वाचस्पत्यम्
आर्त to आर्ष
links:
Menu अ–ह
Prev आरब–आर्ज
Next आर्षि–आवृ
आर्त
आर्ति
आर्भ
आर्ष
UpasanaYoga
.org

आर्त्त = त्रि० आ + ऋ–क्त। १ पीडिते, २ दुःखिते, ३ असुस्थे च। अप्राप्तलिङ्गसंज्ञकस्यैव धातोर्वृद्धिं वदन् दुर्गादासः अर्त्तपदसिद्धिं कर्त्तुमशक्नुवन् प्रत्याख्येयः। आर्त्तरवः आर्तनादः इत्यादि। “द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” “तुमुलेनार्त्तरवेण वेजिताः”। “बलमार्त्तभयोपशान्तये” “तदीयमाक्रन्दितमार्त्तसाधोः”। “राजापि यद्वियोगार्त्तः” “अभिपेदे निदाघार्त्ता” इति च रघुः। “न दुर्वहश्रोणिपयोधरार्त्ता” कुमा० “विदितवात्तावार्त्तौ” दश० अत्र विदित वार्त्तौ आर्त्तौ इत्येव च्छेदः साधुः तद्व्याख्यानेऽस्माभिर्यदन्यथाच्छेदमभिप्रेत्य व्याख्यातं न तत् साधु। “नार्त्तोऽप्यपवदेद्विप्रान्” मनुः। “सुस्थेनार्त्तेन वा दत्तं श्रावितं धर्मकारणात्” शु० त० स्मृतिः “आर्त्तार्त्तेमुदिता हृष्टे प्रवासे मलिना कृशाः” शु० त० स्क० पु० “आर्त्तिर्नाशोऽस्त्यस्य अच्”। ४ विनाशिनि “अतोन्यदार्त्तम्” वृह० उ०। “अतएतस्माद् ब्रह्मणोऽशनायाद्यतीतात्मस्वरूपान्नित्यतृप्ताद्यदन्यदविद्याविषयमेषणालक्षणं वस्त्वन्तरम् तद् आर्त्तं विनाशि, आर्तिपरिगृहीतम्” शाङ्क० भा०।

आर्त्तगल = पु० आर्त्त इव गलति गल–अच्। नीलझिण्ट्याम्

आर्त्तपर्ण्णि = पु० ऋतपर्णस्यापत्यम् इञ्। ऋतपर्ण्णनृपस्यापत्ये सुदासे सूर्य्यवंश्ये नृपभेदे। “भगीरथसुतो राजाश्रुत इत्यभिविश्रुतः। नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्मिकः। अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्। अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्य्यवान्। अयुताजित्सुतादा- सीदृतपर्ण्णो महायशाः। दिव्याक्षहृदयज्ञोवै राजा नलसखो बली। ऋतपर्ण्णस्य तस्यासीदार्त्तपणिर्महीपतिः। सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत्” हतिवंशे १५ अ०

आर्त्तभाग = पुंस्त्री ऋतभागस्य ऋषेर्गोत्रापत्यम् विदा० अञ्। ऋतभागर्षेर्गोत्रापत्ये। स्त्रियां ङीप्।

आर्त्तव = त्रि० ऋतुरस्य प्राप्तः अण्। ऋतुभवे १ पुष्पादौ “आर्तवान्युपभुञ्जना पुष्पाणि च फलानि च” रामा० “स्वयमङ्गेषु ममेदमार्त्तवम्” कुमा० स्त्रियां ङीप्। “अभिभूय विभूतिमार्त्तवीम्” रघुः। ऋतुर्मासद्वयात्मकः हेमन्तादिः कालः “ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः” इति मनूक्तः स्त्रीणां मध्यस्थशोणितदर्शनयोग्यः षोडश रात्रिकः कालश्च। स कालोयस्य प्राप्तः तादृशे स्त्रीणां २ रजसि च। “नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्त्तवदर्शने”। तस्मात् युग्मासु पुत्रार्थी संविशेदार्त्तवे स्त्रियम्” मनुः। स्त्रीणामार्त्तवं (शोणितविशेषः) पुंसः शुक्रमिव मासेन रस पाकेन जायते यथोक्तं सुश्रुते। “एवं मासेन रसः शुक्रीभवति स्त्रीणामार्त्तवम्”। यथा च रसस्य पाकस्तयाऽसृक्शब्दे ४६२ पृष्ठे उक्तम्। बाल्येतस्य सत्त्वेऽपि बालस्य शुक्रप्रादुर्भावाभाववत् न तस्यामवस्थायामभिव्यक्तिर्यथोक्तं सुश्रुते “यथा हि पुष्पमुकुलस्थोगन्धोन शक्यमिहास्तीति वक्तुं नैव नास्तीत्यथवास्ति सतां भावानामभिव्यक्तिरिति कृत्वा केवलं सौक्ष्म्यान्नाभिव्यज्यते स एव गन्धो विवृतपत्रकेशरैः कालान्तरेणाभिव्यक्तिं गच्छत्येवं बालानामपि वयःपरिणामात् शुक्रप्रादुर्भावो भवति रोमराज्यादयोऽथार्त्तवादयश्च विशेषा नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिवृद्धिः”

“तदभिव्यक्तिकालादिकं तद्दर्शने दम्पत्योरितिकर्त्तव्यतासहितम्” भाव० प्र० दर्शितं यथा।

“द्वादशाद्वत्सरादूर्द्ध्वमापञ्चाशत्समं स्त्रियः। मासि मासि भगद्वारा प्रकृत्यैवार्त्तवं स्रवेत्। आर्त्तवस्रावदिवसादृतुं षोडश रात्रयः। गर्भग्रहणयोग्यस्तु सएव समयः स्मृतः। सर्वेषामेव वर्णानां स्त्रीणां सर्वादिसंमतः”। स एव पूर्ब्बोक्तः समयः। ग्रन्थान्तरे वर्णभेदात् विशेषः। तद्यथा “स्नादिवसादूर्द्ध्वं द्वादशरात्रावधिर्ब्राह्मण्याः दशरात्रावधिः क्षत्रियायाः। अष्टरात्रावधिर्वैश्यायाः षड्रात्रावधिः शुद्रायाः गर्भधारणशक्ति”। अथ स्त्रीणां नियममाह “आर्त्तवस्राव दिवसात् त्र्यह सा ब्रह्मचारिणी। शयीत दर्भशय्यायां पश्येदपि पतिं न च। करे शरावे पर्णे वा हविष्यं त्र्यह- माचरेत्। अस्रुपातं नखच्छेदमभ्यङ्गमनुलेपनम्। नेत्रयोरञ्जनं स्नानं दिवास्वापं प्रधावनम्। अत्युच्चशब्दश्रवणं हसनं बहुभाषणम्। आयासं भूमिस्वननं प्रवातं च विवर्जयेत्। एतस्यानियमाकरणे दोषमाह। “अज्ञानाद्वा प्रमादाद्वा लौल्याद्वा दैवतश्च वा। सा चेत् कुर्य्यान्निषिद्वानि गर्भोदोषांस्तदाप्नुयात्। एतस्यारोदनाद्गर्भो भवेद्विकृतलोचनः। नखच्छेदेन कुनखी कुष्ठी त्वभ्यङ्गतो भवेत्। अनुलेपात्तथास्नानाद्दुःखशीलोऽञ्जनाददृक्। स्वापशीलो दिवास्वापात् चञ्चलःस्यात्प्रधावनात्। अत्युच्चशब्दश्रवणाद्वधिरः खलु जायते। तालुदन्तौष्ठजिह्वासु श्यावो हसनतो भवेत्। प्रलापी भूरिकथनादुन्मत्तस्तु परिश्रमात्। खलतिर्भूमिखननादुन्मत्तो वातसेवनात्। अथ रजस्वलाकृत्यम् “ततश्चतुर्थे दिवसे स्नाता सद्वसनादिभिः। भूषिता सुमनाःपश्येद्भर्त्तारं समलङ्कृतम्। पूर्व्वं पश्येदृतुस्नाता यादृशं नरमङ्गना। तादृशं जनयेतपुत्रं ततः पश्येत्पतिं प्रियम्। प्रियमिति भर्त्तर्य्यनासन्ने पुत्रादिकमपि पश्येत्। चतुर्थदिवसेऽपि रजोनिवृत्तौ स्त्री पत्या सङ्गच्छेत न तु रजोऽनुवृत्तौ यत आह। “प्रवहत्सलिले क्षिप्तं द्रव्यं गच्छत्यधो यथा। तथा वहति रक्ते तु क्षिप्तं वीर्य्यमधोव्रजेत्। अथ भर्तृकृत्यम्। अथ गर्भाधाने निषिद्धं विहितञ्च कालं तयोः फलञ्चाह। “आयुःक्षयभयाद्भर्त्ता प्रथमे दिवसे तथा। द्वितीयेऽपि दिने भर्त्ता त्यजेदृतुमतीं स्त्रियम्। तत्र यश्चाहितो गर्भो जायमानो न जीवति। आहितो यस्तृतीयेऽह्नि स्वल्पायुर्विकलाङ्गकः। अतश्चतुर्थी षष्ठी स्यादष्टमी दशमी तथा। द्वादशी चापि या रात्रिस्तस्यां तां विधिना भजेत्। विधिना गर्भाधानविधिना। अत्रोत्तरोत्तरं विद्यादायुदारोग्यमेव च। प्रजाः सौभाग्यमैश्वर्य्यं बलं चाभिगमात् फलम्। युग्मायुग्मरात्रीणां फलमाह। “युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु”। तत्र दम्पत्योः संभोगे यादृक् पुमान् युक्तस्तादृगुच्यते “स्नातश्चन्दनलिप्ताङ्गः सुगन्धसुमनोऽञ्चितः। भुक्तवृष्यःसुवसनः सुवेषः समलङ्कृतः। ताम्बूलवदनस्तस्यामनुरक्तोऽधिकस्मरः,। पुत्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे”। तत्रायोग्यं पुरुषमाह “अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपासितः। बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रोगी च मैथुनम्। तत्र स्त्री यादृशी योग्या तादृश्युच्यते। “पुरुषस्य गुणैर्युक्ता विहितन्यूनभोजना। नारी ऋतुमती पुंसा सङ्गच्छेत सुतार्थिनी। तत्रायोग्यां स्त्रियमाह। “रजस्वला व्याथि- मती विशेषाद्योनिरोगिणी। वयोऽधिका च निष्कामा मलिना गर्भिणी तथा। एतासां सङ्गमात् पुंसांवैगुण्यानि भवन्ति हि” तत्र रजस्वला दिनत्रयं यावदृतौ निषिद्धा यत उक्तम्। “प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी। तृतीये रजकी पुंसा यथा वर्ज्या तथाङ्गना। व्याधिमती वज्या तत्र स्त्रीणां व्याधयः। प्रदरादयः तद्युक्ता निषिद्धा तत्रापि विशेषाद्योनिरोगिणी” भावप्रकाशः। आर्त्तवदोषाश्च सचित्साः सुश्रुते दर्शिता यथा। “आर्त्तवमपि त्रिभिर्दोषैः शोण्णितचतुर्थैः पृथग्द्वन्द्वैः समस्तैर्वोपसृष्टमवीजं भवति तदपि दोषवर्णवेदनादिभिर्विज्ञेयम्। तेषु कुणपग्रन्थिपूतिपूयक्षीणमूत्रपुरीषप्रकाशमसाध्यं साध्यमन्यद्भवति। भवन्ति चात्र। तेष्वाद्यान् शुक्रदोषांस्त्रीन् स्नेहस्वेदादिभिर्जयेत्। क्रियाविशेषैर्मतिमांस्तथा चोत्तरवस्तिभिः। पाययेत नरं सर्पिर्भिषक् कुणपरेतसि। धातकीपुष्पखटिरदाडिमार्जुनसाधितम्। पाययेदथ वा सर्पिः शालसारादिसाधितम्। ग्रन्थिभूते शठीसिद्धं पालाशे वापि भस्मनि। परूषकवटादिभ्यां पूयप्रख्ये च साधितम्। प्रागुक्तं वक्ष्यते यच्च तत् कार्य्यं क्षीणरेतसि। विट्प्रभे पाययेत् सिद्धं चित्रकोशीरहिङ्गुभिः। स्निग्धं वान्तं विरिक्तञ्च निरूढमनुवासितम्। योजयेच्छुक्रदोषार्त्तं सम्यगुत्तरवस्तिना। विधिमुत्तरवस्त्यन्तं कुर्य्यादार्त्तवशुद्धये। स्त्रीणां स्नेहादियुक्तानां चतसृष्वार्त्तवार्त्तिषु। कुर्य्यात् कल्कान् पिचूश्चापि पथ्यान्याचमनानि च। ग्रन्थिभूते पिबेत् पाठां त्र्यूषणं वृक्षकाणि च। दुर्गन्धे पूयसङ्काशे मज्जतुल्ये तथार्त्तवे। पिबेद्भद्रश्रियः क्वाथञ्चन्दनक्वाथमेव च। शुक्रदोषहराणाञ्च यथास्वमवचारणम्। दोषाणां शुद्धिकरणं शेषास्वप्यार्त्तवार्त्तिषु। अन्नं शालियवं मद्यं हितं मांसञ्चपित्तलम्। स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च। शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभन्तथा। शशासृक्प्रतिमं यत्तु यद्वा लाक्षारसोपमम्। तदार्त्तवं प्रशंसन्ति यद्वासो न विरञ्जयेत्। तदेवातिप्रसङ्गेन प्रवृत्तमनृतावपि। असृग्दरं विजानीयादतोऽन्यद्रक्तलक्षणात्। असृग्दरो भवेत् सर्वः साङ्गमर्द्दः सवेदनः। तस्यातिवृत्तौ दौर्बल्यं भ्रमो मूर्च्छा तमस्तृषा। दाहः प्रलापः पाण्डुत्वं तन्द्रा रोगाश्च वातजाः। तरुण्या हितसेविन्यास्तदल्पोपद्रवं भिषक्। रक्तपित्तविधानेन यथावत्समुपाचरेत्। दौषैरावृतमार्गत्वादार्त्तवं नश्यति स्त्रियाः। तत्र मत्स्यकुलत्थाम्लतिलमाषसुरा हिताः। पाने मूत्रमुदश्विच्च दधि शुक्तञ्च भोजने। क्षीणं प्रागीरितं रक्तं सलक्षणचिकित्सितम्। तथाप्यत्र विधातव्यं विधानं नष्टरक्तवत्”। इत्यं दोषापसारणेन शुद्धे आर्त्तवे भोजनादिनियमवत्यां दिवसविशेषे स्त्रिया सह संवेशादि कर्त्तव्यं यथोक्तं सुश्रुते। एवमदुष्टशुक्रः शुद्धार्त्तवा ऋतौ प्रथमदितसात्प्रभृति ब्रह्मचारिणी दिवास्वप्नाञ्जनाश्रुपातस्नानानुलेपनाभ्यङ्गनखच्छेदनप्रधावनहसनकथनातिशब्दश्रवणाबलेखनानिलायासान् परिहरेत्। किङ्कारणम्–दिवा स्वपन्त्याः स्वापशीलोऽञ्जनादन्धो रोदनाद्विकृतदृष्टिः। स्नानानुलेपनाद्दुःखशीलस्तैलाभ्यङ्गात् कुष्ठी नखापकर्त्तनात् कुनखी प्रधावनाच्चञ्चलो हसनाच्छ्यावदन्तौष्ठतालुजिह्वः प्रलापी चातिकथनादतिशब्दश्रवणाद्बधिरोऽवलेखनात् खलति र्मारुतायाससेवनादुन्मत्तो गर्भो भवतीत्येवमेतान् परिहरेत्। दर्भसंस्तरशायिनीं करतलशरावपर्ण्णान्यतमभोजिनीं हंविष्यं त्र्यहञ्च भर्त्तुः संरक्षेत्। ततः शुद्धस्नातां चतुर्थेऽहन्यहतवाससमलङ्कृतां कृतमङ्गलस्वस्तिवाचनां भर्त्तारं दर्शयेत्। तत् कस्य हेतोः?। पूर्ब्बं पश्येदृतुस्नाता यादृशं नरमङ्गना। तादृशं जनयेत् पुत्त्रं भर्त्तारं दर्शयेदतः। ततो विधानं पुत्त्रीयमुपाध्यायः समाचरेत्। कर्मान्ते च क्रमं ह्येनमारभेत विचक्षणः। ततोऽपराह्णे पुमान् मासं ब्रह्मचारी सर्पिः स्निग्धः सर्पिः क्षोराम्यां शाल्योदनं भुक्त्वा मासं ब्रह्माचारिणीं तैलस्निग्धां तैलमाषोत्तराहारां नारीमुपेयाद्रात्रौ सामादिभिरभिविश्वास्य विकल्प्यैवंञ्चतुर्थ्यां षष्ठ्यामष्टम्यां दशम्यां चोपेयादिति पुत्रकामः। एषूत्तरोत्तरं विद्यादायुरारोग्यमेव च। प्रजासौभाग्यमैश्वर्य्यं बलञ्च दिवसेषु वै। अतः परं पञ्चम्यां सप्तम्यां नवम्यामेकादश्याञ्च स्त्रीकामः। त्रयोदशीप्रभृतयो निन्द्याः। तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति। यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते। द्वितीयेऽप्येवंसूतिकागृहे वा तृतीयेऽप्ये वमस म्पूर्ण्णाङ्गोऽल्पादुर्वा भवति चतुर्थे तु सम्पूर्ण्णाङ्गो दीर्घायुश्च भवति। न च प्रवर्त्तमाने रक्ते वीजं प्रविष्टं गुणकरं भवति यथा नद्यां प्रतिस्रोतःप्लावि द्रव्यं प्रतिक्षिप्तं प्रतिनिवर्त्तते नोर्द्धङ्गच्छति तद्वदेव द्रष्टव्यम्। तस्मान्नियमवतीं त्रिरात्रं परिहरेत् अतःपरमुपेयात्”।

दिनविशेष आर्त्तवकालगमने पुत्रादिविशेषजननमुक्तम्” नि० सि० व्यासेन “रात्रौ चतुर्थ्यां पुत्रःस्यादल्पायुर्यल वर्जितः। पञ्चम्यां पुत्रिणी नारी षष्ठ्यां पुत्रस्तु मध्यमः। सप्तम्यां सप्रजा योषिदष्टम्यामीश्वरः पुमान्। नवम्यां सुभगा नारी दशम्यां प्रवरः सुतः। एकादश्यामधर्म्मा स्त्री द्वादश्यां पुरुषोत्तमः। त्रयोदश्यां सुता पापा वर्ण्णसङ्करकारिणी। धर्म्मज्ञश्च कृतज्ञश्च आत्मवेदी दृढव्रतः। प्रजायते चतुर्द्दश्यां, पञ्चदश्यां पतिव्रता। आश्रयः सर्व्वभूतानां षोडश्यां जायते पुमान्”। मनुवचने स्वाभाविक इत्युक्तेः रोगादन्यत्र कालेऽप्यार्तवं भवति तेन तत्राशुद्धौ विशेषः नि० सि० व्यवस्थापिता यथा “प्रथमरजोदर्शनात् सप्तदशदिनपर्यन्तं पुनारजोदर्शने स्नानमात्रम्, अष्टादशे एकरात्रम्, एकोनविंशे द्व्यहं, विंशतिप्रभृतिदिनेषु त्रिरामशुचिर्भवति। “ऊर्द्धं चतुर्दशदिनादशुचित्वं न विद्यते” इति वाक्यन्तु स्नानदिनावधिचतुर्दशदिनमध्ये पुनारजोदर्शनेऽशुचित्वाभावपरम्” “रोगेण यत् रजः स्त्रीणामन्यत्र हि प्रवर्त्तते। नाशुचिस्तु भवेत्तेन यस्माद्वैकारिकं मतमिति” वचनात्। रोगजे रजसि शुद्धावपि धर्माधिकारिता रजोनिवृत्तावेव। “साध्वाचारा न तावत् स्यात् स्नातापि स्त्री रजस्वला। यावत् प्रतर्त्तमानं हि रजोनैव निवर्त्तते इति” हेमा० श्रा० ख० शङ्खोक्तेः।

आर्त्ति = स्त्री आ + ऋ–क्तिन्। १ पीडायाम् २ मनोव्यथायाञ्च। “आर्त्तिं न पश्यसि पुरूरवसस्तदर्थाम्” विक्रमो०। “पार्श्विकद्यूतचौर्य्यार्त्ति प्रतिरूपकसाहसैः” नारदः। “यदि दीक्षितमार्त्तिर्विन्देत्” शत० ब्रा०। “न विद्यमानेष्वर्थेषु नार्त्त्यामपि यतस्ततः” “नचार्त्तिमृच्छति क्षिप्रम्” इति च मनुः “दाहातिसारपित्तासृङ्मूर्च्छामद्यविषार्त्तिषु” सुश्रु० ३ विनाशे च।

आर्त्नि(र्त्नी) = स्त्री आ + ऋ–बा० नि आर्त्तभावश्च वा ङीप्। गतिकर्त्त्र्याम्। “संविदाने आर्त्नी इमे” ऋ० ६, ७५, ४। “अत्रैव वोऽपिनह्याम्युभे आर्त्नी इव ज्यया” ऋ० १०, १६६, ३।

आर्त्विज = त्रि० ऋत्विज इदम् अण्। ऋत्विक्सम्बन्धिनि।

आर्त्विजीन = पु० ऋत्विजं तत्कर्मार्हति खञ्। स्वयं यजमाने” सि० कौ०। “दक्षिण्यदिष्टं कृतमार्त्विजीनैः” भट्टिः “वयं वा आर्त्विजीनाःस्मोवयं दक्षिणीयाम्” शत० ब्रा०।

आर्त्विज्य = न० ऋत्विजोभावः कर्म वा ष्यञ्। ऋत्विक्कर्मणि याजने “स मा सर्व्वैरार्त्विज्यैर्वृणीते” “सहोवाच भगवन्तं वा सर्वैरार्त्विज्यैः” इति च” छा० उ०।

आर्थ = त्रि० अर्थादागतः अण्। अर्थतः प्राप्ते वाक्यार्थमर्य्यादया प्राप्ते” स्त्रियां ङीप्। सा च अलङ्कारोक्तायामर्थसम्भवायां २ व्यञ्जनायाम्। तल्लक्षणादि सा० द०। यथा एवं शाब्दीं व्यञ्जनामुक्त्वा आर्थीं व्यञ्जनामाह “वक्तृबोद्ध- व्यवाक्यानामन्यसन्निधिवाच्ययोः। प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च। वैशिष्ट्यादन्यमर्थं या बोधयेत्सार्थसम्भवा”। व्यञ्जनेति सम्बध्यते तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा। “कालोमधुः कुपितएष च पुष्पधन्वा धीरावहन्ति रतिखेदहराः समीराः। केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्दूरे पतिः कथय किं करणीयमद्य”। अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचित् द्योत्यते। बोद्धव्यवैशिष्ट्ये यथा। “निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरोनेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः। मिथ्यावादिनि! दूति! बान्धवजनस्याज्ञातपीडागमे! वापीं स्नातुमितोगतासि, न पुनस्तस्याधमस्यान्तिकम्”। अत्र तदन्तिकमेव गतासीति विपरीतलक्षणया लक्ष्यं तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यदूतीवैशिष्ट्याद्बोध्यते। अन्यसन्निधिवैशिष्ट्ये यथा “उअ णिच्चल णिप्पन्दभिसिणीपत्तम्मि रेऐ बलाआ। णिम्मलमरगअभाअण–परिठिटआ संखसुत्ति ब्ब”। उत्र वलाकाया निस्पन्दत्वेन विश्वस्तत्वं तेनास्य देशस्य विजनत्वमतः सङ्केतस्थानमेतदिति कयापि सन्निहितप्रच्छन्नकामुकं प्रत्युच्यते। अत्रैव स्थाननिर्ज्जनत्वरूपव्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम्। भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते। इत्युक्तप्रकारायाः काकोर्भेदाः आकरादिभ्योज्ञातव्याः। एतद्वैशिष्ट्ये यथा। “गुरुपरतन्त्रतया वत दूरतरं देशमुद्यतोगन्तुम्। अलिकुलकोकिलललिते नेष्यति सखि! सुरभिसमयेऽसौ”। अत्र नेष्यति अपि तर्हि एष्यत्येवेति काक्का व्यज्यते। चेष्टाबैशिष्ट्ये यथा। “सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिता कूतं लीलापद्मं निमीलितम्”। अत्र सन्ध्यासङ्केतकाल इति पद्मनिमीलनादिचेष्टया कयाचित् द्योत्यते। एवं वक्त्रादीनां व्यस्तसमस्तानां वैषिष्ट्ये बोद्धव्यम्। त्रैविध्यादियभर्थानां प्रत्येकं त्रिविधा मता। अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्व्वा अप्यनन्तरोक्ताव्यञ्जनास्त्रिविधाः तत्र वाच्यार्थस्य व्यञ्जना यथा। कालोमधुरित्यादि। लक्ष्यार्थस्य यथा। निःशेषच्युतचन्दनमित्यादि। व्यङ्ग्यार्थस्य यथा उअ णिच्चलेत्यादि”। भाट्टमते ३ भावनाभेदे। भावना हि भावयितुर्व्यापारः सा च द्विविधा श्रौतो आर्थी च। तत्र प्रयोजनसाधनतया तदिच्छाविषयनिष्पादको व्यापारःआर्थी भावना सा चाख्यातेनोच्यते आख्यातसामान्यस्य व्यापारवाचित्वात्। सा चां- शत्रयवती किं भावयेत्, केन भावयेत् कथं भावयेदित्याकाङ्क्षात्रयोदयात्। तत्रपोक्षणीयमंशत्रयञ्च साध्यं साधनमितिकर्त्तव्यता चेति। तथा च किंभावयेदिति साध्याकाङ्क्षायां स्वर्गादिफलं साध्यंत्वेनान्वेति, साधनाकाङ्क्षायां यागादिःसाधनत्वेन, इतिकर्त्तव्यताकाङ्क्षायां प्रयाजाद्यङ्गजातमितिकर्त्तव्यतात्वेन। तेन प्रायाजाद्यङ्गजातेतिकर्त्तव्यताकेन यागेन स्वर्गादिफलं साधयेदिति विशिष्टवाक्यार्थ बोधः इति भाट्टा मन्यन्ते।

आर्थिक = त्रि० अर्थं गृह्णाति ठक्। १ अर्थग्राहके। अर्थश्चेह अभिधेयं प्रयोजनं धनञ्च। अर्थादागतः ठक्। २ अर्थादागते वाक्यार्थमर्य्यादया प्राप्ते च।

आर्द्द = त्रि० आ + अर्द्द–अच्। सम्यक्पीडके स्त्रियां गौरा० ङीष्।

आ(अ)र्द्धकंसिक = त्रि० अर्द्धकंसेन क्रीतम् ठक् “अर्द्धात् परिमाणस्येति” पा० उत्तरपदस्य वृद्धेः “पूर्व्वपदस्य वेति” च प्राप्तौ नातः पारस्येति” पा० निषेधात् नोत्तरपदवृद्भिः “कंसाट्टिठन्” पा० इति तु न प्रवर्त्तते समासे तदन्तविधिप्रतिषेधात्। अर्द्धकंसक्रीते। एवं आ(अ)र्द्धप्रस्थिकः। अर्द्धप्रस्थक्रीते आ(अ)र्द्धकौडविकः आ(अ)र्द्धद्रौणिकः इत्यादौ अदन्तत्वाभावात् उत्तरवृद्धिः। अर्द्धकुडवादिक्रीते त्रि०।

आर्द्धधातुक = न० “आर्द्धधातुकं शेषः” पा० परिभाषिते तिङ्शिदद्भ्योभिन्ने धात्वधिकारविहिते प्रत्ययभेदे “आर्द्धधातुकस्येड्वलादेः” सार्व्वधातुकार्द्धधातुकयोः” इति च पा०।

आर्द्धपुर = न० अर्द्धं पुरस्य एकदेशित० स्वार्थे अण्। पुरस्य समानेऽर्द्धे प्रतिपूर्ब्बस्य तत्पुरुषे अश्वादि० नान्तोदात्तता।

आर्द्धरात्रिक = त्रि० अर्द्धरात्रे भवः ठञ्। अर्द्धरात्रभवे।

आर्द्धवाहनिक = त्रि० “अर्द्धवाहनेन जीवति वेतना० ठक्। अर्द्धवाहनेन जीविनि।

आर्द्धिक = पुंस्त्री “वैश्यकन्यासमुत्पन्नो ब्राह्मणेन तु संस्कृतः। आर्द्धिकः स तु विज्ञेयोभोज्योविप्रैर्न संशयः” इति पराशरोक्ते। अम्बष्ठवर्णे स्त्रियां जातित्वात् ङीप्। अर्द्धं क्षेत्र शस्यार्द्धमर्हति ठक्। क्षेत्रशस्यार्द्धस्य वेतनरूपतया स्वामिसकाशात् ग्राहके २ कृषकभेदे पु०। “आर्द्धिकः कुलमित्रं च गोपालोदासनापितौ। एते शूद्रेषु भोज्यान्नायश्चात्मानं निवेदयेदिति” मनुनाऽऽर्द्धिकस्य शूद्रत्वेन कीर्त्तनात् अम्बष्ठस्य च शूद्रभिन्नत्वे नास्य पराशरोक्तार्द्धिकाद्भिन्नत्वं प्रतीयते। एतदभिप्रायेणैव” मिता० कृता अर्द्धसीरिशब्दे दर्शित याज्ञवल्क्यस्मृतिव्याख्याने कृषिफलशस्यार्द्धहारिण एव शूद्रेषु भोज्यान्नतोक्ता।

आर्द्र = त्रि० अर्द्द–रक् दीर्घश्च। १ क्लिन्ने २ सरसे ३ सजले वस्तुनि तद्भेदाश्च वैद्य० दर्शिताः। “आर्द्रं द्रव्यं द्विधा प्रोक्तं सरसं नीरसं तथा। सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते। वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकम्। धस्तूराद्यमिदं सर्व्वमार्द्रं सरसमुच्यते। वटाश्वत्थकरीराद्यमार्द्रं द्रव्यं तु नीरसम्। सदुग्धं तु द्विधा प्रोक्तं मृदु तीक्ष्णमिति क्रमात्। शातलावज्रसीहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः। दुग्धिकाक्षीरिण्याद्याश्च मृदुदुग्धाः प्रकीर्त्तिताः”। आर्द्राक्षतारोपणमन्वभूताम्” कुमा० रघुश्च। “तेषां गुर्वीस्वादु शीता पिप्पल्यार्द्रा कफावहा” आर्द्रा कुस्तुम्बरी कुर्य्यात् स्वादुसौगन्ध्यहृद्यताम्” सुश्रु० “धूपोष्मणा त्याजितमार्द्र भावम्” कुमा० “४ काठिन्यशून्ये आनुगुण्ययुक्ते च “धनुर्भूतोऽप्यस्य दयार्द्रभावम्” रघुः। अश्विन्यवधिके राशिचक्रस्थे मिथुनराशिघटके ५ षष्ठे नक्षत्रे स्त्री न०। “कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभे दिवा। नवम्यां बोधयेद्देवीं यथाविभव विस्तरैः” दु० त० लिङ्ग पु०। “इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः” बोधनमन्त्रः। “आर्द्राद्यादि विशाखान्तं रविचारेण वर्षति” ज्यो० मृगशिरसोऽर्द्धं चार्द्रा पुनर्वसुत्रिपादं मिथुनम्” ज्यो० आर्द्रास्वरूपयोगतारादिकम् अश्लेषाशब्दे ४९७ पृष्ठे उक्तम् अस्याधिष्ठाता शिवः।

आर्द्रक = न० अर्द्दयति रोगान् अर्द्द–अन्तर्भूतण्यर्थे रक् वीर्घश्च संज्ञायां कन् आर्द्रायां भूमौ जातं वा वुन् आर्द्रयति जिह्वां आर्द्र + णिच्–क्वुन् वा। (आदा) मूलप्रधाने वृक्षभेदे आर्द्रिकाप्यत्र स्त्री। “आर्द्रिका भेदिनी गुर्व्वी तीक्ष्णोष्णा दीपनी च सा। कटुका मधुरा पाके रूक्षा वातकफापहा, ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः। भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम्। अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम्। कुष्ठे पाण्ड्वामये कृच्छ्रे रक्तपित्ते कफज्वरे। दाहे निदाघे शरदि नैव पूजितमार्दकम्” भा० प्र०। “चक्षुष्यं रोचनं स्वर्य्यं विकाशि विशदं सरम्। स्तम्भाटोपानिलघ्नञ्च लवणार्द्रकभक्षणम्। गुडार्द्रकं वातहरं चक्षुष्यं पित्तनाशनम्। ज्वरघ्नं चातितृष्यञ्च वर्चोभेदिकफापहम्। मृत्त्वचारहितमङ्कुरतः सत् क्षालितं विमलकैर्बहुतोयैः। मिश्रितं लवणनिम्बपयोभिर्बालमार्द्र कमुपैति योग्यताम्। तैलासुरीरजनिसिन्धुजपङ्कसङ्गिप्रस्यन्दमाननवनिम्बुरसप्रसक्तम्। स्वादूत्तरं शिशिरवासरभोजनेषु कस्यैति वण्ण नपथं खलु शृङ्गवेरम्”। वृषोष्णं दीपनं हृद्यं सस्नेहं लघु पाचनम्। रोचनं तर्पणं बल्यं चार्द्रकं परिकीर्त्तितम्। वातपित्तकफेभानां शरीरवनचारिणाम्। एक एवनिहन्तास्ति लवणार्द्रककेशरी” वैद्य०।

आर्द्रपदी = स्त्री आर्द्रौ पादौ यस्याः कुम्भपद्या० नि० पाद्भावः ङीप् च पदादेशः। आर्द्रचरणायां स्त्रियाम्।

आर्द्रमाषा = स्त्री० नित्यकर्म०। (माषाणी) माषपर्ण्ण्यां राजनि०।

आर्द्रम् = अव्य० आ + अर्द्र–बा० रमु साक्षादादिगणपाठात् नि० मान्तत्वं वा। सरसत्वे। आर्द्रङ्कृत्य आर्द्रंकृत्वा।

आर्द्रशाक = न० आर्द्रं शाकमस्य। आर्द्रके।

आर्द्रवृक्ष = पु० कर्मधा०। सरसवृक्षे ततः उत्करा० चतुरर्थ्यांछ। आर्द्रवृक्षीयः तद्वृक्षसन्निकृष्टदेशादौ त्रि०।

आर्द्रालुब्धक = पु० आर्द्रानक्षत्रे तत्सन्निकृष्टस्थाने लुब्धकैव। केतुग्रहे हलायुधः।

आर्भव = पु० ऋभुणा दृष्टं साम ऋभुर्देवतास्य वा अण्। तृतीयसवने गेये पञ्चसूक्तात्मके सप्तसामात्मके पवमानभेदे। “आन्धीगवशब्दे ७३३ पृष्ठे विवृतमेतत्। “अथ तृतीयसवने आर्भवे पवमान उद्गातारमन्वारभमाणाः ऋभुरसि जगच्छन्दाः” शत० ब्रा०। “पञ्चच्छन्दा आवाप आर्भवः पवमानः सप्त सामा” सा० सं० भा० धृता श्रुतिः।

आर्य्य = पु० ऋ–ण्यत्। १ स्वामिनि, २ गुरौ, ३ सुहृदि च। ४ श्रेष्ठकुलोत्पन्ने ५ पूज्ये ६ श्रेष्ठे, ७ सङ्गते, नाट्योक्तौ ८ मान्ये, ९ उदारचरिते, १० शान्तचित्ते “कर्त्तव्यमाचरन् कार्य्यमकर्त्तव्यमनाचरन्। तिष्ठति प्रकृताचारे स वा आर्य्य इति स्मृतः इत्युक्तलज्ञणे ११ जने च त्रि०। “ग्रहीतुमार्य्यान् परिचर्य्यया मुहुः” माघः। “त्यजेदकस्मात्, पतिरार्य्यवृत्तः” “वर्णापेतमविज्ञातं नरं कलुषयोनिजम्। आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत्” “जातो नार्य्यामनार्यायामार्यादार्यो भवेद्गुणैः। जातोऽप्यनार्यादार्यायामनार्यैति निश्चयः”। “अनार्य्य मार्यकर्माणमार्यं चानाय्यकर्मिणम्,। संप्रधार्या व्रवीदेतौ न समौ नासमाविति” इति च मनुः। आर्य्यत्वेन सम्भाषणे नाटके नियमविशेषाः सा० द० उक्ता यथा “राजन्नित्यृपिभिर्वाच्यः सोऽपत्यपत्ययेन च। स्वेच्छया नामभिर्निव्रैर्विप्र आर्य्येति चेतरैः” विप्रेतरै र्विप्रः आर्य्येति वाच्यः “वाच्यौ नटीसूत्रधारावार्यनाम्ना परस्परम्”। नट्या सूत्रधारः आर्य्येति वाच्यः सूत्रधारेण च नटी आर्य्या इति वाच्या। “वयस्येत्युत्तमैर्वाच्योमध्यै रार्य्येति चाग्रजः”। “आर्य्यबालचरितप्रस्तावनाडिण्डिम” इति वीरच० रामचरितवर्ण्णने लक्षणोक्तिः। “वत्स! पुत्रक तातेति संज्ञागोत्रेण वा युतः। शिष्योऽनुजश्च वक्तव्योऽमात्य आर्य्येति चेतरैः” इतरैरमात्य आर्य्येति वक्तव्यः

“वृत्तेन हि भवत्यार्य्यो न धनेन न विद्यया” भा० उ० ८९ अ० उक्तेः सदाचारेणैव नराणामार्य्यत्वम्। आर्य्याऽप्यरुन्धती तत्र व्यापारं कर्त्तुमर्हति” कुमा० १२ प्राकृतभाषायां स्त्री “मुखबाहूरुपज्जानां या लोके जातयो बहिः। म्लेच्छवाचश्चार्य्यवाचः सर्वेते दस्यवः स्मृताः” मनुः। १३ श्वशुरे पु०। आर्य्यपुत्रः पतिः “आर्य्यो ब्राह्मणकुमारयोः” पा० उक्तेः कर्मधारये ब्राह्मणकुमारयोः परतः प्रकृतिस्वरः।

आर्य्यक = त्रि० आर्य्य + स्वार्थे कन्। आर्य्य शब्दार्थे स्त्रियां टापि वा अतं इत्त्वम् आर्य्यका–आर्यिका। संज्ञायां कन्। २ पितामहे पु०। “बालां मामार्य्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तिकाम्। अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने” भा० उ० प० ८९ अ० तुभ्यमार्य्यकः तवार्य्यकः पितामह इत्यर्थः। कृष्णं प्रति तत्पितृस्वसुः कृन्त्या वाक्यमिदम्।

आर्य्यगृह्य = त्रि० आर्य्यस्य गृह्यः पक्ष्यः। आर्य्यपक्षीये। “तमार्य्यगृह्यं निगृहीतधेनुः” रघुः।

आर्य्यदेश = पु० आर्य्याणां वासार्होदेशः। आर्य्यावर्त्तादौ देशे

आर्य्यधर्म = पु० आर्य्यस्य धर्मः। सदाचारे।

आर्य्यपथ = पु० आर्य्याणां पन्थाः अच् समा०। सदाचारे आर्य्यमार्गादयोऽप्यत्र।

आर्य्यपुत्र = पु० आर्य्यस्य श्वशुरस्य पुत्रः। १ भर्त्तरि २ मान्यस्य पुत्रे च।

आर्य्यप्राय = पु० आर्य्यः प्रायो बहुलोऽत्र। आर्य्यावर्त्तादौ देशे “जाङ्गलं शस्यसम्पन्नमार्य्यप्रायमनाविलम्। वश्यमानतसामन्तं स्वाजीव्यं देशमावसेत्” मनुः।

आर्य्यभट्ट = पु० ज्योतिषग्रन्थविशेषकारके विद्वद्भेदे सहि “प्रणित्यैकमनेकं सत्यां देवतां परं ब्रह्म। आर्य्यभट्टस्त्रीणि वदति गणितं कालक्रियां गोलम्” इत्युपक्रम्य गणितकालक्रियाभूगोलं निर्ण्णीतवान्। भूगोलखगोलशब्दयोः तन्मतमुदाहरिष्यते। तस्य च जन्मकालः स्वग्रन्थे एव तेनोक्तः “षष्ट्यब्दानां षष्टिर्यदा व्यतीतास्तयश्च युगपादाः। अधिका विंशतिरव्दास्तदिह मम जन्मनोऽतीताः”। तेन कलेः ३६२० वर्षेषु गतेषु तस्य जन्म। तन्मतमुत्थाप्य च सि० शि० क्वचित् क्वचित् दूषितमिति तस्य भास्कराचार्य्यात् प्राचीनत्वम्।

आर्य्यमिश्र = पु० कर्म०। गौरवान्विते “एवमार्य्यमिश्रान् प्रणिपत्य विज्ञापयामि” प्रबो०।

आर्य्यवृत्त = न० आर्य्यस्य वृत्तम्। १ सदाचारे “सत्यधर्मार्य्यवृत्ते च शौचे चैवारमेत् सदा” मनुः। आर्य्यं श्रेष्ठं वृत्तमस्य। २ सदाचारयुते त्रि० “रक्षणादार्य्यवृत्तानां कण्टकानाञ्च शोधनात्” मनुः।

आर्य्यवेश = पु० आर्य्यस्य वेशः। १ साधूनां वेशे। आर्य्यस्येव वेशोऽस्य। २ आर्य्यलिङ्गधारिणित्रि०

आर्य्यव्रत = न० आर्य्यस्य व्रतं नियमः। आर्य्यस्य कर्त्तव्ये १ नियमभेदे। आर्य्यस्येव व्रतमस्य। २ श्रेष्ठव्रतधारिणि “आर्य्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः” भा० आ० २०१ अ०।

आर्य्यश्वेत = पु० आर्य्यं श्रेष्ठं श्वेतं चरितं यस्य। श्रेष्ठचरिते ततः शिवादि० अपत्ये अण्। आर्य्यश्वेतस्तदपत्ये पुंस्त्री स्त्रियां ङीप्।

आर्य्यहलम् = अव्य० आर्य्यं हन्ति हन–ड तस्मिन् लीयते ली–बा० डमु। बलात्कारे बलात्कारस्य आर्य्यहन्तरि समाश्रयनियमात् तथात्वम् स्वरा० अव्ययत्वम्।

आर्य्या = स्त्री ऋ–ण्यत्। पार्वत्याम् आर्य्याशतकम्। २ श्वश्र्वां श्रेष्ठायां ३ स्त्रियाञ्च ४ मात्रावृत्तभेदे “लक्ष्मैतत् सप्तगणा गोपेता नेह भवति विषमे जः। षष्ठोजश्च नलघू वा प्रथमेऽर्द्धे नियतमार्य्यायाः। षष्ठे द्वितीयलात् परके नले मुखलाच्च सयति पदनियमः। चरमेऽर्द्धे पञ्चमके तस्मादिह भवति षष्ठोलः” वृत्त० र० उक्ते ५ छन्दोभेदे स्त्री। साचार्या नवविधा यथा “पथ्या विपुला चपला मुखचपला जघनचपला च। गीत्युपगीत्युद्गीतष आर्यागीतिश्च नवधा चार्या” इति। तासां लक्षणम् वृत्तर०। “त्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः। पथ्येति १ नाम तस्याः प्रकीर्त्तितं नागराजेन। उल्लङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः। यस्यास्तां पिङ्गलनागो विपुलामिति २ समाख्याति। उभयार्द्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ यस्याः। चपलेति ३ नाम तस्याः प्रकीर्त्तितं नागरांजेन। आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः। शेषे पूर्बजलक्ष्मा मुखचपला ४ सोदिता मुनिना। प्राक्प्रतिपादितमर्द्धे प्रथमे प्रथमेतरे तु चपलायाः। लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ५ सा। आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः। दलयोः कृतयतिशोभां तां गीतिं ६ गीतवान् भुजङ्गेशः। आर्याद्वितीयकेऽर्द्धेयद्गद्रितं लक्षणं तत् स्यात्। उभयोरपि दलयोरुपगीतिं ७ तां मुनिर्ब्रूते। आर्याशकलद्वितयं व्यत्ययरचितं भवेद् यस्याः। सोद्गीतिः ८ किल गदिता तद्वदंशभेदसंयुक्ता। आर्यापूर्ब्बार्द्ध्वं यदि गुरुणैकेनाधिकेन निधने युक्तम्। इतरत्तद्वन्निखिलं यदीयमुदितेयमार्यागीतिः” ९। “पादे द्वादश विषमे मात्राष्टादश द्वितीये हि। पञ्चदश चेत् तुरीये कथिता गाथा तथैवार्य्या” ग्रन्थान्तरे यथाकथञ्चिद्द्वादशाष्टादशाक्षरादिमात्रात्मकपादत्वोक्तावपि वृत्तरत्नाकरोक्तेर्गणनियमोऽस्त्येव सामान्यशास्त्रऽतोऽपवादशास्त्रस्य प्रबलत्वात्। तेन यथाकथञ्चित्तथामात्रानिवेशोऽनुचितएव। “शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्य्योभिः। संक्षिप्तमार्य्यमतिना सम्यग्विज्ञाय सिद्धान्तम्” सां० का० “क्वचिदत्र भवेदार्याक्वचिद्वक्त्रापवक्त्रके” सा० द० कथालक्षणम्। “आर्या वक्त्रापवक्त्राणांछन्दसा येन केनचित्” सा० द०। “अतिस्पष्टवर्णस्वरसंस्कारवत्या गिरा राजानमुद्दिश्यार्यामिमां पपाठ” काद०।

आर्य्यागीति = स्त्री आर्या गीतिरिव। घृत्तर० उक्ते मात्रावृत्तभेदे आर्याशब्दे तल्लक्षणमुक्तम्।

आर्य्यावर्त्त = पु० आर्या आवर्त्तन्ते अत्र आ + वृत–आधारे घञ्। देशभेदे स च देशोमनुना दर्शितः। “आ समुद्रात्तु वै पूर्व्वादा समुद्राच्च पश्चिमात्। तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः” इति तयोः विन्ध्यहिमाचलयोः” कैवर्त मिति यं प्राहुरार्यावर्तनिवासिनः” मनुः।

आर्य्याविलास = पु० आर्याणां प्राकृतभाषायुतमात्रावृत्तानां विलासो बाहुल्यम् यत्र। प्राकृतभाषया रचिते “भाषा विभाषानियमात् काव्यं सर्गसमुज्झितम्। एकार्थप्रवणैः पद्यैः सन्धिसामग्र्यवर्ज्जितमिति” सा० दर्पणोक्तलक्षणयुक्ते प्राकृतकाव्यभेदे। ६ त०। आर्य्यायादुर्गायाविलासे च।

आर्ष = त्रि० ऋषेरिदस् अण्। १ ऋषिसम्बन्धिनि तत्कृतपुराण काव्यादौ। “धर्म्मो यस्याभि शङ्क्यः स्यादार्षं वा दुर्बलात्मनः। वेदात् शूद्र इवापेयात् स लोकादजरामरात्” भा० व० प० ३१ अ०। आर्षं मन्वादिमतं यस्याभिशङ्क्यमित्यर्थः “अस्मिन्नार्षे पुनःसंज्ञा भवेदाख्यानसंज्ञका” ः सा० द०। “इत्यार्षेरामायणे” इत्येवं रामायणसर्गसमाप्तौ भूरिप्रयोगः। ऋषिणा जुष्टम्। २ ऋषिसेविते वेदे पु०। “आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्केणामुसंधत्ते स धर्मं वेद नेतरः” मनुः। ऋषिर्वेदस्तस्येदम् अण्। ३ वैदिके। “सम्बुद्धौ शाकल्यखेता वानार्षे” पा० “अनार्षे अवैदिके” सि० कौ०। “आर्षं प्रमाणमुत्क्रम्य धर्म्मं न प्रतिपालयन्” भा० व० प० ३१ अ०। ऋषेरयं वाचकः अण्। ५ ऋष्यभिधायिनि “ण्यक्षत्रियञितोयूनि अणिञोः” पा० (आर्षात्) “ऋष्यभिधायिनः” सि० कौ० संस्कारहीनत्वेपि ऋषिणा प्रयुक्तः अण्। व्याकरणोक्तानुशासनसुल्लङ्घ्य ऋषिणा प्रयुक्ते असाधुन्यपि साधुत्वेनाभिमते ५ शब्दभेदे। आर्षः प्रयोगः। ऋषीणां समूहः प्रवरगणभेदः अण्। गोत्रप्रवर्त्तकमुनीनां ७ व्यावर्त्तकप्रवरर्षिसमूहे न० “अरोगिणीं भ्रातृमतीमसामानार्षगोत्रजाम्” या०। मिता० तु ऋषेरिदमार्षं नाम प्रवर इति व्याख्यातम् ऋषिर्वेदस्तत्र विहितः अण्। ७ विवाहभेदे “यज्ञस्थायर्त्विजे दैव आर्ष आदाय गोयुगम्। चतुर्द्दश प्रथमजः पुनात्युत्तरजश्च षट्” या० “अष्टाविमान् समासेन स्त्रीविवाहान् निबोधत। ब्राह्मोदैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः। गान्धर्ब्बो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः” इत्युपक्रम्य “एकं गोमिथुनं द्वे वा वरादादाय धर्मतः। कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते” मनुस्मृतौ धर्म्म इत्युपादानात् कन्यानृशंस्यार्थं गोयुगग्रहणेऽपि न दोषः। अतएव मनुना तादृशस्य गोमिथुनग्रहणस्य स्वभोगसाधन त्वाभावेन शुल्कत्वमेव निराकृतम् “आर्षे गोमिथुनंशुल्कं केचिदाहुर्मृषैव तदिति” “आर्षोढाजः सुतस्त्रीन् त्रीन्” मनुः। गोत्रभेदे प्रवरभेदाश्च विश्वादर्शे दर्शिता यथा। “अत्र गोत्रप्रवराणां स्वरूपं महाप्रवरपाठादवगतन्तव्यम्। तत्र महान्तः प्रवरा एकद्वित्रिपञ्चार्षेया ऊनपञ्चाशदेव ते च सप्तानां गोत्राणां गणश उच्यन्ते। तावतैवापेक्षितसिद्धेः। यथा वत्सानां भार्गवच्यवनाप्लुवानौर्वजामदग्न्येति १ विदानां भार्गवच्यवनाप्लुवानवौर्वविदेति ३। आर्ष्टिषेणानां भार्गवच्यवनाप्लुवानौर्वार्ष्टि षेणेति २। जामदग्न्यानां भार्गवच्यवनाप्लुवानौर्वजामदग्न्येति ४। एते समानप्रवराः। अर्घाधिकर्षितुल्यत्वात्। यास्कानां भार्गववीतहव्यसावेदसेति ५। मित्रध्रुवाणां भार्गववाध्र्यश्वदैवोदासेति ६। वैण्यानां भार्गववैण्यपार्थेति ७। एते भार्गवानुवृत्तावपि न मिथः समानप्रवराः भृगुं मुक्त्वेति वचनात्। शुनकानां शौनकेति वा गार्त्समदेति वा। अत्र गोत्र प्रवरभेदोपयोगित्वेन पक्षे प्रवरैक्यादविवाहः। एते सप्त भृगवः। अथाङ्गिरसा गौतमा भारद्वाजाः शुद्धाश्वेति त्रिविधाः। तेषु गौतमास्तावत्। आयास्यानामाङ्गिरसायास्य गौतमेति १। शारद्वतानामाङ्गिरसशारतद्वतगौतमेति २। कौमण्डकानामाङ्गिरसौदक्यकाक्षीवत गौतमकौमण्डेति ३। दीर्घतमानामाङ्गिरसौदक्यकाक्षीवतगौतमदैर्व्यतमेति ४। कारेणुपालानामाङ्गिरस गौतमकारेणुपालेति ५। वामदेवानामाङ्गिरसगौतमवामदेवेति ६। औशसानानामाङ्गिरसौशस- नगौतमेति ७। एते सप्त गौतमाङ्किरसाः समानप्रवराः अर्द्धाधिकर्षितुल्यत्वात्। भारद्वाजानामाङ्गिरसबार्हस्पत्यभारद्वाजेति १। रौक्षायणानामाङ्गिरसबार्हस्पत्यभारद्वाज चान्दनमातृवचसेति। गर्गाणामाङ्गिरसवार्हस्पत्यभारद्वाजगार्ग्यशैन्येति। आङ्गिरसगार्ग्य शैन्येति वा ३। त्रय एते भरद्वाजाङ्गिरसाः समानप्रवराः अर्घाधिकर्षितुल्यत्वात्। गार्ग्याणां त्र्यार्षेयपक्षेऽर्द्धाधिकर्षितुल्यत्वाभावेऽपि पक्षे समानप्रवरत्वाद्भारद्वाजैरविवाहः। विष्णुवृद्धानामाङ्गिरसपौरुकुत्सजामदग्न्येति १। काण्वानामाङ्गिरसाजमीढकाण्वेति २। हरितानामाङ्गिरसाम्बरीष यौवनाश्वेति ३। सांकृतीनामाङ्गिरससांकृत्यगौरवीतेति ४। रथीतराणामाङ्गिरसवैरूप्यरथीतरेति ५। मुद्गलानामाङ्गिरस भार्म्याश्वमौद्गलेति ६। कपीनामाङ्गिरसामक्षय्यवार्क्षय्येति ७। एते सप्त शुद्धाङ्गिरसाः भिन्नप्रवराः आङ्गिरसानुवृत्तावपि आङ्गिरसम्मुक्त्वेति वचनात्। अत्रीणामात्रेयार्चनानसश्यावाश्वेति १। गबिष्ठिराणाम्पत्रेयार्चनानस गविष्ठिरेति २। बभ्रूदकानाम् आत्रेयार्चनानसबभ्रूदकेति ३। मुद्गलानामात्रेयार्चनानसपौर्वतिथेति” ४। एते चत्वारः समानप्रवराःतुल्यर्षित्वात्। काश्यपानां काश्य पावत्सारनैध्रुवेति १। रेभाणां काश्यपावत्साररैभेति २। शाण्डिल्यानां काश्यपावत्सारशाण्डिल्येति ३। काश्य पावत्सारवैदेति वा काश्यावत्सारासितेति वा शाण्डिल्यासितदेवलेति वा इति चतुर्धा प्रवराः। लौगाक्षीणां काश्यपावत्सारवासिष्ठेति ५। एते समानप्रवराः। काश्यपानुवृत्तेः चतुर्थप्रवरे काश्यपानुवृत्त्यभावेऽपि त्रिभिः प्रवरैः समानप्रवरत्वात् काश्यपैरविवाहः। लौगाक्षीणां वासिष्ठपदानुवृत्त्या द्व्यामुष्यायणत्वाद्वसिष्ठैरविवाहः। वसिष्ठानां वासिष्ठेति १। कुण्डिनानां वासिष्ठमैत्रावरुण कौण्डिन्येति २। उपमन्यूनां वासिष्ठेन्द्रप्रमदभारद्वस्विति ३। पराशराणां वसिष्ठशक्तिपराशरेति ४। एते वासिष्ठाश्चत्वारः समानप्रवराः वसिष्ठानुवृत्तेः। कुशिकानां वैश्वामित्रदैवरातौदलेति १। रौहितानां वैश्वामित्राष्टकरोहितेति २। रौत्थकानां विश्वामित्ररौत्थक रैवतेति ३। विश्वामित्राणां वैश्वामित्रारसदेवतरसेति ४। मौञ्जायनानां विश्वामित्रमधुच्छन्दमौञ्जेति ५। धनञ्जयानां वैश्वामित्रमाधुच्छन्दसधनञ्जयेति ६। कतकानां वैश्वामित्रकात्याक्षीलेति ७। इन्द्रकौशिकानां विश्वामित्रेन्द्रकौशिकेति ८। अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति ९। पौराणां वैश्चामित्रपौराणेति १०। एतेषां दशानां कुशिकानां विश्वामित्रपदानुवृत्तेर्मिथः समानप्रवरत्वम्। अगस्तीनामगस्तिदार्ढ्यच्युतेध्मवाहेति। दार्भवाहानामगस्त्यागस्त्यदार्ढ्यच्युतदार्भवाहेति १। साम्भवाहानामागस्त्यदार्ढ्यच्युतसाम्भवाहेति २। सोमवाहनानामागस्त्यदार्ढ्यच्युत सोमवाहेति ३। यज्ञवाहानामागस्त्यदार्ढ्यच्युतयज्ञवाहेति ४। चतुर्णामगस्तीनामागस्त्यपदानुवृत्त्या मिथः समानप्रवरत्वमिति प्रवरनिर्णयः। अत्र संग्रहश्लोकाः। “एकोऽपि चं मुनिर्येषां प्रवरेष्वनुवर्त्तते। सगोत्रास्तेमिथोज्ञेया भृगुमङ्गिरसं विना। शुनकाः स्युर्गृत्समदैः काश्यपैः शाण्डिला अपि। भारद्वाजास्तथा गर्गाः पक्षे तुल्यर्षिदर्शनात्”। यद्वा। “च्यवनो गोतमोऽगस्त्योभरद्वाजोऽत्रिकश्यपौ। विश्वामित्रोवशिष्ठश्च यद्गणप्रवरेष्वमी। वर्त्तन्ते ते सगोत्राः स्युः कश्यपैः शाण्डिलास्तथा। शुनकाःस्युर्गृत्समदैर्भारद्वाजैश्च गर्गका” इति। अत्र प्रमादेन समानगणगोत्रप्रवरकन्योद्वाहे ज्ञानोत्तरकालं मातृवदेनाम्बिभृयात्। गर्भश्चेदुत्पन्नः स न दुष्यति। काश्यपो भवति गोत्रेण। ज्ञात्वा गच्छन् गुरुतल्पगः। तदुत्पन्नश्चण्डालवद्भवति। श्राद्धमपि सगोत्रप्रवराय न देयमित्याहुः। प्रवरविज्ञानात् विहीनो भवति एतत्समस्तं संप्रधार्य निश्चितं दास्यामीति तेषामुक्त ते गृहङ्गच्छन्ति”।

तत्रैव अथ मतान्तरम्। “सर्वे समानगोत्राःस्युरिति गाणगारिः। कथं ह्याप्रीसूक्तानि भवेयुः। कथं प्रयाजा इत्यपि। नानागोत्राः स्युरिति शौनकः। तन्त्राणां व्यापित्वात् गृहपतिगोत्रान्वयाविशेषात्। तस्य राद्धिरनुराद्धिः। सर्वेषां प्रवरास्त्वावर्त्तेरन् आवापधर्मित्वात्। जामदग्न्या वत्सादयः पञ्चार्षेयाः। यथा भार्गवाप्नवानौर्वजामदग्न्येति। वत्सश्रीवत्सयोश्च तथैव। आर्ष्टिषेणानां भार्गवच्यवनाप्नुवानौर्वार्ष्टिषेणेति। विदानां भार्गवच्यवनाप्नुवानौर्वविदेति। यास्कवाधूलमौलमौकशार्कराक्षिसार्ष्टिसावर्णिशालङ्कायनदैवन्त्यायनानां भार्गववैतहव्यसावेदेति। शैन्यानां भार्गवशैन्यपार्थेति। मित्रयूनां भार्गवदैवोदासवाद्ध्र्यश्वेति। शुनकानां भार्गवशौनकगात्र्समदेति। गौतमानामाङ्गिरसायास्यगौतमेति उतथ्यानामाङ्गिरसौतथ्यगौतमेति। राहुगणानामाङ्गिरसराहुगणगौतमेति। सोमराजिकीनामाङ्गिरससौमराजिगौतमेति। वामदेवानामाङ्गिरसवामदेवगौतमेति। वृहदुक्थानामाङ्गिरसबार्हदुक्थगोतमेति। पार्षदश्वानामाङ्गिरसपार्षदश्ववैरू- पेति। अष्टादंष्ट्रा इत्येके ब्रुवते अतीत्याङ्गिरसम्। अष्टादंष्ट्रापौरुकुत्सत्रासदस्यवेति। ऋक्षाणामाङ्गिरसवार्हस्पत्यभरद्वाजवान्दनमातृवचसेति। कक्षीवतामाङ्गिरसगौतमौशिजकाक्षीवतेति। दीर्घतमसामाङ्गिरसौतथ्यदैर्घतमसेति। भारद्वाजाग्निवेश्यानामाङ्गिरसवार्हस्पत्यभारद्वाजेति। मुद्गलानामाङ्गिरसभार्म्यश्वमौद्गल्येति। तार्क्ष्यं हैके ब्रुवते अतीत्याङ्गिरसं तार्क्ष्यभार्म्यश्वमौद्गलेति। विष्णुवृद्धानामाङ्गिरसपौरुकुत्सत्रासदस्यवेति। गर्गाणामाङ्गिरस वार्हस्पत्यभारद्वाजगर्गशैन्येति। आङ्गिरसशैन्यगार्गेति वा। हरितकुत्सपिङ्गशाङ्खदर्भभैमगवानाम् आङ्गिरसाम्बरीषयौवनाश्वेति सङ्कृतिपूतिमाषतण्डिशङ्खभौमगवानाम् आङ्गिरसगौरुवीतसांकृत्येति। शाक्तिगौरुवीत सांकृत्येति वा। काण्वानामाङ्गिरसाजमीढकाण्वेति। घोरमिहैके ब्रुवते अतीत्याजमीढम्। आङ्गिरसघोरकाण्वेति। कपीनामाङ्गिरसामक्षय्यवार्क्षय्येति। अथ शौङ्गशैशिरयः। भरद्वाजाः स्युः शुङ्गाः कताः शैशिरयः। तेषामुभयतः प्रवृणीते एकमितरोद्वावितरः त्रीनितरः। न हि चतुर्णां प्रवरोऽस्ति न पञ्चानाम्। आङ्गिरसवार्हस्पत्यभारद्वाजेत्यादि। कपी प्रसिद्धावुदिताविह द्वौ स्वतन्त्र एकस्त्वपरोऽस्वतन्त्रः। तत्र स्वतन्त्रस्य कपेर्विवाहं मिथो भरभाजकुलेन चाहुः। अथात्रीणामात्रेयार्चनानसश्यावाश्वेति। गविष्ठिराणामात्रेयगाविष्ठिरपौर्वतिथेति। विकितगालवकालवमनुतन्तुकुशिकानां वैश्वामित्रदेवरातौदलेति। श्रौमतकामकायनानां वैश्वामित्रदेवश्रवसदैवोदासेति। धनञ्जयानानां वैश्वामित्रमाधुच्छन्दस धानञ्जयेति। अजानां वैश्वामित्रमाधुच्छन्दसरौहिणेति। पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौराणेति। कतानां वैश्वामित्रकात्याक्षीलेति। अघमर्षणार्ना वैश्वामित्राघमर्षणकौशिकेति। रेणूनां वैश्वामित्रगाथिनरैणवेति। वेणूनां वैश्वामित्रगाथिनवैणवेति। शालङ्कायनशालाक्षलोहिताक्षलोहितजह्नूनां वैश्वामित्रमाधुच्छन्दसधानञ्जयेति शालङ्कायनकौशिकेति वा। काश्यपानां काश्यपावत्सारासितेति। निध्रुवाणां काश्यपावत्सारनैध्रुवेति। रेभाणां काश्यपावत्साररैभ्येति। शाण्डिलानां काश्यपावत्सारदैवलेति शाण्डिलासितदैवलेति वा। वासिष्ठवसिष्ठानां योऽन्यौपमन्युपराशरकुण्डिनेभ्यः। उपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेति। पराशराणां वासिष्ठशक्तिपराशरेति। कुण्डिनानां वासिष्ठमैत्रावरुण- कौण्डिन्येति। अगस्तीनामागस्त्यदार्ढाच्युतेध्मवाहेति। सोमवाहानामागस्त्यदार्ढ्यच्युतसौमवाहेति। पुरोहितप्रवरो राज्ञाम्। अथ यदि सार्ष्ट्यं प्रवृणीरन्। मानवेडपौरूरवःकुत्सेति शस्त्राणि। तान्यदक्षिणानि। तेषामन्ते ज्योतिष्टोमः पृष्ट्यशमनीयसहस्रदक्षिणः। अन्यो वा प्रजातदक्षिणः। दक्षिणाचेता पृष्ट्वा शमनोयेरन्निति विज्ञायते। स एव हेतुः प्रकृतिभावे। “भृगूणां न विवाहोऽस्ति चतुर्ण्णामादितोमिथः। शैनादयस्त्रयस्तेषां विवाहो मिथ इष्यते। यस्मात् वै गौतमादीनां विवाहोनेष्यते मिथः। दीर्घतमस्तथौतथ्यः कक्षीवांश्चैव गोत्रजः। भरद्वाजाग्निवैश्यर्क्षाः शौङ्गाः कात्याश्च शैशिराः। एते समानगोत्राः स्युर्गर्गानेके वदन्ति वै। पृषदश्वामुद्गला विष्णुवृद्धाः काण्वोऽगस्त्यो हारितः सङ्कृतिश्च। यस्कश्चैषां मिथ इष्टोविवाहः सर्वैरन्यैर्जासदग्न्यादिभिश्च। द्व्यार्षेयाणां त्र्यार्षेयसन्निपाते न विवाहः। त्र्यार्षेयाणां पञ्चार्षेयसन्निपाते न विवाहः। “एते समानगोत्राः स्युर्विश्वामित्रोऽनुवर्त्तते। अत्रयश्च वसिष्ठाश्च कश्यपाश्च पृथक् पृथक्। जमदग्निर्गौतमश्च भरद्वाजोऽत्रयस्तथा। विश्वामित्रः कश्यपश्च वसिष्ठोऽगस्तयोऽष्टमाः”। सप्तानामृषीणामगस्त्यष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते “एकएव ऋषिर्यावत् प्रवरेष्वनुवर्त्तते। तावत् समानगोत्राः स्युर्भृगुमङ्गिरसं विना। वसिष्ठौ द्वौ च विज्ञेयौ ब्रह्मपुत्रोऽथ शापतः। मैत्रावरुणिरित्येव वासिष्ठोविग्रहान्तरात्। ब्रह्मात्मजाच्छक्तिपराशरव्यासशुकादयः। ज्ञेयो विवेकस्त्वनयोर्द्वितीयात् कुण्डिनादयः। अतएव भिन्नशरीरत्वात् भिन्नगोत्रप्रवरत्वाच्च वसिष्ठवासिष्ठगणयोर्विवाहः। जामदग्न्यविश्वामित्राणां देवरातवर्जं सर्वत्र विवाहः। अत्रिविश्वामित्राणां धनञ्जयवर्जं सर्व्वत्र विवाहः इति” प्रवरनिर्ण्णयः।

अथ सौत्रप्रवराः तत्रैव “जामदग्न्यावीतहव्यागार्त्स मदा वाध्य्रश्वावैन्या गौतमाः भरद्वाजाः कपयोहारीताः काण्वा विरूपा मौद्गला विष्णुवृद्धा आत्र या विश्वामित्राः कश्यपा वासिष्ठा आगस्त्या इत्यष्टादश गणाः स्युः। आदितः पञ्चगणा भृगवो भवन्ति। भृगुजामदग्न्या वत्सश्रीवत्सच्यवनाप्नवानाः। और्व्वसावर्णिजीवन्तिजावाल्यतिशाट्यायनवैरोहित्थावटमण्डुप्राचीनयोग्यार्ष्टिषेणानां भृगवो न मिथो विवाह्याः। वीतहव्ययास्कवाधूलमौनमौकसावेदसा भृगवो न मिथो वि- बाह्याः। गार्त्समदशौनकौ भार्गवौ न मिथो विवाह्यौ। वाध्र्युश्वमित्रयवौ भार्गवौ न मिथो विवाह्यौ। वैण्यपार्थौ भार्गवौ न मिथो विवाह्यौ। आङ्गिरसायास्यौतथ्यौशिजकाक्षीवतवामदेववृहदुक्थ्यान्ता गौतमा न मिथो विवाह्याः। आङ्गिरसवार्हस्पत्यभारद्वाजकुक्कुटाग्निवेश्यौज्जापनसर्वस्तम्बस्तम्बशुङ्गकतशैशिरिपक्षिऋक्षवान्दनमातृवचसस्वतन्त्रकपिगार्ग्यकपिशैन्यान्ता भरद्वाजा न मिथो विवाह्याः। आङ्गिरसकथ्यमहायोक्षाजः कथवंश्या न मिथो विवाह्याः। आङ्गिरसमौहपिताम्बरीषयौवनाश्वमान्धातृशङ्खपिङ्गदर्भकुत्सहारिताः न मिथो विवाह्याः। आङ्गिरसाजमीढकण्वा न मिथो विवाह्याः। आङ्गिरसविरूपपृषदश्वरथीतराष्टादंष्ट्रा विरूपाः न मिथो विवाह्याः। आङ्गिरसमौद्गल्यऋक्षवोमुद्गला न मिथो विवाह्याः। आङ्गिरसविष्णुवर्धनत्रासदस्यवाघमर्षणभद्रणमद्रणवादरायणौपमित्यौपगविसात्यकिसात्यकाम्यारुणिनितुन्दयाविष्णुवर्धा न मिथो विवाह्याः आत्रेयार्चनानसश्यावाश्वगविष्ठिरधनञ्जयातिथिसुमङ्गलवामरथ्यवीजवाप्यमुद्गलान्ता आत्रेया न मिथो विवाह्याः। विश्वामित्रदेवरातचिकितमनुदन्त्वौलकिबालकियज्ञवल्कोलूकलवृहदग्निबभ्रुशाललिश्यालायनश्यालङ्कायनकालव वौदरश्रौमतकामकायनदैवश्रवसाज्यमाधुच्छन्दसधनञ्जयाष्टकलोहितपूरणपारिधायाघमर्षणकौशिककतसूनुपनसधूम्रजठरवावलौकहव्याग्निदैव्यन्ता विश्वामित्रा न मिथो विवाह्याः। काश्यपावत्सारनैध्रवरेभरैभशाण्डिल्यशाण्डिल्यदैवरातासितान्ताः काश्यपा न मिथो विवाह्याः। वसिष्ठशक्तिप्रराशरवासिष्ठा न मिथो विवाह्याः। आगस्त्यदार्ढ्यच्युतेध्मवाहदार्भवाहसाम्भवाहसोमवाहयज्ञवाहान्ता अगस्तयो न मिथो विवाह्याः”। एवं प्रवरज्ञानस्य विवाहोपयोगितोक्ता। अस्य होमविशेषोपयोगिताऽपि आर्षेयशब्दे वक्ष्यते। निर्ण्णयसिन्धौ अत्र कश्चिद्विशेष उक्तो यथा। “अथ गोत्राणि प्रवराश्चोच्यन्ते। तत्र बौधायनः गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात्”।

“तत्र सप्त भृगवः वत्सा विदा आर्ष्टिषेणा यस्का मित्रयवावैन्याः शुनका इति ७। वत्सानां भार्गवच्यबनाप्नवानौर्वजामदग्न्येति १। भार्गवौर्वजामदग्न्येति वा भार्गवच्यवनाप्नवानेति वा। विदानां पञ्च भार्गवच्यवनाप्नवानोर्ववैदेति २। भार्गकौर्वजामदग्न्येति वा एतौ द्वौ जामदग्न्यसंज्ञौ। आर्ष्टिषेणानाम् मार्गवच्यवनाप्नवानार्ष्टिषेणानूपेति। भार्गवार्ष्टिषेणानूपेति वा। एषान्त्रयाणां परस्परमविवाहः। वात्स्यानाम् भार्गवच्यवनाप्नवानेति वत्सपुरोधसयोः पञ्च भार्गवच्यवनाप्नवानवात्स्यपौरोधसेति। वैजवननिमतिथयोः पञ्च भार्गवच्यवनाप्नवानवैजवननैमतिथेति। एते त्रयः क्वचित् एषामपि पूर्वैरविवाहः। अत्र तत्तद्गणस्थाऋषयोऽन्यश्च विशेष स्तत्कृते प्रवरदर्पणे ज्ञेयः। यस्कानाम् भार्गववैतहव्यसावेदसेति। मित्रयूनाम् भार्गववाध्य्रश्वदिवोदासति। भार्गवच्यवनदिवोदासेति वा वाध्य्रश्वेत्येको वा। वैन्यानां भार्गववैन्यपार्थेति। एतएव श्यैताः। शुनकानां शुनकेति वा गार्त्समदेति वा भार्गवगार्त्समदेति द्वौ वा भार्गवशौनहोत्रगार्त्समदेति त्रयो वा। वेदविश्वज्योतिषां भार्गववेदवैश्वज्योतिषेति। शाठरमाठराणां भार्गवशाठरमाठरेति एतौ द्वौ क्वचित् यस्कादीनां स्वगणन्त्यक्त्वा सर्वैर्विवाहः। तदुक्तं स्मृत्यर्थसारे “यस्कामित्रयवावैन्याः शुनकाः प्रवरैक्यतः। स्वं स्वंहित्वा गणं सर्वे विवहेयुः परावरैरिति”।

“अथाङ्गिरसः ते गौतमाः भरद्वाजाः केवलाङ्गिरसश्चेति त्रिधा। अत्र गोतमा दश आयास्याः शरद्वन्तः कौमण्डादीर्घतमसः औशनसः कारेणुपालाः राहुगणाः सोमराजकाः वामदेवाः वृहदुक्थाश्चेति तत्रायास्यानाम् आङ्गिरसायास्यगौतमेति शरद्वताम् आङ्गिरसगौतमशारद्वतेति। कौमण्डानां आङ्गिरसौतथ्यकाक्षी वदिति गौतमकौमाण्डेति वा। आङ्किरसानामायास्यौशिजगौतमकाक्षीवदिति वा आङ्गिरसौतथ्यगोतमौशिजकाक्षीवदिति वा। आङ्गिरसौशिजकाक्षीवदिति त्रयो वा। दीर्घतमसाम् आङ्गिरसौतथ्यकाक्षीवतगौतमदैर्घतमसेति आङ्गिरसौतथ्यदैर्घतमसेति त्रयो वा। औशनसानाम् आङ्गिरसगौतमौशनसेति त्रयः। कारेणुपालानाम् आङ्गिरसगौतमकारेणुपालेति त्रयः राहुगणानां आङ्गिरसराहूगणगौतमेति। सोमराजकानाम् आङ्गिरससोमराजकगौतमेति। वामदेवानाम् आङ्गिरसवामदेव्यगौतमेति वृहदुक्थानाम् आङ्गिरसवार्हदुक्थगौतमेति। आङ्गिरसवामदेववार्हदुक्थेति वा। उतथ्यानामाङ्गिरसौतथ्यगौतमेति। औशिजानामाङ्गिरसौशिजकाक्षीवदित्यापस्तम्वः। आङ्गिरसायास्यौशिजगौतमकाक्षीवदिति कात्यायनः। एतौ द्वौ क्वचित् रघुवाणाम्। आङ्गिरसराघुवन गौतमेति केचित्। तत्र मूलं चिन्त्यम्। एषां सर्वेषां गौतमानामविवाहः।

अथ भरद्वाजाः ते चत्वारः। भरद्वाजा गर्गाऋक्षाःकपय इति भरद्वाजानामाङ्गिरसवार्हस्पत्यभारद्वाजेति त्रयः। गर्गाणामाङ्गिरसवार्हस्पत्यभारद्वाजशैन्यगार्ग्येति पञ्च। आङ्गिरसशैन्यगार्ग्येति वा अन्त्ययोर्व्यत्ययो वा। भारद्वाजगार्ग्यशैन्येति वा। गर्गभेदानाम् आङ्गिरसतैत्तिरकापिभुवेति ऋक्षाणां कपिलानां चाङ्गिरसवार्हस्पत्यभरद्वाजवान्दनमातृवचसेति पञ्च। आङ्गिरसवान्दनमातृवचसेति त्रयो वा। कपिलानामाङ्गिरसामहीयवऋक्षयसेति। आत्मभुवाम् आङ्गिरसभारद्वाजवार्हस्पत्यमन्त्रवरात्मभुवेति पञ्च। अयं क्वचित् भरद्वाजानां सर्वेषामविवाहः।

अथ केवलाङ्गिरसः हरितानाम् आङ्गिरसाम्बरी षयौवनाश्वेति। आद्योमान्धाता वा। कुत्सानाम् आङ्गिरसमान्धातृकौत्सेति। कण्वानामाङ्गिरसाजमीढकाण्वेति आङ्गिरसघोरकाण्वेति वा। रथीतराणामाङ्गिरसवैरूपराथीतरेति आङ्गिरसवैरूपपार्षदश्वेति वा। अष्टादंष्ट्रपार्षदश्ववैरूपेति वा। अन्त्ययोर्व्यत्ययो वा। मुद्गलानामाङ्गिरसभार्म्याश्वमौद्गल्येति आद्यस्तार्क्ष्यो वा आङ्गिरसताविमौद्गल्येति वा। विष्णुवृद्धानामाङ्गिरसपौरुकुत्सत्रासदस्यवेति। एषां स्वगणं विहाय सर्वैर्विवाहो भवति। हरितकुत्सयोस्तु न भवति।

अथात्रयः ते चत्वारः आत्रेयाः वाद्भुतकाः गविष्ठिराः मुद्गला इति। आद्यानामात्रेयार्चनानसश्यावाश्वेति। वाद्भुतकानाम् आत्रेयार्चनानसवाद्भुतकेति। धनञ्जयानाम् आत्रेयार्चनानसधानञ्जयेति क्वचित्। गविष्ठिराणामात्रेयार्चनानसगविष्ठिरेति। आत्रेयगाविष्ठिरपौर्वातिथेति वा। मुद्गलानामात्रेयार्चनानसपौर्वातिथेति। वामरथ्यसुमङ्गलवैजवापानामात्रेयार्चनानसतिथेति आत्रेयार्चनानसगाविष्ठिरेवि वा। सुमङ्गलानाम् अत्रिसुमङ्गलश्यावाश्वेति केचित्। अत्रेः पुत्रिकापुत्राणाम् आत्रेयवामरथ्यपौत्रिकेति। अत्रीणां सर्वेषामविवाहः।

अथ विश्वामित्राः ते दश कुशिकाः लौहिताः रौक्षकाः कामकायनाः कताः धनञ्जयाः अधमर्षणाः पूरणाः इन्द्रकौशिका इति कुशिकानां विश्वामित्रदेवरातौदलेति। लौहितार्ना विश्वामित्राष्टकलौहितेति। अन्त्ययोर्व्यर्त्ययो वा वैश्वामित्रमाधुच्छन्दसाष्टकेति वा। विश्वा- मित्राष्टकेति द्वौ वा। रौक्षकाणां वैश्वामित्रगाथिनरैवणेति वैश्वामित्ररौक्षकरैवणेति वा। कामकायनानां वैश्वामित्रदेवश्रवसदैवतरसेति वा। अजानां वैश्वामित्रमाधुच्छन्दसाजेति वैश्वामित्राश्मरथवाधूलेति वा अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति। पूरणानां वैश्वामित्रपौरणेति द्वौ वा। वैश्वामित्रदेवरातपूरणेति वा इन्द्रकौशिकानां विश्वामित्रेन्द्रकौशिकेति द्वौ। धनञ्जयानां विश्वामित्रमाधुच्छन्दसधानञ्जयेति। वैश्वामित्रमाधुच्छन्दसाघमर्षणेति वा कतानां वैश्वामित्रकात्याक्षीलेति एते वौधायनोक्ताः। रौहिणानां वैश्वामित्रमाधुच्छन्दसरौहिणेति। रेणूनां वैश्वामित्रगाथिनरैणवेति। जन्हूनां वैश्वामित्रशालङ्कायनकौशिकेति। आश्मरथ्यानां वैश्वामित्राश्मरथ्यवाधूलेति। वेणूनां वैश्वामित्रगाथिनवैणवेति एते आश्वलायनामात्स्योक्ताः अन्यैस्त्वन्येऽपि षढ्गणा ऊक्ताः तेऽन्यत्र तत्कृतौ ज्ञेयाः एषां विश्वामित्राणामविवाहः।

अथ कश्यपाः ते पञ्च निध्रुवाः कश्यपाः शण्डिलाः रेभाः लौगाक्षयश्च। निध्रुवाणां काश्यपावत्सारनैध्रुवेति। कश्यपानां काश्यपावत्सारासितेति। रेभाणां काश्यपावत्सारैभेति। शण्डिलानां काश्यपावत्सरशाण्डिल्येति। अन्त्यस्थाने देवलोवासितो वा। शाण्डिलासितदेबलेति वा। कश्यपासितदेतलेति वा। अन्त्ययोर्व्यत्ययो वा देवलासितेति द्वौ वा। लौगाक्षीन् वक्ष्यामः। एषां कश्यपानामविवाहः।

अथ वसिष्ठाः ते पञ्च वसिष्ठाः कुण्डिनाः उपमन्यवः पराशराः जातूकर्ण्याश्चेति। वासिष्ठेन्द्रप्रमदाभरद्वस्विति वासिष्ठेत्येकं वा। कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति। उपमन्यूनां वासिष्ठेन्द्रप्रमदाभरद्वस्विति। वासिष्ठाभरद्वस्विन्द्रप्रमदेति वा। आद्ययोर्व्यत्ययो वा पराशराणां वासिष्ठशाक्त्यपाराशर्येति। जातूकर्ण्यानां वासिष्ठानां सर्वेषामविवाहः। अन्त्यस्याऽत्रिभिश्च।

अथागस्त्याः ते चत्वारः इध्मवाहाः साम्भवाहाः सोमवाहाः यज्ञवाहाश्चेति आद्यानाम् आगस्त्यदार्ढ्यच्युतैध्मवाहेति आगस्त्येको वा। सोमवाहानाम् आगस्त्यदार्ढ्यच्युतसोमवाहेति। सांभवाहानां साभवाहोऽन्त्यः आद्यौ पूर्वकावेव सोमवाहानां तदन्तास्त्रयः दर्भवाहानां तदन्तास्त्रयः।

अगस्तीनामागस्त्यमाहेन्द्रमायोभुवेति पूर्णमासानाम् आगस्त्यपौर्णमासपारणेति। हिमोदकानाम् आगस्त्यहैमचर्चिहैमोदकेति। पाणिकानामागस्त्यपैनायक पाणिकेति। एते षट् क्वचित्। अगस्तीनां सर्व्वेषामविवाहः।

अथ द्विगोत्राः शौङ्गशैशिरीणाम् आङ्गिरसवार्हस्पत्यभारद्वाजकात्याक्षीलेति पञ्च कात्याक्षीलयोः स्थाने शौङ्गशैशिरी वा आङ्गिरसकात्याक्षीलेति त्रयो वा एषां भरद्वाजैर्व्विश्वामित्रैश्चाविवाहः। एवं कपिलानां कतानाञ्च संकृतिपूतिमाषादीनाम् आङ्गिरसगौरुवीतसांकृत्येति शात्यगौरुवीतसांकृत्येति वा एषां स्वगणस्थैर्वसिष्ठैः शौङ्कशैशिरैर्लौगाक्षिभिश्चाविवाहः। कश्यपैरपीति प्रयोगपारिजाते। लौगाक्षीणां काश्यपावत्सारवासिष्ठेति काश्यपावत्सारासितेति वा एतेऽहर्वसिष्ठा नक्तं कश्यपाः एषां वसिष्ठैः कश्यपैः संकृताद्यैश्चाविवाहः। देवरातस्य जामदग्न्यैर्विश्वामित्रैश्चाविवाह इति प्रयोगपारिजाते यदुक्तं बह्वृचश्रुतौ “यथैवाङ्गिरसः सन्नुपेयात्तव पुत्रताम्। आङ्गिरसोजन्मनास्याजीगर्तिः श्रुतःकविरित्थङ्गिरसगणस्थत्वेन भार्गवजामदग्नत्वस्मृतेर्बाधात्। तेन प्रत्यक्षश्रुत्या हरिवंशादिस्मृतेश्च बाचात् तेन द्वौ देवरातौ एक आङ्गिरसः श्रुत्युक्तः अन्यो भार्गवः तयोः कल्पभेदेऽप्याङ्गिरसेन देवरातेन जामदग्नैर्भवत्येव विवाहः भार्गवेण तु नेति तत्त्वम्। धनञ्जयानां विश्वामित्रैरत्रिभिश्चाविवाहः जातूकर्ण्यानां वसिष्ठैरत्रिभिश्चाविवाहः एवं दत्तक्रीतकृत्रिमस्वयंदत्तपुत्रिकापुत्रादीनाम् उत्पादकपालकयोः पित्रोर्गोत्रप्रवरा वर्ज्या इति प्रवरमञ्जरी नारायणवृत्तिप्रयोगपारिजातादयः। अत्र सर्वत्रोपपत्तयः मूलं च तत्कृते प्रवरदर्पणे ज्ञेयमिति दिक्। क्षत्रियवैश्ययोस्तु पुरोहितगोत्रप्रवरावेवेति सर्व्वसिद्धान्तः यद्यपि बह्वृचपरिशिष्टे कपिभरद्वाजयोर्विवाह उत्तस्तथापि “भरद्वाजाश्चंकपयोगर्गारौक्षायणा इमे। चत्वारीऽपि भरद्वाजगोत्रैक्यान्नान्वियुर्मिथः। कपिगर्गभरद्वाजामिथोरौक्षायणा द्विजाः। नोद्वहेयुः सयोत्रत्वात् प्रवरैक्याच्च कुत्रचिदिति” स्मृत्यर्थसाराद्यक्तेरविवाह एव तयोरिति प्रवरमञ्जर्य्यां यद्यपीदमुक्तम् तथापि भृग्वङ्गिरोगणेषु तु भबत्येव यथा बह्वृ परिशिष्टे बौधायनः “एक एवऋषिर्यावत्प्रवरेष्वनुवर्त्तते। तावत्समानगोत्रत्वमृते भृग्वङ्गिरोगणात्” माधवीये स्मृत्यन्तरं “पञ्चानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः। भृग्वङ्गिरोगणेष्वेवं शेषेष्वेकोऽपि वारयेदिति” एवं विश्वादर्शप्रयोगपारिजाताचारमाधवीय- निर्ण्णयसिन्धुप्रभृतिषु भृग्वङ्गिरोगणेषु पञ्च प्ररवाणां मध्ये त्रिषु साम्ये। त्रिषु प्रवरेषु द्वयोः साम्येऽपि शेषगोत्राणामेकर्षिसाम्येऽपि समानप्रवरत्वादविवाह्यत्वं सिद्धमेतेन अन्यूनानतिरिक्तसंज्ञासंख्याकत्वेन समानार्षत्वं यत् रघुनन्दनेनोक्तं तन्निर्मूलत्वादग्राह्यं बौधायनादिस्मृति विरुद्धत्वात्तदर्शनविजृम्भितत्वाच्च एवं वत्ससावर्णिगोत्रप्रवरेषु आप्नुवत्प्रवरत्वकथनमपि प्रवरध्यावाज्ञानविलसितम्। अधिकमार्षेयशब्दे वक्ष्यते। ऋषेरयं अण्। ऋषिकृतस्मरणे। वेदे यन्मन्त्रं येन ऋषिणा कल्पादौ स्मृतं तन्मन्त्रस्य तदार्षत्वम्। “आर्षं छन्दश्च दैवत्यं विनियोगस्तथैव च। वेदितव्यं प्रयत्नेन ब्राह्यणेन विशेषतः” योगिया०।

आर्षधर्म्म = पु० न० कर्म्म०। १ मन्वादिप्रोक्ते धर्म्मे। आर्षशब्दे २ उक्तआर्षविवाहे च।

आर्षभ = त्रि० ऋषभस्य वृषस्येदम् अण्। वृषसम्वन्धिनि। “यदन्यगोषु वृषभो वत्सानां जनयेच्छतम्। गोमिनामेव तत् सर्व्वं मोघं स्कन्दितमार्षभम्” मनुः ऋषभदेव चरिते न०।

आर्षभि = पु० ऋषभस्यापत्यम् इञ्। ऋषभदेवपुत्रे चक्रवर्त्तिनि नृपभेदे।

आर्षभी = पु० ऋषभस्येयं प्रिया अण् ङीप्। १ कपिकच्छ्वाम् राजनि०। ऋषस्येयम् तुल्याकारत्वात् अण् ङीप्। वायुपुराणोक्ते मध्यमार्गस्थवीथीत्रयमध्येवीथीभेदे ऐरावतीशब्दे विवृतिः

आर्षभ्य = पु० ऋषभस्य प्रकृतिः ञ्य। वृषभतायोग्ये वत्से वत्सो हि वयःक्रमेण वृषभतां प्राप्तोतीति तस्य वृषभ प्रकृतित्वात् तथात्वम्

***