वाचस्पत्यम्
ईश्वर
links:
Menu अ–ह
Prev इष्म–ईशि
Next ईश्वरव–उच्च
ईश्वर
UpasanaYoga
.org

ईश्वर = पु० ईश–वरच्। १ महादेये २ कन्दर्पे पातञ्जलोक्ते, क्लेशजन्मकर्मविपाकाशयैरपरामृष्टे पुरुषविशेषे ३ चैतन्यात्मनि, “ईश एवाहमत्यर्थं न च मामीशते परे। ददामि च सदैश्वर्य्य मीश्वरस्तेन कीर्त्त्यते” इत्युक्तलक्षणे ४ परमेश्वरे, “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन! तिष्ठति” गीता प्रभवादिमध्ये ५ एकादशे वत्सरे च तत्फलम्। “सुमिक्षं क्षेममारोग्यं कार्पासस्य महार्घ्यता। लवणं मधु गव्यञ्च ईश्वरे र्दुलभं प्रिये!” ज्योति० ६ आढ्ये, ७ स्वामिनि च त्रि० स्त्रीत्वे गौरा० ङीष्। “ईश्वरीं सर्वभूतानामिति” श्रीसूक्तम्।

आर्हता नित्येश्वरं न मन्यन्ते तच्च अर्हच्छब्दे ३८२ पृष्ठे दर्शितम् एवं सांख्यैरपि “ईश्वरासिद्धेः” सा० सू०। “नित्येश्वरो निषिद्धः ईदृशेश्वरसिद्धिः सिद्धा” “उपासा सिद्धस्य प्रशंसामात्रम्” सां० सूत्राभ्यां प्रकृत्युपासकस्य जन्यैश्वर्य्यं स्वीकृतम्” सां० कौ० च नित्येश्वरस्य कर्तृत्वं निरासितं यथा। “न च क्षीरप्रवृत्तेरपीश्वराधिष्ठाननिवन्धनत्वेन साध्यत्वान्न साध्येन व्यभिचारैति साम्प्रतं प्रेक्षावत्प्रवृत्तेः स्वार्थकारुण्याभ्यां व्याप्तत्वात् ते च जगत्सर्गाद्व्यावर्त्तमाने प्रेक्षावत्प्रवृत्तिपूर्व्वकत्वमपि व्यावर्त्तयतः नह्यवाप्तसकलेप्सितस्य भगवतोजगत्सृजतः किमप्यभिलषितं भवति नापि कारुण्यादस्य सर्गे प्रवृत्तिः प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यं? सर्गोत्तरकालं दुःखिनीऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयत्वं कारुण्येन सृष्टिः सृष्ट्या च कारुण्यमिति। अपि च करुणया प्रेरितः ईश्वरः सुखिन एव जन्तून् सृजेन्न विचित्रान्। कर्म्मवैचित्र्यादिति चेत् कृतमस्य प्रेक्षावतः कर्म्माधिष्ठानेन तदनधिष्ठानमात्रादेवाचेतनस्यापि कर्मणः प्रवृत्त्युपपत्तेस्तत्कार्य्यशरीरेन्द्रियविषयानुत्पत्तौ दुःखानुत्पत्तेरपि सुकरत्वात्। प्रकृतेस्त्वचेतनयाः प्रवृत्तेर्न खार्थानुग्रहो न वा कारुण्यं प्रयोजकमिति नोक्तदीषप्रसङ्गावतारः”। नित्येश्वरस्य यथानुमानं तथा आन्वीक्षिकीशब्दे ७३९ पृष्ठे सर्वदर्शनसंग्रहवाक्येन प्रदर्शितम् ईश्वरसाधनं तु गौ० सूत्रवृत्त्याद्युक्तं यथा “ईश्वरः कारणं पुरुषकर्म्मसाफल्यदर्शनात्” सू०। “गुणविशिष्टमात्मान्तरमीश्वरः” भा०। “गुर्णर्नित्येच्छाप्रयत्नैर्विशेषगुणैः, सामान्यैः संयोगादिभिश्च विशिष्टमात्मान्तरं जीवेभ्यो भिन्न आत्मा जगदाराध्यः सृष्ट्यादिकर्त्ता वेदद्वारा हिताहितोपदेशको जगतः पितेति। अनुमानन्तु क्षित्यादिकं सकर्त्तृकं कार्य्यत्याद्षटादिवदित्याद्यूह्यम्” वृत्तिः। बाणादसूत्रे च “संज्ञाकर्म्म त्वस्मद्विशिष्टानां लिङ्गम्” “प्रत्यक्षप्रवृत्ततया संज्ञाकर्मणः” सूत्राभ्यामीश्वरसाधनं दर्शितं विवृतमेतदुपस्करे यथा।

“तुशब्दः स्पर्शादिलिङ्गव्यवच्छेदार्थः संज्ञा नाम, कर्म्म कार्य्यम्” क्षित्यादि तदुभयमस्मद्विशिष्टानाम् ईश्वरमहर्षीणां सत्त्वेऽपि लिङ्गम् कथमेतदित्यत आह। अत्रापि संज्ञा च कर्म्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्त्तुर्ज्जगत्कर्त्तुश्चाभेदसूचनार्थः। तथाहि यस्य स्वर्गापूर्व्वादयः प्रत्यक्षाः स एव तत्र स्वर्गापूर्व्वादिसंज्ञाः कर्त्तुमीष्टे नेतरः एवञ्च घटपटादिसंज्ञानिवेशनमपि ईश्वरसंङ्केताधीनमेव यः शब्दो यत्नेश्वरेण सङ्केतितः स तत्र साध्रुः यथा या काचि- दोषधिर्नकुलदंष्ट्राग्रस्पृष्टा सा सर्व्वाऽपि सर्पविषं हन्तीत्येतादृशी संज्ञा अस्मदादिविशिष्टानां लिङ्गमनुमापकं याऽपि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते साऽपि “द्वादशेऽहनि पिता नाम कुर्य्यात्” इत्यादि विधिना नूनमीश्वरप्रयुक्तैव तथाच सिद्धं संज्ञाया ईश्वरलिङ्गत्वम्। एवं कम्मांऽपि कार्य्यमपीश्वरे लिङ्गः तथाहि क्षित्यादिकं सकर्तृकं कार्य्यत्वात् घटवदिति अत्र यद्यपि शरीराजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वासकर्तृकत्वेन विवादाध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् विवादसन्देहयोश्चातिप्रसक्तत्वेन पक्षतानवच्छेदकत्वात् किञ्च सकर्तृकत्वमप्रि यदि कृतिमज्जन्यत्वं तदाऽस्मदादिना सिद्धसाधनम् अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात् उपादानगोचरकृतिमज्जन्यत्वेऽपि तथा,अस्मदादिकृतेरपि किञ्चिदुपादानगोचरत्वात्, कार्य्यत्वमपि यदि प्रागभावप्रतियोगित्वं तदा ध्वंसे व्यभिचार इति तथापि क्षितिः सकर्तृका कार्य्यत्वात् अत्र च सकर्तृकत्वमदृष्टाद्वारककृतिमज्जन्यत्वं कार्य्यत्वञ्च प्रागभावावच्छिन्नसत्ताप्रतियोगित्वं नचाङ्कुरादौ सन्दिग्धनैकान्तिकत्वं साध्याभावनिश्चये हेतुसत्त्वसन्देहे सन्दिग्धानैकान्तिकत्वस्या दोषत्वात् अन्यथा सकलानुमानोच्छेदप्रसङ्गः न च पक्षातिरिक्ते दोषोऽयमिति वाच्यं राजाज्ञापत्तेः नहि दोषस्यायं महिमा यत् पक्षं नाक्रामति तस्मादङ्कुरस्फरणदशायां निश्चितव्यप्तिकेन हेतुना तत्र साध्यसिद्धेरप्रत्यूहत्वात् न सन्दिग्धानैकान्तिकता तदस्फुरणदशायान्तु सुतरामिति संक्षेपः”। एवं न्यायकणादसूत्रभाष्यादिषु प्रदर्शितेश्वरानुमानप्रकारमधिकृत्य कुसुमाञ्जलिहरिदासटीकयोः दिग्मात्रेण किञ्चित् विस्पष्टमुक्तं यथा

“तत्साधकप्रमाणाभावात् इति पञ्चमविप्रतिपत्तिः नन्वीश्वरे साधकप्रमाणमेव नात्यत्यत्राह” हरि०। “कार्य्यायोजन धृत्यादेः पदात् प्रत्ययतः श्रुतेः। वाक्यात् मङ्ख्याविशेषाच्च साध्योविश्वविदव्ययः” का० “क्षित्यादि सकर्तृ कं कार्य्यत्वात् घटवत् सकर्तृकत्वञ्च उपादानगोचरापरीक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वम्। आयोजन कर्म एवञ्च सर्गादाकालीनद्व्यणुकारम्भकपरमाणुद्वयसंयोगजनकं कर्म्म चेतनप्रयत्नपूर्व्वकं कर्म्मत्वात् अस्पदादिशरीरक्रियावत्। धृतीति ब्रह्माण्डादि पतनप्रतिबन्धकीभूतप्रयत्नवदधिष्ठित धृतिमत्त्वात वियति विहङ्गमधृतकाष्ठवत् धृतिश्च गुरुत्ववतां पतनाभावः। धृत्यादेरित्यादिपदात् नाशपरिग्रहः ब्रह्माण्डादि प्रयत्नवद्विनाश्यं विनाशित्वात् पाट्यमानपटवत्। पदात् पद्यतेऽनेनेतिव्युत्पक्त्या पदं व्यवहारः पटादिसम्प्रदायव्यवहारः स्वतन्त्रपुरुषप्रयोज्यः व्यवहारत्वात् आधुनिकलिप्यादिव्यवहारवत्। प्रत्ययतः प्रामाण्यात् वेदजन्यज्ञानं कारणगुणजन्यं प्रमात्वात् प्रत्यक्षादिप्रमावत्। श्रुतेर्वेदात् वेदः पौरुषेयोवेदत्वात् आयुर्वेदवत्। किञ्च वेदः पौरुषेयौवाक्यत्वात् भारतवत् वेदवाक्यानि पौरुषेयाणि वाक्यत्वात् अस्मदादिवाक्यवत्। संख्याविशेषात्। द्व्यणुकपरिमाणं सङ्ख्याजन्यं परिमाणप्रचयाजन्यत्वे सति जन्यपरिमाणत्वात् तुल्यपरिमाणकपालद्वयारब्धघटपरिमाणातु प्रकृष्टतादृशकपालसदृशकपालद्वयारब्धघटपरिमाणवत् अणुपरिमाणञ्च न परिमाणजनकं नित्यपरिमाणत्वात् अणुपरिमाणत्वाद्वा एवञ्च सर्गादौ द्व्यणुकपरिमाणहेतुपरमाणुनिष्ठ द्वित्वसंख्या च नास्मदाद्यपेक्षाबुद्धिजा अतस्तदानीन्तनापेक्षाबुद्धिरीश्वरस्यैवेति। विश्वविदव्ययैति विशिष्टस्याव्ययत्वं तेन नित्यसर्व्व बिषयकज्ञानसिद्धिः ननु शरीर विशिष्टस्य कर्तृतया विशेषणबाधात्मकोविशिष्टबाध इति कर्तृजन्यत्वव्यापकशरीरजन्यत्वाभावात् कर्तृजन्यत्वाभाव इति सत्प्रतिपक्षता च। यद्वा कर्त्ता शरीर्य्येव इति व्याप्तिर्विरोधिनी यद्वा व्याप्त्या यथादर्शनप्रवृत्तया शरीरी कर्त्ता च उपनेयः, पक्षधर्म्मतया च क्षित्यादावशरीरीति साध्याप्रसिद्धिः विशेषणविशेष्यविरीधश्च यद्वा शरीरजन्यत्वाद्युपाधिना व्याप्यत्वासिद्धिरिति कार्य्य त्वहेतौ पञ्च दोषास्तत्राह” हरि०। “न बाधोऽस्योपजीव्यत्वात् प्रतिबन्धोन दुर्बलैः। सिद्ध्यसिद्ध्योर्विरोधोन नासिद्धिरनिबन्धना” का० “ईश्वरे धर्मिणि शरीरबाधात् कर्तृत्वाबाधोन, अधिकरणज्ञानं विना अभावज्ञानासम्भवात् अस्य कार्य्यत्वस्य धर्म्मिसाधकस्याधि करणज्ञानजनकतयांअवश्यमपेक्षणीयत्वेन बलवत्त्वात्। एवञ्च न विशेषणबाधात्मकोविशिष्टबाधः प्रत्यक्षात्मकः। ईश्वरोन कर्त्ता अशरीरत्वात् इत्यनुमानबाधीऽपि नेत्यर्थः। क्षित्यादौ न सकर्तृकत्वं शरीराजन्यत्वात् इति न प्रतिबन्धर्क सत्प्रतिपक्षहेतोः शरीरांशवैयर्थ्यात् व्याप्यत्वासिद्ध्या दुर्नलत्वात्। तृतीयेऽपि कार्य्यत्वव्याप्तेः पक्षधर्म्मत्वसहकारात् विपक्षबाधकतर्कावताराच्च बलवत्त्वम्। उपन्यस्तायाः कर्त्ता शरीर्य्येवेति व्याप्तेर्दुर्बलतया न प्रतिबन्धः। चतुर्थे च यदि पक्षधर्म्मतया अशरीरी उपस्थितस्तदा न विरोधः कर्तृत्वस्याशरीरत्वसमानाधिकरणस्योपलम्भात् तदनुपस्थाने तु न विरोधः विरोधाश्रयस्यासिद्धेः पञ्चमे च विपक्षबाधकतर्कसत्त्वात् तदभावनिबन्धनाज्ञानरूपासिद्धि र्व्याप्यत्वासिद्धिर्वा न शरीरजन्यत्वोपाधेरप्रि विग्रक्षबाधकाभावेनापास्तत्वात्। ननु यदीश्वरः कर्त्ता स्यात् शरीरी स्यादिति प्रतिकूलतर्कावतारस्तत्राह” हरि०। “तर्काभासतया त्वेषा तर्काशुद्धिरदूषणम्। अनुकूलस्तु तर्कोऽत्र कार्य्यलोपो विभूषणम्” का० “प्रतिकूलतर्कास्तावदीश्वरासिद्ध्या आश्रयासिद्धा इत्याभासाः। कर्त्रारं विना कार्य्यं न स्यादिति तर्कस्तु विभूषणं सहकारकः। “अहं सर्व्वस्य प्रभवी मत्तः सर्वं प्रवर्त्तते” इत्यागमश्चात्र। “आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्केणानुसन्धत्ते स धर्म्मं वेद नेतर” इति तर्कानुगृहीतस्यागमस्य बलपत्त्वम्” ननु कार्य्यत्वं प्रयत्नजन्यत्वेऽप्रयोजकम् अत्राह” हरि०। “स्वातन्त्र्ये जडताहानिर्नादृष्टं दृष्टघातकम्। हेत्वभावे फलाभावोविशेषस्तु विशेषवान्” का० “न हि कर्त्तारं हेतुं विना कार्यं परमाणोरेव यत्नवत्त्वेऽचैतन्यानुपपत्तिः अचेतनस्य चेतनप्रेरितस्यैव जनकत्वात् अदृष्टस्य दृष्टकारणसहकारेणैव फलजनकत्वात्। न च चेष्टायामेव भोक्तृप्रयत्नोहेतुः न तु क्रियासामान्ये इति, चेष्टायां विशेषप्रयत्नस्य हेतुत्वेऽपि क्रिया सामान्ये प्रयत्नसामान्यस्य कारणत्वानपायात् अन्यथा वोजविशेषस्याङ्कुरविशेषे जनकत्वेनाङ्कुरसामान्यं प्रति वीजत्वेन हेतुताया अपि विलोपापत्तेः ननु धृत्यादीनां प्रयत्नजन्यत्वे किं मानमित्यत्राह” हरि०। “कार्यत्वान्निरुपाधित्वमेवं धृतिविनाशयोः। विच्छेदेन पदस्यापि प्रत्ययादिश्च पूर्व्ववत्”। “धृतिविनाशयोः प्रयत्नजन्यत्वान्निरुपाधित्वं विच्छेदेनान्तरा प्रलयेन आदर्शाद्यभावात् अर्व्वाग्दर्शो नाद्यव्यवहारमूलं व्यवहारानमिज्ञत्वादिति सर्गाद्यकालीन घटादिव्यवहारप्रवर्त्तकः पुरुषः सिध्याति। एवं प्रत्ययादेर्वेदजन्यधीप्रामाण्यादेरपि निरुपाधित्वम्” हरि०।

विस्तरेणेश्वरानुमानग्रन्थस्य प्रायेण लुप्तप्रायतया कुसुमाञ्जलिग्रन्थे दिङ्मात्रेण तत्प्रकारस्य सत्त्वेऽपि न्यायकदल्याम् अनुमानचिन्तामणिस्थेश्वरवादे च विस्तरेण वर्णितं तयोश्च प्रायेण लुप्तप्रायतया तयोः प्रचारार्थमिहोपन्यासः क्रियते तत्रादौ

न्यायकन्दली। “किं पुनरी श्वरसद्भावे प्रमाणम् आगमस्तावत् अनुमानञ्च महाभूतचतुष्टयमुपलब्धिमत्पूर्वकं कार्य्यत्वात् यत्कार्य्यं तदुपलब्धिमत्पूर्वकं यथा घटकार्य्यं, कार्य्यञ्च महा- भूत्चतुष्टयं तस्मादेतदप्युपलब्धिमत्पूर्वकमिति। ननु प्रमाणेन पूर्वकोट्यनुपलब्धेरसिद्धं पृथिव्यादिषु कार्य्यत्वमिति चेत् तदयुक्तं सावयवत्वात् तत्सिद्धेः यत् सावयवं तत्कार्य्यं यथा घटः सावयवञ्च पृथिव्यादि तस्मादेतदपि कार्य्ययेव।। ननु व्याप्तिग्रहणादनुमानप्रवृत्तिः कार्य्यत्वबुद्धिमन्पूर्वकत्वयोश्च व्याप्तिग्रहणमशक्यं, घटादिषु कर्त्तृप्रतीतिकाले एवाङ्कु रादिषूत्पद्यमानेषु तदभावप्रतोतेः न चाङ्कुरादीनामपि पक्षत्वमिति न्याय्यं संगृहीतायां व्याप्तावनुसानप्रवृत्तिकाले प्रतिवाद्यपेक्षया पक्षादिप्रविभागः इह तु सर्व्वदैव प्रतिपक्ष प्रतीत्याक्रान्तत्वाद्व्याप्तिग्रहणमेव न सिध्यति। अत्र प्रतिसमाधीयते। यदि चैव द्वैतानुपलम्भाद्व्याप्तिग्रहणाभावः तदानीं मीमांसाभाष्यकृतोऽभिमतं सामान्यतोदृष्टमादित्यगत्यनुमानमपि न सिद्ध्यति तत्रापि देवदत्तगतिपूर्वकदेशान्तरप्राप्तिग्रहणकाल एव नक्षत्रादिप्रदेशान्तरप्राप्तिमात्रोपलम्भात् अथ तेषु देशविप्रकर्षेणापि गतेरनुपलब्धौ सम्भवन्त्यां न तया व्याप्तिग्रहणहेतोर्निरुपाधिप्रवृत्तस्य भूयोदर्शनस्य प्रतिरोधः तुल्यकक्षत्वा भावात् एवञ्चेदशरीरत्वेनाभ्युपेतस्य कर्त्तुः स्वरूप विप्रकर्षेणाप्यङ्कुरादिष्वनुपलम्भसम्भवात् न तेन निरुपाधि प्रवृत्तस्य भूयोदर्शनस्य सामर्य्यमुपहन्यते इति समानम्। अपि च भोः किमनेन कर्तृमात्रं साध्यते पृथिव्यादिनिर्म्माणसमर्थो वा। कर्तृमात्रसाधने तावदभिप्रेतासिद्धिः नह्यम्मदादिसदृशः कर्त्ताऽभिप्रेतो भवतां नच तेनेदं पृथिव्यादिकार्य्य मर्वाग्दृशा शक्यनिर्म्माणम्, पृथिव्यादि निर्म्माण समर्थस्तु न सिद्ध्यति अनन्वयात् अन्घयबलेन हि दृष्टान्त दृष्टकर्त्तृ सदृशः सिध्यतीति नायं प्रसङ्गः। कर्त्तृविशेषस्याप्रसाधनात्। व्याप्तिसामर्थ्याद्बुद्धिमत्पूर्वकत्वसाभान्ये साध्यमाने पृथिव्यादिनिर्म्माणसामर्थ्यलक्षणोऽपि विशेषः सिध्यत्येव निर्विशेषस्य सामान्यस्म सिद्ध्यभावात्। ननु मा सिध्यतु सामान्यमिति चेत् कार्य्यत्वेन सह तद्द्याप्तेः प्रतिक्षेपात्। यदि हि व्याप्तमपि न सिध्यति धुमादग्निसामान्यं न सिध्येत् अग्मिविशेषस्यानन्वितस्यासिद्धेः र्निविशेवस्यान वस्थानात्। अथेदमुच्यते द्वयमनुमानस्य स्वरूपं व्याप्तिः पक्ष धर्मता च तत्र व्याप्तिसामर्थ्यात् सामान्यं सिध्यति पक्ष धर्म्मताबलेन चाभिप्रेतो विशेषः पर्वताद्यवच्छिन्नवह्निलक्षणात् सा सिद्धाति अन्यथा पक्षधर्म्मतायाः क्वोपयोगः क्व वानुमानस्य गृहीतग्राहिणः प्रामाण्यम्। एवञ्चेत् ईश्वरानुमानेऽपि तुल्यमन्यत्राभिनिवेशात् अथ मतं सिध्य- त्यनुमानेऽपि विशेषोऽपि यत्र प्रमाणविरोधोनास्ति। तथाहि धूमात् पर्वतनितम्बवर्तिवह्निविशेषसिद्धौ का नामानुपपत्तिः दृष्टो हि देशात् कालाभेदः स्वलक्षणानाम्। ईश्वरानुमाने तु विशेषोन सिद्ध्यति प्रमाणविरोधात्। तथाहि नात्र शरीरपूर्वकत्वं साधनीयं शरीरे सत्यवश्यमिन्द्रियप्राप्तावतीन्द्रियोपादानोपकरणादिकारकशक्तिपरिज्ञानाऽसम्भवे सति कर्त्तृत्वासम्भवात्। अशरीरपूर्वकत्वञ्च अशक्यसाधनम् सर्वोऽपि कर्त्ता पूर्वं कारकस्वरूपमवधारयति ततः कारणान्यधितिष्ठति तत इच्छतीदमनेन निर्वर्त्तया मीति ततः प्रर्वत्तते तदनु कायं व्यापारयति ततः करणान्य धितिष्ठति ततः करोतीति। अनवधारयन्ननिच्छन्नप्रयतमानः कायमव्यापारयन्न करोतीत्यन्वयव्यतिरेकाभ्यां वुद्धिवच्छरीरमपि कार्य्योत्पत्तावुपायभूतं निखिलोपाधिग्रहणे व्याप्तिग्राहकप्रमाणादेवावधारितं न शक्यतेप्रहातुं वह्नेरिवेन्धनविकारदाहसामर्थ्यं धूमानुमाने। तत्परित्यागे च बुद्धिरपि त्यज्यतां प्रभावातिशयादशरीरवदवुद्धिमानेवायमीश्वरः करिष्यति। उपादानोपकरणादिस्वरूपानभिज्ञीनाशक्नोतीति चेत्। कुत एतत्? तथाऽनुपलम्भादितिचेत् फलितं तर्हि ममापि मनोरथद्रुमेण, न तथा याबदिच्छाप्रयत्नाव्यवहितकार्य्योत्पत्तावुपयुज्यते यथेदमव्यवहितव्यापारं शरीरम्। एवं तर्हि का गतिरत्र, बुद्धिमत्कर्त्तृपूर्व्वकत्वसामान्यस्य, अगतिरेव उभयोरपि शरीरित्वाशरीरित्वविशेषयोरनुपपत्तेर्निर्विशेषसामान्यस्य सिद्ध्यभावात्। किमनुमानस्य दूषणं न किञ्चित्। पुरुष एवायं बिशेषाभावाच्छशविषाणायमाने साधनानर्हसामान्ये साधनं प्रयुञ्जानोनिगृह्यते यथा कश्चिन्निशितं कृपाण मच्छेद्यमाकाशं प्रति व्यापारयन्। अथानुमानदूषणं विना न तुष्यति भवान् तदिदमशरीरिपूर्वकत्वानुमानं व्याप्तिग्राहकप्रमाणबाधितत्वात् कालात्ययापदिष्टं व्याप्ति बलेन चाभिप्रेतमशरीरित्वविशेषम् विरुन्धत् विशेषविरुद्धं ततश्च विरुद्धावान्तारविशेष एवेत्ति पूर्व्वपक्षसंक्षेपः”। अत्र प्रतिसमाधिः। किं शरीरित्वमेव कर्त्तृत्वमुत परिदृष्टसामर्थ्यकारकप्रयोजकत्वम् न तावच्छरीरित्वमेव कर्त्तृत्वं सुप्तस्योदासीनस्य च कर्त्तृत्वप्रसङ्गात् किन्तु परिदृष्टसामर्य्यकारकप्रयोजकत्वं तस्मिन् सति कार्य्योत्पत्तेः। तच्चाशरीरस्यापि निर्वहति यथा स्वशरीरप्रेरणायामात्मनः। अस्ति तत्राप्यस्य स्वकर्म्मोपार्जितं तदेव शरीरमिति चेत् सत्यमस्ति परं प्रेरणोपयोगो न भवति स्वात्मनि क्रियाविरोधात्। प्रेर्य्यतया- स्तीति चेत् ईश्वरस्यापि प्रेर्य्यः परमाणुरस्ति। ननु स्व शरीरे प्रेरणायामिच्छाप्रयत्नाभ्यामुतपत्तेरिच्छाप्रयत्नयोश्च सति शरीरे भावादसत्यभावात् अस्ति तत्र स्वप्रेरणायामिच्छाप्रयत्नजननद्वारेणोपायत्वमिति चेत् न तस्येच्छाप्रयत्नयोरुपजनं प्रत्यकारकत्वात् अलब्धात्मकयोरिच्छाप्रयत्नयोः प्रेरणाकरणकाले तु तदनुपायभूतमेव शरीरमकर्म्मत्वादिति व्यभिचारः। अनपेक्षितशरीरव्यापारेच्छाप्रयत्नमात्रसचिवस्यैव चेतनस्य कदाचिदचेतनव्यापारसामर्थ्यदर्शनात् बुद्धिमदव्यभिचरितकार्य्यत्वमितीश्वरसिद्धिः। इच्छाप्रयत्नोत्पत्तावपि शरीरमपेक्षणीयमिति चेत् अपेक्षातां यत्र तयोरागन्तुकत्वं यत्र पुनरिमौ स्वाभाबिकौ वासाते तत्रास्यापेक्षणं व्यर्थम्। न च बुद्धीच्छाप्रयत्नानां नित्यत्वे कश्चिद्विरोधः दृष्टा हि गुणानां रूपादीनामाश्रयभेदेन द्वयी गतिः नित्यताऽनित्यता च। तथा बुद्ध्यादीनामपि भविष्यतीति सेयमीश्वरवादे वादिप्रतिवादिनोः परा काष्ठा, अतः परं प्रपञ्चः। आत्माधिष्ठिताः परमाणवः प्रवर्त्तिष्यन्ते इति चेत् न तेषां स्वकर्मोपार्ज्जितेन्द्रियगणाधीनसंविदां शरीरोत्पत्तेः पूर्वं विषयावबोधविरहात्। अस्त्यात्मनामपि सर्व्वविषयव्यापि सहजचैतन्यमिति चेत् न सहजं शरीरसंवन्धभाजां तत् केन विलुप्तं येनेदं सर्वत्रापूर्ववद्नाभासयति। शरीरावरणतिरोधानात्तदात्मन्येव समाधीयते न वर्हिर्मुखं भवतीति चेत् व्यापकत्वेन तस्य विषयसंबन्धानुच्छेदेन नित्यत्वेन च विषयप्रकाशस्वभावस्यानिवृत्तौ कातिरोधानवाचोयुक्तिः? वृत्तिप्रतिबन्धश्चैतन्यतिरोधानमिति चेत् कथं तहै शरीरिणा विषयग्रहणम्। क्वचिदस्य वृत्तयो न विरुध्यन्ते इति चेत् कुतोऽयं विशेषः? इन्द्रियप्रत्यासत्तिविशेषात् यद्येवमिन्द्रियाधीनश्चैतन्यस्य विषययेषु वृत्तिलाभो न सन्निधिमात्रनिबन्धनः सत्यपि व्यापकत्वे सर्वार्थेषु वृत्त्यभावात् इन्द्रियवैयर्थ्यप्रसङ्गाच्च साधूक्तं सशरीरिणामात्मुनां न विषयावबोध इति। तथा चैके वदन्ति “पराञ्चिखानि व्यतृणोत् स्वयम्भुस्तस्मात् पराङ् पश्यति नान्तरात्मेति”। अनवबोधे चैतन्यं नाधिष्ठानमिति तेभ्यः परः सर्वार्थदर्शी सहजज्ञानमयः कर्त्तृस्वभावः कोऽप्यधिष्ठाता कल्पनीयः चेतनमधिष्ठातारमन्तरेणाचेतनानां प्रवृत्त्यभावात्। स किमेकोऽनेको वा? एक इति वदामः बहूनामसर्वज्ञत्वेऽस्मदादिवदसामर्थ्यात् सर्वज्ञत्वे एकस्यैव सामर्थ्यादपरेषामनुपायत्वात् न च संप्रवीणानां भूयसामैकमत्ये हेतुरस्तीति कदाचिदनुत्पत्तिरपि कार्य्यस्य स्यात् एकाभिप्रायानुरोधेन सर्वेषां प्रवृत्ताबेकस्यैवेश्वरत्वं नापरेषां सदःपरिषदामिव, कार्य्योत्पत्त्यनुरोधे प्रत्येकमनीश्वरत्वम्। तदेवं कार्यविशेषेण सिद्धस्य कर्त्तृविशेषस्य सर्वज्ञत्वान्न तत्र चिद्वस्तुनि विशेषानुपम्भः। अतो न तन्निबन्धनं मिथ्याज्ञानं मिथ्याज्ञानाभावाच्च न तन्मूलौ रागद्वेषौ तयोरभावान्न तत्पूर्विकाप्रवृत्तिः प्रवृत्त्यभावे च न तत्साध्यौ धर्माधर्मौ तयोरभावात्तज्जयोरपि सुखदुःखयोरभावः सर्वदैव चानुभवसद्भावात् स्मृतिसंस्कारावपि नासाते इत्यष्टगुणाधिकरणं भगवानीश्वर इति केचित्। अन्ये तु बुद्धिरेव तस्याभ्याहता क्रियाशक्तिरित्येवं वदन्त इच्छाप्रयत्नावनङ्गीकुर्व्वाणाः षड्गुणाधिकरणमयमित्याहुः। स किं बद्धोमुक्तो वा न तावत् बद्धोबन्धनसमाक्षिप्तस्य बन्धनहेतोः क्लेशादेरसम्भवात् मुक्तोऽपि न भवति रुद्धविच्छेदपर्य्यायत्वान्मुक्तेः। नित्यमुक्तः स्यात् यदाह तत्रभवान् पातञ्जलिः “क्लेशजन्मकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषईश्वर” इति। अनुमानचिन्तामणौ ईश्वरवादो यथा

“एवमनुमाने निरूपिते तस्माज्जगन्निर्मातृपुरुषधौरेयसिद्धिः क्षित्यादौ कार्य्यत्वेन षटवत् सकतृर्कत्वानुमानात्। ननु क्षित्यादि प्रत्येकं न पक्षः तस्य स्वशब्देनाभिधातुमशक्यत्वात् नापि मिलितम् एकरूपाभावात् अत एव सकर्तृत्वविचारारम्भकसंशयविषयः, तथाविवादविषयोवा न पक्षः एकरूपामावेन तयोस्तावत् ग्रहीतुमशक्यत्वात् वादिनोर्निश्चितत्वेन संशयाभावात्। न च वाद्यनुमानयोस्तल्यत्वेन मध्यस्थस्य संशयः। अनुमानाभ्यां तस्य संशयः मध्यस्थप्रश्रानन्तरञ्चानुमानमिति परस्पराश्रयात् घटेऽपि कदाचित् तयोः सम्भवात्, प्रत्येकसंशये विवादाभासत्वेनानुमानेऽर्थान्तरतापत्तेश्च। न च शरीरापेक्षेण कर्त्रा यन्न कृतं शरीराजन्यं जन्यं वा पक्षः जन्यात्मविशेषगुणशब्दफुत्कारसर्गाद्यकालीनवेदघटादिलिप्यादि संप्रदायाणामीश्वरमात्रकर्तृकाणामसंग्रहात् असिद्धेश्च अदृष्टद्वारा शरीरिणोऽपि क्षित्यादिकर्तृत्वात्। नापि जन्यकृत्यजन्यं जन्यम् उभयसिद्धकृतिजन्यान्यजन्यं वा पक्षः क्षित्यादीनामदृष्टद्वारा जन्यकृतिजन्यत्वात्। नाप्यदृष्टजनककृत्यजन्यं जन्यं कृतिसाक्षाद्जन्यं वा पक्षः ईश्वरकृतेरदृष्टजनकत्वेन क्षितौ तदभावात् घटादावप्येवं पक्षत्वेनांशतः सिद्धसाधनात्। न च क्षितिरेव पक्षः, अङ्कुरेण सन्दिग्धानैकान्तात्। न च निश्चितविपक्षे हेतुसन्देहात् स इति वाच्यं हेतौ साध्याभाववद्धर्मित्वसंशयस्य दूषकत्वात् स च साध्याभाववति हेतुसन्देहात् हेतुमति साध्याभावसन्देहाद्वा उभयथापि दोषः। न चैवं पक्षेऽपि तत्, अनुमानमात्रोच्छेदकत्वेन तदितरत्र तस्य दूषकत्वात्। अङ्कुरे हेतोरनिश्चयेन सन्दिग्धानैकान्तिकं तन्निश्चयेन साध्यसन्देहवति साध्यानुमितिरेव पक्षवत् सामग्रीसत्त्वात्। अत एवाङ्कुरः पक्षसम इति चेन्न तस्यापक्षत्वेन हेतोः पक्षधर्मताविरहेण स्थापनानुमानाविषयत्वात्। तदा तस्यापि पक्षत्वे प्रतिज्ञानुपपत्तिः। अत्र मानान्तराधीनतत्साध्यानुमित्यनन्तरञ्च पक्षेऽनुमितावितरेतराश्रयान्नैकमप्यनुमानम्। तत्रापि क्षित्या सन्दिग्धानैकान्तात्, क्षितेर्विवादविषयत्वेऽऽङ्कुरे साध्यमाने अर्थान्तराच्च। किञ्चैवमेकैकोपादानाभिज्ञसिद्धावपि नेश्वरसिद्धिः नापि सर्गाद्यकालीनं द्व्यणृकं पक्षः परम्प्रति सर्गाद्यसिद्धेः इति” पक्षाक्षेपः। “किञ्च सकर्तृकत्वं? न तावत् कृतिमत्सहभावः कृतिमज्जन्यत्वं वा अस्मदादिना सिद्धसाधनात्। उपादानगोचरापरोक्षज्ञानचिकोर्षाकृतिमज्जन्यत्वं तदिति चेत् उपादानगोचरत्वं यदि यत्किञ्चिदुपादानगोचरत्वं तदा अस्मदादिनाऽर्थान्तरत्वं ज्ञानादीनामपि जनकत्वं विवक्षितं न च घटोपादानगोचरज्ञानादीनां क्षितिजनकत्वं सम्भवति व्याभिचारादिति चेन्न क्षितिजनकादृष्टजनकज्ञानादीनाम् उपादानविषयनियमेनादृष्टद्वारा तैरेव सिद्ध साधनात्। न च साक्षात्तज्जन्यत्वं विवक्षितं तद्धि न कृति जन्याजन्यत्वे सति कृतिजन्यत्वं स्वजनककृत्य व्यवहितोत्तरक्षणबर्त्तित्वं वा घटदृष्टान्तस्य साध्यविकलत्वापत्तेः घटादौ कुलालादिकर्तृकत्वाभावप्रसङ्गाच्च। न च शरीरक्रियादृष्टान्त इति वाच्यं घटेनानैकान्तात् चेष्टात्वस्योपाधित्वाच्च। नापि क्षित्याद्युपादानगोचरत्वं विवक्षितं अप्रसिद्धेः न चोपादानशब्दस्य सम्बन्धिशब्दत्वेन घटक्षित्यादिसमभिव्याहारे तत्तदुपादानगोचरत्वं चैत्रोमातृभक्तोमैत्रवदिति वाच्यं शाब्दे हि बोधे तथा न चात्र शब्दः प्रमाणं वादिनोऽनाप्तत्वात्। अनुमाने त्वनुगतेन व्यापाकत्वग्रहेतेन रूपेण व्यापकसिद्धिः तच्चोपादानत्वमेवेति कथं नार्थान्तरम्। किञ्चैवं घटादावपि तदुपादानत्वेनैवोपस्थित्यासामान्येन रूपेण कुत्राप्यनुपस्थितेर्व्याप्तिरेव न गृह्येत। अपि च सामान्यलक्षणया ज्ञानलक्षणया योगजधर्मरूपया वा प्रत्यासत्त्योपादानगोचरापरोक्षज्ञानतज्जन्यचिकीर्षाकृतिमताऽस्मदादिना सिद्धसाधनम् तेषां क्षित्यव्यवहितपूर्व्वसमयासत्त्वेऽपि तद्वतः सत्त्वात् अदृष्टद्वारा तेषामपि जनकत्वसम्भवाच्च। ज्ञानादिसाक्षाज्जन्यत्वस्य निरस्तत्वात्। अथ योगजधर्माजन्यजन्यसविकल्पकाजन्य सामान्यलक्षणाप्रत्यासत्त्यजन्योपादानगोचरापरोक्षज्ञान चिकीर्षाकृतिमज्जन्यमिति साध्यम् यद्वा अनागतगोचरसाक्षात्कारजनकप्रत्यासत्त्यजन्यजन्यज्ञानादिमदजन्यं जन्यम् अनागतगोचरसाक्षात्कारजनकप्रत्यासत्त्यजन्योपादानगोचरांपरोक्षज्ञानचिकीर्षाकृतिमज्जन्यमिति साध्यम् ज्ञानाव्यवहितोत्तर समयवर्त्तीच्छाव्यवहितोत्तरक्षणवर्त्तिकृतीनां जनकत्वं विवक्षितं न तु ज्ञानादीनां यौगपद्यं पौवापर्य्यं वाऽतो न साध्याप्रसिद्धिर्नवा क्षित्यादौ बाध इति मैवं योगजधर्मसामान्यज्ञानरूपप्रत्यासत्तीनामनागतगोचरसाक्षात्कारस्य च तज्जनकप्रत्यासत्तीनाञ्च परस्याप्रसिद्धतया तदजन्यस्य साक्षात्कारस्याप्यसिद्धत्वेन पक्षसाध्ययोर्विशेषणासिद्ध्या परं प्रत्याश्रयासिद्धेः साध्याप्रसिद्धेः। तत्सिद्धौ वा पक्षे तदजन्यत्वासिद्धिः क्षितिजनकादृष्टजनककृतिचिकीर्षासाक्षात्काराणां योगजधर्माद्यजन्यानामदृष्टद्वारा क्षितिजनकत्वेन सिद्धसाधनात् न च तादृशसाक्षाज्जन्यत्वं विवक्षितं घटादिदृष्टान्ते तदसम्भवात्। दृष्टान्ते घटादौ जनकेष्टसाधनताज्ञानस्यानुमितित्वेन जन्यसविकल्पकव्याप्तिग्रहजन्यत्वेन साध्याप्रसिद्धेश्च। ननु व्याप्तिबलेन साध्यं सिध्यति व्याप्तिश्च यत्र यत्र कार्य्यत्वं तत्र तत्र तदुपादानाभिज्ञकर्तृत्वमितिरूपा न तु यद्यत् कार्य्यं तत्तत् किञ्चिदुपादानाभिज्ञजन्यमिति एवञ्च यत्र कार्य्यत्वं तत्र तदुपादानाभिज्ञजन्यत्वमिति विशिष्टव्याप्त्या क्षित्यादौ कार्य्यत्वं क्षित्याद्युपादानाभिज्ञजन्यत्वमेवसाधयाम्यतो न सिद्धसाधनमितिचेन्न घटे पटे च व्याप्तिग्रहः कार्य्यत्वस्य किं प्रत्येकं घटोपादानाद्यभिज्ञजन्यत्वेन, तत्तदुपादानाभिज्ञजन्यत्वेन, उपादानाभिज्ञजन्यत्वेन वा आद्येपटोपादानाभिज्ञजन्यत्वादौ कार्य्यत्वस्य व्यभिचार एव। द्वितीयेऽननुगमः। तत्तच्छब्दाभिधेयघटाद्युपादानगतानुगतरूपाभावात् कथं व्यापकताग्रहः। तत्तच्छब्दस्य स्वभावात् समभिव्याह्वतपरतया नायं दोष इति चेत् न अनुमानेशब्दस्वभावोपन्यासस्याप्रयोजकत्वात्। अतएवेदानीं देवदत्तोबहिरस्ति विद्यमानत्वे सति गृहासत्त्वात् विद्यमानत्वे सति योयदा यत्र नास्ति स तदा तदतिरिक्तदेशेऽस्ति यथाऽहमेव बहिरसन् गृहे प्रतिष्ठामीत्यत्र पक्षे दृष्टान्तसाधारणयत्तत्त्वयोरनुगतयोरभावान्नान्वयी किन्तु व्यतिरेकीत्युक्तम्। तृतीये सिद्धसाधनमेव। अथ सर्गाद्यकालीन द्व्यणुकं ज्ञानेच्छाकृतिसमानकालीतसामग्रीजन्यं कार्य्यत्वात् घटवत्। अदृष्टसामग्रीजन्यत्वेऽदृष्टत्वापत्तिरिति चेन्न परं प्रति सर्गाद्यसिद्धेः ज्ञानादीनां सिद्धावपि द्व्यणुकाजनकत्वात् तदानीमसिद्धावप्रयोजकत्वाच्च। एतेन सर्गाद्यकालीनं द्व्यणुकं द्व्यणुकासमवायिकारणसमकालीनकृतिजन्यमिति निरस्तं द्व्यणुकासमवायिकारणसमानकालीनकृतित्वेन गौरवाप्रयोजकाभ्यामजनकत्वात्” साध्याक्षेपः। “किञ्च कार्य्यत्वं? न तावत् योगोपस्थितकृत्यर्हत्वम् असिद्धेः नापि पूर्वकालासत्त्वे सत्युत्तरकालसम्बन्धः, तत्तत्पूर्वकालस्या ननुगतत्वात् सकलपूर्वकालस्याप्रसिद्धेः नापि कादाचित्कत्वं प्रागभावप्रतियोगित्वं ध्वंसेनानैकान्तात्। नापि सत्त्वे सति तत्त्वं सत्ताजातेः परं प्रत्यसिद्धेः स्वरूपसत्त्वस्य च ध्वंसेऽपि सत्त्वात् यत्तुअयं घटःएतद्धटजनकानित्यज्ञानचिकीर्षाकृत्यतिरिक्तज्ञानादिजन्यः कार्य्यत्वात् पटवदित्यादि तन्न विपक्षे बाधकाभावेनाप्रयोजकत्वात् अन्यथाऽयं घटः एतद्वटजनकानित्यादृष्टातिरिक्तनित्यादृष्टजन्यः कार्य्यत्वात् अपरघटवत्। एतत्सुखदुःखसाक्षात्कारौ एतज्जनकानित्यसुखदुःखसाध्यौ सुखदुःखसाक्षात्कारत्वादित्यादिना नित्यधर्मसुखदुःस्ताश्रयस्यापि सिद्धिप्रसङ्गात्। अयं घटः स्वजनकानित्यज्ञानाद्यतिरिक्तनित्य ज्ञानाद्यजन्यः अपरघटवदित्यादिना सत्प्रतिपक्षाच्च। केचित्तुदृश्यते ताबदभिमतविषयग्राहिणीन्द्रिये मनोनिवेशवतः पुंसोमनःक्रियानुकूलो यत्नः तथा च सर्गाद्यकालीनशरीरजन्य ज्ञानध्वंसानाधारकालाधारज्ञानजनकात्ममनःसंयोगजनिका मनःक्रिया तन्मनोगोचरपयत्नानाधारतन्मनोगोचरप्रयत्नतद्व्याप्येतर सकलकारणाधारकालानन्तरकालानाधाराद्य सत्ताका तन्मनःक्रियात्वात् ममतन्मनःक्रियावत् अर्थात् प्रयत्नाधारकालानन्तरकालाधारा सा क्रिया सिद्ध्यतीत्याहुः। तत्र सर्गाद्यकाले ज्ञाने जनकमनःसंयोगजनकक्रियायां मानाभावः पूर्वक्रिययैव संयोगसंभवात्। ईश्वरवादिनां तन्मनोगोचरप्रयत्नाधारकालोऽप्रसिद्धएव क्रियात्वस्यैव हेतुत्वे व्यर्थविशेषणत्वञ्च। किञ्चैवं प्रयत्नानाधारकालानन्तरकालाधारत्वम् अर्थात् तत्सिद्धौ मानान्तरादीश्वरासिद्धावर्थान्तरत्वमिति” हेत्वाक्षेपः।

“अत्रोच्यते अदृष्टाद्वारकोपादानगोचरजन्यकृत्यजन्यानि समवेतानि जन्यानि, अदृष्टप्रागमावव्याप्यप्रागभावाप्रतियोग्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यानि, स्वजनकादृष्टोत्तरोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यानि वा अपरोक्षज्ञानचिकीर्षाप्रयत्नविषयीभूतोपादानानि बा समवेतत्वे सति प्रागभावप्रतियोगित्वात् यदेवं तदेवं यथा घटः। तथा चैतानि तस्मात्तथा। उक्तपक्षे कस्यचिदनन्तर्भावेऽपि तदादाय निरुक्तस्य पक्षत्वनिर्द्देशे समूहालम्बनरूपैवानुमितिरुत्पत्स्यते। न च जन्यकृत्यजन्यत्वं तावत् अननुगतेष्वेकरूपाभावेन ग्रहीतुमशक्यमिति वाच्यं जन्यकृत्यजन्यत्वं हि जन्यकृतिजन्यान्यत्वमित्यन्यत्वेन रूपेण सामान्यलक्षणया तावतामुपस्थितेः न च जन्यत्वविशेषणव्यावृत्त्याप्रसिद्धिः प्रमेयो घट इति वदव्यावर्त्तकत्वे नापि तदुपरक्तबुद्धेरुद्देश्यत्वेन तस्योपरञ्जकत्वात्। उक्तान्यतमत्वमेव सकर्तृकत्वम् अतएव घटभोक्ता न तत्कर्त्ता व्य-

वह्रियते एवञ्च शब्दफुत्कारादीनां पक्षतैव ज्ञानेच्छादीनामपि पक्षत्वान्न सन्दिग्धानैकान्तः उपादानस्य सिद्धत्वेऽप्युपादेयस्यासिद्धत्वात्तद्वत्त्वेन तत्रापि चिकीर्षा। यद्वा पक्षे हेतौ च समवेतत्वं न विशेषणं तेन ध्वंसोऽपि पक्षः साध्ये चोपादानपदं कारणमात्रपरमुपादेयमेव वा जन्येच्छाकृत्यजन्यत्वञ्च पक्षे विवक्षितं तेन कृतिध्वंसस्य कृतिजन्यत्वेऽपीच्छाजन्यत्वाभावात् पक्षत्वम्। क्षितिरेव वा पक्षः न चाङ्कुरे सन्दिग्धानैकान्तिकं पक्षपक्षसमनिरपेक्षेण घटादौ निश्चितव्याप्तेर्लिङ्गस्य तयोर्दर्शनेनोभयत्रानुमित्यविरोधात्। नन्वनुमित्योरन्योन्यापेक्षत्वं येनान्योन्याश्रयः स्यात् प्रतिज्ञाया अविषयत्वात्तत्र पक्षसमव्यपदेशः। न चाङ्कुरस्य पक्षत्वेनानिर्द्देशात्तत्र न पक्षधर्मताज्ञानमिति वाच्यं सिषाधयिषाविरहसहकृतसाधकप्रमाणविरहवति लिङ्गज्ञानस्यानुमितिमात्रकारणत्वात्। तच्च क्षितौ पञ्चावयवेनाङ्कुरे स्वत एवेति न कश्चिद्विशेषः। यदि च क्षितौ हेतुनिश्चयदशायां हेतुमत्तयाऽङ्कुरस्य निश्चयस्तदा क्व सन्दिग्धानैकान्तिकम्?। अथ पक्षसमे साध्याभावसामानाधिकरण्यसंशयाद्धेतौ व्याप्तिग्रह एव नोत्पद्यते उत्पन्नोऽपि वा वाध्यत इति चेत्तर्हि महानसे धूमव्याप्तिग्रहो न स्यात् भूतोऽपि वा बाध्येत सन्दिग्धवह्निपर्वतापर्बतधूमवतामेकधर्माभावेनापेक्षत्वात् तस्मात्साध्यसन्देहवति हेतुनिश्चयो न दोषः किन्तु गुणएव। अन्यथानुमानमात्रमुपच्छिद्येत। पक्षादन्यत्र दूषणमिति यदुक्तं तत्र पक्षान्यत्वं यदि, तदाऽनपेक्षितानुमितिर्न स्यात्। अथ सन्दिग्धसाध्यान्यत्वं साधकबाधकप्रमाणाभावविषयान्यत्वं वा विवक्षितं तदाङ्कुरेऽपि तन्नास्ति अथ प्रतिज्ञाविषयान्यत्वं तदा स्वार्थानुमित्युच्छेदः नियतविषयज्ञानाजन्यत्वेन पक्षविशेषणात् सर्वविषयज्ञानसिद्धिः साध्ये च ज्ञानेच्छाप्रयत्नानां विशेषणत्वेन विशिष्टस्य माधनत्वं विवक्षितं तेन न तदोपलक्षितक्षेत्रज्ञेनार्थान्तरं सामान्यतोऽपि साध्यनिर्देशेपक्षधर्मताबलेनाभिमतविशेषसिद्धेः। नन्वाद्यसाध्यद्वये घटाद्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतीनामेव जनकत्वमायात्वित्यर्थान्तरम्। न च तेषां व्यभिचारात् क्षित्वादावकारणत्वमिति वाच्यम्। अनादौ प्रवाहे कस्यचित् कदाचित् क्षितिद्व्यणुकादि पूर्वं घटाद्युपादानगोचरज्ञानादिसत्त्वात्। न च सर्गास्यकालीनस्यापि पक्षत्वात्तत्रेश्वरसिद्धिः परं प्रति तदसिद्धेरिति चेत् न ज्ञानादीनां त्रयाणां स्वविषयसमवेतकार्य्यं प्रत्येव जनकत्वावधारणेनैतदनुमानस्य तदविषयत्वात् अतएवान्योपादानगोचरापरोक्षज्ञानाद्यजन्यत्वेन पक्षविशेषणमपि न युक्तम्। तृतीयसाध्ये तु नार्थान्तरं क्षित्यादेर्घटाद्युपादानासमवेतत्वात्। ननु सामान्यलक्षणादिप्रत्यासत्त्या क्षित्याद्युपादानगोचरं यत् प्रत्यक्षं तज्जन्यमेवास्तु तथाचेश्वरे न प्रत्यक्षं न वेच्छाप्रयत्नो तयोः समानाधिकतरज्ञानाविषयेऽसत्त्वात्। न च तादृशप्रत्यासत्त्यक्षन्यत्वं प्रत्यक्षे विशेषणं, परं प्रत्यसिद्धेरिति चेन्न द्रव्यत्वेन ज्ञानलक्षणया वा कपालगोचरप्रत्यक्षेऽपि घटादावकर्तृत्वात् क्षित्यादौ कर्तृत्वनिर्वाहकं ज्ञानं सिध्यत्तद्विलक्षणमेव सिध्यति न चावयवविभागद्वारा क्षित्यादिपुञ्जलक्षणात् समुदादिषु हस्तक्षेपात् परमाणुद्वयसंयोगेन द्व्यणुकेष्वऽस्मदादि कर्तृकत्वादिसतः सिद्धसाधनमिति वाच्यं तत्र हि क्षितिनाशे कर्तृत्वं न खण्डक्षितौ अवस्थितसंयोगेभ्य एव तदुत्पत्तेः सकलतदुपादानगोचरज्ञानेच्छाकृतीनामभावाच्च अत एव द्व्यणुकेऽपि न कर्तृत्वं जलक्षेपादधिकपरिमाणसमुद्रादेः सपक्षत्वमेव घटस्येव। ननु घटे साध्यविकलत्वम् अन्वयव्यतिरेकाभ्यां ज्ञानादेरेव जनकत्वात् न तु तदाश्रयस्य धर्मिग्राहकस्थान्वयव्यतिरेकस्य वा ग्राहकस्याभावात्। न च घट आत्मजन्य उत्पत्तिमत्त्वात् ज्ञानवदिति वाच्यम् आत्मसमवेतत्वस्योपाधित्वात् घट आकाशजन्य उत्पत्तिमत्त्वात् शब्दवदिति वत् अप्रयोजकत्वाच्चेति चेन्मैवं प्रयत्नवदात्मसंयोगश्चेष्टाद्वारा घटहेतुरतः प्रयत्नवानात्मापि हेतुः न चात्मसंयोगे सत्यपि प्रयत्नं विना न चेष्टेति प्रयत्न एव तत्कारणम् असमवायिकारणं विना कार्य्यानुत्पत्तेः न चात्मसंयोगस्य कारणत्वेऽपि संयोगपरिचायकमात्रमात्मेति वाच्यं संयोगमात्रस्याकारणत्वेन संयोगिविशेषितस्य हेतुत्वात्। आत्मसंयोगव्यतिरेकप्रयुक्तक्रियाव्य तिरेकासिद्धेर्नात्मसंयोगः कारणमिति चेन्न या क्रिया व्यांधकरणयदीयगुणजन्या सा तत्संयोगासमवायिकारणिका यथा स्पर्शवद्- द्रव्यसंयोगजक्रियेति तत्सिद्धेः न च क्रियायामूर्त्तमात्रसमवेतासमवायिकारणत्वनियमः कार्य्यमात्राभिप्रायण ज्ञानादौ व्यभिचारात् विशेष्याप्रयोजकत्वात् असमवायिकारणसंयोगाश्रयस्य तत्कार्य्यजनकत्वनियमाच्च। अन्ये तु अनुकूलकृतिसमवायित्वं कर्तृत्वं न तु जनकत्वे सति, गौरवात् कर्त्तरि कारकव्य वहारश्चाभियुक्तानां “सविशेषण” इति न्यायेन कृतिपर्य्यवसन्न एव। एवं ज्ञानेच्छाकृतिजन्यत्वमेव साध्यं तदाश्रत्वमेवेश्वरस्य कर्तृत्वम्। अथ घटे कृतिसाध्येष्टसाधनताज्ञानं चिकीर्षाद्वारा हेतुः तच्च न प्रत्यक्षं चिकीर्षाविषयेऽनागते इन्द्रियासामर्थ्यात् किन्त्वनुमितिरूपं तथा च साध्यविकलोदृष्टान्तः साध्याप्रसिद्धिर्वेति चेन्न सिद्धवृत्त्यसिद्धविषया हि कृतिः सिद्धविषयप्रत्यक्षे सति भवति न हि सूपौदनयवानां संस्थामविशेषे कृतिसाध्येष्टसाधनारण्यकयवस्य प्रत्यक्षेणोपस्थितिं विना प्रवृत्तिः अतएव यागे शब्दात्तदुपजीविलिङ्गाद्वा कृतिसाध्येष्टसाधनत्वेऽवगतेऽपि हविरादीनां प्रत्यक्षेणानुपस्थितौ न प्रवृत्तिः न चोपादानप्रत्यक्षं प्रवर्त्तकज्ञानोपक्षीणम् अप्रत्यक्षपरमाणौ तत्क्रियायामिष्टसाधनताज्ञानेऽप्यप्रवृत्तेः प्रवृत्तिविषयमृदङ्कुरादेः प्रत्यक्षत्वान्न शब्दफुतकारादिना व्यभिचारः न चाभिमतग्राहकेन्द्रियसंयोगान्मनसि प्रयत्नजन्यकियाप्रदर्शनाद्व्यभिचारः अवृष्टसहकृतत्वगिन्द्रियेण हि मनोवहनाडीनामुपलम्भेन तद्गोचरप्रयत्नान्नाडीक्रिया ततः स्पर्शवद्वेगवन्नाड्या नोदनान्मनसि क्रिया न तु प्रयत्नात्। अतएव जलाद्यभ्यवहारमलोत्सर्गहेतुनाडीनामनाद्यभ्यासवासनावशाददृष्टसहकृतत्वगिन्द्रियेणोपलम्भात् तद्गोचरः प्रयत्नः। नन्वेवं घटादावनुमिते र्जन्यत्वदर्शनादीश्वरेऽनुमितिरेव न सिद्ध्येत् यथा च प्रत्यक्षस्येन्द्रियजन्यत्वेऽपि नित्यं तदीश्वरे तथानुमितेर्नित्यं जन्यत्वेऽपि सा तत्र नित्यैव अनित्येनानादिद्व्यणुकाद्यजननादिति चेन्न सुखदुःखाभावादिसाधनानुमिते तर्हि घटादौ हेतुत्वं गृहीतं न च तावता शरीरादृष्टाभावेन सुखमस्त्यतो न क्षित्यादौ तस्यानुमितिर्यथार्थासम्भवति न च तादृशानुमितेरनुमित्यन्तरस्य वाऽनुमितित्वेन घटादौ वृत्तिविषयप्रत्यक्षत्वहेतुत्व गृहीतमतो गेश्वरेऽनुमितिः। नन्वद्वेषजन्यकृतिसाध्ये चिकीर्षाविरहाद्व्यभिचारः तद्दूष्टान्ते न क्षित्यादौ द्वेषसाध्यत्वादीश्वरे द्वेषोऽपि स्यात् द्वेषवतः संसारित्वेन भगवतोऽपि तथा स्यादिति चेन्न न हि सर्पादिद्वेषादेव तन्नाशानुकूलव्यापारे कृतिरुत्पत्तु- मर्हति प्रयोजनं विना दुःखैकफणे प्रेक्षावतां कृतेरनुपपत्तेः किन्तु दुःखसाधनध्वंसं तत्साध्यदुःखानुत्पादं वा फलमुद्दिश्य तत्साधनताज्ञानात्, तथा चेष्टसाधनता ज्ञानात्तत्रेच्छास्त्येवेति सैव कृतिकारणं कॢप्तत्वात् द्वेषस्तु परम्परया तदुपक्षीणः, कुतस्त्रर्हि द्वेषः, शत्रुं द्वेष्मीति अबाधितप्रत्ययात्। न चादृश्यकर्तुरनुपलब्धिबाधः, अनुपलब्धिमात्रस्य बाधकत्वेऽतीन्द्रियोच्छेदात् योग्यानुपलब्धेश्चासिद्धेः परात्मनोऽयोग्यत्वनियमात् शशशृङ्गप्रतिवन्द्या च नादृश्यमात्रनिरासः परमाण्वादिस्वीकारात् नाप्ययोग्यकर्तृकनिरासः चेष्टया ज्ञानादिमतः परात्मनोऽनुमानात् परं प्रति तस्य योग्यत्वात्। नापि शृङ्गे पशुत्ववद प्रयोजकं, कर्तुः कार्य्यमात्रे कारणत्वावधारणात् प्रतिवन्दिमात्रस्यादूषणत्वात्। शशे पशुत्वेनायोग्यशृङ्गसिद्धिंकुतोनेति चेत् अर्थान्तरत्वात् विपक्षे बाधकाभावात् व्याप्त्यसिद्धेः शृङ्गत्वस्य योग्यसंस्थानविशेषव्यङ्ग्यत्वे योग्यस्य विरोधेन शङ्कितुमशक्यत्वात् शशे शृङ्गस्यात्यन्ताभाव इति सर्वेषामबाधितप्रत्यक्षबाधितत्वाच्च। अथ कृतिकार्यंत्वयोर्नान्वय व्यतिरेकाभ्यां व्याप्तिग्रहः त्वन्मते व्यापककृतेः सत्त्वेन देशे समये वा कृतिमात्रव्यतिरेकानिरूपणात् नित्यकृतेरन्वयोऽपि गृहीतो न वह्निमात्रव्यतिरेकोऽस्ति गृयहते च। न चैवमाकाशात्मनोरप्यसिद्धिः समवायिमात्रस्य व्यतिरेकानिरूपणेन काय्य समवायिकारणजन्यमिति व्याप्तेरसिद्धेरिति वाच्यं समवायिकारणत्वग्रहे हि तत्संसर्गाभावोऽप्रयोजको निमित्तमात्नसाधारणत्वात् किन्तु यत्समवायि तत्र कार्य्यं यन्न समवायि तत्र नेत्यन्थोन्याभावमादाय कार्य्यं समवायिजत्यमिति व्याप्तिग्रहसम्भवात्। समवायित्वेन तयोरन्योन्याभावोऽस्ति गृह्यते च। यद्वा भावकार्य्यं समवेतमिति व्याप्त्या तयोः सिद्धिरिति यथा हि यद्यद्वह्नेरन्वये धूमोगृहीतस्तत्तद्व्यतिरेके धूमव्यतिरेकग्रहात् वह्निधूममात्रयोर्व्याप्तेर्ग्रहः न तु पर्वतीयवह्नेः अन्वयव्यतिरेकग्रहात्। न चान्यान्वयव्यतिरेकाभ्यामन्यव्याप्तिग्रहेऽतिप्रमङ्गः यद्विशेषयोरन्वयव्यतिरेकग्रहः तत्सामान्ययोर्बाधक विना व्याप्तिग्रहात् स च वह्निधूमव्याप्तिग्रहे उत्पद्यमानः सकलधूमगोचरोधूमत्वपुरस्कारेण प्रसिद्धधूमगोचर एव न भवति। तथेहापि कृतिविशेषकार्य्य विशेषयोरन्वयव्यतिरेकग्रहो बाधकं विना कृतिकार्य्यत्वमात्रयोर्व्याप्तिग्रह उपायः न तु पक्षधर्मताबलेन अविशेषान्वयव्यतिरेकग्रहः अनुमानमात्रो- च्छेदप्रसङ्गात्। एतेन “कार्य्यत्वस्य विपक्षवृत्तिहतये सम्भाव्यतेऽतीन्द्रियः कर्त्ता चेद्व्यतिरेकसिद्धिविधुरा व्याप्तिः कथं सिध्यति। दृश्योऽथ व्यतिरेकसिद्धिमनसा कर्त्ता समाधीयते तस्याद्यापि तदा दृशादिकमिति व्यक्तं विपक्षेक्षणमिति” निरस्तम्। ननु यदि कर्तृमात्रव्यतिरेकग्रहाददृश्यकर्तृसिद्धिस्तदा वह्निमात्रव्याप्तधूमाददृश्यजठर्य्यसि द्धिरपि स्यात्, न स्यात् अदृश्यवह्नेर्धूमानुपपत्तेः दृश्यस्यैव तत्र हेतुत्वात्। ननु ज्ञानेच्छाप्रयत्नत्रयव्यतिरेकान्न कायेव्यतिरेकः किन्तु एकैकव्यतिरेकात् तथा च व्यर्थविशेषणत्वे विशिष्टव्यतिरेको न हेतुव्यतिरेकव्याप्य इति न हेतोर्विशिष्ट सिद्धिः साध्याभावव्यापकाभावप्रतियोगिन एव साध्यगकत्वादिति चेन्न यत एकैकव्यतिरेकात् कार्यव्यतिरेकोऽतएव कार्यत्वादेरेकैकं सिध्यत्त्रयमपि सिध्यति। आर्थस्तु समाजः।

स्यादेतत् अशरीरसर्वज्ञनित्यज्ञानादिमान् कर्त्ता पक्षे विवक्षितः घटादौ च कार्यत्वस्य तद्वि परीतकर्तृसहचारादिदर्शनाद्विशेषविरुद्धत्वमिति न हेतोर्विवक्षितसाध्यविपरीतसहचारमात्रस्यादूषणत्वात् अन्यथानुमानोच्छेदप्रसङ्गात्। न चानित्यज्ञानासर्वज्ञशरीरकर्तृत्वेन समं कार्यत्वस्य व्याप्तिरस्ति येन तद्विपरीतसाधने विरुद्धं स्यात् तादृशव्याप्तिश्च त्वया मया वा नाङ्गीक्रियते अङ्कुरादौ योग्यानुपलम्भेन शरीरिकर्त्तृत्वाभावात्। अथ यथादर्शनबलप्रवृत्तव्याप्त्याऽनित्यज्ञानादिमान् कर्तोपनेयः पक्षधर्मतया च नित्यज्ञानादिमान् तथा चोपनेयविशेषयोर्विरोधेन व्याप्तिपक्षधर्म्मतयोर्विरोधात् परस्परसहकारिताविरहान्नानुमान विशेषविरोधादिति चेन्न अनित्यज्ञानादिकर्तृजन्यत्वेन व्याप्त्यभावात् ज्ञानादिमत्कर्तृजन्यत्वव्याप्तेः पक्षधर्मताबलेभ्यः विशेषाविरोधात् केवलाया व्याप्तेश्च पक्षधर्मतायाश्च पृथगुपनायकत्वाभावाच्च एकवैयर्थ्य प्रसङ्गाच्च तथा च निरपेक्षतायां विशेषानुपस्थापनादेव न विरोधज्ञानं सापेक्षतादशायाञ्च सहोपलम्भादेव विरोधप्रतियोगिनोः सिद्ध्यसिद्धिभ्यां विरोधभावज्ञानाभावाच्च। लिङ्गविशेषेण साध्यविशेषेण च एव विरोधे च विशेषविरोधः यथा चन्दनप्रभववह्निमानयं सुरभिधूमवत्त्वात्। ननु ज्ञानत्वनित्यत्वयोः कर्तृताशरीरित्वयोश्च परस्परविरुद्वत्वेन एकधर्ग्य समावेशात् कथं नित्यज्ञानादिकर्तृसिद्धिः, न उपसंहारस्थानाभावात्। तथाहीश्वरे तद्बुद्धौ चाशरीरित्वकर्तृबुद्धिनित्यत्वे च उपसंह्रियमाणे विरुद्धे, न तु स्वाश्रयस्थिते उभयोच्छेदप्रसज्ञात्, न चेश्वरस्तद्बुद्धिर्वोपस्थिता उप- स्थितौ वा धर्मिग्राहकमानेन तयोर्विरीधापहारात् अनुपस्थिते च तयोर्विरोधज्ञानमकिञ्चिकरमेव अस्मादादि बुद्धौ व्योमादौ कुविन्दे मुक्तात्मनि च उपस्थिते विरोधोप सहारात्, बुद्धिनित्यत्वयोः कर्तृत्वाशरीरित्वयोरनधिगमेऽपि ईश्वरेऽशरीरिकर्तृत्वनित्यज्ञानादिसिद्धिरप्रत्यूहैव। अतएव नित्यत्वावयवत्वयोर्विरोधज्ञानमकिञ्चित्करमेवेति परमाणुसिद्धिः। ईश्वरतद्बुद्ध्यादिकं तर्कितमिति चेन्न तर्कस्य प्रसञ्जनस्य संशयस्य वाऽज्ञानेऽसम्मवात्। स्यादेतत् घटादौ कृतिसाध्यता हस्तादिव्यापारादिद्वारैव न तु साक्षात, न च पितापुत्रयोरेकघटसाधकत्वमिव प्रयत्नहस्तादि व्यापारयोः साधकत्वं वाच्यं घटार्थं हस्तव्यापारादिना व्याप्रियमाण कुलालसमीपदेशस्थस्य हस्तादिव्यापारशून्यस्य तद्घटकर्तृत्वापत्तेः न च हस्तादिव्यापारवत्ताऽशरीरस्य सम्भवति अन्यादृशी च कृतिसाध्यता न दृष्टा, शरीरतद्व्यापारौ चाङ्कुरे बाधिताविति कर्त्तुरपि बाधः। अन्यथा तदनुमानात्क्षेत्रज्ञ एव कर्त्ता क्षितौ च अनुमीयते बुद्ध्यादिमत्परात्मनोयोग्यानुपलब्धिबाधाभावात् शरीरव्यापारद्वारैव क्षेत्रज्ञस्य हेतुत्वात् शरीरव्यापारस्य चाङ्कुरे बाधात् बाधितैति चेत्तर्हि कर्त्तृमात्रस्यापि तद्द्वारैव चेष्टेतरकार्य्यकर्तृत्वदर्शनात् तत्रापि कर्तृमात्रे बाधोऽपि। एवञ्च कृतिसाध्यत्वे शरीरव्यापारजन्यत्वं प्रयोजकमिति सएवोपाधिः। एवं ज्ञानेच्छयोरपीच्छाकृतिद्वारा जनकत्वमिति कथं द्वारं विना क्षित्यादौ जनकत्वमिति। उच्यते। जन्यमात्रे हस्तादिजनककृतित्वेन न जनकत्वं चेष्टायां क्षित्यादौ च व्यभिचारात् घटादौ च तथा जनकत्वमिति जन्यमात्रे कृतिमात्रस्य जनकत्वविरोधिविशेषयोर्जन्यजनकभावे बाधकं विना सामान्ययोरपि तथाभावनियमात्। न हि विशेषे विशेषप्रयोजकत्वेन सामान्यप्रयोजकत्वविरोधः। चेष्टेतर कार्ये शरीरद्वारैव कृतेर्हेतुत्वात् तेन विना क्षित्यादौ न कृतिसाध्यत्वमिति चेत् चेष्टेतरकार्यमात्रे शरीरव्यापारकृतित्वेन जनकत्वे क्षित्यादौ व्यभिचारात्। किन्तु तद्विशेषघटादौ इत्युक्तत्वात्। न चैवमामवातजडीकृतकलेवरस्य प्रयत्नादेव घटोत्पत्तिः स्यात् हस्तादिव्यापारं विनैव कृतेर्हेतुत्वादिति वाच्यं घटे कृतौ हस्तादिव्यापारस्यापि हेतुत्वात्। यदुक्तं क्षेत्रज्ञ एव कुतोनानुमीयत इति तत्र हस्तादिव्यापारककृतिमान् यदि क्षेत्रज्ञोऽभिमतः तदा हस्तादिव्यापारस्याङ्कुरे योग्यानुपलब्धिबाधात् अथ हस्तादिव्यापाररहितकृतिमानभिमतस्तदोमित्युच्यते स ण्व भगवानीश्वरः। अतएव सहभावनिरूपकत्वे नियतपूर्ववर्त्तित्वं कारणत्वं समवाय्यसमवायिनोस्तथात्वेन निमित्तेऽपि तथाभावात् अन्यथा प्रतिबन्धकाभावानन्तरं प्रतिबन्धकसत्त्वे कार्य्यं स्यात् प्रतिबन्धकाभावस्य पूर्वं सत्त्वात् न च कृतेः सहभावनिरूपकत्वं स्वतः कार्य्यसमयेऽभावात् तथा चैतत्परिचायितव्यापारद्वारा तस्याः सहभावनिरूपकत्वमतः शरीरव्यापारद्वारैव कृतेर्जनकत्वं न केवलाया इत्यपास्तम् समवाय्यसमवायिप्रतिबन्धकाभावानामविनश्यदवस्थत्वेन कारणत्वात् तथैवान्वयव्यतिरेकात् तेन तेषामभावे विनाशक्षणे च कार्य्यम्, अन्यथा प्रतिव्यक्ति कार्य्यसहभावनिरूपणे कार्य्योत्पत्तेः प्राक्सहभावस्य निरूपयितुमशक्यत्वात् कारणत्वानिश्चये क्वापि प्रवृत्तिर्न स्यादिति, तज्जातीयत्वस्यावश्यवाच्यत्वे विनश्यदवस्थं कथं सहभावेनापि व्यवच्छेद्यम् अतः स्वरूपयोग्यतारूपा कारणता तत्रापि, कार्य्याभावस्तु सहकारिविरहात् अन्यथा निमित्ता नां प्रत्येकं कार्यसहभावनिरूपकत्वेन जनकत्वे गौरवं प्रागभावस्य प्रतियोग्यजनकत्वप्रसङ्गात् अन्यथा उत्पन्नो पि पुनरुत्पद्येत सामग्रीसत्त्वात्। न च स एव तत्र प्रतिबन्धकः अभावान्तरस्याकारणत्वेन तत्र कारणीभूताभाव प्रतियोगित्वरूपस्य प्रतिबन्धकत्वस्य प्रागभावकारणत्व एव विश्रामात्। न चैकसामग्री एकदा एकमेव कार्य्यं जनयति स्वभावादिति वाच्यं सामग्रीतद्विरहस्य कार्य्यतदभाव प्रयोजकत्वेन सामग्र्यां सत्यां कार्य्यस्य, तदभावे सामग्रीविरहस्य कार्य्याभावस्य वज्रलेपायितत्वात्। स्यादेतत् कर्त्ताशरीर्य्येव ज्ञानमनित्यमेव बुद्धिरिच्छाद्वारैव कृतिद्वारैवेच्छा हेतुरित्यादि प्राथमिकप्राप्तप्रत्यक्षविरोधात् नाशरीरनित्यज्ञानादिकर्तृसिद्धिः। अतएव शरीरमनित्यमेवेति नियमान्न कर्तृत्वेन नित्यातीन्द्रियशरीरसिद्धिरीश्वरे। न चाप्रयोजकं निरुपाधित्वेन शङ्काकलङ्कानवतारात् कार्य्यत्वसकर्तृकत्वयोर्यदि निरुपाधिकत्वमस्ति तदापि तुल्यबलत्वेन सत्प्रतिपक्षात् तत्प्रतिवन्धोऽस्तु। न च कार्य्यत्वंपक्षधर्म्मतासत्त्वाद्बलीयः कर्त्ता शरीर्य्येवेत्यादौ तन्नास्तीति वाच्यं ज्ञानमनित्यमेवेति व्याप्तेरेव ज्ञानजन्यत्वविरोधित्वात् एवं कार्य्यं ज्ञानजन्यं ज्ञानमनित्यमेवेत्यनयोर्विरोध एव अविरोधे तु द्वयमपि स्यात् तथा च क्षित्यादौ शरीर्य्यनित्यज्ञान पर्य्यवसाने विरोध एव स्यात्। किञ्च ज्ञानमनित्यमेवेत्यादौ नित्यज्ञानादेरप्रसिद्धेः तदव्यावर्त्तकतया नोयाधिनिश्चयस्तत्संशयोवा कार्य्यत्वसकर्तृकत्वव्याप्तिदशायां शरीरव्यापारव्यभिचारात् उपाधेर्निश्चयः संशयोवास्तीतितन्न ज्ञानमनित्यमेवेत्यादिव्याप्तेरसिद्धेः विपक्षे बाधकाभावेनाप्रयोजकत्वात् निरुपाधिसहचारदर्शनव्यभिचारादर्शनादेव व्याप्तिग्रहः। निरुपाधित्वमेव विपक्षे बाधकमिति चेन्न अवयवोमहानेव तेज उद्भूतरूपमेवेत्यादि व्याप्तिग्रहात् परमाणुनेत्रादेरसिद्धिप्रसङ्गः। अतएव चाक्षुषत्वेऽनेकद्रव्यवत्त्वस्य, साक्षात्कारे विषयेन्द्रियसन्निकर्षस्य हेतुत्वात तन्मूलकविपक्षबाधकेन परमाण्वादिसाधकस्य बलवत्त्वात् परमाण्वादिसिद्धौ विरोधिव्याप्तेर्बाधः न तु वैपरीत्यं विपक्षे बाधकाभावेन तस्याबलवत्त्वादिति मन्यसे तर्हि ज्ञानादिकार्य्यकारणभावावधारणात् तन्मूलकविपक्षबाधकेन निष्कलङ्क व्याप्तिग्रहात् पक्षधर्म्मताग्रहसहितान्नित्यज्ञानादिसिद्धौ व्यभिचारान्न व्याप्तिः। अन्यथा साध्यं पक्षातिरिक्त एवेत्यादि निरुपाधिसहचाराद्व्याप्तिग्रहबलात् सकलानुमानोच्छेदः। वयन्तु ब्रूमः। पक्षधर्म्मताबलान्नित्यं ज्ञानं सिध्यत् बुद्धिरनित्यैवेति व्याप्तिप्रत्यक्षेण न प्रतिबध्यतेऽस्मदादिबुद्धिविषयकत्वेन भिन्नविषयकत्वात् एकविषयविरोधिज्ञानस्यैव प्रतिबन्धकत्वात् नित्यत्वानित्यत्वयोरेकजातीये द्रव्येऽविरोधात्। बुद्धिमात्रेऽनित्यत्वावगमात् कथं तद्विशेषनित्यत्वबुद्धिरिति चेन्न बुद्धिमात्रस्येश्वरानीश्वरबुद्धिपरत्वे विरोधात् व्यभिचाराच्च अस्मदादिबुद्धिपरत्वे च भिन्नविषयत्वेनाप्रतिबन्धकत्वात्। बुद्धित्वं नित्यावृत्त्येवेत्यवगतमतस्तत्र कथं नित्यवृत्तित्वावगम इति चेन्न उभयसिद्धनित्यावृत्तित्वावगतौ विरोधाभावात्। बुद्धित्वमनित्यत्वव्याप्यमवगतं नानित्यत्वाभाववति ज्ञातव्यमिति चेत् अनित्यत्वव्याप्यमनित्यमात्रवृत्तित्वं तत्र चोक्तमेव। एतेन कर्त्ता शरीर्य्येवेत्याद्यपि ज्ञानं प्रतिबन्धकमिति निरस्तम्। ननु कर्तृजन्यत्वेजन्यत्वं नावच्छेदकं किन्तु घटत्वादिकमेव तेनैव रूपेणान्वयव्यतिरेकात् आवश्यकत्वाच्च अननुगतमपि जन्यतावच्छेदकं वह्निजन्यतायां धूमत्वादिवत्। अथ घटत्वादिवज्जन्यत्वमवच्छेदकं न हि विशेषोऽस्तीति सामान्यमप्रयोजकं तथा च वह्निजन्यत्वे धूमविशेषः प्रयोज्योऽस्तीति न धूमसामान्यमग्निं गमयेत् तस्माद्यद्विशेषयोः कार्य्यकारणभावः तत्सामान्ययोरपि बाधकं विना तथात्वनियमः। न तत्र बाधकाभावात् अत्र ज्ञानमनित्यमेवेत्यादि प्राथमिकबहुव्याप्तौ बाधात् तुल्यत्वेन व्याप्तिसंशयाधायकत्वात्। न च कार्य्यकारणभाव मूलकत्वेन कार्य्यत्वव्याप्तिर्बलीयसीति वाच्यं विरोधिप्रावक्षेण कारणभावस्यैवासिद्धेः। एतेन धूमादौ वह्नित्वं जन- कतावच्छेदकमनुगतं सम्भवतीति हन्त जन्यत्वमनुगतमस्त्यतो बाधकं विना न मुच्यते इति, निरस्तम्। ज्ञानमनित्यमेवेत्यादिसहचारावसायस्य बाधकं विना पक्षधर्म्मव्याप्तिपर्य्य वसायितत्वेन बाधकत्वादिति मैवम् निरुपाधित्वेन सहचारावसायस्य साधकं बाधकं च विना साधारणत्वे व्याप्तिसंशयाधायकत्वात्। अन्यथा साध्यं पक्षातिरिक्त एव सुखं दुःखसंभिन्नमेवेत्यादि व्याप्तिग्रहस्य कार्य्यकारणभावग्राहकबाधकत्वे तत्संशायकत्वे वा कारणानुमानोच्छेदनिरीहं जगज्जायेत। तस्माद्यद्विशेषयोः कार्य्यकारणभावस्तत्सामान्ययोः कार्य्यकारणभावो बलवता बाधकेनापनीयाते, न चात्र तदस्ति विरोधिव्याप्तिसाधकस्य विपक्षबाधकस्याभावात्। नव्यास्तु कार्य्यं कर्त्तृजन्यमिति व्याप्तितोऽशरीरनित्यज्ञानकर्त्त्रुपस्थितौ ज्ञानमनित्यमेवेत्यनेन विरोधप्रतिसन्धाने न तु तां विना प्रतियोग्यनुपस्थितौ विरोधोऽनिरूपणात् तथा चोपजीव्यबाधात् ज्ञानमनित्यमेवेति व्याप्तिज्ञानमकिञ्चित्करमेव। अतएव पक्षधर्मताविनाकृतं विरोधिव्याप्तिज्ञानं न हेत्वाभासतयोक्तं विरोधिप्रतियोगिसिद्ध्यसिद्धिपराहतत्वदिति

स्यादेतत् अस्तु शरीरजन्यत्वमुपाधिः न च पक्षेतरत्वरूपविपक्षमात्रव्यावर्त्तकविशेषणत्वात् साधनविशेषितत्वात् साधनतुल्ययोगक्षेमत्वेन साध्यव्यापकत्वानिश्चयाच्च नोपाधित्वं, चेष्टेतरकार्य्येषु शरीरव्यापारद्वारैव कर्त्तुः कारणत्वात् न हि शरीरविनाकृतः कर्त्ता शरीरक्रियां घटादिकं वा जनयति। न च यत्सहकृतं यज्जनकम् तेन विना तज्जनकम् अतोऽस्माच्छरीराज्रन्यमेव कर्त्तृजन्यमिति साध्यव्यापकत्वनिश्चयात्। पक्षेतरत्वादौ च विपक्षबाधकाभावान्न साध्यव्यापकतानिश्चय इति तेषामनुपाधित्वे वीजम्। अत एव बाधोन्नीतं वह्नीतरत्वं वह्निमत्त्वे न धूमवत्त्वे साध्ये आर्द्रेन्धनप्रभववह्निमत्त्वं रसवत्त्वेन गन्धवत्त्वे साधो पृथिवीयमुपाधिः विपक्षबाधकैस्तेषां साध्यव्यापकत्वनिश्चयात्। न च साधनविशेषितत्वमपि, जन्यत्वं प्रागभावप्रतियोगित्वं शरीरजन्यत्वञ्च शरीरकारणवत्त्वमन्यानिरुक्तेः इतरपदसमभिव्याहारेण जन्यपदादितरकारणकस्यैव प्रतीतिस्तदर्थत्वकल्पनादिति विधौ वक्ष्यते। अतएव शरीरिकर्तकत्वमुपाधिः शरीरसहकृतस्यैव कर्त्तुः कारणत्वात् व्याप्यव्यापककोट्योरनिवेशयत एव प्रमाणस्य व्याप्तिग्राहकत्वात्। शरीरिकर्तृकत्यसकर्तृकत्वयोर्न व्याप्तिग्रह इति चेन्न विशिष्टाविशिष्टभेदेन व्याप्यव्यापकभावाविरोधात्। अत एव जन्यत्वे कारणजन्यत्वमनुमीयत इति, मैवं कर्तुर्हि शर्णरसहकारिता किं घटादौ कर्त्तव्ये कार्य्यमात्रे वा स्वकार्य्ये वा आद्ये कर्त्ता शरीरं विना घटादिकं न करोतीति किमायातं कर्त्तुः कार्य्यमात्रकरणे। द्वितीये च कार्य्यमात्रं कर्त्तृजन्यमिति न त्वया स्वीक्रियते स्वीकारे वा शरीराजन्यमपि कार्य्यं कर्त्तृजन्यमिति साध्याव्यापकत्वम्। तृतीये तु न स्वजन्यत्वं स्वजन्यतावच्छेदकमात्माश्रयात्। तथापि यत्र कर्तृत्वमस्ति तत्र शरीरजन्यत्वमावश्यकमिति तस्य साध्यव्यापकत्वं तुल्ययोगक्षेमत्वेन हेतुव्याप्यतासंशयाधायकत्वेन सन्दिग्धोपाधित्वं वेति चेन्न लाघवेन बाधकं विना कर्तृजन्यत्वे सति जन्यत्वमवच्छेदकं न तु शरीरजन्यत्वं गौरवात् तथा च शरींरजन्यत्वं न सकर्तृकत्वव्यापकं घटादौ त्वार्थः समाजः, घटत्वेन शरीरजन्यत्वनित्यमात् न तु व्यापकत्वप्रयुक्ते मानाभावात्, शरीरजन्यत्वं न सकर्तृकत्वव्यापकं तद्याप्यजन्यत्वाव्यापकत्वात् नित्यत्ववदिति बाधकात् हस्तादिनापि कर्त्तृत्वनिर्वाहेण शरीरस्याप्रयोजकत्वात् साक्षात्प्रयत्नमिश्चेयजन्यत्वस्य साधनव्यापकत्वाच्च। शरीरिकर्त्तृकत्वमपि नोपाधिः जन्यमात्रे कर्त्तुः परीरसहकारिताविरहात्। अथ यद्विशेषयोः कार्य्यकारणभावस्तत्सामान्ययोरपि बाधकं विधकं विना तथा नियम इति त्वया निरटङ्कि तथा च कर्त्तृविशेषशरीरजन्यविशेषयोः कार्य्यकारणभावनियमात् कर्त्तृमात्रशरीरजन्यमात्रयो रपि तथाभावः तथा च शरीरजन्यत्वं कर्त्तृतावच्छेदकमिति भवत्युपाधिः। नचैवं षटवच्छरेरजन्यत्वं सकर्त्तृकत्वव्याप्यं न व्यापकमपीति वाच्यं उभयसिद्धसकलसकर्त्तृत्ववृत्तित्वेन साध्यव्यापकतानिर्ण्णयात् जन्यत्वेऽपि सकर्त्तृकत्वव्यापकत्वग्राहकमस्तीति चेत्तर्हि उभयत्र ग्राहकसाम्ये विनिगमकाभावात् व्याप्तिस शयाधायकत्वेन सन्दिग्ध उपाधिर्व्या प्यत्वासिद्धिर्वा। हेतुव्याप्यतासंशयाथायक एव सन्दिग्धोपाधिः न च साध्यव्यापकत्वे साधनाव्यापकत्वे वा, उभयथैवासन्देहात्। न च वाच्यं शरीरजन्यत्वयोरन्वयव्यतिरेकज्ञामे जन्यत्वसकर्तृकत्वयोस्तद्ग्रह आबश्यक इति लाघवात् तयोरेव व्याप्तिग्रहो न तूपाधिसाध्ययोः हेतुवाध्ययोरन्वयव्यतिरेकज्ञानात् शरीरजन्यत्वानवगमेऽपि भवतीति विनिगमकमिति, यतो न कर्तृमात्रजन्यमात्रयोरन्वयव्यतिरेकाभ्यां व्याप्तिग्रहः कर्तृमात्रस्य व्यतिरेकाभावात्। किन्तु विशेषयोरन्वयव्यतिरेकेण कार्य्यकारणभावेन वा सामान्ययोस्तथात्वग्रहस्रौ च तुल्यावे- वेति चेदुच्यते। अस्तु तावत् घटत्ववत् जन्यत्वशरीरजन्यत्वंयोरपि कर्तृजन्यतावच्छेदकत्वेन सकर्तृकत्वव्याप्यत्वं ग्राहकसमानत्वात् विनिगमनाभावाद्विरीघाभावाच्च सकर्तृकत्वव्यापकत्वन्तु शरीरजन्यत्वस्य कुतः, घटत्ववद्व्यापकस्यापि जन्यतावच्छेदकत्वात्। उभयसिद्धसकर्तृकेऽन्वयव्यतिरेकाभ्यां शरीरजन्यत्वस्य व्यापत्वकग्रह इति चेन्न शरीरजन्यत्वविनिवेद्यत्वेन तुल्यन्यायेन प्रथमं कर्तृजन्यत्वे जन्यत्वमवच्छेदकं कॢप्तमिति तद्विरोधेन शरीरजन्यत्वस्य सकर्तृकत्वव्यापकत्वानवगमात्। अतएव न संदिग्धोपाधित्वम्। ननु घटादौ शरीरजन्यत्वे कर्तृजन्यत्वमनुगतमवच्छेदकं बाधकाभावात् न च लाघवाद्घटत्वादिकमेव तथा, कर्त्तृजन्यत्वेऽपि जन्यत्वस्यातथात्वापत्तेः। एवं शरीरजन्यत्वस्य व्याप्यं सकर्वृकत्वं वह्नेर्धूम इवेति भवत्युपाधिः। किञ्च कर्तृजन्यत्वे जन्यत्वं शरीरजन्यत्वे वा सकर्तृकत्वमवच्छेदकमिति संशयेऽपि न हेतोः साध्यव्याप्यतानिश्चय इति चेत्तर्हि घटादौ कर्तृजन्यत्वे गृहीते तस्य शरीरावच्छेदकत्वं ग्रहीतव्यं घटे च घटत्वबज्जन्यत्वमपि बाधकं विना कर्तृजन्यतावच्छेदकं गृहीतमतोजन्यभात्रे कर्तृजन्यत्वान्न शरीरजन्यत्वे तदवच्छेदकं प्रथमगृहीतोपजीव्यविरोधात्। अतएव न तस्य हेतौ व्याप्तिसंशयाधायकत्वमपि। एतेनानणुत्वक्षित्यवयववृत्त्यन्यत्वादय उपाधित्वेन निरस्ताः जन्यत्वस्य साध्यव्याप्यत्वेन तेषां साध्याव्यापकत्वात्। तथापि क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वात् श्यामवदिति सत्प्रतिपक्षोऽस्त्विति चेत न अस्य प्रसिद्धकर्तृजन्यत्वाभावविषयकत्वात् अप्रतीत प्रतियोगिकस्याभावस्य निरूपयितुमशक्यत्वात् स्थापनानुमानञ्च पक्षधर्मताबलात् प्रसिद्धकर्तृभिन्नकर्तृकत्वसाधकमतोभिन्नविषयकत्वान्न प्रतिबध्यप्रतिबन्धकभावः। अतएव तद्व्यापकरहितत्वादिकमभावसाधकं बाधकमपास्तं तस्य प्रसिद्धाभावविषयकत्वेनाप्रसिद्धाभावाविषयकत्वात्। व्यक्तिसाधकस्य विशेषतोऽप्रसिद्धव्यक्तिसाधकत्वनियमात् अन्यथानुमानवैयर्थ्यात्। कर्तृजन्यत्वमनुगतं घटादौ प्रसिद्धं यत् साध्यं तदभावो मया साध्यत इति चेत् कर्तृजन्यत्वमनुगतमपि पक्षधर्मताबलेन प्रसिद्धं कर्त्तारमादाय पर्य्यवस्यति तदभावस्तु प्रसिदस्य कर्त्तुरभावमादाय सिद्ध्यति नाप्रसिद्धस्य अनुगतस्यापि कर्तृजन्यत्वस्य तदभावस्य च, कर्तृव्यक्तिघटितत्वात् अन्यथा व्यक्तितदभावासिद्धिप्रसङ्गात्। नचैवं सत्प्रतिपक्षोच्छेदः तस्य गोत्वाद्येकभावाभावविषयक- त्वात्। एतेन ज्ञानत्वं न नित्यावृत्ति ज्ञानमात्नवृत्तिधर्मत्वात् स्मृतित्ववत्, ज्ञानं न नित्यगुणवृत्तिगुणत्वव्याप्यजातियोगि चेतनविशेषगुणत्वात् सुखवत् “आत्मा न नित्यविशेषगुणाधारवृत्तिद्रव्यत्वापरजातिमान् विभुत्वात् गगनवदित्याद्यपास्तं, प्रसिद्धनित्ये व्योमादौ प्रसिद्धायाश्च रूपत्वजलत्वादिजातेर्व्यतिरेकविषयत्वात् अप्रयोजकत्वाच्च। किञ्च क्षित्यादौ शरीराजन्थत्वमसिद्धम् अदृष्टद्वारा तज्जन्यत्वात नचादृष्टाद्वारकजन्यज्ञानाजन्यत्वं हेतुःज्ञाने जन्यत्वविशेषणस्याव्यावर्त्तकतया व्यर्थत्वात्। न च स्थापनायां पक्षविशेषणेऽप्येष दोषः प्रमेयोघट इतिवत्तदुपरक्तबुद्धेरुद्देश्यत्वात् अपि च शरीराजन्यत्वे व्यर्थविशेषणत्वं लाघवेनाजन्यत्वस्यैव व्याप्यत्वात्। न च निष्प्रयोजनविशेषणमसिद्धं व्याप्तिग्रहोपयुक्तविशेषणवत्, पक्षधर्मतौपयिकविशेषणस्यापि सप्रयोजनत्वात् व्यभिचारवारकस्यापि सार्थकत्वेऽनुमितिप्रयोजकत्वस्यैव वीजत्वात्। व्यभिचारवारकविशेषणवत्येव व्याप्तिग्रह इति चेत् न निर्विशेषणेऽपि गोत्वादौ व्याप्तिग्रहात्। तत्रापि व्यक्तिविशिष्टव्याप्तिग्रह इति चेन्न स्वतोव्यावृत्तगोत्वस्याव्यभिचारात् अन्यथान्योन्याश्रयात्। अपि च व्यभिचारवारकविशेषणवत्येव व्याप्तिग्रहैत्यप्रयोजकं सहचारदर्शनादिसत्त्वे तदभावेन व्याप्ति ग्रहाविलम्बात्। व्यभिचारावारकविशेषण शून्यएव व्याप्तिग्रह इति चेन्न प्रमेयत्वेन ज्ञायमानेधूमे व्याप्तिग्रहात्। अथ तत्रोपात्तव्यभिचारावारकबिशेषणत्वं विवक्षितं न च तत्र प्रमेयत्वं विशेषणमुपात्तमिति चेम्र विरोधात् न हि तत्रोपात्तं तेन शून्य ञ्चेति संभवति। यद्विषयकत्वेन परामर्शः कारणमनुमितौ तल्लिङ्गं प्रकृते च व्यभिचारादन्यथासिद्धेश्च न विशेषणविषयकत्वेन तत्त्वमिति चेन्न धूमस्याप्यतत्त्वापत्तेः व्यभिचारात्तद्विषयत्वेनानुमित्यकारणत्वात्। अथैकमवच्छेदकमपरत्र व्याप्तिः यद्वा लाघवेन व्यासज्यवृत्तिरेकैव व्याप्तिरिति विशिष्टव्याप्त्यर्था तत्र विशेष्यतावच्छेदकस्य व्याप्त्यनवच्छेदकत्वं विशेषणस्य तदवच्छेदकत्वमिति नियमात्। एकवृत्तित्वबाधे सत्येव व्यासज्यवृत्तित्वमिति व्याप्तेश्च न शरीरजन्यत्वाभावे नीलधूमादौ च व्याप्तिरिति विशेषमात्रे सा, तथा च स्वरूपासिद्धिः। तद्वारणार्थं विशेषणाभिधाने व्याप्यत्वासिद्धिरिति चेन्न अव्यभिचारस्यानौपाधिकत्वस्य वा विशिष्टे नीलधूसादौ सत्त्वेन तद्व्यतिरेकसाधने बाधात्। न च विशेष्यत्वमुपाधिः साधनव्यापकत्वात्। किञ्च सौरभ- विशेषवद्धूमरहितभिदं चन्दनप्रभववह्निरहितत्वात् निर्धूमोऽयमार्द्रेन्धनप्रभववह्निरहितत्वादित्यादावपि विशेषाभावेन कार्थ्यविशेषानुमानं न स्यात् वह्निरहितत्वादिकञ्चोपाघिर्भवेत् व्यतिरेकिण्यष्टद्रव्यातिरिक्तद्रव्यानाश्रितत्वं हेत्वभावव्याप्यं न स्यात् द्रव्यानाश्रितत्वस्यैव व्याप्यत्वात् स्वमध्ये गन्धस्यैव व्यञ्जकत्वादित्यादौ त्वयाप्यसिद्धिवारकविशेषणस्वीकारात्। अपि च गौरवेण विशिष्टस्य व्यापकतापि न स्यात् तथा च स्थापनानुमाने उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यता धूमेनार्द्रेन्धनप्रभववह्निर्घटत्वेन शरोरजन्यत्वमपि नानुमीयेत। यत्तु जन्यान्योन्याभावापेक्षया शरीरजन्यान्योन्याभावस्याल्पत्वात्तेषामेव व्याप्यत्वमिति विपरीतमेव लाघवमिति तन्न विरोधाभावेन बहूनामल्पस्य च व्याप्य त्वात् स्नेहे शीतस्पर्शवत्त्वजलत्वयोर्गन्धाभावेऽपृथिवीत्वपृथिवीत्वाभावयोरिव। अन्यथा नीलधूमस्यैव व्याप्यत्वे धूममात्रस्याव्याप्यत्वप्रसङ्गः किञ्च त्वन्नये बह्वन्योन्याभावापेक्षया जन्यत्वात्यन्ताभावस्यैव व्याप्यता स्यात् एकत्वात् प्रमेयत्वाद्यनन्तधर्मविशिष्टे व्याप्तावपि प्रयोजनाभावान्नानुमाने तदुपन्यासः। अथ लाघवेन जन्यत्वस्य शीध्रीपस्थितिकतया जन्यत्वाभावत्वेन शीघ्रं व्याप्तिग्रहः न तु शरीरजन्यत्वाभावत्वेन विलम्बितप्रतीतिकत्वात्। यत्र विशेषणविशेष्यान्यतराभाववति साध्यं तत्र विशिष्टाभावस्यापि व्याप्तिरिति चेन्न एवं सति उत्पत्तिमत्त्वे सति सत्त्वादिकमनित्यत्वं सकतृऐकत्वव्याप्यतया न निर्गृह्येत शीध्रोपस्थितिकतया घटत्वादेरेव तथात्वात्। यदि च मामान्यविशेषभावाद्विरोधाभावेन नोभयस्यापि व्याप्यत्वं तदा शरीराजन्यत्वजन्यत्वाभावयोरपि तुल्यम्।। किञ्च शरीरं जन्यत्वं विशिंषदभावमपि विशिनष्टि न तु साक्षात्, तथा च शरीरजन्यत्वाभावोऽखण्ड एव हेतुरतो न व्यर्थ विशेषणता। न चात्र विशिष्टाभावो विशेष्याभाव एव क्षित्यादावजन्यतापत्तेः। अतएव स्थापनायां शरीरजन्यत्वमुपाधिः साध्याभावव्याप्याभावप्रतियोगित्वेन साध्यव्यापकत्वनियमात्। व्यर्थविशेषणेऽधिकं निग्रहस्थानमिति चेन्न हेतुद्वयोपन्यासे ह्यधिकम्। अत्र तु विशिष्टमेव हेतुरिति विरुद्धस्थल उक्तमिति।

उच्यते। नील्लधूमादौ व्याप्तिरस्त्येव अन्यथा विशेषाणामव्याप्यत्वे निराश्रया व्याप्तिः स्यात् नीलत्वमपि न व्याप्यतावच्छेदकं गौरवात् किन्तु धूमत्वमेव दण्डत्वेन कारणत्वे रूपमिव धूमत्वञ्च न नीलिन्नि किन्तु तदाश्रये धूमे इति न नीलधूमस्य हेतुत्वम् नीलधूमे नीलस्य विशेषणंत्वे तद्विशिष्टे न धूमत्वम्, उपलक्षणत्वे च धूमत्वमिति। किञ्च। व्याप्यतावच्छेदकस्यैव हेतुतावच्छेदकत्वमिति न नीलधूमत्वं तथा। नचैवं धूमत्वस्यावच्छेदकत्वेऽपि सामग्रीसत्त्वात् नीलधूमादनुमित्युत्पत्तौ हेत्वाभासत्वं न स्यात् अनुमितिप्रतिबन्धकस्य तत्त्वादिति वाच्यं तदभावेऽपि नीलधूमप्रयुक्तसाध्यवत्प्रत्ययस्य भ्रमत्वेन तत्कारणत्वस्याभासत्वसम्भवादितिदिक्।। एवञ्च शरीराजन्यत्वेऽपि न शरीरमवच्छेदकं गौरवात् येन विशेषेण विना व्याप्तिर्न गृह्यते तस्यैव व्यप्यतावच्छेदकत्वनियमात्। अतएव गन्धस्यैव व्यञ्जकचादित्यत्राप्रसिद्धेन गन्धादिषु मध्ये इति विशेषणं विना व्यप्तिर्ग्रहीतुं न शक्यते इत्यसिद्धिवारकं विशेषणं सार्थकमेय। सुरभिधूमविशेषादौ च चन्दनप्रभवाग्न्यादेः कारणत्वात् कारणाभावस्य कार्य्याभावप्रयोकतया व्याप्यचनिश्वयः व्यापके च न व्यर्थविशेषणता विशिष्टस्य कारणत्वेन व्यापकत्वात् विशेषव्यतिरेकिस्थले विपक्षबाधकेनानन्यगतिकतया विशिष्टस्य व्यापकत्वात् विशिष्टाभावस्य हेत्वाभावव्याप्यत्वं यत्र च विपक्षबाधकं नास्ति तत्र विशिष्टस्य व्यापकतापि न यथा सकर्तृकत्वे। नापि शरीरजन्यत्वाभावोऽखण्डोहेतुः यदि हि शरीरजन्यचं सकर्तृकत्वप्रयोजक स्यात् तदा तदभावप्रयुक्तः सकर्तृकत्वाभाव इति तस्य साध्यव्यप्यता स्यात् न चैवम्, जन्यत्वं लाघवात्तथा। तथा चाजन्यत्वमेवोपाधिः साध्यव्याप्याभावः साध्याभावव्यापक इति नियमेन तस्य साध्यव्यापकतानिश्चयात् सकर्तृकत्व शरीरजन्यत्वयोर्व्याप्त्यभावेन तदभावयोरपि व्याप्त्यभाव इति व्याप्त्यत्वासिद्धत्वाच्च। अतएव शरीरजन्यत्वाभावस्या कर्तृकत्वव्याप्यत्वात् तदभावयोरपि व्याप्यव्यापकभाव इति निरस्तम् शरीरजन्यत्वस्य सकर्तृकताऽप्रयोजकत्वत् न चाजन्यत्वं पूर्वसाधनव्यतिरेकत्वेन नोपाधिः सत्प्रतिपक्षोच्छेदप्रसङ्गादिति वाच्यं स्थापनायां यत्राभासत्यं तत्र विशेषादर्शनदशायां सत्प्रतिपक्षे पूर्व्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधिकत्वात् यथा शब्दोऽनित्योगुणत्वादित्यत्र शब्दोनित्यो व्योमैकगुणत्वादित्यादिना सत्प्रतिपक्षे गुणत्वाभावो नोपाधिः जलपरमाणुरूपे साध्याव्यापकत्वात्। नचैवमनैकान्तिकत्वमेव तदोद्भाव्यं सत्प्रतिपक्षमुपेक्ष्य तस्योद्भावानर्हत्वात्। किञ्च प्रागभावप्रतियोगित्वे सति समवेतत्वस्य तत्प्रतियोगित्वे सति सत्त्वस्य, सत्त्वे सति उत्पत्तिमत्त्वस्य वा हेतुत्वे, एषामन्यतं मव्यतिरेक उपाधिरिति न पूर्व्वसाधनव्यतिरेकः। अतएव जन्यत्वस्य नोपाधित्वं ध्वंसे साध्याव्यापकत्वादिति न दोषः। अन्ये तु यन्निश्चये यन्निरूपिता व्याप्तिर्येन विशेषणेन विना न गृह्यते तत्र विशिष्टं व्याप्यतावच्छेदकम् अकर्तृकताभावनिष्ठव्याप्तौ च शरीरं विनैव प्रतियोगितयाजन्यत्वमवच्छेदकं कल्प्यमिति न शरीरजत्यत्वमवच्छेदकं धूमे नील इव अतोगौरवेण शरीरजत्वत्वं सप्रतियोगितया नावच्छेदकमिति व्याप्यतावच्छेदकाभावान्न शरीरजन्यत्वाभावोऽकर्तृकत्वव्याप्यः। व्याभिचाराभावात्तथेति चेन्न क्षित्यादावव्यभिचारात् अन्यथा क्षित्यादिकं नादृष्टहेतुकं शरीरजन्यत्वाभावादित्यपि स्यात्। नन्वस्त तावदशरीरनित्यज्ञानादिकर्त्त्रनुमितिस्तथापि सानुमितिरयथार्थैवाशरीरे कर्तृत्व ज्ञानत्वात् ज्ञानेच्छायत्नेषु नित्यज्ञानत्वात् शरीराजन्ये सकर्तृकत्वज्ञानत्वात् घटः कर्त्ता घटज्ञानादिकं नित्यं व्योम सकर्तृकमितिज्ञानवदिति साध्यं, नचोपजीव्यबाधः अनुमितिर्ह्युपजीव्या न तु तद्याथार्थ्य मपीति चेन्न कर्तृकार्य्ययोर्निरुपाधिकार्य्यकारणभावेन तस्याप्रयोजकत्वात् अन्यथा पर्वते वह्न्यनुमितिर यथार्था उभयसिद्धवह्निमद्भिन्ने वह्निज्ञानत्वादित्यादिना सकलान्वयव्यतिरेक्युच्छेदः। किञ्चानुमितेरयाथार्थ्यमनेन ज्ञाप्यं, न तु कार्य्यं तथा च दोषादुत्पन्नस्यानेन ज्ञापने तत्रायमेव दोषोदोषान्तरं वा नाद्यः अन्योन्याश्रयात् उत्पन्ने तस्मिन् ज्ञापनं ज्ञापकादेव तस्माद्दोषात्तदुत्पत्तिरिति। नान्त्योऽसिद्धेः। तर्कापरिशुद्धिस्तु न दूषणम्, यदीश्वरः कर्त्ता स्यात् शरीरी स्यात्, प्रयोजनवान् अनित्यज्ञानवान् स्यात्, क्षित्यादि सकर्तृकं स्यादिति तर्काणां विपर्य्यये आश्रयासिद्धिव्यर्थविशेषणतादिना विपर्य्ययापर्य्यवसानेनाभासत्वात्।

ननु क्षित्यादावेकर्तृसिद्धिः कुतः? एककर्तृकत्वेन व्याप्त्यभावात् न च लाघवात्, तस्याप्रमाणत्वात्। सकर्तृकत्वमानादेव तत्सिद्धिरिति चेत् न तावदनुमितिमात्रे लाघवं सहकारि, व्यभिचारात् मानाभावाच्च न हि लिङ्गपरामर्शे सति तद्विलम्बेनानुमितेर्विलम्बो येन तत् सहकारि स्यात्। नापि लध्वनुमितौ, अन्यान्याश्रयात् नापि व्यक्त्यनुमितौ धूमेन वह्न्यनुमितावेकद्वित्वादिसंशयाभावापत्तेः। साधकाभावेन नानात्वा- सिद्धौ कर्तृसिद्धेरेवैककर्तृसिद्धिरिति चेत् न एकत्वसाधकाभावेनैकत्वासिद्धौ कर्तृसिद्धिरेव नानासिद्धिरित्यस्यापि सुवचत्वात्। अथ यमनालम्बमानाऽनुमितिः पक्षे न साध्यसंसर्गं विषयीकरोति स पक्षधर्मताबलात् सिद्ध्यति न त्वधिकमपि तथा च द्वितीयं कर्त्तारं न विषयीकुर्वत्यपि कर्त्तारं विषयीकरोत्येवेति न द्वितीयमवगाहते। एकस्तु कर्ता सिद्ध्यति तदविषयत्वेन कर्त्तृविषयैव न स्यात् एकविषयत्वाभावेन नानाविषयत्वाभावस्याप्यभावात् तद्घटितत्वात्तस्येति चेदेवं तर्हि कर्त्त्रेकत्वमपि न विषयः स्यात् एकत्वविषयत्वं विनापि कर्त्तृविषयत्वसम्भवात्। वस्तुगत्यैकः सिद्ध्यति नत्वेकत्वेनेति चेन्न एकत्यासिद्ध्या वस्तुगत्यैक इति ज्ञातुमशक्यात् तथा चेश्वरे एकत्वानेकत्वयोर्नित्यसंशय इति।

उच्यते। यत्र प्रमाणे लघुगुरुविषयता सम्भवति तत्र लाघवसहकरेण कार्ष्यताव्याप्यताग्रहणे प्रत्यक्षे वृत्तिनिमित्तग्राहके उपमाने शब्दशक्तिग्राहकेऽनुमाने च तथाविधप्रमाणमात्रे च सकलतान्त्रिकैः सहकारित्वकल्पनात् एवं लाघवमेवं गौरवमिति ज्ञानानन्तरं बाधकं विना लघूनामेव कारणत्वकार्यत्वव्याप्यत्वप्रवृत्तिनिमित्तत्वशब्दशक्यत्वानां ज्ञानदर्शनात्। तत्रापि लाधवानादरे शब्दशक्यत्वादिसंशये तन्मूलकव्यवहारीच्छेदो विनिगमकाभावात्, सोऽयं विचारमारभते लाघवञ्च तदङ्गं नाद्भीकुरुते इति महासाहसम्। नन्वेवं वस्तुगत्या नानाकर्तृकेषु घटत्वेन कुलालकर्तृकत्वानुमानेऽपि बाधकानवतारदशायां लाधवादेककर्तृसिद्धिः स्यात् न चेष्टापत्तिः अनुमित्यनन्तरं नानात्वैकत्वे संशयादिति चेन्न तत्रापि लाघवेन कृर्त्त्रेक्यमेव सिद्ध्यति तत्सन्देहस्तु ज्ञानप्रामाण्यसंशयादिति पश्चान्नानाकर्तृकत्वसाधकप्रमाणादेवैककर्तृकताज्ञानं तत्र बाध्यते न चैवं क्षित्यादिकर्त्तर्य्यपि प्राभाण्यसंशयादेकत्वानेकत्वसंशयोदुरुच्छेदः एकत्व बाधकस्याभावेन प्रामाण्यनिश्चयात्। नचैकत्वसाधकाभाव एव बाधः, अनुभितेरेव लाघवसहकारेणैकत्वसाधनात्। अन्ये तु क्षितिकर्त्ता अङ्कुरकर्त्त्रभिन्नः अशरीरकर्तृत्वात् अङ्करकर्तृवदित्यभेदानुमानादेव कर्तृसिद्ध्विः न च क्षितिकर्त्ता अङ्कुरकर्तृभिन्नः अङ्कुराकर्तृत्वात् कुलालवदिति मत्प्रतिपक्षः अनित्यज्ञानानामाश्रयत्वस्योपाधित्वादित्याहुः तत्राप्यप्रयोजकत्वे भेदामेदयोर्गौरवलाघवे एव शरणम्। तथापि कथं नित्यसर्वविषयज्ञानसिद्धिः। पक्षधर्म्मताबला दिति चेत् व्यापकत्वाग्रहात् न च विनानुपपत्तिं सोऽपि विषयः व्यतिरेकविलयापत्तेः। अत्र प्राञ्चः यमर्थमनालम्बमानानुमितिः पक्षे साध्यसम्बन्ध विषयीकरोति स पक्षधर्मताबलात् सिद्ध्यतीति प्रतीत्यनुपपत्तिमूलकोऽन्वयी प्रतीत्यनुपपत्त्या च व्यतितेकी तदिहानादिद्व्यणुकादि प्रवाहस्य पक्षत्वे तदुपादानस्यानादिज्ञानगोचरत्वं विनानोपादानगोचरज्ञानजन्यत्वमनादिकार्य्यप्रवाहस्यानुमिति रालम्बते अनादितैव च नित्यता सर्वमुक्तावपि तत्सत्त्वमनादिभावत्वात् पक्षतदुपादानविषयतैव सर्वविषयता लाघवात्तु तावद्विषयकमनाद्येकमेव ज्ञानं सिद्ध्यति न तु नित्यानि नानाज्ञानानीति। नव्यास्तु अनित्यज्ञानाजन्यत्वेन पक्षबिशेषणात् ज्ञानं सिध्यत् नित्यमेव सिद्ध्यति अनित्ये बाधात्। वाचस्पतिमिश्रास्तु लाघवादेकज्ञानसिद्धावुत्पत्तिमतोऽनादिकार्य्यप्रवाहं प्रत्यजनकत्वात् परिशेषेण नित्यज्ञानादिसिद्धिः नियतविषयता च ज्ञानस्य कारणाधीना कारणञ्च नित्यज्ञानान्निवर्त्तमानं नियतविष यतामादाय निवर्त्तत इति सर्वविषयत्वसिद्धिरिति। षट्पदार्थीप्रतिपादकवेदकर्तृत्वेन ईश्वरस्य षट्पदार्थीगोचरसाक्षात्कारवत्त्वेन वा सार्वज्ञ्यं घटाकाशसंयोगं प्रतीश्वरस्य कर्तृत्वात् घटादिगोचरमपि ज्ञानं सिद्धमिति केचित्। ननु घटादीनां कथमीश्वरस्य कर्तृत्वं घटईश्वरकर्तृकः कार्य्यत्वात् क्षितिवदिति चेन्न घटस्य द्विकर्तृकतया तद्दृष्टान्तेन क्षित्यादेरपि द्विकर्तृकतापत्तेः तथा च घटवत् क्षितिः क्षितिवद्घट इतीश्वरानन्यकार्य्यकर्तृत्वेन कारणता न तु द्विकर्तृकत्वेनेति चेत् तर्हि नेश्वरकर्तृकत्वेन कारणता किन्तु कर्तृत्वेनेति मैवं ज्ञानादीनां नित्यत्वेन सर्वविषयतया घटाद्युपादानविषयत्वमपीति कथं न तेषां घटादिकारणत्वं कुललादिज्ञानतुल्यत्वात्। तदाहुराचार्य्याः “परमाणुदृष्टाधिष्ठातृसिद्धै ज्ञानादीनां नित्यत्वेन सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात् न तु तदधिष्ठानार्थमेवेश्वरसिद्धिरिति “अहं सर्वस्य प्रभवीमत्तः नर्वं प्रवर्त्तते इत्यागमाच्चायमर्थोव्यवसेयः। अथेश्वरस्य सर्वज्ञत्वे सर्वविषयभ्रान्तेर्ज्ञाने ईश्वरोऽपि भ्रान्तःस्यात् भ्रमस्येव तस्यापि भ्रमविषयविषयक त्वादिति चेत् रजतत्वप्रकारकज्ञानवानयमिति ज्ञानं न भ्रमः अभ्रान्तस्य तथात्वात्। इदं रजतमितिज्ञाने रजतत्वं प्रकारः तेन स भ्रमः ईश्वरज्ञाने च रजतत्वप्रकारकत्वं प्रकार इनि न भ्रमः अतएवास्मदादिरपि भ्रान्तिज्ञो न भ्रान्त इति। स्यादेतत् प्रयोजनं विना कथमीश्वरः प्रवर्त्तते? सुखस्याभावात् अधर्म्माभावेन निर्दुखत्वात्। करुणया प्रवर्त्तते इति चेत्तर्हि परसुखदुःखप्रहाणे प्रयोजने तथा च सुखिनमेव सृजेन्न नारकिणम्। धर्माधर्मपरतन्त्रत्वात् तदमुरूपं फलं प्रापषतीति चेत्तर्ह्यावश्यकत्वात् कर्मनिर्मितमेव जगद्वैचित्र्यमस्तु किमीश्वरेण अनपेक्षितकीटादिज्ञानवता कर्मनिरपेक्षत्व चैकदैव सदा च सर्गप्रलयौ स्यातां ज्ञानादीनां नित्यत्वात् किञ्च तत्पयत्नस्य करुणाजन्यत्वेन शरीरादिजन्यतापत्तौ संसारितापत्तिः न। ईश्वरानभ्युपगमेन विचारस्याश्रयासिद्धत्रात् तमभ्युपगम्य पृच्छसि चेत् आकण्णेय जगतएव तदिच्छाविषयत्वेन स्वेष्टसाधनताज्ञानसत्त्वात्। वस्तुतस्तु क्षित्यादितत्तदसाधारणक्रमिकादृष्टादिसामग्री ईश्वरज्ञानादयो यदा यदा भवन्ति क्षित्यादिकं करोतीति व्यवहारः सर्गप्रलयासाधारणक्रमिकादृष्टादिसामग्रीसमयवर्त्तित्वमेव तदिच्छायाश्चिकीर्षासंजिहीर्षात्वे नचैवं किञ्चिज्जन्य ज्ञानादिनेति वाच्यं क्षित्यादीनां कार्य्यत्वेन ज्ञानजन्यतया नित्यज्ञानादीनामपि जनकत्वं सुखादिशब्दयोरात्माकाशादिवत्। नन्वशरीरात् कथं वेदघटादिशब्दव्यवहारसं प्रदायः। उच्यते सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्तावदृष्टवदात्मसंयोगाददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा सकलवेदार्थगोचरज्ञानाद्विवक्षासहितान्मीनकलेवरकण्ठताल्वादिक्रियाजन्यसंयोगाद्वे दोत्पत्तिः। एवं कुलालादिशरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदोश्वरसंयोगात्त द्बुद्धीच्छासहितचेष्टोत्पत्तौ सकलषटानुकूलव्यापारो घटोत्पत्तिः। एवं प्रयोज्यप्रयोजकज्ञानाय व्यापाराभि मतशरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छाप्रयत्नादेव वाग्व्यवहारः, ततस्तत्सुशीलो बालोव्युत् पद्यते सोऽयं भूतावेशन्यायः। यत्तु यथा लिप्यादिना मौनिश्लोकोऽनुमाय पट्यते तथा सर्गान्तरोत्पन्नतत्त्वज्ञानवता भोगार्थ सर्गादावुत् पन्नेन मन्वादिना सर्वज्ञेन ईश्वराभिप्रायस्थवेदः साक्षात्कृत्यानूद्यते ततोऽग्रिमसंग्रदायः स एव कायव्यूहं कृत्वा वाग्व्यवहारं करोतीति मतं तन्न प्रतिसर्गाद्यनन्तसर्वज्ञकल्पनायां गौरवात् तेषामेव क्षित्यादिकर्तृत्वसम्भवेन ईश्वरा ननुगमाच्च। एतेन सर्गादौ सर्गान्तरसिद्धयोगिनएव क्षितिकर्त्तारः सन्त्विति निरस्तं सर्गादावनन्तसर्वज्ञसिद्धिश्च किं प्रमाणान्तरात् क्षित्यादिकर्तृग्राहकाद्वा नाद्यस्तदभावात नान्त्यः अनादिद्व्यणुकादिकार्य्यप्रवाहस्य सकर्तृकत्वानु- मानाद्लाघवसहकृतादेकस्येव सर्वज्ञस्य सिद्धेः।। अथे श्वरज्ञानमूलकशब्दशक्तिग्रहे प्रयोज्यव्यापारानुमितघटज्ञाने घटशब्दस्य कारणताग्रहोभ्रमः स्यात् तदीयज्ञानस्य नित्यत्वात् तथा च तज्जन्यघटशब्दशक्तिग्रहस्य भ्रमत्वे सकलशब्दज्ञानं भ्रमःस्यात् भ्रमपरम्परामूलकत्वात् अनित्यसर्वज्ञमूलकशब्दत्वग्रहे च नायं दोष इति चेन्न व्यापारानुमितमिदं घटज्ञानं घटपदजस्यमिति ज्ञानस्य शब्दशक्तिग्रहकारणस्य भ्रमत्वेऽपि घटपदं घटशक्तमिति ज्ञानस्य यथार्थत्वात् विषयाबाधात् न च भ्रममूलकत्वेन तस्य भ्रमत्वमनुमेयं तदंशे व्याघिकरणप्रकाराभावेनाबाधात् बाधितविषषयत्वस्योपाधित्वाच्च। अत्र घटमानयेति शब्दानन्तरं सूत्रसञ्चाराधिष्ठितदारुपुत्रस्य घटानयनव्यवहारदर्शनाद्बालो घटपदे व्युत्पद्यते तन्मूलकशाब्दज्ञानमपि न भ्रमः तस्यापि भ्रमत्वे प्रयोज्य व्यवहारादिदानीं व्युतपत्तिर्न स्यात् किमयं प्रयोज्यश्चेतन व्यवहाराद्व्युत् पन्नोऽचेतनव्यवहाराद्वेति संशयस्य वज्रलेपायमानत्वात्।। “विश्वतश्चक्षुरुत विश्वतो मुखोविश्वतो बाहुरुत विश्वतः पात्। सं बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयत्येक एवेत्यादि श्रुतयः”। “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। योलोकत्रयमाविश्य विभर्त्त्यव्यय ईश्वरः” इत्यादयः स्मृतयश्च वह्व्योमानत्वेनानुसन्धेया इति”। खण्डनकृता तु ईश्वग्विषये प्रश्नाद्यनुपपत्त्यु पन्यासेन व्यतिरेकमुखेन ईश्वरस्य प्रामाणिकत्वमुररीकृतं यथा “तथाहीश्वरसद्भावे किं प्रमाणमिति ब्रुवाणः प्रतिवक्तव्यः किंशब्दोऽयमाक्षेपार्थ्ये वा १ कुत्सितार्थो वा २ वितर्कार्थो वा ३ प्रश्नार्थो वा ४ स्यात्। तत्र यदि प्रथमः पक्षः तदेश्वरसद्भावे नास्ति प्रमाणमित्युक्तं स्यात् तथा च सति न प्रतिज्ञामात्रात्साध्यसिद्धिरिति हेत्वादिकं वाच्यं भवति। तच्च भवता नाभ्यधायि तस्मान्न्यूनत्वं दोषः। अतएव न द्वितीयः, ईश्वरसद्भावे कुत्सितं प्रमाणमित्यस्यापि प्रतिज्ञामात्रत्वात्। अपि च साध्यासाधकत्वाद्वा १ तत् कुत्स्यते भवता अन्यथा २ वा। अन्यथा चेदलं तदुद्भावनया साध्यसिद्धेरप्रत्यूहत्वात्। नापि प्रथमः प्रमाणञ्च साध्यासाधकञ्चेति व्याघातात्। गौणोऽयं प्रमाणशब्द इति चेन्न प्रमाणत्वयोगिनि यद्ययं प्रमाणशब्दप्रयोगः। तदा गौणताव्याघातः मुख्यत्वात्। अथ प्रमाणाभासे तदा, अलन्तदुद्भावनया ईश्वरसद्भावे यः प्रमाणाभासः स कुत्सितैत्यत्र परस्यापि सम्प्रतिपन्नत्वात्, ईश्वरसद्भाव इति च विशेषोपादावं व्यर्थं स्यात् अन्यत्रापि हि विषये प्रमाणाभासः कुत्सितएव साध्यासाधकत्वात्। नापि तृतीयः तथा सति हि वितर्कस्य पक्षान्तरसापेक्षत्वंन पक्षान्तरमपि वचनीयं भवति ईश्वरसद्भावे किमेतत् प्रमाणमुतान्यदिति तच्च? भवता नाभ्यधायि अतो न्यूनत्वं दोषः। नापि चतुर्थः प्रश्नार्थात् खलु किंशब्दात्कस्यचित् पदार्थस्य जिज्ञास्यमानता प्रतीयते सा चेह प्रमाणपदसमभिव्याहारात् प्रमाणवि षयिणी प्रतीयते यद्विषयश्च प्रश्नस्तदुत्तरवादिनाभिधेयं तत्। अयं प्रश्न ईश्वरसद्भावे प्रमाणसामान्यविषयस्तद्विशेषविषयो वाभिप्रेत आद्यश्चेदीश्वरद्भावे प्रमाणमित्येवोत्तरमापद्येत यद्विषयो हिप्रश्नस्तदभिधेयं, प्रमाणसामान्यविषयश्च प्रश्नः तच्च प्रमाणशब्देनाभिधीयतएव। अथ द्वितोयः तथापी श्वरसद्भावे प्रमाणमित्येवोत्तरमापद्येत यथा प्रश्नवाक्यं प्रमाणशब्दविशेषपरस्तथोत्तरवाक्येऽपि। कोऽसौ विशेषैति चेन्न पूर्व्ववदुक्तोत्तरत्वात्। किञ्च अस्यापि प्रश्नस्य विशेषोविषयः किंशब्दस्य विशेषशब्देन सामानाधिकरण्यात् तथाच सति विशेषएवोत्तर स्यात्। स्यादेतत् विशेषशब्देन न विशेषमात्रमनिर्द्धारितमत्र विवक्षितं किन्त्वमाधारणी व्यक्तिस्तत्र विशेषशब्दस्य तात्पर्य्यं तस्मात्कासावसाधारणी प्रमाणव्यक्तिरिति प्रश्नार्थः तत्र च तादृश्याः प्रमाणव्यक्तेरभिधानमुत्तरं युक्तं नैवंविधाः प्रलापाइति नैतदेवं यतोऽत्रापि विशेषैत्येवोत्तरम् यथा प्रश्नवाक्यगतस्य विशेषशब्दस्य सर्व्वतोव्यावृत्तस्वरूपायां प्रमाणव्यक्तौ तात्पर्य्यं तथोत्तरवाक्यस्थितस्यापि। एवञ्च सति यत्र विषाये भवदीयस्य प्रश्न वाक्यस्य तात्पर्य्यं तदेवास्माकमुत्तरवाक्येन प्रतिपादितमिति युक्तमुक्तम्। अथ मन्यसे किमिह प्रमाणमिति पृच्छतोऽयमभिप्रायः अत्रार्थेऽनुमानं प्रमाणमितरद्वेति। अत्राप्यनुमानमित्युत्तरमस्माकम्। किं तदनुमानमिति चेत्। अयमपि प्रश्नोऽनुमानमात्रविषयः उत तद्विशेषविषय इति बिकल्प्य प्रमाणप्रश्नवदुत्तरं वाच्यमिति। अत्र च संग्रहश्लौकौ। “यथाविधं यं विषयं नियम्य प्रश्नस्य निर्व्वक्ति परो ययोक्त्या। वाच्यस्तथैवोत्तरवादिनापि तयैव वाचा स तथाविधोऽर्थः। प्रश्नस्य यः स्याद्विषयः स वाच्यो वाचा तया चैष भवेन्निरुक्तः। इदं त्वयाप्यास्थितमेतयैव गिरा स्वपृच्छाविषयस्य वक्त्रा।” प्रश्नार्थाच्च किशब्दाज्जिज्ञासाविषयतार्थस्व प्रतीयते जिज्ञासा च ज्ञातुमिच्छा इच्छा च नाज्ञाते भवत्यतिप्रसङ्गात् तस्मादीश्वरविषयं प्रमाणं ज्ञातुमिच्छता तत्र स्वज्ञानमिच्छाकारणीभूतं वक्तव्यं तदयथार्थं यथार्थं वा स्यात् यथार्थञ्चेत् तर्हि तेनैव ज्ञानेन स्वकीयो विषयः प्रमाणमुपस्थाप्यते विषये प्रमाणप्रवृत्तिमन्तरेण तदीययथार्थत्वस्य वक्तुमशक्यत्वात्। तेनापि प्रमाणेन स्वगोचरईश्वरसद्भाव उपस्थाप्यतैत्यनायासेनैव सिद्धोऽस्माकमीश्वरसिद्धिमनोरथः। अथायथार्थं तत्रास्मिन्नयथार्थज्ञानविषये यद्यस्माभिरयथार्थमेव ज्ञानमुत्पादनीयमिति भवतः पृच्छतोवाञ्छितं तदा केयं स्वाधीनेऽर्थे पराषेक्षा भवानेवायथार्थज्ञानोत्पादनकुशलोयथैकं तत्र मिथ्याज्ञानमजीजनत्तथा परमप्युत्पादयतु वयं पुनर्यथार्थज्ञानस्योत्पादयितारोमिथ्याज्ञाने सर्वथैवाकृतिनः किमिह नियुज्येमहीति। अथ मदीयस्यायथार्थज्ञानस्य योविषयः स मदीययथार्थज्ञानविषयोभवता क्रियतामिति त्वदीयं वाञ्छितं तदा व्याघातादीदृश्यर्थे भवतः प्रवृत्तिरेवानुपपन्ना शुक्तिका रजतत्वेन मम यथार्थज्ञानविषयोभवत्वित्येतदर्थं प्रेक्षावान् कथङ्कारं प्रयतेत येन रूपेणायथार्थज्ञानविषयत्वं तेनैव रूपेण यथार्थज्ञानविषयत्वे व्याथातात्। अथ मन्यसे स्वसिद्धान्तमनुरुन्धानेन त्वया यथार्थज्ञानं तत्रोत्पादनीयमतस्तदर्थं भवाननुयुज्यतैति। सैवम् यईश्वरसद्भावविषयोभवता प्रमाणाभासः प्रमाणतया भ्वान्त्या प्रतीतः तस्य प्रमाणत्वं अस्माभिर्व्युत्पादनीयमिति नास्माकमीदृशः सिद्धान्तः प्रत्युत ईश्वरसद्भावविषयं यत्प्रमाणं भवता प्रमाणाभासत्वेन भ्रान्त्या प्रतीतमस्ति तत्प्रमापणीयमिति। स्यान्मतम् ईश्वरसद्भावविषयस्य प्रमाणस्य भवता ज्ञापनमात्रं क्रियतामित्यभिमतं पृच्छतामस्माकं, नतु प्रमाणेना प्रमाणेन वेति विशेषोऽप्यभिमतैति, न ज्ञापनमात्रस्याप्रमाणज्ञानमादायाप्युपपत्तेः तत्र स्वाधीने केयं परापेक्षेत्याद्युक्तमनुषञ्जनीयम्। स्यादेतत् येयमीश्वरसद्भावविवया प्रमाणप्रतीतिरस्माकमुत्पन्ना सा व्यभिवारिणी सत्या वेति संशयोऽत्रास्माकं तेनैकपक्षनिर्द्धारणाधीनं यदिदं दूषणमवादि भवता तन्निरवकाशमिति नैतदस्ति एवं हि तस्यां प्रतीतौ यथार्थत्वायथार्थत्वसंशयेन तस्याः प्रतीतेर्गोचरो यत्प्रकाणं तस्यापि योऽसौ विषयईश्वरसद्भावस्तत्र सर्व्वत्रैव संशयानस्य भवतः प्रश्नोऽयं नतु विप्रतिपन्नस्येति स्यात् तथाच स्वीकुरु शिष्यभावं प्रसादय चिरं चरणशुश्रूषाभिरस्मान छेत्स्यामस्ते संशयमिति। विप्रतिपन्नाएव वयमाहार्य्यः संशयोऽस्माकमिति चेत् तर्ह्यवधृतैककोटयएव वयं कार्य्यतुरोधात्तु संशयमालखामह इत्युक्तं स्यात् एवं तर्हि तदेव कोट्यवधारणं यथार्थमयथार्थं वेति विकल्पोक्त- युक्त्या दूषणीयम्। एतेनानध्यवसायेन तदस्माभिः प्रति पन्नमित्यपि निरस्तं वेदितव्यं, व्यभिचारिविषयमव्यभिचारविषयं वा तदिति विकल्पाभ्यां तस्यापि ग्रस्तत्वात् “परस्परविरोधे हि न प्रकारान्तस्थितिरिति” न्यायात्। एवमीश्वराभिसन्ध्यादावपि तत्तत्स्थाने तिष्ठत्सर्व्वनामान्तरखण्डनमनुद्रष्टव्यम्”। तृतीयः परिच्छेदः।

“ननु तथापि भावात्मके तस्मिन्नीश्वरे विधायकं किञ्चित्प्रमाणं वक्तव्यमिति चेत् किं पुनर्भावत्वं विधित्वमिति चेन्न पर्य्यायाप्रश्नात्। स्वरूपसत्त्वमिति चेत् अभावस्यापि तथाभावात् प्रतिस्वं व्यावृत्तत्वेनाननुगतत्वापत्तेश्च। अस्तीतिप्रतीतिविषयत्वमिति चेन्न अभावोघटस्यास्तीति प्रत्ययसम्भवेनाभावस्यापि तथात्वप्रसङ्गात्। नास्तीतिप्रतीति विषयत्वेऽपि च घटादेर्भावत्वानिवृत्तेः। अस्तीति चास्त्यर्थो वा शब्दोवा विवक्षितः नाद्यः तस्यानिरुक्तेः। सत्ता तदर्थैति चेन्न सामान्यादीनां तदभावादभावात्वापत्तेः स्वरूपसत्त्वञ्च निरस्तम्। नापि द्वितीयः अभावोऽस्तीतिप्रतीतेरुक्तत्वात् वर्त्ततैत्याद्याकारेण च प्रतीयमानस्याभावत्वप्रसङ्गात्। सोऽप्यस्ति पर्य्यायैति चेन्न उभयसाधारणैकार्थनिर्व्वचनमन्तरेण पर्य्यायत्वस्य प्रतिपादयितुमशक्यत्वात्। यत्रैकस्यास्तिपदप्रयोगः तत्रैवापरस्य वर्त्ततैति प्रयोगात्। सामान्येन तावत् पर्य्यायत्वं शक्याधिगममिति चेन्न प्रमेयाभिधेयादिशब्दानां तथात्वेऽप्यपर्य्यायत्वात् यत्रेत्थस्य प्रवृत्तिनिमित्तार्थत्वे च तन्निर्व्वचनप्रसङ्गस्तदवस्थः सएवार्थोभावत्वमुच्यतां किं शब्दोल्लेखगवेषणया। अपरप्रतिषेधात्मकत्वं भावत्वमिति चेन्न व्यवच्छेद्यासम्भवेनापरपदवैयर्थ्यात् भावाभावयोः परस्परप्रतिषेधात्मकतास्वीकाराच्च। तथापि भावो नास्तीत्यभावप्रतिपत्तिवदभावोनास्तीति भावस्य प्रतीतिरिति चेन्न तावतापि लक्षणानिरुक्तेः। अपरप्रतिषेधमुखेन प्रतीयमानत्वमेव भावत्वमिति चेन्न चक्षुरादिभिर्भावत्वग्रहणप्रसङ्गात्। न हि प्रतीयंमानत्वं चक्षुरादिग्राह्यम् अभावोनास्तीतिप्रतीतेर्निर्विषयत्वप्रसङ्गाच्च नहीयं भावविषया भवत्पक्षे परप्रतिषेधमुखेन प्रतीयमानत्वात्। नाप्यमावविषयैव तन्निषेधार्थत्वात्। नैवं प्रतीतिरेव स्यादिति चेन्न शाब्द्याः प्रतीतेः सम्भवात् आकाङ्क्षादिमद्भिः पदैः प्रतिस्वं संसर्गबोघनात् “अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि”। प्रत्यक्षप्रतीतिस्तथा विवक्षितत्वादयमदोषैति चेन्न सर्व्वस्य भावस्य पत्यक्षत्वानङ्गीकारात् सेश्वरपक्षे सर्व्वं प्रत्यक्षमिति चेन्न तेन तेषामपरप्रतिपेधात्म- तया ग्रहणे प्रमाणाभावात। तेषां विधिरूपतया तथैव ग्रहणमिति चेन्न विधिरूपत्वस्यानवधारणात्। यदपरप्रतिषेधात्मकतया शब्देनापि बोध्यते तत्तावत् भावरूपमिति चेन्न परपदवैयर्थ्यात् तत्त्यागेऽप्यचाक्षुषादित्वापत्तेः। सुरभि चन्दनमित्यादाविवान्योपनीतभागवत्। तत्र चाक्षुषत्वं भविष्यतीसि चेन्न तथाविधेनैव विषयेण षिशिष्टाया बुद्धेर्विशेषणताग्रहे स्वाश्रयोऽप्यंशतः स्यात्। तेनोपलक्षितायास्तथात्वे चाभावविशिष्टभावग्रहार्थस्याप्यभावस्य तथात्वापत्तेः। यदेवंविधं तद्भावरूपमिति वदतेवंविधत्वाद्भावत्वमन्यद्वाच्यम् अभेदे यदेवविधं तद्भावरूपमिति नियमानुपपत्तेः। अस्योपलक्षणत्वे चोपलक्ष्यस्यान्यस्य वाच्यत्वात् अस्यैव भावार्थत्वे चाभावोनास्तीति कृत्वा प्रतीयनानस्य भावस्य भावत्वाप्रसङ्गात्। भिन्नञ्च भावत्वं न सम्भवति यत्पदार्थव्यतिरेकप्रसङ्गात्। यच्च किञ्चिद्भावत्वं तत्स्वात्मन्यस्ति नीवा अस्ति चेदात्मनि वृत्तिविरोधः नास्ति चेत्स्वस्यान्यप्रतिषेधमुखेन चाप्रतीयमानस्याभावत्वप्रसङ्गैति”। “नन्वेवमीश्वरे प्रमाणानुपदर्शनात्तदभाव एवापद्यत इति चेत् अभावत्वं किमभिधीयते निषेधात्मकत्वमिति चेत् तद्यदि प्रतिक्षेपात्मकत्वं तदा भावेऽप्यस्ति भावाभावयोर्द्वयोरपि परस्प रप्रतिक्षेपात्मकत्वस्वीकारात्। अथाभावत्वमेव तदा न निवृत्तः पर्य्यनुयोगः। एतेन निषेधमुखेन प्रतीयमानत्वमिति निरस्तम्। भावविरोधित्वमिति चेन्न सर्व्वभावविरोधित्वं तद्विशषविरोधित्वं वा। नाद्यः असिद्धेः नहि घटा भावोभूतलादि विरुणद्धि। न द्वितीयः भावानामपि केषाञ्चित्तथाभावात्। अथासहानवस्थानं विरोधो विवक्षितः स भावानां नास्तीति चेन्न गोत्वादौ तस्यापि भावात्। एकविधावन्यनिषेधः स इति चेन्न भेदे विरोधिभावभैदयोरेव प्रसङ्गात्। एकविधिरेवापरनिषेधः स इति चेन्न निषेधस्याभावार्थत्वे भावार्थत्वे चासिद्धेः। नास्तीति प्रतीयमानत्वमिति चेन्न घटाभावोनास्तीति घटस्य तथाप्रतीयमानतया अभावत्वापत्तेः अस्तीति भावत्वनिरुक्तौ यदुक्तं दूषणं तदापत्तेश्च। प्रतियोगिनिरूपणाधीननिरूपणत्वमिति चेन्न प्रतियोगिनः परार्थत्वेऽतिप्रसङ्गात् विरोध्यर्थत्वे चैतदनिरुक्तेः असदर्थत्वे नञर्थस्यासिद्धेः अतीतानागतज्ञानादौ विषयादिनातिप्रसङ्गात्। यच्च किञ्चिदभावस्य लक्षणमुच्यते स भावोऽभावो वा स्यात्। नाद्यः भावस्वाभावानाश्रितत्वात् विषयिधर्मेण च कथमप्रि तथात्वे तन्निर्वाच्यं स्यात्। अन्यदेव तदिति चेन्न तद्भावस्याभावत्वे स्ववृत्तिः भावत्वे च व्याधातात्। न द्वितीयः तस्यात्मनि वृत्तौ विरोधापत्तेः अवृत्तावव्यापकत्वप्रसङ्गादिति। प्रतिक्षेप्यविशिष्टमेव यत् प्रतिभाति सोऽभावैति चेन्न प्रतिक्षेपानिरुक्तौ प्रतिक्षेप्यानिरुक्तेः विशिष्टपदार्थश्च निर्व्वचनीयः स्यात्। तत्र विशिष्टं विशेषणविशेष्यतत्सम्बन्धेभ्यो भिन्नमभिन्नं वा। नाद्यः दण्डपुरुषसम्बन्धमन्तरेण दण्डिनोऽन्यस्याप्रतीतेः दण्डिनमानयेत्युक्ते तदानयप्रसङ्गाच्च। तत्सम्बन्धेनोपलक्षितत्वात्तथेति चेन्न अतद्वत उपलक्ष्यत्वेऽतिप्रसङ्गात्। तद्वतश्चान्यत्वात् संम्बन्धोहेतुः सच तदधिकरण एवेति चेन्न सम्बन्धात्तदधिकरणसम्बन्धान्यत्वापत्तेरित्येषः न पन्थाः। तत्सम्बन्धिनि तत्र व्यवहारैति चेन्न तस्यापि विशिष्टत्वेनान्यत्वापत्तौ व्यवहारविषयगतविशेषस्य वक्तुमशक्यत्वात्। एवं परम्पराकल्पनायामप्यनवस्थामात्रं नतु व्यवहार्य्यगतोविशेषः कश्चित्। द्वितीये तु प्रत्येकं दण्डिव्यववहारप्रसङ्गोविशेषाभावात् न ते प्रत्येकं दण्डिपदार्थाः किन्तु मिलिताइति चेत् मिलिता इति किं ते च मेलकं चाभिधीयते उत तेभ्योऽन्यएव कश्चित् आद्ये प्रत्येकं सएव प्रसङ्गः मेलकेऽप्यधिकः। द्वितीयस्तु प्रतीतिव्यवहारविरोधात्पूर्व्वं निरस्तः”। इत्यादिना ४ परि० विशिष्टपदार्थं निरस्य ईश्वरप्रमाणाभावस्य निर्वचनमपि निरासितम् अधिकं तत्र द्रष्टव्यम्।

तत्र निरीश्वरसांख्यमते उपासासिद्धस्य प्रकृतिलीनस्य पुरुषस्यैव सन्निधिमात्रेण प्रधानप्रवर्त्तनेन कर्तृता। सेश्वर योगरूपसांख्यप्रवचनमते नित्येश्वरस्यैव सन्निधिमात्रेण प्रधानप्रवर्त्तनेनं तथात्वम् इति भेदः। प्रदर्शितेष्वेषु मतेषु ईश्वरोनिमित्तकारणम्, वेदान्तिमते तु उपादान कारणं निमित्तकारणञ्चेति भेदः तदेतत् शा० सू० भाष्ययो र्दर्शितम् यथा “जन्माद्यस्य यतः” शा० सू० प्रतिज्ञातस्य ब्रह्मणोजन्मादिकारणत्वस्य विशेषनिर्द्धारणाय प्रवृत्तम् “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्” सू०। “यथाभ्युदयहेतुत्वाद्धर्म्मोजिज्ञास्य एवं निःश्रेयसहेतुत्वाद्ब्रह्मापि जिज्ञास्यमित्युक्तं ब्रह्म च “जन्माद्यस्य यतः” इति लक्षितं तच्च लक्षणं घटकटकादीनां मृत्सुवर्णादिवत् प्रकृतित्वे कुलालसुवर्णकारादिवन्निभित्तत्वे च समानमित्यतो भवति विमर्शः किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादि ति। तत्र निमित्तकारणमेव तावत् केवलं स्यादिति प्रतिभाति कस्मात्? ईक्षापूर्ब्बककर्तृत्वश्रवणात्। ईक्षापूर्ब्बकं हि ब्रह्मणः कर्तृत्वमवगम्यते “स ईक्षाञ्चक्रे स प्राण- मसृजत” इत्यादिश्रुतिभ्यः। ईक्षापूर्ब्बकञ्च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् अनेककारकपूर्ब्बिका च क्रिया फलसिद्ध्यै लोके दृष्टा स च न्याय आदिकर्तर्य्यपि युक्तः संक्रामयितुम्, ईश्वरत्वप्रसिद्धेश्च ईश्वराणां हि राजवैवस्वतादीनां निमित्वकारणत्वमेव केवलं प्रतीयते तद्वत् परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम्। कार्य्यञ्चेदं जगत् सावयवमचेतनमशुद्धञ्च दृश्यते कारणेनापि तस्य तादृशेनैव भवितव्यं कार्य्यकारणयोः सारूप्यदर्शनात् ब्रह्म च र्नवं लक्षणमवगम्यते “निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्” इत्यादि श्रुतिभ्यः। पारिशेष्याद्ब्रह्मणोन्यदुपादनकारणमशुद्ध्यादिगुणकंस्मृतिप्रसिद्धमभ्युपगन्तव्यं ब्रह्मकारणत्वश्रुतेर्निमित्तमात्रे पर्य्यवसानादित्येवं प्राप्ते ब्रूमः। प्रकृतिश्चोपादानकारणञ्च ब्रह्माभ्युपगन्तव्यं निमित्तकारणञ्चंन केववं निमित्तकारणमेव कस्मात् “प्रतिज्ञादृष्टान्तानुरोधात् एवं हि प्रतिज्ञादृष्टान्तौ श्रुतौ नोपरुध्येते। प्रतिज्ञा तावत्” उत तमादे शमप्राक्ष्योयेनाश्रुतं श्रुतम्भवत्यमतं मतमविज्ञातं विज्ञातमिति” तत्र चैकविज्ञानेन सर्वमन्यदविज्ञातमपि विज्ञातं सम्भवतीति प्रतीयते तच्चोपादानकारणविज्ञाने सर्व्वविज्ञानं सम्भवति उपादानकारणा व्यतिरेकात् कार्य्यस्य, निमित्तकारणादव्यतिरेकस्तु कार्य्यस्य नास्ति, लोके तक्षवास्याद्यतिरेकदर्शनात्। दृष्टान्तोऽपि “यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्व्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यम्, इत्युपादान गोचर एवाम्नायते “यथैकेन लोहमणिना सर्व्वं लोहमयं विज्ञात स्यात्” “एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यादिति” तथान्यत्रापि “कस्मिन्नु भगवोविज्ञाते सर्व्वमिदं विज्ञातं भवतीति” प्रतिज्ञा “यथा पृथिव्यामीषधयः सम्भवन्तीति” दृष्टान्तः “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व्वं विचित्रमिति” प्रतिज्ञाय “स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दान् शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीत इति” दृष्टान्तः एवं यथासम्भवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधकौ प्रत्येतव्यौ। यत इतीयमपि पञ्चमी “यतो वा इमाति भूतानि जायन्त” इत्यत्र “जनिकर्त्तुः प्रकृतिरिति” पा० विशेषस्मरणात् प्रकृतिलक्षण एवोपादाने द्रष्टव्या। निमित्तत्वन्तु अधिष्ठात्रन्तराभावादवगन्तव्यं यथा हि लोके मृत्सुवर्णादिकमुपादान कारणं कुलालसुवर्णकारादीनधिष्ठातॄवपेक्ष्य प्रवर्त्तते नव ब्रह्मण उपादानकारणस्य स्वतोऽन्योधिष्ठातापेक्ष्योऽस्ति प्रागुत्पत्तेः एकमेवाद्वितीय” मित्यवधारणात् अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेव नोदितो वेदितव्य” अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्व्वविज्ञानस्यासम्भवात् प्रतिज्ञादृष्टान्तोपरोध एव स्यात् तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्व उपादानान्तराभावाच्च प्रकृतित्वम्। कुतश्चात्मनः कर्तृत्व प्रकृतित्वे” भा०। “अभिध्योपदेशाच्च” सू०। “अभिध्योदेशश्चात्मनः कर्तृत्व प्रकृतित्वे गमयति “सोऽकामयत वहु स्यां प्रजायेति” “तदैक्षतेति” च तत्राभिध्यानपूर्व्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तृत्वं गम्यते “बहु स्यामिति” प्रत्यगात्मविषयत्वात् बहुभवनाभिध्यानाच्च प्रकृतिरित्यपि गम्यते” भा०। “साक्षाच्चोभयाम्नानात्” सू०। “प्रकृतित्वस्यायमभ्युच्चयः इतश्च प्रकृतिर्बह्म यत् कारणं साक्षाद्ब्रह्मैव कारणमुपादायोभौ प्रभवप्रलयावाम्नायेते “सर्व्वाणि ह वा इमानि मूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्तीति” यद्धि यस्मात् प्रभवति यस्मिंश्च प्रलीयते तत् तस्योपादानं प्रसिद्धं यथा व्रीहियवादीनां पृथिवी” साक्षादिति चोपादानान्तरानुपादानं सूचयति आकाशादेवेति। प्रत्यस्तमयश्च नोपादानादन्यत्र कार्य्यस्य दृष्टः” भा०। “आत्मकृतेः परिणामात्” सू०। “इतश्च प्रकृतिर्ब्रह्म यत् कारणं ब्रह्मप्रक्रियायाम्” “तदात्मानं स्वयमकुरुतेति” आत्मनः कर्म्मत्वं कर्तृत्वञ्च दर्शयति आत्मानमिति कर्म्मत्वं स्वयमकुरुतेतिकर्तृत्वम्। कथं पुनः पूर्व्वसिद्धस्य स्वतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सम्पादयितुम्? परिणामादिति ब्रूमः पूर्व्वसिद्धो हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः। स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते। परिणामादिति वा पृथक्सूत्रं तस्यैषोऽर्थः। इतश्च प्रकृतिर्ब्रह्म यत् कारणं ब्रह्मण एव विकारात्मनायं परिणामः सामानाधिकरण्येनाम्नायते” “सच्च त्यच्चाभवन्निरुक्तञ्चानिरुक्तञ्चेत्यादिनेति” भा०। “योनिश्च हि गीयते” सू०। “इतश्च प्रकृतिर्ब्रह्म यत् कारणं ब्रह्म योनिरित्यपि सव्व त्र वेदान्तेषु “कर्त्तारमीशं पुरुषं ब्रह्म योनिमिति” यद्भूतयोनि परिपश्यन्ति धीराः” इति च। योनिशब्दश्च प्रकृतिवचनः समधिगतोलोके “पृथिवी योनिरोषधिवनस्पतीनामिति,। स्त्रीयोनेरप्यस्त्येवावयवद्वारा सुतं प्रत्युपादानत्वम् क्वचित् स्थानवचनोऽपि योनिशब्दोदृष्टः “योनिष्ट इन्द्रनिषदे अकारीति” वाक्यशेषात्। तत्र प्रकृतिवचनता परिगृह्यते “यथोर्णनाभिः सृजते गृह्णते च” इत्येवं जातीयकात्। तदेवं प्रकृतित्वं ब्रह्मणः सिद्धम्। यत् पुनरिदमुक्तं ईक्षापूर्व्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टं नोपादानेष्वित्यादि तत् प्रत्युच्यते, न लोकवदिह भवितव्यं नत्वयमनुमानगम्योऽर्थः शब्दगस्यत्वात्तस्यार्थस्य, यथाशब्दमिह भवितव्यं शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचाम पुनश्चैतत् सर्व्वं विस्तरेण प्रतिवक्ष्यामः” भा०।

तत्र चेतनकारणतावादे सांख्याक्षेपप्रदर्शनपूर्वकं ब्रह्मणोयथा कारणत्वसम्भवस्तथा व्यवस्थापितं तत्रैव “इतरव्यपदेशाद्धिताकारणादिदोबप्रसक्तिः” शा० सू०। “अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते चेतनाद्धि जगत् प्रक्रियायामाश्रीयमाणायां हिताकारणादयोदोषाः प्रसज्यन्ते कुतः? इतरव्यपदेशात् इतरस्य शारीरस्य ब्रह्मान्मत्वं व्यपदिशति श्रुतिः “स आत्मा तत्त्वमसि श्वेतकेतो”! इति प्रतिबोधनात्। यद्वा इतरस्य ब्रह्मणः शारीरात्मत्वं व्यपदिशति तत्सृष्ट्वा तदेवानुप्राविशदिति” स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्य्यानुप्रवेशेन शारीरात्मत्वप्रदर्शनात्। “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति” पर देवताजीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणोभिन्नः शारीरैति दर्शयति। तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेत्यतः स्वतन्त्रकर्त्ता स च हितमेवात्मनः सौमनस्यकरं कुर्य्यात् नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम्। न हि कश्चिदपरतन्त्रोबन्धनागारमात्मानं कृत्वानुप्रविशति न च स्वयमत्यन्तनिर्मलः सन्नत्यन्तं मलिनं देहमात्मत्वेनोपेयात् कृतमपि कथञ्चिद्यत् दुःस्वकरं तदिच्छया जह्यात् सुखकरं चोपाददीत स्मरेच्च मयेदं जगद्विविधं विचित्रं विरचितमिति सर्वो हि लोकः स्पष्टं कार्य्यं कृत्वा स्वरति मयेदं कृतमिति। यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनोपसंहरति एवं शारीरोऽपी मां सृष्टिमुपसंहरेत्। स्वकीयमपि तावच्छरीरं शारीरो न शक्रोति अनायासेनोपसंहर्त्तुम्। एवं हितक्रियाद्यर्शनादन्याय्या चेतनाज्जगत् प्रक्रियेति मन्यते” भा०। “अधिकन्तु भेदनिर्देशात्” सू०। “तुशब्दः पूर्वपक्षं व्यावर्त्तयति। यत् सर्व्वज्ञं शर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारोरादधिकमन्यत् तद्वयं जगतः स्रष्टृ ब्रूमः न तस्मिन् हिताकरणादयोदोषाः प्रसज्यन्ते। न हि तस्य हितं किञ्चित् कर्त्तव्यमस्ति अहितं वा परिहर्त्तव्यं मित्यमुक्तत्वात्। न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति सर्व्वज्ञत्वात् सर्वशक्तित्वाच्च। शारीरस्त्वनेवंबिधस्तस्मिन् प्रसज्यन्ते हिताकारणादयोदोषाः न तु तं वयं जगतः स्रष्टारं ब्रूमः। कुत एतत् भेदनिर्देशात् “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्योनिदिध्यासितव्यः” “सोऽन्वेष्टव्यः स विजिज्ञासितव्यः” “सता सौम्य! तदा संपन्नोभवति” “शारीर आत्मा प्राज्ञेनात्मना अन्वारूढ” इत्येवं जातीयकः कर्त्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति। मन्वभेदनिर्देशोऽपि दर्शितः “तत्त्वमसीत्येवञ्जातीयकः कथं भेदाभेदौ विरुद्धौ सम्भवेताम्?। नैष दीषः। आकाशघटाकाशन्यायेनोभयसम्भवस्य तत्र तत्र प्रतिष्ठापितत्वात्। अपि च यदा “तत्त्वमसीत्येवञ्चातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवति, अपगतम्भवति तदा जीवस्य संसारित्वं, ब्रह्मणश्च स्रष्टृत्वं, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् तत्र कुत एव सृष्टिः, कुतो वा हिताकारणादयोदोषाः। अविद्याप्रत्युस्थापितनामरूपकृतकार्य्यकारणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताहितकरणादिलक्षणः संसारो न तु परमार्थतोऽस्तीत्यसकृदेवावोचाम जन्ममरणच्छेदनभेदनाद्यभिमानवत्। अबाधिते तु भेदव्यवहारे “सोऽन्वेष्टव्य इत्येवञ्जातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणोऽधिकत्वं हिताकरणदोषप्रसक्तिं निरुणद्धि” भा०। “अश्मादिवच्च तदनुपपत्तेः” सू० “यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महामणयोवज्रवैदूर्य्यादयोऽन्ये मध्यमवीर्य्याः सूर्य्यकान्तादयोऽन्ये प्रहीणाःश्ववायसक्षेपणार्हाःपाषाणा इत्यनेकविधं वैचित्र्यं दृश्यते यथा चैकपृथिवीव्यपाश्रयाणा मपि वीजानां बहुविधं पत्रपुप्पफलगन्धरसादिवैवित्र्यं चन्दनचम्प्रकादिषूपलभ्यते यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च कार्य्याणि विचित्राणि भवन्ति एवमेकस्यापि ब्रह्मणीजीवप्राज्ञपृथक्त्वं कार्य्यवैचित्र्यं चोपपद्यत इत्यतस्तदनुपपत्तिः परपरिकल्पितदोषानुपपत्तिरित्यर्थः। श्रुतेश्च प्रामाण्याद्विकारस्य वाचारम्भणमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच्चेत्यभ्युच्चयः” भा०। “उपसंहारदर्शनान्नेति चेन्न क्षीरबद्धि” सू०। “चेतनं ब्रह्वैकमद्वितीयं जगतः कारणमिति यदुक्तं तन्नोपपद्यते कस्मात्? उपसंहारदर्शनात्। इह हि लोके कुलालादयो घटपटादीनां कर्त्तारोभृद्दण्डचक्रसूत्राद्यनेककारकोपसंहा रेण संगृहीतसाधनाः सन्तस्तत्तत् कार्यं कुर्व्वाणादृश्यन्ते ब्रह्म चासहायं तवाभिप्रेतं तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टृत्वमुपपद्येत तस्मान्न ब्रह्म जगत्कारणमिति चेन्नैष दोषः यतः क्षीरवत् द्रव्यस्वभावविशेषादुपपद्यते यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनं, तथेहापि भविष्यति। ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षतएव बाह्यं साधनम् औष्ण्यादिकं, कथमुच्यते क्षीरबद्धीति नैष दोषः। स्वयमपि हि क्षीरं याञ्च यावतीञ्च परिणाममात्रामनुभवत्येवं पार्यते ताञ्च तावतीञ्चौष्ण्यादिना दधिभावाय। यदि स्वयं दधिभावशीलता न स्यान्नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत। न हि वायुराकाशो वौष्ण्यादिना बलादधिभावमापद्येत। साधनसम्पत्त्या च तस्य संपूर्ण्णता सम्पाद्यते। परिपूर्ण्णशक्तिकञ्च ब्रह्म न तस्यान्येन केनचित् पूर्ण्णता सम्पादयितव्या। श्रुतिश्च तत्र भवति “न तस्य कार्यं करणञ्च विद्यते म तत्ससश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चेति” तस्मादेकस्यापि ब्रह्मणो विवित्रशक्तियोगात् क्षीरादिवद्वि चित्रः परिणामश्चोपपद्यते” भा०। “देवादिवदपि लीके” सू०। “स्यादेतत् उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि वाह्यं साधनं दध्यादिभावः दृष्टत्वात् ज्ञेतताः पुनः कुलालादयश्च साधनसामग्रीमपेक्ष्यैव तस्मैतस्मै कार्य्याय प्रवर्त्तमाना दृश्यन्ते कथं ब्रह्म चेतनं सदमहायं प्रवर्त्तेतेति? देवादिवदिति ब्रूमः। यथा लोके देवाः पितर ऋषय इत्येवमादय महाप्रभावाश्वेतना अपि सन्तोऽनपेक्ष्य किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वतएव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा उपलभ्यन्ते मन्त्रार्थवादेतिहासपुराणप्रामाण्यात्। तन्तुनाभश्च स्वतएव तन्तून् सृजति बलाका चान्तरेणैव शुक्रं, गर्भं, धत्ते, पद्मिनी चानपेक्ष्य किञ्चित् प्रस्थानसाधनं सरोन्तरात् सरोन्तरं प्रतिष्ठते। एवं चेतममपि ब्रह्मानापेक्ष्य बाह्यं साधनं स्वतएव जगत् स्नक्ष्यति स यदि ब्रूयात् यएते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रह्मणा समान स्वभावा न भवन्ति शरीरमेव ह्यचेतनं देवादीनां शरोरान्तरादिविभूत्युत्पादनेउपादानं न तु चेतन आत्मा, तन्तुनाभस्य च क्षुद्रतरजन्तु- भक्षणाज्जातां कठिनतामापद्यमानो तन्तुर्भवति, बलाका चस्तनयित्नुरव श्रवणाद्गर्भं धत्ते, पद्मिनी च चतनप्रयुक्ता सत्यचेतनेनैव शरीरेण सरोन्तरात् सरोन्तरमुपसर्पति वल्लीव वृक्षं न तु स्वयमेव अचेतना सरोन्तरोपसर्पणे व्याप्रियते तस्मान्नैते ब्रह्मणो दृष्टान्ता इति, तं प्रति ब्रूयात् नायं दोषः। कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षित त्वादिति। यथा हि कुलालादीनां देवादीनाञ्च समाने चेतनत्वे कुलालादयः कार्य्यारम्भे बाह्यं साधनमपेक्षन्ते न देवादयस्तथा, ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यते इत्येतावद्वयं देवाद्युदाहरणेन विवक्ष्यामः। तस्माद्यथैकस्यसामर्थ्यं दृष्टं तथा सर्व्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्राय” भा०। “कृत्स्नप्रसक्तिर्निरवयवत्वशब्दव्याकापो वा” सू०। “चेतनमेकमद्वितीयं ब्रह्मक्षीरादिवद्देवतादिवच्चा नपेक्षितबाह्यसाधनं स्वयम्परिणममानं जगतः कारणमिति स्थितम्। शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्य्यरूपेण परिणामः प्राप्नोति निरवयवत्वात् यदि ब्रह्म पृथिव्यादिवत् सावयवमभविष्यत्ततोऽस्यैकदेशः पर्य्यणंस्यत एकदेशश्चावास्थास्यत, निरवयवन्तु ब्रह्व श्रुतिभ्योऽवगम्यते “जिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्” “दिव्योह्यमूर्त्तः पुरुषः स बाह्यभ्यन्तरोह्यजः” “इदं महद्भूतमनन्तमपारम्” “विज्ञानवन एव स एव नेति नेत्यात्माऽस्थूलमनण्वित्याद्याभ्यः” सर्व्वविशेषं प्रतिषेधयित्रीभ्यः। ततश्चैकदेशपरिणामासम्भवात् कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत दृष्टव्यत्वोपदेशानर्थक्यञ्चापन्नम् अयत्नदृष्ट्वात् कार्य्यस्य। तह्यतिरिक्तस्य च ब्रह्मणोऽभावादजत्वादिशब्दव्याकोपश्च। अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्राह्माभ्युपगम्येत तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दाउदाहृतास्ते प्रकुप्येयुः। सावयवत्वे चानित्यत्व प्रसङ्ग इति सर्व्वथाऽयं पक्षो न षटयितुं शक्यत इत्याक्षिपति” भा०। “श्रुतेस्तु शब्दमूलत्वात्” सू० “तुशब्देनाक्षेपं परिहरति न स्वल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति न तावत् कृत्स्नप्रसक्तिरस्ति कुतः? श्रुतेः तथैव हि ब्रह्मणोऽवस्थानं श्रूयते प्रकृतिविकारयोर्भेदेन व्यपदेशात् “सेयन्देवतैक्षत हन्ताहमिमास्तिस्रोदेवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति” “तावानस्य महिमा ततोज्यायांश्च पुरुषः पादोऽस्यविश्वाभूतानि त्रिपादस्यामृत दिवीति” चैवं जातीयकात् तथा हृदयायतनत्ववचनात् सत्- सम्पत्तिवचनाच्च। यदि च कृत्स्नं ब्रह्म कार्य्यभावेनोप युक्तंस्यात् “सता सौम्य! तदा सम्पन्नो भवतीति” मुषुप्तिगतं विशेषणमनुपपन्नं स्यात् विकृतेन ब्रह्मणा नित्यं सम्पन्नत्वात् अविकृतस्य च ब्रह्मणोऽभावात् तथेन्द्रियगोचरत्वप्रतिषेधाद्ब्रह्मणः, विकारस्य चेन्द्रियगोचरत्वोपपत्तेः। तस्मादस्ति अविकृतं ब्रह्म न च निरवयवत्वशब्दव्याकोपोऽस्ति श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात्। शब्दमूलञ्च ब्रह्म शब्दप्रमाणकं नेन्द्रियादिपुमाणकं तद्यथाशब्दमभ्युपगन्तव्यम्। शब्दश्चोमयमपि ब्रह्मणः प्रतिपादयति अकृत्स्नप्रसक्तिं निरवयवताञ्च। लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशात् शक्तयोविरुद्धानेककार्य्यविषया दृश्यन्ते ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते अस्य वस्तुन एतावत्यएतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति किमुताविन्त्यप्रभावस्य ब्रह्मणोरूपं विना शब्देन न निरूप्येत। तथाचाहुः पौराणिकाः “अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्। प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणमिति”। तस्माच्छब्दमूलएवातीन्द्रियार्थ याथात्म्याधिगमः। ननु शब्देनापि न शक्यते विरुद्धार्थः प्रत्याययितुं निरवयवञ्च ब्रह्म परिणमते न च कृत्स्नमिति यदि निरवयवं ब्रह्म स्यान्नैव परिणमेत कृत्स्नमेव वा परिणमेत अथ केनचिद्रूपेण परिणमेत केनचिद्रूपेणावतिष्ठेतेति रूपभेदकल्पनात् सावयवमेव प्रसज्येत। क्रियाविषये “अतिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीत्येवंजातीयिकायां विरुद्धप्रतीतावपि विकल्पाश्रयण विरोधपरिहारकारणं भवति पुरुषतन्त्रत्वादनुष्ठानस्य इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः सम्भवति अपुरुषतन्त्रत्वाद्वस्तुनः तस्माद्दुघटमेतदिति नैष दोषः। अविद्याकल्पितरूपभेदाभ्युपगमात्। नह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु सम्पद्यते। न हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति। अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तंत्त्वान्यत्वाभ्यामनिर्वाच्येन ब्रह्म परिणामादिसर्व्वव्यवहारास्पदतां प्रतिपद्यते पारमार्थिकेन च रूपेण सर्व्वव्यवहारातीतमपरिणतमवतिष्ठते वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्य, न निरपयवत्वं ब्रह्मणः कुप्यति। नचेयं परिणामश्रुतिः परिणामप्रतिपादनार्था तत्प्रतिपत्तौ फलानवगमात्। सर्व्व व्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा तत्प्रतिपत्तौ फलावगमात्। “सएष नेति नेत्यात्मा” इत्युपक्रम्याह “अभयं वै जनक! प्राप्तोऽसोति”। तस्मादस्मत्पपक्षेन कश्चिदपि दोष प्रसङ्गोऽस्ति” भा०। “आत्मनि चैवं विचित्राश्च हि” सू०। “अपि च नैवात्र विवदितव्यं कयमेकस्मिन् ब्रह्मणि स्वरूपानुपमर्द्देनैवानेकाकारा सृष्टिः स्यादिति यत आत्मन्यप्येकस्मिन् स्वप्नदृशि स्वरूपानुपमदनेनैवानेकारा सृष्टिः पठ्यते “न तत्र रथा न रथयोगाः पन्थानोभवन्त्यथ रथान् रथयोगान् पथः सृजते” इत्यादिना। लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्दनेनैव विचित्राहस्त्यश्वादिसृष्टयो दृश्यन्ते तथैकस्मिन्नपि ब्रह्मणि खरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति” भा०। “स्वपक्षदोषाच्च” सू०। “परेषामप्येष समानः स्वपक्षदोषः प्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमतः कायस्य कारणमिति स्वपक्षः तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात् प्रधानस्य प्राप्नोति निरवयवत्वाभ्युपगमव्यकोपोवा। ननु नैव तैर्निरयवयवं प्रधानमभ्युपम्यते सत्वरजस्तमांसि हि त्रयोगुणाः तेषां साम्यावस्था प्रधानं तैरेवावयवैः तत् सावयवमिति, नैवं जातीयकेन सावयवत्वेन प्रकृतोदोषः परिहर्त्तुं पार्य्यते यतः सत्वरजस्तमसामप्येकैकस्य समानं निरवयत्वम् एकैकमेवेतरद्वयानुगृहीतं स्वजातीयस्य प्रपञ्चस्योपादानमिति समानत्वात् स्वपक्षदोषप्रसङ्गस्य। तर्काप्रतिष्ठानात् सावयवत्वमेवेति चेत् एवमप्यनित्यत्वादिदोषप्रसङ्गः। अथ शक्तय एव कार्य्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः, तास्तु ब्रह्मवादिनोऽप्यविशिष्टाः। तथा अणुवादिनोऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कात्स्न्येन संयुज्येत ततः प्रथिमानुपपत्तेरणुमात्रताप्रसङ्गः।ऽयथैकदेशेन संबुज्येत तथापि निरवयवत्वाभ्युपगमव्याकोप इति स्वपक्षेऽपि समानएष दोषः। समानत्वाच्च नान्यतरस्मिन्नेव पक्षे उपक्षेप्तव्योभवति। परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः” भा०। “सर्व्वोपेता च तद्दर्शनात्” सू०। “एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तं तत् पुनःकथमपगम्यते विचित्रशक्तियुक्तं परं ब्रह्मेति?” तदुच्यते सर्व्वोपेता च तद्दर्शनात् सर्व्वशक्तियुक्ता परा देवतेत्यवगन्तव्यं कुतः? तद्दर्शनात् तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्यादेवतायाः “सर्व्वकर्म्मा सर्व्वकामः सर्वगन्धः सर्व्वरसः सर्व्वमिदमभ्यात्तोऽवाक्यनादरः” “सत्य- कामः सत्यसङ्कल्पः” “यः सर्वज्ञः सर्ववित्” “एतस्य वा अक्षरस्य प्रशासने गार्गि! सूर्य्याचन्द्रमसौ धृतौ तिष्ठत” इत्येवञ्जातीयका” भा०। “विकरणत्वान्नेति चेत्तदुक्तम्” सू०। “स्यादेतत् विकरणां परां देवतां शास्ति शास्त्रम् “अचक्षुष्कमश्रोत्रमवागमनः” इत्येवञ्जातीयकम्। कथं सा सर्वशक्तियुक्तापि सती कार्य्याय प्रभवेत्? देवादयोहि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्य्यकरणसम्पन्ना एव तस्मैतस्मैकार्य्याय प्रभवन्तो विज्ञायन्ते। कथञ्च “नेति नेतीति” प्रतिषिद्धसर्व्वविशेषाया देवतायाः सर्व्वशक्तियोगः सम्भवेदिति? चेत् यदत्र वक्तव्यं तत् पुरस्तादेवोक्तं, श्रुत्यवगाह्यमेवेदमतिगम्भीरं परं ब्रह्म न तर्कावगाह्यम् न च यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमोऽस्तीति। प्रतिषिद्धसर्व्वविशेषस्यापि ब्रह्मणः सर्व्वशक्तियोगः सम्भवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव। तथा च शास्त्रम् “अपाणिपादोजवनोग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण्णः” इत्यकरणस्यापि ब्रह्मणः सर्व्वसामर्थ्ययोगं दर्शयति” भा०। “न प्रयोजनवत्त्वात्” सू०। “अन्यया पुनश्चेतनकर्तृकत्वं जगत आक्षिपति, न खलु चेतनः परमात्मेदं जगद्विम्बं विरचयितुमर्हति कुतः? प्रयोजनवत्त्वात् प्रवृत्तीनाम्। चेतनो हि लोके बुद्धिपूर्ब्बकारीपुरुषः प्रवर्त्तमानो न मन्दोपक्रमामपि तावत् प्रवृत्तिमात्मप्रयोजनानुपयीगिनीमारभमाणोदृष्टः किमुत गुरुतरसंरम्भाम्, भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः “न वा अरे सर्व्वस्य कामाय सर्वं प्रियम्भवत्यात्मनस्तु कामामाय सर्वं प्रियम्भवतीति”। गुरुतरसंरम्भा चेयं प्रवृत्तिर्यदुच्चावच प्रपञ्चं जगद्विम्बं विरचयितव्यम्। यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तप्तत्वं परमात्मनः श्रूयमाणं बाध्येत प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात्। अथ चेतनोऽपि सन्नुन्मत्तोबद्ध्यराधादन्तरेणैवात्मप्रयोजनं प्रवर्त्तंनीदृष्टस्तथा परमात्मापि प्रवर्त्तिष्यत इत्युच्येत, तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत तस्मादश्लिष्टा चेतनात् सृष्टिरिति” भा०। “लोकषन्तु लीलाकैवल्यम्” सू० “तुशब्देनाक्षेपं परिहरति। यथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमनभि सन्धाय केवलं लीलारूपा प्रवृत्तयः क्रीडाविहारेषु भवन्ति यथा चोच्छसपश्वासादयोऽनभिसन्धाय बाह्यं किञ्चित्प्रयोजनान्तरं स्वभावादेव भवन्ति एवभीश्वरस्याप्य- नपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवल लीलारूपा प्रवृत्तिर्भविष्यति। नहीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा सम्भवति। न च स्वभावः पर्य्ये नुयोक्तु शक्यते। यद्यप्यस्माकमियं जगद्विम्बविरचना गुरुतरसंरम्भेवावभाति तथापि परमेश्वरस्य लोलैव केवलेयम् अपरिमितशक्तित्वात्। यदि नाम लोके लीलास्वपि किञ्चित् सूक्ष्मं प्रयोजनमुत्प्रेक्षत तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुंशक्यते आप्तकामताश्रुतेः। नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा सृष्टिश्रुतेः सर्वज्ञत्वश्रुतेश्च। नचेयं परमार्थविषया सृष्टिस्थितिश्रुतिः अविद्याकल्पित नामरूपव्यवहारगोचरत्वात् ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि न विस्मर्त्तव्यम्” भा०। “वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति” सू०। “पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय। नेश्वरो जगतः कारणमुपपद्यते कुतः? वैषम्यनै एण्यप्रसङ्गात्। कांश्चिदत्यन्तसुखभाजः करोति देवादीन्, कांश्चिदत्यन्तदुःखभाजः करोति पश्वादीन्, कांश्चिन् मध्यमभाजोमनुष्यादीनित्येवं विषमां सृष्टिं निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषापत्तेः श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविपरिलोपः प्रसज्येत। तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःस्वयोगविधानात् सर्व्वप्रजोपसंहरणाच्च प्रसज्येत। तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते कस्मात्? सापेक्षत्वात्। यदि हि निरपेक्षः केवल ईश्वरोविषमां सृष्टिं निर्मिमीत स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यञ्च। न तु निरपेक्षस्य निर्मातृत्वमस्ति सापेक्षो होश्वरोविषमां सृष्टिं निर्मिमीते। किमपेक्षत इति चेद्धर्म्माधर्म्मावपेक्षत इति वदामः। अतः सृज्यमानप्राणिधर्म्माधर्म्मापेक्षा विषमा सृष्टिरिति नायमीश्वरस्यापराधः। ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः यथा हि पर्जन्यो व्रोहियवादिसृष्टौ साधारणं कारणम्भवति व्रीहियवादिवैषम्ये तु तत्तद्वीजगतान्येवा साधारणानि समर्थानि कारणानि भवन्ति, एवमीश्वरोदेय मनुष्यादिसृष्टौ साधारणं कारणम्भवति देवमनुष्यादिवैषय्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्म्माणि कारणानि भवन्ति। एवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति। कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमसंसारं निर्मिमीते इति। तथा हि दर्शयति श्रुतिः “एष ह्येव साधु कर्म्म कारयति तं, यमेभ्योलोकेभ्य उन्निनीषते, एष उ एवासाधु कर्म्म कारयति तं, यमधोलोकं निनीषत” इति “पुण्योवै पुण्येन कर्म्मणा भवति, पापः पापेनेति” च। स्मृतिरपि प्राणिकर्म्मविशेषापेक्षमेबेश्वरस्यानुग्रहीतृत्वं निग्रहीतृत्वञ्च दर्शयति “ये यथा मां प्रपद्यन्ते तांस्तथैव भजान्यहम्” इत्येवञ्जातीयका” भा०। “न कर्म्माविभागादिति चेन्नानादित्वात्” सू०। “सदेव सोम्येदमग्रसीदेकमेवाद्वितीयमिति” प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म्म, यदपेक्षा विषमा सृष्टिः स्यात्, सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म्म। कर्म्मापेक्ष ईश्वरः प्रवर्त्ततां नाम, प्राक् विभागाद्वैचित्र्यनिमित्तस्य कर्म्मणोऽभावात्तुल्यै वाद्या सृष्टिः प्राप्नोतीति चेन्नैष दोषः, अनादित्वात् संसारस्य। भवेदेष दोषोयद्यादिमानयं संसारः स्यात् अनादौ तु संसारे वीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्म्मणः, सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते। कथं पुनरेतदवगम्यते अनादिरेष संसार इति? अत उत्तरं पठति” भा०। “उपपद्यते चाय्युपलभ्यते च” सू०। “उपद्यते च संसारस्यानादित्वं आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनःसंसारोद्भूतिप्रसङ्गः अकृताभ्यागमप्रसङ्गश्च सुखदुःखादिवैषम्यस्य निर्निमत्तत्वात्। न चेश्वरो वैषन्यहेतुरित्युक्तम्। न चाविद्या केवला वैषम्य कारणम् एकरूपत्वात्। रागादिक्लेशवासनाक्षिप्तकर्म्मापेक्षा त्वविद्या वैषम्यकरी स्यात्। न च कर्म्म अन्तरेण शरीरं सम्भाति, न वा शरीरमन्तरेण कर्म्म सम्भवतीतीतरेतरा श्रयदोषप्रसङ्गः “अनादित्वे तु वीजाङ्कुरन्यायेनोपपत्तेर्नकश्चिद्देषो भवति। उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः। श्रुतौ तावत् “अनेन जोवेनात्मनेति, सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिसित्तेनाभिलपन्ननादिः संसार इति दर्शयति। आदिमत्त्वे तु ततः प्रागनवधारितः प्राणः स कयं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखेऽभिलप्येत। न च धारयिष्यतीत्यतोऽ भिलप्येत अनागताद्धि सम्बन्धादतीतः सम्बन्धोबलीयान् भवति अभिनिष्पन्नत्वात्। “सूर्य्याचन्द्रमसौ धाता ययापूर्व्वमकल्पयदिति” च मन्त्रवर्ण्णः पूर्व्वकल्पसद्भावं दर्शयति। स्मृताबप्यनादित्वं संसारस्योपलभ्यते। “न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा” इति भगवद्गीता। पुराणे चातीतानामनागतानाञ्च कल्पा- नां न परिमाणमस्तीति स्थापितम्” शङ्करभाष्यम्।

ईश्वरस्य केवलनिमित्तकारणतापक्षोऽपि न्यायवैशेषिकाद्यभितः तत्रैव प्रत्याख्यातः यथा “पत्युरसामञ्जस्यात्” शा० सू०। “इदानीं केवलाघिष्ठात्रीश्वरकारणवादः प्रतिषिध्यते। तत्कथवगम्यते?। “प्रकृतितिश्च प्रतिज्ञादृष्टान्तानुपरोधात्” “अभिध्योदेशाच्च” इत्यत्र प्रकृतिभावेनाधिष्ठातृभा वेन चोभयस्वभावस्येश्वरस्य स्वयमेवाचार्य्येण प्रतिष्ठापितत्वात्। यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत पूर्व्वोत्तरविरोधाद्व्याहताभिव्याहारः सूत्रकार इत्ये तदापद्येत। तस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वर इत्येष पक्षो वेदान्तविहितब्रह्मैकत्वप्रतिपक्षत्वाद्यत्नेनात्र प्रतिषिध्यते। सा चेयं वेदबाह्येश्वरकल्पनानेकप्रकारा। केचित्तावत्साङ्ख्ययोगव्यपाश्रयाः कल्पयन्ति प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वरः इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इति। माहेश्वरास्तु मन्यन्ते “कार्य्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षायोपदिष्टाः। पशुपतिरीश्वरोनिमित्तकारणमिति,। तथा वैशेषिकादयोऽपि केचित् कथञ्चित् स्वप्रक्रियानुसारेण निमित्तकारणमीश्वरं वर्ण्णयन्ति। अत उत्तरमुच्यते। “पत्युरसामञ्जस्यादिति”। पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते कस्मात? असामञ्जस्यात्। किं पुनरसामञ्जस्यम् हीनमध्यमोत्तमभावेन हि प्राणिभेदान् विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेरस्मदादिवदनीश्वरत्वं प्रसज्येत। प्राणिकर्म्मापेक्षत्वाददोष इति चेन्न कर्म्मेश्वरयोः प्रवर्त्यप्रवर्त्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात्। अनादित्वादिति चेन्न वर्त्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरम्परान्यायापत्तेः। अपि च प्रवर्त्तनालक्षणदोषा इति न्यायवित् समयः। न हि कश्चिददोषप्रयुक्तः परार्थे स्वार्थे वा प्रवर्त्तमानो दृश्यते स्वार्थप्रयुक्त एव च सर्व्वोजनः परार्थेऽपि प्रवर्त्तत इत्येवमप्यसामञ्जस्यम्। स्वार्थकत्वादीश्वरस्यानीश्वत्वप्रसङ्गात्। पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम्” भा०। “सम्बन्धानुपपत्तेश्च” सू०। “पुनरप्यसामञ्जस्यमेव न हि प्रधानपुरुषव्यतिरिक्त ईश्वरोऽन्तरेण सम्बन्धं प्रधानपुरुषयोरीशिता। न तावत् संयोगलक्षणः सम्बन्धः सम्भवति प्रधानपुरुषेश्वराणां सर्वगतत्वात् निरवयवत्वाच्च। नापि समवायलक्षणः, आश्रयाश्रयिभावानिरूपणात्। नाप्यन्यः कश्चित् कार्य्यगम्यः सम्बन्धः शक्यते कल्पयितुं, कार्य्यकारणभावस्यैवाद्याम्यसिद्धत्वात्। ब्रह्मवादिनः कथमिति चेत् न तस्य तादात्म्यलक्षणसम्बन्धोपपत्तंः। अपि चागमबलेन ब्रह्मवादी कारणादिखरूपं निरूपयति नावश्यन्तस्य यथादृष्टं सर्वमभ्युपगन्तव्यम्। परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतोयथादृष्टमेव सर्व्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयः। परस्यापि सर्वज्ञप्रणीतागमसद्भावात् समानमागमबलमिति चेन्न इतरेतनाश्रयप्रसङ्गात् आगमप्रत्ययात् सर्वज्ञसिद्धिः सर्व्वज्ञप्रत्ययाच्चागमसिद्धिरिति। तस्मादनुपपन्ना साङ्ख्ययोगवादिनामीश्वरकल्पना। एवमन्यास्वपि वेदबाह्यास्वीश्वरकल्पनासु यथासम्भवमसामञ्जस्यं योजयितव्यम्” भा०। “अधिष्ठानानुपपत्तेश्च” सू०। “इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य। स हि परिकल्प्यमानः कुम्भकार इव मृदादीनि प्रधानादोनि अधिष्ठाय प्रवर्त्तयेत् न चैवमुपपद्यते। नह्यप्रत्यक्षं रूपादिहीनञ्च प्रधानमीश्वंरस्याधिष्ठेयं सम्भवति मृदादिवैलक्षण्यात्” भा०। “करणवच्चेन्न भोगादिभ्यः” सू०। “स्यादेतत् यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूप्रादिहीनञ्च पुरुषोऽधितिष्ठत्वेवं प्रधानमपीश्वरोऽविष्ठास्यतीति, तथापि नोपपद्यते भोगादिदर्शनाद्धि करणग्रामस्याधिष्ठितत्वं गम्यते न चात्र भोगादयो दृश्यन्ते। करणग्रामसाम्ये चाभ्युपगम्यमाने संसारिणामिवेश्वरस्यापि भोगादयः प्रसज्येरन्। अन्यथा वा सूत्रद्वप व्याख्यायते। “अधिष्ठानानुपपत्तेश्च”। इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य साधिष्ठानो हि लोके सशरोरोराजा राष्ट्रस्येश्वरोदृश्यते न निरधिष्ठानः, अतश्च तद्दृष्टान्तवशेनादष्टमीश्वरं कल्पयितुमिच्छत ईश्वरस्यापि किञ्चित्शरीरं करणायतनं वर्णयितव्यं स्यात् न च तद्बर्णयितुं शक्यते सृष्ट्युत्तरकालभावित्वात् शरीरस्य प्राक्सृष्टेस्तदनुपपत्तेः। निरधिष्ठानत्वे चेश्वरस्य प्रवर्त्तकत्वानुपपत्तिः एवं लोके दृष्टत्वात्। “करणवच्चेन्न भोगादिभ्यः” सू०। “अथलोकदर्शनानुसारेणेश्वरस्यापि किञ्चित्करणानामायतनं शरीरं कामेन कल्प्यते एवमपि नोपपद्यते सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गादीश्वरस्याप्यनीश्वरत्व प्रसज्येत” भा०। “अन्तवत्त्वमसर्व्वज्ञता वा” सू०। “इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य। स हि सर्वज्ञस्तैरभ्युपगम्यते अनन्तश्च अनन्तञ्च पधानं अनन्ताश्च पुरषामिथोभिन्ना अभ्युप- गम्यन्ते। तत्र सर्व्वज्ञेनेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा न वा परिच्छिद्येत, उभयथापि दोषोऽनुषक्तएव। कथं? पूर्वस्मिंस्तावद्विकल्पे इयत्तापरिच्छिन्नं वस्तु घटादिवदन्तवत् दृष्टं तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत् स्यात्। संख्यापरिमाणं तावत् प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नं, स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येतेति। पुरुषगता च महासंख्या। ततश्चेयत्तापरिच्छिन्नानां ये संसारान्मुच्यन्ते तेषां संसारोऽन्तवान् संसारित्वञ्च तेषामन्तवत्। एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारित्वस्य चान्तवत्त्वं स्यात्। प्रधानञ्च सविकारं पुरुषार्थमीश्वरस्याधिष्ठेयं संसारत्वेनाभिमतं तच्छून्यतायामीश्वरः किमधितिष्ठेत? किं विषये वा सर्व्वज्ञतेश्वरते स्याताम्?। प्रधानपुरुषेश्वराणां चैवमन्तवत्त्वे सति, आदिमत्त्वप्रसङ्गः आद्यन्तवत्त्वे च शून्यवादप्रसङ्गः। अथ मा भूदेष दोष इत्युत्तरविकल्पोऽभ्युपगम्यते न प्रधानस्य षुरुषाणामात्मनोवेयत्तेश्वरेण परिच्छिद्यत इति। तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहा निरपरो दोषः प्रसज्येत। तस्मादप्यसङ्गतस्तार्किकपरिगृहीतैश्वरकारणवादः”।

ईश्वरकारणतादार्ढ्याय अचेतनप्रधानकारणवाद खण्डनमपि शा० सू० भाष्ययोः। यथा “रचनानुपपत्तेर्नानुमानम्” सू०। “तत्र साङ्ख्यामन्यन्ते यथा घटशरावादयो भेदामृदात्मकतयान्वीयमाना मृदात्मकसामान्य पूर्ब्बकाः लोके दृष्टाः तथा सर्व्वे एव वाह्याध्यात्मिका भेदाः सुखदुःखमोहात्मकतयाऽन्वीयमाना सुखदुःखमोहात्मकसामान्यपूर्व्वका भवितुमर्हन्ति। यत्तत् सुख दुःखमोहात्मकं सामान्यं तत् त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषस्यार्थं साधयितुं प्रवृत्तं स्वभावभेदेनैव विचित्रेण विकारात्मना बिवर्त्तते इति। तथा परिमाणादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिमते। तत्र वदामः यदि द्वष्टान्तबलेनैवैतन्निरूप्यते नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रङ्किञ्चिद्विशिष्टपुरुषार्थनिर्वर्त्तनसमर्थान् विकारान् विरचयत् दृष्टम्। मेहप्रासादशयनासनविहारमूम्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदुःखप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते तथेदं जगदखिलं पृथिव्यादि नानाकर्म्मफलमोगयोग्यं बाह्यमाध्मात्मिकञ्च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवा- धिष्ठानं दृश्यमानं प्रज्ञावद्भिः सम्भाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत्? लोष्टपाषाणादिष्वदृष्टत्वात्। मृदादिष्वपि कुम्भकाराद्यधिष्ठितेषु विशिष्टाकाररचना दृश्यते तद्वत् प्रधानस्यापि चेतनान्तराधिष्ठितत्वप्रसङ्गः। न च मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण सूलकारणमवधारणीयं त बाह्यकुम्भकारादिव्यप्राश्रयेणेति किञ्चिन्नियामकमस्ति न चैवं सति किञ्चिद्विरुध्यते प्रत्युत श्रुतिरनुगृह्यते चे तनकारणतासमर्पणात्। अतोरचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमातव्यम्भवति। अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्धिं समुच्चिनोति। नहि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयाऽन्वय उपपद्यते सुखादीनाञ्चान्तरत्वप्रतीतेः शब्दादीनाञ्चातद्रूपत्वप्रतीतेः तन्निमित्तत्वप्रतीतेश्च शब्दाद्यविशेषेऽपि च भावनाविशेषात् सुखादिविशेषोपलब्धेः। तथा परिमितानां भेदानां मूलाङ्कुरादीनां संसर्गपूर्व्वकत्वं दृष्ट्वा बाह्याध्यात्मिकानां भेदानां परिमितत्वात् संसर्गपूर्व्वकत्वमनुमिमानस्य सत्वरजस्तमसामपि संसर्गपूर्ब्बकत्वप्रसङ्गः परिमितत्वाविशेषात्। कार्य्यकारण भावस्तु प्रेक्षापूर्ब्धनिर्मितानां शयनासनादीनां दृष्ट इति न कार्य्यकारणभावाद्बाह्याध्यात्मिकानां भेदानामचेतन पूर्ब्धकत्वं शक्यं कल्पयितुम् भा०। “प्रवृत्तेश्च” सू०। “आस्तान्तावदियं रचना तत्सिद्ध्यर्था या प्रवृत्तिः साम्यावस्थानात् प्रच्युतिः सत्वरजस्तमसामङ्गाङ्गिरूपापत्तिर्विशिष्टकार्य्याभिमुखप्रवृत्तिर्वा सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते मृदादिष्वदर्शनाद्रथादिषु च। न हि मृदादयोरथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलामादिभिरश्वादिभिर्व्वाऽनधिष्ठिता विशिष्टकार्याभिमुख प्रवृत्तयो दृश्यन्ते। दृष्टाच्चादृष्टसिद्धिः। अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यम्भवति। ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा सत्यमेतत्तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्ति र्दृष्टा नत्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा। किं पुनरत्र युक्तं यस्मिन् प्रवृत्तिर्दृष्टा तस्य सेत्युत यत्संयुक्तस्य दृष्टा तस्यैव सेति। ननु यस्मिन् दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तम् उभयोः प्रत्यक्षत्वात् नतुप्रवृत्त्याश्रयत्वेन केवलश्चेतनोरथादिवत्प्रत्यक्षः प्रवृत्त्याश्रयदेहादिसंयुक्त स्यैवैतु चेतनस्य सद्भावसिद्धेः केवलाचेतनरथादिवैल- क्षण्यं जीवद्देहस्य दृष्टमिति। अतएव प्रत्यक्षे देहे सति चैतन्यदर्शनादसति तददर्शनात् देहस्यैव चैतन्यमपीति लौकायतिकाः प्रतिपन्नाः। तस्मादचेतनस्यैव प्रवृत्तिरिति। तत्राभिधीयते न ब्रूमो यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति भवति तु तस्यैव सा सापि चेतनाद्भवतीति ब्रूमः। तद्भावे भावात्तदभावे चाभावात् यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशादिलक्षणा विक्रियानुपलम्य मानापि केबले ज्वलने ज्वलनादेव भवति तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात्तद्वत्। लौकायतिकानामपि चेतनएव देहोऽचेतनानां रथादीनां प्रवर्त्तकोदृष्टैत्यविप्रतिषिद्धं चेतनस्य प्रवर्त्तकत्वम्। ननु तव देहादिसंयुक्तस्या प्यात्मनोविज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनु पपन्नं प्रवत्तेकत्वमिति चेन्न अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्त्तकत्वोपपत्तेः यथाऽयस्कान्तोमणिः स्वयं प्रवृत्तिरहितोऽपि अयसः प्रवर्त्तको भवति यथा च रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्त्तका भवन्त्येवं प्रवृत्तिरहितोऽपीश्वरः सर्व्वगतः सर्व्वात्मा सर्व्वज्ञः सर्व्वशक्तिश्च सन् सर्व्वं प्रवर्त्तयेदित्यु पपन्नम्। एकत्वात् प्रवर्त्त्याभावे प्रवर्त्तकत्वानुपपत्तिरिति चेन्न अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत् प्रत्युक्तत्वात्। तस्मात् सम्भवति प्रवृत्तिः सर्वज्ञकारणत्वे न त्वचेतनकारणत्वे” भा०। “पयोम्बुवच्चेत्तत्रापि” सू०। “स्यादेतत् यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्धये प्रवर्त्तते यया च जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दते एवं प्रधानमप्यचेतनं स्वभावेनैव पुरुषार्थ सिद्धये पवर्त्तिष्यत इति। नैतत् साधूच्यते, यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे उभयवादिप्रसिद्धे रथादावचेतने केवले प्रवृत्त्यदर्शनात्। शस्त्रञ्च “योऽप्सु तिष्ठन्नद्भ्योन्तरोयोऽपोन्तरोयमयति” “एतस्य वा अक्षरस्य प्रशासने गार्गि! प्राच्योऽन्या नद्यः स्यन्दन्ते” इत्येवञ्जातीयकं समस्तस्य लीकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति। तस्मात् साध्यपक्षनिक्षिप्तत्वात् पयोऽम्बुवदित्यनुपन्यासः। चेतनायाश्च धेनोःस्नेहेनेच्छया पयसः प्रवर्त्तकत्बोपपत्तेः वत्सचूषणेन च पयस आकृष्यमाणत्वात्। नचाम्बुनोऽप्यत्यन्तमनपेक्षा निम्नभूम्याद्यपेक्षत्वात् स्यन्दनस्य। चेतनापेक्षेत्वन्तु सर्वत्रोपदर्शितम्। “उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धीत्यत्र” तु बाह्यनिमित्तनिरपेलमपि स्वाश्रवं कार्य्यम्भवतीत्येतल्लोकद्वष्ट्या इ दर्शितं शास्त्रदृष्ट्या पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते” भा०। “व्यतिरेकानवस्थितेश्चानपेक्षत्वात्” सू०। “साङ्ख्यानां त्रयोगुणाः साम्येनावतिष्ठमानाः प्रधानं न तद्व्यतिरेकेण ष्रधानस्य प्रवर्त्तकं निवर्त्तकं वा किञ्चिद्बाह्यमपेक्ष्यमवस्थितमस्ति पुरुषस्तूदासीनो न प्रवर्त्तकोन निवर्त्तक इत्यतोऽनपेक्षं प्रधानम् अनपेक्षत्वाच्च कदाचित् प्रधानं महदाद्याकारेण परिणमते कदाचिन्न परिणमत इत्येतदयुक्तम्। ईश्वरस्य तु सर्वज्ञत्वात् सर्वशक्तित्वान्महामायित्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते” भा० “अन्यत्राभावाच्च न तृणादिवत्” सू०। “स्यादेतत् यथा तृणपल्लवोदकादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमते एवं प्रधानमपि महदाद्याकारेण परिणं स्यतैति। कथञ्च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते निमित्तान्तरानुपलम्भात्। यदि हि किञ्चिन्निमित्तान्तरमुपलभेमहि ततो यथाकामं तेन तेन निमित्तेन तृणाद्युपादाय क्षीरं सम्पादयेमहि न तु सम्पादयामहे। तस्मात् स्वाभाविकस्तृणादेः परिणामः तथा प्रधानस्यापि स्यदिति। अत्रोच्यते। भवेत्तृणादिवत् प्रधानस्य स्वाभाविकः परिणामो यदि तृणादेरपि स्वभाविकः परिणामोऽभ्युपम्येत न त्वभ्युपगम्यते निमित्तान्तरोपलब्धेः कथं निमित्तास्तरोपलब्धिः अत्यत्राभावात् धेन्वैव ह्युपयुक्तं तृणादि क्षीरीभवति ग प्रहीणमनडुदाद्युपयुक्तं वा यदि हि निर्निमित्तमेतत् स्यात् धेनुशरीरसम्बन्धादन्यत्रापि तृणादि क्षीरीभवेत्। न च यथाकामं नरैर्न शक्यं सम्पादयितुमित्येतावता निर्निमित्तता सम्भयति, भवति किञ्चित् कार्य्यं मानुषसम्पाद्यं किञ्चिद्दैवसम्पाद्यम्। मनुष्या अपि च शक्नुवन्त्येवोचितेनोपायेन तृणाद्युपादाय क्षीरं सम्पादयितुं प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुञ्चारयन्ति ततश्च प्रभूतं क्षीरं लभन्ते। तस्मान्न तृणादिवत् स्वाभाविकः प्रधानस्य परिणामः” भा०। “अभ्युपगमेऽप्यर्याभावात्” सू०। “स्वाभाविकी प्रधानस्य प्रवृत्तिर्नभवतीति स्थाषितम्। अयापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम तथापि दोषोऽनुषज्येतैव कुतः? अर्थाभावात् यदि तावत् स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किञ्चिदन्यदपेक्षते इत्युच्येत ततो यथैव सहकारि किञ्चिन्नापेक्षते एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यत इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्त्तते इतीयं प्रतिज्ञा हीयेत। स यदि- ब्रूयात् सहकार्य्येव केवलं नापेक्षते न प्रयोजनमपीति तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यं भोगोवा स्यादपवर्गो वा उभयं वेति। भोगश्चेत् कीदृशोऽनाधेयातिशयस्य भोगो भवेत् अनिर्मोक्षप्रसङ्गश्च। अपवर्गश्चेत् प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात् प्रवृत्तिरनर्थिका स्यात् शब्दाद्यनुपलब्धिप्रसङ्गश्च। उभयार्थताभ्युपमेऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मेक्षप्रसङ्ग एव। न चौत्सुक्यनिवृत्त्यथी प्रवृत्तिः न हि प्रधानस्याचेतनस्यौत्सुक्यं सम्भवति न च पुरुषस्य निर्मलस्य, दृक्शक्तिसर्गशक्तिवैयर्य्यभयाच्चेत् प्रवृत्तिस्तर्हि दृक्शक्त्यनुच्छेदवत् सर्गशक्त्यनुच्छेदात् संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव तस्मात् प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम्” भा०। “षुरुषाश्मवदिति चेत्तथापि” सू०। “स्यादेतत् यथा कश्चित् पुरुषो दृक्शक्तिसम्पन्नं दृक्शक्तिविहीनमन्धमधिष्ठाय पवर्त्तयति यथा वाऽयस्कान्तोमणिः स्वयमप्रवर्त्त मानोऽप्ययः प्रवर्त्तत्येवं पुरुषः प्रघानं प्रवर्त्तयिष्यतीति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम्। अत्रोच्यते तथापि नैव दोषान्निर्मोक्षोऽस्ति। अभ्युपेतहानं तावद्दोष आपतति, प्रधानस्य स्वतन्त्रस्य पुवृत्त्यभ्युपगमात् पुरुषस्य च प्रवर्त्तकत्वानभ्युपगमात्। कथञ्चोदासीनः पुरुषः प्रधानं प्रवर्त्तयेत्। पङ्गुरपि ह्यन्धं पुरुषं वागादिभिः प्रवर्त्तयति नैवं पुरुषस्य कश्चित् प्रवर्त्तनव्यापारोऽस्ति निष्क्रियत्वान्निर्गुणत्वाच्च। नाप्ययस्कान्तवत् सन्निधिमात्रेण प्रवर्त्तयेत् सन्निधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात्। अयस्कान्तस्य चानित्यः सन्निधिरस्ति स्वव्यापारसन्निथिपरिमार्जनाद्यपेक्षा चास्यास्तात्यनुपन्यासः पुरुषाश्मवदिति। तथा प्रधानस्याचैतन्यात् पुरुषे चौदासीन्यात् तृतोयस्य च तयोः सम्बन्धुरभावात् सम्बन्धानुपपत्तिः। योग्यतानिमित्ते सम्बन्धे योम्यतानुच्छेदादनिर्मोक्षप्रसङ्गः। पूर्ववच्चेहाप्यर्याभावो विकल्पयितव्यः। परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यं मायाव्यपाश्रयञ्च प्रवर्तकत्वमित्यस्त्यतिशयः” भा०। “अङ्गित्वानुपपत्तेश्च” सू०। “इतश्च न प्रधानस्य प्रवृत्तिरवकल्पते यद्धि सत्वजस्तमसामन्योन्यगुणप्रधानभावमुत् सृज्य साम्येन स्वरूपमात्रेणावस्थानं सा प्रधानावस्था तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात् परस्तरं प्रत्यङ्गाङ्गिभवानुपपत्तेः। बाह्यस्य च कस्यचित् क्षोभयितुरभावाद्गुणवैषम्यनिमित्तों महदाद्युत्पादोन स्यात्” भा०। “अन्यथानुमितौ च ज्ञशक्तिवियोगात्” सू०। “अथापि स्यात् अन्यथा वयमनुमिमीमहे यथा नायमनन्तरो दोषः प्रसज्येत। नह्यनपेक्षस्वभावाः कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते प्रमाणाभावात्। कार्य्यवशेन तु गुणानां स्वभावोऽभ्युपगम्यते यथा यथा कार्य्योत्पाद उपपद्यते तथा तथैतेषां स्वभावोऽभ्युपगन्तव्यः। चलं गुणवृत्तमिति चास्त्यभ्युपगमः। तस्मात् साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति। एवमपि प्रधानस्य ज्ञशक्तिवियोगात् रचनानुपपत्त्यादयः पूर्वोक्ता दोषा स्तदवस्था एव। ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्त्तेत चेतनमेकमनेकप्रपञ्चस्य जगत उपादानमिति ब्रह्मवादप्रसङ्गात्। वैषम्योपगमयोग्या अपि गुणाः साम्यावस्थायां निमित्तभावान्नैव वैषम्यं भजेरन् भजमाना वा निमित्ताभावाविशेषात् सर्वदैव वैषम्यं भजेरन्निति प्रसज्येत एवायमनन्तरोऽपि दोषः” भाष्यम्।

वेदान्तिपक्षपरिशुद्धये साङ्ख्याद्युद्भावितदोषनिराकरणमपि तत्रैव यथा “नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनं तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् एकं हि ब्रह्म सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छतामेकस्यैवात्मनोविशेषौ तप्यतापकौ न जात्यन्तरभूतावित्यभ्युपगन्तव्यं स्यात्। यदि चैतौ तप्यतापकावेकस्यात्मनो विशेषौ स्यातां स ताभ्यान्तप्यतापकाभ्यां न निर्मुच्येत इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात्। नह्यौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते। योऽपि जलवीधितरङ्गफेनाद्युपन्यासस्तत्रापि जलात्मन एकस्य वीच्यादयो विशेषा आविर्भावतिरोभावरूपेण नित्या एबेति सभानौ जलात्मनो वीच्यादिभिरनिर्मोक्षः। प्रसिद्धश्चायं तप्य तापकयोर्जात्यन्तरभावो लोके। तथा हि अर्थी चार्थश्चान्योन्यभिन्नौ लक्ष्येते यद्यर्थिनः स्वतोऽन्योऽर्थोन स्यात् यस्यार्थिनो यद्विषयकमर्थित्वं स तस्यार्थोनित्यसिद्धएवेति तस्य तद्विषयमर्थित्वं न स्यात्। यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योऽर्थो नित्यसिद्ध एवेति न तस्य तद्विषयमर्थित्वम्भवति अप्राप्ते ह्यऽर्थेऽर्थिनोऽर्थित्वं स्यादिति। तथार्थस्याप्यर्थत्वं न स्यात् यदि स्यात् स्वार्थत्वमेव स्यात् न चैतदस्ति। सम्बन्धिशब्दौ ह्येतावर्थी चार्थश्चेति द्वयोश्च सम्बन्धिनोः सम्बन्धः स्यान्नैकस्यैव। तस्माद्भिन्नावेतावर्थार्थिनौ। तथाऽनर्थार्थिनावपि। अर्थिनोऽनुकूललोऽर्थः प्रतिकूलोऽनर्थः ताभ्यामेकः पर्य्ययेणोभाभ्यां सम्बध्यते तत्रार्थस्याल्पीयस्त्वाद्भूयस्त्वाच्चानर्थस्योभावप्यर्थावनर्थ एवेति तापकः स उच्यते। तप्यस्तु पुरुषोय एकः पर्य्यायेणोभाभ्यां सम्बध्यत इति तयोस्तप्यतापकभावानुपपत्तेः। भवेदेष दोषो यद्येकात्मतायान्तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयातां नत्वेतदस्ति एकत्वादेव। न ह्यग्निरेकः सन्नत्मानन्दहति प्रकाशयति वा सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च किमु कूटस्थे ब्रह्मण्येकस्मिंस्तप्यतापकभावः सम्भवेत् क्व पुनरयन्तप्यतापकभावः स्यादिति उच्यते किं न पश्यसि? कर्मभूतो जीवद्देहस्तप्यः तापकः सवितेति। ननु तप्तिर्नाम दुःखं सा चेतयितुर्नाचेतनस्य देहस्य यदि हि देहस्यैव तप्तिः स्यादेहनांशे स्वयमेव नश्यतीति तन्नाशायसाधनं नैषितव्यं स्यादिति। उच्यते देहाभावे हि केवलस्य चेतनस्य तप्तिर्न दृष्टा न च त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते। नापि देहचेतनयोः संहतत्वम् अशुद्ध्यादिदोषप्रसङ्गात्। न च तप्तेरेव तप्तिमम्युपगच्छसीति कथं तवापि तप्यतापकभावः। सत्वं तप्यं तापकं रज एवेति चेन्न ताभ्याञ्चेतनस्य संहतत्वानुपपत्तेः। सत्वानुरोधित्वाच्चेतनोऽपि तप्यत इवेति चेत् परमार्थतस्तर्हि नैव तप्यत इत्यापतति इवशब्दप्रयोगात् न चेत्तप्यते नेवशब्ददोषाय। नहि डुण्डुभः सर्प इवेत्येतावता सविषो भवति, सर्पो वा डुण्डुभ इवेत्येतावता निर्विषो भवति। अतश्चाविद्याकृतोऽयन्तप्यतापकभावो न पारमार्थिक इत्यभ्युपगन्तव्यमिति। नैवं सति ममापि किञ्चिद्द ष्यति। अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि तवैव सुतरामनिर्मोक्षः प्रसज्येत नित्यत्वाभ्युपगमाच्च तापकस्य तप्यतापकशक्त्योर्नित्यत्वेऽपि सनिमित्तसंयोगापेक्षत्वापत्तेः संयोगनिमित्तादर्शननिवृत्तावात्यन्तिकः संयोगोपरमःततश्चात्यन्तिको मोक्ष उपपन्न इति चेन्न अदर्शनस्य तमसो नित्यत्वाभ्युपगमात्। गुणानाञ्चोद्भवाभिभवयोरनियतत्वादनियतः संयोग निमित्तोपरम इति, वियोगस्याप्यनियतत्वात् साङ्ख्यस्यैवानिमोक्षोऽपरिहार्य्यः स्यात्। औपनिषदस्य त्वात्मैकत्वाभ्युपगमादेकस्य च विषयविषयिभावानुपपत्तेर्विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादनिर्मेक्षाशङ्का स्वप्तेऽपि नोपजायते। व्यवहारे तु यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव स इति न नोदयितव्यः परिहर्त्तव्यो वा भवति”।

“प्रधानकारणवादो निराकृतः परमाणुकारण वाद इदानीं निराकर्त्तव्यः। तत्रादौ तावद्योऽणुका- रणवादिना ब्रह्मवादिनि दोषौत्प्रेक्ष्यते स प्रतिसमाधीयते। तत्रायं वैशेषिकाणामभ्युगमः कारणद्रव्यसमवायिनो गुणाः कार्य्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते शुक्लेभ्यस्तन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात्तद्विपर्य्ययाऽदर्शनाच्च। तस्माच्चेतनस्य ब्रह्मणो जगत्कारणत्वेऽभ्युपगम्यमाने कार्य्येऽपि जगति चैतन्यं समवेयात् तददर्शनात्तु न चेतनं ब्रह्म जगत्कारणम्भवितुमर्हतीति। इममभ्युपगमन्तदीययैव प्रक्रियया व्यभिचारयति” भा०। “महद्दीर्घवद्ध्रस्वपरिमण्डलाभ्याम्” सू०। “एषा तेषां प्रक्रिया परमाणवः किल कञ्चित्कालमनारब्धकार्य्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणास्तिष्ठन्ति। ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्व्यणुकादिक्रमेण कृत्स्नं कार्य्यजातमारभन्ते कारणगुणाश्च कार्य्ये गुणान्तरम्। यदा द्वौ परमाणूद्व्यणकमारभेते तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयो द्व्यणुके शुक्लादीनारभन्ते। परमाणुगुणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभते द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात्। अणुत्वह्रस्वत्वे हि द्व्यणुककवर्त्तिनी परिमाणे वर्णयन्ति। यदापि द्वे द्व्यणुके चतुरणुकमारभेते तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम्। अणुत्वह्रस्वते तु द्व्यणुकसमवायिनी अपि नैवारभेते चतुरणुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात्। यदापि बहवः परमाणवो बहूनि वा द्व्यणुकानि द्व्यणुकसहितो वा परमाणुः कार्य्यमारभन्ते तदापि समानैषा योजना। तदेवं यथा परमाणोः परिमण्डलात् सतोऽणु ह्रस्वञ्च द्व्यणुकञ्जायते महद्दोर्घञ्च त्र्यणुकादि न परिमण्डलम्। यथा वा ह्यणुकादणोर्ह्रस्वाच्च सतोमहद्दीर्घञ्च त्र्यणुकादि जायते नाणु नोत ह्रस्वम् एवं चेतनाद्ब्रह्मणोऽचेतनं जगज्जनिष्यत इत्यभ्युपगमे तव किं छिन्नम्। अथ मन्यसे विरोधिना परिमाणान्तरेणाक्रान्तं कार्य्यद्रव्यं द्व्यणुकादि ततो नारम्भकाणि कारणगतानि पारिसाण्डल्यादीनि इत्यभ्युपगच्छामि न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति येन कारणगता चेतना कार्य्ये चेतनान्तरं नारभेत। न ह्यचेतना नाम चेतनाविरोधी कश्चिदगुणोऽस्ति चेतनाप्रतिषेधमात्रत्वात् तामात् पारिमाण्डल्यादिवैषम्यात् प्राप्नोति चेतनाया आरम्भकत्वमिति। मैवं मंस्थाः यथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वमेवं चैतन्य- स्यापीत्यस्यांशस्य समानत्वात्। न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणं प्राक् परिमाणान्तरारम्भात् पारिमाण्डल्यादीनामारम्भकत्वापत्तेः। आरब्धमपि कार्य्यद्रव्यं प्राक् गुणारम्भात् क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात्। न च परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते परिमाणान्तरस्यान्यहेतुकत्वोभ्युपगमात्। “कारणबहुत्वात् प्रचयविशेषाच्च महत् तद्विपरीतमणु। एतेन दीर्घत्वहस्वत्वे व्याख्याते”। इति हि काणभुजानि सृत्राणि। न च सन्निधानविशेषात् कुतश्चित् कारणात् बहुत्वादीनि एवारभन्ते न पारिमाण्डल्यादीनीत्युच्येत द्रव्यान्तरे गुणान्तरे वारभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात्। तस्मात् स्वभावादेव पारिमाण्डल्यादोनामनारम्भकत्वं तथा चेतनाया अपि द्रष्टव्यम्। संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात् समानजातीयोत्पत्तिव्यभिचारः। द्रव्ये प्लकृते गुणोदाहरणमयुक्तमिति चेन्न दृष्टान्तेन विलक्षणारम्भमात्रस्व विवक्षितत्वात्। न च द्रव्यस्य द्रव्यमेवोदाहर्त्तव्यं गुणस्य वा गुणएवेति कश्चिन्नियमे हेतुरस्ति। सूत्रकारोऽपि भवतां द्रव्यस्य गुणमुदाजहार “प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात् संयोगस्य पञ्चात्मकत्वंन विद्यते” इति। यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयोः समवयन् संयोगोऽप्रत्यक्षः एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चषु भूतेषु समवयत् शरीरमप्रत्यक्षं स्यात् प्रत्यक्षन्तु शरीरं दृश्यते तस्मान्न पाञ्चभौतिकमिति। एतदुक्तं भवति गुणश्च संयोग्ः द्रव्यं शरीरम्” इति भा०।

ईश्वरस्य सर्व्वकर्त्तृत्वेऽपि न स्वाभिन्नजीवस्रष्टृत्वमिति निर्ण्णयाय ईश्वरस्य जीवस्रष्टृत्ववादिनोतष्णवस्य मतमुत्थाप्य तत्रैव निराकृतं यथा! “उत्पत्त्यसम्भवात्” शा० सू०। “येषामप्रकृतिरधिष्ठाता केवलं निमित्तं कारणमीश्वरोऽभिमत स्तेषां पक्षः प्रत्याख्यातः। येषां पुनः प्रकृतिश्चाधिष्ठाताचेत्युभयात्मकं कारणमीश्वरोऽभिमतस्तेषां पक्षःप्रत्याख्यायते। ननुश्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्निर्द्धारितः प्रकृतिश्चाधिष्ठाता चेति। श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः। तत् कस्य हेतोरेष पक्षः प्रत्याचिख्यासितः? इति। उच्यते यद्यप्येवं जातीयकोऽशःसमानत्वान्न विसंवादगोचरोभवति अस्ति तु अंशान्तरं विसंवादस्थानमिति अतस्तत्प्रत्याख्यानायारम्भः। तत्र भागवता मन्यन्ते। भगवानेवैको वासुदेवो निरञ्जनः ज्ञानस्वरूपः परमार्थतत्त्वं स चतुर्द्धात्मानं प्रविभज्य प्रतिष्ठितो वासुदेव व्यूहरूपेण, संकर्षणव्यूहरूपेण, प्रद्युम्नव्यूहरूपेणअनिरुद्धव्यूहरूपेण च। वासुदेवोनाम परमात्मोच्यते। सङ्कर्षणो नाम जीवः। प्रद्युम्नोनाम मनः। अनिरुद्धो नामाहङ्कारः। तेषां वासुदेवः परा प्रकृतिः अपरे संकर्षणादयः कार्य्यम्। तमिथंभूतं भगवन्तमभिगमनोपासनेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशोभगवन्तमेव प्रतिपद्यत इति। तत्र यत्तावदुच्यते योऽसौ नारायणः परोव्यक्तात् प्रसिद्धः परमात्मा सर्व्वात्मा स आत्मानमनेकधा व्यूह्य व्यवस्थित इति तन्न निराक्रियते “स एकधा भवति त्रिधा भवतीत्यादि” श्रुतिभ्यः परमात्मनोऽनेकधाभवनस्याधिगतत्वात्। यदपि तस्य भगवतोऽभिभमनादिलक्षणमाराधनमजस्रमनन्यचित्ततयाभिप्रेयते तदपि न प्रतिषिध्यते श्रुतिस्मृत्योरोश्वरप्रणिधानस्य प्रसिद्धत्वात्। यत्पुनरिद मुच्यते वासुदेवात् संकर्षण उत्पद्यते संकर्षणाच्च प्रद्युम्नःप्र द्युम्नाच्चानिरुद्ध इति अत्र ब्रूमः न वासुदेवसंज्ञकात् परमात्मनः सङ्कर्षणसंज्ञकस्य जीवस्योत्पत्तिः सम्भवति अनित्यत्वादिदोषप्रसङ्गात्। उत्पत्तिमत्त्वे हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् ततश्च नैवास्य भगवत् प्राप्ति र्मोक्षस्यात् कारणप्राप्तौ कार्य्यस्य विलयप्रसङ्गात्। प्रतिषेधिष्यति चाचार्य्योजीवस्योत्पत्तिम् “नात्माऽश्रुतेर्नित्य त्वाच्च” इति। तस्मादसङ्गतैषा कल्पना” भा०। “न च कर्त्तुः करणम्” सू०। “इतश्वासङ्गतैषा कल्पना यस्मान्नहि लोके कर्त्तुर्देवदत्तादेः करणं परश्वाद्युत् पद्यमानं दृश्यते। वर्णयन्ति च भागवताः कर्त्तुजींवात् संकर्षणसंज्ञकात् करण मनः प्रद्युम्नसंज्ञकमुत्पद्यते कर्तृजाच्च तस्मादनिरुद्धसंज्ञकोऽहङ्कार उत्पद्यत इति। न चैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः न चेवम्भूतां श्रुतिमुपलभामहे” भा०। “विज्ञानादिभावे वा तदप्रतिषेधः” सू०। “अथापि स्यात् न चैते संकर्षणादयो जीवादिभावेनाभिप्रेयन्त किन्तर्हीश्वरा एवैते सर्व्वे ज्ञानैश्चर्य्यशक्तिबलवोर्य्यतेजोभिरैश्वर्य्यधर्म्मैरन्विता अभ्युपगन्यन्ते। वासुदेवा एवैते सर्व्वेनिर्दोषा निरधिष्ठाना निराबाधाश्चेति। तस्मान्नायं यथावर्ण्णितमत्पत्त्य सम्भवोदोषः प्राप्नोतीति। अत्रोच्यते। एवमपि तदप्रतिषेध उत्पत्त्यसम्भवम्याप्रतिषेधः प्राप्नोत्येवायमुत्पत्त्यसम्भवोदोषः प्रकारान्तरे कथं न भवेदित्यभिप्रायः। परस्मरभिन्ना एवैते वासुदेवादयः चत्वार ईश्वरास्तुल्यधर्म्माणो नैषामेकात्मत्वमस्तीति ततोह्यनेकेश्वरकल्पनानर्थक्यम् एकेनेश्वरेणेश्वरकार्य्य सिद्धेः। सिद्धान्तहानिश्च भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात्। अथायमभिप्रायः एकस्यैव भगवतः एते चत्वारोव्यूहास्तुल्यधर्म्माणैति तथापि तदवस्थ एवोत्पत्त्यसम्भवः। न हि वासुदेवात सङ्कर्षणस्योत्पत्तिः सम्भवति, सङ्कर्षणाच्च प्रद्युम्नस्य, प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात्। भवितव्यं हि कार्य्यकारणयोरतिशयेन यथा मृद्घटयोः। नह्यसत्यतिशये कार्य्यं कारणमित्यवकल्पाते। न च पञ्चरात्र सिद्धान्तिभिर्वासुदेवादिषु एकैकस्मिन् सर्व्वेष् वा ज्ञानैश्वर्य्यादितारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यते। वासुदेवा एव हि सर्व्वेव्यूहा निर्विशेषा इष्यन्ते। नचैते भगवद्यूहाश्चतुसंख्यायामेव व्यवतिष्ठेरन् ब्रह्मादिस्तम्बपर्य्यन्तस्य समस्तस्यैव जगतोभगवद्व्यूहत्वावगमात्” भा०। “विप्रतिषेधाच्च” सू०। “विप्रतिषेधश्चास्मिन् शास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षणः ज्ञानैश्वर्य्यशक्तिबलवीर्य्यतेजांसि गुणाः आत्मन एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात्। वेदप्रतिषेधश्च भवति। चतुर्षु वेदेषु परं श्रेयोऽलब्ध्रा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादि वेदनिन्दा दर्शनात्। तस्मादसङ्गतैषा कल्पनेति सिद्धम्” मा०।

उपासनया प्राप्तैश्वर्य्यस्यानित्येश्वरस्य तु न जगत्कर्तृत्वमित्यपि तत्रैव व्यवस्थापितं यथा “जगद्व्यापारवर्ज्जं प्रकरणादसन्निहितत्वाच्च” शा० सू०। “ये सगुणब्रह्मोपासनात् सहैव मनसेश्वरसायुज्यं व्रजन्ति किन्तेषां निरवग्रहमैश्वर्य्यं भवत्याहोस्वित् सावग्रहमिति संशयः। किन्तावत् प्राप्तं निरङ्कुशमेवैषामैश्वर्य्यं भवितुमर्हति “आप्नोति स्वाराज्यं सर्व्वेऽस्मै देवाबलिमावहन्ति” “तेषां सर्वेषु कामचारो भवतीत्यादि” श्रुतिभ्यः। इत्येवं प्राप्ते पठति “जगद्व्यापारवर्जमिति”। जगदुत् पत्त्यादिव्यापारं वर्जयित्वा अन्यदणिमाद्यात्मकमैश्वर्य्यं मुक्तानां भवितुमर्हति जगद्व्यापारस्तु नित्यसिद्धस्यै वेश्वरस्य। कुतः? तस्य तत्र प्रकृतत्वात् असन्निहितत्वाच्चे तरेषाम्। परएव हीश्वरो जगद्व्यापारेऽधिकृतः तमेव प्रकृत्योत्पत्त्याद्युपदेशान्नित्यशब्दनिबन्धनत्वाच्च। तदन्वेषणविजिज्ञासनपूर्व्वकमितरेषामादिमदैश्वर्य्यं श्रूयते तेनासन्निहितास्ते जगद्व्यापारे। समनस्कत्वादेव चैषामनै। कमत्ये कस्यचित् स्थित्यभिप्रायः कस्यचिच्च संहाराभिप्राय इत्येवविरोधोऽपि कदाचित् स्यात्। अथ कस्यचित् सङ्कल्पमन्वन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत तत! परमेश्वराहृततन्त्रत्वमेवेतरेषामिति व्यवतिष्टते” भा०। “प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः” सू०। “अथ यदुक्तं आप्नोति स्वाराज्यमित्यादि प्रत्यक्षोपदेशान्निरवग्रहमैश्वर्य्यं विदुषां न्याय्यमिति तत्परिहर्त्तव्यम् अत्रोच्यते। नायं दोषः आधिकारिकमण्डलस्थोक्तेः आधिकारिकोयः सवितृमण्डलादिषु व्यवस्थितः परमेश्वरस्तदात्तैवेयं स्वाराज्यप्राप्तिरुच्यत। यत्कारणमनन्तरम् “आप्नोति मनसम्पति मित्याह। योहि सर्व्वमनसाम्पतिः पूर्व्वसिद्धईश्वरस्तं प्राप्तोति एतदुक्तं भवति। तदनुसारेण चानन्तरम् “वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिश्च भवतीत्याह। एवमन्यत्रापि यथासम्भवं नित्यसिद्धेश्वरायत्तमेवेतरेषामैश्वर्य्यं योजयितव्यम्” भा०। उपासासिद्धस्य यथा जगत्कर्तृत्वं न भवति तथानुमानचिन्तामणावनुपदं दर्शितम्। सांख्योक्तदोषनिरसनपूर्व्वकं तस्य सर्व्वविषयनित्यज्ञानत्वं तत्रैव समर्थितं यथा “यत्पुनरुक्तं ब्रह्मणोऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते नित्यज्ञानक्तियत्वेज्ञानक्रियां प्रति स्वातन्त्र्यासंभवादिति। अत्रोच्यते इदं तावद्भवान् प्रष्टव्यः कथं नित्यज्ञानत्वे सर्वज्ञत्वहानिरिति?। यस्य हि सर्वविषयावभासलक्षणं ज्ञानं नित्यमस्ति सोऽसर्वज्ञ इति विप्रतिषिद्धम्। अनित्यत्वे हि ज्ञानस्य कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमप्रि स्यात्, नत्वसौ ज्ञाननित्यत्वे दोषोऽस्ति। ज्ञाननित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यव्यपदेशोनोपपद्यते इति चेन्न प्रततौष्ण्यप्रकाशेऽपि सवितरि दहति प्रकाशयतीति स्वातन्त्र्यव्यपदेशदर्शनात्। ननु सवितुर्दाह्यप्रकाश्यसंयोगे सति दहति प्रकाशयतीति व्यपदेशः स्यात् न तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमोदृष्टान्तः, न असत्यपि कर्मणि सविता प्रकाशत इति “कर्तृत्वव्यपदेशदर्शनात्, एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः “तदैक्षतेति” कतृत्वव्यपदेशोपपत्तेर्न वैषम्यम्। कर्मापेक्षायां तु ब्रह्मण ईक्षितृत्वश्रुतयः सुतरामुपपन्नाः। किं पुनस्तत् क्वर्म? यत् प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः। यत्प्रसादाद्धि योगिनामप्यतोतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यं ज्ञानं भवतीति। यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति न तच्चोद्यमवतरति सवितृप्रकाशवत् ब्रह्मणोज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेः। अपि च अविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पपत्तिः स्यात् न ज्ञानप्रतिबन्धकःरणरहितस्येश्वरस्य। मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः। “न तस्य कार्य्यं करणञ्च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकीज्ञानबलक्रिया चेति” “अपाणिपादोजवनोग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तमिति च”।

अस्मादेव च जीवानां तत्तत्कर्म्मफलसिद्धिर्यथा तथा शा० सूत्रभाष्ययोर्वर्णितम् यथा “फलमत उपपत्तेः” सू०। “तस्यैव हि ब्रह्मणो व्यावहारिक्यामीशित्रीशितव्यविभागावस्थायामयमन्यः स्वभावोवर्ण्यते। यदेतदिष्टानिष्टव्यामिश्रलक्षणं कर्म्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनां किमेतत् कर्म्मणो भवत्याहोस्विदीश्वरप्रसादादिति? भवति विचारणा। तत्र तावत् प्रतिपद्यते फलमतईश्वराद्भवितुमर्हति कुतः? उपपत्तेः सहि सर्व्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधद्देशकालविशेषाभिज्ञत्वात् कर्म्मिणां कर्म्मानुरूपं फलं संपादयतीत्युपपद्यते कर्म्मणस्त्वनुक्षणं विनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् अभावाद्भावानुत्पत्तेः।

स्यादेतत् कर्म्म विनश्यत् स्वकालएव स्वानुरूपं फलमर्जयित्वा विनङ्ख्यति तत्फलं कालान्तरितं कर्त्ता भोक्ष्यत इति तदपि त परिशुद्ध्यति प्राग्भोक्तृसम्बन्धात् फलत्वानुपपत्तेः यत्कालं हि यत् सुखं दुःखंवात्मना भुज्यते तस्यैव लोके फलत्वं प्रसिद्धम्। नह्यसम्बद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः। अथोच्येत् कर्म्मकार्य्याद पूर्ब्बात् फलमुत्पत्स्यत इति तदपि नोपपद्यते अपूर्ब्बस्या चेतनम्य काष्ठलोष्टसमस्य चेतनाप्रवर्त्तितस्य प्रवृत्त्यनुपपत्तीः तदस्तित्वेच प्रामाणाभावात्। अर्थापत्तिः प्रमाणमिति चेन्न ईश्वरसिद्धेरर्थापत्तिपरिक्षयात्ः” भा०। “श्रुतत्वाच्च” सू०। “न केवलमुपपत्तेरेवेश्वरं फलहेतुं कल्पयामः किंतर्हि श्रुतत्वादपीश्वरमेव फलहेतुं मन्यामहे तथाहि श्रुतिर्भवति” स वा एष महानज आत्माऽन्नादोवसुदान” इत्येवं जातीयका” भा०। “धर्म्मंजैमिनिरत एव” सू०। “जैमिनिस्त्वाचार्थ्यो धर्म्मं फलस्य दातारं मन्यते अतएव हेतोः श्रुतेरुपपत्तेश्च, श्रूयते तावदयमर्थः स्वर्गकामोयजेतेत्येवमादिषु वा- क्येषु। तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते अन्यथा ह्यननुष्ठातृकोयाग आपद्येत तत्रास्योपदेशस्य वैयर्थ्यं स्यात्। नन्वनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति परित्यक्तोऽयं पक्षः। नैष दोषः श्रुतिप्रामाण्यात्। श्रुतिश्चेत् प्रमाणं यथायं कर्म्मंफल सम्बन्धः श्रुतौपपद्यते वथा कल्पयितव्यः नचानुत्पाद्य किमप्यपूर्ब्बं कर्म्म विनश्यत्कांलान्तरितं फलं दातुं शक्नोतीत्यतः कर्म्मणो वा सूक्ष्मा काचिदुत्तरावस्था, फलस्य वा पूर्व्वावस्थाऽपूर्ब्बं नामास्तीति तर्क्यते। उपपद्यते चायमर्थः उक्तेन प्रकारेण ईश्वरस्तु फलं ददातीत्यनुपपन्नम् अविचित्रस्य कारणस्य विचित्रकार्य्यानुपपत्तेः वैषम्य नैर्घृण्यप्रसङ्गादनुष्ठानवैयर्थ्यापत्तेश्च तस्माद्धर्म्मादेव फलमिति” भा०। “पूर्ब्बन्तु वादरायणोहेतुव्यपदेशात्” सू०। “वादरायणस्त्वचार्य्यः पूर्व्वोक्तमेवेश्वरं फलहेतुं मन्यते। केवलात् कर्म्मणोऽपूर्व्वाद्वा केवलात् फलमित्ययं पक्षस्तुशब्देन व्यावर्त्त्यते। कर्म्मापेक्षाद्वाऽपूर्ब्धापेक्षाद्वा यथा तथास्त्वीश्वरात् फलमिति सिद्धान्तः। हेतुव्यपदेशात्। धर्म्माधर्म्मयोरपि कारयितृत्वेनेश्वरोहेतुर्व्यपदिश्यते फलस्य च दातृत्वेन “एव ह्येव साधु कर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषते एषौ एवासाधु कर्म कारयति तं, यमधोलोकं निनोषत” इति। स्मर्य्यते चायमर्थो भगवद्गीतासु। “योयो यांयां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्। स तयाश्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहितान् हि तानिति”। सर्व्ववेदान्तेषु चेश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते तदेवेश्वरस्य फलहेतुत्वं यत् स्वकर्म्मानुरूपाः प्रजाः सृजति। विचित्रकार्य्यानुपपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते” भा०।

मीमांसकैस्तु ईश्वरस्याचेतनताङ्गीकारेण न फलहेतुत्वं किन्तु कर्म्मभ्य एव फलसिद्धिरित्य ररीकृतं तच्च जैमिनीयमतत्वेन शा० सूत्र भाष्ययोर्दर्शितम् अविग्रहशब्दे चेश्वरस्याचेतनत्वं यथा तथा ४५१ पृष्ठे दर्शितम्।

“कर्त्ता शास्त्रार्थवत्त्वात्” शास्त्रेण जीवानां कर्त्तृत्वेऽपि अस्यैव च कारयितृत्वं यथाह शा० सूत्रभाष्ययोः।

“परात्तु तच्छ्रुतेः” सू०। “यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्त्तृत्वं जीवस्याभिहितं तत् किमनपेक्ष्यैवेश्वरं, भवत्याहोस्विदीश्वरापेक्षमिति? भवति विचारणा। तत्र प्राप्तं तावन्नेश्वरमपेक्षते जीवः कर्तृत्व इति। कस्मात्? अपेक्षाप्रयोजनाभावात्। अयं हि जीयः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारणान्तरसामग्रीसम्पन्नः कर्तृत्वमनुभवितुं शक्नोति तस्य किमीश्वरः करिष्यति?। न च लोके प्रसिद्धिरस्ति कृष्यादिकासु क्रियास्वनडुदादिबदीश्वरोऽपरोऽपेक्षितव्य इति। क्लेशात्मकेन च कर्तृत्वेन जन्तून् संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत, विषमफलञ्चैषां कर्तृत्वं विदवतो वैषम्यम्। ननु वैषम्यनैर्घृण्येन सापेक्षत्वादित्युक्तम्। सत्यमुक्तं सति त्वीश्वरस्य सापेक्षत्वसम्भवे, सापेक्षत्वञ्चेश्वरस्य सम्भवति सतोर्जन्तूनां धर्माधर्मयोः, तयोश्च सद्भावः सति जीवस्य कर्तृत्वे, तदेव चेत् कर्तृत्वमीश्वरापेक्षं स्यात् किंविषयमीश्वरस्य सापेक्षत्वमुच्यते। अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत। तस्मात् स्वतएव जीवस्य कर्तृत्वमिति। एतां प्राप्तिं तुशब्देन व्यावर्त्त्य प्रतिजानीते परादिति। अविद्यावस्थायां कार्यकरणसंङ्घाताविवेकदर्शिनोजीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात् सर्वभूताधिवासात् साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः तदनुग्रहहेतुकेन च विज्ञानेन मोक्षस्य सिद्धिः भवितुमर्हति। कुतः? तच्छ्रुतेः। यद्यपि दोषप्रयुक्तः सामग्रीसम्पन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धं तथापि सर्व्वास्वेव प्रवृत्तिषु ईश्वरोहेतुकर्त्तेति श्रुतेरवसीयते। तथा हि श्रुतिर्भवति “एष ह्येव साधुकर्म कारयति तं, यमेभ्यो लोकेभ्य उन्नीषते, एष उ एवासाधु कर्म कारयरि तं, यमधोलोकं निनीषते” इति “य आत्मनि तिष्ठन्नात्मानमन्तरोयमयतीति” चैवं जातीयका। नन्वेवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घृण्ये स्याताम् अकृताभ्यागमश्च जीवस्येति नेत्युच्यते” भा० “कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः” सू०। “तुशब्दोनोदितदोषव्यावर्त्तनार्थः। कृतोयः प्रयत्नोजीवस्य धमीधर्मलहणः तदपेक्ष एव चैनमीश्वरः कारयति ततश्चैते नोदिता दोषा न प्रसज्यन्ते। जीवकृतधर्मौधर्मवैषम्यापेक्ष एव तत्फलानि विषमं विभजते पर्जन्यवदोश्वरोनिमित्तमात्रेण। यथा लोके नानाविधानां यवमुद्गादीनां गुच्छगुल्मादीनां वाऽसाघारणेभ्यः स्ववीजेभ्यो जायमानार्ना साघारणनिमित्तं भवति पर्जन्यः, नह्यसति पर्जन्येरसपुष्पफलपलाशादिवैषम्यं तेषां जायते नाप्यसत्सु स्ववीजेषु, एवं जीवकृतप्रयत्नापेक्षईश्वरस्तेषां शुभाशुभं विदध्यादिति श्लिष्यते। ननु कृतप्रयत्नत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते। नैष दोषः। परायत्तेऽपि हि कर्तृत्वे करोत्येव जोवः कुर्व्वन्तं हि तमीश्वरः कारयति। अपि च पूर्वप्रयत्नमपेक्ष्येदानीं कारयति, पूर्वतरञ्च प्रयत्नमपेक्ष्य पूर्वमकारयदित्यनादित्वात् संसारस्यानवद्यम्। कथं पुनरवम्यते कृतप्रयत्नापेक्ष ईश्वर इति? विहितप्रतिषिद्धावैयर्थ्यादिभ्य इत्याह। एवं हि “स्वर्गकामोयजेत ब्राह्मणो न हन्तव्यः” इत्येवंजातीयकस्य विहितस्य प्रतिबिद्धस्म चावैयर्थ्यं भवति अन्यथा तदनर्थकं स्यात् ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत अत्यन्तपरतन्त्रत्वाज्जीवस्य। तथा विहितकारिणमप्यनर्थेन संसृजेत्, प्रतिसिद्धकारिणमप्यर्थेन, ततश्च प्रामाण्यं वेदस्यास्तमियात्। ईश्वरस्य चात्यन्तापेक्ष्यत्वे लौकिकस्यापि पुरुषकारस्य वैयथ्यं तथा देशकालनिमित्तानां पूर्वोक्तदोषपसङ्गश्चेत्येवंजातीयकदोषजातमादिग्रहणेन दशयति” भा०।

सेश्वरसांख्यमते तु ईश्वराधिष्ठितप्रधानस्य जगत्कर्तृत्वं तत्रेश्वरप्रसादाद्योगसिद्धितत्स्वरूपादिकं पातञ्जलसूत्रभाष्यविवरणेषु दर्शितं यथा। “किमेतस्मादेवासन्नतरः समाधिर्भवति अथास्य लाभे किं भवत्यन्योऽपि कश्चिदुषायो? न वेति” भा० “ईश्वरप्रणिधानाद्वा” सू० २३। “प्रणिधानाद्भक्तिविशेषादावर्जितईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण तदभिध्यानमात्रादपि योगिनः आसन्नतरः समाधिलाभः फलञ्च भवतीति” भा० २३। अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरोनामेति?” भा०। “क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” सू० २४। “अविद्यादयः क्लेशाः। कुशालाऽकुशलानि कर्म्माणि। तत्फलं विपाकः। तदनुगुणा वासना आशयाः। ते च मनसि वर्त्तमानाः पुरुषे व्यपदिश्यन्ते स हि तत्फलस्य भोक्तेति। यथा जयः पराजयोवा योद्धृषु वर्त्तमानः स्वामिनि व्यपदिश्यते। योह्यनेन भोगेनाऽपरामृष्टः स पुरुषविशेष ईश्वरः। कैवल्यं प्राप्तास्तर्हि सन्ति च बहषः केवलिनः? ते हि त्रीणि बन्धनानि छित्वा कैवल्यं पाप्ताः ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी यथा मुक्तस्य पूर्व्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य, यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते नैवमीश्वरस्य, स तु सदेव मुक्तः, सदैवेश्वर इति। योऽसौ प्रकृष्टसत्वोपादानादीश्वरस्य शाश्वतिकः उत्कर्षः स किं सनिमित्तः? आहोस्विन्निर्न्निमित्तः? इति तस्य शास्त्रं निमित्तं, शास्त्रं पुनः किंनिमित्तम्? एतयोः शास्त्रोत्कर्षयोरीश्वरसत्वे वर्त्तमानयोरनादिः सम्बन्धः। एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति। तच्च तस्यैश्वर्य्यं साम्यातिशयविनिर्मुक्तं न तावदैश्वर्य्यान्तरेण तदतिशय्यते यदेवातिशयि स्यात् तदेव तत्स्यात् तस्य। यत्र काष्ठाप्राप्तिरैश्वर्य्यस्य स ईश्वरः, न च तत्समानमैश्वर्य्यमस्ति। कस्मात्? द्वयोरेकस्मिन् युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्विति एकस्य सिद्धावितरस्य प्राकाम्यविघातादूनत्वं प्रसक्तं, द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति, अर्थस्य विरुद्धत्वात् तस्माद् यस्य साम्यातिशयविनिर्मुक्तमैश्वर्य्यं स ईश्वरः, स च पुरुषविशेषः इति” भा० २४। किञ्च “तत्र निरतिशयं सर्व्वज्ञवीजम्” सू० २५। यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्द्धमानं यत्र निरतिशयं स सर्व्वज्ञः। अस्ति काष्ठाप्राप्तिः सर्व्वज्ञवीजस्य, सातिशयत्वात् परिमाणवदिति यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्व्वज्ञः स च पुरुष विशेष इति। सामान्यमात्रोपसंहारे कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति। तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्य्यन्वेष्या। तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्। ज्ञानधर्म्मापदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति। तथाचोक्तम् “आदिविद्वान्निर्म्माणचित्तमधिष्ठाय कारुण्याद्भगवान् अर मर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति” भा० २५। सएषः “पूर्व्वेषामपि गुरुः कालेनानवच्छेदात्” सू० २६। “पूर्व्वे हि गुरवः कालेनावच्छिद्यन्ते यत्रावच्छेदार्थेन कालोनोपावर्त्तते स एष पूर्व्वेषामपि गुरुः यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धः तथातिक्रान्तसर्गादिष्वपि प्रत्येतव्यः” व्यासभाष्यम् २६।

विवृतमिदं वाचस्पतिना यथा “सूत्रान्तरम्पातयितुं विमृशति किमेतस्मादेवेति। नवाशब्दः संशयनिवर्त्तकः। ईश्वरप्रणिधानाद्वा। व्याचष्टे–प्रणिधानाद्भक्तिविशेषान्मानसाद्बाचिकात्कायिकाद्वा आवर्जितोऽभिमुखीकृतस्तमनुगृह्णाति, अभिध्यानमनागतेऽर्थेइच्छा इदमस्याभिप्रेतमस्त्विति, तन्मात्रेण न व्यापांरान्तरेण, शेषं सुगमम्” २३। ननु चेतनाऽचेतनाभ्यामेवव्यूढं विश्वम्, नान्येन, ईश्वरश्चेदचेतनस्तर्हि प्रधानं, प्रधानविकाराणामपि प्रधानमध्यपातात्तथाच न तस्यावर्ज्जनमचेतनत्वात् अथ चेततनस्तथापि चितिशक्तेरौदासीन्या- दसंसारितया चास्मितादिविरहात् कुतआवर्ज्जनम्? कुतश्चाभिध्यानम्? इत्याशयवानाह, अथ प्रधानेति। अत्र सूत्रेणोत्तरमाह “क्लेशकर्म्मविपाकाशयैरपरामृष्टः पुरुषविशेषईश्वरः”। (न्यायकन्दल्यां क्लेशकर्म्मेत्यत्र जन्मेतिपदमधिकम् दृश्यते तच्च लिपिकरप्रमादकृतम्) अविद्यादयः क्लेशाः, क्लिश्नन्ति खल्बमो पुरुषां सांसारिकं विविधदुःखप्रहारेणेति। “कुशलाकुशलानीति” धर्म्माधर्म्मास्तेषाञ्च कर्म्मजत्वादुपचारात् कर्म्मत्वम्। विपाकोजात्यायुर्भोगाः विपाकानुगुणा वासनास्ताश्चित्तभूमौ आशेरत इति आशयाः नहि करभजातिनिर्वर्त्तकं कर्म्म प्राग्भवीयकरभभोगभावेतां भावनां न यावदभिव्यनक्ति तावत्करभोचिताय भोगाय कल्पते, तस्माद्भवति करभजात्यनुभवजन्मा भावना करभविपाकानुगुणेति। नन्वमी क्लेशादयोबुद्धिधर्म्मा न कथञ्चिदपि पुरुषं परामृशन्ति तस्मात् पुरुषग्रहणादेव तदपरामर्शसिद्धेः कृतं क्लेशकर्म्मेत्यादिमेत्यत आह, “ते च मनसि वर्त्तमानाः सांसारिके पुरुषे व्यपदिश्यन्ते” कस्मात्? “स हि तत्फलस्य भोक्ता चेतयितेति”। तस्मात् पुरुषत्वादीश्वरस्यापि तत्सम्बन्धः प्राप्त इति तत्प्रतिषेधौपपद्यत इत्याह, योह्यनेन बुद्धिस्थेनापि पुरुषमात्रसाधारणेन भोगेनापरामृष्टः। स पुरुषविशेष ईश्वरः, विशिष्यते इति विशेषः पुरुषान्तराद्व्यवच्छिद्यते। विशेषपदव्यावर्त्त्यं दर्शयितुकामः परिनोदनापूर्व्वं परिहरति कैवल्यं प्राप्तास्तर्हि इति। प्रकृतिलयानां प्राकृतोबन्धः, वैकारिकोविदेहानाम् दक्षिणकादिबन्धोदिव्यादिव्यविषयभोगभाजाम्। तान्यमूनि त्रीणिबन्धनानि। प्रकृतिभावनासंस्कृतमनसोहि देहपातानन्तरमेव प्रकृतिलयतामापन्नाइतितेषां पूर्व्वा बन्धकोटिः प्रज्ञायते तेनोत्तरकोटिविधानमात्रमिह तु पूर्व्वापरकोटिनिषेध इति संक्षिप्य विशेषं दर्शयति “स तु सदैव मुक्तः सदैवेश्वरः” इति। ज्ञानक्रियाशक्तिसम्पर्दश्वर्य्यः। अत्र पृच्छति “योऽसाविति” ज्ञानक्रिये हि न चिच्छक्तेरपरिणामिन्याः सम्भवत इति। रजस्तमोरहितविशुद्धचित्तसत्वाश्रये वक्तव्ये। नचेश्वरस्याविद्याप्रभवचित्तसत्वसमुत्कर्षेण सह स्वस्वामिभावसम्बन्धः सम्भवतीत्यतौक्तं, प्रकृष्टसत्वोपादानादिति। नेश्वरस्य पृथग्जनस्येवाविद्यानिबन्धनश्चित्तसत्वेन स्वस्वामिभावः, किन्तुतापत्रयपरीतान् प्रेत्यभावमहार्णवात् जन्तूनुद्धरिष्यामिज्ञानधर्म्मोपदेशेन। नच ज्ञानकियासामर्थ्यातिशयसम्पत्तिमन्तरेण तदुपदेशः, नचेयमपहतरजस्तमोमलविशुद्धसत्वोपा- दानं विनेत्यालोच्य सत्वप्रकर्षमुपादत्ते भगवानपरामृष्टोऽप्यविद्ययाऽविद्याभिमानीवाविद्यायास्तत्त्वमविद्वान् भवति न पुनरविद्यामविद्यात्वेन सेवमानः, न स्वलु शैलूषोरामत्वमारोप्य तास्ताश्चेष्टादर्शयन् भ्रान्तोभवति तदिदमाहार्यमस्य रूपन्न तात्त्विकमिति। स्यादेतदुद्दिधीर्षया भगवता सत्वमुपादेयं तदुषादानेन च तदुद्दिधीर्षा अस्या अपि प्राकृतत्वात्तथाचान्योन्यसंश्रय इत्यतौक्तं, शाश्वतिक इति। भवेदेतदेवं यदीदंप्रथमता सर्गस्य भवेत्, अनादौ तु सर्गसंहारप्रबन्धे सर्गान्तरसमुत्पन्नसञ्जिहीर्षावधिसमये, पूर्णे मया सत्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवान् जगत्संजहार, तदा चेश्वरचित्तसत्वं प्रणिधानवासनावासितप्रधानसाम्यमुपगतमपि परिपूर्णे महाप्रलयावधौ प्रणिधा नवासनावशात्तथैवेश्वरचित्तसत्वभावेन परिणमते यथा चैत्रः श्वःप्रातरेवोत्थातव्यं मयेति प्रणिधाय सुप्तस्तदैवोत्तिष्ठति प्रणिधानसंस्कारात्, तस्मादनादित्वादीश्वरप्रणिधानसत्वोपादानयोः शाश्वतिकत्वेन नान्योन्यसंश्रयः। नचेश्वरस्य चित्तसत्वं महाप्रलयेऽपि न प्रकृतिसाम्यमुपैतीति वाच्यं? यस्य हि न कदाचिदपि प्रधानसाम्यं न तत्प्रा धानिकं नापि चितिशक्तिः अज्ञा तत्त्वेऽर्थान्तरमप्रामाणिकमापद्येत। तच्चायुक्तं, प्रकृतिपुरुषव्यतिरेकेणार्थान्तराभावात्। सोऽयमीदृश ईश्वरस्य शाश्वतिक उत्कर्षः किं सनिमित्तः सप्रमाणकः? आहीस्विन्निर्निमित्तः निष्प्रमाणकः? इति। उत्तरम्–तस्य शास्त्रं निमित्तं श्रुतिस्मृतीतिहासपुराणानि शास्त्रम्। नोदयति शास्त्रं पुनः किं निमित्तम्? प्रत्यक्षानुमानपूर्व्वं हि शास्त्रम्? नचेश्वरस्य सत्वप्रकर्षे कस्यचित् प्रत्यक्षमनुमानं वास्ति। नचेश्वरप्रत्यक्षप्रभवं शास्त्रमिति युक्तं, कल्पयित्वापि ह्ययं स्वयं ब्रूयादात्मैश्वर्य्यप्रकाशनायेति भावः। परिहरति प्रकृष्टसत्वनिमित्तम्। अयमभिसन्धिः मन्त्रायुर्वेदेषु तावदीश्वरप्रणीतेषु प्रवृत्तिसामर्थ्यादर्थाव्यभिचारविनिश्चयात् प्रामाण्यं सिद्धम्। नचौषधिभेदानां तत्सं योगविशेषाणाञ्च मन्त्राणाञ्च तत्तद्वर्णावापोद्धारेण सहस्रेणापि पुरुषायुषैर्लौकिकप्रमाणव्यवहारी शक्तः कर्त्तुमन्वयव्यतिरेकौ। नचागमादन्वयव्यतिरेकौ ताभ्यां चागमस्तत्सन्तानयोरनादित्वादिति प्रतिपादयितुं युक्तं, महाप्रलये तत्सन्तानयोर्व्विच्छेदात् न च तद्भावे प्रमाणाभावः। अभिन्नं प्रधानविकारि जगदिति हि प्रतिपादयिष्यते। सदृशपरिणामस्य पूर्व्वसदृशपरिणाममता दृष्टा। यथा क्षीरेक्षुरसादेर्दधिगुडादिरूपम्। विसडशपरिणामस्य पूर्व्वसदृशपरिणामता च दृष्टा। तदिह प्रधानेनापि भहदहङ्कारादिरूपविसदृशपरिणामेन सता भाव्यम्। कदाचित् सदृशपरिणामेन सदृशपरिणामश्चास्य साम्यावस्था स च महाप्रलयः। तस्मान्मन्त्रायुर्वेदप्रणयनात तावद्भगवता रजस्तंमोमलावरणतया परितः प्रद्योतमानं बुद्धिसत्वमास्थेयं तथा चाभ्युदयनिःश्रेषसोपदेशपरोऽपि वेदराशिरीश्वरप्रणीतस्तद्बुद्धिसत्वप्रकर्षादेव भवितुमर्हति। न च सत्वोत्कर्षे रजस्तमःप्रभवौ विभ्रमविप्रलम्भौ सम्भवतस्तत्प्रकृष्टसत्वनिमित्तं शास्त्रमिति। स्यादेतत् प्रकर्षकार्य्यतया प्रकर्षं बोधयच्छास्त्रम् शेषवदनुमानं भवेन्न त्वागम इत्यत आह, एतैरिति। न कार्य्यत्वेन बोधयति अपि त्वनादिवाच्यवाचकभावसम्बन्धेन बोधयतीत्यर्थः। ईश्वरस्य हि बुद्धिसत्वे प्रकर्षोवर्त्तते, शास्त्रमपि तद्वाचकत्वेन तत्र वर्त्तते इति। उपसंहरति, एतस्मात् ईश्वरबुद्धिसत्वप्रकर्षवाचकाच्छास्त्रादेतद्भवति ज्ञायते विषयेण विषयिणोलक्षणात्। सदैवेश्वरः सदैव मुक्तः इति। तदेव पुरुषान्तराद्व्यवच्छिद्येश्वरान्तरादपि व्यपच्छिनत्ति तच्च तस्येति। अतिशयविनिर्मुक्तिमाह न तावदिति। कुतः? यदेवेति। कस्मात् सर्व्वातिशयविनिर्मुक्तं तदैश्वर्य्यम्? इत्यत आह, तस्माद्यत्रेति। अतिशयनिष्ठामप्राप्तानामौपचारिकमैश्वर्य्यमित्यर्थः। साम्यविनिर्मुक्तिमाह न च तत्समानमिति। प्राकाम्यमविहतेच्छता तद्विघातादूनत्वम्, अनूनत्वे वा द्वयोरपि प्राकाम्यविघातः कार्य्यानुत्पत्तिर्वा विरुद्धधर्मसमालिङ्गितमेकदा कार्य्यमुपलभ्येतेत्याशयषानाह द्वयोश्चेति। अविरुद्धाभिप्रायत्वे वा प्रत्येकमीश्वरत्वे कृतमन्यैरेकेनैवेशनायाः कृतत्वात्, सम्भूयकारित्वे वा न कश्चिदीश्वरः परिषद्वत्, नित्येशनायोगिनाञ्च पर्य्यायायोगात्, कल्पनागौरबप्रसङ्गाच्चेति द्रष्टव्यं तस्मात् सर्व्वमवदातम्” २४ वि०। एवमस्य क्रियाज्ञानशक्तौ शस्त्रं प्रमाणमभिधाय ज्ञानशक्तावनुमानं प्रमाणयति, किञ्च “तत्र निररिशयं सर्वज्ञवीजम्”। व्याचष्टे यदिदमिति। बुद्धिसत्वावरकतमीऽपगमतारतप्येन यदिदमतीतानागतप्रत्युत्पन्नानां प्रत्येकञ्च समुच्चयेन च वर्त्तमानानामतीन्द्रियाणां ग्रहणं तस्य विशेषणमल्पं बह्विति सर्व्वज्ञवीजं कारणम्, कश्चित् किञ्चिदेवातीतादि गृह्णाति, कश्चिह्वहुतरं, कश्चिह्वहुतममिति ग्राह्यापेक्षया ग्रहणस्याल्पत्वं बहुत्वं कृतम् एतद्विवर्द्धमानं यत्र निष्क्रान्तमतिशयात् स सर्व्वज्ञ इति तदनेन प्रमेयमात्रं कथितम्। अत्र प्रमाणयति अस्तिकाष्ठाप्राप्तिः सर्व्वज्ञवीजस्येति” साध्यनिर्देशः निरतिशयत्वं काष्ठा यतः परमतिशयवत्ता नास्तीति। तेन नावधिमात्रेण सिद्धसाधनम्, सातिशयत्वादिति हेतुः। यद्यत् सातिशयं तत्तत् सर्व्वं निरतिशयं यथा कुवलयामलकविल्वेषु सातिशयं महत्त्वम् आत्मनि निरतिशयमिति व्याप्तिं दर्शयति परिमाणवत्। न च गरिमादिगुणैर्व्यभिवार इति साम्प्रतं न खल्वऽवयवगरिमावयविनः, किन्त्वापरमाणुभ्य अन्त्यावयविभ्यो यावन्तः केचन, तेषाम्प्रत्येकवर्त्तिनो गरिम्णः समाहृत्य गरिमवर्धमानाभिमानः ज्ञानन्तु प्रतिज्ञेयं समाप्यत इत्येकद्विबहुविषयतया युक्तं सातिशयमिति न व्यभिचारः। उपसंहरति, यत्र काष्ठा इति। ननु सन्ति बहवस्तीर्थकरा बुद्धार्हत्कपिलर्षिप्रभृतयस्तत् कस्मात् ते एव सर्ब्धज्ञा न भवअस्मादनुमानात्? इत्यत आह, सामान्येति। कुतस्तर्हि तद्विशेषपतिपत्तिः? इत्यत आह, तस्येति। बुद्धादिप्रणीत आगमाभासी नत्वागमः, सर्वप्रमाणबाधितक्षणिकनैरात्म्यादिमार्गोपदेशकत्वेन विप्रलम्भकत्वादिति भावः। तेन श्रुतिस्मृतीतिहासपुराणलक्षणादागमतः आगच्छन्ति बुद्धिमारोहन्ति अस्मादभ्युदयनिःश्रेयसोपाया इत्यागमः। तस्मात् संज्ञादिविशेषप्रतिपत्तिः। संज्ञाविशेषः शिवेश्वरादिश्रुत्यादिषु प्रसिद्धः। आदिपदेन षडङ्गतादशाव्ययते संगृहीते। यथोक्तं वायुपुराणे “सर्व्वज्ञता तृप्तिरनादिबोधः खतन्त्रता नित्यमुलप्तशक्तिः। अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य”। तथा “ज्ञानं वैराग्यमैश्वर्य्यं तपः सत्यं क्षमा धृतिः। स्रष्टृत्वमात्मसंबोधोह्यधिष्ठातृत्वमेव च। अव्ययानि दशैतानि नित्यं, तिष्ठन्ति शङ्करे” इति। स्यादेतन्नित्यतृप्तस्य भगवतऐश्वर्य्यातिशयसम्पन्नस्य स्वार्थे तृष्णासम्भवात्, कारुणिकस्य च सुखैकतानजनसर्ज्जनपरस्य दुःखबहुलजीवलोकजननानुपपत्तेरप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्यनुपपत्तेः क्रियाशक्तिशालिनोऽपि न जगत्क्रियेत्यत आह, तस्यात्मानुग्रहाभावेऽपीति। भूतानां प्राणिनामनुग्रहः प्रयोजनं शब्दाद्युपभोगविवेकख्यातिरूपकार्यकरणात् किल, चरितार्थं चित्तं निवर्त्तते ततः पुरुषः केवली भवति अतस्तत्प्रयोजनाय कारुणिकोविवेकख्यात्युपायं कथयति तेनाचरितार्थत्वात् चित्तस्य जन्तून्, ईश्वरः पुण्यापुण्यसहायः सुखदुःखे भावयन्नपि नाकारुणिकः। विवेकख्यात्युपायकत्य- नाय भूतानुग्रहद्वारमाह ज्ञानधर्मोपदेशेनेति। ज्ञानञ्च धर्मश्च ज्ञानधर्मौ तयोरुपदेशेन ज्ञानधर्मसमुञ्चयाल्लब्धविवेकख्यातिपरिपाकात्। कल्पप्रलये–ब्रह्मणोदिनावसाने यत्र सत्यलोकवर्जंजगदस्तमेति, महाप्रलये ससत्यलोकस्य ब्रह्मणोऽपि निधने, संसारिणः स्वकारणगामिनस्तदा मरणदुःखभाजः। कल्पेत्युपलक्षणम्। अन्यदापि स्वार्जितकर्मपाकवशेन जन्ममरणादिभाजः पुरुषानुद्धरिष्यामीति कैवल्यं प्राप्य पुरुवा उद्धृता भवन्त्वित्यर्थः। एतच्च करुणाप्रयुक्तस्य ज्ञानधर्मोपदेशनं कपिलानामपि सिद्धमित्याह, “तथा चोक्तं आदिविद्वान् कपिल” इति। आदिविद्वानिति पञ्चशिखाचार्य्यवचनम् आदिमुक्तस्वसन्तानादिगुरुविषयं, नत्वनादिमुक्तपरमगुरुविषयम्, आदिमुक्तेषु कदाचिन्मुक्तेषु विद्वत्सु कपिलेषु अस्माकमादिर्विद्वान् मुक्तः स एव च गुरुरिति। कपिलस्यापि जायमानस्य महेश्वरानुग्रहादेव ज्ञानप्राप्तिः। श्रूयते हि कपिलोनाम विष्णोरवतारविशेषः प्रसिद्धः स्वयंभूस्तु हिरण्यगर्भः, तस्यापि साङ्ख्ययोगप्राप्तिर्वेदे श्रूयते इति “स एवेश्वरः आदिविद्वान् कपिलोविष्णुः स्वयम्भूरिति” स्वायन्मुवादीनामपीश्वर इति भावः २५। “सम्प्रति भगवतो ब्रह्मादिभ्योविशेषमाह, “स एष इति पातनिका न तु सूत्रम् “पूर्वेषामपि गुरुः कालेनानवच्छेदात्”। व्याचष्टे, पूर्वे हीति। कालस्तु शतवर्षादिः, अवच्छेदार्थेन अवच्छेदनप्रयोजनेनोपावर्त्तते, न वर्त्तते प्रकर्षस्य गतिः प्राप्तिः प्रत्येतव्या आगमात्। तदनेन प्रबन्धेन भगवानीश्वरोदर्शितः” २६ वाचस्पतिविवरणम्।

तस्वेश्वरस्य लक्षणम् “जन्माद्यस्ययतः” शा० सूत्रभाष्ययो र्दर्शितम् तच्चोपादाननिमित्तकारणोभयकारणपरतया समर्थितं तच्चानुपदमुदाहृतम्। तस्य लक्षणानि नवमितानि यथाह ब्रह्मणस्तटस्थलक्षणोदाहरणेवेदा० परि० “प्रकृते च जगज्जन्मादिकारणत्वम्। अत्र जगत्पदेन कार्य्यजातं विवक्षितम्। कारणत्वञ्च कर्त्तृत्वम् अतोऽविद्यादौ नातिव्याप्तिः। कर्तृत्वञ्च तत्तदुपादानगोचरापरोक्षज्ञानचिकोर्षाकृतिमत्त्वम्। ईश्वरस्य तावदुपादानगोचरापरोक्षज्ञानसद्भावे च “यः सर्व्वज्ञः सर्व्ववित् यस्य ज्ञानमयं तपः। तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते” इत्यादि श्रुतिर्म्मानम्। तादृशचिकीर्षासद्भावे च “सोऽकामयत बहु स्यां प्रजायेयेतिश्रुतिर्म्मानम्। तादृशकृतौ च “तन्मनोऽकुरुतेत्यादि” बाक्यम्। ज्ञानेच्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा व्यर्थविशेषणापत्तेः। अतएव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः। एवञ्च लक्षणानि नव सम्पद्यन्ते। ब्रह्मणोजगज्जन्मादिकारणत्वे च “यतोवा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीत्यादि” श्रुतिर्म्मानम्। यद्वा निखिलजगदुपादानत्वं जगदाकारेण परिणम्यमानमायाधिष्ठानत्वं वा। एतादृशमेवोपादानत्वमभिप्रेत्य “इदं सर्व्वं यदयमात्मा” “सच्चासच्चाभवत्” “बहु स्यां प्रजायेय” इत्यादिश्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः। घटः सन् घटोभाति घटैष्ट इत्यादिलौकिकव्यपदेशोऽपि संच्चिदानन्दरूपब्रह्मैक्याध्यासात्”। अतएव “अस्ति भाति प्रियं रूपं नाम केत्यंशपञ्चकम्। आद्यं त्रयं ब्रह्मरूपं मायारूपं ततोद्वय” मित्युक्तम्। श्रीधरस्वामिनाऽपि भाग० १ श्लो० टीकायाम् “विश्वसर्गविसर्गादिनवलक्षणलक्षितम्” इत्यनेन ब्रह्मणः सर्गादित्रयस्य ज्ञानचिकीर्षाकृतिमत्त्वेन नव लक्षणान्युक्तानि। “मायोपाधिरयं जीवोह्यविद्योपाधिरीश्वर” इत्युक्तेः तस्याविद्योपाधित्वम् अविद्या च कार्य्यकारणभेदेन द्विविधा तत्र कार्य्यरूपा मायाशब्देन वाच्या कारणरूपा तु अविद्याशब्दवाच्या। तत्र कार्य्यरूपाभिप्रायेणैव “इन्द्रोमायाभिःपुरुरूप ईयते” श्रुतिर्द्रष्टव्या। अविद्याभिप्रायेर्णव तु “मायान्तु प्रकृतिं विद्यात् मायिनं तु महेश्वरम्”। “आजामेकां लोहितशुक्लकृष्णवर्ण्णामित्यादि” श्रुतिश्च द्रष्टव्या। तस्या एकत्वेऽपि सत्वरजस्तमोरूपगुणभेदात् त्रैविध्येन तदुपहितचैतन्यस्यापि त्रैविध्यम्। तदभिप्रायेणैव “स च परमेश्वरः एकोऽपि स्वोपाधीभूतमायानिष्ठसत्वरजस्तभोगुणभेदेन ब्रह्मविष्णुमहेश्वरादिशब्दवाच्यतां भजते” इति वेदा० परि०। “सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते। स्थित्यादये हरिविरिञ्चिहरेतिसंज्ञाः” भागवतम्। मत्स्यावतारप्रभृतयोऽपि ब्रह्मकोटयएव। अत एव सिद्धान्तविन्दौ “पुमाकारविष्णुप्रभृतीनां स्त्याकाराणाञ्च भारतीप्रभृतीमामोश्वररूपत्वमुक्तम्। तस्य नित्यतया निरवयवत्वैऽपि तत्तज्जीवादृष्टवशात् तेषामुपासासिद्ध्यर्थं श्रुतिवेदपुराणप्रसिद्धाकारग्रहणम् “चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः। उपासकानां सिद्ध्यर्थं ब्रह्मणोरूपकल्पनेत्युक्तेः “योयो यां यां तनुं भक्तः श्रद्धयार्च्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विधाम्यहमिति” गीतोक्तेश्च। ईश्वरविभूतिशब्दे च दर्शयिष्यमाण तत्तत्स्थानेषु ईश्वरस्याराध्यता। “यदा यदा हि धर्म्मस्य ग्नानिर्भवति भारत!। अभ्युत्थानमधर्म्मस्य तदात्मानं सृजाम्यहम्” गीतोक्तेः जीवानां कार्य्यवशात् तस्य विग्रहवत्त्वेनार्विभावः। किन्तु स्वादृष्टायत्तशरीरपरिग्रहस्यैव संसारित्वेन ईश्वरस्य शरीरपरिग्रहे जीवादृष्टस्यैव हेतुत्वेनेश्वरस्य न संसारित्वमिति भेद इति द्रष्टव्यम्। तत्र परमेश्वरे “यस्मिन्नीश्वर इत्यनन्यविषयः शब्दोयथार्थाक्षरः” विक्र० “उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः” पुरा०। “जगदाहुरनीश्वरम्” गीता “न हीश्वरव्याहृतयः कदाचित् पुष्णन्ति लोके विपरीतमर्थम्” कुमा०। “क्लेशकर्म्मफलभोगवर्जितं पुंविशेषममुमीश्वरं विदुः” माघः। आढ्ये “ईश्वरोऽहमहं भागीकोऽन्योऽस्ति सदृशो मम” गीता स्वामिनि। “आत्मेश्वराराणां न हि जातु विघ्नाः समाधिभेदप्रभवोभवन्ति” कुमा०। शिवे स्वामिनि च “प्रालेयशीतमचलेश्वरमीश्वरोऽपि” कुमा० ऐश्वर्य्यान्वितस्त्रियां टाप्। “सविधे शयनेऽप्यनीश्वरा सफलीकर्त्तुमहो मनोरथान्” रसग०। दुर्गायां तु ईश्वरपत्नीत्वाविवगृयां टभेव। “विन्यस्तमङ्गलमहौषधिरीश्वरायाः” किरा०।

***