—इ—

= पु० अस्य विष्णोरपत्यम् अ + इञ्। १ कामदेवे स हिरुक्मिण्यां विष्णोरंशात् कृष्णात् जातः तत्कथा यथा “रूक्मिण्यां वासुदेवाच्च लक्ष्म्यां कामोधृतव्रतः। शम्बरान्त करो जज्ञे प्रद्युम्नः कामदर्शनः” हरि० १६३ अ०। एवं व्युत्पत्तिमत्त्वेन कामदेवस्यैव इशब्दार्थता नाभि णाषस्येति बहवः। कामदेवदैवत्याच्च अभिलाषे औपचारिक इत्यन्ये। नञर्थकस्य अ इस्येदम् अ + इञ्। २ भेदे, ३ रोषोक्तौ, ४ निराकरणे, ५ अनुकम्पायाम्, ६ गदे, ७ विस्मये, ८ निन्दायाम्, ९ सम्बोधने च अव्य० चादि। निपातैकाच्कत्वात् अस्य प्रगृह्यसंज्ञा तेन इ इन्द्र इत्यादौ न सन्धिः

= गतौ भ्बादि० पर० सक० अनिट्। अयति ऐषीत् इयाय इयतुः इयुः इययिथ इयेथ। अयन् इतः इतिः अयनम्। आयः इत्वा। “उदयति स्म तदद्भुतमालिभिः” नैष० “अयमुदयति मुद्राभञ्जनः पद्मिनीनाम्” उद्भटः। “उदयति विततोर्द्धरश्मिरज्वौ” माघः। अयञ्च धातः कटी गतौ इत्यत्र इ ई इति प्रश्लेषात् लब्धः सि० कौ०

इक् = स्मरणेऽधिपूर्व्वक एव कित् कित्करणमधीगर्थेत्यादौ विशेषार्थम् अदादि० पर० सक० अनिट्। अध्येति अध्यैषीत् अध्यगात् इत्यन्ये इण इवास्य तिङि रूपं न कृति। अघीयन्। “ससीतयोराघवयोरधीयन्” भट्टिः। एतद्योगे कर्म्मणि संवन्धविवक्षायां षष्ठी। मातुरध्येति। प्रतिपदविहिततयाऽनया षष्ट्या न समासः मातुरध्ययनम्। “कियत्स्विदिन्द्रो अध्येति कियन्मातुः कियत् पितुः” ऋ० ४, १७, १२। “रामस्य दयमानोऽसावध्येति तव लक्ष्मणः” भट्टिः सम्बन्धाविवक्षायां तु द्वितीया। “अग्नि स्वर्ग्यमध्येषि मृत्यो!” कठो०। “अयमारुणिः संप्रतीममात्मानं वैश्वानरमध्येति” छा० उ०। “अधीहि भगवन्। ब्रह्मेति” छा० उ०।

इकट = पु० एति भूमिमुद्भिद्य गच्छति इ–कटच् वा गुणाभावः। वंशाङ्कुरे

इक्कट = पु० ईयते इ–क्विप् इत् लभ्यः कटो यस्मात् पृ० तस्य कः। कटसाधने तृणविशषे त्रिका० इत्कट इति हारा०। तस्य सन्निकृष्टदेशादिः कुमुदा० चतुरर्थ्यां ष्ठच्। इक्वटिक तत्सन्निकृष्टदेशादौ त्रि० स्त्रियां ङीष्। प्रेक्षा० चतुरर्थ्याम् इनि। तदर्थे स्त्रियां ङीप्।

इक्कवाल = पु० “चेत् कण्टके (१४७१०) पनफरे (२, ५, ८, ११) तु ग्रहाः समस्ताः स्यादिक्कवालैति राज्यसुखाप्ति हेतुः” नोल० ता० उक्ते वर्षलग्नतः उक्तस्थानानामन्यतमस्थानेरव्यादिसमस्तग्रहाणां स्थितिहेतुके राजयोगभेदे।

इक्षु = पु० इष्यतेऽसौ माधुर्य्यात् इष + क्मु। मधुररसयुते असिपत्रे स्वनामख्याते वृक्षे। तद्भेदगुणादिकमुक्तंभावप्र०। इक्षुर्दीर्घच्छदः प्रोक्तस्तथा भूमिरसोऽपि च। गुडमूलोऽसिपत्रश्च तथामधुतृणः स्मृतः। इक्षवोरक्तपित्तघ्राबल्यावृष्याः कफप्रदाः। स्वादुपाकरसाः स्निग्धागुरवोमूत्रला हिमाः। अथेक्षुभेदाः “पौण्ड्रकोभीरुकश्चापि बंशकः शतपोरकः। कान्तारस्तापसेक्ष्वश्च काण्डेक्षुः सूचिपत्रकः। नैपालोदीर्घपत्रश्च नीलपोरोऽथ कोशकृत्। इत्येताजातयस्तेषां कथयामि गुणानपि। तत्र पौण्ड्रक्रभीरुकयोर्गुणाः वातपित्तप्रशमनोमधु रोरसपाकयोः। सुशीतोवृंहणोबल्यः पौण्ड्रकोभीरुकस्तथा अथ (कुशिया) कोशकतोगुणाः “कोशकारो गुरुःशीतोरक्त पित्तक्षयापहः। अथ (काजला) कान्तारेक्षु गुणाः कान्तारेक्षुर्गुरुर्वृष्पः श्लेष्मलोवृंहणः सरः। (वडौखा) वंशकगुणाः “दीर्घपोरः सुकठिनः सक्षारो वंशकःस्मृतः। शतपोरकगुणाः “शतपर्वाभबेत्किञ्चित्कोशकारगुणान्वितः। विशेषाक्तिं- चिद्रूक्षश्च सक्षारःपवनापहः” सुश्रुते तु काण्डेक्षु रित्यत्र काष्ठेक्षुरिति पाठः इतोऽवशिष्टानां गुणास्तत्रोक्ता यथा “कान्तारतापसाविक्षूवंशकानुकरौ गुणे। एवंगुणस्तु काष्ठेक्षुःस तु वातप्रकोपणः। सूचीपत्रो नीलपोरो नैपालो दीर्घपत्रकः। वातलाःकफपित्तघ्नाः सकषाया विदाहिनः” भाव० प्र० “बालयुववृद्धेक्षुगुणाः बालैक्षुः कफं कुर्यान्मेदोमेहकरश्च सः। युवा तु वातहृत्स्वादुरीषत्तीक्ष्णश्च वातनुत्। रक्तपित्तहरोवृद्धः क्षतहृद्बलवीर्यकृत्। अथाङ्गभेदेन गुणभेदः मूले तु मधुरोऽत्थर्थं मध्येऽपि मधुरः स्मृतः। अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणोरसः। अथ दन्तपीडितेक्षुरसस्य गुणाः दन्तनिष्पीडितस्येक्षोरसः पित्तास्रनाशनः। शर्करासमवीर्य्यःस्यादतिदाही कफप्रदः। अथ यन्त्रपीडितेक्षुरस गुणाः मूलाग्रजन्तुग्रन्थ्यादिपीडनान्मलसङ्गरात्। तस्माद्विदाही विष्टम्भी गुरुः स्याद्यान्त्रिकोरसः। अथ पर्य्युषितेक्षुरसगुणाः रसः पर्युषितोनेष्टोह्यम्लोवातापहोगुरुर्विकफपित्तकरः शोषी भेदनश्चातिभूत्रलः। अथपक्वस्येक्षुरसस्य गुणाः इक्षोर्विकारास्तृड्दाहमूर्छापित्तास्रनाशनाः। गुरवोमधुरा बल्याः स्निग्धा वातहराःस्मृताः। वृष्यामोहहराःख्याता वृंहणाविषहारिणः। अथ (झोला) फाणितस्य लक्षणंगुणाश्च इक्षोरसस्तु यः पक्वः किञ्चिद्गाढो बहुद्रवः। सएवेक्षुविकारेषु ख्यातःफाणितसंज्ञया। फाणितं गुर्वभिष्यन्दि वृंहणं कफशुक्रकृत्। वातपित्तश्रमान् हन्ति मूत्रवस्तिविशोधनम्। अथ मत्स्यण्ड्याः (सारगुड) (राव) इति ख्याताया लक्षणं गुणाश्च इक्षोरसोयः संपक्वोघनः किंचिद्द्रवान्वितः। मन्थवत्स्यन्दते यस्मात् मत्स्यण्डीति ततः स्मृता। मत्स्यण्डी भेदिनी बल्या लघ्वी पित्तानिलापहा। मधुरा वृंहणी वृष्या रक्तदोषापहा स्मृता। अथ (ढिमे गुड) गुडस्य लक्षणं गुणाश्च इक्षोरसोयः सम्पक्वोजायतेलोष्टवद्दृढः। स गुडोगौडदेशे तु मत्स्यण्ड्येव गुडोमतः। गुडोवृष्योगुरुः स्निग्धोवातघ्नो मूत्रशोघनः। नातिपित्तहरो मेदःकफक्रमिबलप्रदः। अथ नवपुराणगुडगुणाः गुडोनवः कफश्वासकासक्रमिहरोऽग्निकृत्। पित्तघ्नो मधुरः स्निग्धो वातघ्नोऽसृक्प्रसादनः स पुराणोऽधिकगुणो बुधैः पय्यतम स्मृतः” द्रव्यभेदेन युक्तस्य गुडस्य गुणाः श्लेष्माणमाशु विनिहन्ति सदार्द्रकेण पित्तं निहन्ति च तदेव हरीतकीभिः। शुण्ठ्या समं हरति वातमशेषमित्थ दोषत्रयक्षयकराय नमो गुडाय” (खांड) खण्डस्य गुणाः खण्डन्तु मधुरं वृष्यं चक्षुष्यं वृंहणंहिमम्। वातपित्तहरं स्निग्धं बल्यं वातहरं परम्। (चिनि) सितायाः लक्षणं गुणाश्च खण्डन्तु सिकतारूपं सुश्वेतं शर्करा सिता। सिता सुमधुरा रुच्या वातपित्तास्रदाहहृत्। सूर्च्छाच्छर्दिज्वरान् हन्ति सुशीता शुक्रकारिणी। अथ “(मिचरि) सितोपलगुणाः भवेत् पुष्पसिता शीता रक्तपित्तहरी मता। सितोपलनिभा लघ्वी वातपित्तहरा हिमा। शर्करा छर्द्यतीसारतृड्दाहरक्तपित्तनुत्। यथा यथैव नैर्मल्यं मधुरत्वं तथा तथा। स्नेहगौरवशैत्यानि सरत्वं च तथा तथा” इति भावप्र० इक्षुवर्गः। एतत्प्रसङ्गात् सुश्रुते खण्डादिजातद्रव्याणामन्यद्रव्यजातशर्कराणाञ्च गुणा उक्ता यथा। “यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः। तेन तेर्नव निर्देश्यास्तेषां विस्रावणे गुणाः। सारस्थिता सुविमला निःक्षारा च यथायथा। तथा तथा गुणवती विज्ञेया शर्करा बुधैः। मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रह्लादनी कषा यमधुरा मधुरविपाका च। यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति। यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः। रक्तपित्तप्रशमनाश्छर्दिसूर्च्छातृषापहाः। रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत्। कफघ्नं मधुरं पाके कषायं वस्तिदूषणम्” “मन्दाक्रान्ता वितरति रसं नेक्षुयष्टिः कदाऽपि छन्दो०। श्रीफलञ्चेक्षुदण्डश्च विप्राणां तु बलिर्मतः” कालिकापु० “कुष्माण्डमिक्षुदण्डांश्च” देवी पु० इक्षीर्विकारः अण्। ऐक्षव गुडादौ त्रि०। “ऐक्षव गुडवर्जितम्” स्मृतिः। इक्षूणां भवनं क्षेत्रं शाकटच् शाकनच् च वा तद्भवने क्षेत्रे। इक्षूणां छाया। इक्षुच्छायम् न० “इक्षुच्छायानिषादिन्य” रघुः अत्र आनिषादिन्य इतिच्छेदः सि० कौ० इक्षूणां वनम्। अवनस्पतित्वात् नित्यं णत्वम् इक्षुवणम्। २ कोफिलावृक्षे च राजनि०। ३ इच्छायाम्

इक्षुक = पु० इक्षुप्रकारः स्थूला० कन्। १ इक्षुतुल्यस्वादे (नडा) वृक्षभेदे स्वार्थेकन्। २ इक्षुवृक्षे

इक्षुकाण्ड = पु० इक्षोः काण्डैव काण्डोऽस्य। १ काशवृक्षे २ मुञ्चतृणे (मुज) इक्षुः काण्डैव ३ इक्षुदण्डे च। “क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डम्” माघः।

इक्षुकीय = त्रि० इक्षवः सन्त्यस्मिन् छ नडा० कुक् च। इक्षुयुक्ते देशे तत्र भवः अण् विल्व० छंस्य लुक्। ऐक्षुकस्तत्र भवे त्रि० स्त्रियां ङीप्।

इक्षुकुट्टक = पु० इक्षून् कुट्टयति कुट्ट–शिल्पिनि क्वुन् ६ त०। इक्षु च्छेदके गुडकारके कृषीवलभेदे।

इक्षुगन्ध = पु० इक्षोरिव गन्ध एकेदशावयवो यस्य। १ क्षुद्रगोक्षुरे २ काशतृणे स्त्वी भावप्र०

इक्षुगन्धा = स्त्री इक्षोर्गन्ध इव गन्धोऽस्याः। शुक्लविदार्य्याम्,

इक्षुज = त्रि० इक्षोस्तद्रसाज्जायते जन–ड ५ त०। इक्षुविकारे गुडादौ “फाणितञ्चैव मत्स्यण्डी गुडः खण्डकमेव च। सिता सितोपलाश्चैते षड्भेदा इक्षुजामताः। इक्षुशब्दे पृष्टे तद्गुणादिकमुक्तम्।

इक्षुतुल्या = स्त्री इक्षुणा तुल्या पत्रादिना। (जनार) १ धान्यविशेषे २ काशतृणे च।

इक्षुदण्ड = पु० इक्षुर्दण्ड इव दण्डकारे दीर्घेक्षौ इक्षुयष्टिरप्यत्र स्त्री

इक्षुदर्भा = स्त्री इक्षोरिव दर्भोवन्धोऽस्याः। तृणपत्रिकायाम् राजनि०।

इक्षुदा = स्त्री इक्षुमिक्षुरसास्वादं ददाति जलेन दा–क। इक्षुरसतुल्यजलवाहिनि नदीभेदे।

इक्षुनेत्र = न० इक्षुर्नीयते पुनरुत्पादनायारोप्यतेऽनेन नी–ष्ट्रन् इक्षोर्नेत्रमिव वा। इक्षुनेत्राकारे तद्ग्रन्थौ।

इक्षुपत्र = पु० इक्षोः पत्रमिव पत्रमस्य। (जनार) धान्यभेदे।

इक्षुपाक = पु० इक्षोः पाकः पच्यमावोरसादिः। गुडादौ

इक्षुप्र = पु० इक्षुरिव पूर्प्यते पृ–कर्मणि घञर्थेक ह्रस्वपक्षे नोत्। शरवृक्षे रत्नसा०।

इक्षुबालिका = स्त्री इक्षोर्बालः केशैव बालः शीर्षस्थपत्रादिरस्याः। इक्षुतुल्यशीर्षे काशतृणे राजनि०।

इक्षुभक्षिती = स्त्री इक्षुर्भक्षितो यया जातिवाचकपूर्व्वपदनिष्ठान्तत्वात् ङीप् परनि०। इक्षुभक्षणकर्त्त्र्यां स्त्रियाम्

इक्षुमती = स्त्री इक्षुः इक्षुरसोऽस्त्यस्याम् नद्यां मतुप् ङीप्। नदीभेदे “सीता चेक्षुमती वेन्ना देविका च महानदी” भा० आ०८ अ०

इक्षुमूल = पु० इक्षोर्मूलं ग्रन्थिरिव मूलं ग्रन्थिर्यस्य। १ वंशवृक्षे। ६ त०। इक्षुमूले २ तद्ग्रन्थौ न०।

इक्षुमूल = पु० इक्षुरसतुल्योमेहः। सुश्रुतोक्ते प्रमेहभेदे तद्भेदा विंशतिर्निदानसहितास्तत्रोक्ता यथा “दिवास्वप्नव्यायामालस्यप्रसक्तं शीतस्निग्धमधुरमद्यद्रवान्नपानसेविनं पुरुषं जानीयात्प्रमेही भविष्यतीति। तस्य चैवं प्रवृत्तस्यापरिपक्वा एव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्वमुपेत्य मूत्रवाहिस्रोतांस्यनुसृत्याधो गत्वा वस्तेर्मुखमाश्रित्य निर्भिद्यन्ते तदा प्रमेहान् जनयन्ति। तेषान्तु पूर्ब्बरूपाणि हस्तपादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुरशुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालु गलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्च नखानाम्। तत्राविलप्रभूतमूत्रलक्षणाः सर्व्व एव सर्व्वं दोषसमुत्थाः सह पिडकाभिः। तत्र कफादुदकेक्षुसुरासिकताशनैर्लवणपिष्टसान्द्रशुक्रफेनमेहाः दश साध्या दोषदूष्याणां समक्रियत्वात्। पित्तान्नीलहरिद्राम्लक्षारमञ्जिष्ठाशोणितमेहाः षट् याप्या दोषदूष्याणां विषमक्रियत्वात्। वातात्सर्पिर्वसाक्षौद्रहस्तिमेहाश्चत्वारोऽसाध्यतमा महात्ययिकत्वात्। तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहान् जनयति वातकफशोणितमेदोभिरन्वितं पित्तं पित्तप्रमेहान्। कफपित्तवसामज्जमेदोभिरन्वितो वायुर्व्वातप्रमेहान्। तत्र श्वेतमवेदनमुदकमेही मेहति इक्षुरसतुल्यमिक्षुमेही, सुरामेही सुरातुल्यं, सरुजम् सिकतानुविद्धं सिकतामेही शनैः सकफ मृत्स्नं शनैर्मेही, विशदं लवणतुल्यं लवणमेही, हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही, आविलं सान्द्रं सान्द्रमेही, शुक्रतुल्यं शुक्रमेही स्तोकं स्तोकं सफेनं फेनमेही मेहति। अत ऊर्द्धं पित्तनिमित्तान्वक्ष्यामः। सफेनमच्छं नीलं नीलमेही मेहति सदाहं हरिद्राभं हरिद्रामेही, अम्लरसगन्धमम्लमेही, स्रुत क्षारप्रतिभं क्षारमेही, मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही। शोणितप्रकाशं शोणितमेही मेहति। अत जर्द्धं वातनिमित्तान्वक्ष्यामः। सर्पिः प्रकाशं सर्पिर्मेही मेहति वसाप्रकाशं वसामेही, क्षौद्ररसवर्णं क्षौद्रमेही, मत्तमातङ्ग वदनुप्रवृद्धं हस्तिमेही मेहति। मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्रसेकच्छर्द्दिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः। वृषणयोरवदरणं वस्तिभेदो मेढ्रतोदो हृदिशूलमम्लीकाज्वरातीसारारोचका वमथुः परिधूमायनं दाहो मूर्च्छा पिपासा निद्रानाशः पाण्डुरोगः पीतविण्मुत्रनेत्रत्वञ्चेति पैत्तिकानाम्। हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरोषत्वञ्चेति वातजानाम्। एवमेते विंशतिः प्रमेहाः सोपद्रवा व्याख्याताः। तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते। तद्यथा। शराविका सर्षपिका कच्छपिका जालिनी विनता पुत्त्रिणी मसूरिका अलजी विदारिका विद्रधिका चेति। शरावमात्रा तद्रूपा निम्नमध्या शराविका। गौरसर्षपसंस्थाना तत्प्रमाणा च सर्षपी। सदाहा कूर्म्मसंस्थाना ज्ञेया कच्छपिका बुधैः। जालिनी तीव्रदाहा तु मांसजालसमावृता। महती पिडका नीला पिडका विनता स्मृता। महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्त्रिणी। मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका। रक्तासिता स्फोटवती दारुणा त्वलजी भवेत्। विदारी कन्दवद्वृत्ता कठिना च विदारिका। विद्रधेर्ल्लक्षणैर्युक्ता ज्ञेया विद्रधिका बुधैः। ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः। गुदे हृदि शिरस्यंसे पृष्ठे मर्म्मणि चोत्थिताः। सोपद्रवा दुर्ब्बलस्य पिडकाः परिवर्ज्जयेत्। कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः। अधः प्रक्रमते वायुस्तेनासाध्यास्तु वातजाः। प्रमेहपूर्ब्बरूपाणामाकृतिर्यत्र दृश्यते। किञ्चिच्चाप्यधिकं भूत्रं तं प्रमेहिणमादिशेत्। कृत्स्नान्यर्डानि वा यस्मिन् पूर्ब्बरूपाणि मानवे। प्रवृत्तभूत्रमत्यर्थं तं प्रमेहिणमादिशेत्। पिडकापीडितं गाढमुपसृष्टमुपद्रवैः। मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्त्तितः। स चापि गमनात् स्थानं, स्थानादासनमिच्छति। आसनाद्वृणुते शय्यां, शयनात् स्वप्नमिच्छति। यथाहि वर्ण्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेण शवलबभ्रुकपिलकपोतमेचकादीनाम् वर्णानामनेकेषामुत्पत्तिर्भवति। एवमेव दोषधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण। भवति चात्र। सर्वएव प्रमेहास्तु कालेनाप्रतिकारिणः। मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि” तत्रैव चिकित्सास्थाने सर्वप्रमेहस्य प्रकारान्तरेण द्वैविध्यमुक्तम्। यथा “द्वौ प्रमेहौ सहजोऽपथ्यनिमित्तश्च भवतः तत्र सहजोमातृपितृवीजदोषकृतः। अहिताहारजोऽपथ्यनि मित्तः। तयोः पूर्व्वेणोपद्रुतः कृशोरूक्षोऽल्पाशी पिपासुर्भृशं परिसरणशीलश्च भवति उत्तरेण स्थूलोबह्वाशी स्निग्धःशय्यासनस्वप्नप्रायेणेति” “तत्रोदकमेहिनं पारिजातकषायं पाययेत् इक्षुमेहिनं वैजयन्ती कषायम्” च सुश्रु०

इक्षुयन्त्र = न० इक्षोर्निष्पीडनं यन्त्रम् शा० त०। इक्षुनिष्पीडके यन्त्रे (महाशाल) “गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्रयोः। अमीमांस्यानि शौचानि” स्मृतिः।

इक्षुयोनि = पु० इक्षोरिव योनिर्यस्य। पुण्ड्रके इक्षौ राजनि०

इक्षुर = पु० इष–बा०–क्सुरच्। १ कौलिकावृक्षे (कुलेखारा) रत्ना० २ गोक्षुरे (गोखुरी) ३ इक्षौ च शब्दारत्ना० ४ काशे राजनि०। संज्ञायां कन्। १ कोकिकावृक्षे। २ काशतृणे ३ स्थूलशरे च राजनि०।

इक्षुरस = पु० इक्षोः रस इव रसो यस्य। (नडा) इति ख्याते काशे १ तृणमेदे। “काशःकाशेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा। इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः। काशःस्यान्मधुरस्तिक्तः स्वादुपाको हिमः सरः। भूत्रकृच्छ्राश्मरीदाहक्षयपित्तामरोगहृत्” भाव० प्र०। ६ त०। इक्षीः रसे पु०। तस्य गुणादिकमुक्षुशब्दे उक्तम्।

इक्षुरसक्वाथ = पु० इक्षुरसस्य क्वाथः पाकभेदः। फाणितादौ।

इक्षुवल्ली(ल्लरी) = स्त्री इक्षुरिव सुस्वादा वल्ली वल्लरी वा लता। क्षीरविदार्य्याम्। (क्षीरकन्द)। राजनि०

इक्षुवालिका = स्त्री इक्षुरिव बलति वल–ण्वुल्। (तालमाखना) इतिख्याते १ वृक्षे २ काशे च।

इक्षुवाटी = स्त्री इक्षोर्वाटीव। पुण्ड्रके इक्षौ राजनि०। ६ त०। २ इक्षूत्पादकक्षेत्रे। स्वार्थे कन्। उभयत्र।

इक्षुविकार = पु० ६ त०। इक्षुजशब्ददर्शिते षड्विधे गुडादौ

इक्षुवेष्टन = पु० इक्षोरिव वेष्टनमस्य। भद्रमुञ्जे। “भद्रमुञ्जःशरोवाततेजन स्त्विक्षुवेष्टनः। मुञ्जद्वयंतु मधुरं तुवरं शिशिरं तथा। कम्पास्रदाहतृष्णार्त्तिमूत्रवस्त्यक्षिरोगहृत्। दोषत्रयहरमुष्णं मेखलासूपयुज्यते” भावप्र०।

इक्षुशर = पु० इक्षुरिव शृणाति शृ–अच्। ४ काशभेदे तद्वने हि गन्तुर्गात्रक्षतेर्दृष्टत्वात् तस्येक्षुवत् हिंसकत्वम्।

इक्षुशाकट = न० इक्षूणां भवनं क्षेत्रम् इक्षु + शाकटच्। (दोकल्प) इति ख्याते इक्षुभवनयोग्ये क्षेत्रे। तदर्थे शाकिनच्। इक्षुशाकिनशब्दोऽप्यत्रार्थे न०।

इक्षुसमुद्र = पु० इक्षुरसस्वादूदकःसमुद्रः। समुद्रभेदे। “लवणेक्षुसुरासर्पिर्दधिदुग्धजलान्तकाः” पुरा० तत्स्थलम् सि० शि० उक्तम्। “भूमेरर्द्धं क्षाररसिन्धोरुदक्स्थं जम्वुद्वीपं प्राहुराचार्य्यवर्य्याः। अर्द्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये, क्षारक्षीराद्यम्बुधीनां निवेशः” “दध्नोघृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्ते”।

इक्षुसार = पु० ६ त०। फाणितादौ।

इक्ष्वाकु = पु० इक्षुमिच्छामाकरोति इक्षु + आ + कृ–डु। १ कटुतुम्ब्याम् २ सूर्य्यवंश्ये आदिराजे च। “यस्येक्ष्वाकुरुपव्रते” ऋ० १०, ६, ४। स च वैवस्वतमनोः पुत्रः। “मनोर्वैवस्रतस्यासन् पुत्रा वै नव सत्तमाः। इक्ष्वाकुश्चैव नामागोधृष्णुः शर्यातिरेव च। नरिष्यःप्रांशुषष्ठास्ते नाभागारिष्टसप्तमाः करूषश्च पृषध्रश्च नवैते भरतर्षभ”!। “इक्ष्वाकुर्ज्येष्ठदायादोमध्यदेशमवाप्तवान्” हरिवं० १० अ० “तस्योत्पत्तिप्रकारस्तत्रैवीक्तः क्षुवतस्तु मनोः पुत्रैक्ष्वाकुरभवत्ततः”। “तस्य पुत्रशतं चासीदिक्ष्वाकोर्भूरिदक्षिणम्। तेषां ज्येष्ठो विकुक्षिस्तु विकुक्षित्वादयोधिनाम्” “इक्ष्वाकुस्तु विकुक्षिंवै अष्टकायामथादिशत्” हरि०। इक्ष्वाकोरपत्यम्। अण् दण्डि० नि०। ऐक्ष्वाकस्तदपत्ये बहुषु तस्य लुक् इक्ष्वाकवः“इक्ष्वाकूणां दुरापेऽर्थे” “गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम्” “इक्ष्वाकुभिः पुण्यतरीकृतानि” इति च रघुः।

इक्ष्वारि = पु० इक्षुरिव समन्तादृच्छति आ + ऋ–इन्। काशतृणे।

इक्ष्वालिका = स्त्री इक्षूणामालिरिव कायति प्रकाशते कै कैक्षुरिवालति अल–ण्वुण् वा। काशतृणे भावप्र०

इख = गतौ भ्वादि० पर० सक० सेट्। इखति ऐखीत्। इयेख ईखतुः। एखिता एखेष्यति ऐखिष्यत्।

इख = गतौ इदित् भ्वादि० पर० सक० सेट्। इङ्खति ऐङ्खीत्। इङ्खाम्–बभूव–आस–चकार। इङ्खिष्यति। इङ्क्षिता ऐङ्खिष्यत्। प्रेङ्खन् प्रेङ्खितम् प्रेङ्खणम्।

इग = गतौ इदित् भ्वादि० पर० सक० सेट्। इङ्गति ऐङ्गीत्। इखिवत्। इङ्गितम्। “त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति” भा० व० ४२ अ०। तस्यात्मनेपदित्वमपि “योऽवतिष्ठति नेङ्गते” यथा दीपोनिपातस्थो नेङ्गते सोपमा स्मृता” गीता। अत्र स्पन्दनमात्रपरतायामऽकर्म्मकत्वम्। णिच्–इङ्गयति चालयतीति प्रेरयतीति वार्थः। उद्–प्रेरणे “शुनमष्ट्रामुदिङ्गय” ऋ० ४, ५७५७,। सम् + सम्यक् चालने। “पुष्करिणीं समिङ्गयति सर्व्वतः” ॠ० ४, ७, ७,

इङ् = अध्ययने अधिपूर्व्व एव ङित् अदा० आत्म० सक० अनिट्। अधीते अधीयीत अध्यैष्ट–अध्यगीष्ट। “अधिजगे, अध्यैष्यत–अध्यगीष्यत “योऽधीते शक्तितोऽन्वहम्” स्मृतिः। “नाधीयीत कदाचन” मनुः। “अध्यैष्ट वेदांस्त्रिदशानयष्ट” भट्टिः शानच् अधीयानः। अकृच्छ्रिणि कर्त्तरि शतृ अधीयन् “अधीयन्नात्मविद्विद्यां धारयन् मस्करिव्रतम्” भट्टिः अध्येतव्यम् “श्रोतव्यमिह श्रूद्रेण नाध्येतव्यं कदाचन”। “स्वाध्यायोऽध्येतव्यः” श्रुतिः। अध्ययनीयम्। अध्येयः “वेदएव सदाऽध्येयः” स्मृतिः। अध्येता। अधीतः “अधीतवेदवेदाङ्गत्वेन” वेदन्त सा०। ज्ञानार्थत्वात् कर्त्तरिक्त अधीतः “अधीते शतसाहस्रम्” स्मृतिः “अधीतिः “अधीतिबोधाचरणप्रचारणैः” नैष०। अध्येष्यमाणः। “पीत्वापोऽध्येष्यमाणस्तु आचमेत् प्रयतोऽपि सन्” मनुः मावे अधीतम्। अधीतमनेन इनि अधीती। “त्वगुत्तरासङ्गवतीमधीतिनीम्” कुमा० अधीत्य “अनधीत्य द्विजोवेदान् योऽन्यत्र कुरुते श्रमम्” स्मृतिः। “अधीत्य चतुरोवेदान्” पुरा०। अध्ययनम्। “अध्ययनेनाविप्रकृष्टः” पा०। “सत्ताण्डवैरध्ययनं विनापि” मथुरा० अध्यायः “स्वाध्यायोऽध्येतव्यः” श्रुतिःणिच् अध्यापयति “अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत” श्रुतिः अध्यापिपत् अध्यजिगपत् “अध्यापयामास पितॄन्” मनुः णिच्–सन्। अध्यापिपयिषति–ते अधिजिगापयिषति–ते केवलात् सन्। अधिजिगांसते। अध्यापकः अध्यापकशब्दे उदा० अध्यापितः “अध्यापितस्यीशनसापि नीतिम्” कुमा०। “भृतकाध्यापको यश्च भृतकाध्यापितस्तथा” मनुः।

इङ्ग = पु० इगि भावे घञ्। १ चलने कम्पने २ इङ्गिते च। कर्त्तरि अच्। ३ जङ्गमे “त्वया सृष्टभिदं सर्व्वं यच्चेङ्गं यच्च नेङ्गति” भा० व० ४२ अ०। ४ अद्भुते च त्रि० मेदि०।

इङ्गन = न० इगि भावे ल्युट्। १ इङ्गिते २ चलने ३ ज्ञाने च। णिच्–ल्युट्। ४ चालने। “उपांशुसवनस्यानिङ्गनश्रुतेः” कात्या० १०ऽ१, ६, यतौपांशुसवनस्यानिङ्गनमचालनम् श्रूयते “अनिङ्ग्यमानानि सुरे आतृतीयसवनात्” श्रुतिः। कर्क्क०। युच् इङ्गना प्यत्र स्त्री।

इङ्गि(ड)ल = पु० इगि–इलच् वा लस्य डः। इङ्गुदवृक्षे। “वीरणतूलमिश्रमिङ्गिडप्रपुटेन जुहोति” श्रुतिः।

इङ्गित = न० इगि–भावे क्त। १ चलने २ हृद्गतभावावेदके चेष्टा विशेषे “इङ्गितं हृद्गतो भावः इति” सज्जनोक्ते ३ हृदयस्थे भावे। “अगूढसद्भावमितीङ्गितज्ञया” कुमा० “बाह्यै र्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम्। स्वररर्ण्णोङ्गिता कारैश्चक्षुषा चेष्टितेन च” मनुना तस्य अन्तर्गतभावा वेदकत्वमुक्तम्। “तत्र स्वरो गद्गदादिः, वर्ण्णोऽस्वाभाविकः इङ्गितं स्वेदवेपथुरोमञ्चादि” व्यव० त० रघु०। “स विद्यादस्य कृत्यानि निगूढेङ्कितचेष्टितैः” आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम्” “इङ्गिताकारचेष्टाज्ञं शुचिं दक्षं कुलोद्भवम्” मनुः। “तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च” रघुः। कर्त्तरि क्त ४ चलिते त्रि०।

इङ्गु = पु० इङ्गति चलत्यनेनैगि–उण्। रोगे।

इङ्गुद = पु० इङ्गुः रोगस्तम् द्यति दो–क। १ तापसतरौ “इङ्गुदः कुष्ठभूतादिग्रहब्रणविषक्रमीन्। हन्त्युष्णः श्वित्रशूलघ्नस्तिक्तकः कटुपाकवान्” भाव० प्र०। गौरा० ङीष् इङ्गुदीत्यप्यत्र स्त्री। “ताइङ्गुदीस्नेहकृतप्रदीपम्” रघुः तस्याःफलम् अण् प्लक्षादि० न लुक्। ऐङ्गुदं तत्फले न०। अस्याः पर्य्यायद्वारा लक्षणं दर्श्यते। हिङ्गुपत्रता विषहारिता वातनाशकता तैलफलत्वम् तीक्ष्णकण्टकता पूतिगन्धिता क्रोष्टुफलत्वम्। २ ज्योतिष्मतीवृक्षे पु० रत्नमा०।

इङ्ग्रेज = पु० इङ्ग्यते भोगार्थम् इगि–रन् इङ्ग्रः लण्ड्रदेशस्तत्र जायते जन–ड अलुक् समा०। लण्ड्रस्थजने। “पूर्ब्बाम्नाये ववशतं षडशीतिः प्रकीर्त्तिताः। फिरङ्गभाषया मन्त्रा- स्तेषां संसाधनात् कलौ। अधिपामण्डलानाञ्च संग्रामेष्वपराजिताः। इङ्ग्रेजाः नवषट्पञ्च लण्ड्रजाश्चापि भाविनः” मेरुत० २३ प्रकाशे।

इच्छक = पु० इच्छा + अस्त्यत्रेत्यर्थे अच् इच्छंकमिव रसोऽस्य कप्। (टावालेवु) इति ख्याते १ वृक्षे। अस्त्यर्थे अच् स्वार्थे कन्। २ इच्छायुक्ते त्रि०।

इच्छा = स्त्री इष–भावे श। इदं मे भूयादिति वेदान्तादिमते मनोधर्मभेदे सुखतत्साधनविषयचित्तवृत्तौ न्यायमते, सुखादिज्ञानेन तत्साधनत्वज्ञानेन च जायमाने इदंमे भूयादित्येवंरूपे आत्मधर्म्मे २ अभिलाषे च। “आत्मजन्या भवेदिच्छा इच्छाजन्या भवेत् कृतिः। कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत् क्रिया” न्यायसिद्धान्तः। “कामः संकल्पोविचित्सा श्रद्धाऽश्रद्धा धृतिरधृति र्द्रीर्धीभीरित्येतत् सर्व्वं मन एवेति” श्रुतेः मनोधर्म्मत्वमिति सांख्यवेदान्तिनः। “विगतेच्छाभयक्रोधाः” गीता “जन्मनि क्लेशबहुलं किं न दुःखमतः परम् इच्छासंपद्यतो नास्ति यत्नेच्छा न निवर्त्तते” हिता०। “नीतो रात्रिः क्षणैव मया सार्द्धमिच्छारतैर्या” मेघ०। “महीं महेच्छः परिकीर्य्य सूनौ” “विषमप्यसृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया” रघुः। “योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया” “देवदत्तां पतिर्भार्य्यां विन्दते नेच्छयात्मनः” “लक्षं शस्त्रभृतां वासाद्विदुषामिच्छयात्मनः” इति च मनुः। “स्वेच्छया विभजेत् सुतान्” दायभा० स्मृतिः। सा च द्विविधाफलोपायरूपविषयभेदात् यथाह भाषा० “सुखन्तु जगतामेव काम्यं धर्मेण जन्यते। अधर्म्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम्। निर्दुखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते। इच्छा तु तदुपायेस्यादिष्टोपायत्वधीर्यदि। चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा च या भवेत्। तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत्। बलवद्द्विष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका। तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते”। व्याख्यातं च मुक्ता०। ‘इच्छा हि फलविषयिणी उपायविषयिणी च। फलन्तु सुखं दुःखाभावश्च। तत्र फलेच्छां प्रति फलज्ञानं कारणम्। अतएव स्वतः पुरुषार्थः सम्भवति। यज्ज्ञातं सत् स्ववृत्तितयेष्यते स स्वतः पुरुषार्थ इति तल्लक्षणात्। इतरेच्छानधीनेच्छाविषयत्वं फलितोऽर्थः। उपायेच्छां प्रतीष्टसाधनताज्ञानं कारणम्। कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयिणीच्छा चिकीर्षा पाकं कृत्या साधयामीति तदनुभवात्। चिकीर्षां प्रति कृतिसाध्यताज्ञानमिष्टसाधनताज्ञानञ्च कारणम्। अतएव वृष्ट्यां कृतिसाध्यताज्ञानाभावान्न चिकीर्षा। बलवदिति बलवद्द्विष्टसाधनताज्ञानं तत्र प्रतिबन्धकम्। अती मधुविषसंपृक्तान्नभोजने न चिकीर्षा। बलवद्द्वेषः प्रतिबन्धक इत्यन्ये। कस्यचिन्मत इति। बलवदनिष्टाजनकत्वज्ञानं कारणमित्यर्थः। कृतिसाध्यताज्ञानादिमतो बलवदनिष्टसाधनताज्ञानशून्यस्य बलवदनिष्टजनकत्वज्ञानं विनापि चिकीर्षायां विलम्बाभावात् कस्यचिन्मत इत्यस्वरसो दर्शितः”।

विवृतमेतत् दिनक० यथा “तत्र तयोर्मध्ये। अतएव फलज्ञानस्य फलेच्छां प्रति हेतुत्वादेव पुरुषार्थः संभवतीति सुखं दुःखाभावश्च पुरुषार्थः संभवतीत्यर्थः। ननु यज्ज्ञातं सदित्यादेः स्वविषयज्ञानजन्येच्छाविषयत्वमर्थस्तथाचोपायेऽतिव्याप्तिः तस्यापि स्वविषयकेष्टसाधनताज्ञानजन्येच्छाविषयत्वात् अत आह। इतरेच्छेति”।

अत्र ईश्वरेच्छामादायातिव्याप्तिवारणार्थं द्वितीयेच्छायां जन्यत्वं विशेषणीयम्। असम्भववारणाय आद्येच्छायामपि जन्यत्वं विशेषणीयम्। भवति च सुखेच्छायाः इतरविषयकेच्छानधीनत्वम् उपायेच्छायाश्च फलेच्छाधीनत्वञ्च। इष्टसाधनस्य फलेच्छाधोनेच्छाविषयित्वात् न तत्र लक्षणप्रसरः। पुरुषान्तरीयेच्छामादायातिव्याप्तिवारणाय समवायद्वयघटित सामानाधिकरण्यं निवेशनीयम् वस्तुतः स्वसमवायिसमवेतत्वप्रयोज्यत्वोभयसम्बन्धेन स्ववत्यास्वभिन्नाया जन्येच्छयाविषयत्व तत्त्वम् स्वपदमिच्छापरम् इत्यन्यत्र विस्तरः। तत्रेदं बोध्य फलेच्छायां कारणं यत् सुखज्ञानमुक्तं तत् स्मरणानुमित्यादिसाधारणम्। प्रत्यक्षत्वे प्रत्यक्षं प्रतिविषयस्य हेतुतया विषयज्ञानजन्यसुखादेर्वर्त्तमानत्वे एव तत्सम्भवेन वर्त्तमानस्य सुखस्य सिद्धत्वात् सिद्धे च इच्छा विरहात् न तद्विषयकेच्छासम्भव इति सूचितं चैतत् कणादसूत्रोपस्करयोः” यथा। “सुखाद्रागः” का० सू०। “स्रक्चन्दनवनितासेवनजन्मनः सुखादुत्तरोत्तरं तज्जातीये सुखे तत्साधने वा राग इच्छा जायते” उप० “तन्मयत्वाच्च” सू० विषयासङ्गजनितो दृढतरः सस्कारविशेषस्तन्मयत्वम् तद्वशात् कामातुरस्य कामिनीमलभमानस्य सर्व्वत्र कामिनीदर्शनम्” उप०। “तन्मयत्वे तत्प्रकाशो बाह्याभ्यन्तरतस्तथा” इत्यन्यत्राप्युक्तम्। अत्र संस्कारादेव इच्छा जायते इत्युक्तेः संस्कारसाध्यस्मृतिद्वारैव सस्कारस्य हेतुत्वमवसीयते। क्वचिददृष्टवशात् क्वचित् जातिभेदवशाच्च इच्छासम्भवः तदप्युक्तम् तत्रैव “अदृष्टाच्च” “जातिघिशेषाच्च” सू०। यद्यप्यदृष्टं साधारणं कारणं तथापि क्वचिदसाधारणकारणतामनुभवति शैशवे तज्जन्माननुभूतकामिनीसेवनसुखस्यापि यौवनोद्भेदे कामिनीरागः” उप०। न च तत्रापि अद्यप्रसूतबालकस्य स्तन्यपानरागैव जन्मान्तरीयतत्संस्कारजज्ञानस्यैव हेतुत्वमस्तु किमदृष्टस्य साधारणकारणस्यासाधारणकारणताकल्पने नेति चेत् तत्कल्पनेऽपि तत्र जीवनादृष्टस्येव अत्रापि अदृष्टविशेषस्यैवोद्बोधकस्थानीयतया अवश्यकल्पनीयत्वे तस्यैव हेतुत्वौचित्यात्। पदार्थभेदे जातिभेदकृत एव रागः। यथा मनुष्यजातीतानामन्नदौ रागः मृगजातीयानां तृणादौ, करभजातीयानां कण्टकादौ, शूकरादेर्विष्ठादौ रागोत्पत्तिः। तथा च विषयविशेषरागं प्रति जातिविशेष एव कारणतया कल्पनीयः। तत्रापि जातिविशेषोत्पादकतयादृष्टस्यकारणत्वेऽपि जातिविशेषस्य कारणत्वमस्त्येव तमनुत्पाद्यादृष्टस्याकारणत्वादिति वोध्यम् सुखं मे मूयादिति दुःखं मे मा भूयादित्येवं रूपः सुखदुःखाभिलापः।

उपायेच्छां प्रति तु इष्टसाधनताज्ञानं हेतुः। भवति च पाके भोजनसाधनतया, भोजने च क्षुन्निवृत्तिसाधनतया ज्ञानात् इच्छा। तदुल्लेखिवाक्यन्तु पाको जायताम् इत्येवं रूपम्। सेयमिच्छा ज्ञानकृत्यादिवत् सविषया तद्विषयश्च द्विविधः बाधिताबाधितभेदात्। यत्र इष्टसाधने वस्तुनि इष्टसाधनत्वज्ञानादिच्छासा सद्विषयिणी यत्र तु अनिष्टसाधने वस्तुनि इष्टसाधनत्व भ्रमजा असद्विषयिणी। सा च प्राणिमात्रसाधारणी ईश्वचेरेच्छा तु सदा सद्विषयिणीतस्या बाधितपदार्थविषयकत्वाभावादेव तथात्वम् तेन तस्या नित्यत्वेन इष्टसाधनत्वज्ञानाधीनत्वाभावेऽपि न क्षतिः। योगिनां तु प्राकाम्यकामावसायितारूपैश्वर्य्ययोगात् कामानुसारिणएव विषयाभवन्तीति नासद्विषयिणीति भेदः यथोक्तं सां० कौ०। “प्राकाम्य मिच्छानभिधातः यतो भूमावुन्मज्जति निमज्जति यथोदके। कामावसायित्वं सा सत्थसङ्कल्पता। यथाऽस्य सङ्कल्पो भवति भूतेषु, तथैव भूतानि भवन्ति। अन्येषां निश्चया निश्चेतव्यमनुविधीयन्ते योगिनान्तु निश्चेतव्याः पदार्थाः निश्चयम्”। निश्चेतव्यनिश्चयशब्दौ काव्यकामावुपलक्षयतः तथा च यथाकामं तेषां विषया भवन्तीति न असद्विषयकत्वं तेषां कामानामिति विवेच्यम्। इयमिच्छा प्रवृत्तौ हेतुः इच्छाया बाधितविपयकत्वे प्रवृत्तिर्विसंवादिनी तदुत्तरं फललाभाभावेन तस्याः विसंवादित्वात्। सद्विषयकत्वे संवादिन्येवेति भेदः तथा च प्राणिमात्राणां प्रवृत्तौ इच्छा हेतुर्नेश्वरस्य प्रवृत्तौ तस्या नित्यत्वात्। गवादीनामपि हरिततृण दर्शनादिना जायमानायाः प्रवृत्तेसपलम्भात् तत्कारणमिच्छास्तीत्यनुमीयते इयांस्तु भेदः तेषां वस्तुनः सदसद्विवेकशून्यतयाऽसद्विषयेऽपीच्छा जायते। सेयमिच्छा सुबन्तोत्तरविहित काम्यच्क्यजादिना, घातूत्तरविहितसनादिना च वाच्या। तत्र पुत्रकाम्या, अशनाया, उदन्या इत्यादौ काम्यजादिवाच्या, पिपासा बुभुक्षा लिप्सा इत्यादौ सन्वाच्या। सर्व्वत्र च इष्टसाधनज्ञानादेव तत्ततद्विषयेषु इच्छा जायते सन्प्रत्ययवाच्यायां चिकीर्षायां तु नैव किन्तु तत्र मतभेदे कारणान्तरमप्यस्ति तथा हि कृतिसाध्यत्वप्रकारकेच्छा चिकीर्षा पाकः कृत्था साध्यतानित्यारिका। तत्र च कृतिसाध्यत्वज्ञानं कारणमिति गुरवः तेन वृष्टिजलादौ कृतिसाध्यत्वाभावेन न तत्र चिकीर्षा। कृतिसाध्येष्टसाधनत्वज्ञानं बलवदनिष्टानुबन्धित्वज्ञानञ्च हेतुरिति नैयायिकाः। तेन वृथाजलताडनादो कृतिसाध्यत्वग्रहेऽपि न चिकीर्षा तत्र इष्टसाधनत्वग्रहाभावात्। विषनिश्रितान्नादेरिष्टसाधनत्वग्रहेऽपि बलवदनिष्टसाधनत्वग्रहान्न चिकीर्षा। तदेतत् मुक्ता० उक्तं तच्च प्राक् दर्शितं तत्रत्यदिनकरीशेषो यथा। “ननु कृतिसाध्यताज्ञानस्य स्वातन्त्र्येण चिकिर्षां प्रति हेतुत्वे मानाभावः। तद्धर्मावच्छिन्नविशेष्यकेष्टसाधनताज्ञानस्य तद्धर्मप्रकारकेच्छां प्रति हेतुतायाः कॢप्तत्वात् कृतिसाध्यपाकत्वावच्छिन्नविशेष्यकेष्टसाधनताज्ञानादेव चिकीर्षायाः सम्भवादिति चेन्न यत्र कृतिसाध्यपाकत्वेनेष्टसाधनत्वं न गृहीतमपि तु शुद्धपाकत्वेन कृतिसाध्यत्वं शुद्धपाकत्वेनेष्टसाधनत्वं च गृहीतं तत्रापि पाकगोचरप्रवृत्तेरानुभाविकतया तदनुरोधेन चिकीर्षाया अप्यावश्यकत्वेन तन्निर्वाहाय कृतिसाध्यताज्ञानस्य स्वातन्त्येण हेतुताया आवश्यकत्वात्। अथ कृत्यसाध्यताज्ञानस्य प्रतिबन्धकत्वादेव वृष्ट्यादौ चिकीर्षामुत्पादात् कृतिसाध्यताज्ञानस्य चिकीर्षां प्रतिहेतुत्वे मानाभावैति चेन्न कृतिसाध्यत्वाभाव तद्व्याप्यतदवच्छेदकधर्मज्ञानानां प्रतिबन्धकत्वकल्पनापेक्षया कृतिसाध्यताज्ञानस्य हेतुत्वे लाघवात्। इष्टसाधनताज्ञानमिति। अन्यथा निष्फलत्वज्ञानेऽपि चैत्यवन्दनादौ चिकीर्षापत्तिरिति भावः। अत्रेदम्बोध्यम्। पाकविशेष्यकेष्टसाधनताज्ञानस्य कार्य्यतावच्छेदकं न कृतिसाध्यपाकगोचर चिकीर्षात्वम् कृतिसाध्यत्वप्रकारकत्वनिवेशे प्रयोजनविरहात् पाकोजायतामितीच्छाया असंग्रहापत्तेश्च किन्तु पाकत्वावच्छिन्नमुख्यविशेष्यकेच्छात्वम् पाकसाध्यं सुखं जायतामितीच्छायां व्यभिचारवारणाय मुख्येति। इष्टसाधनतेत्यत्रेच्छा स्वरुपसती विशेषणम्। तेनेच्छाज्ञानशून्यकालेऽपि चिकीर्षानिर्वाह इति। अतएव कृतिसाध्यताज्ञानस्य हेतुत्वादेव। बलवद्द्विष्टेति। द्विष्टं द्वेषविषयभूतं द्वेषश्च दुःखे ताद्रूप्येण ज्ञानात्, सर्पादौ तत्साधनता ज्ञानात्। द्वेषे बलवत्त्वं च जातिविशेषः। प्रतिबन्धकमिति। ननु वलवद्द्वेषविषयसाधनत्वज्ञानस्य प्रतिबन्धकत्वे चैत्रस्यागम्यागमनजन्यनरके यदा बलवान् द्वेषस्तदा मैत्रस्य तादृशद्वेषशून्थस्यागम्यागमने तादृशनरकसाधनत्वज्ञानवतैच्छाप्रवृत्त्योरनुपपत्तिः एवं चैत्रस्यैव कालान्तरे तादृशद्वेषसत्त्वेपि। न च तत्कालीनतत्प रुषीयेच्छां प्रति प्रवृत्तिं प्रति च तत्कालीनतत्पुरुषीयवलवद्द्विष्टजनकत्वज्ञानस्य प्रतिबन्धकत्वं कल्प्यते। यत्पुरुषस्य यदा न क्वापि द्वेषस्तत्कालपुरुषान्तर्भावेन तादृशप्रतिबन्वकत्वस्याकल्पनान्न तत्र तादृशप्रतिबन्धकाप्रसिद्धिरतस्ततदभावरूपकारणस्याभावात् प्रवृत्त्यनुपपत्तिरिति वाच्यम् यत्पुरुषस्य यदाऽगम्यागमनजन्यनरके बलवद्द्वेषसादा तत्पुरुषस्य तत्रेच्छानुत्पादादगम्यागमनगोचरतत्पुर षीयतत्कालीनेच्छाया अप्रसिद्ध्या तत्पुरुषतत्कालानार्भावेन तादृशकार्य्यकारणभावस्याभावेन तत्र तत्पुरुपीयानम्यागमनगोचरेच्छानुत्पादप्रयोजकस्य दुर्भिक्षापत्तेरिति चेन्न तद्धर्मप्रकारकद्वेषविशिष्टस्य तद्धर्मावच्छिन्नजनक त्वज्ञानस्य तत्र प्रतिबन्धकत्वकल्पेनेनोक्तापत्यभावान्। तद्धर्मप्रकारकद्वेषानुत्तरतादृशेच्छायां तादृशद्वेष भावः, तादृशद्वेषोत्तरतद्गोचरेच्छायां तद्धर्मावच्छिन्नजनकत्वज्ञानाभावः कारणम्। वलवद्द्वेष इति। पाकादिगेचरेच्छायां वलवद्द्वेषविषयसाधनत्वज्ञानजन्यः पाकगोचरोद्वेषः प्रतिबन्धकः पूर्बोक्तप्रतिबन्धकत्वद्वयकल्पनापेक्षया लाघवादिति भावः यत्र चोत्कठसुखोत्कटदुःखजनकमेकस्मिन् कर्म्मणि गृहीतं तत्र सत्प्रतिपक्षस्थल इवेच्छाद्वेषयोरनुत्पत्तेस्त्वन्मते तत्र कार्य्यकाले द्वेषाभावस्य सत्त्वेनेच्छोत्पादापत्तिः। न च यत्र बलवद्द्विष्टसाधनत्वज्ञानेन तृतीयक्षणे द्वेषोजनितस्तदुत्तरक्षणे इच्छोत्पादापत्तिस्तवा- पीति वाच्यम्। तत्रेच्छोत्प्रादस्येष्टत्वात् क्षणविलम्बस्य शपथनिर्णेयत्वादिति अत्यैत्यनेनास्वरसः सूचितः। वलवदनिष्टाजमकत्वज्ञानमिति। अत्रापि तद्धर्मप्रकारक द्वेषोत्तरेच्छायां तद्धर्म्मावच्छिन्नाजनकत्वज्ञानं कारणं तादृश द्वेषानुत्तरेच्छायां तु तद्धर्मप्रकारकद्वेषाभावः कारणमिति निष्कर्षोबोध्यः। भूले कस्य चिन्मत इत्यनेनास्वरसः सूचितः। स च बलवदनिष्टाननुवन्धित्वज्ञानत्वस्य हेतुतावच्छेदकत्वे बलवदनिष्टजनकत्वप्रकारतानिरूपिताभावविशेष्यताशालित्वादेस्तादृशनिरूप्यनिरूपकभावघटितत्वेन गौरवात्तदघटितबलवदनिष्टसाधनत्वज्ञानाभावत्वेनैव हेतुत्वं युक्तम्। नचाप्रामाण्यज्ञानानास्कन्दितबलवदनिष्टाननुबन्घित्वज्ञानत्वापेक्षया प्रामाण्यनिश्चयानास्कन्दिततदनु बन्धित्वज्ञानत्वस्य प्रतिबन्धकतावच्छेदकत्वे गौरवमिति वाच्यम्। युद्धादौ बलवदनिष्टसाध नत्वसन्देहेऽपीच्छाप्रवृत्त्योरु दयाद्बलवदनिष्टानुवन्धित्वनिश्चयस्यैवेच्छाप्रतिवन्धकतायास्तदननुबन्धित्वसंशयस्यापि प्रतिबन्धकतायाश्च वाच्यतया चविपरीतगौरवादिति। न च बलवदनिष्टाननुबन्धित्वज्ञानस्याप्रवर्त्तकत्वे तद्विषयस्य विध्यर्थत्वाभावात् “न कलञ्ज भक्षयेदित्यादि”–वाक्यानामप्रामाण्यापत्तिरिति वाच्यम्। तज्ज्ञानस्य प्रवृत्तिजनकत्वाभावेऽपि प्रवृत्तिप्रतिबन्धकबलवदनिष्टसाधनत्वज्ञानविघटकत्वेन प्रवृत्तिप्रयोजकत्वात् प्रवृत्तिप्रयोजकज्ञानविषयस्य विध्यर्थत्वानपायात्। अत्र यद्यपि यत्र प्रथमक्षणे द्वेषः द्वितीयक्षणे फलेच्छा तृतीयक्षणे फलसाधनताज्ञानं तत्र तृतीयक्षणे द्वेषनाशाद्भवत्येव चतुर्थेक्षणे उपायेच्छा। यत्र फलेच्छादिक्रमेणैषामुत्पत्तिस्तत्र फलेच्छारूपकारणाभावादेव नोपायेच्छा। एवमन्यत्रापि। आत्मविशेषगुणानां यौगपद्यानङ्गीकारादिति बलवदनिष्ठानुवन्धिज्ञानस्य द्वेषस्य वा प्रतिबन्धकत्वं न युक्तं न युक्तञ्च बलवदनिष्टाननुबन्धित्वज्ञानस्य हेतुत्वं तथापि द्वित्निक्षणान्तरितेऽपि द्वेषे इच्छाप्रवृत्त्योरनुदयस्यानुभविकतया ज्ञानयोरेव वा यौगपद्यमित्यभ्युपगमाद्वा पूर्वोक्तप्रतिबन्धकत्वस्य हेतुत्वस्य वावश्यकत्वमिति ध्येयम्”।

शब्दचिन्तामणौ तु प्रपञ्चः। तत्र कृतिसाध्यत्वनिश्चयस्य चिकीर्षादिहेतुत्रम् पूर्ब्बपक्षीकृत्य अत्रोच्यते इत्यादिना खमतसिद्धं कारणं दर्शयित्वा सिद्धान्तितं यथा। “विषभक्षणादिव्यावर्त्तकं कृतिसाध्यत्वज्ञाने इष्टसाधनत्वं विषय तयावच्छेदकं लाघवात्० न तु स्वविशेषणवत्ताप्रतिसन्वानजन्यत्वं गौरवात् न च सिद्ध्यसिद्ध्यवस्ययोःसा- ध्यत्वसाधनत्वयोर्विरोधः निर्विशेषितयोरविरोधात् पाकोऽसिद्धः साध्यः सिद्धः साधनञ्चेत्यनुभवात् तदा साध्यत्वं हि तदा साधनत्वविरोधि नियमतस्तेनैव तस्य प्रतिक्षेपात् सहानवस्थाननियमात् न तु साधनत्वस्य अन्यदा साधनत्वस्य वा तयोरप्रतिक्षेपात् अन्यदासाधनत्वेऽपि साधनत्वमस्त्येव सामान्यभावे विशेषभावप्रसङ्गात् एवन्तदासिद्धत्वस्य तदऽसिद्धत्वेन विरोधः नियमयस्तस्यैव प्रतिक्षेपात् न तु सिद्ध्वत्वमात्रेण अन्यदाषि तत्र सिद्धत्वाभावप्रसङ्गात्। निर्विशेषितयोर्विरोधे च सिद्धत्वासिद्धत्वयोश्चान्यतरदेव पाकादौ स्यान्नतु समयभेदेऽप्युभयम् न च तदा कृतिसाध्यत्वे सति तदेष्टसाधनत्वज्ञानं प्रवर्त्तकम्। अतएव “वाजपेयेन यजेतेत्यत्र” यागस्य करणावस्थायां सिद्धत्वेन वाजपेयस्य न साध्यता एकदाद्वयविरोधादिति कर्मनामधेयत्वं न तु करणस्य सिद्धत्वेन साध्यत्वविरोधः यागस्वरूपे तयोः सत्त्वात् अथ विरुद्धयोरवच्छेदभेदमादायैकत्र प्रतीतिःस्यात् नच कृतिसाध्यत्वेष्टसाधनत्वयोः समयभेदमादाय प्रतीतिरस्ति तथा लिङ्गाभावादितिचेत् न साध्यत्वसाधनत्वयोरविरोधस्योक्तत्वात् एवं सिद्धासिद्धत्वयोर्भावाभावरूपत्वेऽपि न विरोधः एकधर्मिगतत्वेन मानसिद्धत्वात्। एवं संयोग तदभावयोरिव येन प्रकारेण ययोर्विरोधस्तेन तयोरेकधर्मिगतत्वं न प्रतीयते न तु रूपान्तरेणापीति। अपि च यदि साध्यत्वसाधन त्वयीर्विरोधस्तदापीष्टसाधनत्वेन कार्य्यसाधनत्वेन वा कार्य्यत्वं नानुमीयेत हेतुसाध्ययोर्विरोधेन सामानाधिकरण्याभावेन व्याप्त्यसिद्धेः पक्षे साध्यसाधनयोरन्यतरासत्त्वे बाधासिद्ध्योरन्यतरप्रसङ्गाच्च। न च वाच्यमिदानीं मत्कृतिसाघ्यत्वं साध्यम् अग्रेमदिष्टसाधनत्वं हेतुः, दैवाद्यनधीनत्वे सति यदग्रे मदिष्टसाधनं तदिदार्नी मत्कृतिसाध्यमिति व्याप्तेः तथा च समयभेदमादाय साध्यत्वसाधनत्वयोरविरोध इति। इदानोमग्रिमपदार्थयोर्नानात्वादनुगतरूपाभावेन व्याप्तेरग्रहात् एवन्यायेनान्यत्रापि तत्तत्समयान्तर्भावेन साध्यत्वसाधनत्वयोरप्रतीतेः। प्रतीतौ वा ममापीदानीं कृतिसाध्यत्वे सत्यग्रे इष्टसाधनत्वज्ञानं प्रवर्त्तकामस्तु। न च पाकसाध्येष्टत्वेत कृतिसाध्यत्वमनुमेयं असिद्धावस्थावतः पाकादिष्टानुत्पत्तेः पाकस्य सिद्धत्वमवगम्य तत्साध्यत्वमिष्टस्यावगन्तव्यम् असिद्धत्वञ्चावगम्य कृतिसाध्यत्वमिति सिद्धत्वासिद्धत्वयोर्विरोधोऽत्रापि दुर्वारः। अपि च स्वविशेषणधीजन्यकार्य्यताज्ञानाभावात् सुखे कथं चिकीर्वा न हि कृतिसाध्यताज्ञानमात्रात् सा सञ्जातबा- धस्य विषभक्षणादौ चिकोर्षाप्रसङ्गात्। अथोपायचिकीर्षायां तत्कारण इच्छाकारणसुखत्वज्ञाते कृतिसाध्यत्वं यदा विषयस्तदा सुखे चिकोर्षा नो चेदिच्छामात्र मिति द्वयमेव चिकीर्षाहेतुरिति चेत् तर्हीच्छाहेतुज्ञाने यदा कृतिसाध्यत्व भासते तदा चिकीर्षा नो चेदिच्छामात्रमित्येव सुखतदुपायचिकीर्षाकारणमस्तु लाघवात् सुखत्वज्ञानवदिष्टसाधनताज्ञानस्यापीच्छाकारणत्वात्। अतएव पाके इष्टसाधनताज्ञाने कृतिसाध्यत्वं विषय इति चिकीर्षा न तु वृष्ट्यादिज्ञाने तद्विषयत्वमितीच्छामात्र सुख चिकीर्षायामिच्छाकारणज्ञाने कृतिसाध्यताविषयके चिकीर्षाजनकत्वावधारणात् अन्यथा तत्र चिकीर्षानुत्पत्तेः। वस्तुतस्तु उपायचिकीर्षा इष्टसाधनताज्ञानसाध्या उपायेच्छात्वात् वृष्टीच्छावत् न च भोगचिकीर्षावत् तेन विनावि स्यादित्यप्रयोकत्वात् उपायेच्छायास्तदम्बय व्यतिरेकानुविधानात् वृष्टेश्च स्वतोऽसुकरत्वेन इच्छानुत्पत्तेः। अनुगतोपायेच्छायामनुगतस्य प्रयोजकत्वे सम्भवति बाधक विना त्यागायोगाच्च। न च चिकीर्षान्यत्वेसति उपायेच्छात्वमिच्छात्वंवा तज्जन्यत्वे प्रयोजकं गौरवात् सुखेच्छयां तदभावाच्च। एवञ्चोपायचिकीर्षायामिष्टसाधनताज्ञाने ध्रुवेऽतिप्रसङ्गवारणार्थं कृतिसाध्यत्वप्रकारकत्वनिर्वाहार्थञ्चकृतिसाध्यत्वमपि विषयतयावच्छेदकमस्तु न तु तद्विहाय तन्मात्र, कॢप्तकारणं विना कार्य्यानुत्पत्तेः। अत एव स्तनपानप्रवृत्तावप्युपायेच्छाकारणत्वेन गृहीतस्येष्टमाधनताज्ञानस्यापि कल्यनं दृष्टानुरोधित्वात् कारणतायाः। ननु साधनत्वमिच्छाविरोधि तस्य सिद्धधर्म्मत्वात् वृष्ट्यादौ तत्साध्येष्टज्ञानादिच्छेति चेत् न निर्विशेषितयोः सिद्धत्वासिद्धत्वयोरविरोधेनेच्छासाधनत्वयोरविरोधात् तदा असिद्धत्वं तत्सिद्धत्वञ्च नेच्छासाधनत्वयोः प्रयोजकमिति तथा न ज्ञायत एव। यत्तु तत्साध्येष्टज्ञानात् दृष्ट्यादाविच्छेति तत्तुच्छं असिद्धावस्थाद्वृष्ट्यादेरिष्टानुत्पत्तेरवश्य सिद्धत्वमवगन्तव्यमिच्छाविरोधित्वाच्चासिद्धत्वमिति तत्रापि विरोधएव वृष्टौ संत्यामिष्टं तया विना नेत्यन्वयव्यतिरेक ग्रहस्य वृष्टिसिद्धत्वमादाय वृष्टिनिरूपितेषु साध्यत्वग्राहकत्वात्। किञ्च चिकीर्षाजन्यकृतिसाध्यं मण्डलीकरणमित्यर्थप्रतिपादकं मण्डलीं कुर्य्यादितिवाक्यं प्रमाणं स्यात् विषयाबाधात्। एतेन नवीनमतमपास्तं परस्य हि कृतिसाध्यत्वौदनकामनावत्त्वेष्टसाधनताज्ञानानां ज्ञानं तथान्यस्य ओदनकामनावत्तेष्टसाधनताज्ञानस्थ ज्ञान न प्रवृत्तिकारण गौरषात् किन्तु मत्कृतिसाध्य त्वे सति मदिष्टसाधनताज्ञानमेव लाघवात् तथा च साध्यसाधनत्वयोर्न विरोधोऽनागतस्य पाकादेः कृतिसाध्यताज्ञानञ्च यथा, तथोपपादितं पुरस्तात्। किञ्च खकृतिसाध्यत्वमन्तरेणापि स्वकृतिसाध्येष्टसाधनताज्ञानात् स्वकल्पितेलिप्यादौ, यौवने कामोद्भेदात् संभोगादौ प्रवृत्तेश्च अदृष्टं प्रववर्त्तकम्। वस्तुतस्तु सिद्धविषयककृतिसाध्यताज्ञानात् कथं “पाकं कृत्या साधयामीतीच्छा”? सिद्धे इच्छाविरहात् असिद्धस्याज्ञानात् अथ सिद्धविषयादेव कृतिसाध्यताज्ञानादसिद्धविषया कृतिसाध्यत्वेनेच्छा जायते इच्छाया असिद्धविषयत्वस्वभावत्वात्। एकप्रकारकत्वेन ज्ञानचिकीर्षयोः कार्य्यकारणभावोनत्वेकविषयत्वे सति गौरवात् इच्छाया अनागतविषयत्वात्तस्य चाज्ञानात्तथा कल्पनात् सुखादीच्छायामप्येवमिति चेत् न असिद्धविषयेच्छानुरोधेनानागतोपायज्ञानस्य दर्शितत्वात्। अस्तुचैवं तथापि कृतिसाध्यताज्ञाने इष्टसाधनत्वमेव व्यावर्त्तकमस्तु स्वपरकीयेष्टसाधनताज्ञानस्य फलकामनाज्ञानापेक्षया लघुत्वात् ज्ञानज्ञानस्य फलकामनाज्ञानस्य हेतुत्वे मानाभावाच्च”।

सेयमिच्छा अन्तःकरणधर्म्मोनात्मधर्म्मः इति वेदान्तिनः प्रतिपेदिरे। आत्मनो निर्गुणत्वात् प्रागुक्तया “कामः सङ्खल्पः इत्यादि श्रुत्था मनोधर्म्मत्वावगमाच्च तथात्वम्। यथा च कामादीनां नात्मधर्म्मत्वं तथा शङ्कापूर्व्वकं वृ० उ० भाष्ये समर्थितम्। यथा

“सुखित्वदुःखित्वादिदर्शनान्नेति चेत् न “न लिप्यते लोकदुःखेन बाह्य” इति श्रुतेः। प्रत्यक्षादिविरोधादयुक्तमिति चेत् न उपाध्याश्रयजनितविशेषविशेषयत्वात्प्रत्यक्षादेः “न दृष्टेर्द्रष्टार पश्येर्विज्ञातारमरे केन विजानीयादविज्ञातं विज्ञातृ” इत्यादिश्रुतिभ्यो नात्मविषयं विज्ञानम्, किन्तर्हि बुद्ध्याद्युपाध्यात्मप्रतिच्छायाविषयमेव सुखितो दुःखितोऽहमित्येवमादिप्रत्यक्षविज्ञानमयमहमिति विषयेण विषयिणःसामानाधिकरण्योपचारात् “नान्यदतोऽस्ति द्रुष्टृ” इत्यन्यात्मप्रतिषेधाच्च। देहावयवविशेष्यत्वाच्च सुखदुःखयोर्विषयधर्म्मत्वम् “आत्मनस्तु कामाय” इत्यात्मार्थत्वश्रुतेरयुक्तमिति चेन्न। “यत्र वा अन्यदिव स्यात्” इत्यविद्याविषयात्मार्थत्वाभ्युपगमात् “तत्केन कं पश्येत्” “नेह नानास्ति किञ्चन” “तत्र को मोहः कः शोक” इत्यादि विद्याविषये तत्प्रतिषेधाच्च नात्मधर्म्मत्वम्। तार्क्किकसमयविरोधादयुक्तमिति चेन्न युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः। न हि दुःखेन प्रत्यक्षविषयेणात्मनो विशेष्यत्वं, प्रत्यक्षाविषयत्वात्। आकाशस्य शब्दगुणवत्त्ववदात्मनो दुःखित्वमिति चेन्न एकप्रत्ययविषयत्वानुपपत्तेः। न हि सुखग्राहकेण प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्यात्मनो विषयीकरणमुपपद्यते। तस्य च विषयीकरणे आत्मन एकत्वाद्विषय्यभावप्रसङ्गः। एकस्यैव विषयविषयित्वं दीपवदिति चेन्न युगपदसम्भवादात्मन्यंशानुपपत्तेश्च। एतेन विज्ञानस्य ग्राह्यग्राहकत्वं प्रत्युक्तम्। प्रत्यक्षानुमानविषययोश्च दुःखात्मनोर्गुणगुणित्वेनानुमानम् दुःखस्य नित्यमेव प्रत्यक्षविषयत्वाद्रूपादिसामानाधिकरण्याच्च मनःसंयोगजत्वेऽप्यात्मनि दुःखस्य, सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात्। न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन्नपयन्वा दृष्टः क्वचित्। न च निरवयवं विक्रियमाणं दृष्टं क्वचित् अनित्यगुणाश्रयं वा नित्यम्। न चाकाश आगमवादिभिर्नित्यतयावगम्यते। न चान्यो दृष्टान्तोऽस्ति विक्रियमाणमपि तत्प्रत्ययानिवृत्तेर्नित्यमेवेति चेन्न द्रव्यस्यावयवान्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः। सावयवत्वेऽपि नित्यत्वमिति चेन्न सावयवस्यावयवसंयोगपूर्व्वकत्वे सति विभागोपपत्तेः। वज्रादिष्वदर्शनान्नेति चेन्नानुमेयत्वात्संयोगपूर्व्वत्वस्य। तस्मान्नात्मनो दुःखाद्यनित्यगुणाश्रयत्वोपपत्तिः। परस्यादुःखित्वेऽन्यस्य च दुखिनोऽभावे दुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेन्नाविद्याऽध्यारोपितदुःखित्वम्रमापौहार्थत्वात्”।

यथा च कामस्य हृदयाश्रितत्वतथाऽऽप्तकामशब्दे ७१८ पृष्ठे दर्शिते वृ० भा० वाक्ये प्रपञ्चितम्। एवमेव सांख्याःपातञ्जलाश्च ज्ञानादिवत् सुखदुःखेच्छाद्वेषप्रयत्न धर्म्मा धर्म्मा अपिबुद्धेरेव धर्म्मा इत्याहुः। ईश्वरेच्छा तु समूहालम्बनात्मिका सर्व्वं जगत् भूयादित्याकारिका। “सोऽकामयत बहु स्यां प्रजायेयेत्यादि” श्रुतिः। “सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः” इति स्मृतिश्च तस्य तत्सत्त्वे प्रमाणम्। सा च नित्येति नैयायिकादयः नित्यत्वाच्चर्न तत्र कारणापेक्षा। व्योमादिवदनित्येति वेदान्तिनः। मित्यत्ववादिमतेऽपि सृज्यमानजीवादृष्टरूपसहकारेणैवतत्तत्कार्य्योत्पत्तिरिति ईश्वर शब्दे वक्ष्यते। मनोधर्म्मत्ववादिमते मनसस्त्रिगुणात्मकत्वेऽपि रजसएव तत्कारणत्वम् “काम एष क्रोध एष रजोगुणसमुद्भवः” गोतायां कामस्य रजोगुणकार्य्यत्वोक्तेः। ततश्च बुद्धेस्त्रिगुणात्मकत्वेन रजःकार्य्यकामस्य तद्गुणत्वमेवोचितम्। अतएव इच्छाशक्तिक्रियाशक्तिज्ञानशक्तिस्वरूपिणीत्यादौ प्रकृतेरिच्छाशक्त्यादिरूपत्वकथनमपि सङ्गच्छते शक्तिशक्तिमतोरभेदात् प्रकृतिशक्तित्वाच्च तस्या बुद्धिगुणत्वमवगम्यते। अतएव “या देवी सर्व्व भूतेषु इच्छारूपेणसंस्थिता” देवोमा० सर्व्वभूतेषु इच्छारूपेण प्रकृतिस्थितिरक्ता

ईश्वरोपाधिमायाया इच्छादिमत्त्वेनैवेश्वरस्य तद्वत्त्वं रत्नत्रयपरीक्षायामुक्तं यथा “नित्यं निर्दोषगन्धं निरतिशय सुखं ब्रह्म चैतन्यमेकं धर्म्मोधर्म्मीति भेदद्वितयमपि पृथग्भूय मायावशैन। धर्म्मस्तत्रानुभूतिः सकलविषयिणी सर्वकार्य्यानुकूला शक्तिश्चेच्छादिरूपा भवति गुणगुणस्त्वाश्रयस्त्वेक एव। कर्त्तृत्वं तत्र धर्म्मी कलयति जगतां पञ्चसृष्ट्यादिकृत्ये धर्म्मः पुंरूपमाप्त्वा सकलजगदुपदानभावं बिभर्त्ति। स्त्रीरूपं प्राप्य दिव्या भवति च महिषी स्वाश्नयस्यादिकर्त्तुः, प्रोक्तौ धर्म्मप्रभेदावपि निगमविदा धर्म्मिवत् ब्रह्मकोटी” इति तथा च एकमेव ब्रह्मानादिसिद्धया मायया कर्म्मी धर्म्मश्चेति द्विविधमभूदित्यर्थः। तन्त्रोक्ते कालिकायाः २ पीठशक्तिभेदे। “इच्छाज्ञानक्रियाश्चैव कामिनी कामदायिनी। रतीरतिप्रिया नन्दा मघ्ये चैव मनोन्मनी” तन्त्रसा० कालिकापीठशक्ति कथने।

इच्छाकृत = त्रि० इच्छया कृतः। “कामकृते। १ अशीतिभागो वृद्धिः स्यात्” इत्युक्तातिक्रमेण अधमर्णेन यथेष्टं कृतायां २ वृद्धौ स्त्री “वृद्धेर्वृद्धिश्चक्रवृद्धिः प्रतिमासन्तु कालिकी। इच्छाकृता कामकृता कायिका कायकर्म्मणा” आह्नि० त० याज्ञ्यवचनत्वेन धृतम्। मिताक्षरायां तु नैतद्वचनं दृश्यते। तत्र कारिता वृद्धिर्नारदवचनेन दर्शिता “वृद्धिः सा कारिता नाम यर्णिकेन स्वयंकृतेति”

इच्छानिवृत्ति = स्त्री ६ त०। पित्रादीनां धनादिभोगतृष्णो परमे। “पितर्युपरतस्पृहे इत्यादि” स्मृतेः तादृशस्पृहा निवृत्तौ पित्रादेः स्वत्वहानिः, पुत्रादेः स्वत्वोत्पत्तिश्च। तेन पुत्रादोनां तत्र पैत्रादिधनविभागः।

इच्छावत् = त्रि० इच्छाऽस्त्यस्य मत्प् मस्य वः। घनादिस्पृहा युक्ते स्त्रियां ङीप्। सा च घनादितृष्णायुक्तायां कामुकायाम् स्त्रियां रमणेच्छायुक्तायां तु कामुकीति भेदः।

इच्छावसु = पु० इच्छयैव वमु यस्य। कुवेरे जटा०

इच्छित = पु० इच्छा जातास्य तारका० इतच्। स्पृहायुक्ते

इच्छ = त्रि० इच्छति इष–उ नि० इच्छादेशः। इच्छाशीले “वस्तचर्म्मणि पुष्टीच्छः” “उमयेच्छरभयोः” कात्या० १८, ५, १२, १३

इज्जल = पु० ईयते कर्म्मणि–क्विप् इत् सन्निपृष्टतया गतं जलमनेन। (हिजोल) वृक्षे तस्य जलसन्निकृष्टदेशजातत्वात् तथात्वम्।

इज्य = पु० इज्याऽस्त्यस्य अर्श० अच्। १ वृहस्पतौ “जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः” ज्यो० त० “वित्सितेज्यदिवसे” मु० चि०। जीवदेवताके २ पुष्यनक्षत्रे च “त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्रेत्यादि दीपि० ३ गुरौ ४ परमेश्वरे ५ विष्णौ च। “यज्ञैज्यो महेज्यश्च” विष्णु० स०। “यष्टव्योऽप्ययमेवेतीज्यः” ये यजन्ति च सार्वाणि दैवतानि पितॄनपि। आत्मानमात्मना नित्थं विष्णुमेव यजन्ति ते ४ हरिवंशोक्तेः” भा० ६ पूज्यमात्रे त्रि०। सुरेज्यः

इज्या = स्त्री यज–भावे क्यप् स्त्रीत्वात् टाप्। १ यज्ञे “सोऽहमिज्याविशुद्धात्मा”। “जगत्प्रकाशं तदशेषमिज्यया” रघुः यजेर्दानाद्यर्थत्वात् २ दाने, ३ सङ्गमे च। कर्म्मणि क्यप्। ४ प्रतिमायाम् ५ कुट्टिनन्याञ्च।

इज्याशील = पु० इज्या शीलमस्य। सततयजनशीले यायजूके अमरः।

इञ्चाक = पु० चञ्चा दीर्धाऽस्त्यस्य आकन् पृ०। (चिङ्गिडि) मत्स्यभेदे त्रिका० २ जलवृश्चिके इति केचित्।

इट = गतौ भ्वादि० पर० सक० सेट्। एटति ऐटीत्। इयेठ ईटतुः “त्वं त्यमिटतो रथमिन्द्रप्रावः सुतावतः” ऋ० १०, १७१, १।

इटसून = न० इट–क इटं सूनं शूनं श्वि–क्त पृ० शस्य सः। शाखामये कटे। “वैतसे इठसून उत्तरतोऽश्वस्यावद्यन्ति” शत० व्रा० १३, २, २, १९, “इटसूने शाखामये कटे” भा०

इट्चर = पु० इष–संपदा० भावे क्विप् इषा कामेन चरति चरअच्। गोपतौ (षा~ड) वृषभे

इड्(ल) = स्त्री इल–क्विप् बा लस्य ड। १ हविषि अन्ने “होता रमिलः प्रथमं यतध्यै” ऋ० ३, ४, ३, “इडो हवीरूपाण्यन्नानि” भा० “इडस्पतिर्मघवा दस्मवर्चाः” ऋ० ६, ५८, ४, “इडः अन्नस्य पतिः” भा० २ भूमौ “इन्द्रपानमूर्मिम कृण्वतेडः” ऋ० ७, ४७, १, “इडैडाया भूमेः” भा० ईड्यते ईड–क्विप् पृ०। ३ अन्ने ४ वर्षर्त्तौ ५ प्रजासु दर्शपौर्ण्णमासाङ्गेषु पञ्चसु प्रयाजेषु तृतीये ६ प्रयाजे च। प्रयाजाश्च “समिधो यजति तनूनपातं यजति इडो यजति बर्हिर्यजति स्वाहाकारं यजतीति” श्रुत्युक्ताः पञ्च। तेषां प्रयाजत्वनिर्वचनपूर्बकं पञ्चानामृतुरूपत्वमुक्तम् यथा “ऋत वोह वै प्रयाजाः तस्मात् पञ्च भवन्ति पञ्च ऋतव” इत्युपक्रम्य “ततो देवा अर्चन्तः श्राम्यन्तश्चेरुस्तएतान् प्रयाजान् ददृशुस्तैरयजन्त ते ऋतून् संवत्सरं प्रायजन्नृतुभ्यः संवत्सरात् सपत्नानन्तरायंस्तस्मात् प्रजया प्रजया ह वै नामैतत् यत् प्रयाजाः इति तथो एवैष एतैरृतून् संवत्सरं प्रजयत्युतुभ्यः संवत्सरात् सपत्नानन्तरेति तस्मात् प्रयाजैर्यजते” इति प्रयाजनिर्बचनेन ऋतुरूपत्वमेषा मभिधाय समिदादीनां वसन्ततादिरूपत्वमुक्तं तत्रैव यथा “समिधो यजति तद्वसन्तं, समिन्धे स वसन्तः समिद्वोऽन्यानृतून् समिन्धे ऋतवः समिद्धाः प्रजाश्च प्रजनयन्त्योषधीश्च पचन्ति तद्वेव खलु सर्वानृतून्निराहाऽथ यजयजेत्येवोत्तरा नाहाऽजामितायैजामिह कुर्य्याद्यत्तनूनपातं यजेडो यजेति व्रूयात्तस्माद्यज यजेत्येवोत्तरानाह, स वै समिधो यजति। वसन्तो वै समिद्वसन्तमेव तद्देवा अवृञ्जत वसन्तात् सपत्रानन्तरायन् वसन्तं वेष एतद्वृङ्क्ते वसन्तात् सपत्नानन्तरेति तस्मात् समिधो यजति। अथ ततूनपातं यजति। ग्रीष्मो वै तनूनपाद्ग्रीष्मो ह्यासां प्रजानां तनूस्तपति ग्रीष्ममेव तद्देवा अवृञ्जत ग्रीष्मात् सपत्नानन्तरायन् ग्रीष्मेवेष एतद्वृङ्क्ते ग्रीष्मात् सपत्नानन्तरेति तस्मात्तनूनपातं यजति। अथेडो यजति। वर्ष वाइड इति हि वर्षा इडो यदिदं क्षुद्रं सरीसृपं ग्रीष्महेमन्ताभ्यां नित्यक्त भवति तद्वर्षा ईडितमिवान्नमिच्छमानं चरति तस्माद्वर्षा इडो, वर्षा एव तद्देवा अवृञ्जत वर्षाभ्यः सपत्नानन्तरायन् वर्षा उएवैष एतद्वृङ्क्ते वर्षाभ्यः सपत्नानन्तरेति तस्मादिडी यजति। अथ बर्हिर्यजति। शरद्वै बर्हिरिति हि शरद्बर्हिर्या इमा ओषधयो ग्रीष्महेमन्ताभ्यां नित्यक्ता भवन्ति ता वर्षा वर्धन्ते ताः शरदि बर्हिषो रूपं प्रस्तीर्णाः शेरे तस्माच्छरद्बर्हिः शरद मेव तद्देवा अवृञ्जत शरदः सपत्नानन्तरायञ्छरदं वेष एतद्वृङ्क्ते शरदः सपत्नानन्तरेति तस्माद्बर्हिर्यजति। अथ स्वाहास्वाहेति यजति। अन्तो वैष यज्ञस्य स्वाहाकारोऽन्त ऋतूनां हेमन्तो वसन्ताद्धि परार्द्धोऽन्तेनैव तदन्तं देवा अवृञ्जतान्तेनान्तात् सपत्नानन्तरायन्नन्तेनो एवेष एतदन्तं वृङ्क्तेऽन्तेनान्तात् सपत्नानन्तरेति तस्मात् स्वाहास्वाहेति यजति” शत० ब्रा० १, ५, ३, ११। समिदादीनां निरुक्त्यन्तरं प्रदर्श्य प्रजारूपत्वमिडस्तत्रोक्तं यथा “स वै समिधो यजति। प्राणा वै समिधः प्राणानेवैतत् समिन्धे प्राणैर्ह्ययं पुरुषः समिद्धस्तस्मादभिमृशेति ब्रूयाद्यद्युपतापी स्यात्स यद्युष्णः स्यादेव तावच्छंसेत समिद्धो हि स तावद्भवति यद्यु शीतः स्यान्नाशंसेत। तत्प्राणानेयास्मिन्नेतद्दधाति तस्मात् समिधो यजति। अथ तनूनपातं यजति। रेतोवै तनूनपाद्रेत एवैतत्सिञ्चति तस्मात्तनूनपातं यजति। अथेडो यजति प्रजावा इडो यदा वै रेतः सिक्तं प्रजायतेऽथ तदीडितमिवान्नमिच्छमानं चरति तत् प्रेवैतज्जनयति तस्मादिडो यजति। अथ बर्हिर्यजति। भूमा वै बर्हिर्मूमानमेवैतत् प्रजनयति तस्माद्बर्हिर्यजति। अथ स्वाहास्वाहेति यजति। हेमन्तो वा ऋतूनां स्वाहाकारो हेमन्तो हीमाः प्रजाः स्वं वशमुपनयते तस्माद्धेमन्तान्म्लायत्न्योषधयः प्र वनस्पतीनां पलाशानि मुच्यन्ते प्रतितरामिव वयांसि भवन्त्यधस्तरामिव वयांसि पतन्ति विपतितलोमेव पापः पुरुषो भवति हेमन्तोहीमाः प्रजाः स्वं वशमुपनयते”। शत० ब्रा० १, ५, ४, ३। ऋतूनां पञ्चप्रयाजभागित्वमग्नितः प्रार्थनयैव जातम् इत्यप्युक्तं तत्रैव “ऋतवोह वै देवेषु यज्ञे भागमीषिरे आनो यज्ञे भजत मा नो यज्ञादन्तर्गतास्त्वेव नोऽपि यज्ञे भाग इति। तद्वै देवा न जज्ञुः। त ऋतवोदेवेष्वजानस्वसुरानुपावतन्ताप्रियान्देवातां द्विषतो भ्रातृव्यान्। ते हैतामेधितुमेधाञ्चक्रिरे। यानेषामेतामनु शृण्वन्ति कृषन्तो ह स्मैव पूर्व्वे वपन्तोयन्ति लुनुन्तोऽपरे मृणन्तः शश्वद्धैभ्योऽकृष्टपच्या एवौषधयः पेचिरे। तद्वै देवानामागआस। कनीयैन्न्वतोद्विषन्द्विषतेऽरातीयति किम्वेतावन्मात्रमुपजानीत यथेदमितोऽन्यथा सदिति। ते होचुः ऋतूनेवानुमन्त्रयामहा इति के नेति प्रथमानेवैनान् यज्ञे यजामेति। सहाग्निरुवाच। आययन्मां पुरा प्रथमं यजथ क्वाहं भवानीति न त्वामायतनाच्च्यावयाम इति ते यदृतूनभिह्वयमानाअथाग्निमायतनान्नाच्यावयंस्तस्मादग्निरच्युतोनो ह वा आयतना च्च्यवते यस्मिन्नायतने भवति य एवमेतमग्निमच्य्युतं वेद। ते देवा अग्निमब्रुवन्। परे ह्येनांस्त्वमेवानुमन्त्रयस्वेति स हेत्याग्निरुवाच, ऋतवोऽविदं वै वो देवेषु यज्ञे भागमिति कथं नोऽविद इति प्रथमानेव वो यज्ञे यक्ष्यन्तीति। त ऋतवोऽग्निमब्रुवन् आ वयं त्वामस्मासु भजामो यो नो देवेषु यज्ञे भागमविद इति स एषोऽग्निरृतुष्वाभक्तः समिधो अग्ने तनूनपादग्न इडो अग्ने बर्हिरग्ने स्वाहाग्निमिति” शत० ब्रा० १, ६, १, ७, ८। प्रयाजैश्चरन्तीत्युपक्रम्य “इड अग्न आज्यस्य व्यन्त्विति तृतीयः” आश्रु० श्रौ०। “इडस्पदे समिध्यसे” यजु० १५, ३० “इड्ःपृयिव्याः” वेददी०।

इडा(ला) = स्त्री इल–अच् वा लस्य डत्वम्। १ गवि, २ वाचि, ३ भूमौ “प्रबुध्यते नूनमिडातलस्थः भा० व० २३५ अ०। “इला पिन्वते विश्वदानीम्” ऋ० ४, ५००८, “इला भूमिः” भा०। इल + गतौ करणे घञर्थे क। देहस्थे ४ नाडीभेदे। “इडा च पिङ्गला चैव सुथुस्णा च सरस्वती अलम्बूषा कुहूश्चैवं शङ्खिनी चित्रिणी तथा। विश्वोदरी विश्वमुखी व्याप्त्याह्येताश्चतुर्दश” इति तन्त्रोक्तासु प्रधानासु चतुर्दशसु नाडीषुतिस्रः प्रधानाः तथा हि। “शिराः शतानि सप्तैव” या० “शिराः नाभिसंबद्धाश्चत्वारिंशत् वातपित्तश्लेष्मवाहिन्यः सकलकलेवरव्यापिन्योनानाशाखाः सत्यः सप्त शतानि भवन्तीति” मिता०। “सप्त शिराशतानि, सुश्रु०। तेन देहमध्ये सप्त शतानि नाड्यः तन्मध्ये एताश्चतुर्दश प्रधानतयोक्ताः। तासु मध्येऽपि तिस्रः प्रधानाः देहस्थनाडीरुपक्रम्य। शारदा० “नाड्यस्तत्र समुद्भूतामुख्यास्तिस्रः समीरिताः। इडा वामे स्थिता नाडी पिङ्गला दक्षिणे मता। तयोर्मध्यगता नाडी सुषुस्णा च समाहिता। पादाङ्गुष्ठद्वयं याता शिखाभ्यां शिरसा पुनः। ब्रह्मस्थानं समापन्ना सोमसूर्य्याग्निरूपिणी। तस्या मध्यगता नाडी चित्राख्या योगिवल्लभा। ब्रह्मरन्धं विदुस्तत्र पद्मसूत्रनिभं परम्। इडायां सञ्चरेच्चन्द्रः पिङ्गलायां दिवाकरः। ज्ञातौ योगनिदानज्ञैः सुषुस्णायां तु तावुभौ” तत्स्थानमुक्त्वा कार्य्यमाह “इडयाकर्षयेद्वायु बाह्यं षोडशमात्रया। धारयेत्पूरित योगी चतुःषष्ट्या तु मात्रया। सुषुसणामध्यगं सम्यक् द्वात्रिंशन्मात्रया शनैः। नाड्या पिङ्गलया चैनं रेचयेद्योगवित्तमः। प्रणायाममिमं प्राहुर्योगशास्त्रविशारदाः” २५ पटले। “पिङ्गलायां स्थिता ह्रस्वा इडायां सङ्गताः परे (दीर्घाः)। सुषुष्णामध्यगा ज्ञेयाश्चत्वारो ये नपुंसका” शार० ५ प०। दीर्घादिरयमित्येके। ५ हविरन्ने च “यजमानपञ्चमा इडां भक्षयन्ति” श्रुतिः। डस्य लत्वे प्यत्रैव “इडां नोमित्रावरुणोत वृष्टिम्” ऋ० ७, ६४, २ “इडामन्नम्” भा० “घृतैर्गव्यूतिमुक्षतमिलाभिः” ऋ० ७, ६४, ४। “इडाभिरन्नैः” भा०। ६ देवीभेदे “श्रुतिः प्रीतिरिडा कान्तिः, शान्तिः पुष्टिःक्रिया तथा। शिष्टाश्च देव्यः” इत्युपक्रम्य। “उपतस्थुर्महासत्त्वं बलिमिन्द्र महारथम्” हरिवं० २५६ अ० “इडा देवी भारती विश्वतूर्त्तिः” ऋ० ५, २, ८। “अभि न इडायूथस्य माता” ऋ० ५, ४१, १९। “इलागोरूपधरा मनोः पुत्री माध्यमिकी वाक् वेति” भा०। बुधस्य जायायां पुरूरवसो मातार पश्चात्मनुपुत्रत्वे सुद्युम्नतया ख्यातायां मित्रावरुणयोरंशजातायां कन्यायाञ्च तत्कथा हरिवं० “अकरोत् पुत्त्रकामस्तु मनुरिष्टिं प्रजापतिः। मित्रावरुणयोस्तात पूर्व्वमेव विशाम्पते!। अनुत्पन्नेषु नवसु पुत्रेष्वेषु तु भारत!। तस्यान्तु वर्त्तमानायामिष्ट्यां भरतसत्तम!। मित्रावरुणयोरशे मनुराहुतिमाजुहोत्। आहुत्यां हूयमानायां देवगन्धर्वमानवाः। तुष्टिञ्च परमां जग्मुर्मुनयश्च तपोधनाः। अहोऽस्य तपसो वीर्य्यमहो श्रुतमहोऽद्भुतम्। तत्र दिव्याम्बरधरादिव्याभरणभूषिता। दिव्यसंहनना चैव इडा जज्ञे इति श्रुतिः। तामिलेत्येव होवाच मनुर्द्दण्डधरस्तदा। अनुगच्छस्वमां भद्रे तमिला प्रत्युवाच ह। धर्मयुक्तमिदं वाक्यं पुत्त्रकामं प्रजापतिम्। इडोवाच। मित्रावरुणयोरंशे जाताऽस्मि वदतांवर!। तयोः सकाशं यास्यामि न मां धर्मो हतोऽबधीत्। सैवमुक्त्वा मनुं देव मित्रावरुणयोरिला। गत्वाऽन्तिकं वरारोहा प्राञ्जलिर्वाक्यमव्रवीत्। अंशेऽस्मिन् युवयोर्जाता देवौ! किं करवाणि वाम्। मनुना चाहमुक्ता वै अनुगच्छस्व मामिति। तां तथा वादिनीं साध्वीमिलां धर्मपरा यणाम्। मित्रश्च वरुणश्चोभावूचतुर्यन्निबोध तत्। अनेन तव धर्म्मेण प्रश्रयेण दमेन च। सत्येन चैवं सुश्रोणि। प्रीतौ स्वो वरवर्णिनि!। आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि। मनोर्वंशकरः पुत्त्रस्त्वमेव च भविष्यसि। सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने। जगत्प्रियो धर्म्मशोलो मनीर्वंशविवर्द्धनः। निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकम्। बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता। सोमपुत्त्राद्बुधाद्राजस्तस्यां जज्ञे पुरूरवाः। जनयित्वा सुत सा तमिला सुद्युम्नतां गता”। ८ दुर्गायाञ्च “आचार्य्यां मदिरां चण्डींमिलां मलयवासिनीम्” हरिवं० १७८ अ० दुर्गास्तवः। इडैव स्वार्थेकन् तत्रार्थे

इडाचिका = स्त्री इडावत् सूक्ष्मं मध्यभागम् अचति अच–ण्वुल् ६ त० टापि अत इत्त्वम्। वरटायाम्” (वीलता) शब्दच०

इडिक्क = पु० वनभवे छागे हेम०

इड्वर = पु० इच्छतीति इट् वृषस्यन्ती तया व्रियते वृ–कर्म्मणि अप्। वृषे क्षीरस्वा०

इडीय = त्रि० इडाया अन्नस्यादूरदेशः उत्करा० छ। अन्नस्यादूरदेषादौ

***