इष्म = पु० इष्यति इच्छत्यनेन वा इष–गतौ इष–इच्छायां मक् वा। १ वसन्तकाले २ कामे च भावे मक्। ३ गतौ। ततः अस्त्यर्थे इनि। इष्मिन् गतियुक्ते त्रि० स्त्रियां ङीप्। “ते वाशीमन्तः इष्मिणो अभीरवः” ऋ० १, २७, ६। “इष्मिणः गतिमन्तः” मा०। इष–इच्छायां कर्म्मणि मक्। ४ इष्यमाणे अन्नादौ अस्त्यर्थे इनि अन्नादिमति “हिरण्ययाः स्वायुधास इष्मिणः” ऋ० ५, ८, ७५। इष्मिणोऽन्नवन्तः” भा०।
इष्य = पु० इष्यते इष–क्यप्। वसन्ते ऋतौ हेम०। तस्य ऋतूनां मध्ये इष्टतमत्वात्तथात्वम् “ऋतूनां कुसुमाकरः” गीतायां तस्य भगवद्रूपत्वोक्तेः इष्टत्वम्।
इष्व = पु० इष–सर्पणे वन्–गुणाभावः। आचार्य्ये उदेशार्थमुपसृप्यमाणत्वात्तथात्वम्। उज्ज्वलदत्तस्तु ईष दाने इत्यस्यैव रूपं दीर्घादि इत्याह। उपदेशदानाच्च तस्य तथात्वम्।
इष्वग्र = न० ६ त०। वाणाग्रे। गहादिपाठात् भवादौ छ। इष्वग्रीय तद्भवादौ त्रि०।
इष्वनीक = न० ६ त०। वाणाववयवे। गहा० भवादौ छ। इष्वनीकीय तद्भवादौ त्रि०।
इष्वसन = पु० इषवोऽस्यन्ते क्षिप्यन्तेऽनेन अस–क्षेपे करणे ल्युट् ६ त०। धनुषि। “राममिष्वसनदर्शनोत्सुकम्” रघुः।
इष्वास = पु० इषवोऽस्यन्तेऽनेन अस–क्षेपे करणे घञ् ६ त०। १ धनुषि “अत्र शूरा माहेष्वासाभीमार्ज्जनसमा युधि” “काश्यश्च परमेष्वासः शिखण्डी च महारथः” गोता। अर्द्धर्चादिपाठात् क्लीवत्वमपि। इषून् अस्यति अस–अण् उप० स०। २ शरक्षेपके त्रि० (तीरन्दाज) मेदि०।
इस् = अव्य० इंकामम् स्यति सो–क्विप् नि० आलोपः। १ सन्तापे २ कोपे ३ दुःखानुभवे च शब्दर०।
इह = अव्य० इदम् + ह इशादेशः। अस्मिन् काले देशे दिशि वा १ इत्यर्थे “एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन” श्रुतिः “इह जन्मनि जन्मान्तरे वा” वे० सा०। “नेह नामुत्र किञ्चन” “नेहाभिक्रमनाशोऽस्ति” गीता। “तदखिलमिह भूतं भूतगत्या जगत्याः” नैष०। प्रथमार्थेह। २ अनुभूयमाने लोके इहामुत्रार्थफलभोग विरागः वेदा० सा० च इहकालः। इह भवः विदितोवा कर्षा० ठञ्। ऐहिक इहभवे इहविदिते च त्रि०। “ऐहिकब्रह्मघ्रपतेर्दाहादिनिषेधात्” शु० त० रघु०।
इहकाल = पु० इदम् + प्रथमार्थे ह इह कर्म्म०। एतत्काले वर्त्तमानकाले।
इहतन = त्रि० इहभव ट्युल् तुट् च। इहभवे स्त्रियां ङीष्।
इहत्य = त्रि० इह भवः इह + त्यप्। इहकालादिजाते। स्वार्थेकन्। इहत्यक तत्रार्थे स्त्रियां नित्यमित्त्वम्। इहत्यिका
इहद्वितीया = स्त्री मयू० स०। अत्रत्य द्वितीयायाम्।
इहपञ्चमी = स्त्री। मयू० स०। अत्रत्यपञ्चम्याम्।
इहल = पु० इह भवं लाति ला–क। चेदिदेशे त्रिका० तद्वासिनि ब० व०।
इहलोक = पु० इदम्–प्रथमार्थे ह कर्म्म०। एतल्लोके अनु- भूयमाने लोके इहलोके भवः ठक् अनुश० द्विपदवृद्धिः ऐहलौकिक तद्भवे त्रि०।
इहामुत्र = अव्य० इह च अमुत्र च द्व०। एतल्लोके परलोके च “इहामुत्रार्थफलभोगविरागः” वेदा० सा०। इति वाचस्पत्ये इकारादिवर्ण्णशब्दार्थनिरूपणम्।
—ई—
ई = अव्य० ई क्विप्। १ विषादे २ दुःखभावनायाम् ३ क्रोधे ४ अनुकम्पायाम् ५ प्रत्यक्षे ६ सन्निधौ ७ संबोधने च। मेदि न्यामयं सान्ततया पठितः। पृषो० साधुः।
ई = स्त्री अस्य विष्णोः पत्नो ङीष्। लक्ष्म्याम्।
ई = कान्तौ (इच्छायाम्) गतौ व्याप्तौ क्षेपे भोजने सक० गर्भग्रहणे अक० अदादि अनिट् पर०। एति ईतः इयन्ति। ऐत्। ऐषीत्। इयाय इयतुः। एता एष्यति ऐष्यत्। “ईतः। अस्यात्मनेपदित्वमपि “न हि तरणिरुदीते” दिक्पराधीनवृत्तिः” कविक० टी० दुर्गा०।
ई = याचने द्विक्र० आत्मने० अदादि अनिट् निरु०। ईते इयीत ईताम्। ऐत। ऐष्ट। इये। “आ वोदेवास ईमहे वामं प्रत्यध्वरे” यजु० ४, ५। “अजस्रं घर्ममीमहे” यजु० २६, ६।
ई = गतौ दिवा० सक० अनिट् आत्म०। ईयते ऐष्ट। ईतः “पद्मैरन्वीतबधूमुखद्युतः” माघः। ईङ्–गतौ मल्लि०।
ईक्ष = दर्शने पर्य्यालोचने च भ्वा० आत्म० सक० सेट्। ईक्षते ईक्षीत ईक्षताम् ऐक्षत ऐक्षिष्ट ईक्षाम्–बभूव आस–चक्रे–ईक्षिता ईक्षिषीष्ट ईक्षिष्यते ऐक्षिष्यत। ईक्षितव्यः ईक्षणीयः ईक्ष्यः ईक्षिता ईक्षितः ईक्षित्वा वीक्ष्य। ईक्षणम् ईक्षा। ईक्षमाणः। कर्म्मणि ईक्ष्यते ईक्ष्यमाणः। धातुनिर्देशे इक्षतिः ईक्षिः। “न धर्मवृद्धेषु वयः समीक्ष्यते” न कामवृत्तिर्वचनीयमीक्षते” कुमा०। “तदैक्षत बहु स्यां प्रजायेय” श्रुतिः। “स प्रजापतिरीक्षां चक्रे” श्रुतिः “सर्वभूतस्थमात्मानं सर्व्वभूतानि चात्मनि। ईक्षते योगयुक्तात्मा” गीता। “कथमीक्षामहे सर्वे, दुर्य्योधन! तवेप्सितम्” भा० व० २९८ श्लो०। “ऐक्षिष्ट पुंभिः प्रचिनान् स गोष्ठान्” भट्टिः वेदे पदव्यात्यासोऽपि “कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्” कठो०। पृ- ष्टेनशुफाशुभालोचने च तद्योगे शुभाशुभसंबन्धिनि चतुर्थी। “राधीक्ष्योर्यस्य विप्रश्नः” पा०। “यदीयः विविधः प्रश्नः क्रियते तस्मिन् चतुर्थीत्यर्थः। “कृष्णाय ईक्षते गर्गःपृष्टो गर्गः शुभाशुभं पर्त्यालोचयतीत्यर्थः” सि० कौ०। “ईक्षतेर्नाशब्दम्” शा० सू०। “कारणे ईक्षितृत्वश्रवणात्” भा०।
अधि + विवेचने अधीक्षते “कुहकचकितोलोकः सत्येऽप्यपाय मधीक्षते” हितो०।
अनु + अनुचिन्तने। “तामन्वीक्षत इयं वै वल्मीकवपेयम्” शत० ब्रा० ६, ३, ३, ५। “अन्वीक्षमाणीरामस्तु विषण्णं भ्रान्तचेतनम्” रामा०।
अप–आकाङ्क्षायामनुरोधे अवधिनियमे च। “अपेक्षते प्रत्ययमुत्तमं त्वाम्” कुमा० “अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम्। परोपकारनिरतामणिदीपा इवोत्तमाः” उद्भटः। “किमपेक्ष्य फलम् पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः” किरा०। “द्वित्वादयः परार्द्धान्ता अपेक्षाबुद्धिजामताः” “अपेक्षाबुद्धिनाशाच्च तेषां नाशः प्रकीर्तितः” भाषा० “शब्दोव्यञ्जकत्वेऽर्थान्तरमपेक्षते” सा० द०। “सापेक्षत्वेऽप्रि गमकत्वात् समासः” पा० भा० “सा प्रक्रिया या कथमित्यपेक्षा” मीमा०। “नदीशः परिपूर्णोऽपि मित्रोदयमपेक्षते” चन्द्रा०।
वि + अप + विशेषेणापेक्षयाम्। “न व्यपैक्षत समुन्सुकाः प्रजाः” रघु०। “व्यपेक्षमाणौ सहसीतयागतौ” रामा० “सभर्थः पदविधिः” पा० भा० व्यपेक्षाऽव्यपेक्षापक्षद्वयमुपन्यस्तम्। तत्र व्यपेक्षापक्षोमतान्तरेण उपन्यस्तः स च युक्तिविरुद्धत्वात् कैयटविररणादौ दूषितः “वाक्यवत् सा व्यपेक्षाऽपि वृत्तावपि न हीयते” भर्तृ०। सा च शब्दबोधिपयोगिन्याकाङ्क्षारूपा आकाङ्क्ताशब्दे विवृतिः।
अव + चाक्षुषदर्शने। “योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः” गीता। “अवेक्षमाणोमहतीं मुहुर्मुहुः” माघः सम्यक्पर्य्यालोचने च। “यदवोचदवेक्ष्य सुन्दरी” किरा०।
अनु + अव + पर्य्यालोचने अनुसन्धाने च “सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः” मनुः।
अभि + अव + भोजनार्थेक्षणे। “यजमानस्य पशूनभ्यवेक्षते” शत० ब्रा० ११, १, ५, ११, “अभ्यवेक्षते अभ्यवहर्तुं पश्यति” भा०।
परि + अव + समन्ताद्दर्शने। “ततो वाचस्पतिर्जज्ञे तं मनः पर्य्यवेक्षते भा० आश्व० २१ अ०।
प्रति + अव + प्रतीत्य पर्य्यालोचनया दर्शने। “अथेमां प्रत्यवेक्षमाणो जपति” शत० ब्रा० ५, ३, ४, २०।
सम् + अव + सम्यग्दर्शने। “नृपोपमोऽयं समवेक्षते सभाम्” भा० वि० २१८ श्लो०। “यदि दृष्टं बलं सर्व्वं वयञ्च समवेक्षिताः” भा० आ० २५ अ०। सम्यक्पर्य्यालोचने च “सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा” मनुः।
आ + सम्यग्दर्शने। “स्मयन्निवैक्ष्य पाञ्चालोम्” भा० स० २३८०१
उद् + ऊर्द्ध्वदर्शने। “सहस्ररश्मिना साक्षात् सप्रणामसुदीक्षिताः” कुमा०। अपेक्षायाञ्च “त्रीणि वर्षाण्युदीक्षेत कुमार्य्यृतुमती सती” मनुः।
उप + हेयत्वज्ञानेन परित्यागे “उपेक्षया स्वत्वहानिः” दायभा० टी० “ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्” भा० व० ११ अ० प्रतिचिकीर्षाभावे “उपेक्षते यः श्लथवन्धिनीर्जटाः” कुमा० “नीपपेक्षेत क्षणमपि राजा साहसिकं नरम्” मनुः अपर्य्यालोचने अनुसन्धानाभावे च “गूढेन चरता तत्त्वमुपेक्षितमिदं मया” रामा०।
सम + उप + सम्यगुपेक्षायाम्। “शत्रुपक्षं समाधातु योमोहात् समुपेक्षते” भा० स० १०६० श्लो०।
निस् + निर् + निःशेषेण दर्शने निश्चयार्थं दर्शने च। “यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्” गीता।
परि + तत्त्वानुसन्धाने प्रमाणाद्युपन्यासेन वस्तुतत्त्वावधारणे च “परीक्ष्य लोकान् कर्म्मचितान्” श्रुतिः। न्यायसूत्रवृत्त्यादौ प्रमाणप्रेमेयादि परीक्षा बहुशो दर्शिता। सम्यक्विवेचने च। “नैता रूपपं रीक्षन्ते नासां बयसि संस्थितिः। सुरूपं वा विरूपं वा पुमानित्ये व भुञ्जते” मनुः। लक्षणादिमत्त्वेन ज्ञाने च अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः। मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये” भा० आश्व० ३० २७ श्लो०। “यत्नात् परीक्षितः पुं स्त्वे” या० स्मृ०। “सर्व्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः” हितो० भक्तिमत्त्वादिना ज्ञाने च। “मायां मयोद्भाव्य परीक्षितोऽसि” रघुः। विवादे सत्यत्वासत्यत्वादिसंशयनिरासाय स्वपक्षप्रामाण्यव्यवस्थापनाय शपथकरणे तुलापरीक्षादि। परीक्षाशब्दे विवृतिः।
प + प्रकर्षेण दर्शने “प्रेक्षन्ते सर्व्वभूतानि वहुशः पर्व्वसन्धिषु” भा० व० ११ ६५७। “यत् किञ्चिद्दर्शवर्षाणि सन्निधौ प्रेक्षते धनी” भा० व० मनुः। “उदायुधानापततस्तान् दृप्तान् प्रेक्ष्य राघवः” रघुः। “पुनः प्रेक्ष्य च शूलिनम्” कुमा०।
अभि + प्र + आभिमुख्येन दर्शने। “प्राचीं दिशमभिप्रेक्ष्य महर्षि रिदमब्रवीत्” भा० व० १६३ अ०। “दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदद्रुवुः” भा० व० ८८ अ०।
उत् + प्र + उत्प्रेक्षायां किञ्चिर्द्धर्म्मसाधर्म्येणान्यस्यान्यरूपता कल्पने उद्भावने च। “उत्पेक्षामोवयं तावन्मतिमन्तं विभीषणम्” रामा०। “तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिन सान्” अमरुश०। “भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना” सा० द०। “अलङ्कारशब्दे ३९५ पृष्ठे विवृतिः।
सम् + प्र + सम्यग्दर्शने। “संप्रेक्ष्य नासिकाग्रं स्वा” गीता “योगक्षेमं च संप्रेक्ष्य बणिजोदापयेत् करम्” मनुः।
अभि + सम् + प्र + आभिमुख्येन सम्यग्दर्शने। “अभिसंप्रेक्ष्य भर्त्तारं क्रुद्धा वचनमब्रवीत्” भा० आदि० प० ३० ११।
प्रति + अनुरोधे अपेक्षायां पूजने च। “प्रतीक्ष्यं तत् प्रतीक्ष्यायै पितृस्वस्रे प्रतिश्रुतम्” माघः “प्रथमं संस्थिता भार्य्या पतिं प्रेत्य प्रतीक्षते” भा० आ० ३० ३३। नाभिनन्देत मरणं नाभिनन्देत जीवितम्। कालमेव प्रतीक्षेत” मनुः। “संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः” मनुः।
सम् + प्रति + सम्यक्प्रतीक्षायाम् “मुहूर्त्तं संप्रतीक्षस्व” भा० आ० २९० ३। “एकवेणीधरा हि त्वां नगरी संप्रतीक्षते” रामा०।
वि + विशेषेण दर्शने। “वीक्षन्ते त्वां विस्मिताश्चैव सर्वे” गोता। “सीमाज्ञाने नृणां वीक्ष्य नित्य लोके विपर्य्ययम्” मनुः। “जडीकृतस्त्र्यम्बकवीक्षणेन” रघुः।
अनु + वि + सन्ततवीक्षणे पश्चाद्वीक्षणे च। “तस्माद्दिशोऽनुवीक्षमाणोजपति” शत० ब्रा० ५, २, १, २५।
अभि + वि + आभिमुख्येन वीक्षणे। “नचैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्” मनुः।
उद् + वि + ऊर्द्धवीक्षणे। “उद्वीक्षंमाणा भर्त्तारं मुखेन परिशुष्यता” रामा० “पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत” भा० अनु० २ अ० “उद्वीक्षितं प्रकृबिभिर्भरतानुगाभिः” रघुः।
सम् + उद + वि + समन्तादुद्वीक्षणे “निषेदुर्भूमिपाः सर्ते समुद्द्वीक्ष्य परस्परम्” रामा०।
प्रति + वि + प्रतिदर्शने यत्कर्तृकं स्वदर्शनं तस्य स्वेन दर्शने। “ततः सराजा प्रतिवीक्ष्य ताः स्त्रियः” रामा०।
सम् + वि + सम्यग्वीक्षणे।
सम् + सम्यग्दर्शने पर्य्याम्रोच्य दर्शने। “पुरस्तादेव प्रतीचे समीक्षमाणायानुब्रुयात्” शत० ब्रा० ११, ५, ४, १४। “समीक्ष्य वसुधां चरेत्” मनुः। “अग्रहस्तसुमुक्तेन शीकरेण स नागराट्। समैक्षत गुडाकेशम्” मा० आश्व० २२३१ श्लो०। “तान् समीक्ष्य स कौन्तेसः सर्व्वान् वन्धूनवस्थितान्” गीता “उचितमेवैसमीक्ष्यकमतान्मा- रिणः” हितो० “समीक्ष्य कुलधर्म्मांश्च स्वधर्म्मं प्रतिपादयेत्” मनुः।
प्र + सम् + प्रकर्षेण सम्यगीक्षणे। “सह सर्व्वाः समुत्पन्नाः प्रसमीक्ष्यापदोभृशम्” मनुः “कुलं ख्यातिञ्च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य च” भा० आ० ४३७४ श्लो०।
ईक्षण = न० ईक्ष–भावे ल्युट्। १ दर्शने। करणे ल्युट्। २ नेत्रे। तत्र दर्शने “खिन्नः कार्य्येक्षणे नॄणाम्” मनुः नेत्रे। “अभिमुखे मयि संवृतमीक्षणम्” शकु० “सदा संरब्धनयनौ सदा चानिमेक्षणौ” भा० आ० ३३ अ०। “इत्यद्रिशोभा प्रहितेक्षणेन” रघुः।
ईक्षणिक = त्रि० ईक्षणं हस्तरेखादीक्षणेन शुभाशुभदर्शनं शिल्पमस्य ठन्। शुभाशुभफलकथनोपजीविनि सामुद्रिके। स्त्रियां टाप्। “मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह” मनुः”
ईक्षति = पु० ईक्ष–धात्वर्थनिर्देशे श्तिप्। ईक्षणे। “ईक्षतेर्नाशब्दम्” शा० सू०।
ईक्षा = स्त्री ईक्ष–भावे अ टाप्। ईक्षणे १ दर्शने २ पर्य्यालोचने च “स ईक्षां चक्रे” श्रुतिः “श्रवणादनु ईक्षा अन्वीक्षा”। न्यायसू० वृत्तिः। आन्वीक्षिकीशब्दे विवृतिः।
ईक्षेण्य = त्रि० ईक्ष–बा० एन्य। ईक्षणीये दृश्ये “ईक्षेण्यासोऽह्योऽनः” ऋ० ९, ७७, ३। “ईक्षेण्यासः ईक्षणीयाः” भा०।
ईख = गतौ इदित् भ्वा० पर० सक० सेट्। ईङ्खति ऐङ्खीत्। ईङ्खाम् बभूव आस चकार। ईङ्खिता ईङ्खिष्यति ऐङ्खिष्यत्। ईङ्खितः “सन्त्रासमवितः शक्रः प्रैङ्खच्च क्षुभिता क्षितिः” भट्टिः “भुज्युं समुद्र आ रजसः पार ईङ्खितम्” १०, १४३, ५। णिचि ईङ्खयति। “यईङ्खयन्ति पर्वतात्तिरः समुद्रमर्णवम्” ऋ० १, १९, ७। “इङ्खयन्तोरपस्युव इन्द्रं जातमुपासते” ऋ० १०, १५, ३, १। “इङ्खयन् परिजना पबिद्धया रघुः।
ईग = गतौ इदित् इगिवत्। ईङ्गति ऐङ्गीत् ईङ्गते इत्येके।
ईज = गतौ निन्दायाञ्च म्वा० आत्म० सक० सेट्। ईजते ऐजत ऐजिष्ट ईजाम्–बभूव आस चक्रे। ईजिता ईजिष्यते ऐजिष्यत।
ईज = गतौ निन्दने च इदित् भ्वा० आत्म० सक० सेट्। ईञ्जते ऐञ्जिष्ठ। ईञ्जाम्–बमूव आस चक्रे! ईञ्जितम्। अयम् अपाणिनीयः कविकल्पद्रुमे तु पठितः।
ईजान = त्रि० यज–ताच्छील्ये कानच् द्वित्वम्। यजमाने यागशीले। “ततोमहद्भिः क्रतुभिरीजानो भरतस्तदा” भा० आ० ९४ अ०। “यः सेतुरीजानानामक्षरं ब्रह्म यत् परम्” कठी०।
ईड = स्तुतौ अदा० आत्म० सक० सेट्। ईड्वे ईडिषे ईडिध्वं ऐडिष्ट ईडाम्–बभूव आस चक्रे। ईडिता ईडिष्यते ऐडिष्यत। ईद्ध्यः ईडितः ईडनम् ईडा। “अग्निमीडे पुरौहितम्” ऋ० १, १, १। डकारं लकारतया बह्वृचाः पठन्ति। “अज्मध्यस्थडकारञ्च लकारं बह्वृचा जगुः। अज्मध्यस्थढकारञ्च ल्हकारं तु यथाक्रममिति” ऋ० भा० वाक्योक्तेः। वङ्गदेशसम्प्रदायस्तु तयोः अज्मध्यस्थयोः डढकारतया पाठः इति भेदः। यास्कस्तु “ईडिरध्येषणकर्म्मा पूजाकर्मा चेत्याह “गन्धर्वाः सुरसङ्घाश्च बहवश्च महर्षयः। अन्तरीक्षं गतं देवं गीर्भिरग्र्यामिरीडिरे” रामा० “नेडिषे यदि काकुत्स्थम्” भट्टिः “ईडानो देवा इष्टानाम्” ऋ० १०, ६६, १४। “भवन्तमीड्यं भवतः पितेव”। “शालीनतामव्रजदीद्ध्यमानः” इति च रघुः। “अग्निः पूर्व्वेभिरृषिभिरीड्योनूतनैरुत” ऋ० १, १, २। णिचि ईडयति ते ऐडिडत् त।
ईडा = स्त्री ईड–भावे अ स्त्रीत्वात् टाप्। स्तुतौ।
ईडित = त्रि० ईड–क्त। स्तुते यस्य स्तवः कृतस्तस्मिन्।
ईडेन्य = त्रि० ईड–बा० एन्य। १ स्तवनीये २ पूजनीये च। “ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः” ऋ० १, १४६, ७।
ईण्मत् = त्रि० ईट् अस्त्यस्य मतुप् स्त्रियां ङीप्। सनाथे ईश्वरवति। ईण्मन्तमाचष्टे णिच् मतोर्लुक्। ईशयति।
ईति = पु० ईयते ई–क्तिच्। १ डिग्वे, २ उत्पादिते त्रि० ३ प्रवासे, “अतिवृष्टिरनावृष्टिः शलभाः मूषिकाः खगाः। प्रत्यासन्नाश्च राजानः षडेताईतयः स्मृता” इत्युक्ते ४ कृषेरुपद्रव भेदे च स्त्री। “निरीतिभावं गमितेऽतिवृष्टयः” नैष० “निरातङ्कानिरीतयः” रघुः “ईतयोव्याधयस्त्रन्त्रीर्दोषाः क्रोधादयस्तथा। उपद्रवाश्च वर्तन्ते आधयः क्षुद्भयं तथा” भा० व० १४९ अ०।
ईदृक्ष = त्रि० अयमिवपश्यति इदम् + दृश–कर्मकर्त्तरि क्स इशादेशः दीर्घः। ईदृशे एतद्रूपदर्शने एवंविधे। “ईदृक्षास एतादृक्षास उ षु णः सदृक्षासः” वाजसने० १७, ८।
ईदृश् = त्रि० अयमिव पश्यति इदम् + दृश–कर्मकर्त्तरि–किन् इशादेशः दीर्घः। १ एतादृशदर्शनवति एवंविधे “ईदृङ् नान्यादृङ् च सट्टङ् च प्रति सदृङ्” यजु० १७, ८१। “इमं पुरोडाशं गृहीत्वा पश्यतीति ईद्वङ् वेददी० व्याख्यानात् २ तदर्थेऽपि। तस्य भावः त्व ईदृक्त्वं तद्भावे न० तल्। ईदृक्ता तस्य भावे स्त्री। “विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा” रघुः।
ईदृश = त्रि० अयमिव पश्यति इदम् + दृश–कर्मकर्त्तरि कङ् इशादेश। दीर्घः। एवंविधदर्शनवति। “ईदृशैश्चरतैर्जाने सत्यं दोषाकरो भवान्” चन्द्रा०। “यच्चान्यत् किञ्चिदीदृशम्”। “न हीदृशमनायुष्यं लोके किञ्चन विद्यते” प्रेत्येह चेदृशा विप्रागर्ह्यन्ते ब्रह्मवादिभिः” मनुः। “तानोमृडान ईदृशे” ऋ० १, १७, १। “ईदृशे एवं विधे” भा०। स्त्रियां ङीप् “सर्व्वेषामीदृशी रसाभिव्यक्तिः” सा० द०। मुग्धवोधकारस्तु अयभिव दृश्यते इति विग्रहं क्सादौ चकार तच्च “कर्त्तरि कृदिति” पा० अनुशासनविरोधादुपेक्ष्यम्।
ईप्सा = स्त्रो आप्तुमिच्छा आप–सन्–अ। १ आप्तुमिच्छायाम् २ इच्छायाञ्च। “ईर्ष्येप्सा पिशुनं शुद्धं ममत्वं परिपालनम्”। भा० आश्व० ३७ अ०।
ईप्सित = त्रि० आप–सन् क्त। १ आप्तुमिष्टे क्रियाफलेन व्याप्तमिष्टे “कर्त्तुरीप्सिततमं कर्म्म” पा०। “निर्वर्त्त्यञ्च विकार्य्यं च प्राप्यञ्चेति त्रिधा मतम्। तच्चेप्सिततमं कर्म्म चतुर्द्धान्यत्तु कल्पितम्” भर्त्तृ० “तमब्ग्रहणं किभीप्सितमात्रे मा भूत्” सि० कौ०। २ इच्छाविषये च।
ईप्सु = त्रि० आप्तुमिच्छुः। आप + सन्–उ। आप्तुमिच्छौ। “मन्दःकवियशःप्रेप्सुरिति” रघुः पाठान्तरं “शौचेप्सुः सर्व्वदाचामेत्” मनुः। “धर्मेप्सवस्तु धर्म्मज्ञाः” मनुः। “सौरभ्यमीप्सुरिव तेमुखमारुतस्य” रघुः।
ईम् = अव्य० ई–वा मुच्। १ अथशब्दार्थे। “एमेनमवृधन्नमृता” यजु० ३३, ६०। “आ ईम् एतौ निपातौ अथार्थौ” वेददी० २ इदमर्थे च। “चयत ईमर्य्यमो अप्रशस्तान्” ऋ० १, १६, ७, ८। “इह ब्रवीतु य ईसमङ्ग वेदस्य” ऋ० १, १६४, ७। “सोमेभिरी पृणता भोजमिन्द्रम्” ऋ० २, १४, १०। “ईमिमम्” इति भा०।
ईय = त्रि० ई–बा० क्यप्। व्याप्ये। “आयद्वा ईयचक्षसा” ऋ० ५, ६७, ६ “ईयचक्षसा व्याप्तदर्शनौ” भा०।
ईयिवस् = त्रि० इण्–क्वसु। “गतवति। क ईयिवान् मुदम्” मुग्धबो० “प्रतीयुषा पूर्ददृशे जनेन” भट्टिः। “उपेयुषो मोक्षपयं मनस्विमः” माघः। “उपेयिवानित्यादि” पा० सू० उपेत्युलक्षणात् अन्यत्रापि क्वसुः।
ईर = गतौ प्रेरणे च चुरा० उभ० पक्षे भ्वा० पर० सक० सेट्। ईरयति ते–ईरति ऐरिरत्–त–ऐरीत्। ईरयाम्–ईराम् वा बभूव आस चकार। ईरयिता। ईरिता ईरयिष्यतिईरिष्पति। ईरणम्। ईरितः इरयन्–इरन्। ईरः ईर्य्य- माणः। “आपः समुद्रमैरयन्” ऋ० ८, ६, १३। “अंशोरूर्म्मिमीरय” ऋ० ९, ७९, १४। “यदस्य शुष्ममैरयन्” ऋ० २, १७, ३ “ऐरिरच्च महाक्रमम्” भट्टिः कथने च। “अथ वाचमीरयति” शत० ब्रा० “ब्रह्मा रथन्तरं साम ईरयति भवान्तिके भा० आनु० १४ अ०। विरोधवाक्यञ्च यथेर्य्यमाणम्” भा० व० १३३ अ०। “दमयन्त्या यथेरितम्” भा० व० २७४३। “हितं न गृह्णन्ति सुहृद्भिरीरितम्” रामा० “इतीरिता पत्ररथेन तेन” इतीरयित्वा विरचय्य वाङ्मयम्” नैष०।
उद् उत्क्षेपणे। “उदीरयामासुःसलीलमक्षान्” रघुः। उच्चारणे कथने च “यदशोकोऽऽयमुदीरिष्यति” रघुः। “उदीरयामासुरिवोन्मदानाम्” रघुः।
अभि + उद् + आभिमुख्येनोच्चारिते। “आस्तीकस्तिष्ठस्तिष्ठेति वाचस्तिस्रोऽभ्युदैरयन्” मा० अ० २१७१।
सम् + उद् + सम्यगुच्चारे समुत्तीलिते च। पांशवोऽपि कुमक्षेत्रे वायुना समुदीरिताः” भा० व० ५०७०।
प्र + प्रेरणे। प्रेरयति। “समीरणः प्रेरयिता भवेति” कुमा०। “अपः प्रेरय सागरस्य बुध्नात्” अ० १०, ८९, ४। “किमुद्दिश्य काश्यपेन मत्सकाशमृषयः प्रेरिताः स्युः” शकु० “यात्रायै प्रेरयामास तं शक्तेः प्रथमं शरत्” रघुः।
सम् + सम्यक्प्रेरणे समुगुच्चारणे सम्यग्गतौ च “समीरणः। “समीरयाञ्चकाराथ राक्षसस्य कपिः शिलाम्” भट्टिः। “ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः” भा० व० १२१८ अ०।
ईर = अदा० आत्म० सक० सेट्। ईर्त्तेईराते ईरते ऐवत ऐरिष्ट ईराम् बभूव आस–चक्रे ईरिष्यति “द्रप्सा मधुमन्त ईरते” ऋ० ५, ६३, १४ “रुशदीर्त्ते पयो गोः” ऋ० ९, ९१, ३। “अस्मे राजास ईरताम्” ऋ० ४, ८, ७। वायुप्रच्युतादिवोवृष्टिरीर्त्ते” तैत्ति०। अस्मात् निष्ठाया नेट्। “न हि राज्ञानुदीर्ण्णानाम्” भा० आ० ५१३८ श्लो०। “उदीर्ण्णरागप्रतिरोधकम् मुहुःः” माघः। अस्यैव पक्षे चुरादित्वं तेन न तस्य भ्वादित्वमित्येके।
ईरण = न० ईर–भावे ल्युट्। १ प्रेरणे २ सतौ च। युच्। ईरणा तत्रैव स्त्री। नन्द्या० ल्यु। ३ प्रेरके त्रि० “समीरणः प्रेरयिता भवेति” कुमा०।
ईरामा = स्त्री ईर्लक्ष्मोस्तया रम्यतेऽत्र रम–आधारे घञ् ६ त०। नदीभेदे। “ईरामाञ्च महभदीम्” भा० व० १८८ अ०।
ईरिण = त्रि० ईर–इनन्। उपरभूमौ। मेदि० “ततस्तदीरिणं जातं समुद्रस्यावसर्पिकम्” भा० अनु० ७२५७ श्लो०। “वशिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूर्त्तेनैव निःशब्दमासीरिणसन्निभम्” रामा०।
ईरिन् = त्रि० ईर–णिनि। १ प्रेरके २ गन्तरि च स्त्रियां ङीप्। स्वशब्दादस्य वृद्धिरेका० स्वेरी स्वेरिणी। “रे रे स्वैरिणि! र्निवाचारकविते मास्मत् प्रकाशीभव” चन्द्रा० ३ राजमेदे पु०। “धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः। शतञ्च ब्रह्मदत्तानामीरिणाञ्च शतं तथा” भा० स० ८ ३० श्लो० यमसभासद्वर्णने
ईर्क्ष्य = ईर्ष्यायां परवृद्ध्यहिष्णुतायाम् भ्वा० पर० सक० सेट्। ईर्क्ष्यते ऐर्क्ष्यीत्। ईर्क्ष्याम् बभूव आस चकार। ईर्क्ष्यिता ईर्क्ष्यात् ईर्क्षिष्यति ऐर्क्षिष्यत्। ईर्क्ष्या।
ईर्त्सा = स्त्री ऋध–सन्–अ। वृद्धीच्छायाम्।
ईर्त्सु = त्रि० ऋध–सन्–उ। वर्द्धितुमिच्छौ।
ईर्म्म = न० ईर–मक्। व्रणे। ह्रस्वादिरयमिति बहवः पृषो० ह्रस्वः। अस्य पुंस्त्वमपि। “तदाहुरीर्म्म इव वा एवां होत्रा यदच्छावाक्या” ता० ब्रा० ४, २, १०। “ईर्म इव वा एषा होत्राणां यदच्छावाकः” “ईर्म इव तुष्टुवानाः” इति शाट्या० “तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मावथास्य प्रतीची दिक् पुच्छम्” शत० ब्रा० १०, ६, ५०, ३। तेन “व्रणोऽस्त्रियामीर्ममरुः इत्यमरेऽस्त्रियामिति संदंशपाठादुभयत्रान्वे तोति बोध्यम्। दक्षिणशब्दात् लुब्धयोगेन कृतव्रणार्थे अस्मान् अनिच् दक्षिणेर्मा व्याधेन कृतव्रणे मृगे। “मृगयुमिव मृगोऽथ दक्षिणेर्मा” भट्टिः। २ प्रेरिते त्रि० “ईर्मान्तासः सिलिकमध्यमानः” ऋ० १, २०३, १०। ईर्मान्तासः ईर्माईरिताः प्रेरिता अन्तायेषां ते” भा०।
ईर्य्या = स्त्री इर–ईष्यांयां कण्ड्वा० यक् रोपधत्वात् दीर्घःभावे अ स्त्रीत्वात् टाप्। १ ईर्ष्यायाम्। ईर्य्यते ज्ञायते परात्माऽनया ईर–गतौ ण्यत्। २ भिक्षुचर्य्यायाम् सा च ध्यानमौनादिकरूपा। “चर्य्या चेर्य्यापथे स्थितिः” अमरः। “कल्याणा पुनरियं प्रव्रजितस्यैर्य्या”।
ईर्य्यापथ = पु० ईर्य्यारूपः पन्था कर्म्मधा० अच् समा०। ध्यानमौनादिरूपे प्ररिव्राजकस्य ज्ञानसाधानोपायभेदे।
ईर्वारु = पुं स्त्री० ईर–भावे सम्प० क्विप् ईरमीरणं वृणोति वारयति वा उण्। कर्कट्याम् शब्दर०।
ईर्ष्य = परगुणासहने भ्वा० पर० अक० सेट्। ईर्ष्यति ऐर्ष्यीत्। ईर्ष्याम्–वभूव आस चकार। ईर्ष्यिता ईर्ष्यिष्यति ऐर्ष्यिष्यत्। णिचि ईर्ष्ययति ते त ऐर्ष्यत् ऐर्षिष्यत् त। सनि ईर्ष्यिपिषति। ईर्ष्या ईर्ष्यितः। “पत्युर्वार्द्धकमीर्ष्यितं प्रसवनं नाशस्य हेतुः स्त्रियाः” हितो। ईर्ष्यितव्यम्। “तस्माद्भिक्षुषु दाराणां क्रमणेषु नेर्ष्यितव्यमिति” प्रबो०।
ईर्ष्यक = त्रि० ईर्ष्य–ण्वुल्। १ ईर्ष्याकारिणि। “दृष्ट्वा व्यवायमन्येषां व्यववाये यः प्रवर्त्तते। ईर्ष्यकः स तु विज्ञेयः” इति सुश्रुतोक्ते २ क्लीवभेदे पु०। “आसेक्यश्च सुगन्धी च कुम्भीकश्चेर्ष्यकस्तथा। सरेतसस्त्वमी ज्ञेया अशुक्रः षण्डसंज्ञितः” सुश्रु०। क्लीवशब्दे विवृतिः।
ईर्ष्या = स्त्री ईर्ष्य–भावे अ स्त्रीत्वात् टाप्। अक्षमायाम् परवृद्ध्यसहिष्णुतायाम्। “पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः” मनुः एतेषाञ्च क्रोधप्रभवत्वात् क्रोधजत्वम् अतएव “क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः” पा० “द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्तेऽतो विशेषणं सामान्येन यं प्रतिकोपः” सि० कौ०। “ईर्ष्याशोकक्लमापेता मोहमात्सर्य्यवर्ज्जिताः” भा० व० २६० “त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मगमानोऽब्रवीदिदम्” भा० अनु० २ अ०। अयं शब्दोनिर्यकार इति केचित् “ईर्ष्यतेस्तृतीयस्येति” वार्त्ति० उक्तेः कविकल्पद्रुमे, पा० गणपाठे च यान्ततया पाठात् निर्यकारपाठे मूलं मृग्यम्। तेन सयकारएव साधीयान्।
ईर्ष्यालु = त्रि० ईर्ष्यां लाति ला–बा० डु। ईर्ष्यायुक्ते।
ईर्ष्यु = त्रि० ईर्ष्य–उण्। अक्षमाशीले “ईर्ष्युर्गन्धर्वराजो व जलक्रीडामुपागतः” भा० आ० १७० अ०। “पर्य्यशङ्कत तामीर्ष्युः सुग्रीवगतमानसाम्” भा० २७९ अ०।
ईला = स्त्री ईड–क डस्य लः। १ पृथिव्यां, २ वाचि, ३ गवि, च। अस्य ह्रस्वादित्वमेवेति बहवोमन्यन्ते शब्दार्थचिन्तामणौ तु दीर्घपाठः। तन्मूलं मृग्यम्।
ईलि(ली) = स्त्री ईर्य्यते ईर–इन् रस्य लः वा ङीप्। १ करपालिकायाम् (काटारी) २ ह्रस्वगदाकारे हस्तदण्डे च। भरतः।
ईलित = त्रि० ईड–क्त डस्य लः। स्तुते अमरः।
ईलिन = पु० ईड–इनन् डस्य लः। चन्द्रवंश्ये नृपभेदे। “ईलिनं तु सुतं तंसुर्जनयामास वीर्य्यवान्” “ईलिनोजनयामास दुष्मन्तप्रभृतीन् नृपान्” भा० आ० ९३ अ०। “तंसुं स्वरस्वती बुत्रं मतिनारादजीजनत्। ईलिनं जनयामास कालिङ्ग्यां तंसुरात्मजम्”। “ईलिनस्तु रथन्तर्य्यां दुष्मन्ताद्यान् पञ्चपुत्रानजोजनत्” भा० आ० ९५ अ०।
ईवत् = त्रि० ई–गतौ भावे क्विप् अस्त्यर्थे मतुप् वेदे नि० मस्य वः गतिमति “य ईवते ब्रह्मणे गातुमेगत” ऋ० ४, ४, ६। “अस्य घावीर ईवतोऽग्ने रीलीत मर्त्यः” ऋ० ४, १५, ५ “मक्षू द्विष्मा गच्छथ ईवतो द्यून्” ऋ० ४, ४३, ३ “प्राय वसुभ्य ईवदानमोवः” ऋ० ५, ४९, ५ “जनाय चिद्य ईवत उ लोकं चकार” ऋ० ६, ६३, २। “उपश्रोतास ईवतोवचांसि” ऋ० ७, २३, १। लोके तु ईमानित्येव स्त्रियां ङीप्।
ईश् = ऐश्वर्य्ये अदा० आत्म० सक० सेट्। १ ईष्टे, ईशिषे ईशिध्वे ऐशिष्ट। ईशाम्–बभूव आस चक्रे। ईशिता ईशिषोष्ट ईशिष्यते ऐशिष्यत। ईशनम् ईशिता। ईशितः। ईशा। ईशित्वा। “धनानामीशते यज्ञाः”। “यदीशिषे त्वं न मयिस्थिते च” भट्टिः। “पुरुषोवै पशूनामैन्द्रस्तस्मात् पशूनामीष्टे” शत० ब्रा० ४, ५, ५, ७। एतद्योगे कर्म्मणः सम्बन्धत्वविवक्षायां षष्ठी। वेदे तु क्वचित् णिचि न आमु। “सहस्र एषां पितरश्च नेशिरे” ऋ० १०, ५६, ७। ताच्छील्ये चानश् ईशानः।
ईश् = त्रि० ईश–क्विप्। ईश्वरे “ईशावास्यमिदं सर्वम्” यजु० ४०, १, “नमो देवेभ्यो नम ईश एषां कृतं चिदेनोमनमा विवासे” ऋ० ६, ४१, ८। “स देवानामीशां पर्य्येतु स ईशानोऽभवत्” अथ० १५, १, ५। “सह एवेशामारण्यानां पशूनामवरुन्धे” शत० ब्रा० १२, ७, २, ८।
ईश = पु० ईश–क। १ ईश्वरे “वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे” कुमा० “वागीशाद्याः सुनमनसः सर्व्वार्थानामुपक्रमे” माधवः “इत्थं क्षितीशेन वसिष्ठधेनुः” रघुः १ परमेश्वरे पु०। “लोकेश! चैतन्यमयादिदेव!” प्रातः कृत्ये पुरा०। “ईशस्यैष निवेशितः पदयुगे भृङ्गायमाणं भ्रमत्” न्यायचर्चेयमीशस्य मनव्यपदेशभाक्” कुसुमा०। ३ महादेवे। “ब्रह्माच्युतेशार्कवनस्प तीनाम्” “स्वमन्त्रतोहोमचतुष्टचं स्यात्” हेमा० मत्स्यपु०। मल० त० “ब्रह्माच्यु शानवनस्प तीनामिति” पाठः। रुद्रसंख्यातुल्यसंख्याकत्वात् ४ एकादशसंख्याम्। “तारोमाया वर्म्मवीजमृद्धिरीशस्वरान्विता” तन्त्रसारे त्वरितामन्त्रोद्वारे ईशस्वर एकादशस्वर एकार इति कृष्णा० ५ तद्दैवात्ये आर्द्रानक्षत्रे च। “नेशेज्याग्निविशाखवाय्व हिमघायाम्यैः” राजमा०।
ईशकोण = पु० ईशस्रामिकः कोणः। पूर्वोत्तरायां विदिशि ईशदिगादयोऽप्यत्र। तत्कोणस्य ईशाधिदेवत्वात् तथात्वम्। “इन्द्रोवह्निः पितृपतिर्नैरृतोवरुणोमरुत्। कुवेर ईशः पतयः पूर्ब्बादीनां दिशां क्रमात्” इत्यमरोक्तेस्तथात्वम्। वृहस्प तेस्तदोशत्वं यात्राद्यर्थतया” ज्योति० उक्तम्। “सूर्य्यः शुक्रः क्षमापुत्रःसैं हिकेयः शनिः शशी। सौम्यस्त्रिदशमन्त्री च पूर्व्वादिकदिगीश्वरा” इति निरूप्य “दिगीशाहे शुभा यात्रा पृष्ठाहे मरणं ध्रुवमिति” तद्विपरीतदिशि यात्रा निषिद्धा।
ईशन = न० ईश–भावे ल्युट्। ऐश्वर्य्ये “य ईशेऽस्य जगतोनित्यमेव नान्योहेतुर्विद्यत ईशनाय” श्वेताश्व० उ०। ईशे ईष्टे इत्यर्थः। “सर्पिष ईशनमत्र न समासः” सि० कौ०।
ईशपुरी = स्त्री ६ त०। काश्याम् ईशनगर्य्यादयोऽप्यत्र।
ईशबल = न० ईशकृतं बलम्। पाशुपतमतसिद्धे पाशुपतानां द्वितीये पाशे “तासां माहेश्वरी शक्तिः सर्व्वानुग्राहिका शिवा। धर्मानुवर्तनादेव पाश इत्युपचर्य्यते” इत्युक्तवले पाशुपतशब्दे विवृतिः।
ईशसख = पु० ६ त० टच्समा०। कुवेरे। बहु० म टच्। ईशसखा इत्येव। ईशमित्रादयोऽप्यत्र। ईशेन यथाऽस्यसख्यं तथा भारते वर्णितं यथा। “पितामही रावणस्य साक्षाद्देवः प्रजापतिः। स्वयम्भुः सर्वलोकानां प्रभुः स्रष्टा महातपाः। पुलस्त्यो नाम तस्यासीन्मानसोदयितः सुतः। तस्य वैश्रवणी नाम गवि पुत्रोऽभवत् प्रभुः। पितरं स समुत्सृज्य पितामहमुपस्थितः। तस्य कोपात् पिता राजन्! ससर्ज्जात्मानमात्मना। स जज्ञे विश्रवा नाम तस्यात्मार्द्धेन वै द्विजः। प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै। पितामहस्तु प्रीतात्मा ददौ वैश्रवणस्य ह। अमरत्वं धनेशत्वं लोकपालत्वमेव च। ईशानेन तथा सख्यं पुत्रञ्च नलकूवरम्। राजधानीं निवेशञ्च लङ्कां रक्षोगणान्विताम्। विमानं पुष्पकं नाम कामगञ्च ददो प्रभुः। यक्षाणामाधिपत्यञ्च राजराजत्वमेव च” भा० व० २७३ अ०।
ईशा = स्त्री ईश–अ। १ ऐश्वर्य्ये। “ईशायै मन्युं राजानं बर्हिषिदधुरिन्द्रियम्” यजु० २१, ५७। “ईशायै ईशनमीशा” वेददी० ईष्टे ईश–क। २ ऐश्वर्य्यान्वितायां स्त्रियां ३ दुर्गायां च। ईशस्य पत्नीत्यर्थे तु ङीप्। ईशी ईशपत्न्यां दुर्गायाम्।
ईशान = त्रि० ईश–ताच्छील्ये चानश्। १ ऐश्वर्य्यशीले २ रुद्रभूर्तिभेदे पु०। “तमीशानं जगतस्तस्थुषस्पतिम्” ऋ० १, ८९, ५। “ईशानसंदर्शनलालसानाम्” कुमा० ३ तद्देवताके आर्द्रानक्षत्रे तत्तुल्यसंख्यायाम् ४ एकादशसंख्यायाम्। शिवस्य अष्टसु मर्तिषु सूर्य्यमूर्तिरूपतया पूज्ये ५ शियमूर्तिमेदे अष्टौ मूर्त्तीरभिधाय “मूर्त्तयोऽष्टौ शिवस्यैताः पूर्व्वादिक्रर्मयोगतः। आग्नेय्यन्ताः प्रपूज्यास्तु वेद्यां लिङ्गे शितं यजेत्” ति० त० भविष्य पु०।
ईशानादिपञ्चमूर्ति = स्त्री ब० व० ईशानादयः पञ्च मूर्त्तयः। महादेवस्य “ईशानतत्पुरुषाघोरवामदेवसद्योजातरूपेषु पञ्चसु रूपेषु तन्न्यासप्रयोगस्तन्त्रसारे शिवप्रकरणे दृश्यः।
ईशावास्य = पु० ईशा वास्यम् इति पदमस्त्यस्य अच्। “ईशावास्यमिदं सर्वमित्यादिके यजुवेदस्य ४० अध्यायस्थे ब्रह्मविद्याप्रतिपादके उपनिषद्रूपे ग्रन्थे। “यजुर्वेदोपनिष द्गणनायाम् “ईशावास्य, वृहदारण्यक, जावाल, हस, परमहंसेत्यादि मुक्ति० उ०। तत्रोत्तरलोपे ईशापि। “ईशा केन कठप्रश्नः मुण्डमाण्डूक्यतित्तिरिः। ऐतरेयं च छान्दोग्यं वृहदाण्यकं तथा” मुक्ति० उ०। इयमेवेशावास्योपनिषदित्युच्यते।
ईशितृ = त्रि० ईष्टे ईश–तृच् स्त्रियां ङीप्। ईश्वरे। “न तस्य कश्चित् पतिरस्ति नेशिता” श्वेता० उ०।
ईशितव्य = त्रि० ईश–तव्य। १ अधीने यं प्रति ऐश्वर्य्यं क्रियते तस्मिन्। भावे तव्य। २ ऐश्वर्य्येन०।
ईशिता = स्त्री ईशिनो भावः तल्। अणिमाद्यष्टैश्वर्य्यमध्ये सर्वेषां स्वामित्वरूपे १ ऐश्वर्य्ये। त्व ईशित्वमप्यत्र न०। “ईशित्वञ्च वशित्वञ्च तथा कामावसायिता” सां० कौ०। “ईशित्वञ्च वशित्वञ्च त्वघुत्वं मनसश्च ते” भा० आ० ३८ अ० “येन स्थावरादिसर्वभूतानि वशीभूतानि भवन्ति तादृशे योगजन्ये २ धर्मभेदे च। ऐश्वर्य्यशब्दे विवृतिः।
ईशिन् = त्रि० ईष्टे ईश–णिनि। १ ईश्वरे २ प्रभौ ३ पत्यौ। “शंसेद्ग्रामदशेशाय दशेशोविंशतीशिनम्” मनुः स्त्रियां ङीप्। “सर्वाल्लो~कानीशिनीभिः” श्वेता० उ०।
***