आश्रय = न० आश्रीयतेऽसौ आ + श्रि–कर्म्मणि अच्। १ आश्रयणीये “वर्द्धिष्णुमाश्रयमनागतमभ्युपैति” “द्रव्याश्रयेष्वपि गुणेषु रराज नीलः” माघः। “चित्रं यथाश्रय मृते स्थाण्वादिभ्यो विना यथाच्छाया। तद्वद्विना विशेषै र्न तिष्ठति निराश्रयं लिङ्गम्” सां० का० २ आधारे “आसत्तिराश्रयणान्तु सामान्यज्ञानमिष्यते” “हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता “जन्यानां जनकःकालो जगतामाश्रयो मतः” भाषा० “तमाश्रयं दुष्प्रसहस्य तेजसः” रघुः ३ गृहे। “पितृमात्राश्रये गच्छ” ४ अवलम्ब्ये “विनाश्रयं न तिष्ठन्ति पण्डिता वनिता लता” उद्भटः “निराश्रयं मां जगदीश! रक्ष” पुरा० ५ विषये “बभूव यत् प्रेमपरस्पराश्रयम्” रघुः अरिभिःपीड्यमानेन बलवदाश्रयणरूपे षड्गुणान्तर्गते राज्ञां ६ गुणभेदे यथाश्रयः कर्त्तव्यस्तथोक्तमग्निपुराणे “बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयन्। द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः। उभयोरपि संघाते सेवेत बलवत्तरम्। यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ। तदोपसर्पेत्तच्छक्तमधिकं वा स्वयं व्रजेत्। उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः। कुलोत्पन्न सत्यमार्य्यमासेवेत बलोत्कटम्। तद्दर्शनोपास्तिकता नित्यं तद्भावभाविता। तत्कारितप्रश्रयिता वृत्तं संश्रयिणः स्मृतम्”। भावे अच्। ७ अवलम्बने। “योऽवमन्येत ते मूले हेतुशास्त्राश्रयेण च” मनुः। ८ आश्रयणे “गुणवदाश्रयलब्धगुणोदये” माघः। त्व। आश्रयत्वम् आधारत्वे न०। “आश्रयत्वविषयत्वभागिनी” सं० शा० तल्। आश्रयता। तत्रार्थे स्त्री आधारशब्दे विवृतिः।
आश्रयण = न० आ + श्रि–ल्युट्। १ आसेवायाम् २ अवलम्बने च। कर्त्तरि ल्युट्। ३ आश्रयकर्त्तरि त्रि० स्त्रियां ङीप्। “अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते” कुमा०।
आश्रयणीय = त्रि० आ + श्रि–कर्म्मणि अनीयर्। यस्याश्रयः क्रियते १ तस्मिन् २ अवलम्ब्ये च।
आश्रयवत् = त्रि० आश्रयोऽस्त्यस्य मतुप् मस्य वः स्त्रियांङीप्। आश्रययुक्ते सावलम्बे साधारे पदार्थे।
आश्रयाश = पु० आश्रयमश्राति अश–अण् उप० स०। १ वह्नौ तस्य आश्रयस्य काष्ठादेर्द्दाहकत्वात्तथात्वम्। “दुर्वृत्तः क्रियते धूर्त्तैः श्रीमानात्मविवृद्धये। किं नाम खलसंसर्गः कुरुते नाश्रयाशवत्” उद्भटः २ चित्रकवृक्षे ३ कृत्तिकानक्षत्रे च। ४ आश्रयनाशके त्रि०।
आश्रयासिद्ध = पु० आश्रयोऽसिद्धोऽस्य। न्यायोक्ते हेत्वाभास भेदे यथा गगनपद्मं सुरभि पद्मत्वात् सरोजपद्मवदित्यादौ गगनपद्मरूपस्य हेतोराश्रयस्याप्रसिद्धत्वात् हेतोर्दुष्टत्वम्।
आश्रयासिद्धि = स्त्री आश्रयस्या सिद्धिः अप्रसिद्धिः न्यायोक्ते हेतोर्दोषभेदे असिद्धिशब्दे ५५४ पृष्ठे विवृतिः।
आश्रयिन् = त्रि० आश्रयति आ + श्रि–इनि। आश्रय कारके आश्रिते। “मयूरपृष्ठाश्रयिणा गुहेन” रघुः “पर्य्यन्ताश्रयिभि र्निजस्य सदृशं नाम्नः किरातैः कृतम्” रत्ना०।
आश्रव = त्रि० आशृणोति वाक्यम् आ + श्रु–अच्। वाक्यस्थिते वाचि प्रवणे वाक्यं श्रुत्वा तदर्थानुष्ठायिनि। “संगवस्तु भिषजामनाश्रवः” रघुः। भावे + अप्। ३ अङ्गीकारे ३ क्लेशे च।
आश्राव = त्रि० आ + श्रु–णिच्–अच्। १ श्रावणे २ अङ्गीकारणे च
आश्रि = स्त्री सम्यक् अश्रिः प्रा० स०। सम्यक्कोणे शब्दच०
आश्रित = त्रि० आ + श्रि–क्त। आश्रयप्राप्ते, शरणागते, आधेये “प्रायश्चलं गौरवमाश्रितेषु” कुमा० “अथ द्रव्याश्रिता गुणाः”। “अन्यत्र नित्यद्रव्येभ्य आश्रितत्वमिहेष्यते इति” च भाषा०।
आश्रित्य = अव्य० आ + श्रि–ल्यप्। अवलम्ब्येत्यर्थे।
आश्रिन् = त्रि० आश्रं चक्षुर्जलमस्त्यस्य सुखा० इनि। चक्षुर्जलयुक्ते स्त्रियां ङीप्।
आश्रुत् = स्त्री आ + श्रु–भावे क्विप्। १ अङ्गीकारे। कर्त्तरि क्विप्। २ अङ्गीकर्त्तरि त्रि०।
आश्रुत = त्रि० आ + श्रु–क्त। १ अङ्गीकृते, २ आकर्णिते च। “एवं सर्व्वत्राश्रुतेषु” कात्या० ३, २, ६।
आश्रुति = स्त्री आ + श्रु–क्तिन्। १ अङ्गीकारे २ श्रवणे च।
आश्रेय = त्रि० आ + श्रि–यत्। १ आश्रयणीये २ अवलम्ब्ये च।
आश्लिष्ट = त्रि० आ + श्लिष–क्त। १ आलिङ्गिते २ संबद्धे “शिखाभिराश्लिष्टैवाम्भसांनिधिः” “आश्लिष्टभूमिं रसितारमुच्चैः” इति च माघः।
आश्लेष = पु० ईषदेकदेशेन श्लेषः संबन्धः आ + श्लिष–घञ्। १ एकदेशसंबन्धे। “सामीप्याश्ले षविषयैर्व्याप्त्याधारश्चतुर्विधः” मुग्धबो०। २ आलिङ्गने च। “आश्लेषलोलुपवधूस्तनकार्कश्य साक्षिणीम्” माघः वेदे नि० क्वचित् लस्य रः। आश्रेषोऽप्युक्तार्थे पु० अश्लेषैव स्वार्थे अण्। अश्लेषानक्षत्रे स्त्री। “आश्लेषा नक्षत्रं सर्पा देवताः” तैत्ति०
आश्व = न० अश्वानां समूहः अण्। १ अश्वसमूहे अश्वैरुह्यते र्शषिकः अण् अश्वस्येदं वाह्यम् अञ् वा। २ अश्ववाह्ये त्रि० सि० कौ०। अश्वस्य भावः कर्म्म वा प्राणभृज्जातित्वात् अञ्। ३ अश्वभावे ४ तत्कर्म्मणि च न०। अश्वस्येदम् अण्। ५ अश्वसंबन्धिनि त्रि०। “आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते” सुश्रुतः।
आश्वतराश्वि = पु० अश्वतराश्वस्यापत्यम् इञ्। वुडिलमुनौ।
आश्वत्थ = न० अश्वत्थस्य फलमण् प्लक्षा० तस्य न लुक्। १ अश्वत्थ फले। अश्वत्थस्येदम् अण्। २ अश्वत्थसम्बन्धिनि त्रि० स्त्रियां गौ० ङीष्। आश्वत्थी शाखा समिद्वा। “सर्पिरासिच्याश्वत्थीस्त्रिस्रः समिधः” शत० ब्रा०। तस्मादाश्वत्थे ऋतुपात्रे स्याताम्” शत० ब्रा० अश्वत्थेन युक्ता अण। अश्वत्यनक्षत्रयुक्तायां ३ रात्रौ स्त्री। गहा० छ। आश्वत्थीयः आश्वत्थसम्बन्धिनि त्रि०।
आश्वत्थिक = च० अश्वत्थशब्दे ५०७ पृष्ठे विग्रहादि। चान्द्राश्विने मासि।
आश्वपत = त्रि० अश्वपतेरिदम् अश्वपत्या० अण्। अश्वपति सम्बन्धिनि।
आश्वपस् = त्रि० आशु आप्नोति असुन् ह्रस्वः। शीघ्रप्राप्तरि।
आश्वपालिक = पुंस्त्री अश्वपाल्याः अपत्यं रेवत्या० ठक्। अश्वपाल्या अपत्ये।
आश्वपेजिन् = त्रि० ब० व०। अश्वपेजेन प्रोक्तमधीयते शौनका० णिनि। अश्वपेजर्षिप्रोक्ताध्यायिषु।
आश्वबाल = त्रि० अश्वबालाया ओषधेरयम् अण्। अश्वबालोषधेः संबन्धिनि। “आश्वबालः प्रस्तरः, यज्ञोह देवेभ्योऽपचक्राम सोऽश्वोभूत्वा पराङावर्त्त तस्य देवा अनु हाय बालानभिपेदुस्तानालुलुपुस्तानालुप्य सार्द्धं संन्यासुस्त तएता ओषधयः समभवन् यदश्रबालाः शिरो वै यज्ञस्यातिथ्यं जघनार्घो बाला उभयतएवैतद्यज्ञं परिगृह्णाति यदाश्वबालः प्रस्तरोभवति” शत० व्रा०।
आश्वभारिक = त्रि० अश्वबाह्य भारमश्वभूतं भारं वा हरति वहति आवहति वा वंशा० ठञ्। अश्वबाह्यस्य अश्वभूतस्य वा भारस्य १ हारके २ वाहके ३ आवाहके च।
आश्वमेधिक = त्रि० अश्वमेधाय हितं ठन्। अश्वमेधसाधने द्रव्यादौ अश्वमेधद्रव्याणि च अश्वमेधशब्दे ५११ पृष्ठे उक्तानि अश्वमेधमधिकृत्य कृतः ग्रन्थः ठण्। शतपथब्राह्मणान्तर्गते १३ प्रपाठके पञ्चाध्यायीरूपे ग्रन्थभेदे तत्र पञ्चस्वध्यायेषु अश्वमेधस्योत्पत्तिः फलञ्च। तस्य धर्मविधयः आध्वर्य्यवौद्गात्रब्रह्मत्वयाजमानविषयाः तत्र प्रथमाध्यायत्रयेण मन्त्रव्याख्यानेन सह विशेषधर्म्मा अनुक्रान्ताः। शेषाध्यायद्वयेन च तएव धर्म्मान्तरसहिता अनुक्रान्ता इति भेदः। अश्वमेधमधिकृत्य कृतोग्रन्थः ठण्। युधिष्ठिराश्वमेधाधिकारेण व्यासकृते भारतान्तर्गते ३ पर्व्वभेदे न०। “इत्याश्वमेधिकं पर्व्व प्रोक्तमेतन्महाद्भुतम्” भा० आ० प० १ अ०। अश्वमेधः प्रतिपाद्यतयाऽस्त्यस्य ठन्। अश्वमेधिकमप्यत्र न०। “ततोऽश्वमेधिकं नाम पर्व्व प्रोक्तं चतुर्द्दशम्” भा० आ० प० १ अ०।
आश्वयुज = पु० आश्वयुजी अश्विनीनक्षत्रयुक्ता पौर्णमासी यस्मिन् मासेऽण्। शुक्लप्रतिपदादिके दर्शान्ते चान्द्रे आश्विने मासे। “त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्ब्बसञ्चितम्” मनुः “भाद्रपदाश्वयुजौ वर्षा” “गाङ्गमाश्वयुजे मासि प्रायशोवर्षति” इति च सुश्रु०।
आश्वयुजक = त्रि० आश्वयुज्यामुप्तो माषः वुञ्। चान्द्राश्विनपौर्ण्णमास्यामुप्ते माषे स हि तस्यामेव तिथौ उप्तः सन् प्ररोहति बर्द्धते च इति लोकप्रसिद्धिः।
आश्वयुजी = स्त्री अश्वयुजा अश्विनीनक्षत्रेण युक्ता पौर्णमासी “नक्षत्रेण युक्तः कालः” पा० अण्। आश्विनमासीयपौर्ण्णमास्याम् “आश्वयुज्यां पौर्ण्णमास्यां निकुम्भो वालुकार्ण्णवात्” ब्रह्मपु०। “तेन यक्ष्यमाणः पञ्चवर्षाण्याश्वयुजीशुक्लेषु चतुस्त्रिंशतं पशूनालभते मारुतान्” कात्या० २३, २, ४। “आश्वयुज्या वुञ्” पा०।
आश्वरथ = त्रि० अश्वयुक्तो रथः अश्वरथस्तस्त्येदम् पत्रपूर्व्वकत्वात् अञ्। अश्वबाह्यरथसम्बन्धिनि।
आश्वलक्षणिक = त्रि० अश्वलक्षणं वेत्ति तज्ज्ञापकशास्त्रमधीते वा ठक्। १ अश्वलक्षणाभिज्ञे २ तद्बोधकशास्त्राध्येतरि च
***