वाचस्पत्यम्
आहा to आह्व
links:
Menu अ–ह
Prev आहवनीय
Next इ–इड
आहा
आहारप
आहु
आह्न
आह्ल
UpasanaYoga
.org

आहार = पु० आ + हृ–घञ्। १ आहरणे। उपसर्गयोगात् २ भोजने “निराहारौ यताहारौ तन्मनस्कौ समाहितौ” देवीमा० आहारविधिश्च सुश्रुते उक्तः यथा “अथाहारविधिं वत्स! विस्तरेणाखिलं शृणु। आप्तान्वितमसंकीर्ण्णं शुचि कार्य्यं महानसम्। तत्राप्तैर्गुणसम्पन्नमन्नं भक्ष्यं सुसंस्कृतम्। शुचौ देशे सुसंगुप्तं समुपस्थापयेद्भिषक्।। विषध्नैरगदैः स्पृष्टं प्रीक्षितं व्यजनोदकैः। सिद्धैर्मन्त्रैर्हतविषं सिद्धमन्नं निवेदयेत्। वक्ष्याम्यतःपरं कृत्स्नमाहारस्योपकल्पनम्। घृतं कार्ष्ण्यायसे देयं पेया देया तु राजते। फलानि सर्वभक्ष्यांश्च प्रदद्याद्वैदलेषु च। परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत्। प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत्। कट्वराणि खडांश्चैव सर्व्वान् शैलेषु दापयेत्। दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः। पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत्। काचस्फटिकपात्रेषु शीतलेषु शुभेषु च। दद्याद्वैदूर्य्य पात्रेषु रावखाण्डकशर्कराः। पुरस्ताद्विमले पात्रे सुविस्तीर्ण्णे मनोरमे। सूदः सूपौदनं दद्यात् प्रलेहांश्च सुसंस्कृतान्। फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च। तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत्। प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः। खडान् यूषांञ्च पेयांश्च सव्ये पार्श्वे प्रदापयेत्। सर्व्वान् गुडविकारांश्च रावखाण्डकशर्कराः। पुरस्तात् स्थापयेत्प्राज्ञो द्वयोरपि च मध्यतः। एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम्। भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ। सुगन्धिपुष्परचिते समे देशेऽथ भोजयेत्। विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टैरसादिभिः। मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितम्। पूर्ब्बं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ। पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत्। आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान्। ततः पेयांस्ततो भोज्यान् भक्ष्यां श्चित्रांस्ततः परम्। धनम्पूर्ब्बं समश्नीयात् केचिदाहुर्व्विपर्य्ययम्। आदावन्तेच मध्ये च भोजनस्य तु शस्यते। निरत्ययं दोषहरं फलेष्वामलकं नृणाम्। मृणालविसशालूककन्देक्षुप्रभृतीनि च। पूर्ब्बं योज्यानि भिषजा नतु भुक्ते कथञ्चन। सुखमुच्चैः समासीनः समदेहोऽन्नतत्परः। काले सात्म्यं लघु स्निग्धं क्षिप्रमुष्णं द्रवोत्तरम्। बुभुक्षितोऽन्नमश्नीयान्मात्रावद्विदितागमः। काले भुक्तं प्रीणयति सात्म्यमन्नं न बाधते। लघु शीघ्रं व्रजेत्पाकं स्निग्धोढ्यं बलवह्निदम्। क्षिप्रं भुक्तं समं पाकं यात्यदोषं द्रवोत्तरम्। सुखं जीर्य्यति मात्रावद्धातुसाम्यं करोति च। अतीवा यतयामास्तु क्षपा येष्वृतुषु स्मृताः। तेषु तत्प्रत्यनीकाद्यं भुञ्जीत प्रातरेव तु। येषु चापि मवेयुश्च दिवसा भृशमायताः। तेषु तत्कालविहितमपराह्णे प्रशस्यते। रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः। कृत्वा सममहोरात्रं तेषु भुञ्जीत भोजनम्। नाप्राप्तातीतकालं वा हीनाधिकमथापि वा। अप्राप्तकाले भुञ्जानः शरीरे ह्यलघौ नरः। तांस्तान् व्याधीनवाप्नोति मरणं वा नियच्छति। अतीतकाले भुञ्जानो वायुनोपहतेऽनले। कृच्छ्राद्विपच्यते भुक्तं द्वितीयञ्च न काङ्क्षति। हीनमात्रमसन्तीषं करोति च बलक्षयम्। आलस्यगौरवाटोपसादांश्च कुरुतेऽ- धिकम्। तस्मात्सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्जितम्। यथोक्तगुणसम्पन्नमुपसेवेत भोजनम्। विभज्य कालदोषादीन् कालयोरुभयोरपि। अचोक्षं (अपरित्रम्) दुष्टमुच्छिष्टं पाषाणतृणलोष्टवत्। द्विष्टं व्युषितमस्वादु पूति चान्नं विवर्जयेत्। चिरसिद्धं स्थिरं शीतमन्नमुष्णीकृतं पुनः। अशान्तमुपदग्धञ्च तथा स्वादु न लक्ष्यते। यद्यत् स्वादुतरं तत्र विदध्यादुत्तरोत्तरम्। प्रक्षालयेदद्भिरास्यं भुञ्जानस्य मुहुर्म्महुः। विशुद्धे रसने तस्मै रोचतेऽन्नमपूर्बवत्। स्वादुना तस्य रसनं प्रथमेनापि तर्पितम्। न तथा स्वादयेदन्यत्तस्मात्प्रक्षाल्यमन्तरा। सौमनस्यं बलं पुष्टिमुत्साहं हर्षणं सुखम्। स्वादु सञ्जनयत्यन्नम स्वादु च विपर्य्ययम्। भुक्त्वा च यत्प्रार्थयते भूयस्तत् स्वादु भोजनम्। अशितश्चोदकं युक्त्या भुञ्जानश्चान्तरा पिवेत्। दन्तान्तरगतं चान्नं शोधनेनाहरेच्छनैः। कुर्य्यादनाहृतं तद्धि मुखस्यानिष्टगन्धताम्। जीर्णेऽन्ने वर्द्धते वायुर्विदग्धे पित्तमेव तु। भुक्तमात्रे कफश्चापि तस्माद्भुक्ते हरेत्कफम्। धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः। पूगकक्कोलकर्पूरलवङ्गसुमनःफलैः। कटुतिक्तकषायैर्वा मुखवैशद्यकारकैः। ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः। भुक्त्वा राजवदासीत यावदन्नक्लमो गतः। ततः पदशतं गत्वा वामपार्श्वे तु संविशेत्। शब्दरूपरसस्पशांन् गन्धांश्च मनसः प्रियान्। भुक्तवानुपसेवेत तेनान्नं साधु तिष्ठति। शब्दरूपरसस्पर्शगन्धाश्चापि जुगुप्सिताः। अशुच्यन्नं तथाभुक्तमतिहास्यञ्च वामयेत्। शयनं चासनं वापि नेच्छेद्वापि द्रवोत्तरम्। नाग्न्यातपौ न प्लवनं न यानं नापि वाहनम्। नचैकरससेवायां प्रसज्येत कदाचन। शाकावरान्नभूयिष्ठमम्लञ्च न समाचरेत्। एकैकशः समस्तान् वा नाप्यश्नोयाद्रसान् सदा। प्राग्भुक्ते त्वविविक्तेऽग्नौ द्विरन्नं न समाचरेत्। पूर्व्वभुक्ते विदग्धेऽन्ने भुञ्जानो हन्ति पावकम्। मात्रागुरुं परिहरेदाहारं द्रव्यतश्च यः। पिष्टान्नं नैव भुञ्जीत मात्रया वा बुभक्षितः। द्विगुणञ्च पिबेत्तोयं सुखं सम्यक् प्रजीर्य्यति। पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरम्। गुरूणामर्द्धसौहित्यं लघूनां तृप्तिरिष्यते। द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते। द्रवाढ्यमपि शुष्कन्तु सम्यगेवोपपच्यते। विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति। पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति। स्रोतस्यन्नवहे पित्तं पक्तो वा यस्य तिष्ठति। विदाहि भुक्तमन्यद्वा तस्या- प्यन्नं विदह्यते। शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत्। आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः। अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः। अत्यम्बुपानाद्विषमाशनाद्वा सन्धारणत्स्वप्नविपर्य्ययाच्च। कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य। ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन रुग्दैन्यनिपीडितेन। प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति। माधुर्य्यमन्नं गतमामसंज्ञं विदग्धसंज्ञं गतमभ्लभावम्। किञ्चिद्विपक्वं भृशतोदशूलं बिष्टब्धमाबद्धविरुद्धवातम्। उद्गारशुद्धावपि भक्तकाङ्क्षा न जायते हृद्गुरुता च यस्य। रसावशेषेण तु सप्रसेकं चतुर्थमेतत् प्रवदन्त्यजीर्णम्। मूर्च्छाप्रलापो वमथुः प्रसेकः सदनं भ्रमः। उपद्रवा भवन्त्येते मरणं चाप्यजीर्णतः। तत्रामे लङ्घनं कार्य्यं विद्गधे वमनं हितम्। विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च। वामयेदाशु तं तस्मादुष्णेन लवणाम्बुना। कार्य्यं चानशनं तावद्यावन्न प्रकृतिं भजेत्। लघुकायमतश्चैनं लङ्घनैः समुपाचरेत्। यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा। हिताहितोपसंयुक्तमन्नं समशनं स्मृतम्। बहु स्तोकमकाले वा विज्ञेयं विषमाशनम्। अजीर्णे भुज्यते यत्तु तदध्यशन मुच्यते। त्रयमेतन्निहन्त्याशु बहून् व्याधीन् करोति च। अन्नं विदग्धं हि नरस्य शीघ्रं शीताम्बुना वै परिपाकमेति। तद्ध्यस्य शैत्येन निहन्ति पित्तमाक्लेदिभावाच्च नयत्यधस्तात्। विदह्यते यस्य तु भुक्तमात्रे दह्येत हृत्कण्ठगलञ्च यस्य। द्राक्षाभयां माक्षिकसम्प्रयुक्तां लीढ्वाभयां वा स सुखंलभेत। भवेदजीर्णं प्रति यस्य शङ्का स्निग्धस्य जन्तोर्बलिनोऽन्नकाले। प्रातःस शुण्ठीमभयामशङ्को भुञ्जीत सम्प्राश्य हितां हितार्थी। स्वल्पं यदा दोषविबद्धमामं लीनं न तेजःपथमावृणोति। भवत्यजीर्णेऽपि तदा बुभुक्षा सा मन्दबुद्धिं विषवन्निहन्ति”। “पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः। विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्द्धयेत्। अविदग्धः कफं, पित्तं विदग्धः पबनं पुनः। सम्यग्विपक्वो निःसार आहारः परिवृंहयेत्। विण्मूत्रमाहारमलः सारः प्रागीरितो रसः। स तु व्यानेन विक्षिप्तः सर्व्वान्धातून् प्रतर्पयेत्। कफः पित्तं मलः शेषः स्वेदः स्यान्नखरोम च। नेत्रविट्त्वक्षु च स्नेहो धातूनां क्रमशोमलाः। दिवाविबुद्धे हृदये जाग्रतः पुण्डरीकवत् अन्नमक्लिन्नधातुत्वादजीर्णे पिहितं निशि। हृदि सन्मीलिते रात्रौ प्रसुप्तस्य विशेषतः। क्लिन्नविस्रधातुत्वादजी- र्णे न हित दिवा” भाव० प्र० भोजनकालदेशपात्रादिभेदंदर्शनपूर्वमेतद्व्याख्या प्रसङ्गात् कृता यथा। “आहारं पचति शिखी दोषानाहारः पवति। दोषक्षये धातून्पचति पचति च धातुक्षये प्राणान्। आहारः प्राणिनां सद्योबलकृद्देहधारणः। स्मृत्यायुःशक्तिवर्ण्णौजःसत्वशोभाविबर्द्धनः। यथोक्तगुणसम्पन्नमुपसेवेत भोजनम्। विचार्य देशकालादीन्कालयोरुभयोरपि”। उभयोःकालयोः प्रातः सायं च। तथा च “सायंप्रातर्मनुष्याणामशनं श्रुतिबोधितम्” नान्तरा भोजनं कुर्य्यादग्निहोत्रसमोविधिः”। प्रातः प्रथमयामादुपरि द्वितीययामादर्व्वाक् तथा च “याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत्। याममध्ये रसोत्पत्तिर्यामयुग्माद्वलक्षयः” अन्यच्च “क्षुत्संभवति पक्वेषु रसदोषमलेषु च। काले वा यदि वाऽकाले सोऽन्नकालौदाहृतः”। रसादौ पाकज्ञानमाह “उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः। लघुताक्षुत्पिपासा च यदा कालः स भोजने”। स्थानमाह “आहारन्तु नरः कुर्य्यान्निर्हारसपि सर्व्वदा। निर्जने लक्ष्म्युपेतः स्यात्प्रकाशे हीयते श्रिया। निर्हारो मलमूत्रोत्सर्गः। अन्यच्च “आहारनिर्हारविहारयोगाः सदैव सद्भिर्विजने विधेयाः” इति। भाजनमाह “दोषहृद्धृष्टिदं पथ्यं हैमं भोजनभाजनम्। रौप्यं भवति चाक्षुष्यं पित्तहृत्कफवातकृत्। कांस्थं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम्। पैत्तलं वातकृद्रूक्षमुष्णं क्रमिकफप्रणुत्। आयसे कान्तपात्रे च भोजनं सिद्धिकारकम्। शोथपाण्डुहरं बल्यं कामलापहमुत्तमे। शैलजे मृण्मये पात्रे भोजन श्रीनि वारणम्। दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च। पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत्। जलपात्रं तु प्रागुक्तं तदभावे मृदोहितम्। पवित्रं शीतलं पात्रं घटितं स्फटिकेन यत्। काचेन रचितं तद्वत्तथा वैदूर्य्यसंभवम्। (प्रागुक्तं सुश्रुते सौवर्ण्णाद्युक्तं तच्चाम्बुशब्दे ३३० पृष्ठे” दर्शितम्)। “भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम्। अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम्” लवणस्य पित्तजनकंत्वादार्द्रकस्य कटुत्वेन पित्तलत्वात् बुभुक्षितस्य वृद्धपित्तस्य कघं प्रथमं लवणार्द्रकभक्षणमुचितम् उच्यते “लवणं सैन्धवं ज्ञेयं चन्दनं रक्तचन्दनमिति” वचनाल्लवणमत्र सैन्धवं तत्त्रिदोषघ्नम् यत आह गुणग्नन्थे “सैन्धवं लवणं स्वादु दीपनं पाचनं लघु। स्निगधं रुच्यं हिमं वृष्यं सूक्ष्मं नेत्र्यं त्रिदोषहृत्” आर्द्रकं तु पित्तविरोधि मधुरपाकित्वात् यत आह तत्रैव “आ- र्द्रिका भेदिनी गुर्व्वी तीक्ष्णोष्णा दीपनी च सा। कटुका मधुरा पाके रूक्षा वातकफापहा”। अन्यदपि लवणार्द्रकं च नात्रपित्तविरोधि संयोगस्वभावात् संयोगस्वरूपञ्चैतादृशं भोजनस्य पूर्ब्बं लवणार्द्रकभक्षणबोधकवचनमेव प्रमाणयति। भोजनादौ दृष्टिदोषविनाशाय ब्रह्मादीन् स्मरेत्। तद्यथा “अन्नं ब्रह्मा रसोविष्णुर्भोक्ता देवो महेश्वरः। इति संचिन्त्य भुञ्जानं दृष्टिदोषो न बाधते। अञ्जनागर्भसंभूतं कुमारं ब्रह्मचारिणम्। दृष्टिदोषविनाशाय हनूमन्तं स्मराम्यहम्” “अश्रीयात्तन्मना भूत्वा पूर्ब्बं तु मधुरं रसम्। मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान्। फलान्यादौ समश्नीयद्दाडिमादीनि बुद्धिमान्। विना मोचाफलं तद्वद्वर्जनीया च कर्क्कटी। मृणालविसशालूककन्देक्षुप्रभृतोन्यपि पूर्ब्बमेव हि भोज्यानि न तु भुक्त्वा कदा चन”। मृणालं पद्मनालं, विसं विसषण्डक, शालूककन्दं प्रसिद्धम्। “गुरु पिष्टमयं द्रव्यं तण्डुलान् पृथुकानपि। न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः। घृतपूर्व्वं सम श्नीयात्कठिनं प्रकृतौमृदु। अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति” अयमर्थः प्राक् घृतपूर्ब्बं कठिनं समश्नीयात् यथाकाश्यादिवासिनः प्रथमं सव्यञ्जनां घृतपूर्वां रोटिकां भुञ्जते ततो मृदुलसूपादिकमोदनं भुञ्जते अन्ते पुनर्द्रवाशिनः भोजनान्ते दधिदुग्धतक्रादि भुञ्जते। “यद्यत् स्वादूत्तरं तद्धि विदध्यादुत्तरोत्तरम्। भुक्त्वा यत्प्रार्थ्यते भूयस्तदुक्तं स्वादु भोज नम्”। स्वाद्वन्यस्य गुणमाह। “सौमनस्यं बलं पुष्टिमुत्साहं रसनासुखम्। स्वादु सञ्जनयत्यन्नमस्वादु च विपर्ययम्”। अत्युष्णान्नं बलं हन्ति शीतं शुष्कं च दुर्ज्जरम्। अतिक्लिन्नं ग्लानिकरं युक्तियुक्त हि भोजनम्। अतिद्रुततयाहारी गुणान् दोषान्न विन्दति। भोज्यं शीतमहृद्यं च स्याद्विलम्बितमश्नतः। त्रिविधं गुरु तन्निवारयन्नाह “मन्दानलो नरो द्रव्यं मात्रागुरु विवर्जयेत् स्वभावतश्च गुरु यत्तथा संस्कारतोगुरु। मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः। संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम्। आहारः षद्विधः श्चूष्यं पेयं लेह्यं तथैव च। भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम्। चूष्यं इक्षुदाडिमादि, पेयं पानकशर्करोदकादि। लेह्यं रसालाक्वथितादि (कडी) इति लोके पसिद्धम्। भोज्यं भक्तसूपादि। भक्ष्यं लड्डुकमण्डकादि (खरं विशदमव्यवहार्य्यंभक्ष्यमितिपात० भा०)। चर्व्यं चिपिटचणकादि। स्वभावगुरुसंस्कारगुरुणोः स्वभावलघुनश्च भक्ष्यस्य भोजनपरिमाणमाह “गुरूणामर्द्धसौहित्यं लघूनां तृप्तिरिष्यते” अयमर्थः मांसपिष्टान्नादिभिरर्द्धं सौहित्यं कर्त्तव्य मुद्गादिभिः स्वाभाविक्या मात्रया तृप्तिः कर्त्तव्येति। “द्रवोद्रवोत्तर श्चापि न मात्रागुरुरिष्यते”। द्रवः पेयादिर्द्रवोत्तरः तक्राद्यधिक ओदनादिः मात्रातोधिकोऽपि मात्रागुरुर्न्न मन्तव्यः पेयस्य सर्वतोलघुत्वात् उक्तञ्च सुश्रुते “पेयलेह्याद्यभक्ष्यणां गुरु विद्याद्यथोत्तरमिति” पेयं क्षीरादि लेह्यं रसालादि आद्यम् ओद्रनसूपादि भक्ष्यं मोदकादि “द्रवाढ्यमपि शुष्कं तु सम्यगेवोपपच्यते। विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति”। अयमर्थः शुष्कमपि स्रोतोरोधकरमपि द्रवाढ्यं सम्यक् पाकं याति। केवलस्य शुष्स्यान्नस्य दोषमाह विशुष्कमन्नमित्यादि। अपक्वं तत् किं भवतीत्यपेक्षायामाह “पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति” पिण्डीकृतम् अष्ठीलावद्भूतम् असंक्लिन्नमसम्पगार्द्रं विदाहमुपगच्छति विदग्धं भवतीत्थर्थः। शुष्कादीनां वैगुण्यमाह “शुष्कं विरुद्धं विष्टम्भि वह्निव्यापदमावहेत्” शुष्कञ्चिपिटादि विरुद्धं क्षीरमत्स्यादि, विष्टम्भि चणकमसूरादि, वह्निमान्द्यङ्कुर्य्यात्। “न भक्त्वा न रदैश्छित्वा, न निशायां न वा बहून्। न जलान्तरितानद्भिःसक्तूनद्यान्न केवलान्। पुनर्द्दानं पृथक्पानं सामिषम्पयसा निशि। दन्तच्छेदनमुष्णं च सप्त सक्तुषु वर्जयेत्” विषमाशनस्य लक्षणमाह। “बहु स्तोकमकाले वा ज्ञेयं तद्विषमाशनम्” बहुलाल्पस्य भक्षितस्य दोषमाह “आलस्यगौरवाटोपशब्दांश्च कुरुतेऽधिकम्। हीनमात्रमसन्तोषं करोति च बलक्षयम्” अधिकमन्नम्। अकाले भुक्तेर्दोषमाह “अप्राप्तकाले भुञ्जानो ह्यसमर्थतनुर्न्नरः तांस्तान् व्याधीनवाप्नोति मरणञ्चाधिगच्छति” अप्राप्तकाले कालादतिप्राक् भुञ्जानः असमर्थशरीरो भवति तथा सति तांस्तान् व्याधीन् शिरोव्यथाविसूचिकाऽलसकविलम्बिकादीन् आप्नोति तेषामाधिक्ये मरणमपि प्राप्नोतीत्यर्थः “कालेऽतीतेऽश्नतोजन्तोर्वायुनोपहतेऽनले। कृच्छ्राद्विपच्यते भोक्तुर्न स्याद्भोक्तुं पुनः स्पृहा”। कुक्षेर्भागद्वयं भोज्यैस्तृतीये वारि पूरयेत्। वायोः सञ्चारणार्थाय चतुर्थमवशेषयेत्”। “रसेनान्नस्य रसना प्रथमेनोपतर्पिता। न तथा स्वादुमाप्नोति यथा सेव्याम्बुनान्तरा” “अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः। तस्मान्नरो वह्निविवर्द्धनाय मुहुर्मुहुर्वारि पिबेदभूरि। भक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत्। मध्येऽग्नि दोषनं श्रेष्ठमन्ते स्थौल्यकफप्रदम्। अन्यच्च “समस्थूलकशा भुक्तमध्यान्तप्रथमाम्बुपाः” इति वाग्भटः” भुक्तं भोजनम् “तृषितस्तु न चाश्नीयात् क्षुधितो न पिबेज्जलम्। तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी। ननु शिष्टा भोजनान्ते दुग्ध पिबन्ति तत्कथमुचितं यतस्त्रिधा विभक्तस्य भोजनकालस्य प्रथमो भागोवातस्य, द्वितीयः पित्तस्य, तृतीयः कफस्य, यत आह “अश्रीयात्तन्मना भूत्वा पूर्वं तु मधुरं रसम्। मध्येऽम्ललवणौ पश्चात्कटुतिक्तकषायकान्” अस्यायमभिप्रायः भोजने पूर्ब्बं भुक्तो मधुरो रसो बुभुणितस्य वातपित्तयोः शमको भवति। भोजनमध्ये भुक्ते अम्ललवणे पित्तोपशमनेन वह्निवृद्धिं कुरुतः। भोजनान्त्यसमये भुक्ताः कटुतिक्तकषाया रसाः कफं शमयन्तीति। अतोभोजनावसानसमयस्य कफकालत्वात् तत्र कथं श्लेष्मजनकं दुग्धं पातुनुचितं भवति। यतौक्तम्। “दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्द्धनम्। वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलमिति” उच्यते “विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः। तद्विदाहोप्रशान्त्यर्थं भोजनान्ते पयः पिवेत्” अतएव ब्रह्मपुराणे “कुर्य्यात् क्षीरान्तमाहारं न दध्यन्तं कदाचनेति लवणाम्लकदुष्टानि विदाहीन्यपि यानि तु। तद्दोषं हर्तुमाहारं मधुरेण समापयेदिति” भोजनावसानसमये दुग्धादिमधुरभोजने वातकफोपशमनेन लवणाम्लकटुभोजनजनितां पित्तस्य वृद्धिं नाशयति पित्तवृद्धिनाशनेन च पित्तवृद्धिरुपक्षीणा भवतीति कफवृद्धिरग्निमान्द्यादीनुत्पादयितुं न शक्नोति”।

आह्निकतत्त्वेस्मार्त्ताहारविधिरुक्तो यथा विष्णुपु०। “स केवलमघं भुङ्क्तेयोभुङ्क्तेत्वतिथिंविना। अघं स केवलं भुङ्क्तेयः पचत्यात्मकारणात्। इन्द्रियप्रीतिजननं वृथापाक विवर्जयेत्” तथा “सुवासिनीर्दुःखिनश्च गर्भिणीवृद्धबालकान् भोजयेत्। सस्कृतान्नेन प्रथमं, चरमं गृही। अभुक्तवत्सु चैतेषु भुञ्जन् भुङ्क्तेऽतिदुष्कृतिम्। मृतश्च नरकं गत्वा श्लेष्मभुग्जायते नरः। अस्नात्वाशी मलं मुङ्क्षे अजप्त्वा पूयशोणितम्। अहुत्वा च कृमिं भुङ्क्ते अदत्त्वा विषभोजनम् असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत्। भुञ्जतश्च यथा पुंसः पापबन्धोन जायते। इह चारोग्यमतुलं बलवृद्धिस्तथा नृप”!। तथा “प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतोगृही। अन्नं प्रशस्तं पथ्यञ्च प्रोक्षितं प्रोक्षणोदकैः। न कुत्सिताहृतं नैव जुगुप्सावदसंस्कृतम्”। विष्णुपु० “मन्त्राभिमन्त्रित शस्तं न च पर्युषितं नृप!। अन्यत्र फलमांसेभ्यः शुष्कशाकादिकात्तथा। तद्वद्वादरिकेभ्यश्च गुडपक्वेभ्यएव च। भुञ्जीतोद्धृतसाराणि न कदाचिन्नरेश्वर!। नाशेषं पुरुषोऽशीयादन्यत्र जगतीपते!। मध्वन्नदधिसर्पिर्भ्यः सक्तुभ्यश्च विवेकवान्। अश्नीयात्तन्मना भूत्वा पूर्बन्तु मधुरं रसम्। लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्ततः। प्राग्द्रवं पुरुषोऽश्नन् वै मध्ये च कठिनाशनः। पुनरन्ते द्रवाशी तु वलारोग्ये न मुञ्चति। अनिन्द्यं भक्षयेदित्यं वाग्यतोऽन्नमकुत्सयन्। पञ्च ग्रासान् महामौनं। प्राणाद्याप्ययनाय तत्”। मन्त्राभिमन्त्रितमिति मन्त्रानादेशे गायत्रीति वचनात् गायत्र्यभिमन्त्रितम्। गारुडे “शाकं सूपञ्च भूयिष्ठं अत्यम्लञ्च विवर्जयेत्। नचैकरससेवायां प्रसज्येत कदाचन”। छन्दोग० प०। “मुनिभिर्द्विरशनमुक्तं विप्राणां मर्त्यवासिनां नित्यम्। अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः”। अहनि अचिरो दितास्तमितसूर्य्येतरदिनमात्रे। तत्राप्यायुर्वेदीयेविशेषः। “याममध्ये न भोक्तव्यं त्रियामन्तु न लङ्घयेत्”। याममध्ये रसस्तिष्ठेत्त्रियामे तु रसक्षयः”। तत्रापि पञ्चमयामार्द्धोमुख्यकालो दक्षवचनात् (तच्चाह्निकशब्दे ९०६ पृष्ठे वक्ष्यते त्रियामन्त्वित्रद्वियाममित्येवायुर्वेदोये पाठः। दक्षवचनानुरोधात् त्रियाममिति पाटकल्पनं बोध्यम्)। महामौनं हुङ्कारादिरहितम्। तथाचात्रिः “मौनव्रत महाकष्टंहुङ्कारेणैव नश्यति। तथासति महान् दोषस्तस्मात्तु नियतश्चरेत्। एष क्रमः पौराणिकत्वात् सर्व्वसाधारणः। विष्णुः। “न तृतीयमथाश्नीयादापद्यपि कदाचन”। गोतासु। “आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः। कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहारा राजसस्येष्टा दुःखशोकामयप्रदाः। यातयामं गतरसं पूतिपर्य्युषितञ्च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्” मनुः। “आयुष्यं प्राङ्मुखोभुङ्क्ते यशस्यं दक्षिणामुखः। श्रियः प्रत्यङ्मुखोभुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः”। नियमे त्वेवम् अनियमे तु नोदङ्मुखः। हारीतः “नोदङ्मुखोऽश्नीयात्”। निष्कामस्य तु प्राङ्मुखेनैव यथाह देवलः। “प्राङ्मुखोऽन्नानि भुञ्जीत शुचिःपीठमधिष्ठितः। विशुद्धवदनःप्रीतोभुञ्जीत न विदिङ्मुखः”। जीवन्मातृकस्य दक्षिणामुखत्वनिषेधमाह आप० “दक्षिणामुखोन भुञ्जोत एवंविधभोजनमनायुष्यं मातुरुपदिशति”। चित्तु “कुहूस्नानं नयाश्राद्धं तिलैस्तर्पणमेव च। न जीवत्पितृकः कुर्य्याद्दक्षिणामुखभोजनम्” इत्याचार रत्नाकरधृताज्जीवत्पितृकस्यापि निषेध इत्याहुः। व्यासः “पञ्चार्द्रोभोजनं कुर्य्यात् प्राङ्मुखोमौनमास्थितः। हस्तौ पादौ तथैवास्यमेषु पञ्चार्द्रता मता”। व्यासः “अप्येकपङ्क्त्यां नाश्नीयात् संवृतः स्वजनैरपि। कोहि जानाति किं कस्य प्रच्छन्नं पातकं महत्। भस्मस्तम्बजलद्वार मार्गैः पङ्क्तिञ्च भेदयेत्”। जलादिना पङ्क्तिभेदाकरणे तु शङ्खः। “एकपङ्क्त्युपविष्टानां विप्राणां सहभोजने। यद्योकोऽपि त्यजेत् पात्रं शेषमन्नं विवर्जयेत्। मोहात् भुञ्जीत यः पङ्क्त्यामुच्छिष्टसहभोजनम्। प्राजापत्यं चरेद्विप्रः क्षत्रः सान्तपनन्तथा”!। एतत्समानार्थमभिधायाह गोभिलः। “भुञ्जानेषु तु विप्रेषु यस्तु पात्रं परित्यजेत्। भोजने विघ्नकर्त्तासौ ब्रह्महापि तथोच्यते”। आप० “दिवा पुनर्न भुञ्जीतान्यत्र फलमूलेभ्यः”। मनुः “नातिप्रगे नातिसायं न सायं प्रातराशितः” अतिप्रगेऽचिरोदितसूर्य्ये अतिसायं सूर्य्यास्तमितसमये एवं प्रातराशितः दिनभोजनेनातितृप्तः न सायं न रात्रौ भुञ्जीतेत्यर्थः। आप० “यस्तु भोजनशालायां भीक्तुकामौपस्पृशेत्। आसनस्थोनचान्यत्र स विप्रः पङ्क्तिदूषकः” बौधा० “उपलिप्ते समे स्थाने शुचौ लघ्वासनान्विते। चतुरस्रं त्रिकोणञ्च वर्त्तुलञ्चार्द्धचन्द्रकम्। कर्त्तव्यमानुपूर्व्येण ब्राह्माणादिषु मण्डलम्”। “अकृत्वा मण्डलं ये तु भुञ्जतेऽधमयोनयः। तेषान्तु यक्षरक्षांसि हरन्त्यन्नानि तद्बलात्”। आप०। “भिन्नकांस्ये तु योविप्रोयदि भुङ्क्ते तु कामतः। उपवासेन चैकेन पञ्चगव्येन शुद्ध्यति” तथा शूद्रादिभोजनेनापरिष्कृतपात्रेऽपि वृद्धमनुः “ताम्र पात्रे न भुञ्जीत भिन्नकांस्ये मलाविले। पलाशपद्मपत्रेषु गृही भुक्त्वैन्द्रंवं चरेत्”। नव्यवर्द्धमानधृताग्निपु० “अर्कपत्रे तथा पृष्ठे आयसे ताम्रभाजने। करे कर्पटके चैव भुक्त्वा चान्द्रायणञ्चरेत्”। पृष्ठे कदलीपत्रादिपृष्ठे। पैठी० “ताम्ररजतसुवर्णाश्मशङ्खशुक्तिस्फटिकानां भिन्नमभिन्नमिति न दोषः”। अत्र पाषाणपात्रं भोजने विहितम्। “तैजसानां मणीनाञ्च सर्व्वस्याश्ममयस्य च। भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः” इति मनुना पाषाणपात्रस्य शुद्धिविधानाच्च। प्रचेताः “ताम्बूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम्। यतिश्च ब्रह्मचारी च विधवा च विवर्जयेत्”। अत्रिः “आसने पादमारोप्य योभुङ्क्ते ब्राह्मणः क्वचित्। मुखेन चान्नमश्नाति तुल्यं गोमांसभक्षणैः”। मुखेन हस्तोत्तोलनं विना गवादिवदित्यर्थः। आश्वमेधिके “आर्द्रपादस्तु भुञ्जीत प्राङ्मुखश्चासने शुचौ। पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः”। बौधा० “भोजनं हवनं दानमुपहारः परिग्रहः। बहिर्जानु न कार्य्याणि तद्वदाचमनं स्मृतम्” हारीतः “मार्जनार्च्चाबलिकर्म्मभोजनानि दैवतीर्थेन कुर्य्यात्”। पराशरभा० वृद्धमनुः “न पिबेन्नच भुञ्जीत द्विजः सव्येन पाणिना। नैकहस्तेन च जलं शूद्रेणावर्जितं पिबेत्”। मार्क० पु० “पादप्रसारणं कृत्वा न च वेष्टितमस्तकः”। मनुः “पूजयेदशनं नित्यं चाद्याच्चैवमकुत्सयन्। दृष्ट्वा हृष्येत् प्रसीदेच्च प्रणमेच्चैव सर्व्वदा। अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः प्रार्थयेत्ततः। अस्माकं नित्यमस्त्वेतदिति भक्त्याथ वन्दयेत्”। विष्णुपु० “नागः कूर्म्मश्च क्रकरो देवदत्तोधनञ्जयः। बहिःस्था वायवः पञ्च तेषां भूमौ प्रदीयते। अदत्त्वा बाह्य वायुभ्यः प्राणादिभ्यो न होमयेत्”। इति शिष्टपठितवचनान्नागादिभ्योबलिदानमिति प्राचीनाचारः। तत्रान्नं देवेभ्योदत्त्वैव भोक्तव्यं तथा च गीता “इष्टान् भोगान् हि वोदेवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्योयोभुङ्क्ते स्तेन एव सः”। यज्ञैः भाविता संवर्द्धिताः वोयुष्मभ्यं भोगानन्नादीन् वृष्ट्यादिद्वारा दास्यन्ति अतो देवैर्दत्तान् अन्नादीन् तेम्योऽदत्त्वा योभुङ्क्ते स चौर एव। स्मृतिः “निवेद्य प्राशनात् पूर्व्वं देवपादोदकाहुतिः। होतव्या जठरे वह्नौ स्वेन पाणितलेन तु”। तेन पादोदकेनापोशानं कृत्वा प्राणाहुतिर्नैवेद्येन कार्य्या। स्वदतनैवेद्यभक्षणन्तु पश्चादुपपादयिष्यते। ब्रह्मपु० “आपोशानञ्च गृह्णीयात् सर्व्वतोर्थमयञ्च यत्। अमृतोपस्तरणमसि विष्णोरन्नमयस्य च। अत्र चास्तरणार्थन्तु प्राश्यते ह्यमृतं सकृत्। अमृतोपस्तरणमसि स्वाहेति च समुद्धरेत्”। सन्ध्यापद्धतौ लिखितवचनं प्रमाणयन्तोऽसीत्येतदनन्तरं स्वाहाकारं कुर्व्वन्ति। ब्रह्मपु० “हस्तेन लङ्घयेन्नान्नं नोदकेन कदाचन। दम्भाद्योलङ्घ येम्भुञ्जस्तेनान्नं निहतं भवेत्। हतञ्चान्नमभक्ष्यत्वं तस्य याति दुरात्मनः। प्राणेभ्यस्त्वथ पञ्चभ्यः स्वाहाप्रणवसंयुताः। पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषु च। प्राणाहुतिमुद्रामाह शौनकः। “तर्जनीमध्यमाङ्गुष्ठैर्लग्ना प्राणाहुतिर्भवेत्। मध्यमानामिकाङ्गुष्ठैरपाने जुहुया त्ततः। कनिष्ठानामिकाङ्गुष्ठैर्व्याने च जुहुयाद्धविः। तर्ज नीन्तु अहिष्कृत्वा उदाने जुहुयात्ततः। समाने सर्व्वहस्तेन समुदायाहुतिर्भंवेत्”। स्मृत्यर्थसारे। “प्राणाहुतौ घृता- भावे पश्चाद्भुञ्जीत नो घृतम्”। देवलः “न भुञ्जीत घृतं नित्यं गृहस्थो भोजनद्वये। पवित्रमथ जुष्टञ्च सर्पिराहुरघापहम्”। काशी० “दर्भपाणिस्तु योभुङ्क्षेतस्य दोषोन बाधते। केशकीठादिसम्भूतस्ततोऽश्नीयात् सदर्भकः। यावदेवान्नमश्नीयान्न ब्रूयात्तद्गुणागुणान्। अतोमौनेनयोभुङ्क्षे स भुङ्क्ते केवलामृतम्”। मनुः “स्वाध्याये भोजने चैव दक्षिणं पाणिपुड्वरेत्”। उड्वरेद्वस्त्राद्बहिः कुर्य्यादित्यर्थः। बौधा० “आचम्प संवृते देशे उपविश्यान्नं संगृंह्य सर्व्वाङ्गुलीभिरशब्दमश्नीयात्”। संगृह्य अन्नपात्रं सम्यक्स्पृष्ट्वेत्यर्थः। काशी० “प्रदद्याम्भुवः पतये भुवनपतये तथा। भूतानां पतये स्वाहेत्युक्त्वा भूमौ बलित्रयम्। आपोशानं विधानेन कृत्वाश्नीयात् सुधीर्द्विजः”। ब्रह्मपु० “तेजोसीति जपस्त्वन्नं प्रणमेदमृतञ्च यत्। आपोशानञ्च गृह्णीयात् सर्व्वतीर्थमयञ्च यत्। अमृतोपस्तरणमसि विष्णोरन्नमयस्य च”। अन्नमयस्य विष्णोर्यदास्तरणमसीत्यर्थः ततश्च तेजोसीति नमस्कृत्य भुञ्जीतेत्यर्थः। भविष्यो० “स्नातस्तु वरुणस्तेजी जुह्वतोऽग्निः श्रियं हरेत्। भुञ्जानस्य यमस्त्वायुस्तस्मान्नव्याहरेत्त्रिषु”। मौने विशेषमाह आप०। “तत्र त्रैविद्यवृद्धैर्मुनिभिरन्यैराश्रमिभिर्बहुश्रुतैर्दन्तैर्दन्तानसन्धायान्तर्मुख एव यावद्यावदर्थं भाषेत न मन्त्रलोपोभवतीतिविज्ञायते इति” मन्त्रलोपोमौनब्रतलोपः। ब्रह्मपु० “यस्तु पाणितले भुङ्क्ते यस्तु हुङ्कारसंयुतम्। प्रसृताङ्गुलिभिर्यस्तु तस्य गोमांसवद्भवेत्। करेण च पिबेत्तोयं यावन्मांसं न भक्षयेत्। मांसलिप्तकरे तोयं तुल्यं गोमांसभक्षणैः”। अत्र मांसलिप्तकरेण जलपाननिषेधात् मांसलिप्तकरं प्रलाल्यैवापोशनं कर्त्तव्यम्। प्रत्यापोशाने तु हस्तप्रक्षालननिषेधात् मांसलिप्तकरं प्रक्षाल्य पुनरन्नलिप्त करेण प्रत्यापोशानं कर्त्तव्यम्। षट् त्रि० “पिबतो यत् पतेत्तोयं भाजने मुस्वनिःसृतम्। अभक्ष्यं तद्भवेदन्नं भुक्त्वा चान्द्रायणञ्चरेत्। वामपार्श्वेस्थिते तोये योभुङ्क्ते ज्ञानदुर्बलः। ग्रासे ग्रासे मलं भुक्त्वा पानीयं रुधिरं पिबेत्। विद्यमाने तु हस्ते तु व्राह्मणोज्ञानदुर्बलः। तोयं पिबति वक्त्रेण श्वादिर्जायेत नात्यथा। उद्धृत्य वामहस्तेन यत्तोयं पिवति द्विजः। सुरापानेन तुल्यं स्यात् मनुराह प्रजापतिः”। वामहस्तेन केवलवामहस्तेन। अतएव “पीतशेषन्तु यत्तोयं तत्पिबेन्न द्विजोत्तमः”। “पीतशेषं पिबेन्नैव” इति ब्रह्मपु० अविशेषात् सर्व्वं निषिद्धम्”। व्रह्म० “तिलकल्कं जलं क्षीरं दधि क्षौद्र घृतानि च। न त्यजेदर्द्धजग्धानि सक्तुं शाकं कदाचन”। भारते “पानीयं पायसं सर्पिर्दधिक्षौद्रघृतान्यपि। निरश्यं शेषमेतेषां न प्रदेयन्तु कस्यचित्”। एतन्न त्याज्यं अशक्तौ कस्यचिन्न देयमित्यर्थः। निरश्यं निःशेषमशनीयमित्यर्थः। तथा “अन्नं प्रशस्तं पथ्यञ्च प्रोक्षितं प्रोक्षणोदकैः”। इति प्रागुक्तविष्णुपुराणाद्युक्तेतरभक्षणे दोषमाह मनुः “आलस्यादन्नदोषाच्च मृत्युर्वि प्रान् जिघांसति”। अन्नदोषस्त्रिविधः दृष्टद्वारकः अदृष्ट द्वारकः दृष्टादृष्टद्वारकः। दृष्टद्वारकआयुर्व्वेदोक्तः। अदृष्टद्वारकः स्मृत्युक्तः। उभयत्रोक्तास्तु बालवत्साविवत्सादुग्धादिदोषा दृष्टा दृष्टद्वारकाः। अतएव मनुनैवोक्तम् “स्वाध्याये चैव युक्तः स्यात् नित्यमात्महितेषु च” युक्त उद्घुक्तः। हारीतः “पृथक् पानं पुनर्दानमामिषं पायसानि च। दन्तच्छेदनमुष्णञ्च सप्त सक्तुषु वर्जयेत्”।

सचाहारस्त्रिविधः सात्विकराजसतामसभेदात् यथोक्तं गीतायाम् “आहारस्त्वपि सर्वस्य त्रिविधोभवति प्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु” इत्युपक्रम्य “आयुःसत्त्वेत्यादि” तच्च वाक्यम् आ० त० ९०१ पृष्ठे दर्शितम्”। अत्र सर्व्वत्र “कृदभिहितोभावोद्रव्यवत् प्रकाशते” इति भाष्योक्तेः आह्रियते भुज्यते कर्म्मणि घञि वा आहारशब्दस्य भक्ष्यपरत्वम् अतएव भावप्र० “आहारः षडिवधश्चूष्यमित्यादि” ८९९ पृष्ठेउक्तम्। स च षोढा “आहार्य्यंषड्विधं भोज्य भक्ष्यं चर्व्यं तथैव च। लेह्यं चूष्यं तथा पेयं तदुदाहारणानि तु। भोज्यमोदनपूपादि भक्ष्यमोदनमण्डके। चर्व्यं चिपिटधानादि रसालादि तु लिह्यते। चूष्यमाम्रफलेक्ष्वादि षीयते पानकं पयः” भाप्रप्र० उक्तेः। आह्रियते इत्याहारः। ३ शब्दादिविषयज्ञाने च आहारशुद्धि शब्देशा० भा० वाक्यम् उदा०।

आहारपाक = पु० आहारस्य भक्ष्यस्य पाकः रसादिभावेन परिणामः। वैद्यकोक्ते भुक्तस्यान्नादेराहारस्य रसादिरूपेण परिणामरूपे पाकभेदे तत्पाकप्रकारः पदार्थादर्शधृतयगार्ण्णववाक्ये उक्तः तच्च आग्निशब्दे ४९ पृष्ठे दर्शितम्। भावप्रकाशोक्तस्तत्प्रकारस्तु असृक्करशब्दे ४५८ पृष्ठे उक्तः।

आहारशुद्धि = स्त्री आहारस्य भक्ष्यादेः शुद्धिः। १ भक्ष्यादिद्रव्यस्य १ शुद्धौ सा च शुद्धिः स्मृत्युक्तदिशाऽवसेया। सा च अभक्ष्यमर्ज्जनेन भक्ष्यभोजनएप भवति। अभक्ष्याणि च अभक्ष्यशब्दे २७४ पृष्ठे उक्तानि। आहारदोषनिवारणार्था शुद्धिः। २ दुष्टाहारजन्यदोषनिवारणार्थायां शुद्धौ प्रायश्चित्ते। “आहारशुद्धि वक्ष्यामि तन्मे निगदतः शृणु। अक्षारलवणं भैक्ष्यं पिबेद्ब्राह्मीं सुर्व्वसम्” इत्यादिना अत्रिस० दर्शिता। ३ शब्दादिविषयज्ञानशुद्धौ च “आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः” छा० उ०। “आह्रियते इत्याहारः शब्दादिविषयज्ञानम् तद्धि भोक्तुर्भोगायाह्रियते तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धि राहारशुद्धिः रागद्वेषमोहदोषैरसंसृष्टविषयविज्ञानमित्यनर्थान्तरं तस्याहारस्य शुद्धौ सत्यां तद्वतोऽन्तःकरण सत्त्वस्य शुद्धिर्नैर्मल्यं भवति” भाष्यम्। आहारशब्दस्य भक्ष्यार्थतामपहाय तथा व्याख्यानं तु “रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन्” इति गीतोक्तिमनुसृत्यैवेति आनन्दगिरिः।

आहारसम्भव = पु० आहारात् भोज्यद्रव्यात् सम्भवति सम् + भू–अच्। आहारपाकजे देहस्थे रसधातौ। रसस्य यथाऽऽहारजत्वं तथाऽसृक्करशब्दे ४५८ पृष्ठे उक्तम्।

आहार्य्य = त्रि० आ + हृ–ण्यत्। १ आहरणीये “अथ मूलमनाहार्य्यं प्रकाशक्रयशोधनम्” मनुः। २ व्याप्ये “कार्य्यञ्च तस्य दशधाहार्य्यं धार्य्यं प्रकाश्यञ्च” सा० का० “आहार्य्यं व्याप्यं कर्म्मेन्द्रियाणां वचनादानविहरणोत्सर्गानन्दा यथा यथं व्याप्यास्ते च यथायथं दिव्यादिव्यतया दशेत्याहार्य्यं दशधेति” सां० कौ०। कृत्रिमे “आहार्य्यशाभारहितैरमायैः” भट्टिः। स्वार्थे कन् तत्रैव “आहार्य्यकमपि तस्याः सहजमिवाशोमत” ७, २१, कुमा० मल्लि०। ४ लौकिके ५ औपासनिकेऽग्नौ च “आहार्य्येणानाहिताग्निम्” “पत्नीञ्च” आश्र० श्रौ०। “येनाहिताग्निना सर्व्वाधानं कृतं तस्य पत्नों लोकिकेन, यस्यौपासनश्चास्ति तस्य पत्नीमौपसनिकेन दहेयुः” नारा०। ६ इच्छाप्रयोज्यारोपेण विषयीकार्य्योबाधनिश्चयकालिके तद्धर्म्माभाववति तद्धर्म्मवत्त्वेन ज्ञेये। भावे क्त। ७ तादृशज्ञाने न०। यथा निर्वह्निः पर्व्वतो वह्निमानिति ज्ञानं तच्च वह्न्यभाववति पर्वते वह्निप्रकारकत्वात् इच्छाप्रयोज्यत्वाच्च आहार्य्यम्। तच्च प्रत्यक्षमेव तदभाववत्त्वेन निश्चितेऽपि धर्म्मिणि तद्बोधस्य इच्छाप्रयोज्यत्वात् “परोक्षज्ञानम् अनाहार्य्यम् निश्चयश्चेति सिद्धान्तः” चिन्ता०। “शाब्दबोधोऽप्याहार्य्योभवत्यालङ्कारिका यथा अयं मुखमित्यादौ चन्द्रभिन्ने मुखे चन्द्राभेदज्ञानम् तच्चाहार्य्यमेव ८०४ पृ० आरो- पशब्देऽधिकमुक्तम्। “भवेदभिनयोऽवस्थानुकारः स चतुर्विधः। आङ्गिकोवाचिकश्चैवमाहाय्यः सात्विकस्तथा” सा० द० उक्ते नटादिभिरात्मनि कर्त्तव्ये रामाद्यारोपहेतुके ८ अभिनयभेदे च। आ + हृ–कर्म्मणि ण्यत् उपसर्गयोगात् ९ भक्ष्ये “आहार्य्यं षड्विधं भक्ष्यमित्यादि” भाव० प्र०।

आहाव = पु० आ + ह्वे + घञ् संप्रसारणे वृद्धिः। कूपसमीपे गवादीनां जलपानाय प्रस्तरादिना रविते (खाल) १ क्षुद्रजलाशये निपाने “प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः” भट्टिः। “आहावमुदकाधारम्” जयन० “निपानमाहावः” पा०। २ युद्धे। भावे घञ्। ३ आह्वाने आ + हु–आधारे घञ्। ४ अग्नौ। “नाभिं यज्ञानां सदनं रयीणां महामाहावभि संनवन्त” ऋ० ६, ७, २। आहूयतेऽस्मिन्नाहा वमग्निम् वृष्ट्युदकधारणमाहावं निपानास्थानीयं वा” भा०। आ + ह्वे–भावे करणे वा घञ्। ५ मन्त्रविशेषेणाह्वाने ६ आह्वानसाधने मन्त्रभेदे च “आदौ निविद्धानीयानां सूक्तानामनेकञ्चेत् प्रथमेष्वाहावः” आश्व० श्रौ०। “तस्यानेकत्वे प्रथम एवाहावः” वृत्तिः “तृतीयसवने शस्त्रादिष्वाहावः आश्व० श्रौ०। “एषु आहावः प्रातः सवनेन शास्त्रादिषु” आ० श्रौ०। “एषु स्थानेषु ऋगक्षरेणाह्वाने विहिते शींसावोमित्यनेनैवाह्वानं कुर्य्यात् नान्ये नेति नियम्यते” वृत्तिः “शों सामों दैवेत्याहावे” आश्व० श्रौ० प्रतिगरसंज्ञार्थमिमे सूत्रे।

आहिंसि = पुंस्त्री अहिंसस्यापत्यम् इञ्। अहिंसकापत्ये ततः युवापत्ये फक् तौल्व० तस्य न लुक्। आहिंसायनः तत्पौत्रे।

आहिक = पु० अहिरिव कन् स्वार्थे अण्। १ केतुग्रहे हेमच० तस्य सर्पतुल्याकृतित्वात्तथात्वम्। २ पाणिनिमुनौ च त्रिका०।

आहिच्छत्र = त्रि० अहिच्छत्रदेशे भवः अण्। अहिच्छत्रदेशे भवे

आहिण्डिक = पु० निषादेन वैदेह्यां जनिते अन्त्यजवर्ण्णसङ्करभेदे “आहिण्डिको निषादेन वैदेह्यामेव जायते” मनुः। “बाह्यसंरक्षणादावाहिण्डिकानाम्” औशनससूत्रोक्ता तद्वृत्तिर्ज्ञोया।

आहित = त्रि० आ + धा–क्त ह्यादेशः। १ न्यस्ते, २ स्थापिते, ३ अर्पिते। “व्यावर्त्तनैरहिपतेरयमाहिताङ्कः” किरा० ४ कृते, ५ कृताधानसंस्कारे च “प्रणीताश्चाप्रणीतश्च यथाऽग्निदैवतं नृणाम्” मनुव्या० “आहितोऽनाहितोवाग्निरिति” कुल्लू०।

आहितलक्षण = त्रि० आहितं उक्षणं यस्य। १ गुणादिद्वारा विख्याते २ न्यस्तचिह्ने च।

आहिताग्नि = त्रि० आहितोऽग्निर्येन। वेदमन्त्रादिना कृत संस्काराग्नियुक्ते तदाधानप्रकारः आधानशब्दे ७०८ पृष्ठे उक्तप्रायः। आश्व० श्रौ० २ प्र० २ क० विस्तरेणोक्तः। “न दर्शेन विना श्राद्ध्वमाहिताग्नेर्द्विजन्मनः” मनुः। “गुरोरपीदं धनमाहिताग्नेः” रघुः। “आहिताग्निः सन्नव्रत्यमिदं चरेत्” तैत्ति० “न वाऽऽहिताग्निनानृतं वदितव्यम्” शत० ब्रा० २, २, २, २०। “देवान् वा एष उपावर्त्तते य आहिताग्निर्भवति” ऐत० ब्रा०। आहार्य्येणैवानाहिताग्निम्” आश्व० श्रौ०। वा परनिपाते अग्न्याहितोऽप्यत्र।

आहिताग्निगण = पु० पाणिन्युक्ते वा परनिपातार्थे शब्दसमूहभेदे। स च गणः आहिताग्नि जातपुत्र जातदन्त जातश्मश्रु तैलपीत मृतपीत मद्यपीत ऊढभार्य्य गतार्थ” “आकृतिगणः तेनान्येऽपि” सि० कौ०।

आहिति = स्त्री आ + धा क्तिन् ह्यादेशः। १ स्थापने २ आधाने मन्त्रेणाग्न्यादेः संस्कारे ३ आहुतौ च। “तस्मिन् यत्किञ्चात्यादध्यादाहितय एव ताः आहितयोह वै ता आहुतय इत्याचक्षते” शत० ब्रा० १०, ६, २, २२,।

आहितुण्डिक = त्रि० अहितुण्डेन दीव्यति ठक्। व्यालग्राहिणि (सापुडे)।

आहिमत = त्रि० अहिमतोऽदूरभवः अण्। सर्पविशिष्टदेशादूरभवे।

आहुक = पु० यदुवंश्ये क्षत्रियमेदे स च वसुदेवएव। “केशवोऽषि मुदा युक्तः प्रविवेश पुरोत्तमम्। पूज्यमानो यदुश्रेष्ठैरुग्रसेनमुखैस्तथा। आहुकं पितरं वृद्धं मातरंच यशस्विनीम्। अभिवाद्य बलञ्चैव स्थितः कमललोचनः” इति भा० सभा० २ अ०। अत्र केशबपितृत्वेन कीर्त्तनात् वसुदेवस्य नामान्तरत्वं तस्य प्रतीयते “एवं आहुकश्चाहुकी चैव ख्यातौ ख्यातिमतांवरौ” हरि० ३८ अ०। एवमाहुकिन् तद्वंश्येक्षत्रिये पु०।

आहुत = न० उद्देश्यस्याभिमुख्येन साक्षादेव हुतं दत्तम् आ + हु–क्त। गृहस्थकर्त्तव्येषु पञ्चसु यज्ञेषु १ मनुष्ययज्ञे, २ मूतयज्ञे चेत्यन्ये। कर्म्मणिक्त। ३ आभिमुख्येन हुते देवादौ त्रि०

आहुति = स्त्री आ + हु–क्तिन्। देवोद्देशेन मन्त्रेणाग्नौ हविःक्षेपे। “अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते” मनुः। “वेत्य सौम्य! यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” छा० उ०। “प्रातराहुत्यां हुतायां पूर्ण्णाहुत्यन्ते वरदानम्” कात्या० २०, १, २०। “जुहुयात्सर्पिराहुतीः” मनुः “प्राणाद्याहुतिपञ्चकम्” स्मृतिः। आहूयते कर्मणि क्त। २ आहूयमाने हवनीयद्रव्ये हविरादौ। “पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः” रघुः। “ब्रह्माहुतिहुतं यच्च” मनुः।

आहुल्य = न० आ + ह्वल–बा० क्यप् संप्रसारणञ्च। काश्मीरादौ (तरवट) इति प्रसिद्धे काञ्चनवर्ण्णपुष्पे शिल्वीफले क्षुपभेदे।

आहुव = त्रि० आ + ह्वा–घञर्थे कर्म्मणि क संप्र० उवङ्। आह्वातव्ये “अनुकृष्टीनामन्वाहुवः” ऋ० ८, ३२, १९, आहुवः आह्वातव्यः” भा०।

आहू = त्रि० आह्वयति आ + ह्वे–क्विप् संप्र०। १ आह्वायके। २ आहूयमाने च।

आहूत = त्रि० आ + ह्वे–क्त। कृताह्वाने १ आकारिते “आहूत इव मे शीघ्रम्” भाग० १० स्कन्धे। “नचाहूतोवदेत् किञ्चिद्धीनोदण्ड्यश्च स स्मृतः” या० स्मृतिः। “यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम्” माघः। “आहूतो न निवर्त्तोतद्यूतादपि रणादपि”। आभूत + पृ० भस्य हः। २ आभूतप्रलयपर्य्यन्ते “पटोलानि कदम्बानि वृन्ताकसहितानि च। न त्यजेत् कार्त्तिके यस्तु यावदाहूतनारकी” ति० त० पु० “आहूतम् आभूतप्रलयपर्य्यन्तम्” रघु० ३ नामकृतव्यपदेशे विश्वे च। सृष्टिकाले हि भूतानां तत्तन्नामव्यपदेश इति विश्वव्यपदेश पर्य्यन्तमित्येव तस्यार्थोन्याय्यः। भावे क्त। ४ आह्वाने।

आहूतप्रपलायिन् = त्रि० आहूतः विवादनिर्ण्णयाय राज्ञाहूतोऽपि प्रपलायते प्र + परा–अय–णिनि रस्य लः। व्यवहारे हीनवादिभेदे स च पञ्चविधः। “अन्यवादी क्रियाद्वेषी, नोपास्थाता निरुत्तरः। आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः” मिता० स्मृत्युक्तेः।

आहूतसंप्लव = पु० आहूतस्य नाम्ना कृतव्यपदेशस्य विश्वस्य संप्लवोयत्र। प्रलयकाले तत्र हि कृतव्यपदेशस्य विश्वस्य व्यपदेशाभावेन व्यवहार्य्यत्वाभावः। “आहूतसंप्लवस्थानममृतत्वं भाषते” इति पुराणे आभूतेत्यत्राहूतेति पाठान्तरम्।

आहूति = स्त्री आ + ह्वे–क्तिन्। आह्वाने (डाका)।

आहूय = अव्य० आ + ह्वे–ल्यप्। आह्वानं कृत्त्वेत्यर्थे “आहूय दानं कन्याया ब्राह्मोधर्म्मः प्रकीर्त्तितः” मनुः।

आहृत = त्रि० आ + हृ–क्त। आनीते कृताहरणे।

आहृति = स्त्री आहृ–क्तिन्। आहरणे आनयने।

आहृत्य = अव्य० आ + हृ–ल्यप्। आहरणं कृत्वा आनीयेत्यर्थे “समाहृत्यान्यतन्त्राणि” अमरः।

आहेय = त्रि० अहेरिदम् ढक्। सर्पसम्बन्धिनि विषचर्म्मास्थ्यादौ

आहो = अव्य० आ + हन–डो। १ प्रश्ने, २ विकल्पे, ३ विचारे च। “यत्रायं पुरुषोभ्रियत उदस्मात् प्राणाः क्रामन्त्याहो नेति” शत० ब्रा० १४, ६, २, १२, “आहो विद्वानमुं लोकं प्रेत्यकञ्चित् समश्नुते” कठो०। “आहो निवत्स्यति समं हरिणाङ्गनाभिः” शाकुन्तले सखींप्रति दुष्मन्तप्रश्नः।

आहोपुरुषिका = स्त्री अहमेव पुरुषः शूरः मयू० अहो पुरुषः तस्य भावः वुञ् स्त्वीत्वात् टाप्। दर्पजन्ये आत्मनि उत्कर्षसम्भावने (वाहादुरी) “आहोपुरुषिकां पश्य मम सद्रत्नकान्तिभिः” भट्टिः।

आहोस्वित् = अव्य० आहो च स्विच्च द्व०। १ विकल्पे, २ प्रश्ने च “आहोस्वित् शाश्वतं स्थानं तेषां तत्र द्विजोत्तम!” भा० स० ५ अ०। द्विपदमित्येके।

आह्न = न० अह्नां समूहः खण्डिका० अञ्। दिनसमूहे “अहोरात्रे वा अभिर्बत्तमाने संवत्सरमाप्नुतः संवत्सर इदं सर्व्वमाह्नायैवैतामरिष्टिं स्वस्तिमाशास्ते” शत० ब्रा० ६, ६, ४, ३, अह्ना निर्वृत्तादि चतुरर्थ्याम् संकलादि० अञ्। दिननिर्वृत्तादौ त्रि०।

आह्निक = त्रि० अह्नि भवः अह्ना निर्वृत्तं साध्यं ठञ्स्त्रियां ङीप्। १ दिनभवे २ दिनसाध्ये च। “भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्” भा० त० १३७ अ०। “अत्राह्निकं सुरश्रेष्ठोजपते समरुद्गणः” भा० व० १४२ अ०। दिनकर्त्तव्यानि आह्निकतत्त्वे आह्निककृत्यप्रदीपादौ उक्तानि। दिवसकर्त्तव्यान्याचारशब्दे ६३१ पृष्ठे उक्तप्रायाणि दिनविभागेषु कर्त्तव्यभेदोदक्षेण संक्षेपात् दर्शितो यथा। “प्रातरुत्थाय कर्त्तव्यं यद्द्विजेन दिने दिने। तत्सर्वं सं प्रवक्ष्यामि द्विजानामुपकारकम्। उदयास्तमयं यावन्न विप्रः क्षणिकोभवेत्। नित्यनैमित्तिकैर्मुक्तः कामैश्चान्यैरगर्हितैः। यः स्वकर्म परित्यज्य यदन्यत् कुरुते द्विजः। अज्ञानाद्यदि वा मोहात् स तेन पतितोभवेत्। दिवसख्याद्यभागे तु कृत्यं तस्योपदिश्यते। द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा। षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक्। विभागेष्वेषु यत्कर्म्म तत्प्रवक्ष्याम्यशेषतः। उषःकाले तु संप्राप्ते शौचं कृत्वा यथार्थवत्। ततःऽस्नानं प्रकुर्व्वीत दन्तधावनपूर्व्वकम्। अत्यन्तमलिनः कायोनवच्छिद्रसमन्वितः। स्रवत्येष दिवा रात्रौ प्रातःस्नानं विशोधनम् क्लिद्यन्ति हि प्रसुप्तस्य इन्द्रियाणि स्रवन्ति च। अङ्गानि समतां यान्ति उत्तमान्यधमैः सह। नानास्वेदसमाकीर्णः शयनादुत्थितः पुमान्। अस्नात्वा नाचरेत् कर्म जपहोमादि किञ्चन। प्रातरुत्थाय योविप्रः प्रातःस्नायी भवेत् सदा। समस्तजन्मजं पापं त्रिभिर्वर्षैर्व्यपोहति। उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ। प्राजापत्येन तत्तुल्यं महापातकनाशनम्। प्रातःस्नानं प्र- शंसन्ति दृष्टादृष्टकरं हि तत्। सर्वमर्हति पूतात्मा प्रातःस्नायी जपादिकम्। स्नानादनन्तरं तावदुपस्पर्शनमुच्यते। अनेन तु विधानेन आचान्तः शुचितामियात्। प्रक्षाल्य पादौ हस्तौ च त्रिः पिवेदम्बु वीक्षितम्। सं वृत्याङ्गुष्ठमूलेन द्विःप्रमृज्यात्ततोमुखम्। संहत्य तिसृभिः पूर्ब्बमास्यमेवमुपस्पृशेत्। ततः पादौ समभ्युक्ष्य अङ्गानि समुपस्पृशेत्। अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्। अङ्गुष्ठनामिकाभ्याञ्च चक्षुःश्रोत्रे पुनःपुनः। कनिष्ठाङ्गुष्ठेन नाभिं हृदयञ्च तलेन वै। सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण सस्पृशेत्। सन्ध्यायाञ्च प्रभाते च मध्याह्ने च ततः पुनः। सन्ध्यां नोपासीत यस्तु ब्राह्मणोहि विशेषतः। स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते। सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्म्मसु। यदन्यत् कुरुते कर्म न तस्य फलमश्नुते। सन्ध्याकर्मावसाने तु स्वयंहोमोविधीयते। स्वयं होमे फलं यत्तु तदन्येन न जायते। ऋत्विक् पुत्रोगुरुर्भ्राता भागिनेयोऽथ विट्पतिः। एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि। देवकार्य्यं ततः कृत्वा गुरुमङ्गलवीक्षणम्। देवकार्य्याणि पूर्वाह्णे मनुष्याणाञ्च मध्यमे। पितॄणामपराह्णे च कार्य्याण्येतानि यत्नतः। पौर्वाहिणकन्तु यत् कर्म यदि तत् सायमाचरेत्। न तस्य फलमाप्नोति बन्ध्यस्त्रीमैथुनं यथा। दिवसस्याद्यभागे तु सर्वमेतद्विधीयते। द्वितीये च तथा मागे वेदाभ्यासोविधीयते। वेदाभ्यासोहि विप्राणां परमं तपौच्यते। ब्रह्मयज्ञः स विज्ञेयः षडङ्गसहितस्तु सः। वेदस्वीकरणं पूर्बं विचारोऽभ्यसनं जपः। ततोदानञ्च शिष्येभ्योवेदाभ्यासोहि पञ्चधा। समित्पुष्पकुशादीनां स कालः समुदाहृतः। तृतीये चैव भागे तु पोष्यवर्गार्थसाधनम्। पिता माता गुरुर्भार्य्या प्रजा दीनाः समाश्रिताः। अभ्यागतोऽतिथिश्चान्यः पोष्यवर्गौदाहृतः। ज्ञातिर्बर्न्धुजनः क्षीणस्तथाऽनाथः समाश्रितः। अन्येऽप्यधनयुक्ताश्च पोष्यवर्गौदाहृतः। भरणं पोष्यवर्गस्य प्रशस्तं खर्गसाधनम्। नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत्। सार्वभौतिकमन्नाद्यं कर्त्तव्यन्तु विशेषतः। ज्ञानविद्भ्यः प्रदातव्यमन्यथा नरकं व्रजेत्। स जीवति यएवैकोबहुभिश्चोपजीव्यते। जीवन्तोमृतकाश्चान्ये य आत्मम्भरयो नराः। वह्वर्थे जीव्यते कैश्चित् कुटुम्बार्थे तथा परैः। आत्मार्थेऽन्योन शक्नोति स्वोदरेणापि दुःखितः। दीनानाथविशिष्टेभ्योदातव्यं भूतिमिच्छता। अदत्तदाना जायन्ते परभाग्योपजीविनः। यद्द- दाति विशिष्टेभ्योयज्जुहोति दिने दिने। तत्तु वित्तमह मन्ये शेषं कस्यापि रक्षति। चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत्। तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले। नित्यं नैमित्तिकं काम्य त्रिविधं स्नानमुच्यते। तेषां मध्ये तु यन्नित्यं तत्पुनर्भिद्यते त्रिधा। मलापहरणं पश्चान्मन्त्रवत्तु जले स्मृतम्। सन्ध्यास्नानमुभाभ्याञ्च स्नानभेदाः प्रकीर्त्तिताः। मार्जनं जलमध्ये तु प्राणायामोयतस्ततः। उपस्थानं ततः पश्चात् सावित्र्याजपौच्यते। सविता देबता यस्या मुखमग्निस्त्रिधा स्थितः। विश्वामित्रऋषिश्छन्दोगायत्री सा विशिष्यते। पञ्चमे च तथा भागे संविभागोयथार्हतः। पितृदेवमनुष्याणांकीटानाञ्चोपदिश्यते। देवैश्चैव मनुष्यैश्च तिर्यग्भिश्चोपजीव्यते। गृहस्थः प्रत्यहं यस्मात्तस्माज्ज्येष्ठाश्रमी गृही। त्रयाणामाश्रमाणान्तु गृहस्थो योनिरुच्यते। तेनैव सीदमानेन सीदन्तीहेतरे त्रयः। मूलप्राणोभवेत् स्कन्धः स्कन्धाच्छाखाः सपल्लवाः। मूलेनैव विनष्टेन सर्वमेतद्विनश्यति। तस्मात् सर्व्वप्रयत्नेन रक्षितव्योगृहाश्रमी। राज्ञा, चान्यैस्त्रिभिः पूज्योमाननीयश्च सर्व्वदा। गृहस्थोऽपि क्रियायुक्तो न गृहेण गृहाश्रमी। न चैव पुत्रदारेण स्वकर्मपरिवर्जितः। अस्नात्वा चाप्यहुत्वा चाजप्त्वाऽदत्त्वा च मानवः। देवादीनामृणी भूत्वा नरकं प्रतिपद्यते। एकएव हि भुङ्क्तेऽन्नमपरोऽन्नेन भुज्यते। न भुज्यते सएवैकोयोभुङ्क्तेऽन्नं ससाक्षिणा। विभागशीलो योनित्यं क्षमायुक्तोदयापरः। देवतातिथिभक्तश्च गृहस्थः स तु धार्म्मिकः। दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः कृतज्ञता। एते यस्य गुणाः सन्ति स गृही मुख्यौच्यते। स विभागं ततः कृत्वा गृहस्थः शेषभुग्भवेत्। भुक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत्। इतिहासपुराणाद्यैः षष्ठञ्च सप्तमं नयेत्। अष्टमे लोकयात्रा तु बहिःसन्ध्या ततः पुनः। होमोभोजनकञ्चैव यच्चान्यद्गृहकृत्यकम्। कृत्वा चैवं ततः पश्चात् स्वाध्यायं किञ्चिदाहरेत्। प्रदोष पश्चिमौ यामौ वेदाभ्यासेन तौ नयेत्। यामद्वयं शयानोहि ब्रह्मभूयाय कल्पते। नैमित्तिकानि काम्यानि निपतन्ति यथा यथा। तथा तथैव कार्य्याणि न कालस्तु विधीयते। अस्मिन्नेव प्रयुञ्जानोह्यस्मिन्नेव तु लीयते। तस्मात् सर्ब्धप्रयत्नेन कर्त्तव्यं सुखमिच्छता। सर्वत्र मध्यमौ यामौ हुतशेषं हविश्चयत्। भुञ्जानश्च शयानश्च ब्राह्मणोनावसीदति” अह्ना पाठ्यम् ठञ्। ३ सूत्रात्मकशास्त्रभाष्यस्य पादांशव्याख्याभेदे न०। यथा कणादगौतमपाणिनिसूत्रभाष्यस्य पादांशव्याख्यारूपाणि अह्ना पाठ्यत्वात् आह्निकानि “तमधीष्टोभृतो भूतोवेति” पा० ठञ्। दिवसे–सत्कृत्यनियोजिते ३ अध्यापके ४ भृते वेतनेन क्रीते दासादौ ५ भूते स्वसत्तया व्याप्ते ज्वरादौ च।

आह्लाद = पु० आ + ह्लद–घञ्।। आनन्दे। “नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः” भाग०।

आह्लादन = द० आ + ह्लद–णिच्–ल्युट्। १ आनन्दसम्पादने कर्त्तरि ल्यु। २ आनन्दसम्पादके त्रि०। करणे ल्युट्। ३ आनन्दसाधने त्रि० स्त्रियां ङीप्।

आह्लादित = त्रि० आ + ह्लद–णिच्–क्त। १ कृतानन्दने। यस्यानन्दो जनितस्तस्मिन्। आह्लादोजातोऽस्य तार० इतच्। २ जाताह्लादे च।

आह्लादिन् = त्रि० आ–ह्लद–णिनि १ आनन्दयुक्ते णिच्णिनि। २ आनन्दकारके। स्त्रियामुभयतो ङीप्।

आह्व = त्रि० आह्वयति आ + ह्वे–ड। आह्वानकारके।

आह्वय = पु० आह्वैर्यायते प्राप्यते या–घञर्थे क ३ त०। १ नामनि आह्वायकैर्हि नामोच्चारणेनैव आहूयते इति आह्वायकत्वप्राप्तौ नाम्न करणत्वात्तथात्वम्। आ + ह्वे बा० करणे श इत्यन्ये “काव्यं रामायणाह्वयम्,” रामा०। गजाह्वयं शताह्वयं नागाह्वयम् इत्यादि। २ प्राणिभिर्मेषादिभिः सपणद्यूतभेदे च सचाष्टादशविवादान्तर्गतः। “तेषामाद्यमृणादानम्” इत्युपक्रम्य “द्यूतमाह्वयएव च। पदान्यष्टादशैतानि व्यवहारस्थिताविहेति” मनूक्तेः। अस्यसम्पूर्ब्बकतापि “अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः” मनुना तथा प्रयोगात् तत्स्वरूपमुक्तं मिता० नार० “अक्षबध्नशलाकाद्यैर्देवनं जिह्यकारितम्। पणक्रीडा वयोभिश्च पदं द्यूतसमाह्वयम्” व्याख्यातञ्च मिता० यथा “अक्षाः पाशकाः बध्नश्चर्म्मपट्टिका शलाका दन्तादिमय्यो दीर्घचतुरस्राः आद्यग्रहणात् चतुरङ्गादिक्रीडासाधनकरितुरगादिकं गृह्यते। तैरप्राणिभिर्यद्देवनं क्रीडा पणपूर्व्विकाक्रियते तथा वयोभिः पक्षिभिः कुक्कुटपारावतादिभिः चशब्दान्मल्लमेषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते तदुभयं द्यूतसमाह्वयाख्यं विवादपदम्। द्यूतञ्च समाह्वयश्चद्यूतसमाह्वयम्। तत्प्रकारः तत्रैव दर्शितो यथा। “तत्र द्यूतसभाधिकारिणो वृत्तिमाह। “ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम्। गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम्” या०। परस्परं सम्प्रतिपत्त्या कितवैः परिकल्पितः ११ वा० भाग २ पणोग्लह इत्युच्यते। तत्र ग्लहे तदाश्रया शतिका शतपरिमितादधिकपरिमाणा वा वृद्धिर्यस्यासौ शतिकवृद्धिः द्धूर्तकितवात्पञ्चकंतस्मा शतमात्मवृत्यर्थं सभिको गृह्णी यात्। पञ्च पणाआयो यस्मिन् शते तच्छतं पञ्चकं “तद स्मिन्वृद्ध्यायलाभेत्यादिना” (पा०)कन्। जितस्य ग्लहस्य विंशतितमम्भागं गृह्णीयादित्यर्थः। सभा कितवनिवासार्था यस्यास्त्यसौ (ठन्) सभिकः कल्पिताक्षादिनिखिलक्रीडोपकरणस्तदुपचितद्रव्योपजीवी सभापतिरुच्यते। इतर स्मात्पुनरपरिपूर्णशतिकवृद्वेःकितवाद्दशकं शतञ्जितद्रव्यस्य दशमम्भागं गृह्णीयादिति यावत्। एवंकॢप्तवृत्तिना सभिकेन किङ्कर्तव्यमित्यत आह। “स सम्यक्पालितीद द्याद्राज्ञे भागं यथा कृतम्। जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचःक्षमी” या०। यएवं कॢप्तवृत्तिर्द्यूताधिकारी सराज्ञा धूर्त्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा कृतं सम्प्रतिपन्नमंशन्दद्यात्। तथा जितं यत् द्रव्यन्तदुद्ग्राहयेद्बन्धकग्रहणेनासेधादिना च पराजितसकाशादुद्धरेदुद्धृत्य च तद्धनं जेत्रे जयिने सभिकोदद्यात्। तथा क्षमी भूत्वा सत्यञ्च वचोविश्वासार्थं द्यूतकारिणां वदेत्। तदुक्तन्नारदेन। “सभिकः कारयेद्यूतन्देयन्दद्याच्च यत्कृत मिति”। यदा पुनः सभिकोदापयितुन्न शक्नोति तदा राजा दापयेदित्याह। “प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले। जितं ससभिके स्थाने दापयेदन्यथा न तु” या०। प्रसिद्धेऽप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितवसमाजे सभिकेन च राजभागे दत्ते राजा धूर्तकितवमविप्रतिपन्नं जितम्पणन्दापयेत्। अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे द्यूते जितम्पणञ्जेत्रे न दापयेत्। जयपराजयविप्रतिपत्तौ निर्णयोपायमाह। “द्रष्टारो व्यवहाराणां साक्षिणश्च तएव हि” या०। द्यूतव्यवहाराणां द्रष्टारः सभ्यास्तएव कितवाएव राज्ञा नियोक्तव्याः न पुनःश्रुताध्ययनसम्पन्ना इत्यादिनियमोऽस्ति। साक्षिणश्च द्यूते द्यूतकाराएव कार्य्याः न वा तत्र स्त्रीबालवृद्धकितवेत्यादिनिषेधोऽस्ति। क्वचित् द्यूतन्निषेद्धुन्दण्डमाह। “राज्ञा सचिह्नन्निर्वास्याः कूटाक्षोपधिदेविनः” या०। कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान्निर्वासयेत्। नारदेन निर्वासने विशेष उक्तः। “कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत्। कण्ठेऽक्षमालामासञ्ज्य सह्येषां विनयः स्मृत” इति। यानि च मनुवचनानि द्यू- तनिषेधपराणि “द्यूतं समाह्वयञ्चैव यः कुर्य्यात्कारयेत वा। तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः” इत्यादीनि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि। किञ्च “द्यूतमेकमुखं कार्य्यन्तस्करज्ञानकारणात्” या०। यत्पूर्वोक्तं द्यूतन्तदेकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्य्यम्। राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः तस्करज्ञानकारणात् तस्करज्ञानरूपम्प्रयोजनम्पर्य्यालोच्य। प्रायशः चौर्यार्जितधना एव कितवा भवन्त्यतश्चौर विज्ञानार्थमेकमुखं कार्य्यम्। द्यूतधर्म्मं समाह्वयेऽतिदिशन्नाह। “एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये” या०। ग्लहे शतिकवृद्धेरित्यादिना योद्यूते धर्म्म उक्तः सएव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसज्ञके ज्ञातव्यः”।

आह्वयन = न० आह्वयं करोत्यनेन आह्वय + णिच् करणे ल्युट्। नामादेशसाधने शब्दभेदे। कर्त्तरिल्यु। आह्वानकारके त्रि० “रामस्याह्वयना द्विजाः” रामा०।

आह्वयितव्य = त्रि० आह्वयं करोति आह्वय + णिच्–कर्म्मणि तव्य। आह्वानीये आकारणीये। “नेयमाह्वयितव्या ते शयने वार्षपर्वणी” भा० आ०८२ अ०।

आह्वर = त्रि० आ + ह्वृ–अच्। १ कुटिले २ उशीनरदेशोत्पन्ने च। तेन कन्थाशब्दस्य षष्ठीसमासे क्लीवत्वम्। आह्वरकन्वम्। अत्रोत्तरपदस्याद्युदात्तत्वम्।

आह्वा = स्त्री आ + ह्वे–अङ्। १ आह्वाने। करणेअङ्। २ संज्ञायाम् नामनि “लेपश्च शस्यते सिक्थशताह्वगौरसर्षपैः” सुश्रु०।

आह्वान = न० आ + ह्वे–ल्युट्। आकारणे (डाका) “दूराह्वाने च गाने च रोदने च प्लुतोमतः” व्या० का०। करणेल्युट्। २ संज्ञार्या नामनि नाम्नै वाऽऽकारणं हि क्रियते इति तस्यतथात्वम्। करणे ल्युट्। ३ आह्वानसाधने राजकीयपत्रे। (तलवनामा) “यावदाह्वानदर्शनम्” भावे ल्युट्। व्यवहारे विवादनिर्ण्णयार्थं ४ राज्ञाऽऽकारणे (तलपकरा) तत्र वर्ज्यावर्ज्यप्रकारादि मिता० स्मृतिवाक्यात् दर्शितम्। यथा “विमृश्य कार्य्यं न्याय्यं चेदाह्वानार्थमतः परम्। मुद्रां वा निक्षिपेत्तस्मिन् पुरुषं वा समादिशेत्। अकल्यबालस्थविरविषमस्थक्रियाकुलान्। मत्तोन्मत्तप्रमत्तार्त्तभृत्याज्ञाह्वानयेन्नृपः। न हीनपक्षां युवतिं कुलजातां प्रसूतिकाम्। सर्ववर्णोत्तमां कन्यां तां ज्ञातिप्रभुकाः स्मृताः। तदधीनकुटुम्बिन्यः स्वैरिण्योगणिकाश्च याः। निष्कुला याश्च पतितास्तासामाह्वानमिष्यते। काल देशञ्च विज्ञाय कार्य्याणाञ्च बलाबलम्। अकल्यादीनपि शनैर्यानैराह्वानयेन्नृपः। ज्ञात्वाभियोग येऽपि स्युर्वने प्रव्रजितादयः। तानप्याह्वानयेद्राजा गुरुकार्य्येष्वकोपयन्निति” अत्र सर्व्वत्र आह्वानं–करोति णिचि आह्वानयेदिति सिद्धम्। “कृतोलुक् प्रकृतिवच्च कारक मिति वार्त्तिकं तु नेह प्रवर्त्तते बहुलग्रहणात्।

आह्वायक = त्रि० आ + ह्वे–ण्वुल् युच्। आह्वानकारके आका-

आह्वारक = त्रि० आ + ह्वृ–ण्वुल्। कुटिले। रके। “आह्वायकेभ्यः श्रुतसूनुवृत्तिः” भट्टिः णिनि आह्वायीत्यप्यत्र स्त्रियां ङीप्।

आह्वृति = स्त्री आ + ह्वृ–क्तिन्। १ कौटिल्ये कर्त्तरि क्तिच्। २ राजभेदे “रुक्मी चैवाह्वृतिश्चैव नीलोनार्मदएव च” हरि० १४१ अ० “रुक्मी चैवाह्वृतिश्चैव तस्थतुर्निश्चितौ रणे” हरि व० १४२ अ० “जरासन्धं समाश्रत्य तथैवाह्वृतिभीष्मकौ, हरि० १६० अ०। इति श्रीतारानाथतर्कवाचस्पतिसंकलिते वाचस्पत्ये आकारादिशब्दार्थनिर्ण्णयः।

***