आवेग = पु० आ + विज–घञ्। उत्कण्ठाजनके त्वरान्विते च मानसे वेगे। वेगश्च क्रियाजन्यः गुणविशेषः मानसवेगस्योत् कण्ठादिसाधनत्वे आवेगत्वम्। “सावेगमग्राङ्गुलिरस्य तूणौ” किरा०। २ व्यभिचारिभावभेदे। व्यभिचारिणस्तु सा० द० दर्शिता यथा निर्वेदावेगदैन्यश्रममदजडता औग्र्यमौहौ विबोधः” इत्यादयः। तत्र आवेगः सम्भ्रमस्तत्र वर्षजे पीडिताङ्गता। उत्पातजे स्तब्धताङ्गे धूमाद्याकुलताग्निजे। राजविद्रवजादेस्तु शस्त्रनागादियो जनम्। गजादेः स्तम्भकम्पादिः पांश्वाद्याकुलता निलात्। इष्टाद्धर्षाः शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम्”।

आवेगी = स्त्री आवेगोऽस्त्यस्याः अर्श आद्यच् गौरा० ङीष्। वृद्धदारकवृक्षे।

आवेदक = त्रि० आ + विद–णिच्–ण्वुल्। १ विज्ञापके “स्मृत्याचारव्यपेतेन मार्गेणाधर्षित परैः। आवेदयति चेद्राज्ञे व्यवहारपदं हि तदिति” स्मृत्युक्ते व्यवहारोत्थापके २ वादिनि च

आवेदन = न० आ + विद–णिच्–ल्युट्। १ विज्ञापने व्यवहा२ रोत्थापने (नालिशकरा) “राज्ञे कुर्य्यात् पूर्ब्बमावेदनं यः” इति नारदः। आवेद्यते अनेन करणे ल्युट्। व्यावहारोत्थापके ३ भाषापत्रे (आरजी) तल्लक्षणादि स्मृतौ दर्शितं यथा “प्रत्यर्थिनोऽग्रतोलेख्यं यथाऽऽवेदितमर्थिना। समामासतदर्द्धाहर्नामजात्यादि- चिह्नितम्” या० स्मृ०। “निवेश्य कालं वर्षञ्च मासं पक्षं तिथिं तथा। वेलां प्रदेशं विषयं स्थानं जात्याकृती वयः। साध्यं प्रमाणं द्रव्यञ्च संख्यां नाम तथात्मनः। राज्ञां च क्रमशोनाम निवासं साध्यनाम च। क्रमात् पितॄणां नामानि पीडामाहर्त्तृदायकौ। क्षमालिङ्गानि चान्यानि पक्षं संकल्प्य कीर्त्तयेत्” कात्या०। “अर्थवत्क्रमसंयुक्तं परिपूर्णमनाकुलम्। साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च। प्रसिद्धमविरुद्धञ्च निश्चितं साधनक्षमम्। संक्षिप्तं निखिलार्थञ्च देशकालाविरोधि च। वर्षर्त्तुमासपक्षाहर्वेलादेशप्रदेशवत्। स्थानावसथसाध्याख्याजात्याकारवयोयुतम्। साध्यप्रमाणसंख्यावदात्मप्रत्यर्थिनाम च। परात्मपूर्ब्बजानेकराजनामभिरङ्कितम्। क्षमालिङ्गात्मपीडावत् कथिताहर्त्तृदायकम्। यदावेदयते राज्ञे तद्भाषेत्यभिधीयते” नार० अत्र विशेषः वीरमि०। “देशश्चैव तथा स्थानं सन्निवेशस्तथैव च। जातिः संज्ञा निवासश्च प्रमाणं क्षेत्रनाम च। पितृपैतामहञ्चैव पूर्ब्बराजानुकीर्त्तनम्। स्थावरेषु विवादेषु दशैतानि निवेशयेत्” कात्या० संख्याविशेषनिर्द्देशे “आसनं शयनं यानं ताम्रं कांस्यमयोमयम्। धान्यमश्ममयं यच्च द्विपदञ्च चतुष्पदम्। मणिमुक्ताप्रबालानि हीरकं रूप्यकाञ्चनम्। यदि द्रव्यसमूहः स्यात् संख्या कार्य्या तदैव तु। यस्मिन् देशे च यद्द्रव्यं येन मानेन मीयते। तेन तस्मिंस्तदा संख्या कर्त्तव्या व्यवहारिभिः” हारी० “देशकालविहीनश्च द्रव्यसंख्या विवर्ज्जितः। क्रियामानविहीनश्च पक्षोनादेय इष्यते” कात्या०। क्रिया प्रमाणं, मानं साध्यपरिमाणम्। भाषादोषाश्च नारदोक्ता यथा। “अन्यार्थमर्थहीनञ्च प्रमाणागमवर्ज्जितम्। लेख्यहीनाधिकं भ्रष्टं भाषादोषा उदाहृताः” इति विभज्य तेषां लक्षणान्याह स एव। “अर्थे साधारणेऽप्येकोऽसम्बन्धोऽथानियुक्तकः। लेखयेत् यन्तु भाषार्थमन्यार्थं तं विदुर्बुधाः। ब्रह्महायमिति द्वेषात् क्रोधाद्वापि वदेत्तु यः। साध्यञ्च मोचयेत् पश्चादर्थहीनन्तु तं विदुः। गणिते लिखिते मेये तथा क्षेत्रगृहादिषु। यत्र संख्या न निर्दिष्टा सा प्रमाणविवर्ज्जिता। विद्यया प्राप्तमर्थार्थं लब्धं क्रीतं क्रमागतम्। न त्वेवं लिख्यते यत्र सा भाषा स्यादनागमा। समा मासस्तथा पक्षस्तिथिर्वारस्तथैव च। यत्रैतानि न लिख्यन्ते लेख्यहीनां तु तां विदुः” लेखयित्वा तु तां भाषामनिर्दिष्टे तथोत्तरे। निर्दिशेत् साक्षिणः पूर्ब्बमधिकां तां विनिर्दिशेत्। यत्र स्यात्तु यथापूर्ब्धं निर्दिष्टं पूर्व्ववादिना। सन्धिग्धमेव लेख्येन भ्रष्टां भाषां तु तां विदुः”। भाषादोषान्तरमाह” कात्या०। अप्रसिद्धं निराबाधं निरर्थं निःप्रयोजनम्। असाध्यं वा विरुद्धं वा पक्षाभासं विवर्ज्जयेत्”। तत्र अप्रसिद्धमाह वृह० “न केनचित् कृतोयस्तु सोऽप्रसिद्ध उदाहृतः”। यथा हलसहस्र कृष्टं क्षेत्रमपहृतम्” वीरमि० “मदीयं शशविषाणं गृहीत्वा न प्रयच्छति” मिता० “स्वल्पापराधः स्वल्पार्थो निरर्थक इति स्मृतः” वृह० “यथाहमनेन सस्मितमीक्षित इति” स्मृतिचन्द्रिका। “कार्य्यबाधाविहीनस्तु विज्ञेयोनिंष्प्रयोजनः” वृह०। “यथाऽयं देवदत्तोमदीयगृहसन्निधौ सुस्वरमधीते इत्यादि” मिता० निरर्थकनिष्प्रयोजनौ अन्यथाऽपि वृह० लक्षितौ यथा “कुसीदाद्यैः पदै र्हीनोव्यवहारोनिरर्थकः। वाक्पारुष्यादिभिश्चैव विज्ञेयोनिष्प्रयोजनः”। “कुसीदमृणदानं तत्प्रभृतिभिश्चतुर्द्दशभिरर्थविषयव्यवहारैः हीनो निरर्थकः, पारुष्यादिभिहिंसात्मकैश्चतुर्भिर्हीनोनिष्प्रयोजनः” वीरमि०। असाध्यविरुद्धावाह वृह०। “ममानेन प्रदातव्यं शशशृङ्गकृतं धनुः। असम्भाव्यमसाध्यं तं पक्षमार्हुमनीषिणः। यस्मिन्नावेदिते पक्षे प्राड्विवेकेऽथ राजनि। पुरे राष्ट्रे विरोधः स्याद्विरुद्धः सोऽभिधीयते” अन्येऽपि पक्षाभासाः स्मृतिचन्द्रिकायामुक्ता यथा “भिन्नक्रमोव्युत्क्रमार्थः प्रकीर्ण्णार्थो निरर्थकः। अतीतकालोवा द्विष्ठःपक्षोनादेय इष्यते। यथास्थानानिवेशेन नैव पक्षार्थकल्पना। गम्यते तेन पक्षः स भिन्नक्रम उदाहृतः”। व्यत्यस्ताक्षरसन्निवेशोभिन्नक्रम इत्यर्थः। व्युत्क्रमार्थो व्यवहितान्वयेनार्थबोधक्वः। प्रकीर्ण्णार्थोऽसङ्कलितार्थः। “मूलमर्थं परित्यज्य तद्गुणोयत्र लिख्यते। निरर्थकः स वै पक्षो भूतसाधनवर्ज्जितः। भूतकालमतिक्रान्तं द्रव्यं यत्र हि लिख्यते। अतीतकालः पक्षोऽसौ प्रमाणे सत्यविस्मृतः। यस्मिन् पक्षे द्विधा साध्यं भिन्नकालविमर्षणम्। विमृष्यते क्रियाभेदात् द्विष्ठः स इह चोच्यते”। अन्ये च भाषाया दोषास्तत्रैवोक्ताः। “अन्याक्षरनिवेशेन अन्यथागमनेन च। आकुलं तु भवेल्लेख्यं क्रिया चैवाकुला भवेत्। साधनं सह साध्येन निर्द्दिष्टं यत्र लेखयेत्। उक्तिक्रमविहीनत्वात् सोऽपि पक्षो न सिद्ध्यति। विरुद्धश्चाविरुद्धश्च द्वावप्यर्थौ निवेशितौ। एकस्मिन् यत्र दृश्येते तं पक्षं दूरतस्त्यजेत्। परापरविरुद्धानि यः पदानि निवेशयेत्। विरुद्धपदसंकीर्ण्णा भाषा तस्य न सिध्यति” अनेकपदसंकीर्ण्णस्य दुष्यत्वं च युगपत्तत्साधनायोग्यस्थले एव। क्रमेण तु तत्साधनयोग्यत्वे तदपि ग्राह्यमेव “बहु प्रतिज्ञं यत् कार्य्यं व्यवहारेषु निश्चितम्। कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सयेति” कात्या० उक्तेः भाषापत्रञ्च संस्कृतदेशभाषान्यतरेण यथाबोधं लेख्यम् मूर्खाणामपि वादिप्रतिवादि तादर्शनात् अतएव अध्यापनेऽपि तथात्वं विष्णु ध० उक्तम्। “संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः। देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः” इति। येन सर्वेषामवबोधस्तथा लेख्यम् व्य० त० रघु०। तच्च यावदुत्तरं पाण्डुलेखं कृत्वा शोधनीयम् यथोक्तं पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवेकोऽभिलेखयेत्। पाण्डुलेखेन फलके ततः पत्रे निवेशयेत्” वृह०। “पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत्। ऊनाधिकं तु संशोध्य पश्चात् पत्रे निवेशयेत्। शोधयेत् पूर्ब्बवादन्तु यावन्नोत्तरदर्शनम्। अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत्” नार०।

आवेदनीय = त्रि० आ + विद–णिच्–अनीयर्। १ विज्ञापनीये यं प्रति ज्ञानाय आवेदनं क्रियते तस्मिन्, यस्य पदार्थस्यावेदनं क्रियते तस्मिंश्च। व्यवहारे २ आवेद्ये ऋणादानादौ च।

आवेदित = त्रि० आ + विद + णिच्–कर्म्मणि क्त। १ विज्ञापिते यं प्रति विज्ञापनं कृतं तस्मिन्, यस्य पदार्थस्य वेदनं कृतं तस्मिंश्च। व्यवहारे आवेदनकाले ३ निवेदिते पदार्थे च। “लिखितं साक्षिणो वापि पूर्ब्बमावेदितं न चेत्” नारदः “यथावेदितमर्थिना” या० स्मृतिः।

आवेदिन् = त्रि० आ + विद–णिच्–णिनि। १ विज्ञापके। व्यवहारे २ वादिनि च। “अनिष्टावेदिनं स्वप्नं दृष्ट्वा” रामा० स्त्रियां ङीप्। आ + विद–णिनि। २ आज्ञातरि त्रि० स्त्रियां ङीप्

आवेद्य = त्रि० आ + विद–णिच्–यत्। १ विज्ञाप्ये २ आवेदनीयार्थे आ + विद–णिच्–ल्यप्। ३ विज्ञाप्येत्यर्थे अव्य०।

आवेध्य = त्रि० आ + विध–ण्यत्। आवेधार्हे मुक्तादिमणौ।

आवेश = पु० आ + विश–घञ्। १ अहङ्कारभेदे, २ संरम्भे, ३ अभिनिवेशे, ४ आसङ्गे, ५ अनुप्रवेशे, यथा भूतावेशः। ६ ग्रहभये, ७ भूताद्यावेशरोगे च। “तस्मै स्मयावेशविवर्ज्जिताय” रघुः “तपनं प्रियविच्छेदे स्मरावेशोऽन्यचेष्टितम्” सा० द०। “आवेशमोहौ क्रोधश्च गान्धारीधृतराष्ट्रयोः” भा० आ० प० १ अ० “पञ्चानामिन्द्रियार्थानां शोकावेशैवातुलः” भा० व० ११ अ०

आवेशन = न० आ + विश–आधारे ल्युट्। १ शिल्पशालायाम् तत्र हि मनोऽभिनिवेशेनैव कार्य्यकरणात्तस्यास्तथात्वम् २ भूतावेशादिरोगे ३ सूर्य्येन्दुपरिधौ च। “मनःक्षेपस्त्वपस्मारो ग्रहाद्यावेशनादिजः” सा० द०। “जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च” मनुः आवेशशब्दार्थे ४ कोपादौ च आधारे ल्युट्। ५ गृहे च। आ + विश–णिच् + ल्युट्। ६ प्रवेशसम्पादने व्यापारे

आवेशिक = त्रि० आवेशे गृहे भवः आगतो वा टञ् तत। १ अतिथौ २ असाधारणे ३ बान्धवादौ च। २ वेष्टके (वेडा)

आवेशित = त्रि० आ + विश–णिच्–क्त। निवेशिते, “न मय्यावेशितधियां कामः कामाय कल्पते” भाग०। “मध्यावेशित चेतसः” गीता।

आवेष्टक = पु० आवेष्टयति ण्वुल्। आवरणकारक्रे प्राचीरादौ

आवेष्टन = न० आ + वेष्ट–भावे ल्युट्। १ आवरणे करणे ल्युट्। आवरंणसाधने २ प्राचीरादौ। (वेडा)इति ३ पदार्थे च

आव्दिक = त्रि० अव्दे भवः ठक्। वर्षभवे श्राद्धादौ “आब्दिके पितृकृत्ये च चान्द्रं मासं विनिर्दिशेत्” स्मृतिः “तथा ल्पाल्पोग्रहीतव्योराष्ट्राद्राज्ञाव्दिकः करः” मनुः षट्त्रिंशदाब्दिकं चर्य्यम्” मनुः असंक्रान्तेऽपि कर्तव्यमाव्दिकं प्रथमं द्विजैः” लघुहा०। “एकाहः पुनराव्दिके” स्मृतिः।

आव्य = त्रि० अवेर्मेषस्य विकारः ष्यञ्। मेषसम्बन्धिनि दुग्धलोमादौ

आव्याध = पु० आ + व्यघ–घञ् उपसृष्टत्वात्न अप्। सम्यक्पीडने

आव्याधिन् = त्रि० आ + व्यध–णिनि। सम्यक्पीडके। स्त्रियां ङीप्। सा च २ चोरसेनायाम् “नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिन्यस्तस्करां अरण्येष्वाजायेरन्” शत० ब्रा० “आव्याधिन्यः चोरसेनाः” भा०।

आव्रश्चन = न० ईषत् व्रश्चनं छेदनम् प्रा० स०। १ ईषच्छेदने, “आव्रश्चनाद्वनस्पतयोऽनुप्रजायन्ते” शत० ब्रा०। आधारे ल्युट्। २ छेद्यवृक्षप्रदेशे त्रि० आहुत्या हि यो यूपः संस्कर्त्तव्यःसस्थाणुः आव्रश्चनशब्देनौच्यते “अतस्त्वमित्याव्रश्चने जुहोति” कात्या० ६, १, २०। आवृश्छ्यते यूपोऽस्मादाव्रश्चनः स्थाणौ छेदनप्रदेशः” वृत्तिः “आव्रश्चनमभिजुहोति” शत० ब्रा०।

आव्रस्क = पु० आ + व्रश्च–घञ् कुत्वम्। ईषच्छेदने। आत्मनोऽनाव्रस्काय” तैत्ति० श्रुतिः।

आव्रीडक = पु० अव्रीडस्य निर्लज्जस्य विषयो देशः राजन्या० वुञ्। निर्लज्जदेशे।

आश = पु० अश–भोजने घञ्। भोजने। प्रातराशः, भायमाशः, कर्मणि उपपदे कर्त्तरि अणे उपपदस०। तत्तद्वस्तुभक्षके यथा हुताशः आश्रयाशः मांसांशः पलाशः हविष्याशः।

आशंसा = स्त्री आ + शस–अ। अप्राप्तस्य १ प्राप्तीच्छायाम्, २ इष्टार्थाशंसने च। “निदधे विजयाशंसां चापे सीताञ्च लक्ष्मणे” रघुः “आशंसायां भूतवच्च” “आशंसावचने” तिङ्” पा०। ल्युट् आशसनमप्यत्र न० “इष्टार्थाशंसन माशीः” रघु०।

आशंसित = त्रि० आ + शन्स–क्त। १ कथिते २ इच्छाविषयीभूते। भावे क्त ३ आशंसायाम् न०।

आशंसितृ = त्रि० आ + शंस–तृच्। भाविशुभेच्छावति। स्त्रियां ङीप्।

आशंसिन् = त्रि० आ + शन्स–णिनि। आशंसौ आशंसा कर्त्तरि स्त्रियां ङीप्।

आशंसु = त्रि० आ + शन्स–उ। इच्छाकारके भाविशुभाशंसावति “लक्ष्मीः पुंयोगमाशंसुः कुलटेव कुतूहलात्” भट्टिः

आशक = त्रि० अश्नाति अश–ण्वुल्। १ भक्षके २ भोगयुक्ते। णिच्–ण्वुल्। ३ भोगसम्पादके। “तमेतं ब्राह्मणाविविदिषन्ति–तपसाऽनाशकेन” श्रुतिः।

आशक्त = प्रि० सम्यक् शक्तः प्रा० स०। सम्यक्शक्तियुक्ते

आशङ्कनीय = त्रि० आ + शकि–अनीयर्। १ शङ्कया विषयीकार्य्ये २ अनिष्टतया चिन्तनीये च।

आशङ्का = स्त्री आ + शकि–अ। १ भये त्रासे अनिष्टतया २ चिन्तने “समुद्धृताशङ्कमनीचकाशे” माघः। “रत्या च साशङ्कमनुप्रयातः” कुमा०। “गुदपरिकर्त्त नमाशङ्का पाण्डुरोगग्रहणीदोष शोषाणाम्” सुश्रु० सम्यक्शङ्कायां ३ सन्देहे इत्याशङ्कायामाह इति भूरिशः जगदीशः गदाधरश्च प्रायुङ्क्त।

आशङ्कित = त्रि० आ + शकि–कर्त्तरि क्त। १ भीते कर्मणि क्त अनिष्टतया २ चिन्तिते ३ सन्दिग्धे च। भावे क्त। ३ भये ४ सन्देहे ५ अनिष्टतया चिन्तने च न०।

आशङ्किन् = त्रि० आ + शकि–णिनि। आशङ्कायुक्ते “रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः” रघुः। अशुभाशङ्कि हृदयम्” रामा० कुब्जा नोचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः” रत्ना०। स्त्रियां ङीप्।

आशङ्क्य = त्रि० आ + शकि–कर्मणि ण्यत्। १ सन्देहविषयीकार्य्ये २ अनिष्टतया चिन्त्ये ल्यप्। ३ संदिह्येत्यर्थे ४ अनिष्टतया ज्ञात्वेत्यर्थे च अव्य० अव्याप्यवृत्तिसाध्यकसद्धेतावव्याप्तिमाशङ्ग्याह” दीधितिः।

आशन = पु० अशनएव स्वार्थे अण्। १ अशनवृक्षे द्विरूपकोषः अश–णिच् ल्यु। २ भोजयितरि त्रि०। अशनिः अशनिजीवी स्वार्थे पर्श्वा० अण्। ३ वज्रजीविनि त्रि० आशनः आशनौ बहुषु तस्य लुक् अशनय इत्येव। अशनिरेव प्रज्ञा० अण्। ४ वज्रे स्वार्थिकप्रत्ययस्य प्रकृतिलिङ्गत्वात् पुंस्त्री०।

आशय = पु० आ–शी–अच्। १ अभिप्राये, २ आधारे, ३ विभवे, ४ पनसवृक्षे वैद्यकोक्ते ५ स्थानभेदे च। आ फलविपाकात् चित्तभूमौ शेते इति कर्त्तरि अच् कर्मजन्ये ६ वासनारूपे संस्कारे, “क्लेशजन्मकर्मविपाकाशयैरप्ररामृष्टः पुरुषविंशेष ईश्वरः” पात० सू० धर्माधर्मरूपे ८ अदृष्टे च। अधारे अच्। आशयवति ९ चित्ते। “अहमात्मागुडाकेश। सर्व्वभूताशयस्थितः” गीता०। भावे अच्। १ ० शयने ११ स्थाने च “यो वक्ता नेदृगाशयः” किरा० “ग्रहीतुकामादरिणाशयेन” नैष० विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः” किरा० “गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्” वैद्यकोक्ताः देहान्तर्वर्त्तिन आशयास्तु सप्त यथा ह” सुश्रुते “त्वंचः सप्त, कलाः सप्त, आशयाः सप्त” इति विभज्य आशयास्तु वाताशयः पित्ताशयः श्लेष्माशयः रक्ताशयः आमाशयः पक्वाशयः मूत्राशयः, स्त्रीणां गर्भाशयोऽष्टम” इति। एषां स्थानानि भावप्र०। “उरोरक्ताशयस्तस्मादधःश्लेष्माशयः स्मृतः। आमाशयस्तु तदधः तल्लिङ्गं चरकोऽवदत्” नाभिस्तनान्तरं जन्तोराहुरामाशयं बुधाः। आमाशयादधः पक्वाशयादूर्द्ध्वं तु या कला। ग्रहणीनामिका सैव कथितः पावकाशयः। ऊर्द्ध्वमग्न्याशयो नाभेर्मध्यभागे व्यवस्थितः। तस्योपरि विलं ज्ञेयं तदधः पवनाशयः। पक्वाशयस्तु तदधः सएव च मलाशयः। तदधः कथिता वस्तिः सा हि मूत्राशयो मतः। पुरुषेभ्योऽधिकाश्चान्ये नारीणामाशयास्त्रयः। एकोगर्भाशयः प्रोक्तः पित्तपक्वाशयान्तरे। स्तनौ प्रसिद्धौ तावेव बुधैःस्तन्याशयौ स्मृतौ”। १ २ कोष्ठागारे १३ बौद्धमतसिद्धे आलयविज्ञान रूपे विज्ञानसन्ताने १४ आश्रये १५ किंपचाने पशुधारणार्थगर्त्तरूपे १६ खातभेदे च। “अयञ्च पार्थो वीभत्सुर्वरिष्ठोज्याविकर्षणे। आस्ते परमसन्तप्तो नूनं सिंह इवाशये” भा० व० ३५ अ०।

आशयाश = पु० आशयमाश्रयमश्नाति अश–अण् उप० स०। वह्नौ क्षीरस्वामी तस्य स्वाश्रयकाष्ठादेभेक्षकत्वेन तथात्वम्

आशर = पु० आशृणाति अ + शॄ–अच्। १ अग्नौ, २ राक्षसे च।

आशव = न० आशोर्भावः पृथ्वा० वा अण्। शीघ्रत्वे पक्षे इमनिच् आशिमा पु०। त्व आशुत्वम् न० तल् आशुता स्त्री तत्रार्थे।

आशस् = त्रि० आ + शन्स–क्विप्। १ आशंसनकर्त्तरि। भावे क्विप् आशंसने “नमसा पृच्छ्यमानस्तवाशसा जातवेदोयदीदम्” ऋ० ४, ५, ११, “तवाशसा त्वत्स्तुत्या” भा०।

आशसन = न० आ शन्स–बा क्युन्। १ कथने २ आशंशायाञ्च। “तस्या आहननं कृत्या मेनिराशसनम्” अथ० १२, ५, ३९, “क्षिप्रेऽस्याशसनं जनिष्यते” शत० ब्रा०।

आशस्त = त्रि० आ + शन्स–क्त। स्तुते। “यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि” ऋ० १, २, ९१।

आशा = स्त्री समन्तात् अश्नुते आ + अश–अच्। दिशि, “अगस्त्याचरितामाशामनाशास्यजयोययौ” रघुः “करभकण्ठकडारमाशाः” माघः। “गच्छतस्तस्य चित्ररथतनया न केवलमन्तर्बहिरपि सैव सर्व्वाशानिबन्धनमासीत्” काद०। दिक् च नैयायिकादिमते संख्यापरमितिपृथक्त्वसंयोगविभागाश्रयोद्रव्यभेदः दैशिकपरत्वापरत्वयोरसमवायिकारणसंयोगाश्रयतया तत्सिद्धिः तस्या एकत्वेऽपि उपाधिभेदात् प्राच्यादिव्यवहारः तथा च यत्पुरुषस्य उदय गिरिसन्निहिता या दिक् सा तस्य प्राची, उदयगिरिव्यवहिता प्रतीची तत्पुरुषीयमेरुसन्निहिता दिगुदीची “सर्वेषाञ्चैव वर्षाणां मेरुरुत्तरतः स्थितः” इत्युक्तेस्तस्यास्तथात्वम्। तद्व्यवहिता दिक् अवाची। इयञ्च दिक् ईश्वर एवेति रघुनाथः “दिक्कालावीश्वरान्नातिरिच्यते” इति पदार्थखण्डने तस्योक्तेः सां० कौ० मते यदुपाधिना पूर्ब्बापरत्यव्यवहारस्तदुपाधेरेव दिक्शब्दवाच्यत्वं न तदाश्रयत्वेनातिरिक्तदिक्कल्पनम् तथा च गगनात्मकत्वमेव दिशः “दिक्कालावाकाशादिभ्यः” सां० सू० आकाशोपाधिभ्यामेव दिक्कालयोर्नार्थान्तरत्वमिति व्यवस्थापितम्।

२ अशक्योपायार्थविषयायाम् तीव्राकाङ्क्तायाम् ३ अप्राप्तप्राप्तीच्छायां तृष्णायां च। “आशा बलवती राजन्! शल्योजेष्यति पाण्डवान्” “तामाशां हृदये कृत्वा” भा० शल्यप०। “आशा हि परमं दुःखं नैराश्यं परमं सुखम्। यथा संछिद्य कान्ताशां सुखं सुष्वाप पिङ्गला” पुरा० “मनो बभूवेन्दुमतीनिराशम्”। “राघवोरथमप्राप्तां तामाशाञ्च सुरद्विषाम्” रघुः आशायाश्च व्रह्मरूपेणोपासनं श्रुतौ विहितं यथा “स्मराद्वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति” प्रश्ने “आशावाव स्मराद्भूयस्याशेद्धोवै स्मरोमन्त्रानधीते कर्म्माणि कुरुते पुत्रांश्च पशूंश्चेच्छत इमं च लोकममुञ्चेच्छत आशामुपास्वेति। स य आशां ब्रह्मेत्युपास्ते आशयास्य सर्व्वे कामाः समृध्यन्त्यमोघाः हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथा कामचारो भवति य आशां ब्रह्मेत्युपास्ते” छा० उ० व्याख्यातं च भा०। यथा “आशा वाव स्मराद्भूयसी। अप्राप्तवस्त्वाकाङ्क्षा आशा तृष्णा काम इति यामाहुः पर्य्यायैः। सा च स्मरात् भूयसी। कथम्? आशया ह्यन्तःकरणस्थया स्मरति स्मर्त्तव्यम्। आशा विषयरूपं स्मरन्नसौ स्मरो भवति आशेद्ध आशयाभिवर्द्धितः स्मरभूतः स्मरन्नृगादीन्मन्त्रानधीतेऽधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्म्माणि कुरुते तत्फलाशयैव। पुत्रांश्च पशूंश्च कर्म्मफलभूतानिच्छतेऽभिवाञ्छति आशयैव तत्साधनान्यनुतिष्ठन् इमञ्च लोकमाशेद्धएव स्मरन् लोकसंग्रहसेतुभिरिच्छन्नमुञ्च लोकमाशेद्धः स्मरन् स्मराकाशादिनामपर्य्यन्तं जगच्चक्रीभूतं प्रतिप्राणि, अत आशायाः स्मरादपि भूयस्त्वमित्यत आशामुपास्व। यस्त्वाशां ब्रह्मेत्युपास्ते शृणु तस्य फलम् आशया सदोपासितयास्योपासकस्य सर्वे कामाः समृद्ध्यन्ति समृद्धिं गच्छन्त्यमोघाहास्याशिषः प्रार्थनाः सर्व्वा भवन्ति यत् पार्थितं सर्व्वं तदवश्यं भवतीत्यर्थः”। ईषद्भेदमादायैव आशाकामतृष्णादेर्भेदः तदभिप्रायेणैव “आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला” इत्यादौ आशादीनां भेदेन वर्ण्णनम्।

आशा(ड)ढ = पु० आषाढ + पृ०। आषाढशब्दार्थे द्विरूपकोषः

आशाढा(डा) = स्त्रीपृ० आषाढानक्षत्रे “मार्गे च फाल्गुने चैव आशा(डे)ढे कार्त्तिके तथा। पक्षयोर्माघमासस्य द्वितीयां परिवर्ज्जयेत्” मल० त० पु०। आशाढा प्रयोजनमस्य अण्। २ ब्रह्मचारिधार्य्ये पालाशे दण्डे। आशाढानक्षत्रयुक्ता पौर्णमामी अण् ङीप्। आशाढी चान्द्राशाढपौर्णमास्याम् स्त्री सा यत्र मासे अण्। चान्द्राशाढे पु०।

आशादामन् = न० आशा दामेव उपमि० स०। आशारूप बन्धनसाधने दामनि आशारूपशृङ्खले।

आशापाल = पु० आशां दिशं पालयति पा–णिच्–अण् उप० स०। १ दिक्पाले इन्द्रादौ ते च “इन्द्रोवह्निः पितृपतिर्नैरृतोवरुणोमरुत्। कुवेरईशः पतयः पूर्व्वादीनां दिशां क्रमात्” इत्यमरोक्ता अष्टौ उर्द्धाधोदिशोश्च ब्रह्मानन्तौ चेति दश। २ अश्वमेधीयपशुरक्षके राजकुमारभेदे च। तेषां स्वरूपादिकमुक्तं शत० ब्रा०। “आदित्यानेवैनं गमयति देवा आशापाला एतं देवेभ्योऽश्वं मेधाय प्रोक्षितं रक्षतेति शतं वै तल्प्या राजपुत्रा आशापालास्तेभ्य एवैनं परिददातीह रन्तिरिह रमतामिह धृतिरिह स्वधृतिः स्वाहेति संवत्सरमाहुतीर्जुहोति षोडश नवतीरेता वा अश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तोबन्धनमागच्छति षोडश नवतीरेता वाअश्वस्य बन्धनं ताभिरेवैनं बध्नाति तस्मादश्वः प्रमुक्तोबन्धनं जहाति। राष्ट्रं वा अश्वमेधः राष्ट्रएते व्यायच्छन्ते येऽश्वं रक्षन्ति तेषां य उदृचं गच्छन्ति राष्ट्रेणैव ते राष्ट्रं यन्ति अथ ये नोदृचं गच्छन्ति राष्ट्रात्ते व्यवच्छिद्यन्ते तस्माद्राष्ट्रियोऽश्वमेधेन यजेत परा वा एष सिच्यते योऽबलोऽश्वमेधेन यजते यद्यमित्रो अश्वं विन्देत यज्ञोऽस्य विच्छिद्येत पापीयान् तस्माच्छतं कवचिनो रक्षन्ति यज्ञस्य संतत्या अव्यवच्छेदाय न पापीयान् भवत्यथान्यमानीय प्रोक्षेयुः, सैव तत्र प्रायश्चित्तिः” शत० ब्रा०। अधिकमश्वमेधशब्दे दृश्यम्-

आशापुर = न० पुरभेदे यत्र प्रशस्तगुग्गुलुसम्भवस्तादृशे नगरे।

आशापुरसम्भव = न० आशापुर सम्भवति सम् + भू अच्। गुग्गुलुभेदे।

आशाबन्ध = पु० आशां दिशं बध्नाति अच्। १ मर्कटजाले,बन्ध–घञ् ३ त०। २ तृष्णाबन्धे ६ त०। ३ दिशां बन्धे च। ४ समाश्वासे। आशा बन्धैव। ५ आशारूपे बन्धे। “आशाबन्धः कुमुमसदृशं प्रायशोह्यङ्गनानाम्” मेघदू०।

आशावह = त्रि० वह–अच् ६ त०। १ आशाधायके आशासंपादके। २ नृपतिभेदे “आशावहो निरुद्धश्चसमीकः सारिमेजय” भा० आ० १८६ अ० ३ दिवः पुत्रभेदे च पु० “दिवः पुत्रो वृहद्भानुश्चक्षुरात्मा विभावसुः। सविता स ऋचीकोऽर्कः भानुराशावहो रविः” भा० आ० १ अ०।

आशास्य = त्रि० आ + शास–ण्यत्। आशीःसाध्ये, आशंसनीये “आशास्यमन्यत् पुनरुक्तमेव” रघुः। “अनाशास्यजयोययौ” रघुः।

आशित = त्रि० आश्नाति आ + अश–क्त। १ सम्यग्भुक्ते, अन्नादौ भावे क्त। २ सम्यग्भक्षणे न०। आशितमस्त्यस्य अर्श० अच्। ३ अशनेन तृप्ते त्रि० “नातिप्रगे नातिसायं न सायं प्रातराशितः” मनुः।

आशितङ्गवीन = त्रि० आशिता अशनेन तृप्तागावो यत्र खञ् नि० मुम्। यत्र स्थले घासादिभक्षणेन गावस्तृप्तिमाप्तास्तादृशे प्रचुरघासे स्थले “हित्वाशितङ्गवीनानि” भट्टिः।

आशितम्भव = त्रि० आशितोऽशनेन तृप्तो भवत्यनेन आशित + भूकरणे खच् मुम् उ० स०। १ यस्य भोजनेन प्राणिनस्तृप्ताभवन्ति २ तादृशेऽन्नादौ। भावे खच्। ३ अशनेन तृप्तभवने न०। “फलैर्येष्वाशितम्भवम्” भट्टिः।

आशितृ = त्रि० आ + अश–तृच्। तृप्त्या भक्षके हेम०। स्त्रियां ङीप्।

आशिन् = त्रि० अश–भोजने णिनि। भक्षके “श्मशानवासी मांसाशी खर्पराशी मखान्तकृत्” वटुकस्तोत्रम्। “नायन्त्रितस्त्रिवेदोऽपि सर्व्वाशी सर्वविक्रयी” “भोजनार्थन्तु ते शंसन् वान्ताशीत्युच्यते बुधैः” “आगारदाही गरदः कुण्डाशी सोमविक्रयी” “विघसाशी भवेन्नित्यं नित्यं वाऽमृतभोजनः” इति च मनुः। “दिवोपवासी तु निशामिषाशी” हास्या० “एवं कृत्वा हविष्याशी जपेल्लक्षमनन्यधीः” तन्त्रम्।

आशिन = त्रि० आशिन् + स्वार्थे अण् वेदे नि० न टिलोपः। भक्षके “नमोयुवभ्योनम आशिनेभ्यः” ऋ० १, २७, १३।

आशिमन् = पु० आशोर्भावः पृथ्वा० इमनिच् डिद्वत्। शीघ्रत्वे।

आशिर् = त्रि० आश्रीयते पच्यते आ + श्री–क्विप् नि०। पच्यमाने क्षीरादौ “शुक्रा आशिरं याचन्ते” ऋ० ८, २, १०। “आशिरं क्षीरादिकं श्रपणद्रव्यम्” भा०। “ता~ आशिरं पुरोडाशमिन्द्रियम्” ऋ० ८, २, १०। “इन्द्रा य गाव आशिरं दुदुह्रे वज्रिणे मधु” ऋ० ८, ५८, ६।

आशिर = त्रि० आशीरेव स्वार्थे अण्। श्रपणीये क्षीरादौ। “अथ यद्धेनुर्भवति साशिरमेवैतत् क्रीणाति” शत० ब्रा० ३, ३, १। आ + अश–व्याप्तौ भोजने वा इरच्। २ अग्नौ ३ सूर्य्ये ४ राक्षसे च पु० सि० कौ०। अग्निराक्षसयोः सर्वभक्षकत्वात्, सूर्यस्य च दीप्त्या सर्व्वव्यापित्वात्तथात्वम्।

आशिषिक = त्रि० आशिषा चरति ठक् “इसुसुक्तान्तात्” पा० सूत्रे प्रतिपादोक्तस्यैव इसो ग्रहणात् न कः किन्तु इक एव। आशीर्व्वादेन चारिणि आशीरभिरते।

आशिष्ट = त्रि० आ + शास–क्त। कृताशीर्व्वादे।

आशिष्ठ = त्रि० अतिशयेन आशु इष्ठन् डिद्वत्। अत्यन्तशीघ्रे।

आशिस् = स्त्री आ + शास् क्विप् आङ्पूर्ब्बकत्वात् अतैत्त्वम्। १ इष्टार्थाविष्करणे। “यां वै काञ्च यज्ञ ऋत्विज आशिषमाशासते यजमानस्यैव सा” शत० ब्रा० १, ३, १, २६। “आशीर्नमस्त्रिया वस्तुनिर्देशोवाऽपि तन्मुखे” सा० द०। “जगच्छरण्यस्य निराशिषः सतः” कुमा० “अमोघाः प्रतिगृह्णन्तावर्घानुपदमाशिषः” रघुः। २ प्रार्थनायाञ्च तस्य कामाः समृध्यन्त्यमोघाहास्याशिषो भवन्ति” छा० उ०। “आशिषः प्रार्थनाः” भा० “वेदीक्तमायुर्मर्त्त्यानामाशिषश्चैव कर्मणाम्” मनुः। आशीश्च “वात्सल्याद्यत्र मान्येन कनिष्ठस्याभिधीयते। इष्टावधारकं वाक्यमाशीः सा परिकीर्त्तिता” इत्येवं लक्षणा प्रार्थना वाक् अत्र कनिष्ठस्येत्युपलक्षणम्। “तस्मै जयाशीः ससृजे पुरस्तात् सप्तर्षिभिस्तान् स्मितपूर्व्वमाह” कुमा० सप्तर्षिकृतशिवाशीर्व्वादवर्ण्णनात्

आशी = स्त्री आशीर्य्यतेऽनया आ + शॄ क्विप् पृ०। “१ सर्पदंष्ट्रायाम्। आशीविषः। “विषमाशोभिरनारतं वमन्तः माघः। “आशीमिव कलामिन्दोः” राजेश्वरः “आशी उरगदंष्ट्रायाम्” वैद्य०। “आशी तालुगता दंष्ट्रा तया विद्धो न जीवति” आशिस् पृ०। २ आशीर्व्वादे द्विरूपकोषः ३ वृद्धिनामोषधौ च।

आशीयस् = त्रि० अतिशयेनाशुः इयसु डिद्वत्। अत्यन्तशीघ्रे स्त्रियां ङीप्।

आशीर्त्त = त्रि० आ + श्री–क्त वेदे नि०। आश्राणे पक्वे दुग्धादौ “मध्यत आशीर्त्तः” सि० को० धृता श्रुतिः।

आशीर्वत् = त्रि० आशीरस्त्यस्थ मतुप् वेदे मस्य वः। आशीर्व्वादयुक्ते “सवनान्याशीर्व्वन्ति” कात्या० २, ९, ८ लोके तु आशीर्मानित्येव स्त्रियां ङीप्।

आशीर्वाद = पु० आशिषो वादः वचनम्। इष्टार्थाविष्करणवाक्ये “मङ्गल्यं दीर्घवर्ण्णान्तमाशीर्वादाभिधानवत्” मनुः “संजानन्त्यतुलं वीर्य्यमाशीर्वादपरायणाः” भा० आ० प० ८ अ०। आशीर्वचनादयोऽप्यत्र। “आशीर्वचनसंयुक्तां नित्यं यस्मात् प्रकुर्व्वते” सा० द०।

आशीविष = पु० आश्यां विषमस्य। १ सर्पे तद्भेदाश्चाहिशब्दे ५८१ पृष्ठे उक्ताः। “गरुत्मदाशीविषभोमदर्शनैः” रघुः २ दर्वीकरसर्पभेदे च अहिशब्दे सुश्रुते उदा० “आशीविषैः कृष्णसर्पैर्भीमसेनमदंशयत्। सर्व्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा” भा० व० १२ अ०। “तैर्थिकं भुञ्जते यस्तु मणिनागम्य भारत!। दष्टस्याशीविषेणापि न तस्य क्रमते विषम्” भा० व० ८४ अ०। “मृद्रन् सतः सत्यशीलान् सत्यधर्म्मानुपालिनः। आशीविषानिव क्रुद्धान् पतीन् परिचराम्यहम्” भा० व० २३२ अ०।

आशु = त्रि० अश–व्याप्तौ उण्। १ शीघ्रे “यदाशुभिः पतति योजना पुरः” ऋ० २, १६, ३, गुणवचनत्वात् स्त्रियां वा ङीप्। वर्षाभवे २ धान्यभेदे पु० (आउस)। तस्य षष्टिदिवसमघ्ये पच्यमानतयाऽऽशुपाकात् आशुत्वम् तद्गुणलक्षणानि भावप्र०। “वार्षिकाः काण्डिताः शुक्लाव्रीहयश्चिरपाकिणः। कृष्णव्रोहिः पाटलश्च कुक्कुंटाण्डक इत्यपि। शालीमुखोजतु मुख इत्याद्याव्रीहयः स्मृताः। कृष्णव्रीहिः स विज्ञेयो यः कृष्णतुषतण्डुलः (कोद्रव)। पाटलः पाटलापुष्प वर्ण्णको व्रीहिरुच्यते (राङ्गिधान्य) कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कुटाण्ड इहोच्यते। शालीमुखः कृष्णशुकः कृष्णतण्डुल उच्यते। लाक्षावर्ण्णं मुख यस्य ज्ञेयोजतुमुखस्तु सः। व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिमाः। अल्पाभि- ष्यन्दिनोबद्धवर्चस्काः षष्टिकैः समाः” “कृष्णव्रीहिर्वरस्तेषां तस्मादल्पगुणाः परे” ३ पाटले व्रीहौ न०। ४ क्रियाविशेषणत्वे न०। “प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत्” शान्तिं नेयं प्रणयिभिरतोवर्त्म भानोस्त्यजाशु” मेघदूतम् “स जीवसन्नेव शूद्रत्वमाशु गच्छति सान्वयः” कुलान्येव नयन्त्याशु समस्तानि च शूद्रताम्” मनुः

आशुकारिन् = त्रि० आशु शीघ्रं करोति कृ–णिनि स्त्रियां ङीप्। १ शीघ्रकरे “आशुकारी तथाशुत्वाद्धावत्यम्भसि तैलवत्” सुश्रुतोक्ते २ द्रवभेदे च। क्विप्। आशुकृदप्यत्र त्रि०।

आशुक्रिया = स्त्री आशु यथा तथा क्रिया। शीघ्रकरणे “अष्टास्वप्यायुर्वेदतन्त्रेषु एतदेवाधिकमभिमतमाशुक्रियेति” सुश्रु०।

आशुग = पु० आशु + गम–ड। १ वायौ, २ सूर्य्ये च। एतयोः शीघ्रगामित्वात् तथात्वम्। “वायुर्वै क्षिपिष्ठा देवतेति” श्रुतौ क्षिप्रगामित्वोक्तेः शीघ्र गतित्वप्रसिद्ध्वत्वाच्च वायोस्तथात्वम् सूर्य्यस्याशुगत्वमनुपदं वक्ष्यते ३ वाणे “पपावनास्वादितपूर्व्वमाशुगः” “रावणस्यापि रामास्तोभित्त्वा हृदयमाशुगः” रघुः ४ शोघ्रगामिनि त्रि० विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः” मनुः। “दिशां गजन्तु श्वेताख्यं (ऐरावतम्) श्वेताऽजनयताशुगम्” भा० आ० प० ६६ अ०। “जवनानाशुगांश्चैव करार्थं समुपानयत्” भा० स० प्र० २६३ अ० “शोभमाना रथेयुक्तास्तरिष्यन्तैवाशुगाः” भा० व० प० १६१ अ०। आशुगत्वं च अल्पकालमध्ये गन्तव्यदेशगमनात् भवति कालाल्पत्वञ्च आपेक्षिकं ततश्च “शीघ्रोऽल्पभागे बहुभागमन्दे” इत्यादौ नील० ता० ग्रहाणां शीघ्रमन्दत्वमापेक्षिकमिति बोध्यम् तथा च स्वस्वकक्षायां ग्रहाणां तुल्यगतित्वेऽपि कक्षाणामल्पत्ववृहत्त्वाभ्यां गन्तव्यदेशाल्पत्वाधिकत्वभेदात् गतिभेदः ग्रहाणां कक्षामानं च ग्रहकक्षाशब्दे वक्ष्यते। तथा च स्वल्पकक्षास्थग्रहस्य वृहत्कक्षास्थग्रहापेक्षया शीघ्रगत्वम् तच्च स्वाभाविकम्। अत्र प्रसङ्गात् ग्रहाणां शीघ्रमन्दगतित्वे कारणमुच्यते तथा हि सर्वेषां ग्रहाणां राशिचक्रस्थस्वस्वकक्षासु तुल्यप्राग्गतित्वेऽपि स्वस्वकक्षाणामल्पत्ववृहत्त्वाभ्याम् अल्पाधिककालाभ्यामेव स्वस्वकक्षास्थराशिचक्रस्थस्थानभोगः इत्यतो यस्य कक्षा लघ्वी स शीघ्रगः यस्य च वृहती स मन्दग इत्युच्यते एतदभिप्रायेणैव ग्रहाणां राशिभोगे कालभेदो दर्वितः यथा “रविर्मासं निशानाथः सपाददिवसद्वयम्। पक्षत्रयं भूमिपुत्रो बुधोऽष्टादश वासरान्। वषमेकं सुराचार्य्यस्त्वष्टाविंशं दिनं भृगुः। शनिः सार्द्धद्वयं वर्षं राहुः सार्द्धसमां तथा” ज्यो० सूर्य्यस्य यद्यपि चन्द्रबुधशुक्रापेक्षया मन्दगतित्वम् तथापि कुजगुरुराहुशन्यपेक्षया शीघ्रगतित्वात् आशुगत्वम्। स्वस्वकक्षायां सूर्य्ययोगेन च ग्रहाणां पुनःशीघ्रगत्वं “सूर्य्ययुक्ता ग्रहाः शीघ्रा इत्युक्तेः। ग्रहाणां शीघ्रकेन्द्रशीघ्रफलादिकम्” सि० शि० दर्शितं विस्तरभयान्नोक्तं तत एवावसेयम्। किञ्च सर्ब्बग्रहापेक्षया राशिचक्रस्य शीघ्रगतित्वात् प्रतिदिनं स्वगत्यनुसारेण ग्रहाणां प्राग्गतित्वेऽपि राशिचक्रस्य प्रवहवायुना पश्चात् नीयमानतया तदारूढरव्यादेः पश्चाद्गतित्वभ्रमात् तदनुरूपशीघ्रगत्वमारोप्यते। ग्रहाणां राशिचक्रभोगार्थं स्वस्वकक्षासु या प्राग्गतिस्तस्या अल्पकालसाध्यत्वे शीघ्रत्वमिति बोध्यम्। एवं ग्रहाणां स्वाभाविक्यां स्वस्वकक्षासु गतौ स्थितायामपि प्रवहानिलेन पश्चाद्भ्राम्यमाणस्य राशिचक्रस्य प्रतिदिनं पृथिवीभ्रमणात् तद्गतेश्च सर्व्वग्रहापेक्षयाऽतिशीघ्रत्वात् तत्र च वंभ्रम्यमाण राशिचक्रस्य गतौ तत्स्थग्रहगतित्वारोपेण नौकागतौ तत्स्थवस्तुगतित्वारोपवत् ग्रहाणां राशिचक्रतुल्यशीघ्रगतित्वं पुराणादावुक्तम् यथा “योजनानां सहस्रे द्वे द्वे शते द्वे च योजने। एकेन निमिषार्द्धेन क्रममाण! नमोऽस्तु ते। नवतिर्योजनानाञ्च सहस्राणि च सप्ततिः। यावद्घटिकमात्रेण तावच्चलति भास्करः” आदित्यहृ०। “यदा चेन्द्र्याः पुर्य्याः प्रचलति पञ्चदशभिर्घटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्द्धद्वादशलक्षाणि साधिकानि चोपयाति” भाग० ५ स्क० ३० अ० “साधिकानि पञ्चविंशतिसहस्राधिकानि” श्रीधरः। तेन पञ्चदशभिर्घटिकाभिर्यदि २ ३७७५००० योजनानि तदा ६० दण्डात्मके दिने कानीति चतुर्भिर्गुणितानि तानि प्रत्यहं राशिचक्रगतिमानं तदारोपाच्च सूर्य्यादीनां तथागतित्वमिति बोध्यम्। एतदपि पुराणाश्रितं वस्तुतोराशिचक्रस्य प्रत्यहं पृथ्वीभ्रमणात् राशिचक्रपरिधिमानमेव अहोरात्रे गन्तव्ययोजनमानमेतच्च खगोलशब्दे वक्ष्यते। तथा च अल्पकालेन गन्तव्यस्थानगामित्वमाशुगत्वमिति सिद्धम्।

आशुगामिन् = स्त्री आशु गच्छति गम–णिनि। १ शीघ्रगामिनि स्त्रियां ङीप्। २ सूर्य्ये पु० “आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्त्यते” भा० व० प० ३ अ० सूर्य्यस्तवः।

आशुङ्ग = त्रि० आशु गच्छति वेदे नि० खच् मुम्। शीघ्रगामिनि “निर्वलासेतः प्रपताशुङ्गः शिशुको यथा” अथ० ६, १४, ३

आशुतोष = पु० आशु शीघ्रं तोषो यस्य। १ शिवे स्वल्पकाला र्चनेनैव तस्य तुष्टत्वात् तथात्वम्। २ शीघ्रतोषिणिं त्रि०।

आशुपत्री = स्त्री आशु पत्रं यस्याः गौ० ङीष्। शल्लकीलतायाम्

आशुपत्वन् = पु० आशु पतति पत–वनिप्। १ शीघ्रगामिनि “श्येनःश्येनेभ्य आशुपत्वा” ऋ० ४, ६, ४। स्त्रियां ङीप् रश्च। आशुपत्वरी।

आशुमत् = त्रि० आशु शैघ्र्यं विद्यतेऽस्य मतुप्। शीघ्रतायुक्ते “यथा सूर्य्यस्यरश्मयः परापतन्त्याशुमत्” अथ० ६, १०५, ३

आशुव्रीहि = पु० कर्म्म०। वार्षिके धान्यभेदे (आउस) आशुशब्दे विवृतिः।

आशुशुक्षणि = पु० आ + शुष–सन् + अनि। १ अग्नौ, २ वायौ च। अस्य च वेदएव प्रयोगः लोकेऽपि क्वचित्तेन “मन्त्रपूतानि हवींषि प्रतिगृह्णात्येतत्प्रीत्याशुशुक्षणिः” काद० “अन्तरात्मा ह्ययं साक्षान्निश्चितोह्याशुशुक्षणिः” काशी०।

आशुषाण = त्रि० आ + शुष–बा० कानच्। सम्यक् शुष्यमाणे

आशुहेषस् = त्रि० आशु + हेष–शब्दे–असुन्। शीघ्रं शब्दायमाने। “इन्द्राविष्णू अश्विनी वाशुहेषसा” ऋ० ८, १०, २, “आशुहेषसा शीघ्रं शब्दायमानौ” भा०।

आशू = त्रि० आशु + वेदे पृ० दीर्घः। शीघ्रे। “इन्द्रः प्राशूभवा सचा” यजु० ३४, ५६, “आशुशब्दो दीर्घश्छान्दसः” वेददीपः।

आशेकुटिन् = पु० आशेतेऽस्मिन् आ + शी + विच् स इव कुटति–णिनि। पर्व्वतभेदे शब्दमाला।

आशोकेय = त्रि० अशोक + चतुरर्थ्यां सख्या० ढञ्। अशोक वृक्षसन्निकृष्टदेशादौ। अशोका + शुभ्रा० ढक्। अशोकाया अपत्ये। स्त्रियां तु शार्ङ्गरवा० ङीन्। आशोकेयी।

आशौच = न० अशुचेर्भावः अण् “नञः शुचीत्या०” पा० पूर्ब्ब पदस्य वा वृद्धिरुत्तरपदस्य नित्यम्। अशौचशब्दार्थे ४८६ पृष्ठे विवृतिः। “दशाहं शावमाशौचं ब्राह्मणस्य विधीयते” “सर्व्वेषां शावमाशौचं मातापित्रोस्तु सूतकम्” “त्रिरात्रमाहुराशौचमाचार्य्ये संस्थिते सति” मनुः ष्पञ्। आशौच्यमप्यत्र न० “आशौच्यात् विप्रमुच्येत ब्राह्मणान् स्वस्तिवाच्य च” शु० त० स्मृतिः।

आश्चर्य्य = न० आ + चर–यत् “आश्चर्य्य मनित्ये” पा० सुट्। १ अद्भुते २ विस्मयरसे ३ तद्वति त्रि०। “शेषाः स्थिरत्व मिच्छन्ति किमाश्चर्य्यमतः परम्” भा० व०। “आश्चर्य्यवत् पश्यतिं कश्चिदेनमाश्चर्यवत् वदति तथैव चान्यः–आश्चर्य्यवच्चैनमन्यः शृणोति” गीता। “पुष्पमाश्चर्य्यमेघाः” रघुः। “किमाश्वर्य्यं क्षारदेशे प्राणदा यमदूतिकाः” उद्भटः।

आश्चो(श्च्यो)तन = त्रि० आ + श्चु(श्च्यु)त–ल्यु। १ सम्यक्क्षरणशीले भावे ल्युट्। २ सम्यक्क्षरणे न०। “तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा”। “हितमर्द्धोदकं सेके तथाश्च्योतनमेव” च। “क्षौमावद्धं पथ्यमाश्च्योतने वा सर्पिर्घृष्टं यष्टिकाह्वं सरोध्रम्” इति च सुश्रु०।

आश्म = पु० अश्मनोविकारः अण् वा टिलोपः। प्रस्तरविकारे

आश्मक = पु० अश्मना कायति कै–क। साल्वदेशावयव ग्रामभेदे “साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्” पा०। तत्र भवः इञ्। आश्मकिः तद्ग्रामभवे त्रि०।

आश्मन = पु० अश्मनोविकार अण् वा टिलोपाभावः। पाषाण” विकारे “यश्चापमाश्मनप्रख्यं सेषुं धत्तेऽन्यदुर्वहम्” भट्टिः। अश्मनः सूर्य्यसारथेरपत्यम् अण् तदपत्ये पुंस्त्री

आश्मन्य = त्रि० अश्मन् + चतुरर्थ्याम् संकाश्या० ण्यः। प्रस्त रसन्निकृष्टदेशादौ।

आश्मभारक = त्रि० अश्मभारं हरति वहति आवहति वा वंशा० ठण्। प्रस्तरस्य १ हारके २ वाहके ३ तदावाहके च।

आश्मरथ्य = पु० अश्मरथस्य मुनेरपत्यम् गर्गा० यञ्। अश्मररथर्षेरपत्ये “अभिव्यक्तेरित्याश्मरथ्यः” शा० सू०। गोत्रापत्ये तु कण्वा० अण्। आश्मरथ इत्येव स्त्रियां ङीप्।

आश्मरिक = पु० अश्मरर्य्येव स्वार्थे बा० ठञ्। अश्मरीरोगे “भिन्नवस्तिराश्मरिको न सिध्यति” सुश्रुतः।

आश्मायन = पुंस्त्री अश्मनोगोत्रापत्यम् अश्वा० फञ्। अश्मनामर्षेर्गोत्रापत्ये स्त्रियां ङीप्।

आश्मिक = त्रि० भारभूतमश्मानं हरति वहति आवहति वा वंशा० ठण्। भारभूतप्रस्तरस्य १ हारके २ वाहके ३ आवाहके च।

आश्मेय = पुंस्त्री अश्मन् + शुभ्रा० ढक्। अश्मनामकर्षेरपत्ये।

आश्यान = त्रि० आ + श्यै–क्त। घनीभूते शुष्कप्राये “पथश्चाश्यानकर्दमान्” रघुः। “अन्तरालग्नाश्यानहरिणरुधिरविन्दुना” काद०।

आश्र = त्रि० अश्रमेव स्वार्थेऽण्। चक्षुर्ज्जले।

आश्रपण = न० आ + श्रा–णिच् पुक् ह्रस्वे ल्युट्। पाके।

आश्रम = पुंन० आ + श्रम–आधारे घञ् अवृद्धिः। ब्रह्मचर्य्यादिके शास्त्रोक्ते १ धर्मभेदे, “विनाश्रमं न तिष्ठेत्तु दिनमेकमपि द्विजः। आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते द्विजः” दक्षः। अत्र द्विजपदस्योपलक्षणपरता यत् रघुनन्दनेन स्थापितं तदाप्लुतशब्दे निराकृतम् ७५२ पृष्ठे दृश्यम्। मुनीनां २ वासस्थाने, ३ मठे ४ तपोवने “प्रत्युद्ययावाश्रममश्रमेण” “तौ दम्पती वसिष्ठस्य गुरोर्जग्मतु- राश्रमम्”। “स किलाश्रममन्त्यमाश्रितः” स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः” “अभ्युत्थिताग्निपिशुनैः–अतिथीनाश्रमोन्मुखान्” इति च रघुः। “कमलासनमिवाश्रमगुरुम्” इति काद०। “ब्रूया देवं तव सहचरो रामगिर्य्याश्रमस्थः” मेघदू०। सर्व्वक्लेशहानेन विश्रामस्थाने ५ परमेश्वरे च। “आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः” विष्णुसह० “आश्रमवत् सर्वेषां संसारारण्य भ्रमतां विश्रामस्थानत्वादाश्रमः” इति भा० तत्र आश्रमेषु कुत्र कस्याधिकार इति तावन्निर्ण्णीयते। “चत्वार आश्रमाश्चैव ब्राह्मणस्य प्रकीर्त्तिताः। गार्हस्थ्यं ब्रह्मचर्य्यञ्च वानप्रस्थं तु भिक्षुकम्। क्षत्रिये चापि कथिता आश्रमास्त्रयएव हि। ब्रह्मचर्य्यञ्च गार्हस्थ्यमाश्रमद्वितयं विशः। गार्हस्थ्यमुचितं त्वेकं शूद्रंस्य क्षणमावहेत्” माध० धृतवामनपु०। “चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुतिनोदिताः। क्षत्रियस्य त्रयः प्रोक्ता द्वावेकोवैश्यशूद्रयोः” नि० सि० कूर्मपु० वर्ण्णक्रमेण चातुराश्रम्यादयः इति। तत्र कलौ दीर्घकालब्रह्मचर्य्यवानप्रस्थाश्रमौ न स्तःगृहस्थभिक्षुकाश्रमावेव। “गृहस्थो भिक्षुकश्चैव आश्रमौ द्वौ कलौ युगे” इति स्मरणात्। तत्र संन्यासे “विप्रस्यैवाधिकारः ब्राह्मणाः प्रव्रजन्तीति जावालश्रुतेः “आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेत् गृहादिति” या० स्मृतेरिति” वहवः। “ब्राह्मणःक्षत्रियोवाथ वैश्यो वा प्रव्रजेद्गृहादिति” कौर्मवाक्यात् क्षत्रियादीनामपि तत्राधिकारः पूर्ब्बवचनन्तु कषायादिवस्त्र त्रिदण्डधारणविषयम् “मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम् राजन्यवैश्ययोर्नैव दत्तात्रेयमुनेर्मतम्” बौधा० स्मृतेः। अयमेव पक्षो मल्लिनाथेन समर्थितः यथा अंत्र यद्यपि “ब्राह्मणाः प्रव्रजन्ति” इति श्रुतेः “आत्मन्यग्नीन् समारोप्य ब्राह्मणाः प्रव्रजेद्गृहात्” इति मनुस्मरणात् “मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। बाहुजातोरुजातानामयं धर्मो न विद्यते” इति निषेधाच्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरिति तथापि “यदहरेव विरजेत् तदहरेव प्रव्रजेत्” इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात् “त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः” इति सूत्रकारवचनात् “ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद् गृहात्” इति स्मरणात् “मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम्। बाहुजातोरुजातानां त्रिदण्डं न विधीयते” इति निषेधस्य त्रिदण्डविषयत्वदर्शनाच्च कुत्रचिद् ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित् त्रैवर्णिकाधिकारं प्रपेदिरे। तथा सति “स किलाश्रममन्त्यमाश्रितः” इति अत्रापि कविनाप्ययमेव पक्षो विवक्षित इति प्रतीमः। अन्यथा वानप्रस्थाश्रमतया व्याख्याने “विदधे विधिमस्य नैष्ठिकं यतिभिः सार्द्धमनग्निमग्निचित्” इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात् अग्निसंस्काररहितस्य वानप्रस्थस्यैवाभावात्”। अतएव मनुना “अनेन क्रमयोगेण परिव्रजति यो द्विजः इति द्विजमात्रस्य परिव्रज्यधिकार उक्तः। एवञ्च महता प्रयत्नेन शङ्कराचार्य्येण ब्राह्मणस्यैव संन्यासेऽधिकारस्य समर्थनं त्रिदण्डविषयमिति। एतेषु आश्रमेषु ब्रह्मचर्य्यस्य नित्यत्वम् इतराश्रमाणां “यमिच्छेत्तु तमावसेत्” इति मिता० धृतवचनात् इच्छाधीनतया काम्यत्वम्। तत्राश्रमाणां समुच्चयपक्षः कामनावतएव, विकल्पस्तु अकामनावतो विरक्तस्य,। अधिकारिभेदाच्च आश्रम समुच्चयविकल्पपक्षौ मिता० समर्थितौ यथा “वनात् गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम्। प्राजापत्यान्तदन्ते तानग्नीनारोप्य चात्मनि। अधीतवेदो जपकृत् पुत्रवानन्नदोऽग्निमान्। शक्त्या च यज्ञकृन्मोक्षे मनः कुर्य्यात्तुनान्यथा” या०। यावता कालेन तीव्रतपःशोषितवपुषोविषय कषायपरिपाको भवति। पुनश्च मदोद्भवाशङ्कानोद्भाव्यते। तावत्कालं वनवासं कृत्वा तत्समनन्तरं मोक्षे मनः कुर्य्यात्। वनगृहशब्दाभ्यान्तत्सम्बन्ध्याश्रमोलक्ष्यते। मोक्षशब्देन च मोक्षैकफलकश्चतुर्थाश्रमः। अथ वा गृहात् गार्हस्थ्यादनन्तरं मोक्षे मनः कुर्य्यादनेन च पूर्बोक्तश्चतुराश्र मसमुच्चयपक्षःपाक्षिक इति द्योतयति। तथा च विकल्पो जावालश्रुतौ श्रूयते। “ब्रह्मचर्य्यम्परिसमाप्य गृही भवेत् गृही भूत्वा वनी भवेत् वनी भूत्वा प्रब्रजेत् यदि वेतरथाब्रह्मचर्य्यादेव प्रब्रजेद्गृहाद्वा वनाद्बेति”। तथा गार्हस्थ्येतराश्रमबाधश्च गौतमेन दर्शितः। “एकाश्रमन्त्वाचार्याः प्रत्यक्षविधानात् गार्हस्थ्यस्येति”। एषाञ्च समुच्चयविकल्पबाधपक्षाणां सर्बेषां श्रुतिमूलत्वादिच्छया विकल्पः। अतो यत्कैश्चित् पण्डितंमन्यैरुक्तम्। स्मार्त्तत्वान्नैष्ठिकत्वादीनाङ्गार्हस्थ्येन श्रौतेन बाधः। गार्हस्थ्यानधिकृतान्धक्लीवादिविषयता वेति। तत्स्वाध्यायाध्ययनवैधुर्य्यनिबन्धनमित्युपेक्षणीयम्। किञ्च। यथा विष्णुक्रमणाज्यावेक्षणाद्यक्षमतया पङ्ग्वादीनां श्रौतेष्वनधिकारस्तथा स्मार्त्तेष्वप्युदकुम्भाहरणभिक्षाचर्य्याक्षमत्वात् कथं पङ्घ्वादिविपयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः। अस्मिंश्चाश्रमे ब्राह्म- णस्यैवाधिकारः। “आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्र“व्रजेद्गृहात्”। तथा “एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः” इत्युपक्रमोपसंहाराभ्यां मनुना ब्राह्मणस्याधिकारप्रतिपादनात्। “ब्राह्मणाः प्रव्रजन्तीति” श्रुतेश्चाग्रजन्मन एवाधिकारो न द्विजातिमात्रस्य। अन्ये तु त्रैवर्ण्णिकानाम् प्रकृतत्वात् “त्रयाणाम् वर्ण्णानाम् वेदमधीत्य चत्वार आश्रमा” इति सूत्रकारवचनाच्च द्विजातिमात्रस्याधिकारमाहुः। यदा वनात् गृहाद्वा प्रव्रजति तदा सार्व वेदसदक्षिणाम् सार्ववेदसी सर्वधनसम्बन्धिनी दक्षिणा यस्याः सा तथोक्ता ताम् प्रजापतिदेवताकामिष्टिं कृत्वा तदन्ते तान्वैतानानग्नीन् आत्मनि श्रुत्युक्तविधानेन समारोप्य चशब्दात् “उदगयने पौर्णमास्याम् पुरश्चरणमादौ कृत्वा शुद्धेन कायेन अष्टौ श्राद्धानि निर्वपेत् द्वादश वा” इति बौधायनाद्युक्तं पुरश्चरणादिकञ्च कृत्वा। तथाऽधीतवेदो जपपरायणोजातपुत्रोदीनान्धकृपणार्थिसार्थाय यथाशक्त्यन्नदश्च भूत्वा अनाहिताग्निर्ज्येष्ठत्वादिना प्रतिबन्धाभावे कृताधानो नित्यनैमित्तिकान् यज्ञान् कृत्वा मोक्षे मनः कुर्य्यात् चतुर्थाश्रमं प्रविशेत नान्यथा। अनेनान पाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायामनधिकारन्दर्शयति। तथाह मनुः। “ऋणानि त्रीण्यपाकृत्य मनोमोक्षेनिवेशयेत्। अनपाकृत्य मोक्षन्तु सेवमानो ब्रजत्यध इति”। यदा तु ब्रह्मचर्य्यात् प्रव्रजति तदा न प्रजोत्पादनादिनियमः। अकृतदारपरिग्रहस्य तत्रानधिकाराद्रागप्रयुक्तत्वाच्च विवाहस्य। न च ऋणत्रयापाकरणविधिरेव दारानाक्षिपतीति शङ्कनीयम्। विद्याधनार्जननियमवदन्यप्रयुक्तदारसम्भवेतस्यानाक्षेपकत्वात्। ननु “जायमानोवै ब्राह्मणस्त्रिभिरृणवान् जायते ब्रह्मचर्य्येण ऋषिभ्यो, यज्ञेन देवेभ्यः, प्रजया पितृम्यः” इति जातमात्रस्यैव प्रजोत्पादनादीन्यावश्य कानीति दर्शयति, मैवम् न हि जातमात्रोऽकृतदाराग्निपरिग्रहो यज्ञादिष्वधिक्रियते। तस्मादधिकारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेदिति तस्यार्थः। ततश्चोपनीतस्य वेदाध्ययनमेवावश्यकम्। कृत दारपरिग्रहस्य प्रजोत्पादनमपीति” ततश्च ब्रह्मचर्य्याश्रमस्यैव नित्यत्वमितरेषां तु “यमिच्छेत्तु तमावशेत्” इति मिताक्षराधृतवचनात् काम्यत्वमेव। ऋणत्रयापाकरणावश्यकता तु कृतविवाहस्यैवेति सिद्धम्। आश्रमाश्च चतुर्विधाः। ब्रह्मचर्य्यगार्हस्थ्यवानप्रस्थभिक्षुकभेदात्। “ब्रह्मचारी गृहस्थश्च वानप्रस्थोय- तिस्तथा। एते गृहस्थप्रभवश्चत्वारः पृथगाश्रमाः” मनूक्तेः तत्र ब्रह्मचारी द्विविधः। नैष्ठिक उपकुर्व्वाणश्च मरणान्तं गुरुकुलवासितया कृतब्रह्मचर्य्यः नैष्ठिकः। षटत्रिंशदब्दादिकं गुरौ वसित्वा गार्हस्थ्यार्थं कृतसमावर्त्तन उपकुर्व्वाणः। गृहस्थोऽपि द्विविधः। अकृतदारः स्नातकः कृतदारश्च। तत्र कृतसमावर्त्तनोऽपि कन्यालाभात् पूर्ब्बं धृतस्मार्त्तधर्म्मभेदः स्नातकः। तद्धर्माश्च आप्लुतशब्दे ७५२ पृष्ठेऽभिहिताः। कृतदारोऽपि द्विविधः साग्निर्निरग्निश्च साग्निरपि द्विविधः श्रौताग्नियुक्तः स्मार्त्ताग्नियुक्तश्च। वानप्रस्थोऽपि द्विविधः सदारोऽदारश्च “पुत्रेषु दारान् निक्षिप्य वनं गच्छेत् सहेव वा” मनूक्तेः सदारादारत्वपक्षयोः समधिगमात्। तत्र अदारस्य अपचमानाश्मकुट्टकदन्तोलूखलादिसंज्ञा। सदारस्य पचमानसंज्ञा। भिक्षुरपि चतुर्विधः कुटीचक बहूदक हसपरहंसेतिभेदात्। भिक्षुकोऽपि प्रकारान्तरेण द्विविधः विविदिषासन्यासी विद्वत्संन्यासी च तदेतत् जीवन्मुक्तौ विद्यारण्येन निरूपितं यथा “वक्ष्ये विविदिषान्यासं विद्वन्न्यासञ्च भेदतः। हेतू विदेहमुक्तेश्च जीवन्मुक्तेश्च तौ क्रमात्।। संन्यासहेतुर्वैराग्यं यदहर्विरजेत्तदा। प्रव्रजेदिति वेदोक्तेस्तद्भेदस्तु पुराणतः। विरक्तिर्द्विविधा प्रोक्ता तीव्रतीव्रतरेति च। सत्यामेव तु तीव्रायां न्यसेद्योगी कुटीचके।। शक्तोवहूदके तीव्रतरायां हंससंज्ञिते। मुसुक्षुः परमे हंसे साक्षाद्विज्ञानसाधने। पुत्रदारधनादीनां नाशे तात्कालिकी मतिः। धिक् संसारमितीदृक् स्याद्विरक्तेर्मन्दता हि सा।। अस्मिन् जन्मनि मा भूवन् पुत्रदारादयो मम। इति या सुस्थिरा बुद्धिः सा वैराग्यस्य तीव्रता।। पुनरावृत्तिसहितो लोको मे मास्तु कश्चन। इति तीव्रतरत्वं स्यान्मन्दे न्यासोन कोऽपि हि।। यात्राद्यशक्तिशक्तिभ्यां तीव्रे न्यासद्वयं भवेत्। कुटीचकोबहूदश्चेत्युभावेतौ त्रिदण्डिनौ। द्वयं तीव्रतरे ब्रह्मलोकमोक्षविभेदतः। तल्लोके तत्त्वविद्धंसोलोकेऽस्मिन् परहंसकः।। एतेषान्तु समाचाराः प्रोक्ताः पाराशरस्मृतेः। व्याख्यानेऽस्माभिरत्रायं परहंसो विविच्यते। जिज्ञासुर्ज्ञानवांश्चेति परहंसो द्विधा मतः। प्राहुर्ज्ञानाय जिज्ञासोर्न्यामं वाजसनेयिनः। “प्रव्राजिनोलोकमेतमिच्छन्तः प्रव्रजन्ति हि”। एतस्यार्थन्तु गद्येन वक्ष्येमन्दविबुद्धये।। लोको हि द्विविधः आत्मलोकोऽनात्मलोकश्चेति। तत्रानात्मलोकस्य त्रैविध्य वृहदारण्यके तृतीयाध्याये श्रूयते। “अथ त्रयोवाव लोकाः मनुष्यलोक पितृलोको देवलोक” इति। सोऽयं मनुष्यलोकः पुत्रेणैव जय्योनान्येन कर्मणा। कर्मणा पितृलोको विद्यया देवलोक” इति। आत्मलोकश्च तत्रैव श्रूयते। “योहवा अस्माल्लोकात् स्वंलोकमदृष्ट्वा प्रैति सएनमविदितो न भुनक्तीति”। “आत्मानमेव लोकमुपासीत” “सय आत्मानमेव लोकमुपास्ते नहास्य कर्म क्षीयत” इति च। षष्ठाध्यायेऽपि “किं प्रजयाकरिष्यामो येषां नोऽयमात्माऽयञ्च लोक” इति। एवञ्च सति एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति” इत्यत्रात्मलोकोविवक्षित इति गम्यते “सवा एष महानज आत्मेति” प्रक्रान्तस्यात्मन एव एतच्छब्देन परामृष्टत्वात्। लोक्यते अनुभूयत इति लोकः। तथा चात्मानुभवमिच्छन्तः प्रव्रजन्तीति श्रुतेस्तात्पर्य्यार्थः सम्पद्यते। स्मृतिश्च “ब्रह्मविज्ञानलाभाय परहंससमाह्वयः। शान्तिदान्त्यादिभिः सर्वैः साधनैः महितोभवेदिति”। इह जन्मनि जन्मान्तरे वा सम्यगनुष्ठितैर्वेदानुवचनादिभिरुत्पन्नया विविदिषया सम्पादितत्वादयं विविदिषा सन्यासो द्विविधः जन्मापादककर्म्मादित्यागमात्रात्मकः प्रैषोच्चारणपूर्ब्बकदण्डधारणाद्याश्रमरूप श्चेति। त्यागश्च तैत्तिरीयादौ श्रूयते “न कर्म्मणा न प्रजया न धनेन, त्यागेनैके अमृतत्वमानशुरिति”। अस्मिं श्च त्यागे स्त्रियोऽप्यधिक्रियन्ते। अतएव मैत्रेयीवाक्यमाम्नायते” येनाहं नामृता स्यां किमहं तेन कुर्य्याम् यदेव भगवन्! वेद तदेव मे ब्रूहोति”। ब्रह्मचारिगृहस्थवानप्रस्थानां केनचिन्निमित्तेन सन्न्यासाश्रमस्वीकारे प्रतिबद्धे सति स्वाश्रमधर्म्मेष्वनुष्ठीयमानेष्वपि वेदनार्थो मानसकर्म्मादित्यागो न विरुध्यते श्रुति स्मृतीतिहासपुराणेषु लोके च तादृशान्तत्त्वविदां बहूनामुपलम्भात्। यस्तु दण्डधारणादिरूपी वेदनहेतुः परमहंसाश्रमः स पूर्ब्बैराचार्य्यैर्बहुधा प्रपञ्चित इत्यस्माभिरुपरम्यते। इति विविदिषासंन्यासः।

“अथ विद्वत्संन्यासं निरूपयामः।। सम्यगनुष्ठितैः श्रवणमनननिदिध्यासनैः परतत्त्व विदितवद्भिः सभ्याद्यमानोविद्वत्संन्यासः। तञ्च याज्ञवल्क्यः सम्पादयामास। तथाहि विद्वच्छिरोमणिर्भगवान् याज्ञवल्क्योविजिगीषुकथायां बहुविधेन तत्त्वनिरूपणेनाश्वलायनप्रभृतीन्मुनीन् विजित्य वीतराग कथायां संक्षेपविस्ताराभ्यामनेकधा जनकं बोधयित्वा मैत्रेयीं बुबोधयिषुस्तस्यास्त्वरया तत्त्वाभिमुख्याय स्वकर्त्तव्यं सन्यासं प्रतिजज्ञे ततस्तां बोधयित्वा संन्यासञ्चकार। तदुभयं मैत्रीयीव्राह्मणस्याद्यन्तयोराम्नायते” “अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् मैत्रेयीति होवाच याज्ञ वल्क्यः, प्रव्रजिष्यन् वा अरे अहममस्मात् स्थानादस्मीति, एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राजेति”।। कहोले व्राह्मणेऽपि विद्वत्संन्यास आम्नायते “एतंवैतमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य्यञ्चरन्तीति”। नचैतद्वाक्यं विविदिषासंन्यासपरमिति शङ्कनीयं” पूर्ब्बकालवाचिनोविदित्वेति क्त्वाप्रत्ययस्य ब्राह्मणशब्दस्य च बाधप्रसङ्गात्। नचात्र व्राह्मणशब्दोजातिवाचकः वाक्यशेषे पाण्डित्यबाल्यमौनशब्दाभिधेयैः श्रवणमनननिदिध्यासनैः साध्यं व्रह्मसाक्षात्कारमभिप्रेत्याथ व्राह्मण इत्यभिहितत्वात्। ननु तत्र विविदिषासंन्यासोपेतः पाण्डित्यादौ प्रवर्त्तमानोऽपि ब्राह्मणशब्देन परामृष्टः तस्मात् व्राह्मणः पाण्डित्यं निर्व्विद्य बाल्येन तिष्ठासेदिति” मैवं भाविनीं वृत्तिमाश्रित्य तत्र व्राह्माणशब्दस्य प्रयुक्तत्वात्। अन्यथा कथमथ ब्राह्मण इति साधनानुष्ठांनोत्तरकालवाचिन मथशब्दं प्रयुञ्जीत। शारीरब्राह्मणेऽपि विद्वत्संन्यासविविदिषासंन्यासौ स्पष्टं निर्दिष्टौ “एतमेव विदित्वाल्पमुनिर्भवत्येवमेव प्रव्रजिनोलोकमिच्छन्तः प्रव्रजन्तीति”। मुनित्वं मननशीलत्वम्। तच्चासति कर्त्तव्यान्तरे सम्भवतीत्यर्थात् संन्यास एवाभिधीयते। एतच्च वाक्यशेषे स्पष्टीकृतम् “एतद्ध स्म वैतत् पूर्ब्बे विद्धांसः प्रजां न कामयन्ते किं प्रजया करिष्यामोयेषां नोऽयमात्मायं लोक इति” “ते स्म पुत्रैषणायाश्च वित्तैषणायाश्च लौकैषणायाश्च व्युत्थायाथ भिक्षाचर्य्यं चरन्तीति”। अयंलोक इत्यापरोक्ष्येणानुभूयत इत्यर्थः। नन्वत्र मुनित्वेन फलेन प्रलोभ्य विविदिषासंन्यासं विधाय वाक्यशेषे स एव प्रपञ्चितः अतोन संन्यासान्तरं कल्पनीयं मैवं वेदनस्यैव विविदिषासंन्यासफलत्वात्। न च वेदन मुनित्वयोरेकत्वं शङ्कनीयं विदित्वा मुनिर्भवतीति पूर्ब्बोत्तरकालीनयोस्तयोः साध्यसाधनत्वप्रतीतेः। ननु वेदनस्यैव परिपाकातिशयरूपमवस्थान्तरम् मुनित्वम् अतोवेदनद्वारा पूर्व्वसंन्यासस्यैवैतत् फलमितिचेत् वाढम् अतएव साधनरूपात् संन्यासादन्यं फलरूपमेनं संन्यासंब्रूमः। यथा विविदिषासंन्यासिना तत्त्वज्ञानाय श्रवणादीनि सम्पादनीयानि तथा विद्वत्संन्यासिनापि जीवन्मुक्त्यै मनोनाशवासनाक्षयौ सम्पादनीयौ। एतच्चोपरिष्टात् प्रपञ्चयिष्यामः। सत्यप्यनयोः संन्यासयो रवान्तरभेदे परमहंसत्वाकारेणैकीकृत्य चतुर्व्विधा भिक्षव इति स्मृतिषु चतुःसंख्योक्ता। पूर्ब्बोक्तयोः संन्यासयोः परमहंसत्वं जावालश्रुताववगम्यते। तत्र हि जनकेन संन्यासे पृष्टे सति याज्ञवल्क्योऽधिकारिविशेषविधानेनोत्तरकालानुष्ठेयेन च सहितं विविदिषासंन्यासमभिधाय पश्चादत्रिणा यज्ञोपवीतरहितस्याक्षिप्तेऽ ब्राह्मण्ये पश्चादात्मज्ञानमेव यज्ञोपवीतमिति समादधौ अतोबाह्ययज्ञोपवीताभावात् परमहंसत्वं निश्चीयते। तथान्यस्यां कण्डिकायां तत्र परमहंसोनामेत्यु पक्रम्य संवर्त्ताकादीन् बहुविधान् ब्रह्मविदोजीवन्मुक्तानुदाहृत्य “अव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः” इतिविद्वत्संन्यासिनोदर्शिताः। तथा “त्रिदण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीतञ्चेत्येतत्सर्वं भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेदिति” त्रिदण्डिनः सत एकदण्डलक्षणं विविदिषासंन्यासं विधाय तत् फलरूपं विद्वत् संन्यासमेवमुदाजहार। “यथा जातरूपधरोनिर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदपात्रेण लाभालाभौ समौ कृत्वा शून्यागारे देवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेष्वनिकेतनवास्यप्रयत्नोनिर्म्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठः शुभाशुभकर्म्म निर्म्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसोनामेति”। तस्मादनयोरुभयोः परमहंसत्वं सिद्धम्। समानेऽपि परमहंसत्वे सिद्धे विरुद्धधर्म्माक्रान्तत्वादवान्तरभेदोऽप्यभ्युपगन्तव्यः। विरुद्धधर्म्मत्वञ्चारण्युपनिषत्परमहंसोपनिषदोः पर्य्यालोचनायामव गम्यते। “केन भगवन्! कर्म्माण्यशेषतोविसृजामीति” शिखायज्ञोपवीतस्वाध्यायगायत्रीजपाद्यशेषकर्म्म त्यागरूपे विविदिषासंन्यासे शिष्येणारुणिना पृष्टेसति गुरुः प्रजापतिः “शिखां यज्ञोपवीतम्” इत्यादिना सर्वत्यागमभिधाय “दण्डमाच्छादनं कौपीनञ्च परिग्रहेदिति” दण्डादि स्वीकारं विधाय “त्रिसन्ध्यादौ स्नानमाचरेत्। सन्धिं समाधावात्मन्याचरेदिति” “सर्व्वेषु वेदेष्वारण्यमावर्त्तयेदुपनिषदमाषर्त्तयेदुपनिषदमावर्त्तयेदिति” वेदनहेतूनाश्रमधर्म्माननुष्ठेयतया विधत्ते। “अथ योगिनां परमहंसानां कोऽयं मार्गः” इति विद्वत् संन्यासे नारदेन पृष्टे सति गुरुर्भगवान् स्वपुत्रमित्रेत्यादिना पूर्व्ववत् संन्यासमभिधाय “कौपीनं दण्डमा- च्छादनञ्च स्वशरीरोपभोगार्थाय लोकस्योपकारार्थाय च परिग्रहेदिति” दण्डादिस्वीकारस्य लौकिकत्वमभिधाय “तच्च मुख्ये नास्तीति” शास्त्रीयत्वं प्रतिषिध्य “कोऽयं मुख्य इति चेदयं मुख्योन दण्डं न शिखां न यज्ञोपवीत नाच्छादनञ्चरति परमहंसः” इति दण्डादिलिङ्गराहित्यस्य शास्त्रीयतामुक्त्वा “न शीतं न चोष्ण” मित्यादिना वाक्येन “आशाम्बरो निर्नमस्कार” इत्यादिवाक्येन च लोकव्यवहारातीतत्वमभिधायान्ते “यत्पूर्णानन्दैकबोधस्तद्व्रह्माहमस्मीति कृतकृत्यो भवति” इत्यन्तेन ग्रन्थेन ब्रह्मात्मानुभवमात्रपर्य्यवसानमाचष्टे। अतोविरुद्धधर्म्मोपेतत्वादस्त्वेवानयोर्महान् भेदः। स्मृतिष्वप्ययं भेद उक्तदिशाद्रष्टव्यः। “संसारमेवं निःसारं दृष्ट्वा सारदिदृक्षया। प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः। प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्। तस्माज्ज्ञानं पुरस्कृत्य संन्यस्येदिह बुद्धिमान्” इत्यादिविविदिषासंन्यासः। “यदा तु विदितं तत्स्यात् परं ब्रह्म सनातनम्। तदैकदण्डं संगृह्य सोपवीतां शिखां त्यजेत्। ज्ञात्वा सम्यक्परं ब्रह्म सर्ब्बंत्यक्त्वा परिव्रजेदिति” विद्वत्संन्यासः। ननु कलाविद्यादाविव कदाचिदौत्सुक्यमात्रेणापि बेदितु मिच्छा सम्भवत्येव विद्वत्ताप्यापातदर्शिनः पण्डितं मन्यमानस्याप्यबलोक्यते। न च तौ प्रव्रजन्तौ दृष्टौ अतोविविदिषाविद्वत्ते कीदृश्यौ विवक्षिते इति चेदुच्यते। यथा तीब्रायां बुभुक्षायामुत्पन्नायां भोजनादन्यो व्यापारो न रोचते। भोजने च विलम्बोन सोढु शक्यते। तथा यदा जन्महेतुषु कर्म्मस्वत्यन्तमरुचिः वेदनसाधनश्रवणादिषु च त्वरा महती सम्पद्यते तादृशी विविदिषा संन्यासहेतुः। विद्वत्ताया अवधिरुपदेश साहस्र्यामभिहितः। “देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानवाधकम्। आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते” इति। श्रुतावपि “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे इति”। परमपि हैरण्यगर्भादिपदमवरं यस्मादसौ परावरः। हृदये बुद्धौ साक्षिणस्तदात्म्याध्यासोऽनाद्यविद्यानिमित्तत्वेन ग्रन्थिवद्दृढसंश्लेषरूपत्वाद्ग्रन्थिरित्युच्यते। आत्मा साक्षीकर्त्ता वा, साक्षित्वेऽप्यस्य ब्रह्मत्वमस्ति न वा, ब्रह्मत्वेऽपि तद्बुद्ध्या वेदितुं शक्यते न वा, शक्यत्वेऽपि तद्वेदनमात्रेण मुक्तिरस्ति नवेत्यादयः संशयाः। कर्माण्यनारब्धानि आगामिजन्मकारणानि। तदेतत् ग्रन्थ्यादित्रयमविद्यानिमित्त- त्वादात्मदर्शनेन निवर्त्तते। स्मृतावप्ययमर्थ उपलभ्यते “यस्य नाहंकृतोभावोबुद्धिर्यस्य न लिप्यते। हत्वापि स इमा~ल्लोकान्न हन्ति न निबध्यत” इति। यस्य ब्रह्मविदो, भावः सत्ता स्वभाव आत्मा, नाहं कृतोनाहङ्कारेण तदात्म्याध्यासादाविर्भावितः, बुद्धिलेपः संशयः। तदभावे त्रैलोक्यबधेनापि न निबध्यते किमुतान्येन कर्म्मणेत्यर्थः। नन्वेवं सति विविदिषाफलेन तत्त्वज्ञानेनैवागामिजन्मनां निवारितत्वाद्वर्त्तमानजन्मशेषस्य भोगमन्तरेण निवारयितुमशक्यत्वादलमनेन विद्वत्सन्यासप्रयासेनेति चेन्मैवं विद्वत्सन्यासस्य जीवन्मुक्तिहेतुत्वात्। तस्माद्वेदनाय यथा विविदिषासंन्यासः एव” जीवन्मुक्तये विद्वत्संन्यासः सम्पदनीयः इति विद्वत्संन्यासः”। “दीर्घकालं ब्रह्मचर्य्यम् इत्यादित्यपुराणे यद् कलिवर्ज्ज्ये दीर्घकालब्रह्मचर्य्यसंन्यासाश्रमयोरुत्कीर्त्तनम् तत् नैष्ठिकब्रह्मचर्य्यषट्त्रिंशदब्दादिब्रह्मचर्य्ययोर्निषेधपरम् न पुनर्ग्रहणान्तिकब्रह्मचर्य्यमात्रस्य निषेधः दीर्घकालेतिविशेषणसामार्थ्यात् तेन “षट्त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकं व्रतम्। तदर्द्धिकं पादिकं वा ग्रहणान्तिकमेव वा” इति मनुनोक्तपक्षचतुष्टयमध्ये अल्पकालिकस्यैव कलौ कर्त्तव्यता। “तथाऽग्निहोत्रं गवालम्भं संन्यासं पलपैतृकमिति” निगमवाक्यमपि त्रिदण्डविषयम् “यावद्वर्णविभागोऽस्ति यावद्वेदः प्रवर्त्तते। संन्यासञ्चाग्निहोत्रञ्च तावत् कुर्य्यात् कलौ युगे” देवलस्मरणात्। “चत्वार्य्यव्दसहस्राणि चत्वार्य्यव्दशतानि च। कलेर्यदा गमिष्यन्ति तदा त्रेतापरिग्रहः। संन्यासश्च न कर्त्तव्यो ब्राह्मणेन विशेषत” इति व्यासवचनन्तु त्रिदण्डविषयम्। महानिर्वाणतन्त्रे तु। “पुरैव कथितं तावत् कलिधर्म्मविचेष्टितम्। तपःस्याध्यायहीनानां नृणामल्पायुषामपि। क्लेशप्रवाहाशक्तानां कुतोदेहपरिश्रमः। ब्रह्मचर्य्याश्रमोनास्ति वानप्रस्थोऽपि न प्रिये। गार्हस्थ्यभैक्षुकौ चैव आश्रमौ द्वौ कलौ युगे! गृहस्थस्य क्रियाः सर्व्वा आगमोक्ता कलौ शिवे। नान्यमार्गैः क्रियासिद्धिः कदापि गृहमेधिनाम्। भैक्षुकेऽप्याश्रमे वापि वेदोक्तं दण्डधारणम्। कलौ नास्त्येव तत्त्वज्ञे! यतस्तच्छ्रौतसंस्कृतिः। शैवसंस्कारविधिनाऽपधूताश्रमधारणम्। तदेव कथितं भद्रे! संन्यासग्रहहणं कलौ। विप्राणामितरेषाञ्च वर्ण्णानां प्रबले कलौ। उभये आश्रमे देवि! सर्व्वेषामधिकारिता। सर्वेषामेव संस्कारकर्म्मणी शैववर्त्मना। विप्राणामितरेषाञ्च कर्म्मलिङ्गं पृथक् पृथक्”। उभावेवाश्रमौ विहितौ एतच्चागमाधिकारिणः पतितब्राह्मणादेरकृतप्रायश्चित्तस्यैव बोध्यम्। आगमविधावधिकारिणश्च आगमशब्दे ६१४ पृष्ठे उक्ताः इतरेषान्तु न श्रौतदण्डादिधारणनिषेधः तेषां श्रौत एवाधिकारात्। वस्तुतः आगमवाक्येऽपि प्रबले कलाविति विशेषोक्तेः प्रबले कलौ सर्व्वेषामेव पतित प्रायत्वस्यावश्यम्भावादागमधर्म्मस्यैवावलम्बनीयतया तेषामेव तदानीमागमोक्ताश्रयद्वयेऽधिकार इति भेद इति दिक्।

आश्रमगुरु = पु० आश्रमाणां ब्रह्मचर्य्यादीनां गुरुर्नियन्ता। आश्रमनियन्तरि नृपे। “कर्त्तुमाश्रमगुरुः स नाश्रमत्” माघः।

आश्रमधर्म्म = पु० आश्रमविहितोधर्म्मः। ब्रह्मचर्य्यादिविहिते धर्म्मे धर्म्मो हि षड्विधः वर्ण्णधर्म आश्रमधर्मो वर्ण्णाश्रमधर्मो गुणधर्मो निमित्तधर्मोसाधारणधर्मश्चेति। तत्र वर्ण्णधर्मो ब्राह्मणो नित्यं मद्यं वर्ज्जयेदित्यादिः। आश्रमधर्म्मोऽग्नीन्धनभैक्ष्यब्रह्मचर्य्यादिः वर्ण्णाश्रमधर्मो ब्राह्मण्यादि क्रमेण पालाशादिदण्डधारणादि” नैमित्तिकधर्म्मोविहिताकरणनिषिद्धसेवननिमित्तं प्रायश्चित्तम्, साधारणधर्मोऽहिंसादि मांहिंस्यात् सर्व्वाभूतानीत्याचाण्डालं साधारणधर्मः श्रत्युक्तः इति” मिता०। अन्यत्र चान्ये आश्रमधर्माः दर्शिताः। “ब्रह्मचारिणः स्वाध्यायः, गृहस्थस्य दानं दमो यज्ञश्च, वानप्रस्थस्य तपः, भिक्षुकस्य “अभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः” इत्यादिकः तथा च “यस्त्वाश्रमं समाश्रित्य अधिकारः प्रवर्त्तते। स खल्वाश्रमधर्मस्तु भिक्षादण्डादिकं यथा। यतीनां तु शमोधर्मोनियमोवनवासिनाम्। दानमेव गृहस्थानां शुश्रूषा ब्रह्मचारिणामिति” श्रुत्या स्मृत्या च येये धर्मा यत्र यत्राश्रमे विहितास्तेते आश्रमधर्म्मशब्देनोच्यन्ते ते च धर्म्मास्तत्तच्छब्दे प्रपञ्चेन वक्ष्यन्ते।

आश्रमपद = न० आश्रमस्य पदम्। मुन्यादेर्विश्रामस्थाने तपोवनादौ आश्रमस्थानादयोऽप्यत्र।

आश्रमवास = पु० आश्रमे वासः। मुन्यादीनां १ तपोवनादौ वासे आश्रमवासमधिकृत्य कृतोग्रन्थः अण्। धृतराष्ट्रादोनामाश्रमवासाधिकारेण व्यासनिर्म्मिते भारतान्तर्गते २ पर्व्वभेदे। “एतदाश्रमवासाख्यम्” भा० आ० १ अ०।

आश्रमवासिक = न० आश्रमवासः प्रतिपाद्यतयास्त्यस्य ठन्। भारतान्तर्गते धृतराष्ट्रादेराश्रमवासप्रतिपादके पर्व्वभेदे।

आश्रमसद् = त्रि० आश्रमे सीदति सद–क्विप्। आश्रमवासिनि तपोवनवासनिरते वानप्रस्थादौ।

आश्रमिक = त्रि० आश्रमोऽस्त्यस्य ठन्। आश्रमयुक्ते।

आश्रमिन् = त्रि० आश्रमोऽस्त्यस्य इनि। आश्रमयुक्ते स्त्रियां ङीप्। “तथैवाश्रमिणः सर्व्वे गृहस्थे यान्ति संस्थितिम्” “चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः” मनुः।

***