इष्टका = स्त्री इष–तक्न् टाप् इष्टकेषीकामालानाम्” पा० निद्दैशान्नात इत्त्वम्। (इट्) मृददिनिर्म्मिते १ मृत्खण्डभेदे यज्ञिये अग्निचयनार्थे २ मृदादिनिर्मिते द्रव्यभेदे च शत० ब्रा० तु निर्वचनान्तरमुक्तं यथा। “यावद्यावद्वैजुहुयात्तावत्तावत् भवतीति तद्यस्मा इष्टेकमभवत्तस्माद्धेवेष्टका” ६,।, २, २३। “तं देवा अग्न्योराहुतिभिरभिषज्यन् ते यांयामाहुतिमजुहवुः सासैनं पक्वेष्टका भूत्वा समपद्यत तद्यदिष्टात् कमभवत्तस्मादिष्टकास्तस्मादग्निना इष्टकाः पचन्त्याहुतीरेवैनास्तत् कुर्वन्ति” इति च तत्रैव। इष्टकाकरणकालप्रकारादि” कात्या० श्रौ० १६, २ क० दर्शितं यथा। “उखासम्भरणमष्टम्याम्” १ सू०। “उस्वायाः सम्भरणमुखा सम्भरणम तदष्टम्यां भवति “अष्टकायामुखां सम्भरतीति (६, २, २, २३) शत० ब्रा० वचनात्। उखा चोपलक्षणम् अषाढाद्यप्यत्र सम्भ्रियतएव ततश्चान्तराले तस्या अपि प्रयोकृत्वम्। सम्प्रदायस्तु फाल्गुनकृष्णाष्टम्याम्” कर्कः “आहवनीयस्य पुरस्तान्मत्या चतुरश्रे श्वभ्रे मृत्पिण्डमवदधाति भूमिसमम्” २ सू०। “भूमिसममन्यूनानतिरिक्तम्” क०। “पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्रां निदधाति” ३ सू०। “पिण्डाहवनीययोर्व्यध्वे अर्धपथे” क०। “व्यध्वे पिण्डाहवनीययोर्मध्ये, वन्मीकवपाम् उपदीकाकृतस्य मृच्चयस्य वपामिव वपाम् अन्तःपुटां छिद्रां छिद्रसंयुक्ताम्” संग्र०। “आहवनीयं दक्षिणेन त्रिवृन्मुञ्जपञ्चाङ्गीबद्धास्तिष्ठन्ति प्राञ्चोऽश्वगर्दभाजाः पूर्वापरा रासभोमध्येऽश्वपूर्वाः” ४ सू०। “आहवनीयस्य दक्षिणतः त्रिवृद्भिर्मुञ्जमयीभिः पञ्चाङ्गीभिः पञ्चाङ्ग्यो मुखरिकाः ताभिर्बद्धास्तिष्ठन्ति प्राङ्मुखाः अश्वगर्द्धभाजाः पूर्वापररीत्या रासभोमध्येऽश्वपूर्वाः” क०। “उत्तरत आहवनीयस्यारत्निमात्र उभयतस्तीक्ष्णा वैणवी सुषिराभ्रिः कल्माष्यभावेऽकल्माषी प्रादेशमात्र्यरत्निमात्री वा” ५ सू०। “आतन्तर्य्यात्पशूनामुत्तरतो मा भूदित्याहवनीयग्रहणम्” क०। “परिपाकवशात्कर्बुरा” संग्र०। “हिरण्मयीमेके” ६ सू०। “एके आचार्य्या इच्छन्ति, अतश्च विकल्पः” क०। “अष्टगृहीतं जुहोति संततमुद्गृह्णन् युञ्जान इति (११, १) ७ सू०। “अष्टगृहीतमाज्यद्रव्यं संततं जुहोति” क०। “देवस्य त्वेति (११, ३) अभ्रिमादाय “हस्त आधायेत्येनामभिमन्त्रयते”। (११, ११) ८ सू०। “अश्वप्रभृतींश्च प्रत्यृचं प्रतूर्त युञ्जाथां योगे योगऽइति (११, १२, १४) ९ सू०। “अभिमन्त्रयते” क०। “अनुपस्पृशन्नुत्क्रमयत्येनान् प्राचः प्रतिमन्त्रं प्रतूर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति” (११, १५, १६) १० सू०। “अग्निषु ज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्यमिति” (११, १६)। (६, ३, ३, १) शत० ब्रा० ११ सू०। “दक्षिणतश्च पशवो युगपत्” १२ सू०। “गच्छतां च दक्षिणतः पशवः, उत्तरतश्च पुरुषाः युगपद्गमनं कुर्वन्ति” क०। “अनद्धा पुरुषमीक्षते देवपितृमनुष्यानर्थकमग्निं पुरीष्यमिति”। (११, १६) १३ सू०। “यो देवादीन्नावति स देवपितृमनुष्यार्थतकः” क०। “वल्मीकवपामादाय छिद्रेण पिण्डमीक्षतेऽन्वग्निरिति” (११, १७) १४ सू०। “दृष्ट्वा निदधात्येनाम्। १५ सू०। “वल्मीकवपाम्” क०। “आगत्येत्यभिमन्त्रयतेऽद्यम्” (११ २८) १६ सू०। “आक्रम्येत्येनेन (११, १९) पिण्डमधिष्ठापयति” १७ सू०। “एनेनेत्यश्वोऽभिधीयते” क० “द्यौस्त इति (११, २०) पृष्ठस्योपरि पाणिं धारयन्ननुपस्पृशन्नुत्क्रामेत्युत्क्रामयति (११, २१) १८ सू०। “अश्वम्” क०। “उदक्रमीदित्यभिमन्त्रयते (११, २२) १९ क०। “अश्वमेव” क०। “आहवनीयवत् स्थापयति पिण्डस्य” २० सू०। “पशून्” क० “उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति (११, २३) “व्यतिषक्ताभ्यामृग्भ्यामाहुती (११, २२, २३) स्रुवेणाश्वपदे” २१ सू०। “मृत्संस्कारत्वादुपविश्येत्युच्यते, व्यतिषङ्गश्च एकस्याः पूर्वार्ध इतरार्धः इतरयोरप्येवमेव” क०। “अभ्र्या पिण्डं त्रिः परिलिखति परि वाजपतिरिति (११, २५ २७) बहिर्बहिरुत्तरयोत्तरयाभ्र्या पिण्डं खनति देवस्य त्वेति (११, २८) २२ सू०। “अभ्रिग्रहणमभ्र्यन्तरनिवृत्त्यर्थम् तथा चाह “अत्र सा वैणव्यभ्रिरुत्सीदतीति “(६, ५,४, ३ शत० ब्रा० उत्तरया परया ऋचा पूर्वलिखिताद्बहिबहिर्बाह्यप्रदेशे परिलिखति”। क० “कृष्णाजिनमास्तीर्योत्तरतस्तस्मिन् पुष्करपर्णमपां पृष्ठमिति” (११, २९) २३ सू०। “तस्मिन्कृष्णाजिने” क०। “विमार्ष्ट्येनद्दिव इति (११, २९) २४ सू०। “पुष्करपर्णम्” क० “आलभत उभे शर्म्म च स्थैति” (११, ३०३१) २५ सू०। “उभे कृष्णाजिनपुष्करपर्णे, शक्यत्वाच्च युगपदालम्भनम्” क०। “पिण्डं पुरीष्योऽसीति (११, ३२)।” २६ सू० “आलभते” क०। “पाणिभ्यां परिगृह्णोत्येनं दक्षिणीत्तराभ्यां दक्षिणः साभ्रिस्त्वामग्नैति” (११, ३२ ३८)। षड्भिः सर्वं सकृद्धृत्वा” २७ सू० “ग्रहणे मन्त्रः “अथैनं परिगृह्णातीति” शत० ब्रा० (६, ४, २, २) वचनात्” क० इति द्वितीया कण्डिका।
“पुष्कतपर्णे निदधाति” १ सू०। “अपः श्वभ्रेऽपनयत्यपो देर्वारिति (११, ३८) २ सू०। “श्वभ्रः पिण्डावटः” क०। सं तैति (११, २९) वा तमपक्षिपति” ३ सू०। “श्वभ्रएव” क०। “अनामिकया संवपति पुरस्तात्पश्चाद्दक्षिणत उत्तरतश्च” ४ सू०। “संवापश्चावटे पुरीषस्य” क०। “आस्तीर्णयोरन्तानुद्गृह्णाति सुजात इति” (११, ४०) ५ सू०। “अस्तीर्णयोः कृष्णाजिनपलाशपर्णयोः” क०। “बन्धनायोभयोः प्रान्तान् सर्वत ऊर्ध्वान् करोति” सग्र०। “त्रिवृता मुञ्जयोक्त्रेणोपनह्यति वासोअग्नैति। (११, ४०) ६ सू०। “उद्गृहीतानन्तान्” क०। “उत्तिष्ठति पिण्डमादायोदु तिष्ठेति” (११, ४१) ७ सू०। “ऊर्ध्वबाहुः प्राञ्चं प्रगृह्णात्यूर्ध्व ऊ षुण इति” (११, ४२) ८ सू०। “प्रसारितबाहुः पिण्डम्” क०। “अवहृत्यीपरिनाभि धारयन्नश्वप्रभृतीनभिमन्त्रयते स जातः स्थिरो मव शिवो भवेति”। (११, ४२, ४५)” ९ सू०। “अवहृत्य पिण्डं नाभेरुपरि धारयन्” क०। “धारयत्येषामुपरि पिण्डमनुस्पृशन् प्रैतु वाजी वृषाग्निमित्यश्वखरयोः” (११, ४६) १० सू०। “एषां पशूनामुपरि पिण्डमनुपस्पृशन् धारयति प्रैतु वाजीत्यश्वस्य, वृषाग्निमिति खरस्य” क०। “अग्न आयाहीत्याहृत्य (११, ४६) खराच्छागस्यर्तं सत्यमित्यानिधानात्” (११, ४७) ११ सू०। “धारयत्यनुपस्पृशन्नेव” क०। “आयन्त्यावर्त्य पशूनजः पुरस्ताद्रासभो मध्ये” १२ सू०। “स्वस्थानस्थितानामेवावृत्तिः” क०। “अनद्धा पुरुषमीक्षते पूर्ववदग्निं पुरीष्यमिति”। (११, ४७) १३ सू०। “अनन्यार्थत्वात् पूर्ववच्छब्देनाग्निषु प्रज्वलत्स्वित्युच्यते (२, ११)” क०। “उत्तरत आहवनीयस्योद्धतावोक्षिते सिकतोपकीर्णे परिवृते प्राग्द्वारे निदधात्योषधय इति” (११, ४७, ४८) १४ सू०। “वि पाजसेति” (११, ४९) प्रमुच्यैनमजलोमान्यादाय प्रागुदीचः पशूनुत्सृजति १५ सू०। “प्रमुच्य पिण्डमजलोमानि गृहीत्वा प्रागुदीचीं दिशं प्रति पशूनुत्सृजति” क०। “आपो हि ष्ठेति (११, ५०) पर्णकषायप्रक्वमुदकमासिञ्चति पिण्डे” १६ सू०। “पर्णकषायं पलाशकषायम्” क०। पलाशत्वग्भिःक्वथितमुदकं पलाशकषायपक्वम्” संग्र०। “फेनं च तूणों ततः कृत्वा” १७ सू०। “तत एवोदकात् पूर्वतरं फेनं कृत्वोदकमासिञ्चति चशब्दात्फेनम्” क०। “अजलोमभिः संसृजति मित्रः संसृज्येति (११, ५३)” १८ सू०। “पिण्डम्”। “शर्करायोरसाश्मचूर्णैश्च रुद्राः संसृज्येति (११, ५४)” १९ सू०। “शर्करा प्रसिद्धा अयोरसो लोहसिङ्घाणः कीट इति यः प्रसिद्धः अश्मचूर्णः पाषाणचूर्णः चशब्दादेतैः पिण्डं संसृजति” क०। “शर्कराः सूक्ष्मकन्दुकाः अथोरसो लोहरसो यस्ताप्यमानाल्लोहात्पृथग्भवतीति कीट इति लोके प्रसिद्धः अश्मा दृढपाषाणः तेषां चूर्णैः संसृजति” संग्र०। “संसृष्टामिति” (११, ५५, ५७) संवौति” २० सू०। “पिण्डं मिश्रयति आड्वालयतीत्यर्थः” क०। “अषाढां करीति महिषी प्रथमविन्ना तदाख्या” २१ सू०। “अषाढाख्यामिष्टकां महिषी करोति। महिषीशब्दस्यान्यत्राप्रसिद्धत्वादाह प्रथमविन्ना तदाख्या” “तद्धैव महिषीति” ब्रा० (६, ५, २, १) क०। “भार्याणां मध्ये प्रथमं लब्धा प्रथमपरिणीता या स्त्री सा तदाख्या” संग्र०। “यजमानपादमात्रीं त्र्यालिखिताम्” २२ सू०। “महिषीपादमात्री मा भूदिति यजमानग्रहणम्” क०। “त्रिषु स्थानेषु लिखिताम्” संग्र०। “यजमान उखां करोति मृदमादाय मखस्य शिर इति (११, ५७) २३ सू०। “मृदादाने मन्त्रः” क०। “प्रादेशमात्रीं तिर्यगूर्ध्वां च” २४ सू०। “तिर्यगायामप्रमाणे विस्तारप्रमाणे च” क०। “पञ्चप्रादेशामिषुमात्रीं वा तिर्यक्पञ्चपशौ” २५ सू०। “ऊर्ध्वं तु प्रादेशमात्र्येव पञ्चपशावपि” क०। “बसवस्त्वेति (११, ५८) प्रथयति” २६ सू०। “आत्तं पिण्डम्” क०। “अन्तानुन्नीय सर्वतः प्रथमं धातुमादधाति रुद्रास्त्वेति” (११, ५८) २७ सू० “धातुशब्दान्मृत्प्रक्षेप एव” क०। “प्रथितस्य तलप्रान्तानुन्नीय ऊर्ध्वान् गमयति, धातुं प्रथमपिण्डिकाम्” संग्र०। “संलिप्य श्लक्ष्णां कृत्वोत्तरमादित्यास्त्वेति” (११, ५८) २८ सू०। “संलिप्य शिथिलया मृदा संलिप्य वारिणा संश्लक्ष्णां सुकुमारां कृत्वा” संग्र०। “विश्वे त्वेति (११, ५८) समीकरोति” २९ सू०। (६, ५, २, ३) शत० ब्रा०। “वितृतीयौत्तरे वर्तिं सर्वतः करोत्यदित्यै रास्नेति (११, ५९) ३० सू०। उखाया ऊर्ध्वप्रमाणस्योत्तरे वितृतीये उपरि वर्त्तमाने तृतीये भागे सर्वतः सर्वासु दिक्षु मृण्मयीं वर्त्तिं वृत्त्याकारां रास्नां (काञ्ची गुणस्थानीयाम्) करोति” क०। “ऊर्द्ध्वास्तूष्णीं प्रतिदशं” ३१ सू०। “वर्त्तीः करोति चतस्रोऽपरावर्तिं प्राप्ताः” ३२ सू०। उखाशब्दस्याकृतिवचनत्वाद्वृत्तैवोखा भवति” क०। “सर्वासु दिक्षु पार्श्वमध्ये बाह्यप्रदेश अपराश्चसस्रो वृत्तीरूर्ध्वास्तूर्ष्णो करोति किम्प्रमाणाः मूलत आरभ्य वृत्तिं प्राप्ताः तिरश्ची रास्नां यावदुच्चाः” संग्र० इति ३ कण्डिका
“स्तनानिवाग्रेषून्नयति” १ सू०। “ऊर्ध्ववर्त्तीनामेकैकस्याः” क०। “आसां चतसृणां वृत्तीनामग्रेषु तिरश्च्या वृत्तेरुपरि स्तनानिव स्तनसदृशान्मृदवयवानुन्नयति” संग्र०। “द्विस्तनामष्टस्तनामेके” २ सू०। “तां हैके द्विस्तनामष्टस्तनामिति (६, ५, २, १२) श्रुतेः द्विस्तनपक्षएकस्मिन्नेव वर्त्यग्रे क्रियते अष्टस्तनपक्षे द्धौ द्वाविति क०। “बिलं गृह्णात्यदितिष्टैति” (११, ५२) ३ सू०। “मुखे गृह्णातीत्यर्थः” क०। “कृत्वायेति (११, ५२) निदधाति उखाम्” ४ सू०। “तिस्रएके” ५ सू०। “उखाः कुर्वन्ति” (६, ५, २, १२) श० ब्रा०। “तथा च मृत्प्रिण्डग्रहणाद्येकैका निधानान्ता क्रियते” क०। “इष्टकास्तु तिस्रो विश्वज्योतिषः पृथग्लक्षणास्त्र्यालिखिताः” ६ सू०। “तुशब्दश्चार्थे चशब्दाद्यजमान एव तिस्र इष्टकाः विश्वज्यीतिःसज्ञकाः पृथग्लक्षणाः करोति लक्षणकरणं च प्रथमाद्वितीयाप्रज्ञप्त्यत्यर्थमेवोपघानं यथा स्यादिति” क०। “मृदमुपशयां निदधाति” ७ सू०। “उखां क्रियमाणामुपशेतैत्युपशया तां मृदमतिरिच्यमानां निदधाति कार्यार्थम्” क०। “अवशिष्टां मृदमुपशयसज्ञां” निदधाति” संग्र०। “सप्तभिरश्वशकृद्भिरुखां धूपयति दक्षिणाग्न्यादीप्तैरेकैकेन वसवस्त्वेति (११, ६०) प्रतिमन्त्रम् ८ सू०। “शकृद्भिरश्वलेण्डैः” संग्र०। “अभ्र्या श्वभ्रं चतुरश्रं खनत्यदितिष्ट्वेति (११, ६१) ९ सू०। “अभ्रिश्च पूर्वोक्तैव प्रकृतत्वात् अत्र सा वैणव्यभ्रिरुत्सीदतीति (६, ५, ४, ३) श० ब्रा० वचनात्” क०। “श्रपणमास्तीर्य यथाकृतमवदधाति” १० सू०। श्वभ्रे, येनैव क्रमेण कृता अषाढाद्याः उखायां तु विशेषः, “देबानां त्वेत्युखां (११, ६१) न्युब्जाम्” ११ सू०। “अवदधाति” क०। “श्रपणेनावच्छाद्य दक्षिणाग्निनादीपयति धिषणास्त्वेति (११, ६१) १२ सू०। “निर्मन्थ्येन वा धूपनश्रपणे” १३ सू०। “कर्त्तव्ये” क०। “वरुत्रीष्ट्वेतीक्षमाणो (११, ६१) जपति” १४ सू०। “उखाभीक्षमाणः” क०। “आचरति मित्रस्येति (११, ६२) १५ सू०। “आचरणं च श्रपणप्रक्षेपः” क०। अषाढादीनामधस्तादुपरिष्टाच्च पुनः श्रपणं प्रक्षिपति” संग्र० “यावद्धाचरेत्” १६ सू०। “यावद्भिः प्रकारैः श्रपणं प्रक्षिपेत्तावद्धानेनैव मन्त्रेणाचरेत्” संग्र०। “दिवैव प्रदहनोद्धरणे” १७ सू०। “कर्तव्ये” (६, ५, ४, १०) श० ब्रा०। “प्रदहनं पचनम् उद्धरणं बहिर्सिष्काशनम्” संग्र०। “उद्वपति श्रपणम्” १८ सू०। “पदार्थतया” क०। “भस्मसाद्भूतं पराकरोति” संग्र०। देवस्त्वेत्युखाम्” १९ सू० (११, २३)। “उद्वपति” क०। “उत्तानां करोत्यव्यथमानेति (११, ६३) २० सू०। “उद्यच्छत्युखाम्” (११, ६४) २१ स०। “ऊर्ध्वं यच्छति” क०। “परिगृह्य पात्रे करोति मित्रैतां तैति” (११, ६४, २२ मू०। “अजापयसावसिञ्चति वसवस्त्वेति” (११, ६५) प्रतिमन्त्रम्” २३ सू०। “उखाम्। त्रित्वपक्षे च उत्तानकरणाद्येकैका अजापसावसेकान्ता कर्त्तव्या” क०। “इष्टकाकियातस्त्र्यालिखितानाम्” २४ सू०। “अत ऊर्ध्वमिष्टकास्त्र्यालिखिताः क्रियन्ते” क०। “अपरिमितालिखिता वोत्तरयोः” २५ सू०। “द्वितीयाचतुर्थ्योः कुत एतत् ते हि प्रकृत्याम्नायते “रसो हैते चिती अपरिमित उ वै रस इति” (८, ७, २, १७), श० व्रा०। “अतश्च विकल्पोऽयम्” क०। “पूर्ववदग्निः पाके” २६ सू०। “इष्टकानां पाके भवति निर्मन्थ्यो दक्षिणाग्निर्वा” क० फाल्गुनामावास्यायां दीक्षामुक्त्वा कृत्यशेषं तत्राह। “दण्डोच्छ्रयणान्तं कृत्वाध्वर्युयजमानयोरन्यतर उखामाहवनीयेऽधिश्रयति मुञ्जकुलायशणकुलायावस्तीर्णाम् अन्तरेशणां मा सु भित्था इति (११, ६८) तिष्ठन्नुदङ्प्राङ्” ३१ सू०। दण्डीच्छ्रयणान्तमाध्वरिकं कर्म कृत्वा उखामाहवनीयेऽधिश्रयति, सा च मुञ्जकुलायावस्तीर्णा भवति अन्तरेशणा। प्रागुदीचीं दिशमभिमुखः। अधिकारसुपजीवन्नाह” क० “रुक्मप्रतिमोचनविष्णु क्रमवात्सप्रेषुच” ३२ सू० प्रागुदीचीं दिशमभिमुखो भवति” क० “अग्नावारूढेत्रयोदशास्यां प्रादेशमात्रीः समिधआदधाति” ३३ सू०। “उखायामग्नावारूढे त्रयोदश समिधआदधाति, प्रादेशमात्रीग्रहणं च शिष्टानुस्मरणप्रज्ञप्त्यर्थम्” क०। “अनारोहत्यङ्गारानोप्यैके” ३४ सू०। अनारोहत्यग्नावुखायाम् अङ्गारानोप्यैके समिदाधानं कुर्वन्ति” क०। ता इदानीमाह, “घृतोन्नां कार्मुकीं द्र्वन्न इति” (११, ७०) ३५ सू०। “आदधाति, कृमुको धमनः तदीया कार्भुकी” क०। “वैकङ्कतीं परस्या इति (११, ७१) ३६ सू०। “औदुम्बरीं परमस्या इति” (११, ७२) ३७ सू०। “अपरशुवृक्णां यदग्नैति” (११, ७३) ३८ सू०। “या परशुना न छिन्ना” क०। “अकुठारच्छिन्नाम्” संग्र०। “अधःशयां यदत्तीति” (११, ७४) ३९ सू०। “भूमिसंलग्ना या सदा रूढा भवति” संग्र०। “पालाशीः प्रत्यृचमहरहरिति” (११, ७५)। ४० सू०। “आदधाति अथैताः पालाश्यो भवन्तोति (६, ६, ३, ७) श० ब्रा वचनात्, एवं चापरशुवृक्णा अधःशया चौदुम्बर्यावेव भवतः जात्यन्तरादिधानात्” अ०। “उपोत्तमां क्षत्रियस्येच्छन्” ४१ सू०। “उत्तमायाः समीपे उपोत्तमा द्धादशी, तां क्षत्रियस्य यजमानस्येच्छयादधाति अन्यस्य क्षत्रियपुरोहितव्यतिरिक्तस्य उभे उपोत्तमोत्तमे इच्छयाधीयेते, एवं हि श्रूयते” श० ब्रा० (६, ६, ३, १२) क०। “एवं च मति, उत्तमां पुरोहितस्य” ४२ सू०। “इच्छयादधाति” क०। “उत्तमाम् बाहूइति” (११, ८२) संग्र०। “अन्यस्योभे” ४३ सू०। “अन्यक्षत्रियस्वापुरोहितस्य च एकादश भवन्ति त्रयोदश वा” क०। “क्षत्रियपुरोहितव्यतिरिक्तस्य द्वादशीत्रयोदश्याविच्छया भवतः” संग्र० “स्वाहाकारः सर्वासूखायाम्” ४४ सू०। “उखायामाधीयमानासु समित्सु, अतोऽन्यत्रापि स्वाहाकारो भवति सर्वास्वित्यभिधानात्” क०। “उखायां सर्वासु समित्सु स्वाहाकारो भवति” संग्र०। “औद्ग्रभणादि दण्डान्तमत्रैके” ४५ सू०। “एवं सति प्रागौद्ग्रभणहोमादुखाधिश्रयणादि” तान्यु हैकौखायामेवैतान्यौद्ग्रभणानि जुह्वतीति वचनात्” (६, ६, १, २२) क०। “अत्रावसरे” संग्र० इति ४ कण्डिका।
“यजमानः कण्ठे रुक्मं प्रतिमुञ्चते परिमण्डलमेकविंशतिपिण्डं कृष्णाजिननिष्यूतं लोमसु शुक्लकृष्णेषु शणसूत्रे त्रिवृत्योतमुपरिनाभि बहिष्पिण्डं दृशानो रुक्म इति” (१२, १)। “रुक्मं हि प्रकृत्य सर्वमेवैतच्छूयते (६, ६, १, २), यजमानग्रहणाच्च स्वयमेव यजसानः प्रतिमुञ्चते, द्वादशाहे च सर्वे यजमानाः प्रतिमुञ्चैयुः अत ऊर्ध्वमिण्ड्वाद्यन्वारम्भः एवं हि सर्वैः कृतं भवति” क०। “परिमण्डलं वर्तुलम्, एकविंशतिपिण्डम् पिण्डं निर्बाधम् निर्बाध्यन्ते उन्नताः निःकाश्यन्ते उन्नताः स्यरूपाद्बहिर्निःसृता भवन्ति, कृष्णाजिन शुक्लकृष्णेषु लोमसु निष्यूतं नितरां स्यूतम्, पुनः कीदृशम् त्रिगुणे त्रिवृति शणमये सूत्रे ओतं प्रोतम् तथा उप रिनाभि, पुनः बहिष्पिण्डं बहिर्निर्बाधम्” संग्र०। “इण्ड्वशिक्यासन्दीषुंमुञ्जरज्ज्ववस्त्रिवृतो मृद्दिग्धाः” २ सू० उखा याभ्यां गृह्यते तौ इण्ड्वौ, शिक्यं प्रतिद्धम्, आसन्दी च। अनुरक्ता रज्ज्ववो मृद्दिग्धा भवन्ति” क०। “मृद्दिग्धाः कर्दमलिप्ताः” संग्र०। “परिमण्डलाभ्यामिण्ड्वाभ्यामुखां परिगृह्णाति नक्तोषासेति” (१२, २) ३ सू०। “हरति आवाक्षामेति” (१२, २) ४ सू०। “तामेवोखाम्” क०। “आहवनीयस्य पुरस्तादुद्गात्रासन्दीवदासन्द्यां चदुरश्राङ्ग्यां शिक्यवत्यां निदधाति देवा अग्निमिति (१२, २) ५ सू०। “उद्गात्रासन्दीवदिति प्रादेशपादी गम्यते” (१३, ४, २) क०। सा च चतुरङ्गी सह पादैः, तस्यां शिक्यवत्यामासन्द्या च, निदधाति उखाम्” क०। “शिक्यपाशं प्रतिमुञ्चते षडुद्यामं विश्वा रूपाणीति” (१२, ३) ६ सु० “ग्रीवायाम्” क०। “सशिक्यं प्राञ्चं प्रगृह्णाति सुपर्णोऽसीति” (१२, ४) पिण्डवत् ७ सू०। “सह शिक्येन प्राञ्चमग्निं प्रगृह्णाति, पिण्डवदित्यूर्ध्वबाहुः (३, ९)। “धारणं च” ८ सू०। “पिण्डवदेव उपरिनाभि” क०। अत्र द्वाभ्यामङ्काभ्यां शुक्लयजुर्वेदस्याध्यायादि, त्रिभिरङ्कैः कात्यायनश्रौतसूत्रस्याध्ययकण्ढिकादि। चतुर्भिरङ्कैः शतपथब्राह्मणस्याध्यायादि ज्ञेयं तेन तत्तत्प्रतीकमात्रगृहीतमन्त्रसूत्रादि तत्तत्स्थाने दृश्यम् विस्तरस्तु शत० ब्रा० ६ अ० दृश्या। लौकिकेष्टरचितप्राचीरादौ इष्टकाघनफलेन इष्टकासंख्याज्ञानोपायो दर्शितोलीला० यथा “चितौ करणरूत्रं सार्द्धवृत्तम्। उच्छ्रयेण गुणितं चितेः किल क्षेत्रसम्भवफलं घनं भवेत्। इष्टकाघनहृते घने चितेरिष्टकापरिमितिश्च लभ्यते।। इष्टलोच्छ्रयहृदुच्छ्रितिश्चितेः स्युःस्तराश्च दृषदां चितेरपि।। उदाहरणम्। अष्टादशाङ्गुलं दैर्घ्यं विस्तारो द्वादशाङ्गुलः। उच्छ्रितिस्त्र्यङ्गुला यासामिष्टकास्ताश्चितौ किल।। यद्विस्तृतिः पञ्चकराष्टहस्तं दैर्घ्यं च यस्यां त्रिकरोच्छ्रितिश्च। तस्यां चितौ किं फलमिष्टकानां सङ्ख्या च का ब्रूहि कति स्तराश्च।। इष्टकायाः घनहस्तमानम् (३/३६) चितेः क्षेत्रफलम् ४०। उच्छ्रयेण ३ गुणितं चितेर्घनफलम् १२०। यथोक्तकरणे लब्धा इष्टका सङ्ख्या २५६०। स्तरसङ्ख्या २४। एवं पाषाणचयेऽपि”ऽव्यासात् षोडशभागः सर्वेषां सद्मनां भवति भित्तिः। पक्वेष्टकाकृतानां दारुकृतानां च स विकल्पः। वृह० स०। “नेष्टकारचिते पितॄन् संतर्पयेत्” शङ्खलि०। “मृण्मयात् कोटिगुणित फलं स्याद्दारुभिः कृतात्। कोटिकोटिगुणं पुण्यं फलं स्यादिष्टकामये” मठ० त० पु०। वास्तुयागे ‘आकाशपदे’ इष्टकारोपाचारः वास्तु यागशब्दे दृश्यः।
इष्टकाचयन = न० इष्टकयाऽग्नेश्चयनम्। इष्टकया अग्नेश्चयने तत्प्रकारः कात्या० श्रौ० सू०। “एतया विकृत्याभिमन्त्र्ये केऽन्यचितं चिन्वन्ति द्रोणचिद्रथचक्रचित्कङ्कचित्प्रौगचिदुभयतःप्रौगः समुह्य पुरीषः” १६, ५, ९। “एते ह्यग्निविशेषाः तदाकारांश्चिन्वन्त्येके एके सुपर्णचितम् विलिङ्गत्वादस्या विकृतेरग्न्यन्तरेष्वप्राप्तिर्मा भूदित्युच्यते एवं हि श्रूयते “तं हैकएतय विकृत्याभिमन्त्र्यान्यां चितिं चिन्वन्तीति” (६, ७, २, ८ शत० ब्रा०) क०। “विकृत्या एतया ऋचा अन्यचितं षद्ध्विवधमन्यमग्निं चिन्वन्ति तमेवाह द्रोणचिदित्यादि” संग्र०। “समुह्य पुरीषे प्रतिदिश पुरीषाहरणम्” १० सू०। प्रतिदिशं पुरीषमाहृत्याहृत्य तेनैव चयनम्” क०। “विष्णुक्रमान् क्रमते विष्णो- रिति” (१२, ५ यजु०) “प्रतिमन्त्रमग्न्युद्ग्रभणं च तस्मिंस्तस्मिन्” ११ सू०। “तस्मिन् क्रमणे” क०। “अक्रमश्चतुर्थे” १२ सू०। “उद्ग्रहणं तु भवत्येव” क०। दिशो वीक्षते दिशोऽनुविक्रमस्वेति (१२, ५) १३ सू० “प्रतिदिशं मन्त्रः” क०। “पिण्डवत्प्रागुदञ्चं प्रगृह्णात्यक्रन्ददग्निरिति” (१२, ६) १४ सू०। पिण्डवदित्यूर्ध्वबाहुः (३, ८) क०। “अवरोहत्यग्नेऽभ्यावर्तिन्निति” (१२, ७) १५ सू० “प्रत्यवरोहत्यग्निम् यावत्कृत्य ऊर्ध्वोऽवरोहतीति” (६, ७, ३, ६) “श्रुतेस्तद्वत्प्रत्यवरोहणम्” कर्कः। “उपरिनाभि धारयन्ना त्वाहार्षमित्यभिमन्त्रयते” (१२, ११) १६ सू०। “अग्निस्” क०। “पाशा उन्मुच्योदुत्तममिति” (१२, १२) “पिण्डवत्प्राग्दक्षिणा प्रगृह्णात्यग्रे वृहन्निति” (१२, १३) १७ सू०। “अवहरति हंसः शुचिषदिति” (१२, १४)। १८ सू०। “आसन्द्यां करोति वृहदिति” (१२, १४) १९ सू०। “उपतिष्ठते सीद त्वमिति” (१२, १५) २० सू०। “वात्सप्रेण च दिवस्परीत्येकादशभिः” (१२, १८, २८) २१ सू०। “उपतिष्ठते” क०। “अनुवाकेनैके” (१२, १८, २९) २२ सू०। “उपतिष्ठन्ते” क०। “अत्र दीक्षितोऽयमिति” २३ सू०। “अस्मिन्नवसरे दीक्षितोऽयमित्याह (७, ४, ११) “दण्डात्ते ह्युखाधिश्रपणाद्युक्तम् अतः प्राकृतानुवृत्त्यर्थमिदमुच्यते” क०। “आवृत्तिरतः संवत्सरम्” २४ सू०। “अत ऊर्ध्वं यदुच्यते तत् संवत्सरं यावदावर्तते” क०। “अत ऊर्ध्वं यत्कर्मोच्यते भस्मोद्वपनादि तस्य संवत्सरं यावदावृत्तिर्भवति” संग्र०। ५ कण्डिका
“उखाया भस्मोद्वपनमस्तमिते पात्रे” १ सू०। “तच्च प्राग्वाग्विसर्गात्” “भस्मोदुप्य वाचं विसृजत” इति श्रुतेः (६, ७, ४, १४) क०। “भस्मोद्वपनं भस्मोद्धरणम्” संग्र०। “वाचं विसृज्य समिदाधानं रात्रीं रात्रीमप्रयावमिति” (११, ७५) २ सू०। “एवमुदिते भस्मोद्वपनादि” ३ सू०। “कर्तव्यम् अयं तु विशेषः” क०। “अहरहरित्याधानम्” (११, ३५) ४ सू०। “विष्णुक्रमवात्सप्रे चाहर्व्यत्यासमुदिते सभिधमाधाय” ५ सू०। “अहर्व्यत्यासेन कर्तव्ये” क० “अस्मिन्दिने विष्णुक्रमाः उत्तरस्मिन्वात्सप्रम् एवं यावद्दीक्षं कर्तव्यम्” संग्र०। “रुक्मप्रतिमोचनादि प्राग्वात्सप्राद्विष्णुक्रमाः” ६ सू०। “तयोर्विभागमाह। साग्निके क्रतौ संवत्सरं दीक्षा आम्नाताः संवत्सरमित्युपक्रम्य चिन्वीतेति (१०, २, ६, ९) पवित्रे त्ततस्रो दीक्षा आम्नाताः पवित्रश्चतुर्दीक्ष इति (१५, १, ४) तत्राग्नौ सति चिन्त्य- ते किमग्निनिमित्ता दीक्षा भवन्तु उत सौमिक्य इति उभयं चैतच्चरितार्थम् पवित्राद्बहिराग्निक्यश्चरितार्थाः अनग्निके च पवित्रे सौमिक्य इति तेन साग्निमति पवित्रं कथं भवत्विति नियमकारणाभावादनियमे प्राप्त आह” क० “सोमाविरोधेन वा तत्प्रधान्यात्” ७ सू०। “सोमस्य प्रधानभूतत्वात् तदीया एव दीक्षा भवन्ति” क० “सोमयागेनाविरोधः सोमाविरोघः तेनाविरोधेनैव दीक्षा भवति वावघारणे कुतः तत्प्रधान्यात् सोमस्य प्राधान्यात् अग्नेश्च तदङ्गत्वात् तेन द्वादशाहे वाजपेये द्वादश सप्तदश वा भवन्ति नाग्निप्रयुक्तसंवत्सरदीक्षाः” संग्र०। “न्यज्य समिधं व्रते प्रत्ते–प्रत्तेऽन्नपतैत्याधानम्। (११, ८३) ८ सू० “उख्येऽग्नौ यजमानः करोति” संग्र०। “संवत्सरभृतिनोऽसंवत्सरभृतेऽपि” ९ सू०। पूर्वं कस्मिंश्चिद्यज्ञे साग्निके येनैकवारं संवत्सरमुख्योऽग्निर्भृतो भवति स संवत्सरभृती तस्यासंभृतेऽप्युख्येऽग्नौ चयनं भवति (९, ५, १, ६५) संग्र० “संवत्सरं सोष्यतः” १० सू०। “संवत्सरमभिषवं करिष्यतः असंवत्सरभृतेऽपि चर्थनं भवति (९, ५, १ ६६) क०। “संवत्सराहिताग्नेः” ११ सू०। “असंवत्सरभृतेऽपि चयनमिष्यते” (९, ६, १, ६७) क०। “जातस्य च” १२ सू०। “संवत्सरे जातस्य च असंवत्सरभृतेऽपि चयनं भवति” (९, ५, १, ६८) क०। “गर्भाधानदिनादारभ्य संवत्सरे पूर्णेऽतोते वा यो जातस्तस्य भवति” संग्र०। “षाण्मास्यमन्त्यम्” १३ सू०। “अन्त्यं जघन्यमिदं पक्षान्तरम् षण्मासानुख्यभरणं कृत्वाग्निश्चीयत इति (९, ५, १, ६३) क०। “षाण्मास्यं षण्मासानुख्यमग्निं भृत्वा चयनं भवति” संग्र०। “अचयनं वा परस्मै” १४ सू०। चयनं वेति विकल्पः एवं हि श्रूयते (९, ५, २, १२) त्रयो ह वै” इत्युपक्रम्य परस्मै करोतीति निन्दार्थवादः प्रतिषेधार्थः तस्मादप्येवंवित् कामं परस्मा अग्निं चिनुयादिति ९, ५, २, ३, प्रतिप्रसवः अतः प्रतिषेधप्रतिप्रसवाभ्यांविकल्पः” संग्र०। “प्रागनः कृत्वोख्यस्योत्तरतः समिदाधानं समिधाग्निमिति (१२, ६०) १५ सू०। “उख्यपुरतः प्राङ्मुखमनः कृत्वोख्यएव समिदाधानम्” क०। “सासन्दीकमुद्यम्योदुत्वेति (१२, ६१) दक्षिणतोऽनसि करोति” १६ सू०। “सासन्दीकमुख्यमुदु त्वेत्युत्क्षिप्यानसो दक्षिणतोऽवस्थितोऽनसि करोति” कर्कः। “स्थाल्यां गार्हपत्यं पश्चात्” १७ सू०। “अनसि करोति दक्षिणाग्निं च वितृतीये करोति” क०। “अनड्वाहौ युक्त्वा प्रेदग्न इति (१९, ३९) प्राङ् यात्वा यथार्थम्” १८ सू०। “गच्छेत्” क०। “आरोहेत् पार्श्वतो गच्छेत्” १९ सू०। “यजमानः संस्कारात्” क०। “अक्षेखर्जत्यक्रन्ददग्निरिति (११, ३३) जपति” २० सू०। “खर्जनं च शब्दकरणम्” क०। “वासेऽवहरत्युद्धतावोक्षितौत्तरतः समिदाधानं प्र–प्रायमिति (१२, ३४) २१ सू०। “यत्र वासस्तत्रैवावहरणम् न प्राग्वसतेः एवं ह्याह (६, ८, १, १२) स यदि पुरावसत्यै विमुञ्चेतानस्येवाग्निः स्यादिति” वसत्यां तु उत्तरतोऽग्नीनवतार्य समिदाधानं “प्र–प्रायमिति”। उद्धतावोक्षितग्रहणं च परिसमूहनाद्युपसंग्रहार्थमपि स्मार्तं ह्येतदनूद्यते (६, ४, ४, १८) उद्वते वाऽअवोक्षितेऽग्निमादधातीति” एवं च सति तदपचारे स्मार्तं प्रायश्चित्तम्” क०। “वासार्थे रथे उत्तरस्यां दिशि अग्निमवतारयति” संग्र०। “वनीवाहनमेतद्दीक्षासु यदेच्छेत्” २२ सू०। “वनीवाहनमिति” संज्ञास्य कर्मणः सा च संव्यवहारार्था “ऊर्द्ध्वं वनीवाहनादिति” (२५ सू०) तच्च दीक्षासु कर्तव्यम्। यदेच्छोपजायते महावीरकरणयूपच्छेदनवनीवाहनानि दीक्षासु क्रियन्ते क्रमस्तु नैषाम् पाठाभावात्” क० “अप्सूख्यभस्मावपनं क्रयणीयादौ” २३ सू०। उख्यभस्मावपनमप्सु कर्तव्यम् आदौ क्रयणीयस्याह्नः” क०। “अन्यत्र चेच्छन्” २४ सू०। “करोति” क०। “ऊर्ध्वं वनीवाहनात् क्रमयोगात्” २५ सू०। अन्यत्रेच्छयाकुर्वन् वनीवाहनादूर्ध्वं करोति मन्त्राणां पाठक्रमयोगात्” क०। “वनीवाहनादूर्ध्वं सोमक्रयदिने आदौ अन्यत्र दीक्षा भस्मावपनम्। कुतः क्रमयोगात् पूर्वं वनीवाहनमन्त्राः पश्चाद्भस्मापोऽभ्यहरणस्य” संग्र० “पलाशपुटेनापो देवीरित्येकया (१२, ३५) २६ सू०। “पलाशपुटेन भस्म गृहीत्वाप्स्वावपति” क०। “ततोद्वाभ्याम्” (१२, ३६–३७) २७ सू०। “पुनश्चावपति द्वाभ्यामृग्भ्याम्” क०। “आद्याभ्यां (१२, ६५–३६) वा पूर्वम्” २८ सू०। “पूर्वमावपनं द्वाभ्यामृग्भ्याम् तत एकयर्चा” वाशब्दो विकल्पार्थः तुंल्यश्रुतित्वात्” क०। “अनामिकया प्रास्तादादत्ते प्रसद्येति (१२, ३८–४१) २९ सू०। “प्रास्ताद्भंस्मनः कियदप्यनाभिकयादत्ते” (६, ८, २, ७)। “प्रास्योखामुपतिष्ठते बोधा मैति” (१२, ४२) ३० सू०। “यत्तदात्तं भस्म तत्प्रास्य” क०। “प्रायश्चित्तिं समिधोपहत्य” ३१ सू०। ६ कण्डिका। “आज्यं विश्वकर्भखैति (१२, ४३) जुहोति” १ सू०। “प्रायश्चित्तिरित्यस्य होमस्य संज्ञा उपपूर्वश्च हन्तिर्ग्रहणार्थो दृष्टोऽन्यत्रापि “अथस्त्रुचोपहत्याज्यमिति (३, ४, १, २५)” क०। “समिधा करणभूतया स्रुक्स्थानीयणा उपहत्य गृहीत्वा” संग्र०। “उत्थाय दधाति समिधं पुनस्त्वेति (१२, ४४) २ सू०। उत्थानग्रहणं च प्रतिपत्तित्वात् गुणार्थं चेति। नैमित्तिकान्यत्रैव प्रकरणे पठ्यन्ते तदर्थमाह” क० “गार्हप्रत्येऽनुगते निर्मथ्य” ३ सू०। “आदधाति मन्थनं प्राप्तत्वादवाच्यम् उच्यते प्रायश्चित्तार्थम्”। “प्राजहिते उपशान्ते मथित्वा प्रायश्चित्ती करोति” संग्र०। “सुत्यावाहनीये सांकाशिनेन हृत्वाः” ४ सू०। “सुत्यासु वर्तमानासु आहवनीयेऽनुगते सांकाशिनेन हृत्वा तमादधाति” सांकाशिनशब्दः प्रगुणमेव हृत्वेत्यर्थकः एतच्चोच्यते पूर्ववत्प्रणयनं मा भूदिति” क०। “आहवनीयेऽतिप्रणीतेऽनुगते सांकाशिनेन हृत्वा ऋजुना सदोहविर्धानमध्यमार्गेणैव हृत्वा” संग्र०। “आग्नीध्रीयमुत्तरेण सदः” ५ सू०। “हृत्वा निदधाति उत्तरेण सदो हृत्वेतीध्मव्युदासार्थः” क०। आग्निध्रीयमग्निमनुगतं सदस उत्तरेणैव हृत्वा” संग्र०। “प्रवृञ्ज्यादावृतोख्ये” ६ सू०। “उख्ये चानुगते पूर्ववत्प्रवृञ्ज्यात् अयं तु विशेषः आवृता आवृद्ग्रहणं च मन्त्रनिवृत्त्यर्थम्। “एतयैवावृतानुपहरन् यजुरिति (६, ६, ४, ९) श्रुतेः” क०। “उख्येऽग्नावनुगते गार्हपत्यादाहवनीयमन्वग्निरित्याहृत्य (११, १७) समितमित्युपस्थाय (१२, ५७) आवृता मन्त्ररहितकियामात्रेण पूर्ववदुखां प्रवृञ्ज्यात् उखामाहवनीयेऽधिश्रित्योख्यमग्निमुत्पादयेत्” संग्र०। “अध्वरप्रायश्चित्तं च सर्वेषु यथाकालं पूर्वां–पूर्वाम्” ७ सू०। “अध्वरप्रायश्चित्तिं च करोति सर्वेषु निमित्तेषु तां च पूर्वाम् पूर्वां चशब्दादाग्निकीं च। सर्वग्रहणं च भस्मापोऽभ्यवहरणार्थम्। (२ ३) तत्रापि हि विधीयेते (६, ८, २, ११) उभे प्रायश्चित्ती “करोतिये एवाग्नावनुगते इति” यथाकालमिति चाध्वरप्रायश्चित्त्यर्थमुच्यते आग्निकी तु विश्वकमणैत्येव” क० “सर्वेषु पूर्वोक्तेष्वग्न्यनुगमेषु यथाकालं परमेष्ठ्यादिकालाहुतिं (२६, ६, १) पूवां पूर्वां जुहुयात् श्चादग्निप्रायश्चित्तिम् चकारात्” संग्र० “उखाभेदने नवस्थाल्यां महामुख्यामुखाकपालमवधायावपति” ८ सू०। यद्येषोखाभिद्येतेति” (६, ६, ४, ८) प्रकृत्य सर्वमिदमाम्नातम् एतच्चेकोखापक्षे भवति। त्रित्वपक्षे तु द्वयोरेवैकस्यामावपनम्” (६, ५, २, २२) क०। “उखोपशये पिष्ट्वा मृदा स- होखां करोत्यावृता” ९ सू०। “उखाखण्डमेकमुखायां प्रक्षिप्तम् द्वितीयमुपशयया सह–पिष्ट्वा, आवृता मन्त्रमर्जम्, आवृच्छब्देन क्रियामात्रमुच्यते तथा चोक्तम् (६, ६, ४, २) एतयैवावृतानुपहरन् यजुरिति” क०। “आवृता मन्त्ररहितेतिकर्त्तव्यतया” संग्र०। “पक्वायामावपति कपालं च १० सू०। “पक्वायामुखायाम् अग्निं कपालं च” क०। “उखोपशये पिष्ट्वा संसृज्य निदधाति” ११ सू०। “उखाकपालमुपशयां च पिष्ट्वा संसृज्य स्थापयति” क०।
इदानीं चयनप्रकारमाह। अभ्यात्मं चयनमुपविश्य” १२ सू०। “आत्मनआभिमुख्येन चयनं कर्तव्यम् न परागिति, तथा च नैरृतीषु वचनात्पराक्चयनमुक्तम् (७, २, १, १३)। अपरो विशेषः” “सव्यबाहुमन्तरं कृत्वोत्तरलक्षणाभिरिष्टकाभिः” १३ सू०”। “चेतव्यः” क०। “नित्ये सादनसूददोहसाउपधानादुत्तरे तया देवतया ता अस्येति (१२, ५३, ५५,) १४ सू०। “सर्वास्विष्टकासु एते नित्ये भवतः तया देवतयेति सादनम् ता अस्येति सूददोहसाधिवदनम्” क०। “अविशेषोपदेशात्” १५ सू०। “अविशेषेण ह्यनारभ्य कञ्चिदिष्टकाविशेषमेते श्रूयेते” क०। “विशेषमनुपादाय सामान्येन तयोरुपदेशात् विधानात्” संग्र०। “अनाम्नातप्रतिषेधाच्च” १६ सू०। “यत्र नैरृत्यादिषु नाम्नायेते नित्ये संहितायां न पठ्येते तत्रापि प्रतिषेधः श्रूयते (७, १, १, १४) सादनसूददोहसाधिवदतीति” “अतः प्रतिषेधात् सर्वत्राप्येते भवतः” संग्र०। “एकनोदनास्वेकदेशासु तन्त्रेण” १७ सू०। एकनोदना अपस्या वपस्या इत्येवमादि, एकनोदना अपि यद्येकदेशा भवन्ति, यथा तासामेव देशभेदः अपस्याः पञ्चपञ्चानूकान्तेष्विति (१७, ६, २) अतश्च प्रत्यनूकं नित्ये, देशभेदे त्वसति तन्त्रेणेति” क०। “एकनोदना एकं विधिवाक्यं यासां ताः। एको देश एकमुपधानस्थानं यासां ताः तत्र तन्त्रेण नित्ये भवतः” संग्र०। “आत्मनि यजुष्मतीः” १८ सू०। “इष्टका उपदधाति न पक्षपुच्छयोः” क० (८, ७, २, ३)। लोकम्पृणासु दशसु दशसु मन्त्रो लोकं पृणेति (१२, ५४)। (९, १, २१२) १९ सू०। “आसादनं च” २० सू०। लोकं पृणानाम्, सूददोहसाघिवदनं तु भवति अप्रतिषिद्धत्वात्” क०। “प्रतिचिति द्वे–द्वे उपधाय” २१ सू०। लोकं पृणामन्त्रवचनम्, पुनर्दशसु–दशसु। “प्रथमं द्वे–द्वे उपधाय तती दश–दशोपदध्यात्” संग्र०। “अयुग्मगणमध्यमानूके” २२ सू०। अयुग्मो य इष्टकागणो यथा वालखिल्याः सप्त तासां मध्यमानूके उपधेये” क०। “त्रिपञ्चसप्रादिगणः” संग्र०। “एका च” २३ सू०। “या चैकेष्टका साप्यनूक एव, यथा विश्वज्योतिर्द्वियजुश्चेत्येवमादि” क०। “अभितोयुग्माः” २४ सू०। “अनूकमभितोऽर्धार्धिकया युग्मा उपधीयन्ते” क०। “उदञ्चो वर्गाः पूर्वापरे” २५ सू०। “यत्र पूर्वापरैति देशव्यपदेशः तत्रोदग्लक्षणा इष्टकावर्गा उपधीयन्ते” क०। “तिर्यगमूकमभितोऽक्ष्णयावधिके पूर्वापरे देशे इष्टकानां वर्गाः समूहाः उदग्लक्षणा उपधेयाः” संग्र०। “प्राञ्चो दक्षिणोत्तरे” २६ सू०। “यत्र तु दक्षिणोत्तरव्यपदेशः तत्र प्राग्लक्षणा इति” क०। “प्रागनूकभितोऽक्ष्णायावधिके दक्षिणोत्तरे प्राञ्चः प्राग्लक्षणाः उपधेयाः” संग्र०। “भिन्नकृष्णयोरचयनम्” (८, ७, २, १६) २७ सू०। “दीक्षाणामुत्तमेऽहनि वेद्यग्निमानम्” २८ सू०। “कर्त्तव्यम्” क०। “उख्यस्थानेऽर्धव्यामेन गार्हपत्यस्य परिलिखति” २९ सू०। “मण्डलमिति शेषः” क०। “मण्डलाद्वा प्रक्रमणमन्तःपात्यस्य” ३० सू०। “पूर्वार्धाद्व्यामस्य त्रीन् प्राचः प्रक्रमान् प्रक्रामतीति वचनात् (१०, २, ३, १)। “पूर्वार्धादेव व्यामस्य प्रक्रमणम् न स्तम्भाद्धि प्रक्रमणमनग्नौ चरितार्थम” क०। “वावधारण, मण्डलादेवान्तःपात्यस्य क्रमणम् न पूर्वार्द्धात् स्तम्भात्” संग्र०। “पश्चाद्यूपावट्यात्पादमात्रे चित्यस्य” ३१ सू०। यूपावटे भवः शङ्कुर्यूपानट्यः तस्मात्पश्चात् पद्यालोकमात्रे चित्यस्याग्निक्षेत्रस्य स्थानं भवति” संग्र०। “यजमानेनोर्ध्वबाहुप्रपदोच्छ्रितेन समस्थितेन वा” ३२ सू०। (१०, २, २, ६)। “प्रपदोच्छ्रितः पादाग्रे व्यवस्थितः समस्थितः प्रसिद्ध एव, तत्क्रियायानोदितत्वात्प्रक्रमणवदध्वर्युर्मा भूदिति यजमानग्रहणम्” क०। ७ कण्डिका। “द्विपुरुषां रज्ज्वुंमित्त्वा” १ सू०। “द्विपुरुषांरज्ज्वुंभित्त्वेति निगदे व्याख्यातम्”। “उभयतःपाशाम्” २ सू०। “मध्ये लक्षणम्” ३ सू०। “अभितोऽर्धपुरुषयोश्च” ४ सू०। “मध्यमात्लक्षणात् पुरुषपञ्चमे” संग्र० “अर्धे च” ६ सू०। “पुरुषपञ्चमस्यार्धे” क०। “अनुपृष्ट्यामायम्य पाशयोः शङ्कू मध्येऽर्धपुरुषयोश्च” ७ सू०। “पाशाउन्मुच्यार्धपुरुषीययोः प्रतिमुच्य दक्षिणायाम्य मध्यमे नितोदं करोति” ८ सू०। “गर्तम्” संग्र० “उन्मुच्य पाशावेकं मध्यमे प्रतिमुच्य दक्षिणाधिनितोदमायम्य मध्यमे शङ्कुः” ९ सू०। “तस्मिन् पाशं प्रतिमुच्य पूर्वार्धे च दक्षिणायम्य मध्यमे शङ्कुः” १० सू०। “पश्चादर्धपुरुषे च” ११ सू०। “उन्मुच्य पूर्वार्द्धात् पश्चार्धे प्रतिमुच्य दक्षिणायम्य मध्यमे शङ्कुः” १२ सू०। “अभितोऽर्धपुरुषयोश्च” १३ सू०। “एवमुत्तरोऽन्तः” १४ सू०। “दक्षिणे पार्श्वे पूर्ववदाथम्य पञ्चमभागीये शङ्कुः” १५ सू०। “तस्मिन् पाशं प्रतिमुच्य पूर्वे चार्धपुरुषीये पञ्चमभागीयार्धपुरुषीययोः सन्निपात्य तस्मिञ्छङ्कुः” १६ सू०। “एवं पश्चात्” १७ सू०। “एवमुत्तरः पक्षः” १८ सू०। “तथा पुच्छं वितस्त्या” १९ सू०। इच्छन् पक्षपुच्छाप्ययेषु चतुरङ्गुलंचतुरङ्गुलं संकर्षति विकर्षन्यन्ते” २० सू०। “यत्र पक्ष आत्मानमप्येति स पक्षाप्ययः एवं पुच्छाप्ययः। अप्ययेषुपक्षयोः पुच्छस्य च आत्मसम्बन्धिसमीपे चतुरङ्गुलं चत्वारि–चत्वार्यङ्गुलान्युभयोः पार्श्वयोः सङ्कर्षति सङ्कोचयति, तथा अन्ते पक्षपुच्छप्रान्ते उभयोः पार्श्वयोः चतुरङ्गुलं विकर्षति विस्तारयति” संग्र०। “पञ्चारत्निःपुरुषो दशपदो द्वादशाङ्गुलं पदं प्रक्रमस्त्रिपदः समविभक्तस्य” २१ सू०। “पञ्चारत्नयोः यस्य सः पञ्चभिररत्निभिः पुरुषः दशभिः पदैः पुरुषो द्वादशभिरङ्गुलैः पदम् इत्येवमर्थो न भबति इतः प्रागरत्न्यादीनां लक्षणस्यानुक्तत्वेनासिद्धत्वात्, अतश्चैवम् पुरुषस्य समविभक्तस्य यः पञ्चमो भागः सोऽरत्निः तस्य दशमो भागः पदम्, पदस्य द्वादशो भागोऽङ्गुलम् त्रिभिः पदैरेकः प्रक्रमः इति तु भवति पदस्य सिद्धत्वात्” क०। “परितत्य रज्ज्वा सहितं बहीरज्ज्वेकषष्टे शते परिश्रितो मिनोति” २२ सू०। “रज्ज्वा परितत्य सर्व्वतोवेष्टयित्वा रज्वाबहिर्भागे सहितं रज्जुसंलग्नं यथा भवति तथा एकषष्ट्यधिके द्वे शते परिमिनोति” “क० “चतुर्णवतानि वा त्रीणि” २३ सू०। चतुर्ण्णवत्यधिकानि त्रीणि शतानि” क०। “ऊर्ध्वाः शर्कराः खाते” २४ सू०। “उत्तरेषु पुरुषीयेणैकशतविधात्” २५ सू०। “उत्तरेषु अष्टविधादिषु चयनेषु आ एकशतविधात् एकशतविधचयनं यावत् एकाधिकशतपुरुषात्मकपञ्चनवतितमचयनपर्य्यन्तम् पुरुषोयेण एकैकपुरुषवृद्ध्या अग्निमान भवति तस्मादु सप्तविधमेव प्रथमं विदधीतेति” (१०, २, ३, १८) क० “यथाग्निवेदीष्टकाप्रमाणम्” २६ सू०। वेदिश्च इष्टकाश्च वेदीष्टकाः तासां प्रमाणं वेदीष्टकाप्रमाणम् तद्यथाग्नि भवति, अग्निमानमनतिक्रम्प यथाग्नि, यथाग्निक्षेत्रस्य प्रमाणं वर्द्धते तथा वेदिप्रमाणं वर्धते इष्टकाप्रमाणं च वर्द्धते, न हि वेदिवृद्धिं विना तन्मध्ये वर्धितस्याग्नेर्मानं सम्भवति, नापि इष्टका न बर्धिता वर्धितमग्निक्षेत्रं पूरयितुं शक्रुवन्ति, अती युक्तमुभयोर्वृद्धिः” क०। “अन्तःपात्यगार्हपत्ययोरिच्छन्” २७ सू०। “पूर्वार्धाद्यामस्य त्रीन् प्राचः स वेद्यन्तः प्रक्रमः प्रक्रमति” (१०, २, ३, १) यः प्रक्रमत्रयपरिमितो देशः सोऽन्तःपात्य उच्यते, तस्यान्तःपात्यस्य गार्हपत्यस्य गार्हपत्यचितेश्च इच्छन् इच्छया वृद्धिंकुर्य्यात् इच्छया न कुर्य्यात् तद्धैकौत्तरा” श्रुतेः (१०२, ३, ६) क०। “उत्तरपक्षस्यापरस्यां स्रक्त्यां परिश्रितो मिनोति जङ्घामात्रीं नाभिमात्रीं मुखमात्रीमिति” २८ सू०। “अग्नेरुत्तरपक्षस्यापरस्रक्त्यां पश्चिमकोणे एवम्प्रमाणास्तिस्रः परिश्रितो मिनोति” क०। अत्रसर्व्वत्र चतुरङ्कैः शतपथब्राह्मणाध्यायादि बोध्यम्। त्रिभिः कातीयश्रौतसूत्राध्यायादि द्वाभ्यां शुक्लयजुर्वेदाध्यायादि तेन तत्तत्स्थाने अत्रोक्तप्रतीकयुक्तमन्त्रमूलवाक्यादिकं दृश्यमिति सङ्केतज्ञापनम्। विस्तरस्तु शतपथब्राह्मणे लिखिताङ्क सूचिताध्यायादौ दृश्यः।
इष्टकापथ = न० इष्टकायामपि पन्था यस्य अच् समा० इष्टं कापथं यस्याधोमुखवायुकरणात्। १ वीरणमूले। इष्टकया निर्मितः पन्था अच् समा०। इष्टकानिर्मिते २ पथि पु०।
इष्टकाव = त्रि० इष्टका अस्त्यर्थे व। इष्टकायुक्ते।
इष्टकावत् = त्रि० इष्टका + चतुर्र्थ्यां मध्वादि० मतुप् मस्य वः। इष्टकासन्निकृष्टदेशादौ स्त्रियां ङीप्।
इष्टगन्ध = पु० कर्मधा०। १ सुगन्धौ। इष्टोगन्धोऽस्य। २ सुगन्धिद्रव्ये त्रि० ३ वालुकायां न० मेदि०।
इष्टतम = त्रि० अतिशयेन इष्ट + तमप्। १ प्रियतमे २ अतिशयाभीष्टे “यद्यदिष्टतमं लोके” गीता। द्वयोर्मध्ये अतिशयेन इष्टः तरप्। इष्टतरः द्वयोर्मध्ये अतिशयेन इष्टे त्रि०।
इष्टदेव = पु० इज्यते यज–कर्मणि क्त कर्मधा०। १ पूज्ये देवे तन्त्राद्युक्तविधानेन यस्य मन्त्र उपास्यतया गृहीतस्तस्मिन् २ देवे च। इष्टदेवताष्टयोप्यत्र स्त्री।
इष्टनि = त्रि० यज–तनिक् संप्र० इप–तनिक् वा। १ यष्टव्ये २ एष्टव्ये च। “तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्त्तना स्विष्टनिः” ऋ० १, १२७, ६। “इष्टनिरेष्टव्योयष्टयो वा” भा०।
इष्टप्रयोग = पु० इष्टस्य शिष्टप्रयुक्ततया निश्चितस्य प्रयोगः। व्याकरणोक्तसंस्कारानुसारेण प्रयोगे।
इष्टवत् = न० यज–इष वा क्तवतु स्त्रियां ङीप्। १ यजनकर्त्तरि २ इच्छायुक्ते च। “इष्टं वेदाध्ययनादिः साध्यतयाऽस्त्यस्य मतुप् मस्य वः। ३ इष्टकर्म्म कर्त्तरि। वेदे तु पूर्ब्बपददीर्घः इष्टावान् “इष्टावन्तोरातिषाचोदधानाः” अथ० १८, ३, २०। “इष्टिभिः पशुबन्धैश्च चातुर्मास्यैस्तथैव च। अग्निष्टोमादिभिर्यज्ञैर्येन चेष्टं स इष्टवान्” व्यासोक्ते ४ इष्ट्यादि कारिणि त्रि०। स्त्रियां ङीप्।
इष्टव्रत = त्रि० इष्टं व्रतं यस्य। १ व्रतशीले इष्टानि कल्याणानि व्रतानि कर्म्माणि सिध्यन्ति येन। २ इष्टकर्म्मसाधने अन्नादौ “इष इष्टव्रता अकः” ऋ० ३, ५९, ९। “इष्टानि कल्याणानि व्रतानि कर्माणि याभिः सिध्यन्ति ता इवः अन्नानि” भा०।
इष्टसाधन = न० ६ त०। अभीष्टसाधने इच्छाशब्दे उदाहृतिः। ततो भावे त्व। इष्टसाधनत्व तद्भावे न०। तल्। इष्टसाधनता तद्भावे स्त्री।
इष्टा = स्त्री इज्यतेऽनय यज–करणे बा० क्त। शमीवृक्षे राज नि० तत्समिधा हीज्यते इति तस्याः तथात्वम् कर्म्मणि क्त। अभिमतायां स्त्रियाम्।
इष्टाकृत = त्रि० अनिष्टमिष्टं कृतम् इष्ट + च्व्यर्थे डाच् कर्म्मणि क्त। इष्टीकृते “सतामिष्टाकृतं नाम पूर्वावरसहस्रिकम्” रामा०।
इष्टादि = पु० “इष्टादिभ्यश्च” पा० सूत्रेण तत्कृगमनेनेत्यर्थे विहितेनिप्रत्ययनिमित्तभूतशब्दसमूहे स च गणः। “इष्ट पूर्त्त उपसादित निगदित परिगदित परिवादित निकथित निषादित निपठित संकलित परिकलित संरक्षित परिरक्षित अर्च्चित गणित अवकीर्ण अयुक्त गृहीत आम्नात श्रुत अधीत अवधान आसेवित अवधारित अवकल्पित निराकृत उपकृत उपाकृत अनुयुक्त अनुगणित अनुपठित व्याकुलित” आकृतिगणस्तेन “हठेन पठिती मास्मिन् खलः खेलतु” नैष०।
इष्टापत्ति = स्त्री ६ त० कर्म्मधा० वा। १ इष्टस्यापत्तौ इष्टायामापत्तौ च वादिना दर्शितापत्तेः प्रतिवादिन इष्टत्वे हि सा भवति। “इष्टापत्तौ दोषान्तरमाह” जग०।
इष्टापूर्त्त = न० इष्टं च पूर्त्तञ्च द्वयोः समाहारः पूर्वपददीर्घः। इष्टशब्दोक्ते अग्निहोत्रादौ “वापीकूपतडागादि देवतायतनानि च। अन्नप्रदानमारामः पूर्त्तमित्यभिधीयते” इति मनूक्ते पूर्त्ते च। “वितथन्तु वदेयुर्य्ये धर्मं प्रह्लाद पृच्छते। इष्टापूर्त्तञ्च ते घ्नन्ति सप्त सप्तपरावरान्” मा० स० ६६ अ०। “इष्टापूर्त्तेन च तथा वक्तव्यमनृतं न तु” आ० प० १९५ अ०। “इष्टापूर्त्तफलं न स्यान्न शिष्योन गुरुर्भवेत्” भा० व० ३२ अ०। क्वचित् इतरेतरद्वन्द्वोऽपि द्वि० ब०। “ईष्टापूर्त्ते संसृजेथामयञ्च” यजु० १०, ५४।
इष्टार्थोद्युक्त = त्रि० इष्टे अर्थे उद्युक्तः। उत्सुके इष्टार्थ लाभाय त्वरमाणे कालासहिष्णौ।
इष्टाश्व = त्रि० इष्टोऽश्वोयस्य। १ प्रियहये २ राजभेदे पु०। “किमिष्टाश्व इष्टरश्मिरेतः” ऋ० १, १२२, १३। “इष्टाश्व एतन्नामको राजा” भा०।
इष्टि = स्त्री यज–क्तिन्। १ यागभेदे। स च कात्या० श्रौ० सू० दर्शितः “कर्मशब्दो द्रव्यदेवतायुक्तो यजतिः”। ४, ३, १, सू० “क्रियाशब्दः आख्यातप्रत्ययान्तो निर्वपत्यादिशब्दो यजतिः प्रत्येतव्यः यागो ज्ञेय इत्यर्थः न निर्वापालम्भादिरूपसंस्कारमात्रविधायकः यजतिशब्दोऽत्र तदर्थयागपरः। एवंयागत्वे सिद्धेऽपि इदं संदिह्यते सौर्यं चरुं निर्वपेदग्निषोमीयमजमालभेतेत्यादौ किं यागमात्रं भवति उत धर्मा अपि भवन्तीति यदा च धर्मा भवन्तीति पक्षस्तदापि संदेहः किं पूर्णाहुतिसम्बन्धिनी धर्मा भवन्ति उताग्निहोत्रसम्बन्धिनः, आहोस्विद्दर्शपूर्णामासयोः, अथवा ज्योतिष्टोमस्येति, अथवा दर्शपूर्णमासयोरेवेति,। धर्माणामनाम्नानाद्यथाश्रुतं यागमात्रं कर्तव्यमिति प्राप्ते आह” क० “दर्शपूर्णमासधर्मा इष्टिपशुषु सामर्थ्यात्” २ सू०। सौर्यादौ धर्मा भवन्ति न यागमात्रम् एवमेतानि विधिवाक्यानि समर्थान्यर्थवन्ति सप्रयोजनानि भवन्ति अन्यथा साकाङ्क्षत्वादर्थप्रतिपादनाभावेन निरर्थकान्येव स्युः। तथा हि सौर्येण यागेन ब्रह्मवर्चसं भावयेदित्यत्रांशत्रयवती भावना विधीयते किम्, केन, कथमिति, किमंशो ब्रह्मवर्चसम्, तत्र केनांशः सौर्येणेति, कथमं शस्तु वाक्यमध्ये नास्ति तेन कथं भावयेदिति वाक्यं कथमंशसापेक्षम्। यच्च सापेक्षं भवति तदध्याहारेणानुषङ्गेण वा पूरयित्वा निराकाङ्क्षं कर्तव्यम्। अन्यथा तस्यानर्थक्यापत्तेः न च वेदे मात्रामात्रस्य तदिष्यते तस्मादत्र निराकाङ्क्षीकरणाय विध्यन्तेतिकर्तव्यतापरपर्यायः कथमंशोऽत्र कश्चिदनुषञ्जनीय इति सिद्धे आह “दर्शपूर्णमासधर्म्मा इष्टिपशुषु सामर्थ्यादिति” सर्वासु इष्टिषु अग्नीषोमीये पशौ च दर्शपूर्णमासयोरेव धर्मा भवन्ति सामर्थ्यात् पूर्वोक्त एव हेतुरत्रापि योज्यः। दुर्शपूर्णमासधर्मा एव सौर्यादिविधीनां शेषीभवितुं समर्थाः चरुपुरोडाशादयो ह्यवघातादिभिरेव सिध्यन्ति नाभिषवादिभिरिति। इष्टिपशुष्विति इष्टिषु सर्वासु अग्नीषोमीये पशौ च पश्वन्तरेषु ह्यग्नीषोमीयधर्मा भवन्ति” क०। इत्यारभ्य पञ्चविंशत्या सूत्रैस्तद्विशेष उक्तस्तत्र विस्तरेणावसेयः। तधा च दर्शपौर्णमासेतिकर्तव्यताको यागभेद इष्टिरग- न्तव्या। तत्करणप्रकारः आश्वला० श्रौ० सूत्रे दर्शितो “यथा पौर्ण मासेनेष्टिसोमा उपदिष्टाः”। २, १, १, प्रथमेऽध्याये दर्शपूर्ण मासौ व्याख्यातौ विध्यन्तरसहितौ। उत्तरत्नेष्टयः पशवश्च वक्ष्यन्ते विध्यन्तरविहिताः। तेषां विध्यन्तरापेक्षास्ति” “अतोऽयमर्थः सूत्रस्य, यस्मिञ्छास्त्रे उपदिष्टा इष्टयः पशवश्चापि अविशेषिताज्यभागास्ते सर्वे वार्त्रष्नाज्यभागा इति”। “पौर्णमासेनेत्यस्यायमर्थः, पौर्णमासेन व्याख्याता इति वार्त्रघ्नाज्यभागा इत्यथः। तेन समाम्नातानामिष्टीनां पशूनाञ्च अन्यदेवतागममात्रः सिद्धो भवति। तथा चोक्तमिष्ट्ययनप्रकरणे “असमाम्नातास्वर्थात् तन्त्रविकारः” नारा० वृत्तिः तस्य कालस्तत्रेव दर्शितः यथा “तैरमावास्यायां पौर्णमास्यां वा यजेत” सू० २, १, २, “तैरि ष्टिपशुसोमैरमावास्यायां पौर्णमास्यां वा यागः कर्तव्य इति इष्टिपशूनां प्रकृतिप्राप्त एवायं कालः पुनर्विधीयते द्व्यहकालतां निवर्त्य सद्यस्कालताप्राप्त्यर्थम्। किञ्च दर्शप्रकृतेरमावास्या पौर्णमासप्रकृतेः पौर्णमासीत्येवं नियमं निवर्त्य अनियमेन उभयकालताप्राप्त्यर्थम्। प्रकृत्यविरोधात् पर्वणस्तद्वत्यहोरात्रे विकृतिः कर्तव्या। यहाह्नः पूर्वभागे पर्व स्यात् तदा प्रकृतिं कृत्वा विकृतिः कार्या। यदा परभागे रात्रौ वा तदा विकृतिं कृत्वा प्रकृतिः कार्येति सोमस्यायमप्राप्तः कालो विधीयते। इष्ट्यादिशब्दसम्बन्धादेव यजेतेत्यपि सिद्धे यजेतेतिवचनं सोमस्य याग एवानयोः कालयोः सम्पादनीयो नान्यत् दीक्षादीति” वृत्तिः। “राजन्यश्चाग्निहोत्रं जुहुयात्” ३ सू०। “क्षत्रियस्याग्निहोत्रहोमः पर्वणोरेव कर्तव्यो नान्यस्मिन् काल इति चशब्दाद्वैश्योऽप्यनयोरेव कालयोरग्निहोत्रं जुहुयात् नान्यस्मिन्नित्यवगम्यते। तत्र विशेषमाह” वृत्तिः। “तपस्विने ब्राह्मणायेतरं कालं भक्तमुपहरेत्” ४ सू०। “तपस्वी कर्मनिरतस्तस्मै ब्राह्मणाय अतपस्विनेऽपि ब्राह्मणायैव दद्यात् न जात्यन्तराय तपस्विनेऽपीति। इतरं कालमिति, इतरेषु सर्वेष्वग्निहोत्रकालेष्वित्यर्थः। भक्तमुपहरेत्, भक्तं पक्वोदनं पक्वान्नमुपहरेत्, दद्यात्। एतदुक्तं भवति। राजन्यवैश्ययोः पर्वण्यग्निहोत्रकालद्वयं वर्जयित्वा इतरेषु कालेषु ब्राह्मणायोदनो दातव्योन होमः कर्तव्य इति। अग्निधारणन्तु क्रियत एव” वृत्तिः। ततोऽग्न्याधानं प्रसङ्गादुक्तं तच्चाधानशब्दे पूर्वं दर्शितम् अग्न्याधानोत्तरं कर्त्तव्यमाह “यदि त्विष्टयस्तनुयुः” २, १, १८, सू० “अग्नीनेवेति वाक्यशेषः। यद्यनधिकारत्वादाधानविधेर्विनियोजकस्य प्रकरणस्य व्यापारा- सम्भवादाधानाङ्गमिष्टयो न स्युः, इष्टीनाञ्चानधिकारत्वादिष्ट्यङ्गमाधानं न स्यात्, तथापि न कश्चिद्दोषः, अग्न्यर्थत्वेनैवोभयोरप्यनुष्ठानसिद्धेः”। “अस्मिन्नर्थे सूत्रयोजना। यद्यासामिष्टोनामाधानाङ्गता स्यात् तथापि आहवनीयाद्यग्निसम्बन्धात् तानेवाग्नीनिष्टयस्तनुयुः विस्तारयेयुः कुर्युः साधयेयुरित्यर्थः। तुशब्दस्तु साधनादिषु विशेषं दर्शयति। आधानेऽग्नीनां साध्यत्वेन सम्बद्धानामेव साध्यत्वम्। इष्टिषु साधनत्वेन सम्बद्धानामपि कल्पनागौरवभयात् साध्यत्वमिति विशेषं गृह्णीमः एवं यद्याधानेनेष्टिभिश्चाग्नय एवांशतः साध्या इत्यनधिकाराणां कथमनुष्ठानसिद्धिरिति न्यायाविदामेष उपालम्भो नास्माकम्। अस्माकं तु साध्यसाधनसम्बन्धेऽवगते तदर्थिनां कर्तृत्वेनावगतानां ब्राह्मणादीनां कथञ्चिदधिकारकल्पनयानुष्ठानसिद्धिः। अथवाऽनधिकाराणामनन्यशेषाणामपि तत्साधनसाध्यरूपेणोपकारकत्वेन कामं श्रुतिप्रयुक्त्यैवंविधानामनुष्ठानसिद्धिरित्यलमतिविस्तरेण” नारा० वृत्तिः। “प्रथमायामग्निरग्निः पवमानः” १९ सू०। “प्रथमायामिष्टौ द्वे देवते। अग्निः प्रथमः केवलः। द्वितीयः पवमानगुणकोऽग्निः। केवलस्याग्नेर्नित्ये एव। “अग्न आयूंषि पवसेऽग्ने पवस्व स्वपाः” २० सू०। “एते द्वितीयस्य पवमानगुणकस्य” वृ०। “स हव्यवाडमत्याऽग्निर्होता पुरोहित इति स्विष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्” २१ सू०। “सौविष्टकृत्योर्याज्यानुवाक्ययोरृचोरनेन संयाज्ये इति संज्ञा विधीयते” वृ०। “सर्वत्र देवतागमे नित्यानाभपायः” २२ सू०। “सर्वत्रेति प्रकरणान्तरेऽपीति दर्शयति। देवतागम इत्यत्र समासनिर्देशस्य तुल्यत्वाद्देवतायाः देवतयोर्देवतानां वा आगम इत्येवं भवति। नित्यानां प्राकृतीनामित्यर्थः। अपाय उद्धार इत्यर्थः। एतदुक्तं भवति। विकृतौ देवतायाः एकस्या आगमे द्वयोर्बह्वीनां वा अनागमेऽपि प्राकृतीनां सर्वासामुद्धार इति स्यां पुनर्विकृतौ इष्टिनोदनां कृत्वा देवतां न विदधाति, तत्र नोद्धारः प्राकृतोनाम्। तत्र ता एव देवता भवन्तीत्यर्थः। यथा गदितः सोमेन पशुना इष्ट्या वा इत्यादौ” वृ०। “याः स्विष्टकृतमन्तराज्यभागौ च तास्तत्स्याने” २३ सू०। “नित्यानामपाय उक्तः। तत्र किं सर्वा नित्या उद्धतेव्याः उत काचिद्देवतेत्येतं संशयं निवर्तयति या आज्यभागौ स्विष्टकृतं चान्तरा देवता यष्टव्यास्ता उद्वर्तव्याः। याः पुनर्विकृतौ विहितास्तास्तत्स्थाने उ- द्धृतानां प्रांकृतीनां स्थाने भवन्ति” इति वचनात्, तद्धर्मिकाश्च भतन्तीति गम्यते” वृ०। “एष समानजातिधर्मः” २४ सू०। “योऽयमतिदिष्टो विधिर्देर्वताभ्योऽन्यत्रापि स समानजातीयेषु भवति। समानजातीय एककार्य इत्यर्थः” वृ०। “द्वीतोयस्यां वृधन्वन्तौ अग्निः पावकोऽग्निः शुचिः स नः पावकदीदिवोऽग्ने पावकरोचिषाग्निः शुचिव्रततन उदग्ने शुचयस्तव” २५ सू०। “एकः पावकगुणकोऽग्निः, अपरःशुचिगुणकः। “साह्वान् विश्वा अभियुजोऽग्निमीले पुरोहितमिति संयाज्ये तृतीयस्यां सामिधेन्यावावपते प्रागुपोत्तमायाः पृथुपाजा अमर्त्य इति द्वे” २६ सू०। “आवपते
इति वचनात् अधिके एते सामिघेन्यौ भवतः। प्रथमायां द्वितीयस्यां तृतीयस्यामिति वचनात् यस्यामिष्टौ यत् तन्त्रं विहितं तस्यामेकदेवतायामपि तत् तन्त्रं भवति न यथोक्तनानादेवतायामेवेति” वृ०। “ध्याय्ये इत्युक्त एते प्रतीयात् पुष्टिमन्तावग्निना रयिमश्नवद्गयस्फानो अमीवहेति। अग्नीषोमाविन्द्राग्नी विष्णुरिति वैकल्पिकानि” २७ सू०। “त्रयाणामेको गृह्यते” वृ०। “अदितिः” २८ सू०। अदितिश्चान्या, अस्यां द्वे देवते” वृ०। “उत त्वामदिते सुव्रतानामृतस्य पत्नीमवसे हुवेम तुविक्षत्रामजरन्तीमुरूचीं महि महीमूषु मातरं सुशर्माणमदितिं सुप्रणीतिम्” २९ सू०। “एषा कल्पजा” वृ०। “प्रेद्धो अग्न इमो अग्न इति संयाज्ये विराजावित्युक्त एते प्रतीयादिति तिस्रः” ३० सू०। “इत्येतास्तिस्र इष्टयोऽनुक्रान्ता इत्यर्थः। उक्तानुकीर्त्तनमुत्तरार्थम्। यदाद्योत्तमे वैव स्यातामाद्या वेति पक्षस्तदापि तिसॄणामिष्टीनां यावत्यो देवतास्ताः सर्वा यष्टव्या इत्येवमथेम्। आद्योत्तमपक्षे मध्यमायां ये देवते ते आद्यायामेव प्रक्षेप्तव्ये। यदा पुनराद्यैव तदा सर्वा देवता आद्यायामेव प्रक्षेप्तव्या इत्येवमर्थम्” वृ०। “आद्योत्तमे वैव स्याताम्” ३१ सू०। “इष्टी इति शेषः। “आद्या वा” ३२ सू०। “आद्यैववेष्टिर्भवतोत्यर्थः” वृ०। “तथा सति तस्यामेव धाय्ये विराजौ” ३३ सू०। “यद्याद्यैव भवति तदा द्वितीयतृतीययीरपि देवतास्तत्र भवन्तीत्युक्तम्। अतस्तस्यामेव धाय्ये विराजौ भवतः। धाय्याविराजामनुप्रवेशस्य निमित्तं तृतीयस्या इष्टेर्देवतानुप्रवेश इत्येवमर्थं तथा सतीत्युक्तम्” वृ०। “इतिमात्रे विकारे वैराजतन्त्रेति प्रतीयात्” ३४ सू०। “पौर्णमासतन्त्रायामिष्टौ धाय्याविराण्मात्रे विकारे सति सेष्टिर्वैराजतन्त्रेति वेदितव्या” वृ०। “आधानाद् द्वादशरात्रमजस्राः” ३५ सू०। “अत्राधानमिष्टीश्चोक्त्वा आधानादूर्द्ध्वं द्वादशरात्रमजस्रा इत्युक्तम्। तस्यायमभिप्रायः, यावता कर्मसमुदायेनाग्नीनां सिद्धिर्भवति तावतः कर्मसमुदायस्याधानशब्दो वाचक इति ज्ञापयितुम्। तेनाग्न्याधेयं पुनराधेयं वेत्यत्र सेष्टिकस्याधानस्य ग्रहणं भततीति सिद्वम्। आधानेनेष्टिभिश्च सिङ्गाग्नयो द्वादशाहोरात्राणि सर्वे स्वरूपेणैव धार्यन्ते। एतदजस्रधारणमग्निहोत्रपूर्व एवाधाने भवति, अग्निहोत्रस्यैवानन्तरमुच्यमानत्वात्। अनुष्ठानक्रमेणैव कर्मणां व्याख्यानमित्युक्तत्वाच्च” वृत्तिः। एवमिष्टिसामान्यं प्रदर्श्य विशेषेष्टयस्तत्र दर्शिताः तत्रादौ नवशश्येष्टिः साचाग्रायणशब्दे दर्शिता तत्र राज्ञ एवाधिकारः त्रयाणां वर्ण्णानामविशेषेणेतिकल्पद्वये प्राप्ते राज्ञो विशेष उच्यते “इष्टिस्तु राज्ञः” “सर्व्वेषां चैके एके सर्वेषामिष्टिरेवेति मन्यन्ते” २, ९, ६, ७,। “श्यामाकेष्ठ्यासौम्यचरुः स च वर्षत्तौ तत्र याज्यादिकं २, ९, ८, ९, १०, सू० उक्तम्। अन्यनवान्नभोजने जप्यमन्त्रादिकमुक्तम् १२, १३। एतानित्या इष्टयः अथकाम्याः इष्टयः २, १०, १२, सूत्रादौ। तत्र आयुष्कामेष्टिस्तत्र अग्निगुणभेदजीवातुमद्देवता २, १०, २, ३, ४, सू०। स्वस्त्ययनेष्टिः रक्षितवद्देवताका तत्र याज्यादिकम् ५, ६, ७, पुत्रकामेष्टिः पुत्रयद्गुणकाग्निदेवताका तत्र याज्यादि ८, १, १०, वैमृधेष्टिः विमृद्गुणकेन्द्रदेवताका तत्र याज्यादिकं १३, १४, १५, सू०। आशेष्टिराशापालदेवताका तत्र याज्यादिकम् १७, १८, सू०। लोकेष्टिः पृथिव्यन्तरिहदेवताका तत्र याज्यादिकम् २०, २१, २२, सू० मित्रप्राप्तिकामेष्टिः अग्निसोमवरुणमित्रेन्द्रवृहस्पतिसवितृपूषन् स्वरस्वतादेवताका तत्र याज्यादि ११, २, ३, ४, ३। इयमिष्टिः महावैराजीनामा। अभिचारकामेष्टिः स्नुषाश्वशुरीयनाम्नी सूरगुणकेन्द्रदेवताका तत्र याज्यादि ११, ७, ८, ९। विमतसम्मतिकामेष्टिः संज्ञानी नाम वसुरुद्रादिगुणकाग्निसोमादि चतुष्टयदेवताका तत्र याज्यादि १०, ११। भेदकामेष्टिः। इन्द्रामरुद्देवताका तत्र याज्यादि १३, १४, १५, १६, सू०। सम्पत्तिकामेष्टिः ऐन्द्रामारुती संज्ञानोवत् याज्यादिकम्। १७, सू०। शत्रभिभवनिवृत्तिकामेष्टिः ऐन्द्रावाहेस्पत्या तत्र याज्यादि १८१९ सू०। पवित्रेष्टिः। अग्न्यादिदेवताका तत्र याज्यादि २, १२, १। “वैश्यानरीं व्रातपतीं पवित्रेष्टिं तथैव च। ऋतावृतौ प्रयुञ्जानः पुनाति दशपौरुषम्”। वृष्टिकामेष्टिः कारीरी नाम सा च अग्न्यादि- नानादेवताका अग्निदेवताका वा तत्र याज्यादि २, १२, १, ३, ४, ५, ६, ७, ८, ९, सू०। सर्वाश्च एता दर्शपौर्णमासेतिकर्तव्यताकाः। पश्रुगुणके कर्म्मणि पशोरुभयतोऽन्यतरतो वा पशुकामेष्टिः सा च आग्नेयी आग्नावैष्णवी वा आश्व० श्रौ० सू० ३, १, २, ३, ४ सू०। तस्यामितिकर्त्तव्यतायाज्यादि तदुत्तरसूत्रजातैरुक्तम्। विध्यपराधप्रायश्चित्तीष्टिः ३, १०, १, सू० विध्यपराधस्वरूपकारणप्रदर्शनपूर्बकं तत्करणप्रकारादि तदुत्तरसूत्रजौर्दर्शितम्। वारुणीष्टिः तत्प्रकारादि ३, १२, ५, प्रातःकालातिपत्तौ प्रातरिष्टिः तत्र देवतादि ३, १२, १२, आर्त्त्याश्रुपात्रे च सैवेष्टिः ३, १२, १५ निमित्तभेदेर्य्य प्रायश्चित्तीष्टौ देवताभेदादि ३, १२, १६, आरम्य आध्यायात् सूत्रैरुक्तम्। उखासम्भरणीयेष्टिः तद्देवतादि ४, १, २१ २६ सू०। दीक्षाप्रयोजनेष्टिः दीक्षणीया नाम तत्रदेवतादि ४, २, १, १८, सू० पर्य्यन्तेनोक्तम्। प्रायणीयेष्टिः तत्र देवतादि ४, ३, १ सूत्रादौ। आतिथ्येष्टिः तत्र देवतादि ४, ५, १ सूत्रादौ। उदयनीयेष्टिः तद्देवतादि ६, १४, १, सूत्रादौ उदवसनीयेष्टिः तद्देवतादि ६, १४, १, २३, सूत्रादौ। अन्याः पुनराधेयेष्टिप्रभृतयोऽपि इष्टयः विस्तरभयान्नोक्ताः आकरेषु दृश्याः।
शत० ब्रा० १, ६, २, १२, इष्टिकरणप्रकारविशेषो दर्शितःयथा। “स यदीष्टिंकुव्वींत सप्तदश सामिधेनीरनुब्रूयादुपांशु देवता यजति तद्धीष्टिरूपं, मूर्द्धन्यतौ याज्यानुवाक्ये स्यातां वार्तघ्नावाज्यभागौ, विराजौ संयाज्ये” “अग्नेरिष्टिमभिधाय अथ पृथक् प्रयोक्तव्याया आग्नेयेष्टेर्वैशेषिकमङ्गजातमाह। यदीष्टिं दर्शपूर्णमासाभ्यां पृथगेव कुर्व्वीत प्रधानदेवता उपांशु यजेत तदुपांशुत्वं काम्येष्टि रूपं खलु। मूर्द्ध्वन्वत्यौ “अग्निर्मूर्द्धा” “भुवोयज्ञस्य” इत्येते। (यजु० १३, १४, १५,) मूर्द्धन् शब्दवत्यौ प्रधानस्य याज्ये स्विष्टकृद्याज्यापुरोऽनुवाक्ये, विराजौ विराट्छन्दस्के “प्रेद्धो अग्ने” “इमो अग्न” इत्येते (यजु० १७, ७६, ७७) भवतः” भा०
दर्शपौर्णमासयाग कृत्वा प्रायश्चित्तेष्टिः कार्य्या तत्प्रकारः शत० ब्रा० ११, १, ३, १, दर्शितो यथा। “पौर्णसासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपति तेन यथेष्ट्यैवं यजतआमावास्येनेष्ट्वाअदित्यै चरुमनुनिर्वपति तेन यथेष्ट्यैवं यजते १। स यत्पोर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपतीन्द्रो वै यज्ञस्य देवताथैतदग्नीषोमीयं पौर्णमासं हविर्भवति तत्र नेन्द्राय त्वेति किं चन क्रियते एतेनी हास्यैतत् सेन्द्रं हविर्भवत्येतेन सेन्द्रो यज्ञोऽथ यद्विमृधे त्वेति सर्वा उ हि मृधो नाष्ट्राः पौर्णमासेन हन्ति २। अथ यदामावास्येनेष्ट्वा अदित्यै चरुमनुनिर्वपत्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न परस्तान्न पश्चाद्ददृशे तेनैतदनद्धेव हविर्भवति तेनाप्रतिष्ठितमियं वै पृथिव्यदितिः सेयमद्धा सेयं प्रतिष्ठितैतेन हास्यैतदद्धेव हविर्भवत्येतेन नाप्रतिष्ठितमेतन्नु तद्यस्मादनुनिर्वपत्यथ तस्मादनुनिर्व पेत् ४। स यत्पौर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपति सेन्द्रो मे यज्ञोऽसदिति सर्वो वै यज्ञ इन्द्रस्यैव स यत्सर्वो यज्ञ इन्द्रस्यैवैतेनो हास्यैतत् सेन्द्रं हविर्भवतृतेन सेन्द्रो यज्ञः ४। अथ यदामावास्येनेष्ट्वा अदित्यै चरुमनुनिर्वपत्यामावास्य” वा अनुनिर्वाप्यं पौर्णमासेन वा इन्द्रो वृत्रमहंस्तस्मा एतद्वृत्रं जघ्नुषे देवा एतद्धविरनुनिरवपन् यदामावास्यं किमनुनिर्वाप्येऽनुनिर्वपेदिति तस्मान्नानुनिर्वपेत् ५। स यत् पौर्ण्णमासेनेष्ट्वा अथान्यद्धविरनुनिरपत्यामावास्येनेष्ट्वाथान्यद्धविरनुनिर्वपति द्विषन्तं ह स भ्रातृव्यं प्रत्युच्छ्रयतेऽथ यः पौर्णमासेनैव पौर्णमासीं यजतआमावास्येनामावास्यामसपत्ना हैवास्यानुपबाधा श्रीर्भवति ६। पौर्णमासेन वै देवाः पौर्णमासीं यजमाना आमावास्येनामावास्यां क्षिप्रएव पाप्मानमपाघ्नत क्षिप्रे प्रायाजन्त स यो हैवं विद्वान् पौर्णमासेनैव पौर्णमासीं यजतआमावास्येनामावास्यां क्षिप्रएव पाप्मानमपहते क्षिप्रे प्रजायते स यद्यनुनिर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादिति ह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इति न्वनुनिर्वाप्यस्याथाभ्युदितस्य ७” ३ कण्डिका। “अद्यामावास्येति मन्यमान उपवसति। अथैष पश्चाद्ददृशे स हैष दिव्यः श्वा, स यजमानस्य पशूनभ्यवेक्षते तदपशव्यं स्यादप्रायश्चित्तिकृत एतस्मादु हैतद्भीषावचन्द्रमसादिति” १। छायामुपसर्पन्ति। एतेनो हैतदुपतपदाचक्षते श्वलचितमित्येतमु हैवैतदाचक्षते २। शशश्चान्द्रमस इति। चन्द्रमा वै सोमो देवानामन्नं तं पौर्णमास्यामभिषुण्वन्ति सोऽपरपक्षेऽप ओषघीः प्रविशति पशवो वा अप औपधीरदन्ति तदेनमेतां रात्रिं पशुभ्यः संनयति ३। सोऽद्याभावास्येति मन्यमान उपवसति। अथैष पश्चाद्ददृशे तद्यजमानो यज्ञपथादेति तदाहुः कथं कुर्यादित्वा यज्ञपथाद्यजेता ३ न यजेता ३ इति यजेत हैव न ह्यन्यदपक्रमणं भवति श्वः–श्वः एवैष ज्यायानुदेति स आमावास्यविधेनैवेष्ट्वाथेष्टिमनुनिर्वपति तदहर्वैव श्वो वा ४। तस्य त्रीणि हर्वींषि मवन्ति। अग्नये पथिकृतेऽष्टाकपालं पुरोडाशम्, इन्द्राय वृत्रघ्नएकादशकपा- लम्, अग्नये बैश्वानराय द्वादशकपालं पुरोडाशम् ५। स यदग्नये पथिकृते निर्वपति। अग्निर्वै पथः कर्ता स यस्मादेवादो यजमानो यज्ञपथादेति तमेनमग्निः पन्थानमापादयति ६। अथ यदिन्द्राय वृत्रघ्ने। पाप्मा वै वृत्रो यो भूतेर्वारयित्वा तिष्ठति कल्याणकर्मणः साधोस्तमेतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हन्ति तस्मादिन्द्राय वृत्रघ्ने ७। अथ यदग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपति यत्र वा इन्द्रो वृत्रमहंस्तमग्निना वैश्वानरेण समदहत्तदस्य सर्वं पाप्मानं समदहत्तथोएवैष एतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हत्वा तमग्निना वैश्वानरेण संदहति तदस्य सर्व पाप्मानं संदहति स यो हैवं विद्वानेतयेष्ट्या यजते न हास्याल्पश्चन पाप्मा परिशिष्यते ८। तस्यै सप्तदश सामिधेन्यो भवन्ति। उपांशु देवता यजति याः कामयते ता याज्यानुवाक्याः करोत्येवमाज्यभागावेवं संयाज्ये ९। तिसृधन्वं दक्षिणां ददाति। धन्वना वै श्वानं बाधन्ते तदेतमेवैतद्बाधते यत्तिसृधन्वं दक्षिणां ददाति १०। दण्डं दक्षिणां ददाति। दण्डेनवैश्वानं बाधन्ते तदेतमेवैतद्बाधते यद्दण्डं दक्षिणां ददात्येषाऽन्वादिष्टा दक्षिणा दद्यात्त्वेवास्यामप्यन्यद्याइतरा दक्षिणास्तासां यत् सम्यद्येत सा सा हैषा पशव्येष्टिस्तयाप्यनभ्युद्दृष्टो यजेतैव” ४ क०। “दर्शयागे पुरस्ताच्चन्द्रदर्शनप्रायश्चित्तेष्टिरुक्ता अथ पश्चात्तद्दर्शने नैमित्तिकीमिष्टिं विधित्सुराह। अथानन्तरं सायंकाले एष चन्द्रमाः पश्चात् प्रतीच्यां दिशि ददृशे दृश्यते। अभ्यवेक्षते अभ्यवहर्तुं पश्यति यथा शालावृको वने संचरतो मेषादीन् पशूनभ्यवजिहीर्षति। एतस्मादेव स्वलु चन्द्रसम्बन्धिस्वरूपेण पूर्वोक्तवत् अकारः समासान्तः तस्माच्चन्द्रादिति भीषा उक्तरूपया भीत्या, छायामुपगच्छन्ति गवाद्याः पशवः तिरोहिता यजमानस्य भवन्तीत्यर्थः पशूनामुपतापकारि यदेतच्चन्द्रदर्शनं तत् श्वलुचितं शुना रिक्रीकृतमित्याचक्षते २। एतमेव चन्द्रगतं दोषमेवमाचक्षते, चन्द्रमसः सम्बन्धी तन्मण्डलमध्यवर्त्ती शश इति अत एय तस्य शशाङ्क इति प्रसिद्धिः। उपवसथकाष्ठां गतं देवान्नरूपं चन्द्रमसं पौर्णमासीकाले द्रवीकुर्वन्ति। पशव ओषघीर्जग्ध्वा अपश्च पीत्वात्मनि तं चान्द्रमसं कृत्स्नं रसममावास्यायां धारयन्ति तत एनं रसममावास्यासम्बन्धिन्यां रात्रौ पशुभ्यः सकाशात् संनयति सम्यक्पापयति। तत्सनयन प्रतिपच्चन्द्रदर्शने सति नोपपद्यते। ६ दर्शयागस्यातिक्रान्तकालत्वे दोषमुपन्यस्य तन्त्रानुष्ठानप्रकारमाह। प्रकृतो दर्शयागः शीघ्रं समापनीयः अनन्तरमेवैवेतद्दोषपरिहाराय प्रायश्चित्तेष्टिः कर्त्तव्या। स आमावास्यविधेनैवेति यश्चोदितकालेऽनुष्ठितोऽमावास्यायागस्तत्प्रकारेणैव प्रतिपदि प्रक्रान्तां दर्शेष्टिं समाप्य ४। अथास्यामिष्टौ प्रकृतिवद्विकृतिः कर्त्तव्येति नोदकप्राप्तेष्वङ्गेषु विशेषं विधत्ते। प्रकृती पञ्चदश अत्र नोदकप्राप्तास्ताः पृथुवाजवत्यौ धाय्ये द्वेइति सप्तदश (सामिधान्यः) भवन्ति। प्रकृतौ प्रधानयागे उच्चैष्ट्वघर्मः। प्रकृतदेवतालिङ्गयुक्ताश्चतुःषष्ट्यां दाशतय्यां समाम्नाता या ऋचताः कामयते। आज्यभागयोः स्विष्टकृद्यागे च याथाकाम्यम् ९। तिसृभिरिषुभिर्युक्तं धनुः तिसृधन्वम् पूर्ववदकारः समासान्तः। एतं चन्द्रात्मकं दिव्यं श्वानम् १०। अदृश्यमानचन्द्रेऽ,ऽपि” ११ भा० “इष्टीः पार्वायणान्तीयाः केवलानिर्वपेत् सदा” मनुः “प्राजापत्यां निरूप्येष्टिम्”। “हेमन्ते नवशस्येष्ट्या” मनुः “आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः” रघुः। २ “यागमात्रे च “कर्तुमिष्टिमभिवाञ्छता मया” माघः राजसूययागाभिप्रायमिदम्। इष–क्तिन्। ३ इच्छायाम्। इष्टप्रयोगनिर्वाहाय पातञ्जलभाष्यकृतः इच्छाबोधके ४ श्लोकाद्यात्मक वाक्यभेदे च। यथा। “द्विपर्य्यन्तानामेवेष्टिः” सर्वनाम्नोवृत्तिमात्रे पुंवद्भाव” इत्यादि। एतयेष्ट्या “ठक्छशोश्च” वार्त्ति० “एकतद्धिते चेति” सूत्रञ्च गतार्थम्ऽ सि० कौ०। “अनुत्सूत्रपदन्यासेति” माघव्याख्याम् अनुत्सृष्टसूत्राक्षरा इष्ट्युपसंख्याननैरपेक्ष्येण सूत्राक्षरैरेव” इति मल्लि०।
इष्टिका = स्त्री इष–तिकन्। इष्टकाशब्दार्थे “उद्वर्षणं त्विष्टिकया कण्डुकोठविनाशनम्” सुश्रु०। “इष्टिका काञ्चनीचात्र चयनार्थं कृताऽभवत्” मा० आश्व० ८८ अ०।
इष्टिकापथिक = न० इष्टिकायाः पथिकं तदुद्भेदेनापि प्रभवत्वात्। नामज्जकतृणे राजनि०।
इष्टिकृत् = त्रि० इष्टिं यागं कृतवान् कृ–भूते क्विप् ६ त०। कृतयागे।
इष्टिन् = त्रि० इष्टमनेन इष्टा० इनि। कृतयागे “अध्वरेष्विष्टिनां पाता” भट्टिः।
इष्टिपच = पु० इष्टये इच्छायै अभिलाषार्थं पचति न यज्ञायों पच–अच्–४ त०। १ कृपणे २ दैत्ये च शब्दर०। स ह स्वेच्छापूरणार्थमेव पचति न यज्ञार्थमिति तस्य तथात्वम्।
इष्टिपशु = पु० ६ त०। यज्ञिये पशौ।
इष्टिमुष् = त्रि० इष्टिं यागं मुष्णाति मुष–क्विप् ६ त०। दैत्ये त्रिका०।
इष्टियायजूक = पु० इष्ट्या यायजूकः। “काम्येष्टियजनशीले। “तस्मान्नेष्टियाजूकः स्यात् पशुभ्यः एकं प्रायच्छत्” वृ० उ०। इष्टियायजूकः इष्टियजनशीलः इष्टिशब्देन काम्या इष्ठयः शातपथप्रसिद्धाः ताच्छील्ययोगात्काम्येष्टि यजनप्रधानोन स्यात्” भा०।
इष्टीकृत = त्रि० अनिष्टमिष्ट कृतम् इष्ट + च्वि–कृ–कर्मणि क्त। अनिष्टे इष्टे कृते। अनिष्टिरिष्टिः कृता। इष्टिभेदे सत्रे न०। “सत्रमिष्टीकृतं नाम समुपास्ते महातपाः” भा० व० २५९ अ०
इष्ट = स्त्री इष–भावे तुन्। इच्छायाम् उणादिकोषः।
इष्ट्ययन = न० इष्ट्यायनं गमनं यत्र। “यागविशेषाचरणभेदे” इष्ट्ययनञ्च आश्व० श्रौ० २, १४, सूत्रादौ दर्शितं यथा “अत ऊर्द्ध्वमिष्ट्ययनानि” १। “अत ऊर्द्ध्वं यानि वक्ष्यन्तेऽस्मिन् अध्याये तानि इष्ट्ययनसं ज्ञानीति विद्यात्। इष्टिभिरयनं गमनं येषु कर्मसु तानीष्ट्ययनानि” नारा० वृ०। “सांवत्सरिकाणि” २ सू०। “संवत्सरेण क्रियन्ते संवत्सरैश्च क्रियन्त इत्युभयथा विग्रहः कर्तव्यः, दाक्षायणयज्ञचातुर्मास्यानामनेकसांवत्सरिकत्वसिद्ध्यर्थम् वृ०। “तेषां फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा प्रयोगः” ३ सू०। “फल्मुनीर्भिर्युक्ता पौर्णमासी फाल्गुनी, चित्रया युक्ता चैत्री। तेषां सांवत्सरिकाणां आगन्तुकानामस्मिन् काले प्रारम्भः कार्यः। दर्शपूर्णमासगुणविकाररूपाणां दाक्षायणयज्ञादीनामारम्भे कालनियमो नास्तीति तेषामित्युच्यते” नारा० वृ०। “तुरायणम्” ४ सू०। “तुरायणं नामेष्ट्ययनमुच्यते” वृ०। “अग्निरिन्द्रो विश्वेदेवा इति पृथगिष्टयोऽनुसवनमहरहः” ५ सू०। “अग्निदेवत्या इन्द्रदेवत्या विश्वदेवदेवत्या चैतास्तिस्र इष्टयः त्रिषु सवनेषु यथासङ्ख्येन एकैकेष्टिः कार्याऽहन्यहनि। अहरहरिति वचनं पौर्णमास्यमावास्ययोर्बाधनार्थम्” वृ०। “एका वा त्रिहविः” ६ सू० “एताभिरेव देवतामिर्युक्ता एकैवेष्टिस्त्रिहविष्काऽहन्यहनि प्रातः सवन एव कर्त्तव्या वेत्यर्थः” वृ०। “इडादधोनामेष्ट्ययनं तत्र देवतादि २ १४ १–१०” द्यावापृथिव्योरयनं नामेष्ट्ययनं तत्र देवताइ २, १४, १२, १५” “चातुर्मस्यानि इष्ट्ययनानि तद्देवतादि २, १५, १ सूत्रादौ। एवमन्यान्यपि इष्ट्ययनकर्म्माणि आकरे दृश्यानि
इष्ट्वा = अव्य० यज–क्त्वाः। १ यागं कृत्वेत्यर्थे। “अश्वमेधेन चेष्ट्वा” मृच्छकटिकम्। इष–क्त्वा। २ अभिलष्येत्यर्थे च।
***