इन्ध = दोप्तौ रुधा० आ० अक० सेट् निष्ठायामनिढ्। वर्त्तमानेचाऽतोनिष्ठा। इन्धे, इन्धाते, इन्धते, “यं त्वां जनास इन्धते ऋ० ८, ४, ३ इन्धीत, इन्धाम्। इन्त् स्य इन्ध्वम्। ऐन्ध ऐन्धिष्ट इन्धाम्–बभूव। आस चक्रे इन्धिष्यते ऐन्धिष्यत। इन्धितव्यम्। इन्धिता इन्धनम्। इद्धोवर्त्तते। क्विप् समित् इन्धानः “अग्निमिन्धानो मनसा वियम् सचेत मर्त्यः” ऋ०। भावे इध्यते ऐन्धि। “परो यदिध्यते दिवि छा० उ० तु पदगणव्यत्यासः।
इन्ध = पु० इन्घ + करणे–घञ्। १ काष्ठे इन्ध–अच्। २ दीप्तियुक्ते। ३ तन्नामके ऋषिभेदे पु० ततः गोत्रे नडा० फक्। ऐन्धायनस्तद्गोत्रापत्ये पुंस्त्री। दीप्तियुक्ते दक्षिणनेत्रे विशेषेण स्थिते ४ परमात्मनि पु०। तस्य तदर्थत्वञ्च समर्थितम् वृ० उ० भा०। “इन्धोह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषस्त वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षैणेव, परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः” “इन्धोह वै नाम इन्ध इत्येवं नामायं “चक्षुर्वै ब्रह्मेति” आदित्यान्तर्गतः पुरुष एषः, योऽयं दक्षिणेऽक्षन् अक्षिणि विशेषेण व्यवस्थितः। स च सत्यनामा तं वा एतं पुरुषं दीप्तिगुणत्वात् प्रत्यक्षं नामास्य इन्ध इति तमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेण, यस्मात् परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति” भा० “इन्धयति दीपयति इन्ध–णिच्–अच्। ५ दीपके त्रि०। एतस्मात् पूर्वस्थयो! म्राष्ट्राग्नेयोः समासे मुम्। भ्राष्ट्रमिन्धः अग्निमिन्धः। “होत्राध्वर्युरावया अग्निमिन्धो ग्रावग्राभः” यजु० २५, २८, अग्निमिन्धश्च अग्नीत् नाम ऋत्विक्।
इन्धन = न० इध्यतेऽनेन इन्ध + करणे–ल्युट्। १ काष्ठे “इन्धनौघ घगप्यग्निस्त्विषा नात्येति पूषणम्” माघः। “कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने” मनुः। इन्धने इन्धनापहारे इत्यर्थः “इन्धनार्थमशुष्काणाम्” प्रा० वि० स्मृतिः। इन्धयति इन्ध–णिच्–ल्यु। २ दीपनकर्त्तरि त्रि०। भावे ल्युट्। ३ प्रज्वालने न०।
इन्धन्वन् = त्रि० इन्धन + मत्वर्थीयः। वेदे वनिप् नि० वर्ण्णलोपः। इन्धनयुक्ते। “इन्धन्वभिर्धेनुभीरप्सदूधभिः” ऋ० २, ३४, ५, “इन्धन्वभिः समिन्धनवद्भिः” भा०।
इन्व = गतौ भ्वा० निरु०। इनधातौ ९२८ पृष्ठे विवृतिः।
इन्वका = स्त्री इन्वति इन्व–अक् स इव कायति कै–क। मृगशिरोनक्षत्रोपरिस्थे इल्वलाख्यतारासु अमरटीका।
इभ = पु० इण्–भ किच्च। १ हस्तिनि, “वन्येभदानाविलगन्धदुर्द्धराः माघः २ तत्संख्यातुल्यसंख्याके अष्टलंख्यान्विते च। गजाहि अष्टसु दिक्षु ख्यिता ऐरावतादयोऽष्टौ वर्त्तन्ते इति तेषामष्टत्वम्। ते च “ऐरावतः पुण्डरीकः वामनः कुमुदोऽञ्जनः। पुष्पवन्तः सार्व्वभौमः सुप्रतीकश्च दिग्गजाः” अमरोक्तक्रमेण पूर्व्वादीशानान्तदिक्षु स्थिताः। अस्य च उत्तरपदस्थत्वे श्रेष्ठार्थद्योतकता व्याघ्रादेराकृति गणत्वात् उपमितसमासः। स्त्रियां ङीप्। जातित्वात् पोटाशब्देन समासेऽस्य पूर्बनिपातः पुंवद्भावश्च इभपोरा
इभलक्षणविभागादि वृह० सं० “मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धाश्च कृशाः क्षमाश्च। गात्रैः समेश्चापसमानवंशा वराहतुल्यैर्जघनैश्च भद्राः।। वक्षोऽथ कक्षावलयः श्लथाश्च लम्बोदरं त्वग्वृहती गलश्च। स्थूला च कुक्षिः सह पेचकेन सैंही च दृङ्मन्दमतङ्गजस्य।। मृगास्तु ह्रस्वाधरवालमेढ्रास्तन्वङिघ्रकण्ठद्विजहस्तकर्णाः। स्थूलेक्षणाश्चेति यथोक्तचिह्नैः सङ्कीर्णनागा व्यतिमिश्र चिह्नाः।। पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यमष्टौ च हस्ताः परिणाहमानम्। एकद्विवृद्धावथ मन्दभद्रौ सङ्कीर्णनागोऽनियतप्रमाणः।। भद्रस्य वर्णो हरितो मदस्य मन्दस्य हारिद्रकसन्निकाशः। कृष्णो मदश्चाभिहितो मृगस्य सङ्कीर्णनागस्य मदो विमिश्रः।। ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः। चापोन्नतायतनिगूढनिमग्नवंशास्तन्वेकरोमचितकूर्मसमानकुम्भाः। विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतैर्द्विनवविंशतिभिर्नखैश्च। रेखात्रयोपचितवृत्तकराः सुबालाः धन्याः सुगन्धिमदपुष्करमारुताश्च। दोघोङ्गु- लिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिणः। वृहदायतवृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः। निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणान्। दृश्यकोशफलपुष्करहीनान् श्यावनील शवलासिततालून्। स्वल्पवक्त्ररुहमत्कुणषण्ढान् हस्तिनीं च गजलक्षणयुक्ताम्। गर्भिणीं च नृपतिः परदेशं प्रापयेदतिविरूपफलास्ते”।
हेमा० षरि० ख० लक्षणसमुच्चये विष्णुध०। “नागाः प्रशस्ता धर्म्मज्ञ! प्रमाणादधिकाश्च ये। दीर्घहस्ता महोच्छ्रायाऽवामनाश्च विशेषतः। निगूढवंशामध्वक्षा व्यूढा व्यूढोच्च मस्ताकाः” (व्यूढा विपुलाः) “विंशत्यष्टादशनखाः। शीतकालमदाश्च ये। ते प्रशस्तामहानागाः ये तथा सप्तसूच्छ्रिताः। दन्तच्छदेषु दृश्येत येषां स्वस्तिकलक्षणम्। भृङ्गारबालव्यजना वर्द्धमानाङ्कुशास्तथा। धार्य्या नैते तथा धार्या वामना ये च मत्कुणाः। हस्तिन्योयाश्च गर्भिण्योये च भूढा मत ङ्गजाः। अपाकलाश्च कुब्जाश्च सद्दन्ताएव भार्गव!। कुदन्ताश्च तथा वर्ज्या वामकूटाश्च यत्नतः। अश्रुस्मृशश्च कूटाश्च ये षण्ढा विकटाश्च ये”। राम उवाक्ष वामनाद्याश्च ये नागाः प्रोक्तानिन्दितनक्षणाः। तेषां तु श्रोतुमिच्छामि लक्षणं वरुणात्मज!। पुष्कर उवाच। आनाहायामसंपूर्ण्णोयोऽधिह्रस्वो भवेद्गजः। वामनः स समाख्यातोमत्कुणोदन्तवर्जितः। (आनाहःस्थूलता) (आयामो देर्घ्यम्) दशां चतुर्थी संप्राप्य वर्द्धेते यस्य न द्विजौ। स्थूणाघनायतौ स्यातां स मूढो हि गजोऽधमः। अपाकलो विशालेन दन्तेनैकेन वारणः। संक्षिप्तवक्षोज घनः पृष्ठमध्यसमुन्नतः। प्रमाणहीननाभिश्च स कुब्जोवारणाधमः। अनुन्नताभ्यां सद्दन्तः कुदन्तःस्यात्ततो बहिः। (बहिर्दन्तसीमनि)। वामदन्तोन्नतो नागो वामकूटश्च कथ्यते। दन्तावश्रुस्पृशौ यस्य सोऽश्रुस्पृगिति कोर्तितः। एकदन्तस्तथा नागः कूट इत्यभिधीयते। पादयोः सन्निकर्षः स्यात् यस्य नागस्य गच्छतः। स षण्डोऽध्वनि युद्वे च लक्षण ज्ञैर्न पूजितः। अरत्न्यभ्यधिकं यस्य विस्तरेणस्तनान्तरम्। विकटः सविनिर्दिष्टो दुर्गतिर्निन्दितोगजः। राम उवाच। श्रोतुमिच्छाम्यहम् देव! कुञ्जरंसप्तसूच्छ्रितम्। यं प्राप्य किल राजानोजयन्ति वर्सुर्धा नृपाः। पुष्कर उवाच। वर्चः सत्वम्बलं रूपङ्कान्तिःसहननञ्जवः। सप्तैतानि सदा यस्य स गजः सप्तसूच्छ्रितः। ये वामवद्दक्षिणपार्श्वभागेनाप्लातुकामाःपिटकोत्थयापि। ते नागसुख्या विजयाय युद्धे भवन्ति राज्ञां न हि संशयोऽत्र” तत्रैव पराशर- संहिता। “हस्तिनां जातिदेशवर्णाकृतिप्रमाणचेष्टादिलक्षणमनुव्याख्यास्यामः। तत्र जातयश्चतस्रो मवन्ति। भद्रा मन्दा मृगा मिश्राश्चेति तत्परिज्ञानमाकृतिचेष्टादिभिरुपदिश्यते। तत्र भद्र जातिश्चारुदृष्ट्यायतमुखोव्यूढोच्चमस्तकः उदग्रसत्वोऽनुवृत्तकरः श्रोता दोर्घपुष्कराङ्गुलिबालधिः महामन्योरोमशग्रीवः। स्थूलमेढ्रोदरताम्रतालुजिह्वौष्ठः सुपार्श्वः स्निग्धः सवर्ण्णमृदुरोमा कूर्म्मपादः स्तध्वस्थितिश्चितांसः पृथ्वासनः सूक्ष्मविन्दुचित्रोबह्वनुरोमोपचितश्रोत्रःसुनखो धनुःपृष्ठवंशो मधुवर्णतालुर्यूथाभिरक्षिता सहिष्णुरन्वर्थवेदी बलवान् कामातुरोवृक्षावमर्दी मृदुनोपायेन साध्य आशूपदे शग्राही च भवति”। (उदग्रो उच्चः अनुवृत्तकरः अनुक्रमेण वृत्तकरः पुष्करः कराग्रं मन्या धमनी अन्वर्थवेदी अग्रे वक्ष्यते)। मन्दजातिः संकेताभिज्ञः सुह्रस्वो महोदरकरश्रोताः स्थूलदन्तस्ततपृष्टवंशः स्थूलहस्तजिह्वांसग्रीवः, पृथुहस्तमस्तकः सुविभक्तोरःशिराःसुमृदुवृत्तश्रोत्रः स्थूलास्थिकरकवापीविलपादः सूक्ष्मनाभिस्तनुताम्रत्वक्कर्णकटः दीर्घोच्चमेढ्राङ्गुलिर्बालबालधिर्मुष्करन्ध्रकक्षवरणोपदिग्धोहर्य्यक्षः सुबद्धजघनः सवृत्तोरक्तोगम्भीरवेदी मन्दजातिः जातशङ्कोदृढमन्मथस्तीक्ष्णसाध्योयूथानुगाभी ग्रहणगतोपि नारिभयमाविशति। (गम्भीरवेदी वक्ष्यते उपदिग्धो लिप्तः) मृगजातीयः पुनर्ह्रस्वपुष्करोच्चहनुहस्तबाह्यमेहनसुदन्तनखपृथुवंशग्नीवास्योदरमेढ्रतनुर्विशालनेत्रस्तथावृत्ततनुश्रोत्रः कुण्ठोष्ठो घनायताग्रकायः संक्षिप्तकरालो न्यस्तमस्तकोदीर्घजिह्वोविषाणोपनीतः शीघ्रोबह्वशनोभारसाहो मनस्वी दुर्दमः स्वयूथपर्य्यन्तानुचारी भिन्नपुरीषोऽतिक्रमणवेदी क्लेशासहः क्रन्दनश्चेति। मिश्रास्तु तेषां परस्परसंयोगजाः सर्वसंकुललक्षणा इति। भद्रा श्रेष्ठाभवन्त्यासां मन्दा मध्या कनीयसी। मृगा मिश्राऽधिकै र्ज्ञेया गुणदोषैः समासतः। अथ वनभेदेन गजनेदाः। अथैषां प्राच्यकारूषदशार्णमार्गणेयककालिङ्ककापरान्तिकसौराष्ट्र पञ्चनदाख्यान्यष्टौ वनानि वासस्थानानि तेषां पृथक् पृत्यक् कर्म्मलक्षणमुपदेक्ष्यामः तत्र हिमवद्गङ्गाप्रयागलौहत्यान्तरे प्राच्यवनमत्रोत्पन्नाः कपिलाः अव्यग्राः कुनखपार्ष्णयोवारणाश्चलपृथुपेचकवंशपिण्डकाः पृथुहस्तामन्दवेगारूक्षाश्चपलाकृतयो भवन्ति। (पेचकः पुच्छभूलम्) मेकलो मत्स्यो गङ्गावतारश्चेति कारूकाख्यवनमत्रोत्पन्नाः श्यामाश्चण्डाः सुचरणाह्रस्वानात्या- यताः शीघ्रोदग्रावृहद्भिरुद्दामैर्द्दन्तैर्द्दन्तिनो भवन्ति। महागिरिदशार्णविन्ध्याटवीरावतीनां मध्ये दशार्णं वनमभिख्यातमत्र दीर्घाङ्गुलिपुष्कराः पाद्मभाः श्यामा वा दुर्ग्रहाः सुवृत्तजघनाग्राः सितसूक्ष्मविन्दुचित्राश्चूतफलतुल्यमद गन्धिनोविशालोत्सङ्गदन्ताः स्थूलहस्तास्यशिराग्रीवा मध्वक्षाः स्वासनाःसत्ववन्तश्च। पारिपात्रवैदिशब्रह्मावर्त्तवनानामन्तर्मार्गणेयकं वनमत्रोदग्नाः शीघ्रदीर्घक्रमेणोपदिग्धाङ्गाः बलवन्तोऽभिजाताः सुप्रमाणाः मध्वक्षामृदुत्वचः कचाविलप्राया अल्पपेचकाहरिश्यावाखण्डच्छन्नाः सुहस्ताः स्निग्धरोमाणः स्थिराः सुशरीराः कुरेणूनामधिपतयः स्वल्पतापाश्च। विपुलसह्यदक्षिणारण्योत्कलानां मध्ये कालिङ्गकं वनमत्र कलविङ्काक्षाः सर्व्वश्वेताः स्थिरपदाः शीघ्राः मृद्वरुणरीमाणस्तनुत्वगुदरादीर्घकेशबालधयो दीर्घक्रमाः बलवन्तोऽल्पपेचकाः पद्मप्रभा यातुरुदग्ना धनुःपृष्ठवंशारक्ततालुजिह्वौष्ठाः सुप्रयोगग्रहसुखाःवराहजधनाः नीचवृत्तनखाःस्थिरचरणाः आशुसुवेदिनोमधुदशनाः पीतह्रस्वशिरोधराः महोरगवृहत्कराः मृदुदीर्घहस्ताहस्तिनो भवन्ति। नर्म्मदोदधिसेवदेशान्तोपहारणामन्तरतोऽपरान्तिकं वनमत्र मानिनो धीराः श्यामाःसप्तप्रतिष्ठिताः दृश्यजघनशिरोधरा पीनायतविषाणाः स्वास्यका मृदुत्वच उदग्रादीर्घरक्तताल्वोष्ठजिह्वामहोत्सङ्गाः पद्ममदगन्धिनो धनुःपृष्ठवंशाविवृत्तास्यानान्यवनविचारिणः। द्वारकार्बुदावर्त्तनर्मदान्तरतः सौराष्ट्रकं वनमत्राल्पायुषश्चण्डाः पिङ्गायताक्षाः मध्यायताङ्घ्रयोऽल्पपेचका मृदुविभक्तमात्राप्रतिलोमलोमशचर रणास्तनुत्वक्कर्णनखाः सूक्ष्मदन्ताः शिक्षात्यज इति। हिमवत्सिन्धुकुरुजाङ्गलकानामभ्यन्तरे वनं पञ्चनदाख्यं तत्र स्फुटितरूक्षश्वेतांशुदन्तास्तनुविन्दूपचितकराः सुगन्धयोगृदवोमहापेचकदेशाङ्गप्रमाणाःसूक्ष्मवृहत्त्वचोदुर्विनेयाध्यानशीलाः कवलतृषो भवन्त्यपि। वनेष्वेतेषु जायन्ते प्रधानामध्यमोत्तमाः। प्रशस्ता निन्दिताश्चापि तेषां वक्ष्यामि लक्षणम्। नम्रजतुकाष्ठसङ्काशं ह्रस्वमल्पाङ्गुघपुष्रं दुर्गन्धं कर्कशत्वग्रोमाणमाततस्तव्यस्थूलविरलपर्वाणं हस्तिनो हस्तमध्यन्यविघातधन्यं पीतं मृदुरोमाणमनुपूर्वपतितं चारुदीर्घाङ्गुलिपोनं पृथुपुष्करंमृदुवलिनम्। सुगन्धिवृत्तं पञ्चहस्तायतं द्विरक्तं वृहत्च्छ्रोतोग्रोवुकाश च। कक्षस्फुटिताह्रस्वमलिनविषमचक्रखण्ड- सूक्ष्मदन्तावपूजितौ पूजितौ च स्निग्धश्लक्ष्णप्रदक्षिणोन्नतामलिनसममाहितौ मधुसवर्ण्णौ मुकुलिताग्रावावाधमन्यायातावष्टादशाङ्गुलपरिणाहौ। अथ विरूपविषमे वराहनकुलध्वाङ्क्षवानराभे रूक्ष्मविच्छिन्नेक्षणे सन्निमीलिते लोचने न पूजिते पूजिते च कलविङ्काभसूर्य्यमणि वह्नितुल्ये स्वनुपहिते च। प्रशस्तं समाहितमायतपृथु बाहित्यमवस्थितरक्ततालुजिह्वौष्ठचारुसूक्ष्मश्लक्ष्णविन्दूपचितं सर्व्वसंपूर्ण्णम्। मृदुमृदुनिर्याणपीडितपुष्करं विषममासनात् षडङ्गुलावाग्बन्धनाभावेन नतकुम्भलम्बम्बेनातिरिक्त प्रमाणं घण्टाघनपिङ्ग रूक्षास्थूलद्वन्द्व रोमोपचितमपूजितं शिरोवारणानां पूजितं महोदयस्थानमुपवितसप्तकमनिम्नखरनिर्याणं पृथुपुष्करं स्निग्धमृदुसूक्ष्णयुग्नरोमसुविभक्तोष्णीषवितानावग्राहं वा ह्रस्वीत्क्रुष्टोपक्रष्टौ वृत्तौ स्तब्धौ तनुविषमसिराततौ पीडितान्तावतिरुद्धप्रमाणौ संवृतच्छिद्रौ सान्द्रमृदुसुप्रमाणसिरालावपाठितपुटसंविपुलमूलिकौ, पृष्ठच्छिद्रौ दुन्दुभिस्वनौ वा। क्लेशावहाच्छिद्रातिदीर्घानुपचितपीडिका सुमुहती पृष्ठालम्बनात्युद्गतायतास्थानावपीडिता ग्रीवा वारणस्याप्रशस्ता शस्ता तु प्रह्वोपरि पिण्डिका दृढारक्षी त्रि बलिः सास्नारत्निपरीणाहा द्वादशाङ्गुलायता सर्वसम्पूर्ण्णा वा। विषममवाग्रं संक्षिप्तलम्वं संपुटमानसं विगर्हितं स्थिरं च विनतमत्युद्गतं वक्तं पृष्ठवंशयशोभनम्। शोभनमुपचितसूक्ष्मं धनुःप्रमाणमेवं संस्थानं विद्यात्। अथ पूर्व्वगात्रञ्छिद्रोन्नतांसं विकलितहस्तयोर्वृत्तं सिरालम्भनं स्तब्धव्याधिद्वन्द्वोहनिर्लग्नं विषमकचाबिलम् प्रमाणहीनमनिष्टम् इष्टमनुपूर्णोपचितं स्थिरविमक्ताजिलसत्कीटमनुपविम्बमुखमच्छिद्ररन्ध्रोपचितमथोरक्तं वा। अथ जघनं घनमुच्छ्रितास्थि निर्मांसपेचकं कलाहीनातिरिक्तप्रमाणं बालध्यनुयायि समनर्थकरम्। अर्थकरमत्पपेचकं पलोपचितमदृश्यशुष्कस्पष्टचतुरस्रमायताग्नं चारुबालधिपरिपूर्ण्णाण्डकोषायततया नासिरालपल्लवाकारमेहनमजयनञ्जयनं च श्यावाल्परूक्षस्फुटितनखश्लिष्टसन्धि, परुषासारतलसहा न पूजिताः पादाः अन्ये भवन्त्यपि च। विंशत्यष्टादशनखाः स्थिराः कूर्मसमाहिताः। गजानां पूजिताः पादा ये च स्युर्विकचाविलाः। पादाः कचाविला रुक्षविबर्ण्णाः परुषाः कृशाः। वारणानान्न शस्ताः स्युर्ये वा स्निग्धतनूरुहाः। सूक्ष्मबिन्दु चितां स्निग्धां त्वचं शंसन्ति दन्तिनाम्। आस्यस्पृशौ विशालस्य विषाणौ पार्श्वौन्नतौ। उपाहतो विशालेन दन्तैकेन वारणः। अनुन्नताभ्यां संपन्नःकुदन्तः स्यान्नतावधिः। ऊर्द्ध्वं वक्त्रान्तरालस्य प्रतिमानसमौ द्विजौ। ह्रष्वस्थूलातिदीर्घेण दन्तेनैकेन वा गुणाः। वर्ज्यास्ते शुभ कामेन सर्व्व एवातिगर्हिताः। अव्दद्वये नदीजानां पञ्चमेऽव्दे वनौकसाम्। दन्तमूलपरीणाहान् द्विगुणान्कल्पयेत्परे। शरशक्तिधनुश्चक्रशूलपट्टिसलक्षणाः। दन्ताग्रराजयो यस्य स नृपं वोढुमर्हति। रोम्णां तु संश्रयो यश्च पिटक स उदाहृतः। सं ज्येष्ठः सप्तभागोनोमध्यभोऽसौ मतङ्गजः। अन्त्यः षड्डागहीनः स्यादतोऽन्योहि न पूजितः। सुखाय पेचके दैघ्यं पृष्ठपार्श्वोदरान्तरम्। आनाहौच्छ्रय पादाद्विज्ञेयो यावदासनम्”। वनविशेषेण गजलक्षणं तत्रैव वार्हस्यत्यसंहिता। “वनानां मध्ये प्राच्यं कालि ङ्गकमापरान्तिकं च त्रीणि वनान्यतिशोभनानि। त्रयाणमपि प्राच्यं वनं मध्यवनमपरेषामिव शोभनम्। तत्रैरावतकुलप्रसूतिसम्भवाः प्रायेण मृगमिश्रभद्रण क्षणाः महाकायाः करिणो भवन्ति। विनयसत्वशक्तिसम्पन्नाःपूगफलप्रभास्ताम्रत्विषः प्रविरलमदा गजा युद्धेचापसर्पणोपसर्वणनीरवा भवन्ति नातिक्रोधनाः समुद्वेजिताः सत्वं दर्शयन्ति। ते च वृक्षैः कवलैः कायोपवघातातिशयेन मदाभिमुखाः कर्त्तृव्याः। कालिङ्गके वाऽऽपरान्तिके च त्रेतायुगोत्पन्नाः मन्दा महागजान्वयजा मन्दाभिधानाः प्रायशो मृगावयवाः सङ्कीर्ण्णागजाः समुत्पद्यन्ते। नात्युदग्रा जलदघ्रभा नातिस्थिरा मन्दा युद्धप्रियाश्च गजा भवन्ति। तथा कारूषदाशार्णमार्गणेयकाभिधानेषु मध्यमा गजाः समुत्पद्यन्ते मृगमन्दजातयः ते च चार्बवयवाः मध्यमबलामध्यम प्रमाणाः स्थूलरोमाबिलशरीरास्तनुरदा मन्दगतयः। तथा सौराष्ट्रे पाञ्चनदाभिधाने द्वापरयुगोत्पन्ना मृगमतङ्गजान्वया मृगप्राया गजाभवन्ति भीरवः कुत्सिताङ्गाः नातिचण्डादुर्मदाः दुर्वृत्ताश्च एवंविधागजाः समुत्पद्यन्ते वनाच्च वनान्तरे गतेषुदुर्वृत्तेषु गजेषु धेनुकासम्पर्केण गुप्तवनेऽपि कालिङ्गकेऽपि। त्रासशीलश्च भीरुश्व ह्रस्व वामनमस्तकः। हीनाग्रभोगो दुःशीलस्त्वसंहतशरीरभृत्। समुच्छ्रितस्त्वनायामी परीणाहविवर्जितः। मृगस्वरूपोदीनश्च मृगजातिर्गजाधमः। अतः परं प्रवक्ष्यामि संर्कीण्णस्य च लक्षणम्। पशुत्वाद्वारणानाञ्च गच्छतां च वियोनिषु। धेनुकासु भवन्त्येते गजा सं- कीर्ण्णलक्षणाः। मद्रोमन्दोमृगोवाथ शुद्धजातिः प्रजायते। तस्मान्मिश्राणि रूपाणि गदतोमे निबोधत। आनन्त्यान्मिश्रजातानां निश्चयोनोपपद्यते। तथापि किञ्चिदुद्वेशाम्निश्रलक्षणमुच्यते। भद्रमन्दो भद्रमृगो भद्रमन्द मृगस्तथा। इह भेदत्रयं मन्दमृगयोरपि जायते। भद्रादीनां च सर्वेषां रूपं संकीर्ण्णसंज्ञितम्। ऊर्द्ध्वाघः कार्य्यभेदेन तज्जनिर्मिद्यते द्विधा। त्रिधा च भिद्यतेमूय एकैकन्तु यथाक्रमम्। एवमष्टादशविधं कीर्त्तितं मिश्रलक्षणम्। शुभाशुभं विमागेन साम्प्रतम् निगदाम्यहम्। भद्र मन्दोभवेदिष्टोमृगमन्दस्तथाधमः। भद्रमन्द मृगश्चैव मध्यमः परिकीर्त्तितः। भद्रजाति र्महाकायोगजोमध्ये तु दन्तिनाम्। मन्दोऽवयवलेशेन स मुक्तो भवति द्विपः। मृगस्यापि हि रूपेण किञ्चिच्चानुगतेन वै। अशुभत्वं न भद्रस्य जायते शोभनोहि सः। लोचनानां प्रधानत्वं यस्माच्छास्त्रेषु कीर्त्तितम्। तस्मान्मृगाक्षिसंसक्तोभद्रोऽपि हि न शस्यते। भाद्रेणो परिकायेन मान्देनाधोगतेन वा। उन्नतोहि गजानान्तु भद्रमन्दोभवेद्गजः। अनेनैव हि रूपेण विपर्य्यासेन यो गजः। सोऽपि शोभन एव स्यान्मन्दभद्रैति स्मृतः। एवं विधात् मृगे चापि लक्षणान्मिश्रलक्षणम्। महावयवबाहुल्यात् मृगरूपस्यलेशतः। भद्रावयवनिर्मुक्तोमध्यमोऽसौ गजो भवेत्” कायेन यो भवेद्भद्रो सन्दोवापि मतङ्गजः। मृगगात्रोऽपरश्चैव स भवेद्वेगवान् गजः। मृगरूपाधिकत्वं च दृश्यते यस्य दन्तिनः। अधमस्तु स विज्ञेयः सत्वशक्तिविवर्जितः। करदन्ताक्षिकुम्भैश्च यो मृगोजायते गजः। शेषावयवभद्रोऽपि हीन एव भवेदसौ। एवमुद्देशमात्रेण मिश्रभेदा मयोदिताः। नोदिता येऽपि तेऽत्रापि मिश्रा ज्ञेया मनीषिभिः। मिश्रलक्षणसंयोग उक्तष्टं यस्य दृश्यते। रूपन्तन्नामधेयोऽसौ जायते हि मतङ्गजः। अतः परम्प्रवक्ष्मामिलक्षणं गिरिचारिणाम्। तथा नदी चराणां च तथैवोभमयचारिणाम्। महाबला महाकायाश्चितांसा गिरिचारिणः। सुपाश्वाश्चारुदिग्धाङ्गादृढपादागतक्लमाः। उदग्रानिर्भयाश्चैव सल्लकीकवलप्रियाः। तटाघातविधौ भुग्नदन्तदारित भूतलाः। शार्दूलादिमहासत्वसंस्फोटातङ्कवर्जिताः। मदस्रावक्षतोत्साहादुर्दमावारिभीरवः। पांशुक्रीडारता नित्यं द्रुमोन्मूलनतत्पराः। विषाणवेष्टनाशीलाः खेष्टसन्तापनीरकाः। कराग्रस्फोटनिरता सीत्कारकरणप्रियाः। अनुदग्राघनश्यामाः सीकरोद्गिरणप्रियाः। तोयकर्म्मणि निःशङ्कामतङ्गाश्च नदीचराः। उभयेषुचर- न्त्ये ते नदीपर्व्वतसानुषु। ये गजाहृष्ट मनसस्ते भवन्त्यतिशोभनाः। सर्वेषामेव नागानां छायालक्षणमुत्तमम्। यद्यथा जायते यस्य तत्तयैवाभिधीयते। सत्वांशकत्वाद्भद्रस्य पाटला भवति प्रमा। नवपल्लवसच्छाया स्निग्धा तनुतनूरुहा। तयातमोऽंशकचाच्च कृष्णा मन्दस्य जायते। तरुणाम्बुद संकाशा स्थूलकृष्णकवाबिला। रजोऽंशकत्वाच्च तथा मृगस्यापि हि धूसरा। मलिनाम्बुदसंकाशा रूक्षा तनुतनूरुहाः। एवंछायाविशेषाः स्युर्भद्रादीनान्मयोदिताः। छाया संमिश्रभावाच्च मिश्रा भवति दन्तिनाम्। वनजातिगुणैर्भद्रः गजश्रैष्ठो नरोत्तम!। तमोऽशकत्वं मन्दस्य यद्यदुक्तं निबोध मे। दुर्मनस्त्वं तथाऽऽलस्यं निद्रालुत्वं च मूढता। गम्भीरवेदिता चेति मन्दस्य तम उत्थितेः। एवं रजीगुणो राजन् मृगस्तेन रजोऽंशकः। धैर्थ्यं स्थैर्य्यं पटुत्वं च विनीतत्वं सुकर्मता। अन्वर्थवेदिता चैव भयस्थानेषु मूढता। सुभगत्वं च धीमत्त्वं सत्वस्यैते गुणाः स्मृताः। अतः सत्वांशकोराजन् भद्रजातिरुदाहृतः। चित्रत्वं बाहुशिरसोरन्तर्मणिगतं तथा। दन्तयोर्मधु वर्णत्वं नेत्रयोर्मधुपिङ्गता। आसनस्य पृथुत्वञ्च पूर्णता कुक्षिपार्श्वपोः। पृथुत्वं पृष्ठभागस्य घनत्वं समसन्धिता। स्निग्धच्छाया त्वथायामःपरिणाहोच्छ्रयौ तथा। सश्रीकत्वं गुरुत्वं च कायस्यैते गुणाः स्मृताः। सर्वलक्षणसंपूर्णो दृश्यते न मतङ्गजः। प्रधानावयवे लोके यत्नः कार्यो मनीषिभिः। हीनं कृष्णं च कल्माषं पुष्करं न प्रशस्यते। संपूर्णं मांसलं रक्तं सुकुमारं शुभं स्मृतम्। त्र्यङ्गुलन्तुभवेद्धीनं हीनम्पतिविनाशनम्। कृष्णं भर्तुर्विघातायकल्माषं भर्तृरीगदम्। संपूर्णं सिद्धिदं भर्तुः पुष्कर चतुरङ्गुलम्।। सौभाग्यदं मांसलन्तु सुकुमारं तथार्थदम्। रक्तपद्मदलच्छायं तथा मिष्टान्नपानदम्। अतः परं शुभेज्ञेये श्रीतसी पाटलोदरे। पञ्चाङ्गुलप्रमाणेन वर्तुलत्वेन चार्थदे। अवाङ्मुखंच ताम्रं च कर्णतालं सुखप्रदम्। ह्रस्वा स्थूला च विपुला चित्रिणी श्यामलोनिता। कुञ्चिता च तथा दृष्टिः सप्तधादन्तिनां मता। तासां तु त्र्यङ्गुलायामा सा ह्रस्वेत्यभिसंज्ञिता। ह्रस्वा करोति नृपतेर्विनाशं शीघ्रमेव हि। स्थूल दुर्भिक्षकरणी श्यामला नृपदुःखदा। करोति चित्रिणीनित्यं तस्यैव तु वसुक्षयम्। भुग्ना दृष्टिर्विनाशाय राज्ञोधनविनाशिनी। कुञ्चिताहीनयोश्चैव युद्वकाले रिपोर्जयम्। अतः परं प्रवक्ष्यामि क्रमेण करलक्षणम्। न करं दीर्घमिच्छन्ति बालधेः शास्त्रपण्डिताः। न बाल- धिसमं हस्तं नातिदीर्घं क्रमायतम्। न तनुं नातिकायं च न रूक्षं न कृतव्रणम्। नाक्रमेण कृतोत्सेधं न हीनं दशनान्तरम्। न ह्रस्वाङ्गुलिसंयुक्तं नातिसंकटपुष्करम्। एतल्लक्षणसंयुक्तं करं शंसन्ति कोविदाः। बालधेः सुसमोहीनः समोवा दन्तिदुःखदः। अतिदार्घोभवेद्भर्तुरायुषः क्षयकारकः। तनुर्व्याधिकरो यातुरतिकायोऽर्थनाशनः। रूक्षोव्याधिव्रणङ्कुर्य्याद्यातुर्व्रणकृतां व्यथाम्। प्रतिलोमेन च स्थूलोगजस्य सुस्वनाशनः। असमञ्जसहीनश्व असमञ्जस वर्तुलः। दुःखशोकभयायासकर्त्ता भवति नित्यशः। दशनान्तरहीनश्च जायते दन्तिरीगकृत्। कथितं पूर्वमेवेषु पुष्कराङ्गुलिलक्षणम्। अतो मया न कथितं साम्प्रतङ्करलक्षणे। निर्वलीकोदीर्घरोमा क्रमवृत्तत्वसंयुतः। अणुबिन्दुविचित्रश्च दैर्व्येण च शताङ्गुलः। बालधेः पुष्करं यावदायामोजात्यपे क्षया। अरत्नित्रयाऽऽनाहश्च हीनहीनतरक्रमात्। युक्तस्त्वनेन मानेन करः पूज्यतमो भवेत्।। निर्बलीके च सौभाग्यन्दीर्घरोमार्थदः स्मृतः। क्रमवृत्तोजयं कुर्य्यादणुबिन्दुयुतोधनम्। सुप्रमाणं भवेद्राज्ञः करस्य परिवर्द्धनः। आनाहबांश्च सततं राज्यस्फीतिकरोभवेत्। करस्य कीर्त्तितं ह्येतल्लक्षणं शुभसंज्ञितम्। अतःपरं प्रवक्ष्यामि लक्षणं दन्तबेष्टयोः। कचहीनावतिस्थूलौ विषमौ शिथिलौ तथा। दन्तवेष्टौ सदा भर्तुः प्रमाणाभ्याससौख्यदौ। दन्तमूले सुसम्बद्वौ सकचौ किञ्चिदुन्नतौ। दृष्टौ सदा तथा भर्त्तुर्वृद्विदौ परिकीर्त्तिती। अतःपरं प्रवक्ष्यामि लक्ष्णन्तु विषाणयोः। व्यस्तता सङ्कटत्वं च प्रांशुता भस्मशुभ्रता। वक्रत्वं ह्रस्वता चैव धूसरत्वं च रूक्षता। मृदुताऽधोगतित्वञ्च हीनता मूलमध्ययोः। प्रान्तयोः स्थूलता चैव दीर्घता चातिमात्रता। सर्पच्छत्रककान्तित्वं दोषाह्येते चतुर्द्दश। दन्तयोस्तु समाख्याताः फलं तेषान्निबोध मे। व्यस्तौ च सङ्कटौ दन्तौ मदहानिकरौ तु तौ। दन्तिनस्तनुतायुक्तौ व्याधिदौ परिकीर्त्तितौ। भस्मशुभ्रौ तथा भर्तुर्महा क्लेशकरौ मतौ। वक्रौ चार्थविनाशाय ह्रस्वौ च परिकीर्त्तितौ। धूसरौ रूक्षतायुक्तौ गजस्यायुर्विनाशनौ। मृदुत्वयुक्तौ नागस्य शल्यव्रणकरौ मतौ। स्थूलाग्राधो गतित्वे च भर्तुर्यातुश्च दुःखदे। अशुभं लक्षणं ह्येतद्दन्तयोः कथितं मया। शुभं च साम्प्रतम्बक्ष्ये यथावदनुपूर्वशः। स्निग्धौ समौ सुनिष्क्रान्तौ संपूर्ण्णौव्रणवर्जितौ। मुकुलाग्रौ दृढौ वापि ताम्नचूडौ हलोपमौ। दक्षिणाभ्युन्नतौ किञ्चित् मृणालकुमुदप्रभौ। मुधकुन्ददलच्छायौ हेमचम्प्रक- पिञ्जरौ। मधुपिङ्गौ घृतच्छायौ पीपूषसदृशप्रभौ। केतकीकुसुमाभौ च मृगाङ्ककिरणप्रभौ। अध्यर्द्ध्वारत्निमानौ च तदर्द्धानाहसंयुतौ। अमीमिर्लक्षणैर्युक्तौ दन्तौ नागस्य सम्मतौ। स्निग्धौ धनप्रदौ भर्तुरायुषश्च करौ मतौ। अरिघ्नौ तु सुनिष्क्रान्तौ संपूर्ण्णौ राज्यदौ मतौ। निर्व्रणौ राज्यलाभाय मुकुटाग्रौ जयप्रदौ। दृढौ रोगविनाशाय ताम्रवूडौ हलोपमौ। अरिसंघविनाशाय कीर्त्तितौशास्त्रपण्डितैः। दक्षिणाभ्युन्नतौ भर्त्तुः कीर्त्तितौ भाग्यकारकौ। मृणालकुमुदच्छायौ सुभिक्षारोग्यकारकौ। हेमचम्पकसङ्काशौ वज्रामरणदौ स्मृतौ। कुरुतो मधुपिङ्गौ च निःसपत्नं महीतले। पशुलाभकरौ ज्ञेयौ घृतपीपूषसन्निभौ। केतकीकुसुमाभौ च भर्तुर्वंशविवर्द्धनौ। अध्यर्द्वारत्निकौदन्तौ सुतभृत्यजयप्रदौ। आनाहमानसंयुक्तौ सदास्फीतिकरौ मतौ। इदं शुभकरं राजन्! दन्तयोर्लक्षणं मतम्। अतःपरं प्रवक्ष्यामि नेत्रयोरपि लक्षणम्। मार्जारनकुलक्रौञ्चशाखामृगनिमेक्षणान्। सर्वदोषकरान् राजन्! गजान् दूरेण वर्जयेत्। स्निग्धे मधुनिभेदीप्ते कलविङ्काक्षिसन्निभे। रक्तपद्मदलच्छाये पद्मरागमणिप्रभे। निर्धूमाग्निशिखाकारे इन्द्रनीलसमप्रभे। सौम्यदृष्टिसमायुक्ते त्र्यङ्गुले लोचने शुभे। स्निग्धे वृद्धिकरे भर्त्तुर्मधुपिङ्गे जयप्रदे। दीप्ते दीप्तिकरे चैव प्रतापायतने तथा। कलविङ्गाक्षिरूपे च धनधान्यविवर्द्धने। चामीकरकरे नित्यं रक्तपद्मदलप्रभे। पद्मरागनिभेचैव रत्नालङ्कारकारके। निर्धूमाग्निशिखाकारे प्रतिपक्षभयङ्करे। मानयुक्ते च सौम्ये च लोचने बलवर्द्धने। अक्षिकूटकटोद्देशनिम्नौ राज्यविनाशनौ। संपूर्णौ च बलोत्साहमदवृद्विकरौ मतौ। दन्ताश्रयं भवेन्नित्यं तालुकं षोडशाङ्गुलम्। षडङ्गुलं पृथुत्वेन वंश गध्यगतं भवेत्। तथा शुभाशुभं चैव लक्षणज्ञैः प्रकीर्त्तितम्। कृसरम्परिदग्धञ्च कृष्णंकल्माषमेववा। चतुर्विधमनिष्टं स्याद्यथावदभिधीयते। कृष्णं मसीसमं ज्ञेयंकल्माषं कृष्णलोहितम्। मांसलं धूम्रवर्ण्णं च परिदग्धं प्रकी र्त्तितम्। कृसरञ्च तिलच्छायं कथितं शास्त्रवेदिभिः। गर्भस्थस्य यदा पित्तं वीयते तालुकं भृशम्। कृष्णतालुस्तदा नागोजायते पापलक्षणः। व्याघिभिः पीद्ध्यते नित्यं वातपित्तकफोद्भवैः। तृतीयां वा चतुथीं वा दशां प्राप्य विनश्यति। संग्रामे वा पलायेत बहुशस्त्रकृतव्रण्णः। शस्त्र सङ्घातपूर्णाङ्गः कृतान्तभवनं व्रजेत्। वातपित्तकफा यस्य कुर्वन्ति तालुके गदम्। गर्भस्थस्यैव कल्माषतालुकं तस्य जा- यते कृष्णतालुनि ये दोषा रक्ते चैव गुणाः स्मृताः। कल्माष तालुनस्तेतु भवन्ति च द्वयोरपि। रक्तच्छायं यदा वंशे पार्श्वयोस्त्वसितं भवेत्। तदा मध्यफलं ज्ञेयं गुणदोष समाश्रयात्। यदा वंशे च कृष्णं स्यात्पार्श्वयोस्ताम्रता भवेत्। भर्त्तुरुद्वेगजनकं कल्माषं तालुकं तदा। किञ्चिद्धीनं तु यत्तालु परिदग्धं तदा भवेत्। नागस्याधोरणस्यापि बलक्षयकरं हि तत्। कृसरं च भवेत् तालु पित्तकोपसमुद्भवम्। महामात्रविनाशाय वारणस्योपजायते। (महामात्रोहस्तिपकः) कृष्णतालोरपि यदा दक्षिणावर्त्तनं भवेत्। दृश्यते नित्यमेवं हि तदासौ दोषवर्जितः। यथा गृह्णाति नो दोषान् सुलोकः मुसमाहितः। गुणान् करोति हृदये न तथा कथितानपि। दोषघ्नं लक्षणं शस्तं यदाचार्यैरुदाहृतम्। तत्तथैवावगन्तव्यं नान्यथात्रापि भाषितम्। एवं जिह्वापि मन्तव्या तालुनः समलक्षणा। अरत्निमात्रा दैर्घ्येण विस्तारेऽष्टाङ्गुला मता। अशुभं लक्षणं ह्येतत्तालुकस्य मयोदितम्। शुभं च साम्प्रतं वक्ष्ये लक्षणं शृणुचानघ!। रक्तं श्वेतंकषायं च तालुकंस्यात् शुभप्रदम्। रक्तं वृद्धिकरं भर्तुस्तथा चायुर्विवर्द्धनम्। दन्तिनोऽशोकपुष्पाभं रिपुक्षयकरम्मतम्। श्वेतं पुष्टिकरं चापि वा रणस्योपजायते। चम्पकाभं तथा भर्त्तुरारौग्यस्य विवर्द्धनम्। कषायं सर्वदा ख्यात प्रयातुः सौख्यवर्द्धनम्। एवं जिह्वापि रक्ताभा सर्वसौख्यप्रदा मता। अतःपर प्रवक्ष्यामि सृक्कण्याश्रित्य लक्षणम्। दन्तिनो मानहीने च सृक्कणी मानवर्जिते। (सृक्कणी ओष्ठसन्धी) मुखरीगकरे नित्यं पण्डितैः परिकीर्त्तिते। सर्वसौख्यप्रदे तस्य संपूर्णे द्वादशाङ्गुले। अतःपरं व प्रवक्ष्यामि लक्षणंचिवुकोष्ठयोः। अरोमशम्बलीयुक्तमाताम्रं च तथा लघु। गजस्यौष्ठं न शंसन्ति मुनयो दन्तरोगदम्। दीर्घरोमा सुसंपूर्ण्ण ओष्ठः पद्मदलप्रभः। षोडशाङ्गुलानाहश्च हस्तार्द्धं वायतः शुभः। भर्तुरायुःकरोदीर्घो दीर्घरोमा च कीर्त्तितः। पूर्ण्णः पूरयते कोशं रक्तः सौभाग्यदोभवेत्। अरोमशं तथाहीनं चिबुकं न प्रशस्यते। तद्धि वारणनाथस्य मुखरोगकरम्मतम्। चतुरङ्गुलमानन्तु स्थूलं रोमाविलं यत् तत्प्रशस्तं गजेन्द्राणां सुखालङ्खारकारकम्। निम्ने च विषमे चैव हीने चैवाशुभे मते। मदहानिकरे “नित्य सगदे कर्णरोगदे। शश्वन्निनादयुक्ते च समे चैव सुखप्रदे। मानं च कर्णपाल्यास्तु मूलादारभ्य गृह्यते। बाहित्थावघि कुम्भं च हीनं निम्नं च गर्हितम्। मुखरोगकरं नित्य सत्यहानिकरं च तत्। पूर्ण्णं चैवोन्नतं सार्द्धहस्तमात्रायतं भवेत्। तद्धि वारणनाथस्य मुखरोगकरं मतम्। चतुरङ्गुगमान तु स्थूलम् रोमाबिलञ्च यत्। तत् प्रशस्तं गजेन्द्राणां सुखालङ्कारकारकम्। अरत्निपरिणाहञ्च करिणां सत्वशक्तिदम्। वामनं हस्तहीनञ्च परिणाहविवर्जितम्। अव्यक्तञ्च न शंसन्ति वातकुम्भं विपत्करम्। द्वादशाङ्गुलविस्तारन्दैर्घ्येणाष्टादशाङ्गुलम्। व्यक्तंशुक्तिपुटाकारं तद्भर्तुर्लाभकारकम्। गर्त्ताकारे च निर्याणे कठिने चातिकुत्सिते। शिरसोरोगजनने गजस्यारोहकस्य च। संपूर्णे सुकुमारे च सुप्रशस्ते प्रकीर्त्तिते। राज्यवृद्धिकरे नित्यं भर्तुर्विजयकारके। इदमेव हि विज्ञेयं लक्षणं कटपार्श्वयोः। अतःपरं प्रवक्ष्यामि लक्षणं कुम्भयोरपि। विषमत्वमरोमत्वं देहच्छायाविवर्णता। समता कण्ठपृष्ठाभ्यां समाधिक्यमपूर्ण्णता। व्यक्तता वामनत्वं च परिणाहविहीनता। तनुभावः शिखरयोः कुम्भदोषा दश स्मृताः। भर्तुश्चापत्करौ ज्ञेयौ विषमौ रोमवर्जितौ। देहच्छायाविवर्णौ तु शत्रुलोकविवर्द्धनौ। कण्ठपृष्ठसमौ चैव प्रयातुः प्रविनाशनौ। मानाधिकौ च हीनौ च भर्तुरुच्छेदकारकौ। व्याप्तौ च वामनौ चैवभर्त्तुः कीर्त्तिविनाशनौ। परिणाह विहीनौ च कोशक्षयकरौ मतौ। शिखरस्य तनुत्वेन युक्तौ कुम्भौ तु रोगदौ। अशुभं लक्षणं ह्येतत्साम्प्रतञ्च शुभं शृणु। समौ दीर्घकचाक्रान्तौ विस्तीर्णशिखरौ तथा। कर्ण मूलात्समारभ्य हस्तार्द्वजमितोच्छ्रयौ। सुसंहतौ च पीनौ च कामिनीकुचसन्निभौ। समाकान्तललाटौ च देहच्छाया समप्रभौ। आरोहकशरीरार्द्धदर्शनावरणक्षमौ। सश्रीकौ च सुवृत्तौ च शुभौ कुम्भौ प्रकीर्त्तितौ। समौ च दीर्घरोमाणौ भर्तुः श्रीसौख्यकारकौ। समानौ रिपुनाशाय तथैव च समुन्नतौ। सुसंहतौ च पीनौ च वरस्त्रीलाभकारकौ। शत्रुनाशकरौ ज्ञेयौ कामिनीकुचसन्निभौ। समाक्रान्तललाटौ च सुस्वदौ रोगनाशनौ। आरोहिस्थगितार्द्धौ च सश्रीकौ च जयप्रदौ। वृत्तौ च हस्तिनां कुम्भौ पुष्पालङ्कारकारकौ। अतःपरं प्रवक्ष्यामि कर्णयोरपि लक्षणम्। निर्लोमशौ स्नसाकीर्ण्णौ तनुच्छिद्रौ तनुत्वचौ। (स्नसा सिरा) सङ्कटौ विषमौ रूक्षौ त्रु टिताग्रौ च निष्ठुरौ। स्तब्धौ च वर्तुलौ चैव कर्ण्णौ नागस्य निन्दितौ। फलञ्च साम्प्रतं वक्ष्ये यथावदनुपूर्वशः। निर्लोमशौ स्नसाकीर्ण्णौ गजस्य कर्णरोगदौ। निष्ठुरौ त्रुटिताग्रौ च यातुःकोशहरौ मतौ। स्तब्धौ च वर्तुलौ चैव गजस्यायुर्विनाशनौ। अतःपरं प्रव- क्ष्यामि शुभकर्णविनिश्चयम्। द्विरत्निमानसंयुक्तौ सिराजालविवर्जितौ। सप्तत्वचौ महाच्छिद्रौ स्निग्धौ दुन्दुभि निस्वनौ। कपोलमण्डलास्फालात्ततशब्दौ मुहुर्मुहुः। कर्ण्णौ चामरसंकाशौ मृदुरोमकृतार्चनौ। अजर्जरमृदुप्रान्तावीषद्गुप्तावचूलिकौ। मयूरतालवृन्ताभौ सुविस्तीर्णसमौ शुभौ। द्विरत्निमानसंयुक्तौ भर्तुरायुःकरौ मतौ। स्नसाजालविनिर्मुक्तौ शिरोरोगविनाशकौ। समत्वचौ महाच्छिद्रौ गजलाभकरौ मतौ। स्निग्धौकान्तिकरौ नित्यं जयदौ दुन्दुमिस्वनौ। शत्रुनाशकरौ प्रोक्तौ मृदुरोमीकृततार्च्चनौ। अजर्जरमृदुप्रान्तौ प्रयातुः सौख्यकारकौ। गजस्योपचयायैव ईषद्गुप्तावचूलिकौ। मयूरतालवृन्ताभौ तुरङ्गबलवर्द्धनौ। सुविस्तीर्ण्णौ समौ भर्तु र्भूमिलामकरौ मतौ। कर्णयोस्तु समाख्यातं मयैतत्शुभलक्षणम्। कण्ठस्य साम्प्रतं वक्ष्ये यथावदनुपूर्वशः। अवक्रोहीनो दीर्घश्च कण्ठश्च शुभदोभवेत्। आरोहकप्रभूणाञ्च क्रमशः कुञ्जरस्य च। अवक्रः परिणाहेन सप्तषष्ट्यधिकं शतम्। अङ्गुलानां तथायामे द्वादशैवाङ्गुलानि तु। सम्पूर्ण्णपिण्डितोदग्रश्चान्तर्मणिविभूषितः। कण्ठोवारणनाथस्य एवं भूतः सुपूजितः। ऋजुः प्रमोदजननः सम्पूर्णःकार्य्यसिद्धिदः। अह्रस्वोजयकृद्भर्त्तुः कीर्त्तितः पूर्ण्णपिण्डकः। उदग्रोवंशवृद्धिं च प्रतापं कुरुते तथा। अन्तर्म्मंणिसमायुक्तोमणिरत्नप्रदो भवेत्। करालञ्चातिनिम्नं च आसनं न प्रशस्यते। करालं यातुरशुभं निम्नं च व्रणकारकम्। दैर्घ्येण हस्तमात्रं तु विस्तीर्णञ्च शुभं स्मृतम्। विस्तीर्णं विस्तृतं राज्यं सम्पूर्णं कुरुते जयम्। वंशस्याथ प्रवक्ष्यामि लक्षणं तु शुभाशुभम्। अत्युच्छ्रितोनिम्नपारः ह्रस्वो वंशोनशस्यते। राज्ञां च पादरोगाणां कर्त्ता च स मवेत्सदा। षण्णवत्यङ्गुलायासमासनात्पश्चिमासनम्। यावत् प्रपूर्य्यते पार्श्ववंशोऽश्वफलकाकृतिः। शुभो ज्ञेयो गजेन्द्राणामायामः कुरुते सुखम्। पूर्णपार्श्वस्तु लाभाय धनुःपृष्ठः श्रियं नयेत्। अरत्निद्वयमानं तु पेचकात्पश्चिमासनम्। घनास्थि विषमं निम्नङ्गहितं पुच्छरोगदम्। मांसोपचयपूर्णं च विस्तीर्णञ्च शुभं मतम्। जघनोपरि रोगाणांतद्धि नाशकरं मतम्। (पेचकात्पुच्छमूलात्)। पुच्छोगजस्य नो शस्तो बहुदीर्घोऽतिलम्बितः। करोति महतीं पीडांराज्ञश्चाधोरणस्य च। द्व्यङ्गुलस्तु पृथुत्वेन दैर्घ्येणाष्टादशाङ्गुलः। संपूज्यः पेचकोज्ञेयो गजभर्त्तुः सुखप्रदः। वक्रं स्थूलञ्च ह्रस्वं च पुच्छं कचविवर्जितम्। समानाहं च नागस्य सर्व्वदोषकरं भवेत्। अवक्र ऋजुदीर्घश्च ग्रन्थिहीनः सुपेचकः। गोपुच्छबालप्रतिमकचब्रातविभूषितः। भूमिं तु न स्पृशेत् यस्तु चतुर्भिश्चाङ्गुलैः सदा। स शुभो बालधिर्ज्ञेयो गजभर्त्तृसुखप्रदः। अतिप्रमाणं ह्रस्वं च कर्वूरं विगतप्रभम्। सिरालं चाशुभं मेढ्रं राजहस्तिपदुःखदम्। शस्तं षडङ्गुलायामं नाहतः षोडशाङ्गुलम्। सिराजालविनिर्मुक्तमाम्रपल्लवसप्रभम्। द्व्यङ्गुलं स्रोतसा युक्तं विन्दुमात्रविवर्जितम्। मेढ्रं प्रशस्तं विज्ञेयं भर्तुर्जीवितवर्द्ध्वनम्। अतःपरं प्रवक्ष्यामि लक्षणं गात्रयीरपि। हीने तनूच दीर्घे च सममांसोच्छ्रये तथा। विषमे च कचाक्रान्ते गात्रे नागस्य निन्दिते। हीने तनू च कुरुतः प्रयातुर्विनिपातनम्। सममांसोच्छ्रये यातुर्विषमे च विपत्करे। कवाविले गजस्यैव गात्ररोगकरेतथा। अतःपरं प्रवक्ष्यामि मात्रयोः शुभलक्षणम्। सार्द्धद्विरत्निस्त्रिरत्निः शताङ्गुलसमानता। एवंमिते स्मृते गात्रे भर्तुरारोग्यसौख्यदे। समे च कचहीने च गजलाभकरे तथा। गजस्य पुष्टिदे नित्यं मांसले च घने स्मृते। मात्रे वारणनाथस्य एवंभूते शुभे मते। चिपिटे वा सफलके गात्ररोगकरे सदा। संपूर्णे राज्यदे भर्तुर्गजस्य वसुसुप्रदे। तथैव रोमनिहिते गजस्य गलोरगदे। अतःपरं प्रवक्ष्यामि नखानाञ्च शुभाशुभम्। हीनाःकृष्णाश्च खण्डाश्च रूक्षाश्च न नखाः शुभाः। सदा च रोगदा हीनाःकृष्णा भर्तृविनाशनाः। खण्डारूक्षागजस्यैव पादव्याधिविवर्द्धनाः। स्निग्धाश्चन्द्रार्द्धसङ्काशा मानेनैव पुरोनखाः। सप्तादिपञ्च संख्यानि अङ्गुलानि क्रमेण हि। एवं विधानखाः शस्ता भर्तुरारोग्यकारकाः। अतःपरं प्रवक्ष्यामि पादयोरपि लक्षणम्। हीनौ सुष्ठुतलौ रूक्षौ चरणौ दन्तिदुःखदौ। हस्तप्रमाणौ दैर्घ्येण कूर्माकारौ सुखप्रदौ। अतःपरं प्रवक्ष्यामि लक्षणञ्चापराश्रितम्। अत्युच्छ्रिते च हीने च निन्दिते चापरे तनू। सम्पूर्ण्णेच शुभे ज्ञेयेत्र्यरत्न्यायामसं युते। निन्दिते रोगदे ज्ञेये पूजिते प्रभुसौख्यदे। द्वादशाङ्गुल हीनं तु आसनात्पश्चिमासनम्। अपरपादयोश्चापि आयामोऽरत्निमात्रकः। नखानां च तथा मानं षडादिचतुरङ्गुलम्। प्रधानावयवानान्तु लक्षणं कथितं यथा। उत्सेधायामनाहानां साम्प्रतं कथयाम्यहम्। समतन्तुसमायुक्ततन्तुना वर्त्तितेन च। सुप्रशस्ते दिने नित्यं मानं कुर्वीत मानवित्। सप्तारत्नि गजेन्द्राणां प्रमाणं वनजन्मनाम्। आसनं यावदुत्सेधस्तलसन्धिसु कीर्त्तितः। पेचकात्प्रतिमानन्तु आयामोरत्नयो नव। मध्यदेशे तदानाहों दशरत्निः प्रकीर्त्तितः मानमेतद्धि भद्रस्य मुनिभिःपरिप्रकीर्त्तितम्। सप्तमेन तु भागेन हीनं मन्दस्य जायते। मन्दाद्धीनं मृगाख्यस्य षड्भागेन प्रकीर्त्तितम्। एवं क्रमेण वक्तव्यं मानं मानविशारदैः। किञ्चिन्मानाधिके वापि न दोषः संप्रपद्यते। दोषाणां च गुणानाञ्च वृद्धिरेव फलप्रदा। सत्वं हि वारणेन्द्राणां नित्यं तन्त्रेषु संस्थितम्। स्निग्धे मधुनिभे दीप्ते कलविङ्काक्षिसन्निभे। रक्तपद्मदलच्छाये पद्मरागमणिप्रभे। नीलच्छाये अतीक्ष्णे च गजे सत्वं प्रतिष्ठितम्। माजारवानरादीनां सदृशे नोबलं गजे। हीनसत्वाश्च जायन्ते गिरिकूटोपमा अपि। अधिकंपुषकरं यस्य मांसलत्वेन जायते। प्रभयाच कषायं स्यान्मानेनाङ्गुलपञ्चकम्। किञ्चिदूने च विज्ञेये श्रोतसी चतुरङ्गुले। स्थूलपञ्जाङ्गुलायामा त्र्यङ्गुला नाह मानता। हस्तोऽपि पूर्वमानस्य स्थूलत्वेनाधिकोभवेत्। रोमशोनातिवृद्धश्च पृथुलः षड्भिरङ्गुलैः। आयामेन च हीनःस्यात् पूर्वमानात् षडङ्गुलैः। नातिगोपुच्छसंस्थानःकृष्णविन्दुविभूषितः। आनाहे रत्नि मानौ तु सार्द्धहस्तद्वयायतौ। पीयूषकुमुदच्छायौ किञ्चिच्चम्पकपिङ्गलौ। स्निग्धौ मुग्धतभावेव दन्तौ नागस्य कीर्तितौ। दन्तावेष्टावतिस्थूलौ कचाक्रान्तौ सुनिष्ठुरौ। पञ्चाङ्गुलौ कटौ ज्ञेयौ मांसीपचयपूरितौ। ज्ञेये कटोपरि तथा श्रोतसी द्व्यङ्गुलान्तरे। एकाशीत्यङ्गुलानाहे द्वाविंशत्यङ्गुलायते। किञ्चिन्नतं कचाक्रान्तं वाहित्थं परिकीर्तितम्। पतिमानं तु विज्ञेयं हस्तः सचतुरङ्गुलः। अध्यर्द्धरत्निमानं च प्रमाणान्तरभेदतः। आयाममनु विज्ञेयस्त्वधरस्तु दशाङ्गुलः। विंशत्यङ्गुमानस्तु परिणाहोऽभिधीयते। पञ्चाङ्गुलं तु चिबुकं सृक्विणी तु नवाङ्गुले। षड्विंशदङ्गुलायामे सङ्गते परिकीर्त्तिते। अध्यर्द्धरत्निकौ कर्णौ विस्तारेण कचाचितौ। कषायपल्लवौ स्थूलौ कृष्णविन्दुविचित्रितौ। सषद्भामकरायामाववचूलौ कचाविलौ। पञ्चाङ्गुलान्तरौ पीनावुभावोष्ठौ दशाङ्गुलौ। कर्णात् कर्णान्तरं यावत् षण्णवत्यङ्गुलं शिरः। वातकुम्भं तथा ज्ञेयं स्थूलं सप्तदशाङ्गुलम्। अङ्गुलानां शतं सार्द्धमानाहि द्व्यङ्गुलाघिकम्। आयतत्वं च कण्ठस्य दशाङ्गुलमिति स्मृतम्। भद्रस्यैवासनं ज्ञेयं तथोक्तं सप्तरत्निकम्। षडङ्गुलोच्छ्रितं स्थूलं तुल्यं लाङ्गूलमानतः। पुच्छमूलाद् द्विहस्तन्तु जायते पश्चिमासनम्। उच्छ्रयेण तु हीनं स्यादासनं षडभिरङ्गुलैः। पेचकस्त्र्यङ्गुलायामोलम्बत्वेनाङ्गुलत्रयम्। विंशत्यङ्गुलमानाहे भवेत् पुच्छोयथागमम्। प्रान्तपादक्रमेणैव तथायामेऽङ्गुलत्रयम्। दैर्व्येण तु स विज्ञेयो भूमेरष्टाङ्गुलोच्छ्रितः। इदं बालधिमानं तु मन्दस्य परिकीर्त्तितम्। सार्द्धद्व्यरत्निके मूले अपरेसंप्रकीर्त्तिते। उदरे चातिमात्रं स्यान्मेढ्रं हस्तद्वयायतम्। विंशत्यङ्गुलमानाहे कृष्णच्छायं सदा भवेत्। पञ्च चत्वारि च त्रीणि अङ्ग लानि नखाः क्रमात्। आपाण्डुविवराः कुन्दाभासाश्चापरपादयोः। अनेनैव तु मानेन गात्रपादसमाश्रयाः। नखा मन्दस्य विज्ञेयाश्चरणाश्च कचाबिलाः। अतिस्थूलः पृथुत्वेन सार्द्धहस्ताधिकः करः। अरत्निकं वा, दैर्घ्येण प्रमाणं गात्रयोरपि। उरोमणि स्तथा ज्ञेयोरत्निमात्रोऽतिमांसलः। विंशत्यङ्गुलमानस्तु अन्तर्गलमणिर्भवेत्। अनेनैव हि मानेन वातकुम्भः प्रकीत्तितः। एते प्रशस्ता मन्दस्य मूनाथ! कथितास्तव। नोक्ता ये तेऽपि भद्रस्य विज्ञेयाः समलक्षणाः। मृगस्य साम्प्रतं वक्ष्ये प्रदेशान् लक्षणान्वितान्। त्र्यङ्गुलं पुष्करं तस्य त्र्यङ्गुले श्रोतसी तथा। अङ्गुलानि च चत्वारि कीर्त्तितास्तस्य चाङ्गुलाः। तनुः करः त्र्यरत्निःस्यादानाहे सार्द्धरत्निकः। बाहित्थात् पुष्करं याव न्मानं सद्भिरुदाहृतम्। तथा तनुतरौ दन्तौ दीर्घ्ये सार्द्धद्व्यरत्निकौ। ह्रस्वौ च मस्तकौ स्यातान्तयोः सप्तदशाङ्गुलौ। प्रतिमानं तथा ज्ञेयं निम्नं पञ्चदशाङ्गुलम्। द्व्यङ्गुलं चिबुकं तस्मादधरस्तु षडङ्गुलः। अष्टादशाङ्गुलानाहे सृक्वणी तु षडङ्गुले। स्यातामङ्गुलविंशत्यौ कपोलौ निम्नमध्यगौ। कटौ द्व्यङ्गुमानौ तु निर्याणे चतुरङ्गुले। नेत्रे चापि तथा स्यातान्निष्प्रभेस्थूलतारके। नातिव्यक्तं समांसं स्पाद्वातकुम्भं दशाङ्गुलम्। गर्त्ताकारञ्च निम्नं च कटकुम्भंतथैव तु। अष्टाङ्गुलान्तरं कुम्भ आयामे षोडशाङ्गुलः। विंशत्यङ्गुलकौ कर्णौ स्तब्धौ रूक्षौ च वर्त्तुलौ। षण्णवत्यङ्गुलानाहा आयामे षोडशाङ्गुला। ग्रीवा मृगस्य विज्ञेया करालमासनं भवेत्। सार्द्धद्व्यरत्निकायामः कुब्जतुङ्गोऽतिमात्रया। वंशोमृगस्य विज्ञेयो निम्नतल्पनिभप्रभः। स्थूलास्थि विषमं निम्नं पुच्छमध्यर्द्धरत्निकम्। आसनेन समं चैव मृगस्य पश्चिमासनम्। पञ्चाङ्गुलस्तु विज्ञेयः पेचकोगुदसंसृतः। कचाग्रन्थिसमाकीर्ण्णः स्थूलोह्रस्वश्च बालधिः। अपरापादपार्ष्णिभ्यां हस्तमात्रसमुच्छ्रयः। दीर्घतनुरुहच्छन्नोद्विसप्तत्यङ्गुलायतः। तत्प्रमाणे तथा गात्रे चिपिटे चापि निष्प्रभे। चरणाश्च गतच्छायैश्चतुस्त्रिद्व्यङ्गुलैर्नखैः। संयुक्ताःस्फुटिता निम्ना मानेनाष्टादशाङ्गुलाः। एतदुद्देशमात्रेण कथितं मृगलक्षणम्। अतःपरं प्रवक्ष्यामि तेषां बलपरीक्षणम्। गजा न बलर्हानेन सुरूपेणापि शोभनाः गुणेष्वपि बलं श्रेष्ठं तत् परीक्षीत पण्डितः। शरीरान्तर्गतः प्राणो बलशब्देन कीर्त्त्यते। क्रियते वारणस्याथ तस्योपायैः परीक्षणम्। जाम्बूनदस्य ताम्रस्य पलानां रजतस्य वा। अष्टादशसहस्राणि युक्त्या संगृह्य वेगवान्। दशयोजनमध्वानं गच्छति श्रमवर्जितः। यो गजो गजमध्ये तु स उत्तमबलः स्मृतः। यश्चतुर्दशसाहस्रभारमादाय गच्छति। सप्तयोजनमध्वानं स मध्यमबलोमतः। दशसाहस्रिकं भारं गृहीत्वा पञ्चयोजनम्। अध्वानं योहि संयाति स हीनबल उच्यते। सत्रिभागद्विहस्तेन परिणाहेन संयुतम्। चतुर्हस्तनिस्वातं तु योभिनत्त्युत्तमोहि सः। अथ वोत्पाटयेद्वापि बलेन महता युतः। सार्द्धत्रिहस्तखातन्तु सप्तहस्तोच्छ्रितं तथा। पञ्चाशदङ्गुलीकेन परिणाहेन संयुतम्। भिनत्ति योगजः शीघ्रं क्षिपत्युद्धृत्य वा पुनः। स गजानान्तु सर्वेषां मध्ये मध्यबलो मतः। हस्तत्रयनिखातन्तु षढस्तोच्छ्रयमेव वा। युक्तं स्थूलतया चैव पूर्वसंख्यार्द्धमात्रया। भिनत्ति हेलया यस्तु उत्खातं वा करोति वा। स्तम्भं कुञ्जरमध्येतु स हीनबल उच्यते। गुरुत्वं च यतः श्रेष्ठं गुरुत्वादधिकं बलम्। बलादभ्यधिकं सत्वं तस्मात्सत्वं निरूपयेत्। शुद्धस्फटितसङ्काशं सत्वं हृदि शरीरिणाम्। दुर्लक्ष्यं विद्यते सम्यगुपायैस्तद्धि लक्षयेत्। सुप्रशस्ते दिने लग्ने गजोगैरिकमण्डितः। कर्ण्णे चामरशङ्खादिसुखाभरणभूषितः। पादान्दोलनसंजातघण्टारवनिभस्वनः। आरोहककरास्फालकृतोत्साहोन्नता ननः। अत्यन्तं ढोकयेच्छ्रीघ्रं पार्श्वकोलाहलाकुलः। वेगोत्थानकृतास्फोटदन्तसंघट्टमर्दनैः। कृतां कामपि न हस्तस्य वेदनां यो न मन्यते। यो हि मदैःकृतास्फालैः स्वकटं भर्त्तुमिच्छति। नापसर्पति भीत्यानोप्रतियातं रणात् क्वचित्। कण्ठगर्जितनादेन परिपूरितदिग्मुखः। निवर्त्त्यते च दुःखेन स भवेत् सत्ववान् गजः। प त्यश्वसमूहं वा गजमालातिमीषणम्। रागोत्थानसमुद्भूतगम्भोरकलहाकुलम्। उत्थाय समरे गच्छेद्रोषरञ्जितलोचनः। दन्तदारणरागेण प्रतिनागकृतेक्षणः। प्रसारितैरतिस्तर्व्वैर्निःशङ्कं कर्णपल्लवैः। यो गच्छत्यतिवेगेन स भवेत् सत्ववान्- गजः। शार्दूलाकृतिसत्वानां त्रासवर्जितमानसः। कृतकं च तथा नागं योभिनत्त्युत्तमो हि सः। दावानलशिखिश्रेणीशब्दसंत्रासवर्जितः। वनेषु विचरत्येष स सत्वसहितो गजः। कृतशङ्कावशाद्यस्तु न वारोहिणमीयते। सङ्कचन् मस्तकं दीनोमन्दान्मन्दतरो भवेत्। आलोकयति पार्श्वानि चीत्कारकरणप्रियः। आलोकयति सोष्मभ्यां लोचनाभ्याम्प्रतिद्विपम्। पदात्यश्वसमूहं वा ज्वलन्तमिव मन्यते। अधमस्तु सुविज्ञेयो गज सः श्रमवर्जितः। यस्तुसंधटते मन्दं घटितश्चापसर्पति। तथापसर्प्य वेगेन दन्ताघातं प्रयोजयेत्। किञ्चित्तिर्य्यन्मुखोभूत्वा कृतचीत्कारनिस्वनः। कुरुते दन्तसंघातम् स विज्ञेयोऽघमोगजः”।
प्रथमादिपञ्चसुदशासु मदविकारभेदमुक्त्वाह तत्रैव। “तटतरुभवनोन्मूलनरतस्तु षष्ट्याङ्गजो भवति। करवदनाक्षिकटस्थल गलन्मदसलिलसिक्तभूमितलः। संग्रामे रिपुभरकरविमुक्तशरनिकरशल्यसहः। करवीरपुष्पलोहितलीघनः स चारुदारुणाकारः। प्रतिनागसंघदारणप्रकृतिरंशलस्तु सप्तम्याम्। न शृणेति नैव पश्यति च न भयञ्जानाति सर्वसत्वकृतम्। यश्च घनास्फालितं मुखरितं चाननं पतति कारयन्। न सहन्ते तस्य गन्धं सङ्कोचितगात्रकुब्जकरकटाः करिणः। मर्द्दितनिजबला विमुक्तनादाः प्रणश्यन्ति। न तथा शङ्खाभरणैर्न चामरैर्नाक्षमालाभिः। भवति यथा मदसारैर्मुखस्य शोभा गजेन्द्राणाम्। क्लमविरहिता भवति हि षष्ठी वा पञ्चमी चतुर्थी वा। दोनावस्था करिणां सत्ववतां मदविशेषेण। अतिवृद्धमदविकारे मृह्यन्ति शिशुमदेऽपि मातङ्गाः। सत्वातिरेकयुक्ताबलस्य शोभां परां प्राप्ताः”। स्थलभेदे न मदोद्गमफलं तत्रैवाह। “कुरुते नरपतितुष्टिं दक्षिणगण्डस्थलोद्गतन्दानम्। रोमोद्गतं च यातुर्विशेषसुखदं सदा भवति। उभयकटस्थलसमनिर्गतं च विषयस्य वृद्धिकरम्। शिशिरसुगन्धिपरिमलं सुखप्रदं जायते भर्तुः। माङ्गल्यं श्रीजननं सोभाग्यकरं सत्वजननं च। माद्यन्ति यत्र देशे दशाविपाकेन बलकृतानन्दाः। करिणस्तस्मिन् राजा वर्द्धितवंशः सुखं वसति। कतकबहुलैलापरिमलश्च सुखदोमदो भवति। मूत्रपुरीषस्वेदासृक्वफरसोनादितीब्रगन्धधरः। अशुभकरोऽसौ नरपतियातॄणाञ्जायते मदः। जायन्ते ये भावा राजन्! मदखण्डमण्डित मुखस्य। नागस्य मद विशेषास्तांस्तान् प्रवक्ष्यामि। चालयति दुर्गन्धमिवाघ्राय पुष्करं क्षिपति प्रेरयति। लेढि- जिह्वाग्रेण सृक्वणी विघटितोष्ठपुटः। संपीड्य पुषुकराग्रेण चाङ्गुलिं निःश्वसच्चाधोवदनः। तिर्यक्प्रेक्षी भवति मीलिताक्षः क्षणं स्थित्वा। तिर्यक् चालितवदनमङ्गुल्या पुष्करप्रकम्पेन। किञ्चित्समुन्नतास्यः कर्णकण्डूयनं कुरुते। किञ्चिच्च दर्शयित्वा मेढ्रंनाशयति कीशकृन्मूत्रम्। हृष्टः क्रीडति परिवर्त्तिताननो बन्धनस्तम्भ कृतमत्सरः। प्रधावति संवेष्ट्य करं विषाणमुद्यम्य गर्जति सलिलपूरितजलधरगम्भीरनादेन। उन्नामिताग्रहस्तः स्वच्छन्दङ्गच्छतिक्वापि। गुरुमक्षिकश्व भवति वनतरुगहनोन्मूलनानुरतः। वागङ्कुशमुखजातं बाधनं न सहते ह्यभिन्नसत्वोयः। तिर्यग्विकलत्वाश्च तथा सगजो गुरुमक्षिकोज्ञेयः। रमते च पांशुविकरणकर्दमावगाहाद्यैः। एवंविधस्वभावो मदभेदवशाद्गजो भवति। यो यस्मिन्नेव ऋतौ गृह्णाति मदम्भतङ्गजः सुखदम्। स च तस्मिन्नेव पुनः प्रभिद्यते दानयुक्तश्च। इति मदवृद्धिविशेषाः कथितास्तव भूतलेश! तत्त्वेन। परिवर्त्तते मदोयैर्हेतुभिरशुभैस्तु तान्वक्ष्ये। प्रतिवारणाभियानाद्दूराध्वगमनात्कुभोजनाच्चापि। बन्धनदोषाच्च तथा तृष्णाक्षुत्पीडनाच्चापि। शार्दूलादित्रासाद्दावानलोल्काशनिप्रपतनाच्च। (अशनिरत्र विद्युत्)। नश्यति मदोगजानां शीघ्रं वर्त्मविघ्नतश्च तथा। मातापितृजैर्दोषैर्मन्दमदानन्दबर्जिताश्च तथा। जायन्ते द्विरदा यैर्यथा तथा साम्प्रतं वक्ष्यामि। मन्दमदेन हि करिणा जातः किञ्चिम्मदोगजो भवति। मदविरहितेन तथा जनितोमदविवर्जितोऽस्त्येव। समदेन तु यो जातोगजो गजेन्द्रेण भवति तस्य मदः। एवं मदप्रकारा मातङ्गानां समुद्दिष्टाः। शृणु साम्प्रतं नरेश्वर! मदापसरणोद्गवानि चिह्नानि। यानि भवन्ति गजानां मन्दमृदुमदविगलितसमुदयानाम्। रूक्षच्छायायुक्तोनिम्लोचितगण्डस्थलगतश्रीः। कुप्यति येभ्यः शङ्काङ्करोति तेभ्योऽपि सत्वस्थः। गण्डस्थलेन जिघ्रति करेणुकां स्पृशति नैव हस्तेन। मूत्रपुरीषाणि च नो जिघ्रति वारणकृतानि यातुर्वा शनैर्गच्छति। सततंपरिमृष्टदानराजिपरीकीर्णकटोहस्नेनातीव सङ्घर्षणं कुरुते। मुहुरभिनन्दति निद्रामलसो मनसा न तुष्टिमुपयाति। लिङ्गान्येतानि करिणो मदेन मुच्यमानस्य जायन्ते। प्रतिकुञ्जरयुद्धकृतो बलहर्षदशावयोभ्यस्त्वशुभः। भवति मदोनागानां तापादिसमुद्भवश्च शुभः”। “रूपवान्मदसम्पन्नोविन्ध्यशैलसमप्रभः। जायते सत्वहीनस्तु कुञ्जरः केन हेतुना। केन वा रूपहीनोऽपि मदोच्छ्रयविवर्जितः। सत्ववान् जायते नागो एतदाख्यातुमर्हसि” इति नहुषपुष्टो वृहस्पति रुवाच। “यथा जातकयोगेन जन्तूनां च शुभाशुभम्। तथा बन्धनकालोत्थङ्गजानामपि जायते। सुसग्नावस्थितैः सौम्यग्रहैः पीडाविवर्जितैः। बन्धनं यस्य जायेत स भवेत् सत्ववान् गजः। स्त्रीनक्षत्रेषु गृह्यन्ते ये गजाः क्रूरदृष्टिभिः। ये चालोकितनक्षत्रास्ते भवन्ति भयाकुलाः”। उक्तञ्च शम्भुना “मृगजातयीऽपि हि शूरा भवन्ति मधुपिङ्गललोचनाः स्निग्धाः। वृषसिंहमीमवृश्चिकलग्नेषु स्वीकृताः करिणः”। पुनर्नहुषप्रश्ने गुरोः प्रत्युक्तिस्तत्रैव। “राजन् पञ्चविधं चैव गजानां विदितं मतम्। अत्यर्थं प्रथमं ज्ञेयं प्रत्यर्थं च तथापरम्। अन्वर्थं चैव गम्भीरमुत्तानं पञ्चमं भवेत्। प्रतोदाङ्कुशदण्डाद्यै र्विद्यादुद्वेजितानि यः। तीव्रसङ्कुचितस्पृष्टः स स्यादत्यर्थवेदिता। स्तोकं बहु बहु स्तोकं क्षतं मन्येत योगजः। वागङ्कु शादिभिर्नित्यं सहि प्रत्यर्थवेदिता। जानात्यङ्कुशतोत्राद्यैर्यद्यथा तत्तथैव हि। क्षतङ्कायभयैर्मुक्तोऽन्वर्थज्ञःस गजोभवेत्। अङ्कुशादिब्रणान् राजन्! यश्चिरेणावगच्छति। तीव्रानपि स गम्भीरवेदी भवति वारणः। रोम्णामग्रं तृणेनापि स्पृष्टंवेत्ति तु यो गजः। उत्तानवेदिनं तन्तु गजं विद्धि महाभुज! सर्वाणि वेदितव्यानि भद्रादीनां भवन्ति वै। प्रकृतिस्थस्य सततं भद्रस्यान्वर्थवेदिता। गम्भीरवेदिता चापि मन्दस्यैव प्रकीर्त्तिता। उत्तानवेदिता नित्यं मृगस्यैव भवेन्नृप!। वेदित्वंगजजातीनां तिसृणामपि जायते। साम्प्रतञ्च यथाशास्त्रं कथ्यते वेगलक्षणम्। तिसृणामपि जातीना मुत्तमाधममध्यमम्। न चाल्पं न च वृद्धं द्विपञ्चपदसं स्थितम्। गजोत्थानसहोत्थानं नरं प्राप्नोति येन तु। रयाविष्टेन मनसा स वेगौत्तमोमतः। (द्विपञ्चपदसंस्थितं दशपदस्थितं गजोत्थानसहोत्थानं गजधावनसमसयधाविनम्) येन वेगेन गृह्णाति नरं सप्तपदान्तरम्। पदानां शतमात्रन्तु स मध्यमजवो भवेत्। येन पञ्चपदस्थं हि नरं गृह्णाति नोदितः। पदानान्तु शतं सार्द्धं स हीनोजव उच्यते। शतद्वयं वा धनुषां गच्छेदुन्नमिताननः। द्वात्रिंशता च मात्राभिः स उक्तमजवो भवेत्। पञ्चाशता च मात्नाभिः यायाद्यस्तु शतद्वयम्। स मध्यमोऽधमोज्ञेयो मात्राणाञ्च शतद्वयात्। एवं परीक्ष्यते राजन्! वेगो वीथिषु दन्तिनाम्। अतःपरं प्रवक्ष्यामि गजस्य गुणलक्षणम्”।
तत्र कल्याणशीलः “भारार्द्दितोवा तृषितः क्षीणः श्रान्तोबुभुक्षितः। रात्रौ वा दिवसे वापि निर्विकारस्तु यो भवेत्। कल्याणशीलः स ज्ञेयो समस्तगजलक्षणैः विकारं कुरुते यस्तु पीड्यमानःक्षुधादिभिः। तमकल्याणिनं राजन् गजन्दुष्टं प्रकल्पयेत्। कोपोऽपि द्विविधोज्ञेयः शिशुश्चैवाशिशुस्तथा। द्विविधस्यापि राजेन्द्र! यथावच्छृणुलक्षणम्। उद्वेजितोऽपि कालेन कोपं बध्नाति निर्भरम्। क्षिप्रं गृह्णाति च क्रोधं दुर्निवारं सुदुः सहम्। शिशुक्रोधः स विज्ञेयो गजलक्षणकोविदैः। वार्यमाणोऽपि यत्नेन न शमं याति मुह्यति। स ज्ञेयस्त्वशिशुक्रोधो राजन्! स हि रणप्रियः। साम्प्रतं चैववक्ष्येऽहमायुर्लक्षण मुत्तमम्। आभ्यन्तरं च बाह्यञ्च लक्षणं द्विविधं स्मृतम्। आभ्यन्तरं योगसाध्यं बाह्यं किञ्चिच्च लक्ष्यते। तेनान्तरं परित्यज्य बाह्यं लक्षणमुत्तमम्। क्षेत्रसत्वसमायोगा। भवन्ति द्वादशैव हि। एकं हस्तगतं क्षेत्रं द्वितीयं वदनाश्रितम्। तृतीयञ्च विषाणस्थञ्चतुर्थं शिरसिस्थितम्। पञ्चमं नयनस्थं च षष्ठं कर्णाश्रितं भवेत्। कण्ठस्थं सप्तमञ्चैव अष्टमङ्गात्रसंस्थितम्। नवमं चरणे ज्ञेयं शेषाङ्गस्थंद्विपञ्चमम्। एकादशञ्च कान्तिस्थं द्वादशं सत्वसंस्थितम्। एवं द्वादश क्षेत्राणि मातङ्गानां भवन्ति हि। द्वादशैव दशाज्ञेयाः शेषाङ्गेष्वभिलक्षिताः। विंशोत्तरं वर्षशतम्भद्रस्यायुः प्रकीर्त्तितम्। अव्दान्यशीतिर्मन्दस्य चत्वारिंशत् मृगस्य च। मिश्रस्य चायुषः संख्या जातिभावेन जायते। प्रदेशज्ञानतत्त्वज्ञोजातिं समुपलक्षयेत्। सर्वक्षेत्रैः सुसंपूर्णः संपूर्णायुर्गजो भवेत्। हीनैश्च हीयते चायुर्यथावदभिधीयते। दशाव्दानां क्षयं कुर्य्याद्धस्तलक्षणवर्जितः। विशंत्यव्दविनाशश्च हीने क्षेत्रद्वये भवेत्। क्षेत्रत्रयावहीने च त्रिंशदव्दपरिक्षयः। चत्वारिंशत्समाहानिर्हीने क्षेत्रचतुष्टये। (समा संवत्रः)। पञ्चाशदव्दाहीयन्ते हीने तु क्षेत्रपञ्चके। षट्क्षेत्रहीनतायान्तु षष्टिवर्षविनाशनम्। सप्तत्यब्दविनाशाय सप्तक्षेत्रविहीनता।। अशीतिरष्टभिर्हीने वर्षाणाञ्च विनश्यति। नवतिर्नवभिर्हीनै क्षेत्रैर्नाशंहि प्रयाति। दशभिश्च तथा हीनैर्नश्यत्यव्दशतं ध्रुवम्। दशोत्तरं चाव्दशतं हीना च्छाया विनाशयेत्। विंशोत्तरं चाव्दशतं हीने सत्वे विनश्यति। एवं दशाव्दनाशंच क्षेत्रं कुर्यादलक्षणम्। एवमायुःक्षयं विद्यात् गजस्य गजकोविदः। सामान्यलक्षणं ह्येतत् जीवितस्य परीक्षणे। विशेषलक्षणं यावद् ग्रहलक्षणजातितः। एवमुद्देशमात्रेण गजायुर्लक्षणं तव। कथितं साम्प्रतं राजन्! दोषघ्नं वच्मि लक्षणम्। पादानां लक्षणं सम्यक्दन्तदोषं प्रणाशयेत् –येत्। दन्तयोर्लक्षणं हन्ति दोषान् वाहित्थसंश्रितान्। वाहित्थलक्षणैः सम्यक् नेत्रदोषक्षयो भवेत्। नेत्रयोर्लक्षणं हन्ति दोषांस्तालुसमाश्रितान्। सृक्वदोषविनाशश्च क्रियते तालुलक्षणैः। सृक्वाणां लक्षणं कुर्य्यात्सगददोषनाशनम्। कपोलकटदोषघ्नाः सगदस्थागुणा नृप!। निर्याणवातकुम्भानान्दोषघ्नः करयोर्गुणः। कुम्भदोषविनाशाय तयोरेव गुणो भवेत्। कर्ण्णदोषविनाशस्तु क्रियते कुम्भलक्षणैः। कण्ठदोषविनाशाय कर्णलक्षणमेव हि। आसनस्य हि ये दोषास्तान् हरेत्कर्णजोगुणः। वंशदोषक्षयकर आसनस्य गुणो भवेत्। गुणाघ्नन्ति हि वंशस्य दोषान् तत्स्थलसंश्रितान्। पश्चिमासनदोषघ्नं लक्षणं तत्स्थलश्रितम्। कुक्षिपेचकदोषघ्नं पश्चिमासनलक्षणम्। गुणाः पेचककुक्षिस्थाः पुच्छदोषविनाशनाः। मेढ्रदोषक्षयं कुर्य्यात् पुच्छलक्षणमेव हि। मेहनस्य गुणा हन्ति दोषांश्चैवापराश्रितान्। अण्डकोषगतं दोषमपरालक्षणं हरेत्। नाभिदोषक्षयं कुर्यादण्डकोशस्य लक्षणम्। नाभेर्गुणैश्च हन्यन्ते दोषास्तनसमाश्रिताः। उरोमणिगतान् दोषान् नाशयेत् स्तनलक्षणम्। चिबुकस्य हरेद्दोषान् उरोमणिगतोगुणः। यथा दोषक्षयो राजन्! लक्षणैः क्रियते शुभैः। दोषातिरेकोऽपि तथा प्रदेशगुणनाशकः। प्रदेशोऽनन्तरस्यैव प्रदेशस्यगुणान्वितः। कुरुते दोषनाशं हि स दोषोगुणनाशनः। करकुम्भविषाणाक्षिकर्णलक्षणसंयुतः। सर्वैरेवाशुभैरन्यैर्ल्लक्षणैश्चाशुभोगजः। शूलं चन्द्रांशुशुभ्रं स्याद्वक्रं च ज्वलन प्रभम्। वज्रं काञ्चनसङ्काशङ्कालदण्डःसुपिङ्गलः। एतेषां च समायोगाद्दन्तानां मधुपिङ्गता। यतो गजविषाणानामतो मधुनिभाः शुभाः। भद्रजातेर्गजस्यैतन्मन्दस्य च मृगस्य च। घृतपीपूषकुन्देन्दुकेतकीच्छविपञ्चकम्। एवं जातित्रयस्यापि सामान्यं शोभनं मतम्। कपोतधूमभस्मास्थिसर्पच्छत्रकसन्निभाः दन्तयोस्त्वशुभारजन्! छाया पञ्चविधा अपि। अध्यर्द्वारत्निकं राजन् प्रमाण दन्तयोः शुभम्।
अत ऊर्द्धं प्रवक्ष्यामि गजानां वर्ण्णलक्षणम्। आहारस्य विशेषेण वातपित्तकफैस्तथा। देशलक्ष्मगुणैश्चैव वीजयोनि वशेन। ग्रहालोकननक्षत्रलग्नराशिवशेन च। पूर्वकर्म्मवशाच्चापि धातूनाञ्च विपर्ययात्। भवन्तिकारणैरेभिर्वर्ण्णानानाविधा नृप!। दिव्यसत्वाः शुभैर्भेदैर्विविधास्ते भवन्ति हि। मिन्दूरशङ्खषैदूर्य्यविद्युज्जाम्बूनदप्रभाः। इन्द्रनीलसमानाभा भवन्ति शुभकान्तयः। अतिश्वेताश्च रक्ताश्च शुकव- र्हिणसप्रभाः। एते देवगजाः सर्व्वेमूतले न भवन्ति हि। अतिश्वेताश्च रक्ताश्च शुकवर्हिणसप्रभाः। दैवयोगाद्वने प्राच्ये क्वचिदेव भवन्ति हि। वन्दनीयश्च पूज्योऽसौ नासौ ग्राह्योनराधिपैः। शृङ्गाराङ्गारभस्मास्थिपङ्कमाञ्जिष्ठसन्निभाः। म्लापुष्पसवर्ण्णाश्च गजास्त्वेतेऽतिनिन्दिताः। एवं वर्णविशेषास्तु कथितास्तव सुव्रत!। गजमेकादशगुणं वक्ष्यमाणं निबोध मे। मधुसन्निभदन्तश्च श्यामोमधुनिभेक्षणः। उदरेपाण्डु वर्णश्च वक्त्रे च कमलप्रभः। द्विरेफसमबालश्च कुन्देन्दु सदृशैर्नखैः। स्थूलतारोमयुक्तश्च शेषेष्वङ्गेषु पीतकः। विचित्रञ्च मुस्वं यस्य रक्तैःश्वेतैश्च विन्दुभिः। स नागोगजयूथानां मध्ये राजाऽत्र जायते। तं प्राप्य नृपतिर्भुङ्क्ते सागरान्तं महीतलम्। नीलसवर्णसंस्थानः स गजोयूथनायकः। मुखे मदे च हस्ते च कर्णोदरशिरस्मुयः। केशैः शुभैश्चः वलिभिर्विन्दुभिः परिमण्डलैः। सवर्ण्णोयो भवेद्दन्ती कैलासः सोऽभिधीयते। अतःपरप्रवक्ष्यामि निःश्वासस्य तु लक्षणम्। निःश्वासोद्विविधोज्ञेयः शुभश्चैवाशुभस्तथा। शुभः सुरभिगन्धः स्यात् पूतिगन्धोऽशुभोमतः। विशेषेण तयोश्चैव लक्षणं भूप! कीर्त्त्यते। सूक्ष्मता दीर्घता चैव समता च सुंगन्धिता। सौकुमार्य्यं मृदुत्वं च निश्वासस्य तु षड्गुणाः। स्थूलता ह्रस्वता चैव दुर्गन्धत्वं तथोष्णता। पारुष्यं विषमत्वञ्च दोषाश्चापि भवन्ति षट्। दशा रत्निप्रमाणं च रेणुकं पित्तलक्षणम्। यो निश्वसिति दीर्घं च स दीर्घायुर्गजो मतः। अरःपरं प्रवक्ष्यामि गजालोकित लक्षणम्। स्निग्धं स्थिरं च सौम्यं च वारिजोत्पुल्लतारकम्। सलक्षं प्रतिनागं तु प्रेक्षितं शुभकारणम्। उद्विग्नञ्चञ्चलं दीनमविकाशिततारकम्। ऊर्द्धाधः पार्श्व दृष्टञ्च निर्लक्षं निन्दितं भवेत्। कचानां साम्प्रतं भेदान् वक्ष्यमाणान्निबोध मे नेत्रयोः पुटपालिस्थाः कचाः शुभफलाः स्मृताः। संख्या तस्यैव मानन्तु रोम्णां चैव प्रकीर्त्तितम्। देहच्छायासवर्णत्वं मृदुत्वं च तथा परम्। अनाबिलत्वं घनता नम्रा च स्फुटिताग्रता। अंशुमत्ता च सूक्ष्मत्वं रोम्णां सप्त गुणा स्मृताः। दोषाश्च सप्तसंख्याः स्युर्गुणानां च विपर्य्ययात्। शुभानि शुभकर्त्तृणि दुःखदान्यशुभानि च। अतःपरं प्रवक्ष्यामि लक्षणं पक्ष्मसंश्रयम्। बाह्योत्तानानि रूक्षाणि दीर्घाण्या यतनानि च। मृदूनि पिङ्गवर्ण्णानि पक्ष्माणि करिणः सदा। स्निग्ध च्छायानि कृष्णानि समानि च दृढानि च। अयनानि मच्छि द्राणि पक्ष्माण्यतिशुभानि च। गजानां स्वामिनः सौख्यं कुर्व्वन्ति रमणीयताम्। दृढाः स्निग्धाग्रलम्बाश्च सुवृन्ताश्च च्छदप्रभाः। तालवृन्तसमाकारा बाला भर्तुर्जय प्रदाः। शुनःपुच्छसमा रूक्षाः कपिलाः स्फुटितास्तथा। घनत्वातिशयोपेताः सुवृत्तास्त्वतिनिन्दिताः। भर्त्त्रारोहिगजानान्तु नित्योद्वेगकरास्तु ते। अतःपरं प्रवक्ष्यामि केशानामपि लक्षणम्। अभिन्ना ऋजवः स्निग्धा घना मधुकरप्रभाः। केशा वारणनाथस्य क्षेमवृद्धिकरा मताः। रूक्षास्तु निष्ठुराः पिङ्गाः स्फुटिताश्च जुगुप्सिताः। कुर्व्वन्ति दन्तिनां नित्यं स्वस्य नाथस्य चाशुभम्। पक्ष्मवालकेशरोम्णां लक्षणं कथितं मया। फणिमार्जारमण्डूकशृगालैश्च समप्रभम्। वानरस्य समं चैव मुखं नागस्य निन्दितम्। स्निग्धान्यापूर्णगण्डानि गिरिकूटनिभानि च। आपूर्णमेघरूपाणि पूजितानि मुखानि चै। मदहीनं कृशं ह्रस्वं बाहित्थनिःप्रभं तथा। वराहलोचनाक्रान्तमदृष्टचिबुकं तथा। ललाटतटपर्य्यन्तगर्त्ताकृतिभिरन्वितम्। सगदं हीनतायुक्तं मुखं नागस्य निन्दितम्। मुखस्य लक्षणं सम्यक् कथितं तव सुव्रत!। अतःपरं प्रवक्ष्यामि मातङ्गगतिलक्षणम्। समा च लघुपादा च वेगेऽप्यतिशुभा मता। दीर्घक्रमा सुखोत्क्षिप्ता गात्रसंवरहारिणी। शुभलक्षणसंयुक्ता पुरुषस्य वकस्य च। मातङ्गवृषसिंहानां गतिर्मुख्या शुभा मता। क्लेशचालितगात्रा या विषमा सुलघुक्रमा। वेगेऽपि मन्दसञ्चाराविशेषान्दोलितासना। मृगस्य कृकलासस्य जम्बूकस्य खरस्य च। गमनेन समा या, सा शुभा नो दन्तिनाङ्गतिः। कथितं तव राजेन्द्र! गजानां गतिलक्षणम्। स्थितानाञ्च यथायीगं साम्प्रतं लक्षणं शृणु। पञ्चस्थितसप्तस्थित नवस्थित द्वादशस्थिताश्चैव। पुण्यवतां जायन्ते राज्ञां गिरिसन्निभाः करि णः। लक्षणसहितैः स्निग्धैः करकुम्भविषाणकर्णनयनैश्च। संयुक्तो भवति गजो वसुदः पञ्चस्थितो नागः। (वसुदःधनदः) परिणाहायामोच्छ्रयबलविक्रमधैर्य्यकान्तिसम्पन्नः। भर्त्तुः प्रतापजननो ज्ञेयः सप्तस्थितो हस्ती। उत्साहवेगसाहसमदसत्वगुरुत्वदक्षतायुक्तः। करदन्तकर्मसु कुशलोनवस्थितः करी भवति। बुद्धिर्मेधा सत्वं यत्नःकुम्भौ तथाऽक्षिणी हृदयम्। रोमाणि च्छविपादाः तथासनं पृष्ठवंशश्च। द्वादश चैतानि सदा स्थितानि दृश्यन्ते यस्य नागस्य। स द्वादशस्थितोवै भवति गजः सर्व्वसौख्यकरः। सञ्चार स्थितभेदाः कथिता गुणसंश्रया गजेन्द्राणाम्। दिव्याधमसत्वानां लक्षणमिह साम्प्रतं वक्ष्ये। निहतद्विपदचतु- ष्पदकुणपान्न स्पृशति च न यो मृह्णाति। न च जिघ्रति भूत्रादीन् स वारणोदिव्यसत्वस्तु। दत्तञ्च योऽत्ति मांस सत्वानां सर्वं तु लोभेन। जिघ्रति मूत्रपुरीषाणि पिशाचसत्वः स विज्ञेयः। एवं सत्वपरीक्षा क्रियते नरनाथ! वारणेन्द्राणाम्। स्वरलक्षणमिदानीमशुभं शुभञ्च वक्ष्यामि। स्थानान्यष्टौ नृपते! भवन्ति शब्दस्य वारणेन्द्राणाम्। ताल्वोष्ठशिरौरःकरजिह्वामूलं गलकपोलौ च। गम्भीरसौम्यहृष्टास्तब्धाश्रमीरितास्तथा स्निग्धाः। नादाः शुभाःनराधिप! षडेवकथिता गजेन्द्राणाम्। चत्वारस्त्वशुभा रौद्राभयशोकसङ्गमोत्पन्नाः। एवं शुभाशुभाश्च दशप्रकाराःस्वराःस्वरा ज्ञेयाः। अन्येऽपि गलवक्त्रगानिलास्फालनोद्भवा बहवः। शब्दाभवन्ति करिणां शुभाशुभं न तैर्भवति। निम्नोचितचिवुकायितविरुक्षितकूजितखरोष्ट्रनादनिभाः। वायसजम्बूककपिकाष्ठभङ्गसदृशारवास्त्वशुभाः। ज्ञेयानि शुभानि सदा मृदङ्गजीमूतदुन्दुभिनिभानि। पातायितगर्जितहसितानि वृंहितानि नागानाम्। पातायितञ्च ताल्वोष्ठसम्भवंगर्जितकं चैव। जिह्वासमुद्भवं च फेनायितमित्यभिख्यातम्। हसितं कपोलजनितं पुष्करविवरोद्भवञ्च नागानाम्। भवति धनघान्यवाहनभूलाभकरं नरेन्द्रस्य। हस्तेन मृदङ्गरवं तु कर्णाभ्यां दुन्दुभिस्वनञ्चैव। दर्दुररवं तु पेचकेन करोति योऽसौ जयकरः। सर्वस्थानसमुत्था शब्दा नरनाथ! वारणेन्द्राणाम्। आचार्यैः सर्वैर्वृंहितसंज्ञाश्च रवाः शुभा ज्ञेयाः। एते च जयपराजयकथनसमर्था भवन्ति भूपानाम्। गर्हितशुभप्रदेशस्थानाङ्गपरिवर्द्धिता नादाः। शुष्कतृणकाष्ठकण्टकवल्मीकास्थिश्मशानदुष्टासु। पाषाणाङ्गारादिषु भूमिषु यदि संस्थिताः करिणः। वृंहन्ति हीनलक्षणमेतद्भर्तुस्तदाऽसुखं भवति। प्रभूतमृदङ्गरवं तु यदि वृंहन्त्यानन्दपूरिताः करिणः। प्रस्थानं भवति तदा नराधिपस्य विजयस्तदा राजन्।! सभामध्ये च यदा वृं० हन्ति शार्दूलवत् गजाह्रष्टाः। भवति ससैन्यस्य तदाविजयः संख्ये नरेन्द्रस्य। (संख्यं संग्रामः) कलहंसनाद मधुरं किञ्चिदिवोत्क्षिप्तपुष्करस्तु यदा। वृंहति सदा च हस्ती तदापि जयोभवेद्भर्त्तुः। मुखविवरकपीलगतंवृंहत्यसकृत् गजो यदा हृष्टः। मधुरङ्गजहसितञ्च जयप्रदं भवति भूपानाम्। त्रीन् वारान् क्रौञ्चरवं हंसरवं वृहितं यदा कुरुते। एतदपि नागहसितञ्जयप्रदम्भवति भूपानाम्। गर्जति घनवत् सततं यदि वारणः प्रहृमनाः मुखरन्धुनिविष्टकरस्तदाऽरिविजयोऽभवेद्भर्त्तुः। घनैव गृहीतसलिलं ससीत्करं वृंहितं यदा कुरुते। भवति तदा वारणनाथस्य भवति शत्रुनाशः खल्वेव। कथितान्ये तानि मया शुभानि गजवृंहितानि नरनाथ!। अशुभानि च नागानामतःपरं प्रवक्ष्मामि। शङ्काचालितनयनोवराह घुरितनिःस्वनं कुरुते। तत्प्रतिबलस्य नूनम् तदा क्षयो भवति। भूपाल! वेष्टितभूतलहस्तो नदति यदा धरणिप्रकम्पनादसमम्। नरपतिराष्ट्रविनाशो मबति तदा शत्रुसैन्यकृतः। मदमुदितखरतरसदृशं निःस्वनं यदि करी कुरुते। जनयति विजयविनाशात् पुरराष्ट्रपीडनं च तदा। बलिभ्वग्निस्वन सदृशं यदि वा समुत्फाल्य च हस्तम्। वामान्दोलितचरणोयदा करी वृंहति सनिःश्वासम्। आलानगतः कुरुते तदा बद्धोयातावैरिभिःपाशैः। एवं प्रकृतिस्थायदि मतङ्गजा वृंहितानि कुर्वन्ति। आत्यन्तिकानि राज्ञां चैव भवन्ति नान्यानि”। “यदि रिपुगजाभिमुखो निवाय्यमाणोऽपि याति रभसेन। विंशतिपदानि नागस्तत्रापि जयोभवत्येव। अमदोगृह्णाति मदं दुर्गन्धमदश्च सुरभिमदम्। दुष्टगजानां प्रथमन्दुलक्षणमेवं सकलम्। ह्रस्वतनुर्मणिवदनो हि महाशिरास्तब्धकर्णयुगलश्च। नातिस्थूलोऽसिसवर्ण्णस्तब्धानि च गात्र वदनरोमाणि। व्यासः स भवति हस्ती दुष्टात्मा दुष्टशीलश्च। स्थूलाक्षिपाण्डुरूक्षो दीर्घविषाणोनामितमुखश्रीः। पृथुपादःश्यावनस्वो वक्रोहनुपुटदण्डेन। विसृतकुक्षिल म्वोदरश्च कृष्णोवराहनयनश्च। ज्ञेयोवकीलनामा ख्यातोऽयं सर्वदोषकरः। अतिह्रस्वापरगात्रो वृहन्मुखः काककृष्णनयनश्च। स्थूलतराधोमुखदन्तदीनमुशलस्फुटित वहिर्नखपादः। स्थूलनखःस्थूलपुष्करकरश्च वामन संज्ञो गजाधमो दुष्टशीलश्च। विषाणे चातिदृढे ह्रस्वे परिमण्डलौ तथा कर्ण्णौ। वदनञ्च मांसलं स्यादधोगतस्थूलनयनञ्च। सममांसलत्वयुक्तो ह्रस्वो ह्रस्वाङ्गुलिः करो यस्य। नाम्ना च विश्वरूपमुख इति ख्यातो दुष्टमातङ्गः। करकर्ण्ण शिराबालधिविषाणगात्राणि यस्य हीनानि। आदग्धभोऽतिवामनाङ्गः पापात्मा स स्वामिनाशकरः। शयनादुत्थाय बलाद्द्वावपि पादौ कर्वति कृच्छ्रेण। प्रत्युषसि गच्छति पुनः कापि समुपस्थापितमुखश्च। अनिभृतगात्रस्तिष्ठेद्विचलति तस्याननं च कर्ण्णाभ्याम्। स ज्ञेयो वातकरः पापात्मा सर्वपापकरः। यस्य च किलाल्पं मेढ्रं ह्रस्वं ह्रस्वाङ्गुलिस्तनुर्ह्रस्वा। अतिनिम्नञ्च बाहित्थं कर्ण्णौ च तनुत्वचौ ह्रस्वौ। गात्रापरञ्च दीर्घं नखाश्च जनितान्तरास्तथा। सर्वाणि च काकाभपक्ष्मरोमाणि च विदग्धानि। उदरञ्चाकृष्ण स्यात् ग्रीवा तन्वायता च वक्रा च। वंशिकनामा मतोऽसौ दुष्टगजोवर्जनीयश्च। यस्य करालौ दशनौ स्थूलौ मात्रान्तरन्तथा ह्रखम्। मस्तिष्कशुक्लवर्ण्णःकषिजम्बुकलोचनोऽतिविकृततनुः। पापात्मायं हस्ती राज्ञा हेयः प्रयत्नेन। दिवसमपि यत्र तिष्ठति तं देशं दहति यावकप्रख्यः। राज्ञा विन्ध्यावने वा परराष्ट्रे वा स मोक्तव्यः। अतिखरपरिघतनुर्नकुलच्छायस्तनूरुहैस्तब्धैः। यो हस्ती पातारं स पातयित्वा विनाशयति। धन्वासदृश मुखोयः कर्ण्णकचायस्य कर्कशारूक्षाः। कृष्णारूक्षात्वयोऽसौ भर्त्तुर्विपदेव मातङ्गः। रोमभिरधोमुखगतैः काकाक्षो दीर्घवक्त्र श्च। स्थिरह्रस्वकर्ण्णयुगलः स राक्षसोहस्ती रूपेण। तिर्य्यक् प्रेक्षणनिरतोदुर्गन्धः काककुम्भवदनश्च। भूत्रपुरोषघ्राणे समुत्सुको भवति चण्डालः। कुम्भौ यस्य विशालौ विक्षिप्त स्थूलतारके च नेत्रे। तन्वायतं त्रिकं स्यात् बालघिबालास्तु बहुरूप्राः। रक्तौ पेचककोशौ मेढ्रोपरिसंस्थितोदरञ्च महत्। चलपक्ष्मलस्तु हस्ती स भवति नाम्ना महादुष्टः। अङ्गं प्रसार्य्य वदनं विधूय चाधोरणं निपातयति। स जले स्थले च नागो विबजंनीयः प्रयत्नेन। ह्रस्वकराङ्गुलिबालतनु दशनश्चाल्पायामगात्रश्च। मत्कुणजातिः स गजः सुदुष्टशीलश्च रुष्टश्च। कालनखो हरिवर्ण्णोहर्य्यक्षो ह्रखबाल धिश्चैव। बहुपक्ष्मा दुर्गन्धिर्म्मणिसन्निभतालुकैरूक्षैः। अतिपिङ्गलकर्णचूलोरोमशहस्तो वराहनयनश्च। तनुनखसिरालकृष्णैर्नखान्तरैर्दुष्टचरणैश्च। विखुरोनाम गजोऽसौ स्वाङ्गैः सर्वत्र कर्कशोजान्वोः। बहुपापकर्म्मयुक्तो व्यालानामग्रणीश्चायम्। रूक्षोबाहित्थभागो विषमौ दन्तौ च यस्य नागस्य। धूमशिखेव च्छाया स निन्दितो वर्जनीयश्च। दन्तौ चातिह्रस्वौ स्थूलौ रूक्षौ च मांसलो हस्तः। चिबुकं मांसविशुष्क स्थूलतरे तारके यस्य। स्थूलमुखो दुष्टात्मा नासौ सांग्रामिको भवेद्द्विरदः। अति दुष्टकर्ननिरतो भयालुको वर्जनीयश्च। कृष्णा रूक्षा च्छाया वायसजङ्घा च दृश्यते यस्य। मूतोदनञ्च कुरुते निःशङ्कं यः कराग्रेण। निःशेषं शब्दांश्च करोति यः सहस्तनिष्येषम्। परिहरणीयो राज्ञायाने रणे स महता प्रयत्नेन। अतीवविरलपस्मा ध्यानपरः शब्दकरणनिरतश्च। द्विगुणीकृत्य कराग्रन्तुदति च भूतलन्तु नित्यम्। वामेन च लिखंति महीम्पादेन कुञ्चिताग्रेण। जर्जरविरूपकर्ण्णः पापात्मा निन्दितो हस्ती। आनाहायामोच्छ्रयसत्वमुक्तो महासिरालविडः। ह्रस्वाङ्गुलिबालकरो ह्रस्वापरगात्रकर्णश्च। एषोऽपि वामनःस्याद्यद्यपि भवेद्युद्धप्रियोऽसौ द्विरदः। राज्ञा तथापि लक्षणविवर्जितो वर्जनीयश्च। स्थूलमुखहस्तकर्णोविहीनजघमापरस्तनूरूक्षः। महता मेढ्रेण युतोनष्टमदः कोशमहांश्च। मन्दालोकननिरतोमहाशिराः पृथुविषाणनयनश्च। हस्ती नपुंसकोऽसौ विवर्जनीयश्च संग्रामे। अल्पायुषो भवन्ति हि सङ्कालजिह्वोष्ठतालुकानागाः। नरपतिभिस्ते सततं विवर्जनीयाः प्रयत्नेन! आयामपरिहीनं समनाहोच्छ्रायमुखेन नमितम्। उच्छ्रितवक्त्रं कुब्जंविषमकुम्भं कुक्कुरसमानहीनहस्तं च। एवंभूतं तु गजं राजा दूरेण वर्ज्जयेन्मतिमान्। गृह्णाति मन्दबुद्विर्यस्तस्य कुलक्षयो भवति। लक्षणयुक्तोऽपि गजो द्वाविंशत्येकविंशतिनखश्च। एकोनविंशतिनस्वः सप्तदशनखश्च यो भवति। षोडश पञ्चदश वा नखान् धत्तेयुक्तो वा चतुर्द्दशभिः। एकादशत्रयोदशनवदशभिर्द्विदशनखैश्चैव। संयुक्तस्त्वशुभकरः सप्ताष्टाभिश्च पापनखैः। द्विरदाश्चाष्टादशनखाः विंशतिनखयुक्ताश्च शुभाः। कुरुते स्वामिविनाशं द्वाविंशतिनखोयश्च। एकोनविंशतिनखो युवराजविनाशं कुरुते। सप्तदशनखस्तु गजो नरपतिपात्र विनाशने समर्थः। षोडशनखमातङ्गोनायकनाशं ध्रुवं कुरुते। पञ्चदशनखश्च योऽसौ सेनापतिनिधनकृद्गजो भवति। कुरुते चतुर्दशनखोव्याधिं पुरवासिनां हस्ती। त्रयोदशनखो राष्ट्रवित्तविनाशङ्करोति भूपस्य। द्वादशनखस्तु कुरुते पदातितुरगक्षयं संख्ये। एकादशनखयुक्ती नजहानिकरो भवेत् स गजः। पुरदाहं च दशनखः करोति हस्ती दुरालोकम्। चतुरङ्गस्य बलस्य नाशवन्तु नवनखो गजः कुरुते। अष्टनखश्च पुरोहित बंशसमुन्मूलनसमर्थः। सप्तनखः प्रतिहारं नाशयति च षड्नखोऽमात्यम्। पञ्चनखो भक्तिकरं चतुर्नखो द्वारपालञ्च। त्रिनखोविषयाक्षेपं द्विनखश्चान्तः पुरानुबन्धञ्च। एकनखोनखरहितोराष्ट्रविनाशं ध्रुवं कुरुते। एवम्भूतनखाये नरपतिना न ते गजाग्राह्याः। लाक्षमञ्जिष्ठाभोऽतिलोमशोहीनकर्णकरबालः। हस्ती विवर्जनीयो हीननखः पूतिलोमा च। ज्वलनकृतं शस्त्रकृतं दुर्भिक्षकृतं महद्भयं कुरुते। यस्मिन् देशे वसति नाशयति वन स दुष्टात्मा। यस्य न भवतोदन्तौ ज्वलनकृतं दुर्भिक्षकृतं महद्भय कुरुते। यस्मिन्देशे स वसति नाशयति वनं स दुष्टात्मा। यस्य न भवती दन्तौ कुलरूपवतोऽपिं गर्भदोषेण। स गजोमत्कुणनामा न तं रणे योजयेद्राजा। कुञ्जरघटागतोऽसौ हरति गजानां बलं च सत्यञ्च। अतएव समरकाले नराधिपैर्वर्जनीयश्च। तनुह्रस्वदीर्घदन्तोह्यतिसङ्कटवक्रविघटितविषाणः। एकदशनस्त्वधोमुखरदनश्च गजः प्रभंत्यजति। रदनविहीनो हस्ती निःशेषलक्षणयुतोऽपि। भवति न नृपतियोग्योमदजलसंसिंक्तं गण्डोऽपि। दूषितविरहितदीने सत्वरहिते विवर्णे च। निष्प्रभकुञ्जकुहरे राजा नारोहति सन्नाहर हिते च। एवम्भूतास्त्याज्याः मित्रनाशका रणे करिणः। अक्षिभ्यामश्रुजलं निपतति नागस्य यस्य नित्य हि। नयनव्याधिवियुक्तस्य तस्य भर्त्ता रणेम्रियते। वद्धनशीलाश्च नखा भर्तुश्चैव संबाधनकराः। जिह्वानखमुखमेहननयनानि भवन्ति यस्य कृष्णानि। बाहित्थचित्र कृष्णः स गजोभर्तुः क्षयं कुरुते। बाह्यांसफलकपीठी राजन्! कृशेन पृष्ठवंशेन। वदनेन च कपिवदनानुकारिणानिन्दितो हस्ती। कर्णौ दन्तौ च समौ न नतौ भवती यस्य नरनाथ!। स नराधिपबलविनाशकरः करीजायते समरे। चित्रौ रोमचितौ वा स्थूलौ वातिप्रलम्बिताग्रौ वा। कोषौ कोषविनाशं स करोति नागश्च भूपानाम्। सितबिन्दुभिर्विचित्रंश्वेतं वा यस्य जायते मेढ्रम्। स गजःशक्ति विनाशङ्करोति भूपस्य संग्रामे। छागस्येव विचित्राणि यस्य देहे भवन्ति रोमाणि। स गजःप्रतिगजबलेन विह्वलो निजबलं दहति। सुप्तोत्थितस्य वदनात् यस्य गजेन्द्रस्य गलति रुधिरजालम्। ज्वलनकणं मुञ्चति शश्वदसौ भर्तृनाशकरः। इति कथितं तव नृपते! दुष्टमातङ्गलक्षणं सम्यक्। पापकरिण्यालक्षणमतः परं संप्रवक्ष्यामि। यल्लक्षणं मयोक्तम्भद्रादीनां शुभं च दुष्टं च। तत्करिणीष्वपि योज्यं जातिविभागेन च युक्तासु। सुलक्षणेन ललितानि करेणुकानामङ्गानि भवन्ति। युवतिसदृशान पुरुशोचितानि च तथा पीनान्यङ्गानि करेणूनाम्। गजसंस्थाना करिणी निर्मतदन्ता सुपीनकाया च। स्थूलायता च सततं प्रभूतदया मताच करिणीनाम्। प्राच्यवनसमुद्भूताः प्रायेण लक्षणयुता भवन्ति करिण्यः। सुलक्षणेषु च च्छाया लक्षणं प्रधानं तच्च पञ्चविधं भवति। पृथिव्यप्तेजोवाय्वाकाशात्मकम्। तत्र पृथिव्यप्तेज आत्मकं प्रशस्त वाय्वाकाशात्मकमप्रशस्तम्। क्रमेण च्छायाभिधीयते बलोपचयपशेन समुतपद्यते। तस्यैव देहोद्द्योतजननी स्थिरा प्रभाऽभिधीयते। छायाफलस्य द्विगुणपलसम्पादनसमर्था प्रभा भवति। छाया देहसमाश्रिताः स्थिरप्रभावाऽस्थिरा च्छाया यलोपचयवशेन सुमुत्पद्यते। नरेन्द्रस्यैवोद्योगकाले शुभकर्मफलसूचनार्थं गजस्य प्रभा प्रकटीभवत्येव। एवं छायागतो भेदोऽवगन्तव्यः। साम्प्रतं छायारूपमभिधीयते। स्निग्धा गम्भीररूपा पार्थिवी च्छाया भवति। स्निग्धाजीभूतसन्निभा च सलिलसम्भूता, स्निग्धा रक्ता च ताम्रा च तेजसी च्छाया। त्रयं चैतल्लक्षणंशुभमशुभलक्षणानि गजस्य स्तम्भयित्वा सुखप्रदं भवति। अथाशुभा कथ्यते निःप्रमा परुषा रूक्षा भस्मनाकुलवर्ण्णा च वाषवी। रूक्षा तन्वीकृष्णादिविविधवर्ण्णा आकाशात्मिका। इत्थं छ्याद्वयमति गर्हितम् गजलक्षणानि तिरस्कत्याशुभप्रदम्भवत्यनेन प्रकारेण च्छायालक्षणमुत्तमं भवति। विकटह्रस्वबालवृद्धकृशाङ्गहीनाङ्गेषु व्याधिपीडितविकलाङ्गेषु गजेषु नारोहति राजा भृत्याश्चैतेष्वारोहन्तीति। यादृशं च समरकाले मातङ्गं राजा समारोहति तादृशस्य लक्षणमभिधीयते। बलं कण्ठै स्थितं नित्यं कुञ्जराणां नरेश्वर!। अतःसंपूर्णकण्ठस्तु शिखिपिङ्गललोचनः। घनमांसचितांसस्तु दिशोऽवघ्राणतत्परः। वराहजघनश्चैव सुविषाणोवराननः। सुप्रतिष्ठितपादस्तु यः स्यादगुरुमक्षिकः। प्राजापत्योगजोह्येष संग्रामार्हः प्रकीर्त्तितः। मधुपिङ्गलदन्तोयः किकिवापीतकच्छबिः। रोमाणि चैव रूपाणि मुख च कमलप्रभम्। रक्तोत्पलदलच्छाये सूक्ष्मे तीक्ष्णे च लोचने। ऐन्द्रोगजस्तु विज्ञेयोरिपुवृन्दविनाशनः। ताम्रतालुकजिह्वोष्ठसुजातनिविडापरः। पीनोन्नतशरीरस्तु रक्तकोकनदच्छविः। आयतेन तु दन्तेन करेण मुखशोभिना। पीयूषपिङ्गदन्तो हि गजःकौवेर उच्यते। तरुणाम्बुदसंकार्शीघृतप्रभविषाणभृत्। संपूर्णकण्ठपादस्तु संपूर्णसममस्तकः। मृदङ्गध्वनिगम्भारनादपूरितदिङ्मुखः। आयतेन च हस्तेन सीकरोत्किरणप्रियः। वारुणोऽयं गजोराजन् संग्रामेष्वतिपूजितः। कण्ठस्त्रिवलिसंयुक्तः संपूर्णोयस्य दृश्यते। लोचने ताम्बपिङ्गे च दन्तौ केतकसप्रभौ। पादौ च वलिनौ यस्य पीनगात्रसमांसलौ। पृथुलौ विन्दुचित्रौ च कर्ण्णौ चातास्रपल्लवौ। ऐशानोऽयङ्गजो राजन्! रणकर्मणि युज्यते। तालुन्युरसि वक्त्रे च पक्षयोरुभयोरपि। आताम्रा यस्य दृश्येत च्छाया मृदुतनूरुहा। असौ सौम्यस्तु विज्ञेयः कुञ्जरः समरोचितः। अर्चिःपिङ्गल रोमा यः केशैश्च श्वेतपिङ्गलः। पिङ्गलाक्षिविषाणश्च रक्त पुष्करतालुकः। आग्नेयः स गजोज्ञेयस्तेजसाग्निसम- प्रभः। राज्ञा बुद्विमता नित्यं धार्य्यः समरकर्मणि। कृष्णवर्ण युताग्राणि मुखश्रोतांसि लोचने। निर्घूंमाग्निसमच्छाये भूलग्नश्च करस्तथा। कायश्च पीननासःस्याद्वेगे वायुसमः शुभः। राजनु। वायव्यमिच्छन्ति तङ्गजं शास्त्रकोविदाः। संख्ये नियुक्तश्च गजोनाशयेद्रिपुवाहिनीम्। निरङ्कुशत्वं चण्डत्वं तस्य दोषद्वयं भवेत्। निरङ्कुशत्वं शमयेत् प्रयोगाश्वासनादिभिः। चण्डत्वं च तथा नित्यं सुकुमारक्रियादिभिः। रोमाण्यञ्जनरूपाणि नखाः शङ्खसमप्रभाः। निस्त्रिंशविमलच्छायः स भवेद्वैष्णवोगजः। स वैरिणं जयेद् राजन्! रिपुसैन्यविमर्दनः। कुम्भवक्त्रः कटौ यस्य निस्त्रिशघनसंनिभौ। बिन्दुभिश्चित्रि तं यस्य स विचित्रश्रवो गजः। तेन संग्रामकर्माणि कुरुते यो नराधिपः!। नित्यं चारिजयं तेन स राजा फलमश्नुते। सुदन्तो दीर्घहस्तश्च वृहदङ्गुलिपुष्करः। घनमांसशरीरश्च कूर्म्माकारोहि सत्तम!। सांग्रामिकोनजोह्येष जीवत्यपि समाशतम्। संग्रामविजयी नित्यं प्रतापजननक्षमः। महाशिरा महाकायो महामेढ्रो महाकरः। महादन्तोदरश्चैव महानागोवरासनः। महानेत्रो महौष्ठश्च महाकर्णोमहामुखः। महामदो महाकण्ठो भवेत्सांग्रामिकोगजः। यद्भद्रलक्षणं पूर्वमुक्तं नृप! तच्छुभमेव हि। मन्दस्यापि हि शस्तं स्यदाद्द्वावेतौ च महागजौ। संपूर्णलक्षणोपेतो न भवेच्च महीतले। अनयोरेव भेदास्तु नागानां समुदाहृताः। सांग्रामिका द्विपा रजान्! शुभलक्षणलक्षिताः। कथितास्तव तत्त्वेन राजसौख्यकरागजाः”। आभिषेचनिकगजलक्षणं तत्रैव। “पीनमांसचितांसश्च कूर्म्माकारनखस्तथा। समवचितसांसस्तु सुवृत्तः कल्पनापरः। छानकुक्षिः सुपार्श्वश्च रोमानाहसमन्वितः। ज्वलनोज्ज्वलनेत्रस्तु सुविषाणो महाकरः। संपूर्णचिबुकश्चैव क्रमायामोरयान्वितः। बलसत्वसमायुक्तः स्निग्धच्छविमनोरमः। सांग्रामिको भवेष्ट्राज्ञ आभिषेचनिको गजः”।
तत्रैव पालकाव्ये गजहृदये। “आयुः सविंशति शतं मानं स्यात् सामजन्मनाम्। राजपुत्र! दिशाम्येवमायुष्यादि दशादश। लक्षणानि वदे तेषां क्षेत्राण्येवं विषाणिनाम्। लक्षणालक्षणं ज्ञेयमायुष्यादिदशाफलम्। क्षेत्राणि हस्तौष्ठमुखं दन्तौ शीर्षं च चक्षुषी। कर्णौ ग्रीवा च गात्रञ्च वक्षः कार्य्यस्य भेदतः। लक्षणं सन्निकृष्टं यद्बिप्रकृष्टञ्च यद्भवेत्। मतञ्चित्रबलोपेतं प्रभूतञ्ज मनीषिभिः। तुल्ये कुले वने जातौ प्रचारे यत्तु लक्षणम्। दशायाञ्च तदाख्यातं घ्रभूतमिति सूरिभिः। दक्षिणन्दक्षिणाङ्गं च हस्तिनः पुण्यदं मतम्। तथा वामं च वामाङ्गं हस्तिनीफलदं मतम्। लक्षणं दक्षिणाङ्गोत्थं फलं भूमिभुजां मतम्। महद्व्यक्तं भवेयद्यच्च लक्षणं तन्महाफलम्। यदल्पमप्रकाशञ्च तदल्पफलदं मतम्। मध्यमानफलं मव्यं लक्षणंतु समादिशेत्। शुभाशुभेन मिश्रेण बहुत्वेनादिशेत् फलम्। कदाचित् शुभद चास्य गजानामप्यलक्षणम्। शुभकर्म्माणमासाद्यराजानमथ वा द्विजम्। यथा हि सर्वसरितः समुद्रं समुपेत्य हि। स्वरसेन वियुज्यन्ते मवन्ति लवणाम्भसः। एवमासाद्य भर्त्तारं बहुलक्षणलक्षितम्। भवन्ति बाधितानीह दुर्लक्षणफलानि च”। इत्युपक्रम्य गजदेहस्थानविभागनामभेदस्तत्रैव दर्शितः। यथा “विषाणयीर्यस्तिर्य्यक्स्यादायताग्रो ग्रहोऽपि सः। किविवा च ग्रहस्याधःकुम्भोपरि च बिम्बकः। अथ ग्रहोपरिस्थोऽपि पुरष्करोऽपि भवेत्तथा। तथा ग्रहोपरिस्थे च किविवोपरिभागके। वाहित्थोपरि केशाश्च मस्तकं च तथा मतम्। स्यातां मस्तकपिण्डौ च मस्तकस्थश्च विन्दुकः। तथा विन्दूपरिस्यातां वितानौ विन्दुपार्श्वतः। ततोऽन्तरवितानं च पृष्ठं तत्र विनिर्दिशेत्। विन्दुवितानयोश्चान्तः पुरस्तात् पाकिलौ किल। नीचे मस्तकपिण्डाद्धि वितानविन्दुपाकलः। निर्याणं च वितानोर्द्ध्वं कर्णौ वापि ततः कटौ। कटयोः श्रोतसी वापि कटस्वावस्तयोरधः। पृष्ठतः कटिसंधी च गण्डौ च कटयोरधः। कटगण्डान्तसद्भागे घाटसन्धी च घाटके। घाटासन्ध्युपरिष्टाच्च कर्णसन्धिसमीपगे। श्रवणे गात्रगण्डाधःकपोलौ च तदन्तरे। रोमकूर्चौ च पादौ च कपोलाधस्तथा मतौ। ततः सगदसन्धी च सगदान्तरमत्र च। आसगदात् हन्ववघिः प्रदेशः शिरसोमतः। अक्षिकूटाबुपर्य्यक्षावुभाबुपरि वै तयोः। गुहेवाक्षाऽधरः स्यात्तु नेत्रस्रावौ तयोरधः। अपाङ्गावक्षिबाह्ये च तत्सन्धी चाक्षिपृष्ठतः। पक्ष्मणोर्मण्डले चाथ तत्सन्धी वर्त्ममण्डलौ। वर्त्ममण्डल सन्धी च ततश्च श्वेतमण्डले। श्वेतमण्डलसन्धी च ततः कृष्णे च मण्डले। तत्सन्धी च ततः कृष्णे सत्सन्धी वर्त्ममण्डले। तयोरपि तथा सन्धी प्राग्भागे चक्षुषोरपि। कनीनिके समाम्नाते सन्धी तत्र तथानयोः। इत्यक्षिगतदेशानां समुद्देशो भवेदिह। किल वित्तौ च कर्ण्णौ च कर्णयोश्चूलिका ततः। तदधः कर्णपिप्पल्यौ बलिके द्वे प्रदेशगे। कर्णमस्तकसन्धी च पश्चात् कर्णापवर्त्तयः। तदन्तश्च समस्थानावुद्घातौ परिकीर्त्तितौ। कर्ण्ण- चूलिकयोरग्रे पिङ्गलाख्यौ च भाषितौ। पुरस्तात् कर्णपि पल्याः कर्ण्णसंवेशचर्मणी। कर्ण्णान्तः कर्ण्णनाड्यौ च लम्बेतां तस्य भागतः। तयार्वीथिःकवन्धश्च सशङ्खमध्यकर्ण्णयोः। कर्ण्णसन्ध्योरधस्ताच्च तथाधःसन्धिसंज्ञितौ। तदधःकर्णपाल्यौ च प्राक् कर्णोपरितस्तयोः। नाडीपार्श्वगतौ चात्र मध्यकर्ण्णौ तयोरधः। अधःकर्ण्णौ समाख्यातौ बहिःकर्ण्णापवर्त्तयोः। पार्श्वकर्ण्णौ बहिःकर्ण्णौ कर्ण्णयोश्च क्रमाद् बहिः। अन्तरान्तरकर्ण्णौ च पर्य्यन्तकर्णपाशयोः। अधस्ताच्चेति भागाः स्युः कर्ण्णयोः करिणोऽपि च। ग्रीवायाः प्राग्भवोभागो ग्रीवा सन्धिस्ततस्तथा। ग्रीवापृष्ठं ततस्याच्च मध्ये तच्च कृकाटिका। ग्रीवापृष्ठे तथाधस्ताद्गलमाहुर्द्विपस्य च। अधःकण्ठस्तयोश्चोर्द्धं मन्ये ते गलकण्ठयोः। धमन्यौ कण्ठपार्श्वे च तयोश्चाबलिपिण्डिका। गलस्य पार्श्वयीरूर्द्ध्वं दर्दुरौ चात्र निर्दिशेत्। गुहे मन्योपरिस्यातामुपरिष्टात्तयोस्तथा। किविकौ च तथा चोक्तौ पश्चादुपरि चैतयोः। पार्ष्णिघातौ च संख्यातौ पार्ष्णिघातान्तरे तथा। उत्सङ्गावुपरि स्यातां स्कन्धादूर्द्धं तथानयोः। तन्मध्ये पणवश्चोर्द्ध्वमिति ग्रीवांशसंग्रहः। (हस्तिपकेन पार्ष्णिभ्यां यौ देशौ हन्येते तौ पार्ष्णिघातौ) गात्रमात्रमायतं च भवेदासनमादितः। तत्पार्श्वयोः प्रतीकाशौ तावंसौ च तयोरधः। तदधःप्रत्यगंसौ च तथैवांसफले तथा। तदधस्तात्ततोबाहू ततोबाहूत्तरं तथा। अर्वागत्र गुहे तत्र बाहुपृष्ठोद्भवे अपि। अपारे च तदूर्द्ध्वं च तयीस्तद्भाविकौ तथा। पाल्यावथाङ्गादूर्द्धञ्च तयोरायामपृष्ठतः। पाल्यन्ताङ्गपुरस्ताच्चभुजयोरुदितौ यवौ। यवभागोपरि तथा पुरस्तात् फलकोच्छ्रितौ। पिण्डिकाधश्च वेमाख्यौ विशोषौ यवयोरधः। उत्सङ्गौ च विशोषाधः प्रहौ चापि तयोरधः। तत्सन्धी च ततः पर्व्वसन्धानौ तदधोमतौ। तदधः पालिपादौ वै कूर्चौ चानु तयोरधः। तदधोनखकूर्चाश्च ततो नखशिखा दश। पुरःपुरोनखौ नाम्ना सनखौ चैव विस्तृतौ। तत्पश्चात्तु नखग्रीवा विशोषाः पार्श्वतोनताः। अन्तःपार्श्वबहिःपार्श्वे स्यातां पार्श्वनखेषु च। कवास राजयश्चात्र पादनाहाविकास्तथा। तलसन्धी ततः स्यातां तले च तदनन्तरम्। तलप्रदेशपुरतस्तत्परा नखबुध्नतः। तलकर्षौ ततः पश्चात् तलप्रहौ ततःपरौ। तलयोरन्तरं चैव हृदये च करीरके। किंविनोराजयश्चेति तलसद्भाविका अपि। पलहस्तौ ततः स्यातामन्तर्बाहू ततोऽन्तरे। बहिर्बाहू बहिश्चोर्द्ध्वं गात्र सर्वं ततोऽपि च। कक्षौ गात्र प्रहोर्द्धञ्च कक्षयोरन्तरं ततः। इति प्रदेशा गदिता गजानां गात्रगोचराः। कण्ठस्यान्तर्मणिः पूर्वं ग्रीवापर्व समाश्रयः। उरोमणिः समाम्नातस्ततः स्यादुरसः स्थितिः। याऽधोभा पार्श्वगा तत्र गात्रसन्धिसमाश्रिता। आवर्त्तमणि रप्यत्र विक्षो भास्वरसङ्गतः। ततः सन्धिकरस्तु स्यात्तस्याधः स्तनयोः पुरः। मात्रयोरन्तरं चापि चतुरक्षान्तरं भवेत्। अधःस्तनौ च स्तनयोरन्तरे चाथ चूचुके। स्तनान्तौ स्तनकूर्च्चौ च क्षीरिकौ चापि कूर्चके। चतुरक्षान्तरालं च भवे च्चूचुकयोरधः। स्तनयोरप्यधस्ताच्च पुरस्तात् स्तनयोर्भवेत्। हृदयं चास्य पार्श्वस्थावायामौ च बहिस्तयोः। स्यातामायामकाण्डौ च तदघोविवशौ ततः। ततः क्रोडं पदाधस्तात् पश्चाच्चायामकाण्डयोः। रन्ध्रे चापरवस्तिश्च स्तनयोरप्यनन्तरम्। जठरे नाभिरित्येते प्रदेशाः किल वक्षसः। आपराङ्घ्रिपरःशेफोरेतःस्रावावघिः स्मृतः। ततोऽण्डकोषसन्धिः स्यात् कोषसन्धिश्च शेफतः। क्रमान्मेहनमत्र स्यात् मेढ्रसंज्ञो भवेदपि। आनिर्गमात्तथा तस्य बाहुपार्श्वगतौ मतौ। अग्रतस्तत्र ककुदं तस्याश्री पार्श्वयोरपि। मेहनस्य पुरःस्रोतो वङ्क्षणौ कोषपार्श्वगौ। अपराश्रयिणी शुक्रे तथा वङ्क्षणमध्यगे। इत्यण्डकोषभागाः स्युः क्रमादासनमुच्यते। तदन्तश्चासनञ्चोर्द्धं वक्रवंशस्य पृष्ठतः। भवेदपरवंशश्च ततोन्यच्चाध आसनम्। पश्चिमासनमप्यस्य पृष्ठतः परगस्य च। अत आस्तिप्रदेशश्च ततो वंशश्च बालधिः। (आस्तिरासनम्)। आश्रयेत्यभिधानाश्च भागाः पश्चान्निषादिनः। स्यातां च तत्पलाधस्तात् पक्षसन्धी तथा ततः। स्याताञ्च पक्षपार्श्वे च गर्मूकाश्चक्रमादपि। पक्षाधोनन्तरौ चानुकुक्षी पक्षसमास्तुती। निष्काभौ मध्यगौ तत्र शङ्कूचैवोर्द्धमध्यतः। कक्षाभोगौ काकपक्षौ शङ्कुच्छायाकरौततः। उत्कृष्टौकुक्षिपश्चाच्च त्र्यस्थिपार्श्वगतावपि। कालकोत्कृष्टदेशानां पालवंशश्च पार्श्वयोः। कालके पिण्डिके चाधो विद्याच्चापरयोः स्थिते। उत्कृष्टपिण्डिका त्र्यस्थिस्थानमेवालम्बनम्। जघनं परतोऽस्माच्च एवं कालवका दश। भवेत् पायुश्च पायोस्तु गुदमभ्यन्तरं तथा। वहिर्गुदस्य वर्त्मस्यात् गुदान्तः कन्दरं विदुः। विलपाय्वन्तरे कक्षौ तथा पिण्डिकयोरपि। अधस्तादन्तरे किंविन्यन्तरे तस्य संस्थितिः। पिण्डिकाघथ मण्डूक्यावष्ठीलौ पिण्डिकान्तरे”। अवयवप्रमाणभेदास्तर्त्रव। “पिण्डिकारत्निकामाना पुष्करोऽपि भवेत्तथा। कर्णसन्धिर्भवेच्चापि तच्चारत्निप्रमाणतः। कर्ण्णापवर्त्तौ पाल्यौ च स्यातां हस्तसमुच्छ्रिती। कर्ण्णाश्री च तथा विद्याद्विस्तारे द्वादशाङ्गुले। कर्ण्णाश्रावपि हस्तौ द्वावायाम परिणाहतः। कर्णवर्त्तिं विद्धि कर्णप्रमाणेन च रत्निकाम्। शिर आसनमुद्दिष्टं मानेन त्रिकहस्तकम्। शिरसस्तु प्रमाणेन स्यात् षडङ्गुलमासनात्। आसनेन समंशीर्षं कल्याणकरमित्यपि। यस्यासनं च नीचेन शिरसः स्यात् षडङ्गुलम्। अवाग्रो नाम स प्रोक्तो गजोनिन्दितलक्षणः। शिरो यस्य भवेदुच्चमासनाद् द्वादशाङ्गुलम्। सोऽभ्युदग्राभिधानेन लक्षणादासनं भवेत्। आसनं वङ्क्षणोद्देशाद् ग्राहश्च पक्षभागतः। मञ्चसमानफलक उत्कृष्टोऽष्ठीस्थितोऽपि च। अष्टीत्येवं समाख्यातं लक्षणादासनं भवेत्। हस्तद्वयप्रमाणेन पेचकात् पश्चिमासनम्। द्वादशाङ्गुलनिम्नं स्यादासनात् पश्चिमासनम्। सार्द्धहस्तत्रयं चाधः प्रमाणमपि बालधेः। सप्ताङ्गुलप्रमाणेन पायुश्च परिमण्डलः। अरत्निपरिमाणेन विदुस्तद्वद्गुणान्तरम्। अरत्नितोऽघिकं यस्य विस्तरेण स्तनान्तरम्। तिर्य्यग्रोमचयं गात्रमरिभ्यः शीकदोगजः। अरत्नित्रयमानेन नाभिदेशस्तनान्तरम्। नाभिश्च भूत्रकोषश्च गुदारत्न्यर्द्धमानतः। अण्डकोषश्च हस्तार्द्धप्रमाणेन समन्वितः। द्वे चारत्नी तथार्द्धं च कोषमानं भवेदपि। सोऽर्द्धहस्तद्वयायामोहस्तानाहयुतोमतः। प्रौहे तु परिणाहः स्यादरत्निद्वितय तथा। हस्तयोश्चार्द्ध मानं स्यात् चतुर्भागेण संयुतम्। तलस्य पार्श्वतः प्रौहावरत्निप्रमितौ मतौ। चतुर्भागयुतारत्निर्भवेन्नम्रतलोपरि। अष्टाङ्गुलप्रमाणेन स्यातां ततः पुरोनखौ। सप्ताङ्गुलश्चापनखः पार्श्वे पञ्चाङ्गुलानखाः। चतुर्विंशत्यङ्गुलञ्च भवेद्गात्रापरे तथा। अपराभ्यां भवेद्ग्रन्थिररत्न्यर्द्धेन मानतः। अरत्निश्च तलायामोभवेच्च करयोरपि। सप्ताङ्गुलास्तु वैशोषाः पाल्योः पार्श्वनखास्तथा। पञ्चाङ्गुलास्त्र्यङ्गुलाश्च नवचापि नखा मताः। इत्यङ्गमानं नागस्य दिङ्मात्रमिहदर्शितम्। समाङ्गा अपि माताङ्गा दृश्यन्ते दुःखदाः क्वचित्। दृश्यन्ते विषमाङ्गाश्च क्वचित् कल्याणदायिनः। तस्मात् प्रमाणं केषाञ्चिदप्रमाणतया मतम्। प्रमाणं कृतसाचार्य्यैः सर्वैर्लक्षण वेदिभिः। अथाङ्गसङ्गमात्तावत् मातङ्गानां गुणागुणाः। भूयोऽन्यगुणदोषाभ्यां प्रसङ्गात् कथिताः पुनः। उपरिक्रमतो वृद्धो नातिस्तब्धोमृदुस्थितिः। वृत्तम्निग्धाच्छरोमा च लोहिताङ्गुलिषुष्करः। सर्व्वव्यक्तप्रमाणश्च गजः कल्याणकारकः। भाग्यप्रदी बालहस्तस्तथायततनूरुहः। अर्थदो हीनविन्दुश्च गजो दुःख- प्रदो मंतः। द्विपामृत्युकरा ह्रस्वा हीनपार्श्वाश्च वृद्धिदाः। पुष्करं हीनमव्यक्तं विद्याद्भर्त्तृविनाशनम्। युक्तमाने निगाले च निर्मलश्रोतसी शुभे। सुसमाहिते च स्यातामुत् पलाग्रसमद्युती। उन्नद्धौ क्रमवृद्धौ च सिग्धावभ्युदितौ समम्। दक्षिणौ च समानौ च प्रहारप्रगुणच्छवी। ततः प्रदक्षिणावर्त्तावुदात्तौ दन्तिनां रदौ। करस्पृगाकृती चापि श्वेतास्थिसदृशद्युती। विषाणे च तथा म्यातां चापाग्रे वारणस्य च। यो दक्षिणैकदन्तस्य श्रिया तु रहितो गजः। वामैकदन्तो दन्ती च दुःखदः सादिनोमतः। दशां प्राप्य चतुथीं च द्वितीयां यस्य न द्विजौ। स्थूलावनायतौ स्यातां स मूढो नाम दुर्गजः। ऊर्द्धसंस्थानवक्रौ च प्रतिमानगतौ न वा। युयुत्सामिव कुर्व्वाणा यस्य बालाः सदुर्द्विपः। दन्तौ हलोपमौ यस्य दीर्घौ पार्श्वेन चोन्नतौ। दक्षिणेन विषाणेन वामदन्तदरन्तथा। कारयेद्यस्तु मातङ्गो वामदारी स वै भवेत्। तथा दक्षिणदारी च दक्षिणदरणं तथा। वामेन कारयेन्नोष्टो यातुः स्वामिनएव सः। तथा हलविशालेन दन्तेनैकेन दन्तिनः स्थूलेनाखर्वदीर्घेण दुःस्थिताख्योऽपि वर्ज्जितः। अन्तर्नताभ्यां सद्दन्तः कुदन्तोऽपि नतावघः। कूपे वामोन्नतिश्चापि रदाभ्यां द्विरदः क्वचित्। दन्तदुर्वाससाख्यो हि द्विरदोमध्यलक्षणः। बहिर्नतौहस्तलम्बौ रदौ यस्य स दुर्गजः। कृष्णायतौ रदौ मूले विनहिन्ति मदागतिम्। श्यामलाकार रदनाग्रन्थिमद्दशनास्तथा। दुर्जाता विषमा वक्रफलकाश्च कृशास्तथा। आतदीर्घातिह्रस्वाश्च वदनेनाघशंसिनः। त्रिरत्निमितमेढ्रस्य पञ्चरत्निमितोरदः। यष्टिदन्तोनुकथितो राजपुत्र! मनीषिभिः। प्रपूर्णं प्रतिमानञ्च ताराभं बलिवजितम्। सूक्ष्मविन्दु समानद्धं मृदुत्वक्कायरोमशम्। स्वायतं पृथुबाहित्यं सर्व्वगात्रसमाहितम्। रक्तौष्ठतालुदशनविलग्नमुस्त्वणस्थितिम्। तं राजा वर्जयेत् युद्धे शुभलक्षण वर्जितम्। बालार्कसदृशे यस्य हरिवर्णविलोचने। मनःशिलाप्रभे वापि हर्यक्षोऽसौ सुभिक्षदः। पद्मापाङ्गे च विपुले सुप्रसन्ने सितासिते। यस्याक्षिणी सचाक्षिभ्यां विभक्ताख्यो हितप्रदः। यस्यतुङ्गे च नयने महती दृष्टिमण्डले। स्निग्धनिर्मलवर्ण्णश्च तारकाक्षः स सम्मतः। यस्यासृजः समा भासे वृत्ताकारे विलोचने। पारावताक्षं नागं तं प्रशंसन्ति शिवप्रदम्। ह्रस्वे नात्यायते नेत्रे प्रसन्ने सूक्ष्मदर्शने। यस्य स्यातां सचाध्यक्षो वारणः शुभलक्षणः। ईषद्गैरिकसङ्काशे दृश्येते यस्य चाक्षिणी। ध्वाङ्क्षाक्षः स विनिर्दिष्टो दुर्भिक्षारिभयावहः। कृष्णापाङ्गे शुभे नेत्रे कांस्यसदृशसप्रभे। यस्य स्यातां भवेच्चायं शूकराक्षा स गर्हितः। समन्ततो नोपचिते संसृष्टे च मनाग्दृशौ प्रौढाकूटौ यस्यापि विष्वगक्षः स दुर्भगः। वैषम्याद्विषमप्रेक्षी नेष्टो हरितया दृशा। तथा निष्प्रभया दृष्ट्या वर्ज्जितः कालपिङ्गलः। तन्द्रीर्यस्यानुदृश्येत विरूपं विषमं तथा। तथैव तिर्य्यग् दृक् हस्ती तिर्य्यक्प्रेक्षी म दूषणः। अधःप्रेक्षी च यो यः स्यादूर्द्धगामिविलोचनः। सदृशो बभ्रुमार्जारप्रभृत्यमतचक्षुषाम्। स स्यादनिष्ट दृक् हस्ती तिर्य्यक्प्रेक्षी च दूषणः। अधःप्रेक्षी च सज्ञेयो मृदूर्द्ध्वगामिदर्शनः। दृष्टिः स्निग्धा प्रफुल्ला च सुस्थितामलतारका। ऊर्द्ध्वपक्ष्म प्रसन्नस्य वारणस्य विलोक्यते। उदग्रतारको नाम्ना साम्ना पार्श्वविसर्पिणी। विस्तब्धाचलपक्ष्मा तु कुपिताऽनेकपस्य दृक्। सर्वाङ्गलक्षणेभ्योऽपि चक्षुर्लक्षणमुत्तमम्। इत्येवं लक्षणज्ञानां पूर्वेषामनुशासनम्। प्रशस्तनेत्रे द्विरदे नृपोभद्राणि पश्यति” मस्तकादिलक्षणन्तु प्रायेण बार्हस्पत्योक्तलक्षणसममित्यतस्तन्नोक्तं यत्र विशेषस्तदुच्यते। “एककूपप्रजातानि स्निग्धानि च मृदूनि च। रोमाणीष्टानि रोम्णाञ्च पेचको दक्षिणाङ्गजः। लाङ्गूलस्यैव रोमाणि दृश्यन्ते यस्य हस्तिनः। संहतानि विचित्राणि स पूज्यो वारणोरणे।”
करिणो वामनत्वादौ कारणान्तरं तत्फलञ्चोक्तं तत्रैव “वाय्वाकाशगुणाधिष्ठपृथिवीगुणसर्ज्जनात्। जायतेकिल मातङ्गः कुब्जो वा वामनोऽपि च। यतो भूतगुणोऽन्योन्यमधितिष्ठति मानतः। तैर्गुणै र्जायते खर्वा दन्तीति मुनयोविदुः। हीनाङ्गोहानिकारी स्यादधिकाङ्कोऽधिकं हरेत्। राष्ट्राहितौ भवेताञ्च खञ्जकुब्जाविति स्थितिः। आयामानाह संयुक्तो हृस्वाकारो हि वामनः। नष्ठीव्यन्तरनिर्याणो महास्थिसगदोऽपि च। अस्थिश्वेतौ च रूक्ष्मौ च दन्तौ यस्याश्रितौ करम्। स चालयित्वा राजानं हत्वा वाथ पलायते। ह्रस्वमेढ्राङ्गुलिकरः श्रोत्राश्रिश्वेतरोमयुक्। कपिकौशिककाकाहिनकुलप्रख्यलोचनः। कालापङ्गलनेत्रश्च तन्वाननहनुस्तथा। बल्या समाननिर्याणः प्रत्यग्रपृथुपेचकः। मण्डूकाभरुचित्वक् च सास्नानलसमोऽपि च। परिमण्डल कर्णश्च स्पष्टध्वाङ्क्ष शिवध्वजः। प्रौढोन्नताक्षि कूटाक्षः सकिलासाङ्घ्रिमेहनः। व्यालैत्यवगन्तव्यो निर्मदो दन्तिदूषणः। सबली यस्य सदानौ प्रौहौ चापि कचाचितौ। चिवुके चायतस्थूले व्रणैश्च तनुराबिला। अधोवक्त्राणि रोमाणि हनू च कृशरोमगे। सुढक्काकृतयः पादा डिम्बैत्यपि विश्रुतः। आस्यौष्ठतालुरसनाः काल कल्माषकान्तयः। कर्ण्णौकचाचितौ न्यूनौ ताम्बवर्णश्च बालधिः। कराभिप्रेषणासक्तौ मानोनाङ्गुलिपुष्कले। स्थूले च पक्ष्मणी नेत्रप्रभे दुष्प्रेक्षणे तथा। दुर्बद्धानि तथाङ्गानि बलीमुखनिभं मुखम्। रेणुद्विरेफानुरूपा मक्षिकाभिश्चिताकृतिः। अरत्निमानौ दन्तौ च शुष्कावप्यनिगूहितौ। कर्ण्णे च कठिने यस्य नीलगोपक विद्युति। विवर्णं कठिनं रूक्षं भिन्नमिश्रतनुरुहम्। नपुसकश्च मातङ्गो स दूरे त्यागमर्हति। मञ्जिष्ठारागभावेन यत्तनुर्वानरोपमा। स पूतनोऽग्निभयदो यूथहा परिवर्ज्जितः। तिर्य्यक्प्रेक्षी चाधःप्रेक्षी दुर्गन्धमदसंयुतः। कालपिङ्गोदरोनेष्टो मातङ्गः स्यात् मतङ्गजः। पुष्करे स्तनमध्ये च वामहस्ते मतङ्गजः। किलासैरावृतः स्याच्च तद्राष्ट्रे दुर्नयं दिशेत्। पश्चात्समुत्थितावापोनित्यमीलितलोचनः। बाहित्थसंक्षिप्तमुखोनिबद्धाक्षो मतङ्गजः। न्यूनं विंशतिवर्षस्य दन्तौ यस्य प्रमाणतः। अतिमात्रौ न वै स्यातां नागोनागसमस्तु सः। हीनातिरिक्तदशनो यस्य वै तस्य मृत्युदः” इत्यवयवदोषाः।
“अथ वर्ण्णस्तथावर्त्ताः पुष्पाण्याभा स्वरोगतिः। बलं सत्वमनूकञ्च गन्धोबोधितमिङ्गितम्। स्याद्भूतगुणवैशेष्याद् वर्णवैशेष्यमेव हि। वातादिभ्योऽपि दोषेम्योवर्णवैशेष्यमिष्यते। रौक्ष्यं परातिरेकेण सर्वं वातस्य वैभवेत्। सोष्मता शोणितात्, पित्तात् रौद्रता, सौम्यतेन्दुजा” इत्युपक्रम्य “कफो गर्भशयानस्य स्निग्धतां प्रतिपद्यते। पित्तं गर्भशयानस्य स्तब्धत्वं प्रतिपद्यते। तत्करी कथितः कालस्तथैव स्निग्धदर्शनः। पित्तं कफश्च युगपद् वेविष्टि तु ततस्ततः। श्यामवर्णोऽपि मातङ्गो जायते स्निग्धएव वै। गर्भे च मांससहिते कफरक्ते यदा स्थिते। चिरं गर्भशयानस्य हरिस्निग्धस्ततोऽप्यसौ। रक्तपित्तकफानाञ्च सङ्करत्वगतौ तथा। हरितारुणपीताद्या नानावर्ण्णा भवन्ति हि। सर्वत्रानुगवातेन मीलनाद्रूक्षता भवेत्। पारुष्यं धूसरत्वं च सुस्निग्धत्वं भवेत्तथा। क्वचिद्वर्णविभेदाश्च पूर्वसम्भवकारणात्। ग्रहनक्षत्रचाराच्च पितृवीजवशात्तथा। तत्रापि श्वेतवर्ण्णाश्च शुकवर्हिमणित्विषः। शुद्धहेमरुचश्चेभाः सुरेषु प्राचि च क्वचित्। नृणान्तु हरयः कृष्णाः श्यामाश्च करिणः स्मृताः। हरिर्मधुसवर्णश्च कृष्णश्चाञ्जनसन्निभः। न कालो न हरिर्नागोमध्वाभः श्याम इष्यते। एतेषु त्रिपु वर्णेषु हरिवर्णो- वरोमतः”। इति वर्णभेदकारणादिनिरूपणम्।
“आवर्त्तः षडिधश्चैव त्वग्जोदशनभङ्गजः। कोषजः पक्ष्मजातश्च बालजो रोमजोऽपि च। कोषरोमभवौ शस्तौ दन्तकल्पनजः शुभः। शीकानर्थप्रदाः प्रोक्तास्त्वग्जपक्ष्मजबालजाः। भूमिदोरोमजावर्त्तः कोषावर्त्तोजयप्रदः। दशनसम्भवावर्त्तः सुतदारप्रदस्तथा। कथितः पक्ष्मजावर्त्तोज्ञातिजातभयप्रदः। व्रणकृद्बालजावर्त्तः सामहा रोमसम्भवः। प्रशस्तोदक्षिणावर्त्तोवामावर्त्तो विगर्हितः। मतो व्यक्तो मृदुस्निग्धः सवर्णः पीतरोमजः। वामाङ्गे दक्षिणावर्त्तोवामावर्त्तश्च दक्षिणे। आवर्त्तः सम्मतोऽभीष्टो द्विजराजसमप्रभः। शुभोऽप्यक्षेत्रजातोऽसौ शुभं नैव प्रयच्छति। अशुभक्षेत्रजातश्च नानिष्टफलदः शुभः। अवग्रहे ग्रहतले स्तनयोरन्तरे तथा। ग्रीवाया मक्षिकूटोर्द्धं कुम्भयोरन्तरे तथा। उत्पले दन्तवेष्टे च कर्ण्णमध्ये च वक्षसि। आवर्त्ता वारणानां हि सुनिश्चेयाः शुभप्रदाः। स्तनान्तरे शिरोमध्ये कुम्भान्तश्चूलिकान्तरे। वक्षस्यावर्त्तसम्पन्नः कुञ्जरः पञ्चमङ्गलः। शीर्षावर्त्तोऽभिषेकाय स्तनावर्त्तोजयाय च। सुखाय चूलिकावर्त्तः कुन्भोरोरोमजः श्रिये। वंशे प्रौहेऽथ बाहित्थे मन्यास्य सगदे कटे। कर्णेऽक्षिकूटे नाभौ च कक्षपक्ष्मांसकूक्षिषु। बालधौ पेचके मेढ्रे रन्ध्रसन्धिकलासु च। आवर्त्ता न प्रशस्यन्ते कर्णभागगताश्च ये। कोणप्रमाणलघवोमर्मपर्वप्रदेशगाः। अशुभक्षेत्रजाताश्च सकिलासान्तरोत्थिताः। मनोनेत्राभिरामो हि सुसूक्ष्मोगदितो महान्। ऊर्द्ध्वप्रवृत्तोदीर्घश्च रोमजोऽर्थजयावहः। मर्मभागेषु नागस्य निष्ठास्ते रोमजादयः। समभागगतावर्त्ताः सर्व्वतः सुखदामताः”। इत्यावर्त्तः।
“स्वस्तिकादिसुसंस्थानं पुष्पं दर्शनदेहजम्। स्निग्धं भवेत् शुभच्छायमच्छिन्नं वाञ्छितप्रदम्। कबन्धादिकसंस्थानं विषतन्तुसमं स्फुटम्। रूक्षं कृष्णञ्च कुसुमं तातानर्थकसंज्ञकम्। दद्यात् सुतं सितं पुष्पं स्निग्धपीतञ्च हेमदम्। नीलोत्पलाभं शीलाप्त्यै स्निग्धकालञ्च वृत्तिदम्। यदि स्यात् पूजिते भागे कुसुमं स्निग्धपाण्डुरम्। सुरचापसमाकारं तद्भनेद्मूभुजः शुभम्। शक्रंचापनिभं पुष्पं दन्तोपरि च दन्तिनः। दिशेदिष्टं सुमिक्षं च क्षेमं च क्षितिरक्षिणः। स्तनान्तः स्निग्धरुक्षे च पुष्पे नाग समे तथा। पुष्पे श्रोत्रान्तःकाले च म्लानिवृद्धिं विनिर्दिशेत्। श्रीवृक्षादिनिभाकारे वैजयन्तीध्वजोपमे। शैलप्रा- सादसदृशे छत्रचामरवीथिभिः। सोमसूर्य्यसमाभासे शिविकायानमूर्त्तिभिः। दिष्टे शुभाय नृपतेर्निन्द्यमहिसमाकृति। श्वक्रव्यादनिभाकारं रणापसरकारणम्। धूमाभं पुष्पमिच्छन्ति मृत्यवेऽग्निभयाय च। कृष्णं पुष्पं तथा नेष्टं द्विषद्भोगविवर्द्धनम्”। इति पुष्पम्
“भूखाग्न्यम्बुमरुज्जाता भवेच्छाया विषाणिनाम्। शस्ता भूजलवह्न्युत्था न शस्ता खानिलोद्भवा। छायायाः सम्भवः पूर्वं, परतः परितः प्रभा। छायायाः सम्भवः पूर्वं प्रभा तत्परमश्नुते। वर्ण्णमात्रश्रिता च्छाया प्रभा वर्णस्य नाश्रयः। लक्षणानि तु नागानां पापानि च शुभानि च। छायावशात् फलन्त्येव छाया तेनातिलक्षणम्। यस्य स्याल्लक्षणं भद्रं छाया भद्रा भवेन्न तु। न चासौ शुभदोहस्ती छायोपहतलक्षणः। पापलक्षणयुक्तोऽपि शुभच्छायायुतोगजः। फलं लक्षणजं हित्वा छायाफलमवाप्नुयात्। नीराजनेऽभिषेके च ध्वजोच्छ्राये रणोदये। तेषु तेषु च कालेषु भवेच्छाया च शोमना। वक्षसि प्रतिमानेऽंसे कुम्भे कर्णे कटेषु च। निर्याणे मस्तकस्थाने वेष्टयोश्च कपोलयोः। पिण्डिकाजघनाभोगे तेषु तेषु पदेषु च। प्रदेशेषु प्रधानेषु छायाया वीक्षणं भवेद्। प्रशस्ता पार्थिवी छाया बह्निजा जलजापि च। नेष्यते व्योमजा छाया मातरिश्वभवापि च। पार्थिवी स्निग्धगम्भीरा सर्ववर्णे विभाव्यते। छाया ह्यासां च रक्ता च स्निग्धा जाम्बूनदाग्निजा। छाया नीलाम्बुदाभासा स्निग्धा सलिलसम्भवा। अव्यक्तपरुषा तस्यछाया गगनजा मता। धूम्रा रूक्षा च वायव्या भस्माभा निष्प्रभा तथा। एताश्छायाः परीक्ष्याः स्युर्मातङ्गे राजपूजिते। नीलाम्बुजेन्द्रनीलाभा नीलाञ्जननिभाऽपि च। क्वाप्युक्ता पार्थिवी च्छाया सुभिक्षक्षेमकारिणी। बालार्कपद्मकिञ्जल्कशक्रगोपकसन्निभा। ज्वालाभा तप्तहेमाभा वह्निजा विजयप्रदा। छायाम्मयी पयःशङ्खकुन्दरूप्यनिभद्युतिः। सौग्याख्यया प्रतीता च भर्त्तुरर्थप्रदा सदा। जलबुद्वुदसङ्काशा धूम्रद्युतिरतिस्थिरा। निन्द्या च व्योमजा छायानित्योद्वेगकरी मता। सर्ववर्णैरुपेताऽपि निष्प्रभा भस्मसन्निभा। विच्छिन्ना विकृता च्छाया वायवी सा भयावहा। वैरिञ्ची वैष्णवी शैवी छाया माघवनी तथा। कौमारी राक्षसी सार्पी गान्धर्वी च तथाऽऽसुरी। पैशाची चेति याश्छाया श्छायादिव्याः क्वचित् शुभाः। भूतोत्थलक्षणे तासां भेदोनेह तु कीर्त्तितः। तेजोऽतिसक्ता भद्रस्य पाटला भ- वति प्रभा। छाया रक्तकला रुक्मपद्मपूगनिभाऽपि वा। कृष्णा च मन्दकरिणश्छाया तु मृगहस्तिनः। मलिनाम्बरधूम्रेव गीर्वाणायुधदर्शना” इति छाया।
“हस्तिनां विविधा ध्वानाश्छिद्रेभ्यः करतोऽपि च। भवन्ति वायुवशतो गात्राणां वेष्टनेन च। प्रयाणेष्वभिषिक्तेषु ध्वजे जातिकुलेषु च। नागेषु वृंहितं ग्राह्यं मत्तस्तब्धे न जातिषु। हृषितोऽत्यस्तनिद्रान्तस्तृषितो वृंहति क्वचित्। यदि दन्ती शुभे देशे समये च वसुप्रदः। दर्शयेद्वृंहितं भद्रं तत्फलं स्फीतमादिशेत्। सरोवरे तथाऽऽरामे गोष्ठे विबुधवेश्मनि। निकुञ्जे हृद्यदेशे हि विज्ञेयः शुभदोध्वनिः। यात्रायामभिषेके च यज्ञादिसमये तथा। समये चैव पुण्ये च वृंहितं स्याच्छिवप्रदम्। अश्मादिकाष्ठ बल्मीकदुष्टस्थाने भयप्रदः। सुनीचे च प्रधूमे च प्रतिश्यायदिनेषु च। अतिशीतेऽतिघर्मे च प्रभाते चाशुभोरवः। मूतले न्यस्तहस्तो हि पर्य्यश्रुनयनोगजः। कूजन् निर्व्यथनं कुर्य्यात् यदि वा नश्यतीश्वरः। करेण वृंहितोनागो दुश्चित्ताश्रुपरिप्लुतः। आदिशेन्मन्त्रिणोनाशमथ वा पृथनापतेः। व्यायतश्रमहस्तस्य सास्राधोगतचक्षुषः। जघने वामतो बालं तथा निक्षिपतोऽसकृत्। (बालं बालधिम्)। निषीदतो लङ्घयतो हृष्टरोम्णोविमूर्च्छतः। वामे निक्षिप्य गण्डूषं वृंहितं स्यादनर्थकृत्। खेयः स्रवति नागानां धमतां यदि शोणितम्। (खेभ्यः छिद्रेभ्यः) तथा मन्यान्तदेशे च प्राणिनां क्षयमादिशेत्। यद्याग्नेयीमुखोभूत्वा प्राच्यां बाऽर्कोदयं प्रति। दन्ती तीक्ष्णरवं कुर्य्यात्तदा स्यात् पावकाद्भयम्। करेण यदि मातङ्गो वृंहमाणः स्तनं स्पृशेत्। आलाने लम्बमानस्तु संयुति क्षयमादिशेत्। (संयुति युद्धे)। आलाने लम्बमानस्तु शीत्कुर्वन् कुरुते ध्वनिम्। गात्रं प्रंङ्खोलयन्नागस्ततः प्रस्थानमादिशेत्। क्षिप्त्वा करं विषाणस्थं विषमं कूजते यदि। निरीक्षमाणो गगनं हतां वृष्टिमुदाहरेत्। यदाभ्युन्नतवक्त्रेण स्तनस्थानञ्च जिघ्रतः। तथा कुञ्चितहस्तेन मुखं गात्रं च जिघ्रतः। कुर्वतो दक्षिणं हस्तं शनैर्निक्षिपतोऽपि यत्। वृंहितं स्यात्तदिष्टञ्च तथान्योन्यकरस्पृशः। गृहीत्वा शुभवस्तूनि कुसुमादीनि चेद् द्विपः। कुर्य्याच्छब्दं शुमं तेन फलं शुभतरं भवेत्। उच्चैरभिमुखः शान्तो यदा नदति वारणः। अरूक्षमध्यमानेन तदा तत्र जयी ध्रुवः। मुखेन मण्डूकरवान् कर्ण्णाभ्यां दुन्दुभिध्वनिम्। करेण मुरजारावान् कुर्वन् कल्याणकारकः। कलणादिसमारावा विकटान समाः स्मृताः”। इति ध्वनिः। गतिबले तु प्रागुक्ते एवात्र प्रायेण दर्शिते नातस्ते अत्रोदाहृते।
“सत्वं त्रिविधमिच्छन्ति श्रेष्ठमध्याधमैर्गुणैः। सात्विकं राजसं चापि तामसञ्च विषाणिनाम्। एषामपि गुणाज्ञेया बहवस्ते न कीर्त्तिताः। सत्वस्योक्तागुणाः शौर्य्यं बुद्धिर्धैर्य्यं सुहर्षता। रजसोये गुणास्ते च क्रोधोत्साहा वपि क्वचित्। गुणाश्च तमसस्तन्त्रातमोमोहप्रमादिताः। ह्रीमन्तः कान्तियुक्ताश्च प्राज्ञाश्च चिरजीविनः। क्रियाक्लेशसहाः श्रान्ताः सात्विकाः सामसम्भवाः। शिष्याश्च मध्यसाध्याश्च कीर्त्तितानिर्भयाः क्वचित्। क्रियायोगसहाः किञ्चिद्राजसा मध्यमायुषः। तामसा दुःखिता मूढा विरूपा लघुजीविताः। युक्तोऽप्यन्यगुणैः सर्वैर्युतश्चेत् सात्विकै र्गुणैः। श्रेयोगुणः स समरे तथाऽध्वनि मतङ्गजः। एषां वागीशनिर्दिष्टा विषयापेक्षया स्थितिः। भद्रे सन्निहितं सत्वं, रजोमन्दे, तमो मृगे। देवगन्धर्वयक्षाणां पन्नगासुररक्षसाम्। पिशाचानां नृणां तुल्यं वेद्यं नागस्य चेष्टितम्”। इति सत्वम्।
“यत् पूर्व्वसम्भवं स्पष्टं सत्वं रूपं गतिः स्वरः। तस्यानुकरणात् युक्तमनूकमिति कोविदाः। सत्वरूपजवारावैः शुभानुकारिता शुभा। देवर्षिगणगन्धर्वनागानूकाः शुभामताः। एवमेव च दुष्टानुकृतोदुष्टाः प्रकीर्त्तिताः। दैत्यरक्षःपिशाचानामनूकं परिवर्ज्जितम्। वृषसिंहतुरङ्गादि समानूकामता द्विपाः। नेष्टाः सरदगृध्रादिसमानाकृतियोगिनः”। अनूकम्।
“आस्याक्षिकुम्भकर्ण्णेषु मदनिश्वासवायुषु। शकृद्वमथुमूत्रेषु गन्धं समुपलक्षयेत्। इष्टगन्धान्निषेवेत वारणान् धरणीपतिः। दुष्टगन्धान् सदा भूपोयत्नतः परिवर्ज्जयेत्। सर्पिर्मधुसुरालाजदधिक्षीरानुकारकः। शाल्यन्नोशीरमदिरापद्मकाष्ठादिसन्निभः। मालतीकेतकीजातोचन्दनाधिकसौरभः। सुरसालफलामोगोगन्धोनागस्य सम्मतः। असृङ्मूत्रशकृत्पूतिवसाकुणपकुत्सितः। पक्षिनीडपलाण्ड्वादिसप्ततिग्मविनिर्म्मितः। खरोष्ट्रशूकरसमः श्यशानधूमसन्निभः। मीनमत्कुणतुल्यश्च गन्धोनागस्य दुःखदः”। इति गन्धः।
“पञ्चधा विदितं स्याच्च विज्ञेयं सामजन्मनाम्। अत्यर्थोत्तानगम्भीरप्रत्यर्थान्वर्थभेदतः। यस्तूद्घातादुद्विजते दूरादंसादि संकुचेत्। अत्यर्थं सङ्कुचेत् स्पृष्टः स गजोऽत्यर्थवे दिता। योऽपि त्वक्स्पर्शमात्रेण रोमस्पर्शवशेन वा। विद्याद्दण्डाङ्कुशादींश्च स स्यादुत्तानवेदिता। त्वग्भेदात् शोणितस्रावात् तीव्रप्रव्यथनादपि। अङ्कुशादीन् विजानाति स हि गम्भीरवेदिता। शनैर्हतोभृशं वेत्ति शनैर्वेत्ति भृशाहतः। विपरीतमतिर्नागो ज्ञेयः प्रत्यर्थवेदिता। प्रत्येति वार्य्य माणो यो निगृहीतश्च गच्छति। प्रतिलोमायते संज्ञां सोऽपि प्रत्यर्थवेदिता। शनैर्हतः शनैर्वेत्तिभृशं वेत्ति भृशाहतः। प्रत्येति प्रतिषिद्धश्च नोद्यमानश्च गच्छति। यथासंज्ञं विदध्याच्च सर्वकर्माणि योऽद्भुतम्। अन्वर्थवेदिनं प्राज्ञोजानीयात्तं शुभं गजम्” इति विदितम्।
“मतङ्गजेङ्गितं वक्ष्ये शृणु तदवधानतः। शुभज्ञानञ्च येन स्यात् यात्रादिसमये नृप!। अनुयात्रं गतोहन्यात् किञ्चिद्रूपं यदि द्विपः। तज्जयः, प्रतियात्रं तु रूपाहत्या पराजयः। दृष्ट्वा रिपूनभिमुखान् वार्य्यमाणोऽपि चेद्गजः। व्रजेत्तद्विजयोनूनं यदि वा प्राप्तवान् वशे। दक्षिणेनाग्रपादेन क्षितिमुत्पाटयेद्यदि। उत्तोलयेद्वामपादं तदा जयमुदीरयेत्। करेण चाग्रहस्तेन यदा पृथ्वीं प्रमार्जयेत्। सिञ्चत्यनेन कर्णौ च तदा सौख्यं समादिशेत्। पेचकं कुटिलं कृत्वा करं जिघ्रति चेत् द्विपः। प्रहृष्टहृदयाङ्घ्रिश्च तदाभ्युदयमादिशेत्। दक्षिणं तु यदा दन्तं दन्ती प्रमुदितेन्द्रियः। परिष्वजति हस्तेन तदा स्यात् प्रियसङ्गमः। तथैव गलसन्धिञ्च पष्करेण परामृशन्। श्रीयोगमुपयातं तु वारणोविनिवेदयेत्। सङ्कोच्य दक्षिणं पादं वामपादेन वा भुवम्। विलिखेद्वारणः खिन्नस्तद्भर्त्तुः स्यात् पराजयः। यदा तु दुर्मनादन्तं वामं हस्तेन शोधयेत्। तदात्मनोवदेन्नाशं यातुर्वाथ निषादिनः। करेण वामगात्रं च खिन्नगात्रः प्रमार्ष्टि चेत्। तदानिष्टं भवेद्भर्त्तुरन्यथा च शुभं भवेत्। व्यथमानः पतेत् त्रस्तः कक्षबन्धे यदा द्विपः। नाभिनन्देच्च माल्यादि तदा परिभवो भवेत्। अकस्मादेव कुप्यन्ति भ्रमन्ति च पतन्ति च। करिणो यदि तद्विद्यात् विग्रहं समुपस्थितम्। यदा पश्यति मातङ्गोविद्रवञ्च पराजयम्। प्रवासं परराष्ट्रं वा तदा भवति दुर्मनाः। अदंशव्रणपीडायां करेण परिवीजनात्। गण्डूषदेशनिष्पेषात् सव्याजमुपसर्पणात्। अकस्माच्च स्खलद्गत्या धरण्यां प्रणिपातनात्। जलप्रतारवैमुख्यादहितभक्ष्यसेवनात्। स्तब्धकर्णतया गत्या पादाग्रवेशनादपि। द्रुतदद्र्वादिपीलुत्वादकल्याणकरः करी। आत्तग्रहोजलोत्तीर्णोरिपूणां ग्रहणं वदेत्” इङ्गितम्।
“जायते द्विविधः कोपः संश्चासंश्च विषाणिनाम्। शिष्यक्रोधोह्यभीष्टः स्यादनिष्टोऽशिष्यरोषणः। यः क्रुध्यति चिरेणैव मृदुक्रोधो भवेदपि। वाग्दण्डमात्रबन्धैश्च प्रतिषिद्धो न मुह्यति। अनुशाम्यति रोषाच्च स शिष्यक्रोधसंज्ञितः। इष्यते सर्व्वकार्य्येषु शुभजातिर्मतङ्गजः। यः क्रुध्यत्यचिरिणैव भृशक्रोधो भवेदपि। प्रतिषिद्धश्च वाग्दण्डतीक्ष्णप्रजनकाङ्गुशैः। मुह्यत्येव चिरेणापि रोषाद्विरतिमेति च। अशिष्यक्रोधसंज्ञोऽसौ विज्ञेयो वारणाधमः” इति कोपः। विस्तरस्तु पालकाव्यादौ दृश्यः।
***