यवहारः। एव मिथ्याप्राङ्न्यायसङ्गरे कारणप्राङ्न्यायसङ्करे च योजनीयम्। तथा तस्मिन्नेवाभियोगे सत्यं सुवर्णं रूपकशतञ्च गृहीत न्दास्यामि वस्त्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा। वस्त्रविषये पूर्ब्बं पराजित इति वोत्तरे सम्प्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियामावान्मिथ्या द्युत्तरक्रियामादायं व्यवहारः प्रवर्त्तयितव्यः। यत्र तु मिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वम्। यथा शृङ्गग्राहितया कश्चिद्वदति इयङ्गौर्मदीया अमुकस्मिन् काले नष्टा अथास्य गृहे दृष्टेति। अन्यस्तु मिथ्यैतदेतत्प्रदर्शितकालात् पूर्ब्बमेवास्मद्गृहे स्थिता मम गृहे जाता चेति वदति। इदन्तावत् पक्षनिराकरणसमर्थत्वान्नानुत्तरम्। नापि मिथ्यैव कारणोपन्यासात्। नापि कारणम्। एकदेशस्याभ्युपगमाभावात्। तस्मात् सकारणं मिथ्योत्तरमिदम्”। अत्र कश्चिद्विशेषो व्यव० त० दर्शितः यया “कात्यायनः। “सद्यः कृतेषु कार्य्येषु सद्यएव विवादयेत्। कालातीतेषु वा कालं दद्यात् प्रत्यर्थिने प्रभुः”। वादिनोक्तस्य साध्यस्य प्रती पमर्थयते इति प्रत्यर्थी। नारदः। “गहनत्वाद्धि वादानामसामर्थ्यात् स्मृतेरपि। ऋणादिषु हरेत् कालं कामन्तत्त्वबुभुत्सया” दा०। वृहस्पतिः। “यदा त्वेवंविधः पक्षः कल्पितः पूर्व्ववादिना। दद्यात् तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम्”। सम्बन्धमुयुक्तम् अन्यथा अन्यवादित्वेन भङ्गप्रसङ्गात्। “अन्यवादी क्रियाद्वेषी तोपस्थायी निरुत्तरः। आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः”। प्रपलायी त्रिपक्षेण मीनकृत् सप्तभिर्दिनैः। क्रियाद्वेषी तु मासेन साक्षिभिन्नस्तु तत्क्षणात्” इति नारदोक्तेः क्रिया लेख्यादिका, साक्षिभिन्नः पराजितः। वादिनोक्तस्य साध्यस्य प्रतीपं वदतीति प्रतिवादी उत्तीर्य्यते निस्तीर्य्यते प्रकृताभियोगोऽनेनेति उत्तरम्। उत्तरस्वरूपं तद्भेदांश्चाह नारदः। “पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम्। अव्याख्यागम्यमित्येवमुत्तरं तद्विदोविदुः। मिथ्यासंप्रतिपत्तित्वं प्रत्यवस्कन्दनन्तथा। प्राङ्त्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभि। अभि- युक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम्। मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः”। पक्षस्य माषार्थस्य व्यापकम् आच्छादम् अभितोगप्रतिकुलमिति यावत्। अतएव “पूर्ब्बपक्षार्थसम्बन्धं प्रतिपक्षं निवेदयेदि” त्युक्तम्। न च विप्रतिपत्त्या न्यायोऽर्थमागतस्य धारयसीत्यभियुक्तस्य धारयामीति संप्रसिपत्तेः कथमुत्तरत्वम् अभियोगा प्रतिकुलत्वादिति वाच्यम् भाषावादिनोमूर्खत्वेनापटुकरणतया वा कदाचिद्भाषातिवादादेवायं हीयते इति भाषाविमर्षपर्य्यन्तं विप्रतिपन्नस्याप्युत्तरवादिनोभाषार्थं सम्यगवगम्य तन्निषेधार्थं सम्यगुत्तरासम्भवात् विद्वत्सभा यां चासत्यवचनमत्यन्ताधर्म्मकारकम्। परोक्तिपराजये च दण्ड्यत्वं वादिना च वैरमित्यादि प्रतिसन्दधतः सम्प्रतिपत्तेरुत्तरत्वं सम्भवत्येव। एवम् एतेभ्य एवानिस्तारात् साध्यत्वे नोपदिष्टस्य पक्षस्य सिद्धत्वेनोपन्यासेन साध्यत्वनिवारणात् सिद्धसाधनेनापि वादिनः प्रत्यवस्थानाच्चोत्तरत्वं सम्प्रतिपत्तेः सिद्ध्वमिति सारं प्रकृतोपयोगि अनाकुलं पूर्व्वापरविरोधशून्यं अव्याख्यागम्यमध्याहारादिकं विनैव प्रतीतम् अभियोगस्य अभियुज्यते इत्यभियोगः सहेतुकं साध्यं तस्यापह्नवमित्यर्थः”। “उत्तराभासमाह कात्यायनः। “प्रकृतेन त्वसम्बन्धमत्यल्पमतिभूरि च। पक्षैकदेशव्याप्येवं तच्च नैवोत्तरं भवेत्। अस्तव्यस्तपदव्यापि निगूढार्थं तथाकुलम्। व्याख्यागम्यमसारञ्च नोत्तरं शस्यते बुधैः”। अस्तव्यस्तपदव्यापि अनन्वितार्थपदव्याप्तमिति व्यवहारतिलके भवदेवभट्टाः। सिथ्योत्तरभेदमाह पुनर्व्यासनारदौ। “मिथ्यैतन्नाभिजानामि मम तत्र न सन्निधिः। अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधन्”। मिथ्यैतदितिशब्दतोनाभिजानामीव्यादिकमर्थतोऽपह्नवः। तथा च कात्यायनः। “श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति। अर्थतः शब्दतोवापि मिथ्या तज्ज्ञेयमुत्तरम्”। त्वं मह्यं धारयसीति प्रतिज्ञायां न गृहीतमिति शब्दतः। कालविशेषगर्भायां तस्यां सत्यां तदानाहं जात इति अर्थतः। देशकालविशेषगर्भायां तदा तत्र नाहमासम् इत्यप्यर्थतः। देशादिमत्यां तच्छून्यायां वा न जानामीत्यर्थतएव योम्यास्मरणेनार्थतस्तदग्रहणप्रतिपादनात्। अत्र चरमत्रयं ग्रहणावस्कन्दनमुखेन ग्रहणाभावप्रतिपादकं सापदेशमिथ्योत्तरमात्रम् आद्यं मिथ्योत्तरमात्रम्। तच्च कारणोत्तरं त्रिविधं वलवत्तुल्यवलं दुर्वलञ्च तत्र बलवदुत्तरं यथा त्वत्तः तं गृहीत- मिति सत्यं किन्तु परिशोधितमिति अत्रोत्तरवादिन एव क्रियानिर्देशः। तथा च नारदः। “आधर्य्यं पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत्। विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः”। आधर्य्यं दुर्बलत्वं पूर्व्वपक्षस्य। ततश्च स्थापकसाध्यस्य धार्य्यमाणत्वस्य ध्वंसकारणं निर्य्यातनादि तद्रूपमुत्तरं कारणोत्तरम्। अतएव मिथ्योत्तरादस्य भेदः तद्ध्वि धार्य्यमाणत्वस्यात्यन्ताभावप्रयोजकमग्रहणरूपं न तु ध्वंसरूपम्। तुल्यवलकारणोत्तरं यथा मदीयेयं भूमिः क्रमागतत्वादिति वाद्युक्ते मदीयेयं भूमिः क्रमागतत्बादिति प्रतिवादिना तथीत्तरमिति तत्र पूर्ववादिनः साक्ष्युपन्यासः। तदसामर्थ्ये प्रतिवादिनः। तथा च याज्ञवल्क्यः। “साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः। पूर्वपक्षेऽधरीमूते भवन्त्युत्तरवादिनः”। दुर्बलकारणोत्तरं यथा ममेयं भूः क्रमागतत्वादिति वाद्युक्ते ममेयं भूर्दशवर्षभुज्यमानत्वादिति प्रत्युत्तरम्” व्य० त० रघु०। “शोधयेत् पूर्ब्बवादं तु यावन्नोत्तरदर्शनम्। अवष्टब्धस्यीत्तरेण निवृत्तं शोधनं भवेत्” नार०। ९ न्यायावयवभेदे न०। “विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्। निर्ण्णयश्चेति सिद्धान्ताः शास्त्रेऽधिकरणं स्मृतम्” मीमांसा। तच्च सिद्धान्तानुकूलतर्कोपन्यासरूपम्। १० प्रतिवचने न० “प्रचक्रमे च प्रतिवक्तुमुत्तरम्” रघु०। ११ उपरिस्थे, “समे देशे प्रतिष्ठाप्य चेलाजिनकुशोत्तरम्” गीता। “मृदुप्रवालोत्तरपुष्पशय्याम्” रघुः १२ ऊर्द्ध्वमागे “तद्वाहनादवनतोत्तरकायमीषत्” रघुः “दूर्वाङ्कुरयवप्लत्वक्षत्वगभिन्नपुटोत्तरः इति रघुः। १३ वाममागे। “पितृपात्रे निधायार्घं न्यब्जमुत्तरतोन्यसेत्” मत्स्य पु०। “न्यसेदित्यत्राख्यातोपस्थापितकर्तुर्वामपार्श्वे न्यासः कर्तव्यः” श्रा० त० रघु०। तस्य तदर्थत्वे उदा० तत्रैव यथा “तस्माद्यस्य दक्षिणतो लक्ष्म भवति तं पुण्यलक्ष्मीकमित्याचक्षते उत्तरतः स्त्रियाः उत्तरायणा हि स्त्रीति” शतपथश्रुतिः। “उत्तरे चास्य सौवर्ण्णं लक्ष्म पार्श्वे भविष्यति” भारतम् दिशि “अस्त्युत्तरस्यां दिशि देवतात्मात्मा” कुमा०। “सर्वेषाञ्चैव वर्षाणां मेरुत्तरतः स्थितः” पृ० अत्र वृत्तौ पुंवद्भावः। दिग्दिशकालवर्त्तिपरत्वेऽपि अस्य स्वाभिधेया वधिनियमरूपव्यवस्थावाचित्वात् सर्वनामतया तत्कार्य्यम् उत्तरे ग्रामाः उत्तरस्यै नगर्य्यैः उत्तरस्मिन् दिने, संज्ञायां तु न सर्वनामकार्य्यम् उत्तराः कुरवः। तत्रोत्त रकालवृत्तौ “ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोदुत्सवः” रघुः “सखोभिरस्रोत्तरमीक्षित्ममिमाम्” कुमा०। अवधिश्च द्विविधःदशिकः कालिकश्च तत्र दैशिकः “समुद्रस्योत्तरे तीरे जम्भला नाम राक्षसी” गर्भप्रसवमन्त्रः। अत्र दिग्देशावधिवाचित्वे उद् + ऊर्द्ध्वार्थे तरप्। तथा हि लङ्कावधिमेरुपर्य्यन्तदेशानाम् भूवलये क्रमश उन्नतत्वात् तत्सन्निहितदेशस्य उन्नत्वादुत्तरत्वम् “स्वापेक्षया मेरुसन्निहितत्वमेव उत्तरत्वमिति” मुक्ता०। अतएव तद्देशस्योच्चत्वादेव च क्रमशस्तत्र उत्तरध्रुवस्यौन्नत्यम्” सि० शि० उक्तम् “निरक्षदेशे क्षितिमण्डलोपगौ ध्रवौ नरः पश्यति दक्षिणोत्तरौ। तदाश्रितं स्वे जजयन्त्रवत्तथा भ्रमद्भचक्रं निजमस्तकोपरि। उदग्दिशं याति नरो यथा यथा तथा तथा तन्नतमृक्षमण्डलम्। उदकंध्रुव पश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पनांशकाः” तद्दिशः क्रमशः उच्चत्वाच्च दक्षिणस्या अधस्त्वम्। अतएव तद्दिशोऽवाचीत्वम्। तद्दिक्कृतदेशस्यापि उत्तरदिक्स्थत्वेनोत्तरत्वम्। कालिकस्य उत्तरत्वं तु स्वापेक्षया परत्वम् तच्च स्वापेक्षयाऽल्पसूर्य्यक्रियासामानाधिकरण्यम्। सूर्य्यक्रिययैव स्वण्डकालव्यवहारात् तत्र प्राग्वर्त्तिकालवृत्तेः वहलसूर्य्यक्रियासामानाधिकरण्यात् तथात्वम्। तथा च एतादृशार्थपरत्वे उदः उत्क्रान्ति प्रकर्षे तरप्। उत्तरकालवाचित्वेऽपि अव्यवहिते एवास्य वृत्तिरौत्सगिकी लक्षणया अधिककालोत्तरत्वमपि प्रताय्यते। तेन स्याव्यवहितोत्तरक्षणवृत्तिकत्वमित्यादिप्रयोगोद्रष्टव्यः। अधिकार्थे तु उदः उत्कर्षार्थत्वमिति विवेकः। १४ प्रधाने “धर्मोत्तरं मध्यममाश्रयन्ते” रघुः “कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः” भा० अनु० १६३ अ० १५ अधिके “देवीं तु मनसा ध्यात्वा शतमष्टोत्तरं जपेत्” तन्त्रम्। “सप्तोत्तरं मर्मशतं द्वे च सन्धिगते तथा” या० स्मृ०। उत्तीर्य्यतेऽस्मात् संसारः अपादाने अप्। १६ विष्णौ पु०। “उत्तरोगोपतिर्गोप्ता” विष्णुस० “जन्मसंसारबन्धनादुत्तरन्त्यत उत्तरः विश्वस्मात् वा उत्कृष्टः–भा०। १७ शिवे पु० तस्यापि तथात्वात्। भावे अप्। १८ उत्तरणे उल्लङ्घने। १९ विराटनृपस्य पुत्रे पु० स च भूमिञ्जयापरनामा। २० तत्कन्यायां स्त्री तत्कथा यथा भा० विरा० प० ३५ १३६ अ०। “दृष्ट्वा भूमिञ्जयं नाम पुत्रं मत्स्यस्य मानिनम्” इत्युपक्रम्य “उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः। उत्तरं ब्रूहि कल्याणि। क्षिप्रं मद्वचनादपि”। “उत्तरायाः प्रमुखतः सर्वं जान- न्नरिन्दमः” “अथोत्तरा च कन्याश्च स ख्यस्तमब्रुव~ स्तदा” “यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान्” इति च। उत्तरा च अभिमन्योः पत्नी तत्कथापि तत्रैव ७१, अ०। “उत्तरां प्रतिगृह्णातु सव्यपाची धनञ्जयः” इति विराटेनोक्ते “प्रतिगृह्णाम्यहं राजन्! स्नुषां दुहितरं तव” “स्नुषार्थे उत्तरां राजन्! प्रतिगृह्णामि ते सुताम्” “तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे धनञ्जयः। सौभद्रस्यानवद्याङ्गी विराटतनयां तदा। तत्रातिष्ठन् महाराजो रूपमिन्द्रस्य घारयन्। स्नुषां तां प्रतिजग्राह कुन्तीपुत्रो युधिठिरः। प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्द्दनम्। विवाहं कारयामास सौभद्रस्य महात्मनः” ७२ अ०। २१ अपृष्टकथने “कृतात्र देवी वचनाधिकारिणी त्वमुत्तरं दासि! ददासि का सती” नैष०। उत्तरकालभावित्वादुत्तरत्वाच्चास्य तथात्वमजिज्ञासिताधानतया चास्य निग्रह स्थानत्वं तदभिप्रायेण उक्तश्लोकेन निग्रहार्थकाक्षेपः कृतः।
उत्तरकाण्ड = न० वाल्मीकि रामायणान्तर्गते सप्तमे काण्डे।
उत्तरकाल = पु० कर्म्म०। भविष्यत्काले क्रमिकर्म्मणा तस्य गौणकालत्वमाह “एवमागामियागीयमुख्यकालादघस्तनः। स्वकालादुत्तरोगौणः कालः पूर्वस्य कर्म्मणः” हरिहरः।
उत्तरकुरु = पु० नववर्षात्मकस्य जम्बुद्वीपस्य वर्षभेदे। वर्षाणां संस्थितिः सि० शि० उक्ता “लङ्कादेशाद्धिमगिरिरुदघेमकूटोऽथ तस्मात् तस्माच्चान्यो निषध इति ते सिन्धुपर्य्यन्तदैर्घ्याः। एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान्। भारतवर्षभिदं ह्युदगस्मात् किन्नरवर्षमतो हरिवर्षम्। सिद्धपुराच्च तथा कुरु, तस्माद्विद्धि हिरण्मयरम्यकवर्षे। माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल गन्धमादनः। नीलशैलनिषधावधी च तावन्तरालमनयोरिलावृतम्। माल्यवज्जलधिमध्यवर्ति यत् तत् तु भद्रतुरगं जगुर्बुधाः। गन्धशैलजलराशिमध्यगं केतुमालकमिलाकलाविदः। निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमावृतमाबभौ। अमरकेलिकुलायसमाकुलं रुचिरकाञ्चनचित्रमहीतलम्” “अत्र भूगोलस्यार्धमुत्तरं जम्बूद्वीपम्। तस्य ज्ञाराब्धेश्च सन्धिर्निरक्षदेशः। तत्र लङ्का रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं भूपरिधिचतुर्थांशान्तरं किल कथितम्। तेभ्यः पुरेभ्यो यस्यां दिशि मेरुः सोत्तरा। अतो लङ्काया उत्तरतो हिमवान् नाम गिरिः पूर्व्वापरसिन्धुपर्य्यन्तदैर्घ्योऽस्ति। तस्योत्तरे हेमकूटः। सोऽपि समुद्रपर्य्यन्तदैर्घ्यः। तथा तदुत्तरे निषधः। तेषामन्तरे यथोत्तरम् भारतकिन्नरहरिवर्षाणि। एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः। ततः श्वेतगिरिः। ततो नीलगिरिरिति। तेऽपि सिन्धुपर्य्यन्तदैर्घ्याः। तेवामन्तरे च वर्षाणि। तत्रादौ कुरुवर्षम्। तदुत्तरे हिरण्मयम्। ततो रम्यकमिति। अथ यमकोटेरुत्तरतो माल्यवान् नाम गिरिः। स तु निषधनीलपर्य्यन्तदैर्घ्यः। तस्य जलधेश्च मध्ये भद्राश्वं वर्षम्। एवं रोमकादुत्तरतो गन्धमादनः तस्य जलधेश्च मध्ये केतुमालम्। एवं निषधनीलमाल्यवद्गन्धमादनैरावृतमिलावृतं नाम नवमखण्डम्। सा खर्गभूमिः। अतस्तत्र देवक्रीडागृहाणि” प्रमि०। तत्र प्रधाना नदी भद्राख्या “चक्षुश्च केतु मालञ्च भद्राख्या चोत्तरान् कुरुन्”। सि० शि०। भा० उ० प० ७ अ० तद्वर्षं वर्ण्णितं यथा “दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे। उत्तराः कुरवो राजन् पुण्याः सिद्धनिषेविताः। तत्र वृक्षा मधुफला नित्यपुष्पफलोपमाः। पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च। सर्व्वकामफलास्तत्र केचिद् वृक्षा जनाधिप!। अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप। ये क्षरन्ति सदा क्षीरं षड्रसञ्चामृतोपमम्। वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च। सर्व्वा मणिमयी भूमिः सूक्ष्मकाञ्चनबालुका। मणिरत्ननिभं रम्यं वज्रवैदूर्य्यसन्निभम्। भूभागं दृश्यते तत्र पद्मरागसमप्रभम्। सर्व्वर्त्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप। पुष्करिण्यः शुभास्तत्र सुखस्पर्शा मनोहराः। देवलोकच्युताः सर्व्वे जायन्ते तत्र मानवाः। शुक्लाभिजनसम्पन्नाः सर्व्वे सुप्रियदर्शनाः। मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः। तेषान्ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम्। मिथुनं जायते काले समन्तत्र प्रवर्द्धते। तुल्यरूपगुणोपेतं समवेशं तथैव च। एवमेवानुरूपञ्च चक्रवाकसमं प्रभी!। निरामयाश्च ते लोका नित्यं मुदितमानसाः। दशवर्षसहस्राणि दशवर्षशतानि च। जीवन्ति ते महाराज! न चान्योऽन्यं जहत्युत। भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा भयानकाः। तान्निर्हरन्तीह मृतान् दरीषु प्रक्षिपन्ति च। उत्तराः कुरवो राजन्! व्याख्यातास्ते समासतः”। तेनास्य पुं स्त्वं क्लीवात्वञ्च उक्तवाक्येभ्यः। भा० स० २७३ अ० अर्ज्जनोत्तरदिग्विजये “इदं पुरं यः प्रविशेद्ध्रवं न स भवेन्नरः। प्रीयामहे त्वया वीर! पर्य्याप्तो विजयस्तव। न चात्र किञ्चिज्जेतव्यम- र्ज्जुनात्र प्रदृश्यते। उत्तराः कुरवोह्येते नात्र युद्धं प्रवर्त्तते। प्रविष्टोऽपि हि कौन्तेय! नेह द्रक्ष्यसि किञ्चन। नहि मानुषदेहेन शक्यमत्राभिवीक्षितुम्। अथेह पुरुषव्याघ्र। किञ्चिदन्यच्चिकीर्षसि। तद्ब्रूहि च करिष्यामो वचनात्तव भारत!। ततस्तानब्रवीद्राजन्नर्जुनः प्रहसन्निव। पार्थिवत्व चिर्कर्षामि धर्म्मराजस्य धीमतः। न प्रवेक्ष्यामि वो देशं विरुद्धं यदि मानुषैः। युधिष्ठिराय यत् किञ्चित् करपण्यं प्रदीयताम्”। “ततोदिव्यानि वस्त्राणि दिव्यान्याभरणानि च। क्षौमाजिनानि दिव्यानि तस्य ते प्रददुः करम्”। “तेऽवतीर्य्य बहून् देशानुत्तरांश्च कुरुनपि”। भा० व० १४५ अ०। “विजित्य यः प्राज्यमय च्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः” किरा०।
उत्तरकोशला = स्त्री कर्म्म०। अयोध्यानाम्न्यां नगर्य्याम्। “यदुपतेः क्व गता मथुरा पुरी रघुपतेः क्व गतोत्तरकोशला। इति विचिन्त्य कुरुष्व मनः स्थिरं न सदिदं जगदित्यवधारय” उद्भटः।
उत्तरक्रिया = स्त्री कर्म्म०। उत्तरकालकर्त्तव्ये कर्म्मणि “सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया। आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा” या० स्मृ०। “एकमेव क्षेत्रमेकस्याधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याप्याधाय किमपि गृह्णाति तत्र पूर्वस्यैव तद्भवति नोत्तरस्य एवं प्रतिग्रहे क्रये च” मिता०। २ वार्षिके पितृकृत्ये च। “प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु। क्रियन्ते याः क्रिया पित्र्याः प्रोच्यन्ते ता नृपोत्तराः”। विष्णुपु०। ३ अन्तिमक्रियायाञ्च।
उत्तरङ्ग = न० उत्तरमङ्गम् कर्म्म० शकन्ध्वा०। १ द्वारोर्द्धस्थदारुणि। २ प्रा० ब०। उद्गततरङ्गे त्रि०। “भागीरर्थी शोणैवोत्तरङ्गः” रघुः “अपामिवाधारमनुत्तरङ्गम्” कुमा०।
उत्तरच्छद = पु० कर्म्म०। शय्याया उपर्य्यास्तरणवस्त्रे। “शय्योत्तरच्छदविमर्दकृशाङ्गरागम्”। “सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः” रघुः।
उत्तरज्योतिष = पु० प्रतीचीस्थदेशभेदे भारते स० ३१ अ० नकुलप्रतीची विजये। “कृत्स्नं पञ्चनदञ्चैव तथैवामर पर्वतम्। उत्तरज्योतिषञ्चैव तथा दिव्यकटं पुरम्। द्वारपालञ्च तरसा वशे चक्रे महाद्युतिः। रामठान् हारहुणाश्च प्रतीच्याश्चैव ये नृपाः”।
उत्तरतन्त्र = न० सुश्रुतान्तर्गते ग्रन्थभेदे। “इदानीन्तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तममिति” सुश्रु०।
उत्तरतस् = अव्य० उत्तर + प्रथमापञ्चमीसप्तम्यर्थेषु तसिल्। उत्तरस्मिन् उत्तरस्मात् उत्तर इत्यर्थे। त्रल् उत्तरत्राप्यत्र अव्य० ताभ्यां भवार्थे त्यप्। उत्तरतस्त्य डत्तरत्रत्य तद्भवे त्रि०।
उत्तरदायक = त्रि० उत्तरं ददाति दा + ण्वुल्। १ प्रत्युत्तदायिनि। उत्तरेण वाक्येन दायति शोधयति निजदोषम् दैप्–शोधे–ण्वुल्। स्वामिना स्वकार्य्यप्रमादकथनेतद्दोषस्यादोषत्वख्यापनेन निजदोषशोषके भृत्यादौ। “परपुंसि रता नारी भृत्यश्चोत्तरदायकः। ससर्पे च गृहे वासः मृत्युरेव न संशयः” चाण०।
उत्तरदिक्काल = पु० ७ त०। “रवावृत्तरतः कालः सोमे वायव्यभागके। भौमे तु पश्चिमे भागे बुधे नैरृतकोणके। जीवे च याम्यदिग्भागे शुक्रे आग्नेयकोणके। शनौ तु पूर्वदिग्भागे कालचक्रं प्रकीर्त्तितम्” रत्नसारोक्ते रविवारे उत्तरदिग्वर्त्तिकालचक्रे। रात्रौ तु वैपरीत्यम् उत्तरदिक्पाशशब्दे दृश्यम् अन्यदिक्कालोऽप्युक्तदिशाज्ञेयः
उत्तरदिक्पाश = पु० ७ त०। “रवौ तु दक्षिणे पाशः सोमे आग्नेयकोणके। भौमे तु पूर्व्वदिग्मागे बुधे ईशानकोणके। जीवे चोत्तरदिग्भागे शुक्रे वायव्यकोणके। शनौ तु पश्चिमे भागे पाशचक्रं प्रकीर्त्तितम्। रात्रावेतौ वैपरीत्यात् पाशकालौ यथोदितौ” रत्नसा० उक्ते वृहस्पतिवारे उत्तरदिशि यात्रायुद्धादिनिषेधोपयोगिनि पाशचक्रे। एवमन्यदिक्ष्वप्युक्तदिशा पाशोबोध्यः।
उत्तरदिक्शूल = त्रि० उत्तरदिशि शुलमिवास्त्यस्य अच् “ज्येष्ठा पूर्ब्बा भाद्रपदा रोहिण्युत्तरफाल्गुनी। पूर्ब्बादिषु क्रमाच्छूलाः यात्रादौ मरणप्रदाः। शूलाख्यानि च धिष्ण्या शूलसंज्ञाश्च वासराः। यायिनां मृत्युदाः शीघ्रमथ वा चार्थनाशकाः” भरद्वाजोक्ते उत्तरदिशि यात्रादौ वर्जै १ उत्तरफल्गुनीनक्षत्रे २ बुधवारे च दिक्शूलवारस्तु पृष्ठदिगीशवारः दिगीशाश्च उत्तरदिगीशशब्दे वक्ष्यन्ते। शूला इत्यत्र स्त्रीत्वं ताराविशेषणत्वात्।
उत्तरदिगीश = पु० ६ त०। “इन्द्रोवह्निपितृपतिर्नैरृतोवरुणोमरुत्। कुवेर ईशः पतयः पूर्व्वादीनां दिशां क्रमात्” इत्युक्ते १ कुवेरे उत्तरदिक्पालादयोऽप्यत्र। “कुवेरगुप्तां दिशमुष्णरश्मौ” कुमारे “कौवेरदिग्भागमपास्य मार्गम्” माघे च उत्तरदिशः कुवेरसम्बन्धित्वमुक्तम् “सूर्य्यः शुक्रः क्षमापुत्रः सैहिकेयः शनिःशशी। सौम्यस्त्रिदशमन्त्री च प्राच्यादिकदिगीश्वराः” इत्युक्ते २ बुधे एतच्च “दिगीशाहे शुभा यात्रा पृष्ठाहे मरणं घ्रुवम्” इत्युक्तेः उत्तरदिशः पृष्ठीभतदक्षिणस्यां बुधवारे यात्रानिषेघाय “प्राच्यादिककुभां नाथाः यथासंख्यं प्रदक्षिणम्। मेषाद्याः राशयो ज्ञेया स्त्रिरावृत्तपरिभ्रमात् इत्युक्तेषु ३ कर्कटवृश्चिकमीनेषु राशिषु च तेषु लम्बेषु तत्स्थे चन्द्रे च उत्तरदिग्गमनं शस्तमित्यपि बोध्यम्।
उत्तरदिग्द्वार = न० उत्तरदिशि द्वारं मुखमस्य। “प्राच्यादिषु चतुर्दिक्षु सप्तसप्तानलर्क्षतः” ज्यो० उक्तसाभिजित्काष्टाविंशतिनक्षत्रमध्ये २३, २४, २५, २६, २७, १, २। नक्षत्रेषु तानि च यात्रादिषु तत्र दिशि शस्तानि।
उत्तरदिग्बलिन् = पु० उत्तरस्यां दिशि बली। “प्राच्यां सौम्य सुराचार्य्यौ याम्यां भास्करमूभिजौ। प्रत्यक् सौरिरुदीच्यान्तु सितेन्दू दिग्बलान्वितौ” ज्यो० त० उक्ते १ शुक्रे २ चन्द्रे च।
उत्तरपक्ष = पु० कर्म्म०। वादे पूर्ब्बपक्षस्य मर्दनक्षमे सिद्धान्तपक्षे। “प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम्” माघः। २ उत्तरविकल्पे ३ कृष्णपक्षे च शुक्लपक्षस्यैव मासारम्भकत्वात् कृष्णपक्षस्योत्तरत्वात् तथात्वम्।
उत्तरपट = पु० कर्म्म०। १ उत्तरीये। ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथः” भा० १३६ अ०। २ शय्योत्तरच्छदे च
उत्तरपथ = पु० उत्तरः पन्थाः अच् समा०। १ उत्तरस्थिते २ अव्यवहिते च पथि। उत्तरः उत्तरायणचिह्नितः पन्थाः। ३ देवयाने पथि येन हि अर्चिरादिमार्गेण विद्यावन्तो ब्रह्मलोकं गच्छन्ति तादृशे मार्गे। तत्र मार्गे च ये तदभिमानिनो देवास्ते अर्च्चिरादिशब्दे ३६४ पृष्ठे उक्ताः तेषाञ्च यथा आतिवाहिकत्वम् तथा आतिवाहिक शब्दे ६५१ पृष्ठे उक्तम्। “उत्तरपथेनाहृतञ्च” पा०। ठञ्। औत्तरपथिक तत्पथेनाहृते त्रि०।
उत्तरपथिक = त्रि० पन्थानं गच्छति “पथः ष्कन्” पा०पथिकः उत्तरः तद्देशभवः पथिकः। उत्तरदेशभवे १ पथिके स्त्रियां ङीष्।
उत्तरपद = न० उत्तरमुत्तरवर्त्ति पदम्। १ समासचरमावयवपदे २ स्वीत्तरवर्त्तिपदे च। “एकाजुत्तरपदे णः” पा०। ३ समासयोग्ये पदे च। “प्राधान्यं हि विधेयत्र प्रतिषेधेऽप्रधानता। पर्त्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्” मीमांसा। भवति च “यजतिषु येयजामहं कुर्य्यात् नानुयाजेषु” इत्यत्र नञः समासयोग्यानुयाजेन साहित्यात् पर्य्यदास परता तथा रात्रौ श्राद्धं न कुर्वीतेत्यादौ नञो रात्र्या समासयोग्यत्वात्तथात्वम् “अष्टम्यां मांसं नाश्नीयादित्यत्र तु क्रियापदयोगेन तस्यंसमासयोग्यत्वाभावेन न तत्रोत्तरपदयोग इति न पर्य्युदासपरता किन्तु प्रसह्यप्रतिषेधार्थकता “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसह्यप्रतिषेधोऽत्र क्रियया सह यत्र नञ्” इति मीमासकोक्तेः। “पदोत्तरपदात्” वार्त्ति० उत्तरपदमधीते वेत्ति वेत्यर्थे इकन्। उत्तरपदिक तदध्येतरि तद्वेत्तरि च त्रि०।
उत्तरपश्चिमा = स्त्री उत्तरास्याः पाश्चमाया अन्तराला दिग् दिक्स०। १ उत्तरपश्चिमयोरन्तरालदिशि नैरृतकोणे। सा बिद्यतेऽस्य अच्। २ नैरृतविदिक्सम्बन्धिनि देशे पु० “उत्तरपश्चिमे गार्हपत्यम्” आश्च० गृ० ४, २, १२। ३ तद्वर्त्तिनि त्रि०।
उत्तरपाद = पु० कर्म्म०। चतुष्पादात्मकस्य व्यवहारस्य द्वितीये प्रादे “पूर्व्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरः स्मृतः। क्रियापादस्तृतीयः स्याच्चतुर्थोनिर्ण्णयः स्मृतः। मिथ्योक्तौ तु चतुष्पात् स्यात् प्रत्यवस्कने तथा। प्राङ्म्म्याये च स विज्ञेयोद्विपात् संप्रतिपत्तिषु” वृहस्यतिः।
उत्तरपुरस्तात् = अव्य० उत्तरस्याः पूर्व्वस्या अन्ताराला दिक् उत्तरपूर्व्वा ततः प्रथमापञ्चमीसप्तम्यर्थे अस्ताति पुंवद्भावः पूर्ब्धस्य पुरादेशः। ईशानकोणे “उत्तरपुरस्तादाहवनीयस्य जानुमात्र गर्त्तं खात्वा” आश्व० गृ० ४, ४, ८।
उत्तरपूर्व्वा = स्त्री उत्तरस्याः पूर्ब्बस्या दिशोऽन्तराला दिक् पुंवद्भावः दिक्स०। ईशानकोणे “आग्नेयमुत्तरपूर्व्वार्द्धे” कात्या० ३, ३, २०। दिङ्नामसमासे वा एवास्य सर्व्वनामकार्य्यम् योत्तरा सा पूर्व्वा यस्य मुग्धस्य एवं बहुव्रीहौ तु न सर्वनामकार्य्यमिति भेदः। तेन तादृशार्थेऽपि अस्य वृत्तित्वे त्रि०। “योत्तरा सा पूर्ब्बा यस्या उन्न्मुग्धायास्तस्यै उत्तरपूर्ब्बायै” सि० कौ०।
उत्तरफल्गुनी = स्त्री फलति फल–निष्पत्तौ “फलेर्गुक् च” उणा० उनन् गुक् च गौरा० ङीष् कर्म्म०। अश्विन्यादिषु द्वादशे नक्षत्रे तस्याः स्वरूपम् उडुचक्रशब्दे १०७१ पृ० अश्लेषाशब्दे ४९७ पृष्ठे च तदधिदेवादि उक्तम्। फल्गुनशब्दात् स्वार्थे अण् ङीप्। फाल्गुनी कर्म्म०। तत्रैवार्थे। इयं ध्रुवगणान्तर्गता “ध्रुवगणस्त्रीण्युत्तराणि स्वभूः” इत्युक्तेः यथा चास्य फाल्गुनत्वं तथा समर्थितम्” शत० ब्रा०। “फल्गुनीष्वग्नी आदधीत एता वा इन्द्रनक्षत्रम् यत् फल्गुन्योऽप्यस्य प्रतिनाम्न्योऽर्जुनोहवै नामेन्द्रो यदस्य गुह्यं नामार्जुन्योवैनामैतास्ता एतत्परोक्षमाचक्षते फाल्गुन्य इति कोह्येतस्यार्हति गुह्यं नाम ग्रहीतुम्” २, १, २, ११ अस्याः प्रथमपादः सिंहराशिः उत्तरपादत्रयं कन्याराशिः प्रमाणं उडुचक्रशब्दे दृश्यम्।
उत्तरभाद्रपद् = स्त्री भद्राय हितः भाद्रः पत् पादश्चतुर्थांशो यस्याः ब० ततः कर्म्म०। अश्विन्यादिनक्षत्रेषु षड्विंशे नक्षत्रे। पदशब्देन समासे टाप्। उत्तरभाद्रपदाप्यत्र। स्वरूपादिकमुडुचक्रशब्दे १०७१ पृष्ठे उक्तम्। अधिपत्यादिकमश्लेषाशब्दे चोक्तम्। इयं ध्रुवगणः “ध्रुवगणस्त्रीण्युत्तराणि स्वभूः” इत्युक्तेः मीनराशिघटिका।
उत्तरमानस = न० उत्तरमुत्त्तरस्थं मानसम्। १ तीर्थभेदे “कालोदकं नन्दिकुण्डं तथाचोत्तरमानसम्। अभ्येत्य योजनशताद्भ्रूणहा विप्रमुच्यते” भा० अनु० २५ अ०। २ गयामध्ये उत्तरदिक्स्थे तीर्थभेदे “उत्तरे मानसे, स्नानं करोम्यात्मविशुद्धये” इति गयाश्राद्धपद्धतिः। दक्षिणमानसमपि तक्रत्यतीर्थभेदः “दिवाकर! करोमीह स्नानं दक्षिणमानसे” इति तत्रैव।
उत्तरमीमांसा = स्त्री उत्तरस्य वेदशेषभागस्य उपनिषद्रूपस्य मीमांसा पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मकोविवारः। “अथातो ब्रह्मजिज्ञासा” इत्यादौ “अनावृत्तिः शब्दात्” इत्यन्ते चतुरध्यायीरूपे षोडशपादात्मके शारीरस्य ब्रह्मात्मत्वप्रतिपादके वेदव्यासरचिते शारीरकसूत्राख्ये ग्रन्ये। तत्र प्रतिपाद्यविषयादि संक्षेपतः वैयासिकमालायां भारतीतीर्थमुनिना दर्शितं यथा “शास्त्रं ब्रह्मविचाराख्यमध्यायाः स्युश्चतुर्विधाः। समन्वयाविरोधौ द्वौ साधनं च फलं तथा” ४। समन्वये स्पष्टलिङ्गमस्पटत्वमुपास्यगम्। ज्ञेयगं पदमात्रं च चिन्त्यं पादेष्वदः क्रमात्” ५। द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता। भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरष्यविरुद्धता” ६। तृतीये विरतिस्तत्त्वंपदार्थपरिशोधनम्। गुणोपसंहृति र्ज्ञानबहिरङ्गादिसाधनम् ७। चतुर्थे जीवतोमुक्ति रुत्क्रान्तिर्गतिरुत्तरा। ब्रह्मप्राप्तिब्रह्मलोकावाप्तीः पादार्थसंग्रहः” ८। “अध्यायचतुष्टयात्मकस्य शास्त्रस्य ब्रह्मविचारोऽर्थः सर्वेषां वेदान्तवाक्यानां ब्रह्मणि तात्पर्य्येण पर्य्यवसानं प्रथमाध्यायेन प्रतिपाद्यते। द्वितीयेन सम्भावितविरोधः परिह्रियते। तृतीयेन विद्यासाधननिर्णयः। चतुर्थेन विद्याफलनिर्णयः इत्येते अध्यायार्थाः ४। तत्र प्रथमाध्यायगतपादार्थान् विभजते। समन्वयेति। स्पष्टब्रह्मलिङ्गयुक्तं वाक्यजातं प्रथमे पादे चिन्त्यम्। “अन्तस्तद्धर्मोपदेशाद्” इत्यत्र सार्वज्ञ्यसार्वात्म्य- सर्वपापविरहादिकं च ब्रह्मणोऽसाधारणतया स्पष्टब्रह्मलिङ्गम्। अस्पष्टब्रह्मलिङ्गत्वे सत्युपास्यविषयं वाक्यजातं द्वितीयपादे चिन्त्यम्। तद्यथा प्रथमाधिकरणविषये शाण्डिल्योपास्तिवाक्ये मनोमयत्वप्राणशरीरत्वादिकं सो पाविकब्रह्मणो जीवस्य च साधारणत्वादस्पष्टब्रह्मलिङ्गम्। तृतीयपादे त्वस्पष्टव्रह्मलिङ्गत्वे सति ज्ञेयब्रह्मविषयं वाक्यजातं चिन्त्यं तद्यथा प्रथमाधिकरणे मुण्डकगतब्रह्मतत्त्ववाक्ये द्युभ्वन्तरिक्षाद्योतत्वं सूत्रात्मनः परब्रह्मणश्च साधारणत्वादस्पष्टं ब्रह्मलिङ्गम्। यद्यपि द्वितीयपादे कठवल्यादिगतब्रह्मतत्त्ववाक्यानि विचारितानि। तृतीयपादे दहरोपासनावाक्यं विचारितं तथाप्यवान्तर संगतिलोभेन तद्विचारस्य प्रासङ्गिकत्वान्न पादार्थयोः साङ्कर्यापत्तिः इत्येवं पादत्रयेण वाक्यविचारः समापितः। चतुर्थपादे त्वव्यक्तपदमजापदं चेत्येवमादिसन्दिग्धपदं चिन्त्यम् ५। द्वितोयाध्यायगतपादार्थान्विभजते द्वितीये इति! प्रथमपादे सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च विरोध्रो वेदान्तसमन्वयस्य परिहृतः। द्वितीयपादे सांख्यादिमतानां दुष्टत्वं प्रदर्शितम्। तृतीयपादे पूर्वभागेण पञ्चमहाभूतश्रुतीनां परस्परविरोधः परिहृतः उत्तरभागेण जीवश्रुतीनाम् चतुर्थपादे लिङ्गशरीरश्रुतीनां विरोधः परिहृतः ६। तृतीयाध्यायगतपादार्थान्विभजते तृतीये इति। प्रथमपादे जीवस्य परलोकगमनागमने विचार्य वैराग्यं निरूपितम्। द्वितीयपादे पूर्वभागेण त्वंपदार्थैः शोधितः। उत्तरभागेण तत्पदार्थः। तृतीयपादेन सगुणविद्याया गुणोपसंहारी निरूपितः निर्गुणे ब्रह्मणि च पुनरुक्तपदोपसंहारश्च। चतुर्थपादे निर्गुणज्ञानस्य बहिरङ्गभूतान्याश्रमयज्ञादीन्यन्तरङ्गभूतशमदमनिदिध्यासनादीनि च निरूपितानि ७। चतुर्थाध्यायगतपादार्थान्विभजते चतुर्थे इति। प्रथमपादे श्रवणाद्यावृत्त्या निर्गुणमुपासनयासगुणं वा ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यलेपविनाशलक्षणा मुक्ति रभिहिता। द्वितीये पादे म्रियमाणस्योत्क्रान्तिप्रकारोनिरूपितः। तृतीयपादे सगुणविदो मृतस्योत्तरमार्गोऽभिहितः। चतुर्थपादे पूर्वभागेण निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरभिहिता, उत्तरभागेण सगुणब्रह्मविदो ब्रह्मलोकप्राप्तिर्निरूपिता” तद्व्या०। मीमांसा हि वेद तात्पर्य्यनिर्ण्णयार्थः न्यायपञ्चकात्मकविचारः। सा च द्विविधा पूर्वभीमांसा उत्तरमीमासा च तत्र पूर्व्वमीमांसा जैमिनिप्रणीता “अथातोधर्मजिज्ञासा” इत्यादिका, उत्तरमी- मांसा दर्शिता। इयमेव च ब्रह्ममीमांसात्वेन प्रसिद्धा
उत्तररामचरित = न० उत्तरं रामस्य चरितं यत्र। भवभूतिप्रणीते नाटकभेदे।
उत्तरवयस = त्रि० उत्तरं वयः नि० वेदे अच् समा०। वृद्धावस्थायाम् “तस्मादुत्तरवयसे पुत्रान् पितोपजीवति” शत० ब्रा० १२, २, ३, ४। लोके तु उत्तरवयस् इत्येव।
उत्तरवस्ति = पु० सुश्रुतोक्ते चिकित्साङ्गे यन्त्रभेदे। तत्स्वं रूपप्रयोगप्रकारादि यथा तत्रैव “वस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतःपग्म्। चतुर्द्दशाङ्गुलनेत्रमातुराङ्गुलिसम्भितम्। मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम्। मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः। स्नेहप्रमाणं परमं कुञ्चश्चात्र प्रकीर्त्तितः। पञ्चविंशादधोमात्रां विदध्याद्बुद्धिकल्पिताम्। निविष्टकर्णिकं मध्ये नारीणां चतुरङ्गुलम्। मूत्रस्तोतःपरीणाहमुद्गवाहिदशाङ्गुलम्। तासामपत्यभार्गे तु निदध्याच्चतुरङ्गुलम्। द्व्यङ्गुलं मूत्रमार्गे तु कन्यानान्त्वेकमङ्गुलम्। विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा। स्नेहस्य प्रसृतञ्चात्र स्वाङ्गुलीमूलसंमितम्। देयं प्रमाणं परममर्वाग्बुद्धिविकल्पितम्। औरभ्रः शौकरो वापि वस्तिराजश्च पूजितः। तदलाभे प्रयुञ्जीत गलचर्म्म तु पक्षिणाम्। अस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा। अथातुरमुपस्निग्धं सुस्विन्नं प्रथिताशयम्। यवागूं सघृतक्षीरां पीतवन्तं यथाबलम्। निषण्णमाजानुसमे पीठे स्थानाश्रये समे। स्वभ्यक्तवस्तिमूर्द्धानं तैलेनोष्णेन मानवम्। ततः समं स्थापयित्वा नालमस्य प्रहर्षितम्। पूर्वं शलाकयाऽन्विष्य ततो नेत्नमनन्तरम्। शनैःशनैर्घृताभ्यक्तं विदध्यादङ्गुलानि षट्। ततोऽवपीडयेद्वस्तिंश नैर्नेत्रंच निर्हरेत्। ततः प्रथागते स्नेहमपराह्णे विचक्षणः। भोजयेत् पयसो मात्रां यूषेणाथ रसेन वा। अनेन विधिना दद्याद्वस्तींस्त्रींश्चतुरोऽपिवा। ऊर्द्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः। कल्येतरस्यै कन्यायै दद्यात्सुमृदु पीडितम्। त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति। गर्भाशयविशुद्ध्यर्थं स्नेहेन द्विगुणेन तु। अप्रत्यागच्छति भिषक् वस्तावुत्तरसंज्ञिते। भूयोवस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः। गुदे वर्त्तिं निदध्याद्वा शोधनद्रव्यसंभृताम्। प्रवेशयेद्वा मतिमान्तस्तिद्वारमथैषणीम्। पीडयेद्वाप्यधोनाभेर्बलेनोत्तरमुष्टिना। आरग्बधस्य पत्रेषु निर्गुण्ड्याः सुरसेषु च। कुर्य्याद्गोमूत्रपिष्टेष वर्त्तीर्वापि ससैन्धवाः। मुद्गैलासर्षपसमाः प्रवि- भज्य वयांसि तु। वस्तेरागमनार्थाय ता निदध्याच्छलाकया। आगारधूमवृहतीपिप्पलीफलसैन्धबैः। कृता वा शुक्तगोभत्रसुरापिष्टैः सनागरैः। अनुवासनसिद्धिञ्च वीक्ष्य कर्म प्रयोजयेत्। शर्करामधुमिश्रेण शीतेन मधुकाम्बुना। दह्यमाने तदा वस्तौ दद्याद्वस्तिं विचक्षणः। क्षीरवृक्षकषायेण पयसा शीतलेन च। शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रेकं तस्य नाशञ्च कष्टम्। मूत्राघातान्मूत्रदीषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः। श्रुक्रोत्सेकं शर्करामश्मरीञ्च शूलं वस्तौ वङ्क्षणे मेहने च। घोरानन्यान् वस्तिजांश्चापि रोगान् हित्वा मेहानुत्त रो हन्ति वस्तिः। सम्यग्दत्तस्थ लिङ्गानि व्यापदः क्रम एव च। वस्तेरुत्तरसंज्ञस्य समानं स्नेहवस्तिना”।
उत्तरवादिन् = त्रि० उत्तरमुत्तरपक्षं वदति वद–णिनि। वादे प्रतिवादिनि (आशामी) “साक्षिषूभयतः सत्सु भवन्ति पूर्ब्बवादिनः। पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः” या० स्मृ०।
उत्तरवेदि = स्त्री कर्म्म० वा ङीप्। “तरन्तुकारन्तुकयोर्यदन्तरं रामह्रदानाञ्च मचक्रुकस्य च। एतत् कुरुक्षेत्रसमन्तपञ्चकं पितामहस्योत्तरवेदिरुच्यते” भा० व० ८३ अ० उक्ते कुरुक्षेत्रान्तर्गते १ समन्तपञ्चकरूपे तीर्थे। कुरुक्षेत्रञ्च “उत्तरेण दृषद्वत्या दक्षिणेन सरस्वतीम्। ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिपिष्टपे” इत्युक्तस्थले तीर्थभेदः। इयमेव ब्रह्ववेदीत्युच्यते “ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम्” तत्रैवोक्तेः। यज्ञेऽग्निस्थानपार्थं २ वेदिभेदे तत्स्वरूपादि दानपा० दर्शितं यथा। “तत्र महावेदिपश्चिमरेखामध्यात् पूर्व्वतः समित्त्रयमितां, प्राचीरेखा मध्यात् पश्चिमतः समिन्मात्रां, दक्षिणरेखामध्यात् उत्तरस्यामुत्तररेखामध्यात् दक्षिणस्यां तथैव समिन्मात्रां भूमिं त्यक्त्वा कुण्डादिमध्ये समिद्द्वयमितदीर्घविस्तारां समचतुरस्रामुत्तरवेदिमग्निस्थापनाय वेदिमध्ये कल्पयेत्”। “उत्तरवेद्यग्निप्रणयनमन्थनपृषदाज्यं वरुणप्रधासादधः” कात्या० ५, ७, १५। “दक्षिणेन निर्हृत्य दक्षिणस्यामुत्तरवेदिश्रेणौ निदधाति ८, ९, १८। ७ अथात आवृदेव नोपकिरन्त्युत्तरवेदिम्” शत० ब्रा० २, ४, १, १८। “तद्वै द्वे वेदी द्वावग्नी भवतः। तद्यद् द्वे वेदी द्वावग्नी भवतस्तदुभयतस्तदुभयत एवैतत् वरुणपाशान् प्रजाः प्रमुञ्चन्तीतश्चोर्द्ध्वा इतश्चावाचीस्तस्माद् द्वे वेदी द्वा वग्नी भवतः। स उत्तरस्यामेव वेदौ उत्तरवेदिम् उप- किरति न दक्षिणस्याम्” शत० ब्रा० २, ५, ३, ५, ६।
उत्तरशलङ्कट = पुंस्त्री ब० व० उत्तरयश्च शालङ्कटयश्च द्वन्द्व० ततः गोत्रप्रत्ययस्य लुक्। उत्तरशालङ्कगोत्रोत्पन्ने।
उत्तरसक्थ = न० उत्तरः सथ्वः एकदे० त० टच्समा०। सक्थ्न उत्तरभागे
उत्तरसाक्षिन् = त्रि० “साक्षिणामपि यः साक्ष्यं स्यपक्षं परिभाषताम्। श्रवणाच्छावणाद्वापि स साक्ष्युत्तरसंज्ञक” इति नारदोक्ते साक्षिभेदे।
उत्तरसाधक = त्रि० उत्तरः सन् साधयति सिष–णिच् साधादेशः ण्वुल्। सहाये सहकारिणि। स हि इतरसामग्रीसत्त्वे तदुत्तरवर्त्ती सन् कार्य्यं सावयति।
***