आयुषज् = त्रि० आयुना सजते सन्ज–क्विप् षत्वम्। आयुः सम्वन्धे “सोमः पवत आयुषक्” ऋ० ९, २५, ५। “पवस्व देवायुषगिन्द्रं गच्छतु ते मदः” ऋ० ९, ६३, २२।
आयुष्क = पु० आयुषा कायति कै–क। आयुषा प्रकाशमाने प्रशस्तायुष्के।
आयुष्काम = त्रि० आयुः कामयते काम–णिङ्–अण् उप० स०। आयुरभिलाषुके “अथात आयुष्कामीयं रसयनम्” इति सुश्रुतः। “आयुष्कामेण वप्तव्यं न जातु परयोषिति” मनुः।
आयुष्कृत् = त्रि० आयुः करोति कृ–क्विप् ६ त०। आयुर्वृद्धिकरे रसरसायनादौ आयुर्वृद्धिशब्दे ७७५ पृष्ठे तान्युक्तानि। ट। आयुष्कर इत्यप्यत्र त्रि० स्त्रियां ङीप्।
आयुष्टोम = पु० आयुः साधनं स्तोमः शाक० त० षत्वम्। १ आयुःसाधने ऋक्समुदायात्मके स्तोमभेदे तत्स्तोमयुक्तेयागभेदे च।
आयुष्मत् = त्रि० आयर्विद्यतेऽस्य मतुप्। १ चिरजीविनि “आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने” “आयुष्मन्त सुतं सूते यशोमेधासमन्वितम्” मनुः स्त्रियां ङीप्। २ विष्कम्भावधिके तृतीये योगे पु०। “विष्कम्भःप्रीतिरायुष्मान्” ज्यो० ति०। आयुरिति शब्दोऽस्त्यस्य मतुप्। ३ आयुःशब्दयुक्ते मन्त्रभेदे “आयुप्मानिति शान्त्यर्थं जप्त्वाचैव समाहितः” छ० प०। तच्च आयुष्यसूक्तशब्दे दृश्यम्। भवदादिषु पाठात् तस्मिन् परे प्रथमार्थेऽपि तसिलादि। ततआयुष्मान् तत्रायुष्मान्।
आयुष्य = त्रि० आयुः प्रयोजनमस्य “स्वर्गादिभ्यो यत्” पा० भा० यत्। आयुः साधने आयुर्वृद्धिशब्दोक्ते रसरसायनद्रव्यकर्म्मादौ। “आयुष्यं प्राङ्मुखोभुङ्क्ते ऋतंभुङ्क्ते ह्युदङ्मुखः” “इदं यशस्यमायुष्यमिदं नि श्रेयसं परम्” “धन्यं यशस्यमायुष्यं स्वर्ग्यञ्चातिथिपूजनम्” इति च मनुः “आयुष्योहवा अस्यैष आत्मनिष्क्रयणो भवति “शत० ब्रा०।
आयुष्यसूक्त = न० कर्म्मधा०। “आयुष्मानिति शान्त्यर्थं जप्त्वा तत्र समाहितः” छ० प० उक्ते “आभ्युदयिकश्राद्धादिषुजप्ये सूक्तभेदे तच्च सूक्तम्। “आयुर्विश्वायुर्विश्वमायुरसीमहि। प्रजान्त्वष्टधार निधेह्यस्मै शतं जीवेम शरदां वयन्ते। आयुषे पवस्व वर्च्चसे मे पवस्व विदुः पृथिव्या दिषोजनित्र्याः शृण्वन्त्वापोऽध्यक्षरन्ती सोमोहोद्माय ममायुषे मम ब्रह्मवर्चसाय यजमानस्यार्द्ध्या अमुष्य शाज्याय” भव- देवभट्टधृतम् अत्रामुष्ये यत्र षष्ठ्यन्तं संस्कार्य्यनामोल्लेख्यम्। सामवेदिनाञ्चैतत् पाठ्यं वेदभेदेऽन्यदाकरे ज्ञेयम्।
आयुस् = न० इण–असि णिच्च। जीवितकाले “आयुरारोग्य मतुलं देहि देवि! नमोऽस्तुते” देवीस्तुतिः। “आयुर्देहातिगैः पीतं रुधिरं च पतत्त्रिभिः” रघुः। “चतुर्थमायुषोभागमुषित्वाद्यं गुरौ द्विजः। द्घितीयमायु षोभागं कृतदारोगृहे वसेत्” मनुः “समारुरुक्षुर्दिवमायुषः क्षये” रघुः। “आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्” भट्टिः। “अष्टमं चायुषः स्थानमष्टमादष्टमञ्च यत्” इति पराशरोक्तेः जन्मलग्नावधिके अष्टमस्थाने तृतीयस्थाने च तद्विवेच्यम्। स्थानविशेषे च ग्रहविशेषयोगदृष्ट्यादिवशात् आयुर्विशेषः अष्टमस्थाने चिन्तनीयपदार्थसहितः” सर्वा० चिन्ता० दर्शितः। यथा “मरणाज्जीवितमरणं गुप्तस्थानं च मरणहेतुञ्च। अन्तसुखमरणदेशं परिभवमपि चिन्तयेत् प्राज्ञः। रन्ध्रेश्वरे पापयुतेऽन्त्यराशावल्पायुरस्येति वदन्ति पष्ठे। तत्रापि लग्नेश्वरयोगजाते त्वल्यायुरस्येति वदन्ति सन्तः। स्वक्षेत्रसंस्थे सति रन्ध्रनाथे दीर्घायुराह्र्मुनयोमहान्तः। मन्देन वा चिन्त्यमशेषमायुः स्वक्षेत्रमित्रोच्चगृहस्थितेन। रन्धेश्वरे णापि युते विलग्ननाथे रिपौ वा व्ययराशियुक्ते। षष्ठान्त्यपे वा यदि लग्नयुक्ते दीर्घायुरभ्येति शुभेक्षितश्चेत्। कर्मेश्वरेणापि विचिन्त्यमायुर्दीर्घं सुहृस्वोच्चयुतेन तेन। केन्द्रस्थितैः कर्मविलग्नरन्ध्रनाथैस्तथैवायुरुदाहरन्ति। प्रोक्तग्रहैर्व्योमचरैस्त्रिभिर्वा सभानुजैः केन्द्रगतैस्तथैव। स्वक्षेत्रकोणादिगतैर्विशेषाद्वदन्ति दीर्घायु रुदारचित्ताः। चतुरस्त्रे शुभैर्युक्ते लग्नेशे शुभसंयुते। गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनिर्दिशेत्। केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते। ताभ्यां निरोक्षिते वापि दीर्घमायुर्विनिर्दिशेत्। त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः। लग्नेशे बलसंयुक्ते पूर्णमायुर्विनिर्दिशेत्। षट्सप्तरन्ध्रभावेष शुभेशसहितेषु च। त्रिषडायेषु पापेषु पूर्णमायुर्विनिर्दिशेत्। रन्द्र धिपे विलग्नस्थे गुरुशुक्रेक्षिते युते। लग्नेशे केन्द्रराशौ वा दीर्घमायुर्विनिर्दिशेत्। रन्ध्राधिपे तु केन्द्रस्थे गुरुशुक्रेक्षिते युते। लग्नेशे बलसंयुक्तेदीर्घमायुर्विनिर्दिशेत्। लग्नाधिपो यदा केन्द्रे लग्नादेकादशालये। सर्वग्रहकृतं रिष्टमेकोऽपि विलयं नयेत्। उच्चान्वितैस्त्रिभिः खेटैर्लग्नरन्ध्रेशसंयुतैः। रन्धे पापविहीनैस्तैर्दीर्घमायुर्विनिर्दिशेत्। रन्ध्रस्थतैस्त्रिभिः खेटैः स्वोच्चमित्रस्वगेहगैः। लग्नेशे वलसंयुक्ते दीर्घमा०। प्रारावताटिभागस्थाः पापाः सर्वे शुभास्तथा। केन्द्रत्रिको- णनिलयाः पूर्ण्णमायुर्विनिर्दिशेत्। षष्ठाष्टमव्यये पापा लग्नेशे दुर्बले यदि। अल्पायु रनपत्यो वा शुभदृग्योगवर्जिते। क्रूरषष्ठांशके वापि रन्ध्रेशे भानुजेऽपि वा। पापान्विते पापदृष्टेत्वल्पमायुर्विनिर्दिशेत्। चतुष्टयगते पापे शुभदृष्टिविवर्जिते। बलहीने विलग्नेशे त्वल्पमायुर्विनिर्दिशेत्। व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ। क्रूरषष्ठांशगौ वापि स्वल्पमायुर्विनिर्दिशेत्। आयुर्योगस्त्रिधा प्रोक्तः स्वल्पमध्यचिरायुषः। द्वात्रिं शत्पूर्व्वमल्पायुर्मध्यमायु स्ततो भवेत्। सप्तत्याः प्राक्, ततः पूर्णमायुरत्र वदन्ति हि। अल्पायुर्दिननाथस्य शत्रौ लग्नाधिपे यदा। समत्वे मध्यमायुः स्यान्मित्रे दीर्घायुरादिशेत्। बलहीने विलग्नेशे जीवे केन्द्रत्रिकोणगे। षष्ठाष्टमव्यये पापे मध्यमायुरुदाहृतम्। शुभे केन्द्रत्रिकोणस्थे शनौ बलसमन्विते। षष्ठे वाप्यष्टमे पापे मध्यमायुरुदाहतम्। लग्ने त्रिकोणे केन्द्रे वा मध्यमायुश्च मिश्रिते। अल्पायुर्योगजातानां विपत्पाके मृतिप्रदः। मध्यमे प्रत्यरिभेशान्मृतिं दद्याद्विशेषतः। अष्टमेशदशा कष्टा पूर्ण्णायुर्योगसंज्ञके। योगायुरि ति निश्चित्य जातस्यैवं वदेद्बुधः। आयुर्विलग्नाधिपती बलेन हीनौ धरासून्वहितेशयुक्तौ। युद्वे मृतिं तस्य वदन्ति तज्ज्ञाः शस्त्रेण वा तन्मरणं विशेषात्। रन्ध्राङ्गनाथौ यदि वा रिपुस्थौ राह्वन्वितौ केतुयुतौ ससूनू। व्रणेन युद्वे मृतिमाहुरार्याः शस्त्रेण वा तन्मरणं विशेषात्। रन्ध्राङ्गनाथौ यदि वा रिपुस्थौ राह्वन्वितौ केडयुतौ समन्दौ। तद्भुक्तिकालेऽप्यथ वा विपाके शस्त्रेण चौरैर्मरणं प्रयाति। रन्ध्राङ्गपौ वाहननाथयुक्तौ तस्मान् मृतिं तस्य वदन्ति तज्ज्ञाः। मृतिं त्वजीर्णाद्गुरुसंयुतौ तौ देहेशजीवौ रिपुगावजीर्णात्। लग्नेश्वरे वाहननाथयुक्ते वागीश्वरेणापि युते त्वजीर्णात्। देहेश्वरे वाहनवित्तभावनाथान्विते वा मरणंत्वजीर्णात्। रन्ध्रेशयोगान्मरणं दशायामन्तर्दशायामथ वा वदन्ति। पित्रादिभावाधिपयोगदृष्ट्या पित्रादिकानां मरणं तथैव। मृत्यङ्गपौ भानुसुतेन युक्तौ दुस्थानगौ वा विषभक्षणेन। राहुध्वजाभ्यां सहितौ च दुस्थावुद्बन्धनात्तस्य मृतिं वदन्ति। षष्ठेश्वरे भानुसुते सराहुकतौ मृगाद्भीतिमुदाहरन्ति। जीवेन युक्ते गजभीतिमस्य जातस्य चन्द्रेण युतेऽश्वभईतिम्। सूर्य्यान्विते तादृशभानुपुत्रे मृगात्सशृङ्गात शुनकात् सभौमे। षष्ठस्थिते भानुसुतेऽपि चेवं विना स्वतुङ्गस्वगृहं सखेटे। सुखेशभाग्येशविलग्ननाथास्त्रिकोणगाः केन्द्रगताश्च सर्वे। भुक्तौ यदा तत्परिपाककाले पित्रा सहैवानुमृतिञ्च मातुः। रन्ध्रे शशाङ्के फणिनाथ युक्ते हीने त्वपस्मांरयुतः समन्दे। तत्र स्थिते हीनबले शशाङ्के पिशाचपीडा च जलाद् द्विपाच्च। भौमाहिमन्दान्यतमेन युक्ते क्षीणे शशाङ्के निधनस्थितेऽपि। दुःस्थे त्वपस्मारभयान्मृतिःस्यात्पिशाचबाधादथ वा मृतिस्तु। रन्ध्रे सराहौ यदि वा सकेतौ चातुर्थिकापीडनमाहुरस्य। रन्ध्रेश्वरेणापि युते तथैव क्रूरादिषष्ठांशयुते तु सत्यम्। नीचस्थिते वाऽमरनायके वा षष्ठाष्टमस्थे यदि पापदृष्टे। राज्ञां प्रकोपान्मरणं पितुश्च तत्पीडया वित्तविनाशमेति”। अधिकमल्पायुःशब्दे ४१३ पृष्ठे उक्तम्। अस्य पुरुषादिपूर्ब्बपदकत्वे अच् समा० “पुरुषायुषजीविन्यः” रघुः त्र्यायुषम् मनुष्यायुष मित्यादौ बा० अच् समासान्तः।
आयुर्योगश्च सर्व्वा० चि० दर्शितः यथा “अथायुर्योगः। केचिद्योगं प्रशंसन्ति दशां केचिद्वदन्ति हि। तद्विना चायुषां ज्ञानं न शक्यन्तु मनीषिभिः। त्रिविधश्चायुषो योगः स्वल्पायुर्मध्यमोत्तमः। द्वात्रिं शत्पूर्व्वमल्पन्तु तदूर्ध्वं मध्यमं भवेत्। आ सप्ततेस्तदूर्ध्वन्तु दीर्घायुरिति सम्मतम्। उत्तमायुः शतादूर्ध्वं मुनेः शंसन्ति तद्विदः। आ द्वादशाब्दाज्जन्तूनामायुर्ज्ञानं न शक्यते। जपहोमचिकित्साद्यै र्वालरक्षां तु कारयेत्। पित्रोद्देशैर्मृताः केचित्केचिद् बालग्र हैरपि। अपरे रिष्टयोगाच्च त्रिविधाऽकालमृत्यवः। जन्मतः प्रबलेनैव बालानां पुष्टिवर्द्धनम्। कथयेदवशेषं तु तथा योगोनिरूपितः। अल्पायुर्लग्नपे भानौ शत्रौ मध्यं तु मध्यमे। मित्रे लग्नेश्वरे तस्य दीर्घमायुरुदाहृतम्। अल्पायुर्योगजातस्य विपत्तारे मृति” वदेत्। जातस्य मध्यमे यागे प्रत्यरौ तु मृतिर्भवेत्। दीर्घायुर्योगजातानां बधभे तु मृतिर्भवेत्। त्रिषु योगेषु सर्वेषु प्रत्येकं त्रिविधं भवेत्। अल्पायुरल्पमध्यं तु पूर्ण्णायुस्त्रिविधं स्मृतम्। मध्यमादल्पमध्यं तु पूर्ण्णायुस्त्रिविधं भवेत्। दीर्घायुषोऽल्पमध्ये तु पूर्ण्णायुस्त्रिविधं भवेत्। एवन्नवविधं प्रोक्तमायुषां तु विनिर्णयः। पञ्चम्याराद्दशा मृत्युं दद्यात् षष्ठी गुरोस्तथा। शनेश्चतुर्थान्मृत्युः स्याद्दशा राहोश्च सप्तमी। विपद्भेशदशा कष्टा प्रत्यरीशदशा तथा। बधभेशदशा कष्टा पापा स्यादशुभेक्षिता। नीचारातिविमूढस्था विपत्प्रत्यरिनैधनाः। दशा दद्युर्मृतिं तस्य पापैयुक्ता विशेषतः। राशिसन्धिषु ये जातास्ते बाला मृतजीविनः। पापदृष्टो युतोवाऽपि निःसंशयमृति प्रदः। गण्डान्तेषूद्भवो मर्त्यः पितृमातृबलात्ततः। यदि जीवेत्स्व- र्गपालो गजवाजिसमन्वितः। तृतोयगौ भानुनिशाकरौ वा क्रूरर्क्षगौ क्रूरनिरीक्षितौ च। व्याधिं नरस्यापि वदन्ति तजज्ञास्त्रिवर्षमात्रं त्वविलम्बमेतत्। चन्द्रात् स्मरेवासरनाथभौमौ कुजादयो वा मरणं दशाहात्। उद्यद्रेष्काण जामित्रे यस्व स्याद्दारुणो ग्रहः। क्षीणचन्द्रे विलग्नस्थे सद्योहरति जीवितम्। आपोक्लिमे स्थिताः सर्वे ग्रहा बलविवर्ज्जिताः। एकमासं द्विमासं वा तस्यायुः समुदाहृतम्। विलग्नाधिपतिर्नीचे निधने चार्कसंयुते। कृच्छ्रेण जीवनं विन्देन्मृतप्रायो भविष्यति। केतोरुदयः पूर्ब्बे पश्चादुक्लाग्निपवननिर्घातः। रौद्रे सति च मूहर्त्ते प्राणेभ्यस्त्यज्यते जन्तुः। ग्रहणपरिवेशकाले जातः पापान्विते विलग्नस्थे। लग्नेशे बलहीने जीवति पक्षत्रयं त्रिमासं वा। अंशाधिपतिर्जन्मपतिर्लग्नपश्चास्तमुपागतो यस्य। लग्नावसानमरणं भवेत् कतिपयाहेन। सन्धिचतुष्टयकाले जाते मृत्युं समादिशेत्तज्ज्ञः। पापयुते दृष्टे वा शीघ्रैः सौम्यैरदृष्टयुते। राहौ केन्द्रे पापयुक्तेक्षिते वा क्षिप्रं नाशं याति सौम्यैरदृष्टे। पापैः केन्द्रे वार्कलग्ने त्रिकोणे सौम्यैः षष्ठे चाष्टमेऽन्त्ये वदन्ति। जातः क्षोणे शीतगौ लग्नसंस्थे पापैर्दृष्टे नाशमाशु प्रयाति। उच्चक्षेत्रे मेषराशिं च हित्वा राहुर्युक्तस्तेष्वपि प्राणनाशः। लग्नात्स्वान्त्यौ पापयुक्तौ यदि स्तस्तत्षष्ठान्त्ये वा विनश्येन् क्षणेन। लग्नाद्बाले चाष्टमे पापचारैः सोमे क्षीणे त्वष्टमाब्दं च जीवेत्। केन्द्रैश्चन्द्रात्पापयुक्तैरसौम्यैः स्वर्गे यानं प्रोच्यते वत्सरेण। जन्माधिपे लग्नगे क्रूरयुक्ते पश्यत्यार्किश्चाष्टमे जीववर्गे। षष्ठे वर्षे द्वादशे वाऽष्टमे वा सन्धौ राशेर्जातको मृत्युमेति। षष्ठेऽष्टमे वा हिमगौ च यस्य क्षीणे चन्द्रे पापयुक्तेऽथ वापि। सौम्यैर्दृष्टे त्वष्टमाब्दञ्च जीवेत् पापैः सौम्यैर्मिश्रितैस्तद्दलं स्यात्। जीवेविलग्ने मिथुने तुलायां शुक्रेण युक्ते शशिसूनुना च। पापैर्दृष्टे मृत्युराशिस्थिते वा जीवेद्वर्षं चाष्टमं चैच बालः। लग्ने क्षीणे शशिनि निधनं रन्ध्रकेन्द्रेषु पापैः पापान्तःस्थे निधनहिवुके द्यूनयुक्ते च चन्द्रे। एवं लग्ने भवति मदनच्छिद्रसंस्थे च पापे मात्रा साकं यदि च न शुभैर्वीक्षितः शक्तिमद्भिः। राहुग्रस्ते शीतरश्मौ विलग्ने क्रूरे युक्ते चाष्टमे भूमिपुत्रे। मात्रा साद्धं चन्द्रवद्भास्करेण ग्रस्तो वा तेनाशु मृत्युं प्रयाति। अस्तङ्गते दनपतौ रविजे विलग्ने भौमेऽथ वापि निधनं ब्रजति त्रिवर्षात्। एवं स्थितेऽपि हिमगावशुभैरदृष्टैराशुग्रहे च नियत् भवतीह चाष्टौ। वृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्त्तिः। अन्यैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रसूतम्। वक्री शनिर्भौमगृहं प्रयातश्छिद्रे च षष्ठे च चतुष्टये वा। कुजन संप्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम्। सौरिस्मरस्थे यदि वा विलग्ने जन्मस्थलग्ने शशिदुश्चिके वा। सौम्येषु केन्द्रोपगतेषु सद्योजातस्य मृत्युर्यवनोपदिष्टः। नीचस्थे देवपूज्ये तु भौमक्षेत्रगतेऽथ वा। सन्धित्रयेऽपि जातस्तु मासान्मृत्युं स गच्छति। नक्षत्रसन्धौ तिथिराशिसन्धावेकत्र तावत्प्रसवस्त्रिपक्षात्। जातश्च मृत्युं समुपैति सद्यः शुक्रेऽह्नि जीवेदिति नन्दिकोक्तम्। षष्ट्यां जातश्चार्कलग्ने कुजे वा गण्डान्ते वा मृत्युयोगेऽथ वापि। भौमे हन्ति प्राणिनां तत्क्षणेन जीवेक्षिते चेन्न भवेत् प्रजातः। भौमोदये तद्दिवसे कृशेन्दौ होरेश्वरे वारभूते शशाङ्के। जातः सुखी ब्रह्मपदं प्रयाति प्रसाधनाद्यैरिह मन्त्रसिद्ध्या। वर्गोत्तमे लग्नगते कुलीरे केन्द्रे गुरौ भूमिसुते कलत्रे। सिंहासनांशे मृगुजे विशेषाद्रसायनाद्यैरमितायुरेति। कर्मान्त्यलग्ने सबुधे कलत्रे जीवे यदा गोपुरभागयुक्ते। मृद्वंशके वा दिननाथपुत्रे जातस्त्वसंख्यायुरुपैति सूनुः। देवलोकांशके शुके केन्द्रस्थे धरणीसुते। सिंहासनांशके जीवे केन्द्रे जातस्त्वसंख्यकः। उत्तमांशे भृगो केन्द्रे शनौ पारावतांशके। स्वर्गलोके गुरौ केन्द्रे त्वौषधाधारसंख्यकः। गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके। त्रिकोणे कर्किलग्ने तु यगान्तं स तु जीवतिः। चापांशे कर्किलग्ने च तस्मिन् देवेन्द्रपूजिते। त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्मपदं लभेत्। तृतीयैकादशे शुक्रे गोपुराख्यांशकान्विते। वृषे वर्गोत्तमे लग्ने ब्रह्मणः परमं पदम्। लग्ने शुक्रे गुरौ कामे कर्मायेऽमरनायके। चापमेषांशके लग्ने जातो याति परं पदम्। पञ्चमे बुधसंयुक्ते गोपुराख्यांशकान्विते। गुरौ घटे विलग्नेऽस्मिन् जातो ब्रह्मपदं लभेत्। केन्द्रे गुरौ लाभगतेऽर्कपुत्रे धने रवौ मन्दयुते कलत्रे। भाग्ये धरासूनुयुतेऽत्र जातो युगान्तकालं सममुपैति मन्त्रैः। त्रिकोणगौ जीवबुधौ विशेषाल्लग्ने वृषे तत्र यते धराजे। निशाकरे गोपुरभागयुक्ते जातः सहस्रद्वयवर्षमेति। पक्षे सिते जन्म यदाह्नि काले केन्द्रे गुरौ वा शशिभे विलग्ने। दारे कुजे भानुसुते सुखस्थे जातस्तु जीवेदयुताब्दसंख्यम्। जीवमन्दारशुक्राणामन्योन्यं केन्द्रसंभवे। त्रिकोणे वा यदा याते जातस्त्वयुतवत्सरेः। शुभैर्युक्ते चतुष्केन्द्रे पापैः षट्त्रिभवान्वितैः। सिंहलग्ने यदा जातो जीवेत् षडयुतानि सः। कर्कादिस्थैर्ग्रहैः सर्वैर्गुरुचन्द्रादिभिर्यदा। शन्यन्तैः परमोच्चस्थैर्मुनितुल्यो भवेन्नरः। शन्यादिभौमपर्यन्ता लग्नादौ खचराः स्थिताः। वैशेषिकांशसंयुक्ताजातस्त्वमरसंन्निभः। आकल्पं जोवति नरो मृगे लग्ने कुजादिकाः। रव्यन्ताः खचराः सर्वे स्वोच्चे जीवेऽह्नि जन्मनि। मेषान्त्यलग्ने सगुरौ भृगौ वा निशाकरे गोधनमध्यमांशे। सिंहासनांशे यदि वा धराजे जातस्त्वसं ख्यायुरुपैति मन्त्रैः। स्थिरे रवौ सोमसुतेन युक्ते चन्द्रे वृषस्थेमिथुने च शुक्रे। गुरौ कुलीरे यदि वा विलग्ने शनौ तुलायां मुनिसाम्यमेति। देवलोकांशके मन्दे भौमे पारावतांशके। सिंहांशके गुरौ लग्ने जातो मुनिसमो भवेत्। मेषलग्ने रवौ माने जीवे स्वीच्चसमन्विते। त्रिषडायगते पापे जातो मुनिसमो भवेत्। इति चिन्तामणौ प्रोक्ता आयुःसंख्या मनीपिणाम् यदुक्तं पूर्ब्बकैः सर्व्वेस्तद्वदेव मयाऽऽधुना”। पारिजातांशाद्यास्तु सर्व्वा० चिन्त दर्शिताः। “मूलत्रिकोणकोणोच्चस्वर्क्षकेन्द्रोत्तमांशकाः। सप्तवर्गोद्भवाः स्वांशस्वाधिमित्रांशमित्रकाः। वर्गा इमे दश प्रोक्ताः पूर्ब्बाचार्य्यै र्महर्षिभिः। वर्गद्वयादिसंयोगै पारिजातादिसंज्ञकाः। उत्तमं तु त्रिवर्गैक्यं चतुर्वर्गं तु गोपुरम्। वर्गपञ्चक संयोगे सिंहासनमिहोच्यते। वर्गद्वयं पारिजातं षट्कं पारावतांशकम्। सप्तकं देवलीकाख्यं स्वर्गलोकस्तथाऽष्टकम्। ऐरावतन्तु नवकं फलं तेषां पृथक् पृथक्”। जातकपद्धतौ तु रिष्टभङ्गसहितायुर्योगविशेषः गजाद्यायुःप्रमाण सहित उक्तः यथा “लग्नसप्तमगौ पापौ चन्द्रः पापयुतो यदा। शुभग्रहै र्न दृष्टः स्यादचिरान्मृत्युकारकः। क्षीणेन्दौ व्ययगे पापै र्लग्नाष्टमनिवासिभिः। केन्द्राणि शुभहीनानि यदि क्षिप्रं तदा मृतिः। पापयुक्तः शशी लग्नसप्ताष्टद्वादशस्थितः। केन्द्रान्यस्थानगैः सोम्यैर्न दृष्टो मृत्युदायकः। पापे राश्यन्तगे सन्ध्याकाले होरा विधोर्यदा। मृत्युर्वा स्याच्चन्द्रपापै र्युते सर्व्वचतुष्टये। कर्कान्त्यगे चक्रपूर्ब्बं पश्चार्द्धे पापदृग्युते। मृत्युर्वाष्टमैकेन्द्रस्थैः पापैः क्षीणे विधौ तनौ। षष्ठद्वादशगैः पापैरथवा द्व्यष्टसं स्थितैः। लग्ने वा पापमध्यस्थे सप्तमे वा मृतिं व्रजेत्। चन्द्रे षष्ठेऽष्टमे वापि मरणं पापवीक्षिते। शुभैरेवेक्षिते वर्षाष्टकान्मिश्रैस्तदर्द्धतः। शुभैः षष्ठास्तगे पापैर्बलिभिः प्रविलोकिते। मासान मृत्युः सप्तमे वा लग्नेशे पापसंयुते। तुर्य्यसप्ताष्टगश्चन्द्रः पापान्तःस्थो मृतिप्रदः। क्षीण एवं लग्नगोऽपि पापे सप्ताष्टगे सति। शुभादृष्टे विधौ भान्ते केन्द्रकोणोपगैः खलैः। भृतिराशु सचन्द्रेऽङ्गे पापैर्वा सप्तमैः स्थितैः। सपापोऽङ्गे विधौ ग्रस्ते समातृकशिशोर्बधः। भौमेऽष्टमे रवावेवंविधे लग्ने तु शस्त्रजः। चन्द्रार्कौ वा तनौ पापैः सबलैरष्ट कोणगैः। शुभैर्न युक्तदृष्टश्चेन्मरणं वालकस्य हि। लग्नांष्ट नवमान्त्येषु कुजचन्द्रार्कसूर्य्यजैः। बलिष्ठगुर्व्वदृष्टैः स्याज्जातस्य मरणं ध्रुवम्। पापयुक्तो विधुर्लग्नसप्तकोणान्त्यमृत्युगः। मरणाय बलिष्ठोज्ञस्त्रिकयुग् वीक्षितो न चेत्। योगकर्तृबलिष्ठेनाधिष्ठेते च बली विधः। स्वभे वा लग्नभेऽब्दान्तः पापदृष्टस्तदा मृतिः। मेषालिगो गुरुर्मृयौ विशुक्रैरवलोकितः। त्रिवर्षान्मृत्युदोमन्दः स सूर्य्येन्दु र्नवाब्दतः। दृश्यादृश्ये सौम्यपापैर्लग्नेऽग्नाविपुभिमृतिः। बुधः सार्कविधुः पापदृष्ट एकादशाब्दतः। लग्नेशो रिपुगोराशिमितैर्वर्षेमृतिप्रदः। मासैर्द्रेक्काणनाथस्तु दिवसैरंशनायकः। लग्ने शनिः षोडशाहात् पापदृष्टोऽथ संयुतः। मासाद्विशुद्धो वर्षात्तु शिशोर्मृत्युकरः स्मृतः। लग्नेऽर्ककुजमन्दाश्चेत् षष्ठे वा सप्तमे विधुः। क्षीणो न दृष्टो गुरुणा सप्तवर्षान् मृतिप्रदः। राशिलग्नेश्वरावस्तं यातौ षष्ठाष्टरिप्फगौ। राश्यङ्कतुल्यवर्षै स्त मरणाय शिशोः स्मृतौ। राहुःपापेक्षितः केन्द्रसंस्थो मृत्युकरः शिशोः। वत्सरैर्दशभिः कैश्चित् स्मृतः षोडशवत्सरैः। एकोऽपि पापोमृत्युस्थः शत्रुगेहे खलेक्षितः। अमरार्भकमप्येवं वर्षान्मृत्युवशं नयेत्। शुक्रः कर्कमृगारस्थोव्ययाष्टारिस्थितैः खलैः। सर्वैः प्रदृष्टः षड्वर्षैर्जातस्यारिष्टकारकः। बुधः कर्कस्थितः षष्ठेऽष्टमे वा चन्द्रवीक्षितः। वर्षैश्चतुर्भीरिष्टस्य कारकः कथितो बुधैः। सूर्य्यः कर्म्मणि शन्यारक्षेत्रस्थः पापवीक्षितः। मरणाय शिशोः केतूदयभं जन्मभं तथा। षष्ठाष्टमस्थाः शुभदाश्च पापाधर्म्मात्मजस्थाश्च यदा भवन्ति। पापैः प्रदृष्टा न शुभा प्रदृष्टा वर्षाष्टकान्मृत्युकराः प्रदिष्टाः। लग्नपः पापयुक् द्यू नेरिष्टकृद्धोधनस्थितः। नवाब्दैः सखलोऽब्जांशे व्यये चेन्दोः खलेक्षितः। सूर्य्यशुक्रशनीनाञ्च योगो भवति जन्मनि। गुरुदृष्टोऽपि रिष्टाय प्रदिष्टो नववत्रैः। गजैरङ्ककैर्नेत्रनेत्रै र्द्विपक्षैः शरैरेककेनाव्धिभिर्वह्निनेत्रैः। गजाब्जैर्नखै स्वर्गसंख्यैश्च दिग्भिर्विधोर्मेषतो भागवर्षैर्मृतिः स्यात्। कर्कलग्ने गरौ सेन्दौ ज्ञशुक्रौ केन्द्रगौ यदा। त्रिलाभारि- गताः शेषा इहायुरमितं स्मृतम्। आयुषो योगजस्यापि रिष्टं वाधकमत्र हि। तद्बाधकोरिष्टभङ्गः स चेद्बलिकृतोभवेत्। शुभाश्चन्द्रात् षष्ठसप्ताष्टमस्था नो खलान्विताः। रिष्टनाशाय गदिताः प्रणामोनृहरेर्यथा। शुभद्रेष्काणगैः सर्वैः शुभैर्युक्तोविधुः शिशोः। रिष्टहा परिपूर्ण्णो वा द्वादशांशे शुभे स्थितः। सम्पूर्ण्णाङ्गः शर्व्वरीनायकश्चेत् सर्वै र्दृष्टोरिष्टहा संप्रदिष्टः। उच्चस्थो वा मित्रभागस्थितो वा चन्द्रारिष्टं नाशयेत् शुक्रदृष्टः। केन्द्रे ज्ञगुरुशुक्राणामेकः कोणेऽथ वीर्य्यवान्। अरिष्टनाशकः केन्द्रे पापोऽपि परमोच्चगः। मित्रराशिगताः पापाः शुभाश्च नवपञ्चमाः। नाशं नयन्तिरिष्टानि कृष्णोरिष्टासुरं यथा। बलीजन्मेश्वरोमित्र शुभदृष्टो हि रिष्टहा। स सर्वग्रहदृष्टो हि षष्ठे रिष्टविनष्टि कृत्। वर्गोत्तमे शुभाः सर्व्वे स्वभे चारिष्टहानिदाः। शुभवर्गगता दृष्टाः सद्दृष्टा रिष्टानष्टिदाः। कृत्तिकापुष्यदास्रेषु चन्द्रोवाथ त्रिपुष्करे। पूर्ण्णोवर्गोत्तमगतः स्वीयरिष्टविनाशकृत्। मेषकर्कगतश्चन्द्रः केन्द्रे शुभनिरीक्षितः। अशुभं नाशयत्याशु हरिर्मत्तगजं यथा। शुक्लपक्षे निशायाञ्चेत् कृष्णेजन्म यदा दिवा। शुभाशुभेक्षितश्चन्द्रः षष्ठाष्टस्थोऽवकः शिशोः। व्यतीपातेऽथ गण्डान्ते वैधृतौ रिष्टिसन्ध्ययोः। जातस्य रिष्टं नास्त्येव स्मृतिकर्त्तुर्मतं यथा”। इति चन्द्ररिष्टभङ्गः। “सवीर्य्ये गुरौ लग्नगे रश्मियुक्ते विनाशं तदैवाशुभं सर्व्वमेति”। बलिष्ठैः शुभैश्चाशुभैर्वीर्य्यहीनैः शुभर्क्षं तनुः सद्ग्रहैर्वीक्षितं वा। त्रिषडेकादशे राहुः शुभदृष्टो यदा भवेत्। मृत्युनाशाय सविभुर्मृत्युञ्जय इवापरः। मेषोक्षकर्कलग्नस्थो राहुश्चाम्युदयो मुनेः। अगस्त्यस्य मुनीनां च सप्तानां रिष्टनाशकः। शीर्षोदयगतैः सर्वैर्मृत्युदोषो विनश्यति। प्रसन्नैः सुखदैश्चापि नभोदिग्वह्निवायुभिः। मृत्युभं ग्रहहीनं चेत् केन्द्रे पूर्ण्णबले शुभे। त्रिंशद्वर्षं तदायुः स्याच्चत्वारिंशच्छुभेक्षिते। गुरुः स्वभे स्वदृक्काणे सप्तविंशतिवर्षकम्। स्वभस्थिताः शुभाश्चन्द्रे स्वोच्चेऽङ्गस्थे स्वषट्समाः। लग्ने गुरौ शुभैः केन्द्रस्थितैर्मृत्यौ ग्रहोज्भिते। सप्तत्यब्दं भवेदायुरष्टाङ्गे तदवीक्षिते। कर्केऽङ्गगे गुरौ कोणस्थितैः सर्वशुभग्रहैः। अशीतिरायुषः काष्ठा केन्द्रेशुक्रे शतं समाः। सूर्य्ये बलिष्ठे पिण्डायुश्चन्द्रे स्यात्तु निसर्गजम्। लग्नेऽंशायुर्हीणबले त्रिकेऽस्मिन् जीवशर्म्मजम्। नन्देन्दुतत्त्व तिथ्यर्कतिथिस्वर्गनखा रवेः। वर्षाण्युच्चे ग्रहे नीचे त्वर्द्धं मध्येऽनुपाततः। नखैकद्वाङ्कधृतयो विंशत्खाक्षा निस- र्गजाः। समाः सूर्य्यात् पूर्ब्बवत् स्यादेभ्योऽप्याऽयुरथांशजे। इष्टग्रहलवास्त्रिघ्ना दशभक्ताश्च यत् फलम्। वर्षमासादिकं ज्ञेयं भवेद् द्वादशभिः स्फुटम्। जैवे परायुः सप्तांशो ग्रहायुः परमोच्चगे। लग्नमशसमन्त्वयुर्दद्याद्वीर्य्ययुतं च भैः। सर्वमर्द्धं तृतीयोऽंशः प्रादः पञ्चाङ्गभागकौ। व्ययाद्वामं विमीयेत पापे त्वर्द्धं शुभग्रहे। एकभावगतानां यो बली भागहरस्तु सः। अर्द्धमस्तं गतोहन्ति त्यक्त्वा शुक्रशनैश्चरौ। कुजन्त्यक्त्वा शत्रुभस्थैस्त्रिभागो नाश्यते निजः। लग्ने सपापैः लग्नस्थनवांशघ्नाद्ग्रहायुषः। अष्टोत्तरः शतांशः स्याद्धीनः सौम्येक्षिते दलम्। उच्चचक्रगतास्त्रिघ्नं द्विघ्नं स्वांशोत्तमादिगाः। ददत्यायुर्ग्रहास्ते चेद्वृद्धौ नित्यं स्वभादिगाः। अपि त्रिद्व्ये कगुणदाः केन्द्रादाविति केचन। लग्ने सपापे हानिर्या नासावंशभवायुषि। हानिद्वयेऽधिकैव स्याद्गुणोऽप्येवं वराहगोः। खार्काःपरायुर्नरदन्तिनोः १२० स्याद्दन्ता ३२ हयानां च जिना २४ वृषादेः। खरोष्ट्रयोस्तत्त्वसमाः २५ शुनोऽर्का १२ व्याघ्राद्यजादेर्हिनृपाः १६ परायुः। आ युर्नृवत् समानीय स्वस्वपूर्ण्णायुषा हतम्। गृपरायुर्हृतं स्पष्टं गजाद्यायुर्भवेदिति। दीपस्तैलादियुक्तोऽपि यथा वाते विनश्यति। अजितेन्द्रियतापथ्यैरेवमायुर्विनश्यति”।
अत्र हयानां दन्तैर्यथायुर्ज्ञानं तथोक्तमश्वशब्दे ५०३ पृष्ठे जयदत्तकृतादश्वशास्त्रात्तद्विशेषोऽव गन्तव्यः। दन्ताद्वात्रिंशद्वर्षा इती ह क्तम् इत्थमायुश्च सदाचारादेव, अपथ्याजितेन्द्रियादिभ्यस्तु आयुःसत्त्वेऽपि नाशः उक्तजातकपद्धतिवचनात् अतएव भा० आनु० प० १०४ अध्याये सदाचारादितएव आयवृद्धिरुक्ता “शतायुरुक्त पुरुषः शतवीर्य्यश्च जायते। कस्मानिम्रयन्ते पुरुषा बाला अपि पितामह!। आयुष्मान् केन भवति अल्पायुर्वाऽपि मानवः। केन वा लभते कीर्त्तिं केन वा लभते श्रियम्। तपसा ब्रह्मचर्य्येण जपहीमैस्तथौषधैः। कर्म्मणा मनसा वाचा तन्मे ब्रूहि पितामह!। भीष्म उवाच। अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि। अल्पायुर्य्येन भवति दीर्घायुर्वाऽपि मानवः। येन वा लभते कीर्त्तिं येन वा लभते श्रियम्। यथा वर्त्तयन् पुरुषः श्रेयसा सम्प्रयुज्यते। आचाराल्लभते चायुराचाराल्लभते श्रियम्। आचाराल्लभते कीर्त्तिं पुरुषः प्रेत्य चेह च। दुराचारो हि पुरुषो नेहायुर्विन्दते महत्। यस्मात्त्रस्यन्ति भूतानि तथा परिभवन्ति च। तस्मात् कुर्य्या- दिहाचारं यदीच्छेद्भूतिमात्मनः। अपि पापशरीरस्य आचारो हन्त्यलक्षणम्। आचारलक्षणो धर्म्मः सन्तश्चारित्रलक्षणाः। साधूक्तञ्च यथा वृत्तमेतदाचारलक्षणम्। अप्यदृष्टं श्रवादेव पुरुषं धर्म्म चारिणम्। भूतिकर्माणि कुर्व्वाणं तं जनाः कुर्व्वते प्रियम्। ये नास्तिका निष्क्रियाश्च गुरुशास्त्राभिलङ्घिनः। अधर्मज्ञा दुराचारास्ते चरन्ति गतायुषः। विशोका भिन्नमर्य्यादा नित्यं सङ्कीर्णमैथुनाः। अल्पायुषो भवन्तीह नरा निरयगामिनः। सर्व्वलक्षणहीनोऽपि समुदाचारवान्नरः। श्रद्धधानोऽनसूयश्च शतं वर्षाणि जीवति। अक्रोधनः सत्यवादी भूतानामविहिंसकः। अनसूयुरजिह्मश्च शतं वर्षाणि जीवति। लोष्टमर्द्दी तृणच्छेदो नखखादी च यो नरः। नित्योच्छिष्टः सङ्कशुको नेहायुर्व्वि न्दते महत्। ब्राह्मे मुहूर्त्ते बुध्येत धर्मार्थौ चानुचिन्तयेत्। उत्थायाचस्य तिष्ठेत पूर्ब्बां सन्ध्यां कृताञ्जलिः। एवमेवापरां सन्ध्यां समुपासीत वाग्यतः। नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन। नोपसृष्टं न वारिस्थं न मध्यं नभसोगतम्। ऋषयो नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन्। तस्मात्तिष्ठेत्सदा पूर्ब्बां पश्चिमाञ्चैव वाग्यतः। ये न पूर्ब्बामुपासीरन्द्विजाः सन्ध्यां न पश्चिमाम्। सर्व्वांस्तान् धार्मिको राजा शूद्रकर्म्माणि कारयेत्। परदारा न गन्तव्याः सर्व्ववर्ण्णेषु कर्हिचित्। नहीदृशमनायुष्यं लोके किञ्चन विद्यते। यादृशं पुरुषस्येह परदारोपसेवनम्। यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः। तावद्वर्षसहस्राणि नरकं पर्य्युपासते। प्रसाधनञ्च केशानामञ्जनं दन्तधावनम्। पूर्ब्बाह्णएव कार्य्याणि देवतानाञ्च पूजनम्। पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत् कदाचन। नातिकल्यं नातिसायं न च मध्यन्दिने स्थिते। नाज्ञातैः सह गच्छेत नैकोन वृषलैः सह। पन्थादेयो ब्राह्मणाय नीभ्यो राजभ्य एव च। वृद्धाय भारतप्ताय गर्भिण्यै दुर्ब्बलाय च। प्रदक्षिणं प्रकुर्व्वीत परिज्ञातान् वनस्पतीन्। चतुष्पथान् प्रकुर्र्व्वीत सर्व्वानेव प्रदक्षिणान्। मध्यन्दिने निशाकाले अर्द्धरात्रे च सर्व्व दा। चतुष्पथं न सेवेत उभे सन्ध्ये तथिव च। उपानहौ च वस्त्रञ्च धृतमन्यैर्न धारयेत्। ब्रह्मचारी च नित्यं स्यात् पादं पादेन नाक्रमेत्। अमावास्या पौर्ण्णमास्यां चतुर्द्दश्याञ्च सर्व्वशः। अष्टम्यां सर्वपक्षाणां व्रह्मचारी सदा भवेत्।। वृथा मांसं न खादेत पृष्ठमांसं तथैव च। आक्रोशं परिवादञ्च पैशुन्यञ्च विवर्ज्जयेत्। नारुन्तुदः स्यान्न मृशंसवादी न हीनतः परमभ्याददीत। ययाऽस्य वाचा पर उद्विजेत न तां वदेदुषतीं पारलोक्याम्। वाक्सायका वदजान्निष्पतन्ति तैराहतः शोचति रात्र्यहाणि। परस्य नो मर्म्मसु निष्पतन्ति तान् पाण्डितो नावसृजेत् परेषु। रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तया विद्धं न संरोहति वाक्क्षतम्। कर्ण्णिनालिका नाराचान्निर्हरन्ति शरीरतः। वाक्शल्यस्तु न निर्हर्त्तुं शक्यो हृदिशयो हि सः। हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् विगर्हितान्। रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत्। नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम्। द्वेषस्तम्भाभिमानञ्च तैक्ष्ण्यञ्च परिवर्ज्जयेत्। परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत्। अन्यत्र पुत्त्राच्छिष्याच्च शिष्टार्थं ताडनं स्मृतम्। न ब्राह्मणान् परिवदेत् नक्षत्राणि न निर्द्दिशेत्। तिथिं पक्षस्य न ब्रूयात्तथाऽस्यायुर्न रिष्यते। कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः। पादप्रक्षालनं कुर्य्यात् स्वाध्याये भोजने तथा। त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्। अदृष्टमद्भिर्नि र्णिक्तं यच्च वाचा प्रशस्यते। संयावं कृशरं मांसं शष्कुलीम्पायसन्तथा। आत्मार्थं न प्रकर्त्तव्यं देवार्थन्तु प्रकल्पयेत्। नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा। वाग्यतो दन्तकाष्ठञ्च नित्यमेव समाचरेत्। न चाभ्युदितशायी स्यात् प्रायश्चित्ती तथा भवेत्। मातापितरमुत्थाय पूर्ब्बमेवाभिवादयेत्। आचार्य्यमथ वाप्यन्यं तथायुर्व्विन्दते महत्। वर्ज्जयेद्दन्तकाष्ठानि वर्ज्जनीयानि नित्यशः। भक्षयेच्छास्त्रदृष्टानि पर्व्वस्वपि विवर्ज्जयेत्। उदङ्मुखश्च सततं शौचं कुर्य्यात् समाहितः। अकृत्वा पादशौचञ्च नाचरेद्दन्तधावनम्। अकृत्वा देवपूजाञ्च नाभिगच्छेत् कदाचन। अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम्। अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः। न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वाऽकदाचन। उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च। प्राकशिरास्तु स्वपेद्विद्वानथवा दक्षिणाशिराः। न भग्ने नावशीर्णे च शयने प्रस्वपीत च। नान्तर्द्धाने न संयुक्ते न च तिर्य्यक्कदाचन। न चापि गच्छेत् कार्य्येण समयाद्वाऽपि नास्तिके। आसनन्तु पदाकृष्य न प्रसज्येत्तथा नरः। न नग्नः कर्हिचित् स्नायान्न निशायां कदाचन। स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः। न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्द्धुनेत्। न चवार्द्राणि वासांसि नित्यं सेवेत मानवः। स्रजश्च नावकृष्येत न बहिर्द्धारयीत च। उदक्यया च संभाषां न कुर्व्वीत कदाचन। नोत्सृजेत पुरीषञ्च क्षेत्रे ग्रामस्य चान्तिके। उभे मूत्रपुरीषे तु नाप्सु कुर्य्यात् कदाचन। अन्नं बुभुक्षमाणस्तु त्रिर्मुखेन स्पृशेदपः। भुक्त्वा चान्नं तथैव त्रिर्द्विः पुनः परिमार्ज्जयेत्। प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन्। प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत्।। आयुष्यं प्रङ्मुखो भुङ्क्ते यशसयं दक्षिणामुखः। धन्यं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः। अग्निमालभ्य तोयेन स र्व्वान् प्राणानुपस्पृशेत्। गात्राणि चैव सर्व्वाणि नाभिं प्राणितले तथा। नाधितिष्ठेत्तुषं जातु केशभस्मकपालिकाः। अन्यस्य चाप्यवस्नातं दूरतः परिवर्ज्जयेत्। शान्तिहोमांश्च कुर्व्वीत सावित्राणि च धारयेत्। निषण्णश्चापि खादेत न तु गच्छन् कदाचन। मूत्रं नोत्तिष्ठता कार्य्यं न भस्मनि न गोव्रजे। आर्द्रपादस्तु भुञ्जीत नार्दपादस्तु संविशेत्। आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम्। त्रीणि तेजासि नोच्छिष्ट आलभेत कदाचन। अग्निं गां ब्राह्मणञ्चैव तथा ह्यायुर्न हीयते। त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन। सूर्य्याचन्द्रमसौ चैव नक्षत्राणि च सर्व्वशः। ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। अभ्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते। अभिवादयेत वृद्धांश्च दद्याच्चैवासनं स्वयम्। कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात्। न चासीतासने भिन्ने भिन्नकांस्यञ्च वर्ज्जयेत्। नैकवस्त्रेण भोक्तव्यं न न्ग्नः स्नातुमर्हति। स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत्। उच्छिष्टो न स्प्शेच्छीर्षं सर्व्वे प्राणास्तदाश्रयाः। केशग्रहं प्रहारांश्च शिरस्येतान् विवर्ज्जयेत्। न संहताभ्यां पाणिभ्यां कण्डूयेतात्मनः शिरः। न चाभीक्ष्णं शिरःस्नायात्तथाऽस्यांयुर्नरिच्यते। शिरःस्नातैश्च तैलैश्च नाङ्गं किञ्चिदपि स्पृशेत् तिलभृष्टं न चाश्नीयात्तथाऽस्यार्नरिष्यते। नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन। वाते च पूतिगन्धे च मनसाऽपि न चिन्तयेत्। अत्र गाथा यमोद्गीताः कीर्त्तयन्ति पुराविदः। आयुरस्य निकृन्तामि प्रजास्तस्याददे तथा य उच्छिष्टः प्रवदति स्वाध्यायञ्चाधिगच्छति। यश्चानन्यायकालेऽपि मोहादभ्यस्यति द्विजः। तस्य वेदः प्रणश्येत आयुश्च परिहीयते। तस्नाद्युक्तो ह्यनध्याये नाधीयीत कदाचन। प्रत्यादित्यं प्रत्यनलं प्रति गाञ्च प्रति द्विजान्। ये मेहन्ति च प्रन्थानं ते भवन्ति गतायुषः। उभेमूत्रपुरीषे तु दिवा कुर्य्यादुदङ्मुखः। दक्षिणाभिमुखो रात्रौ तथा ह्यायुर्नरिष्यते। त्रीन् कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः। ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः। दहत्याशीविषः क्रुद्धो यावत् पश्यति चक्षुषा। क्षत्रियोऽपिदहेत् क्रुद्धोयावत् पश्यति तेजसा। ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च। तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः। गुरुणा चैव निर्ब्बन्धो न कर्त्तव्यः कदाचन। अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर!। सम्यङ्मिय्याप्रवृत्तेऽपि वर्त्तितव्यं गुराविह। गुरुनिन्दादहत्यायुर्म्मनुष्याणां न संशयः। दूरादावसथान्मूत्रं दूरात् पादावसेचनम्। उच्छिष्टोत्सर्ज्जनं चैव दूरे कार्य्यं हितैषिणा। रक्तमाल्यं न धार्य्यं स्यात् शुक्लं धार्य्यन्तु पण्डितैः। वर्ज्जयित्वा तु कमलं तथा कुवलयं प्रभो!। रक्तं शिरसि धार्य्यन्तु तथा वानेयमित्यपि। काञ्चनीयाऽपि माला या न सा दुष्यति कहिचित्। स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशाम्पते!। विपर्य्ययं न कुर्व्वीत वाससो बुद्धिमान्नरः। तथा नान्यधृतं धार्य्यं न चापदशमेव च। अन्यदेव भवेद्वासः शयनीये नरोत्तम!। अन्यद्रथ्यासु देवानामर्च्चायामन्यदेव हि। प्रियङ्गुचन्दनाभ्याञ्च विल्वेन तगरेण च। पृथगेवानुलिम्पेत केशरेण च बुद्धिमान्। उपवासञ्च कुर्व्वीत स्नातः शुचिरलङ्कृतः। पर्व्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत्। समानमेकपात्रे तु भुञ्जेन्नान्नं जनेश्वर!। आलीढया परिवृतं न शयीत कदाचन। तथा नोद्धृतसाराणि प्रोक्षितं नाप्रदाय च। न सन्निकृष्टो मेधावी नाशुचेर्न च सत्मू च। प्रतिषिद्धान्न धर्मेषु भक्ष्यान् भुञ्जीत पृष्ठतः। पिप्पलञ्च वटञ्चैव शणशाकं तथैव च। उडुम्बरं न खादेच्च भवार्थी पुरुषोत्तम!। आव्यं गव्यं तथा मांसं मायूरञ्चैव वर्ज्जयेत्। वर्ज्जयेच्छुष्कमासिञ्च तथा पर्य्युषितञ्च यत्। न पाणौ लवणं विद्वान् प्राश्नीयान्न च रात्रिषु। दधिसक्तून्न भुञ्जीत वृथामांसञ्च वर्ज्जयेत्। सायं प्रातश्च भुञ्जीत नान्तराले समाहितः। बालेन तु नभुज्ञीत परश्राद्धं तथैव च। वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचनै। भूभौ सदैव नाश्नीयान्नानासीनो न शब्दवत्। तोयपूर्ब्बं प्रदायान्नमतिथिभ्यो विशेषतः। पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः। समानमेकपङ्क्त्यान्तु भोज्यमन्नं नरेश्वर!। विषं हलाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने। पानीयं पायसं सक्तून् दधि सर्पिर्म्मधून्यपि। निरश्य शेषमेतेषां न प्रदेयन्तु कस्यचित्। भुञ्जानो मनुजव्याघ्र! नैव शङ्कां समाचरेत्। दधि चाप्यनुपानं वै कर्त्तव्यञ्च भवार्थिना। आचम्य चैकहस्तेन परिप्लाव्यं तथोदकम्। अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत्। पाणिं मूर्द्ध्नि समाधाय स्मृष्ट्वा चाग्निं समाहितः। ज्ञातिश्रैष्ट्यमवाप्नोति प्रयोगकुशलो नरः। अद्भिः प्राणान् समालभ्य नाभिं पाणितले तथा। स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना। अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम्। कनिष्टिकायाः पश्चात्तु देवतीर्थमिहोच्यते। अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत!। तेन पित्र्याणि कुर्व्वीत स्पृष्ट्वापो न्यायतस्तथा। परापवादं न ब्रूयान्नाप्रियञ्च कदाचन। न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना। पतितैस्तु कथां नेच्छेद्दर्शनञ्च विवर्ज्जयेत्। संसर्गं न च गच्छेत तथायुर्विन्दते महत्। न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम्। न चास्नातां स्त्रियं गच्छेत्तथायुर्व्विन्दते महत्। स्वे रो तोर्थे समाचम्य कार्य्ये समुपकल्पिते। त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः। इन्द्रियाणि सकृत् स्पृश्य त्रिरभ्युक्ष्य च मानवः। कुर्व्वीत पित्र्यं दैवञ्च वेददृष्टेन कर्मणा। ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव!। पवित्रञ्च हितञ्चैव भोजनाद्यन्तयोस्तया। सर्व्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत्। निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत्। वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यी भवेदपि। गृहे वासयितव्यास्ते धन्यमायुष्यमेव च। गृहे पारावता धन्याः शुकाश्च सहसारिकाः। गृहेष्वेते तु पापाय तथा वै तैलपायिकाः। उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा। निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत्। अमङ्गल्यानि चैतानि तथोत्क्रोशा महात्मनाम्। महात्मनोऽतिगुह्यानि न वक्तव्यानि कर्हिचित्। अगम्याश्च न गच्छेत राज्ञः पत्नीं सखीं तथा। वैद्यानां वालवृद्धानां भृत्यानाञ्च युधिष्ठिर!। बन्धूनां ब्राह्मणानाञ्च तथा शारणिकस्य च। सम्बन्धिनाञ्च राजन्द्र! तथायुर्विन्दते महत्। ब्राह्मणस्थपतिभ्याञ्च निर्मितं यन्निवेशनम्। तदावसेत् सदा प्राज्ञो भवार्थी मनुजेश्वर!। सन्ध्यायां न स्वपेद्राजन्! विद्यां न च समाचरेत्। न भुञ्जोत च मेधाधी तथायुर्व्विन्दते महत्। नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम्। पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता। वर्ज्जनीयाश्च वै नित्यं सक्तवो निशि भारत!। शेषाणि चाव- दातानि पानीयञ्चापि भोजने। सौहित्यं न च कर्त्तव्यं रात्रौ न च समाचरेत्। द्विजच्छेदं न कुर्व्वीत भुक्त्वा न च समाचरेत्। महाकुले प्रसूताञ्च प्रशस्तां लक्षणैस्तथा। वयस्थाञ्च महाप्राज्ञः कन्यामावोडुमर्हति। अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं ततः। पुत्त्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत!। कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते। पुत्त्रा निवेश्याश्च कुलाद्वृत्त्या लभ्याश्च भारत!। शिरःस्नातोऽथ कुर्व्वीत दैवं पित्र्यमथापि वा। नक्षत्रे न च कुर्व्वीत यस्मिन् जातो भवेन्नरः। न प्रौष्ठपदयोः कार्य्यं तथाग्नेये च भारत!। दारुणेषु च सर्व्वेषु प्रत्यरिञ्च विवर्ज्जयेत्। ज्योतिषे यानि चोक्तानि तानि सर्व्वाणि भारत!। प्राङ्मुखः श्मश्रुकर्माणि कारयेत् सुसमाहितः। उदङ्मुखो वा राजेन्द्र! तथायुर्व्विन्दतेमहत्। परिवादं न च ब्रूयात्परेषामात्मनस्तथा। परिवादो ह्यधर्माय प्रोच्यते भरतर्षभ!। वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम!। समार्षां व्यङ्गिताञ्चैव मातुः सकुलजां तथा। वृद्धां प्रव्रजिताञ्चैव तथैव च पतिव्रताम्। अयोनिञ्च वियोनिञ्च न च गच्छेद्विचक्षणः। पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि। अपस्मारिकुले जातां निहीनाञ्चैव वर्जयेत्। श्वित्रिणाञ्च कुले जातां क्षयिणां मनुजेश्वर!। लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः। मंनोज्ञा दर्शनीया च तां भवान् वोढुमर्हति। महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर!। अपरा पतिता चैव न ग्राह्या भूतिमिच्छता। आनीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः। वेदे च ब्राह्मणैः प्रोक्तास्ताश्च सर्व्वाः समाचरेत्। न चेर्ष्या स्त्रीषु कर्त्तव्या रक्ष्या दाराश्च सर्व्वशः। अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्ज्जयेत्। अनायुष्यं दिवा स्वप्नं तथाऽभ्युदितशायिता। प्रगे निशामाशु तथा ये चोच्छिष्ठाः स्वपन्ति वै। पारदार्य्यमनायुष्यं नापितोच्छिष्टता तथा। यत्नतो नैव कर्त्तव्यमभ्यासश्चैव भारत!। सन्ध्यायां न च भुञ्जीत न स्नायान्न पठेत्तथा। प्रयतश्च भवेत्तस्यां न च किञ्चित् समाचरेत्। ब्राह्मणान् पूजयेच्चापि तथा स्नात्वा नराधिप!। देवांश्च प्रणमेत् स्नातो गुरूंश्चाप्यभिवादयेत्। अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः। अनर्चिते ह्यनायुष्यंगमनं तत्र भारत!। न चैकेन परिव्रज्यं न गन्तव्यं तथा निशि। अनागतायां सन्ध्यायामातत्य च गृहे वसेत्। मातुः पितुर्गुरूणाञ्च कार्य्यमेवानुशासनम्। हितं वाऽप्यहितं वाऽपि न विचार्य्यं कथञ्चन। धनुर्वेदे च वेदेऽथ यत्नः कार्य्यो नराधिप!। हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्य्यासु चैव ह। यत्नवान् भव राजेन्द्र! यत्नवान् सुखमेधते। अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च। प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित्। युक्तिशास्त्रञ्च ते ज्ञेयं शब्दशास्त्रञ्च भारत!। गान्धर्ब्बशास्त्रञ्च कलाः परिज्ञेया नराधिप!। पुराणमितिहासाश्च तथाख्यानानि यानि च। महात्मनाञ्च चरितं श्रोतव्यं नित्यमेव च। पत्नी रजस्वला या च नाभिगच्छेन्न चाह्वयेत्। स्नाताञ्चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः। पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान् भवेत्। एतेन विधिना पत्नीमुपागच्छेत पण्डितः। ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्व्वशः। यष्टव्यञ्च यथाशक्ति यज्ञैर्विविधदक्षिणैः। अत ऊर्द्ध्वमरण्यञ्च सेवितव्यं नराधिप!। एष ते लक्षणोद्देश आयुष्याणां प्रकीर्त्तितः। शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर!। आचारो भूतिजनन आचारः कीर्त्तिवर्द्धनः। आचाराद्वर्द्धते ह्यायुराचारो हन्त्यलक्षणम्। आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते। आचारप्रभवो धर्मो धर्मादायुर्विवर्द्धते। एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्। अनुकम्प्य सर्व्ववर्णान् ब्रह्मणा समुदाहृतम्”। अन्येचाचारा आचारशब्दे ६३० पृष्ठे उक्तास्तेऽपि आयुर्वृद्धिकराः। आयुःकालश्च स्वाभाविकः जीवभेदेन भिन्नः। तथा हि “ब्रह्मणोवर्षशतमिति” श्रुतेः ब्रह्मणोनिजपरिमाणेन वर्षशतायुः तच्च” सि० शि० दर्शितम् “चतुर्युगसहस्रेण ब्रह्मणो दिनमुच्यते। निजेनैव तु मानेन आयर्वर्षशतं स्मृतम्। तत् पराख्यं तदर्द्धं तु परार्द्धमभिधीयते” “सूर्य्याब्दसंख्यया द्वित्रिसागरैरयुताहतैः संध्यासन्ध्यंशसहितं विज्ञेयं तच्चतुर्युगम्। इत्थं युगसहस्रेण भूतसंहारकारकः। कल्पोब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती। परमायुः शतं तस्य तयाहोरात्रमंख्यया” सू० सि०। तेन सौरैः ४३२०००० वर्षैः चतुर्युगं तेन सहस्रगुणितेन ब्राह्ममहः ४३२००००००० रात्रिश्च तावतीति ८६४००००००० वर्षास्तस्याहोरात्रमानं तस्य ३६० गुणने तस्य वर्षमानम् ३११०४०००००००० एतच्छतगुणितं तस्यायु र्मानम् अयमेव महाकल्पः “शतायुः सदानन्द एवं प्रदिष्टस्तदायुर्महाकल्प इत्युक्तमाद्यैः” सि० शि० उक्तेः। जैगीषव्यस्य च दशमहाकल्पजीविता “दशसु महाकल्पेषु विपरिवर्त्तमानेन मयेति” सा० कौ० “तद्वाक्यात् तेन ब्राह्मायुःकाला दशगुणिताः” ३१०४४००००००००००० तस्यायुः। अथ मनूनामायुःप्रमाणम्। “युगानां सप्ततिः सैका मन्वन्तरमुदाहृतम्” सू० सि०। चतुर्युगमानञ्च ४३२०००० तच्च ७१ गुणितम् ३०६७२०००० सौरवर्षाःएकैकमनूनामायुःकालः। मार्कण्डेयस्य सप्तकल्पान्तजोवितेत्युक्तेः ४३२००००००० सप्तभिगुणितम् ३०२४००००००० तस्यायुः कालः। देवानामायुस्तु ब्राह्मदिनमानम् “यदा स देवो जागर्त्ति तदेदं चेष्टते जगत्। यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति” सनूक्तेः ब्राह्मदिनपर्य्यन्तं तेषां स्थायित्वम् “कर्म्मात्मनाञ्च देवानां सोऽसृजत् प्राणिनां प्रभुः” इति मनुना कल्पादौ तेनैव तेषां स्रष्टृत्वोक्तेः प्रतिकल्पेऽपि तथैव स्रष्टृत्वमिति। एवं युगभेदेन नराणामायुर्भेदः मनुनोक्तः। “अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः। कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः” तेन सत्ययुगे ४०० वर्षाः। त्रेतायां ३०० वर्षाः। द्वापरे २०० वर्षाः। कलौ शतं वर्षाः। पुराणान्तरे सत्यादिषु लक्षायुतसहस्रशतवर्षायुष्ट्वोक्तिः मनुविरोधादग्राह्यैव। सत्कर्म्म भिस्तु प्राणायामतपस्यादिभिः रसायनादिभिश्चायुर्वर्द्धते तच्चायुर्वृद्धिशब्दे ७७५ पृष्ठे उक्तम्। तेन दशरथादीनां दशवर्षसहस्रराज्यकरणं रामायणोक्तं सङ्गच्छते। सत्कर्म्माभिप्रायेणैव पुराणवचनं लक्षाद्यायुष्ट्वबोधकं मन्तव्यमिति तु युक्तम्। ततश्च जातकप० उक्तेः नरगजयोः, १२० वर्षाः। अश्वस्य दन्तसंख्यया। ३२ वर्षा वा। गोमहिषादेः २४ वर्षाः खरोष्ट्रयोः १५ वर्षाः। शुनः १३ वर्षाः व्याघ्रादेः १६ वर्षाः परमायुः। तत्र नरस्य शतायुष्ट्वस्यश्रुत्युक्तावपि विंशोत्तरीयविभार्गार्थमिह १२० वर्षोक्तिरिति बोध्यम्।
आयोग = पु० आ + युज–घञ्। गन्धमाल्योपहारे, २ व्यापारे ३ रोधे ४ सम्यक्सम्बन्धे च “शरलैः कर्ण्णिकारैश्च किंशुकैश्च सुपुष्पितैः। स देशोभ्रमरायोगःप्रदीप्त इव लक्ष्यते” रामा०
आयोगव = पुं स्त्री० अयोगव एव स्वार्थे अण्। वैश्यकन्यायां शूद्रेणोत्पादिते जातिभेदे। “शूद्रादायोगवः क्षत्ता चाण्डालश्चाधमो नृणाम्। वैश्यराजन्यविप्रासु जायन्ते वर्ण्णसङ्कराः” “आयोगवोऽयं क्षत्ता च चाण्डालश्चाधमोनृणाम्। प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः” इति च मनुः “मत्स्यघातो निषादानां तष्टिस्त्वायोगवस्येति” मनूक्तम् काष्ठतक्षणं तस्य वृत्तिः। स्त्रियां जातित्वात् ङीप्
आयोजन = न० आ + युज–ल्युट्। १ उद्योगे, २ आहरणे च।
आयोजित = त्रि० आ + युज–णिच्–क्त। १ कृताहरणे २ सम्यक् सम्पादिते च “कुसुमायोजितकार्मुकं मधुः” कुमा०।
आयोद = पु० अयोदस्यापत्यम् बा० अण्। धौम्ये मुनौ। “एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यनामायोदस्तस्य शिष्यास्त्रयो वमूवुरुपमन्यरारुणिर्वैदश्चेति” भा० आ० ३ अ०।
आयोधन = न० आ + युध + आधारे ल्युट्। १ युद्वस्थाने। “आयोधने स्थायुकमस्त्रजातम्” भट्टिः “आयोधने कृष्णगतिं सहायम्” रघुः। “आयोधनाग्रसरतां त्वयि वीर! याते” रघुः। भावे ल्युट्। २ योधने, युद्धक्रियायाम्।
आर = पु० आ + ऋ–कर्त्तरि संज्ञायां घञ्। १ मङ्गलग्रहे, २ शनिग्रहे, “आरे खस्थे चतुष्पाद्भ्योभयम्” नील० ता० तत्र मङ्गलस्य वक्रगत्वात् शनेश्च स्वभावेन मन्दगतित्वात् तथात्वम् कुजस्य त्रिकोणाकारत्वादपि तथात्वम् ३ मधुराम्लफले वृक्षभेदे च। ४ प्रान्तभागे ६ मुण्डलोहे ७ पित्तले च न०। अरा इव स्वार्थे वा अण्। ८ कीणे। कोणस्य चक्राकारसदृशाकारवत्त्वात् तथात्वम्। द्वादशारचक्रं षोडशारचक्रम्। “विन्दुत्रिकोणवसुकोणदशारयुग्मम्–श्रोचक्रमेतदुदितं वरदेवतायाः” तन्त्रम्। “आरान्तरेणावपतत् संक्षिप्याङ्गं क्षणेन ह” इति भा० आ० ३३ अ०। भावे घञ्। ९ गमने पु०। आ + ऋ–कर्म्मणि घञ्। १० दूरे च दूरस्य च बहुयत्नेन प्राप्यत्वात् तथात्वम्। “इषुविस्तवारेऽस्मन्निधेहि” यजु० १६, १२, “आरे दूरे” वेददी०। “आरेबाधस्व दुच्छुनाम्” य० १९, ३८,
आरकूट = पु० न०। आरं पित्तलं कूटयति स्तूपीकरोति अच् १ पित्तलाभरणे। “किमारकूटाभरणेन न श्रियः” इति नैपचम्। आरमतिभृशं कूट्यते दंदह्यते कूट–दाहे कर्म्मणि घञ्। २ पित्तलमात्रे च तस्यातिशयदाहसहत्वात् तथात्वम्।
आरक्त = पु० ईषत् रक्तः प्रा० स०। १ ईषद्रक्तवर्ण्णे २ तद्वति ३ सम्यगनुरक्ते च त्रि०। भावे क्त। ४ अनुरागे न०
आरक्ष = पु० आ + रक्ष–अच्। १ हस्तिकुम्भाधः स्थले, “आरक्षमग्नमवमत्य सृणिं शिताग्राम्” माघः २ हस्तिमस्तक चर्म्मणि, ३ सैन्ये च। ४ रक्षके त्रि०। “शतसाहस्रमारक्षं मध्यगं रक्षसां कपिः” भट्टिः। “तेषामारक्षभूतन्तु पूर्ब्बं दैवं नियोजयेत्” मनुः। भावे घञ्। ४ रक्षायाम पु० “रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम्। भावे अ। आरक्षा तत्रार्थे स्त्री रक्षा च वैदिककर्म्मादौ श्वेतसर्षपादिक्षेपेण मन्त्रसूक्तादिपाठेन विघ्नकारकनिवारणार्थोव्यापारः।
आरग्बध = पु० आ + रगे–शङ्कयां क्विप् आरगं रोगशङ्कामपि हन्ति अच् बधादेशश्च। (सोंदाल) इति ख्याते वृक्षे। “आरग्बधो गुरुः स्वादुः शीतलः स्रंसनोत्तमः। ज्वरहृद्रोगपित्ताम्लवातोदावर्त्तशूलनुत्। तत्फलं स्रंसनं रुच्यं कुष्ठपित्तकफापहम्। ज्वरे तु सततं पथ्यं कोष्ठशुद्धिकरं परम्” इति भावप्रकाशे तद्गुणा उक्ताः।
आरग्वधाद्यतैलं श्वित्रहरं यथा। “आरग्बधं धवं कुष्ठं हरितालं मनःशिला। रजनीद्वयसंयुक्तं पचेत् तैलं विधानवत्। एतेनाभ्यञ्जयेच्छित्री क्षिप्रं श्वित्रं विनश्यति” चक्रद०।
आरग्वधतैलं रोमहम्। “आरग्बधमूलं कर्षद्वितयं शङ्खचूर्णस्य। हरितालस्य च खरजे मूत्रप्रस्थे कटुतैलं पक्वम्। तैलं तदिदं शङ्खहरितालचूर्णितं लेपात्। निर्मूलयति च रोमाण्यन्येषां सम्भवो नैव” चक्रद०
आरग्वधादिपाचनम् तत्रैव यथा “आरम्बधग्रन्थिकमुस्ततिक्ता हरीतकीभिः क्वथितः कषायः। सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च”।
आरट = त्रि० आरटति आ + रट–अच्। १ सम्यक् शब्दकारके २ नटे पु० स्त्रियां गौरा० ङीष्।
आरट्ठ = पु० आरट्यते विख्याप्यते आ + रट टच् टस्य नेत्त्वम्। विशिष्टाश्वोत्पत्तिस्थाने (आरव) देशे। अश्वशब्दे विवृतिः।
आरठ्ठज = पु० आरट्टे देशे जायते जन–ड। (आरव) देशजाते घोटके। “आरट्टजश्चटुलनिष्ठुरपातमुच्चैः” माघः अश्वशब्दे ५०४ तद्दे शाश्वधर्म्मा ज्ञेयाः।
आरणि = पु० आ + ऋ–अनि। जलानां स्वयं भ्रमणे आवर्त्ते।
आरणेय = पु० अरण्यां भवः अरणी + ढक्। १ शुकदेवे तस्यारणीसम्भवकथा अरणीसुतशब्दे ३५९ पृष्ठे विवृता। अरणिमरणिहरणमधिकृत्य कृतोग्रन्थः ढक्। भारतवनपर्वान्तर्गते अरणिहरणाधिकारेण व्यामेन कृते अवान्तरपर्व्वभेदे तच्च पर्व्व,बनपर्वणि ३११ अध्यायावधि ३१४ अध्यायपर्य्यन्तम् “आरणेयं ततः पर्व” भा० आ० १ अ० अरुण्याइदं, स्वार्थे या ढक्। अरणीसम्बन्धिनि ३ यन्त्रभेदे ४ अरण्यां च “आरण्येयं ददुस्तस्मै ब्राह्मणाय तपस्विने। भा० व० ३१४ अ०।
आरण्य = त्रि० अरण्ये भवः ण। वनभवे १ पशुपभृतौ पशवश्च द्विविधा ग्राम्या आरण्याश्च यथाह पैठी० “ग्राम्यारण्याश्चतुर्द्दश गोरविरजोऽश्वोऽश्वतरोगर्द्दभोमनुष्यश्चेति सप्त ग्राम्याः पशवः, महिषवानरऋक्षसरीसृपरुरुपृषन्मृगाश्चेति सप्तारण्याः” एते च कर्मविशेषोपयुक्ता एतद्भिन्ना अन्येऽपि पशवः ग्राम्या आरण्याश्च अश्वमेधशब्दे ५०८ पृष्ठादौ उक्ताः। पशुत्वञ्चेह यागार्थालभ्यमानत्वसाम्यात् शकुनादीनामपि “उष्ट्रो वा यदि मेषश्च्छागो वा यदि हयः। पशुस्थाने नियुक्तानां पशुशब्दोविधीयते” इति यज्ञपार्श्वोक्तेः। अत एव अश्वमेधे “वसन्ताय कपिञ्जलानालभेत ग्रीष्माय कलविङ्गान्” इत्यादौ पक्षिणामपि य० वे० २४ अ० मन्त्रव्याख्याने “अथारण्याः पशव उच्यन्ते” वेददीपे उपक्रान्तम् अन्ते च कपिञ्जलादयः पृषतान्ताः आरण्याः पशव इत्युक्तं तच्च अश्वमेधशब्दे ५१० पृष्ठे दृश्यम् तत्र स्त्रीपशूनामहिंस्यत्वम् “अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनि गतामपीति” शास्त्रात् ति० त० यन्निर्ण्णीतं तत् अश्वमेधातिरिक्तविषयं तत्र स्त्रीपशूनां बहूनामालम्भनविघानात् तच्च अश्वमेधशब्दे दृश्यम्। “आरण्यानाञ्च सर्वेषां मृगाणां महिषं विना”। “आरण्यांश्च एशून् सर्व्वान्” इति च मनुः। “आरण्याःसुमनसईषिरे न भृङ्गैः” माघः “सप्त ग्राम्या ओषधयः सप्तारण्याः” तैत्ति० व्रा० तद्विशेषाश्चोषधिशब्दे वक्ष्यन्ते २ अकृष्टपच्यधान्यभेदे च। “यदकृष्टे पच्यते तेनारण्यम्” शत० ब्रा०। ज्योतिषोक्ते ३ मकरादिमार्द्धे ४ सिंहे दिवसे ५ मेषे ६ वृषे च राशौच स च “मकरादिमार्द्धसिंहौवन्यौ दिवसेऽजवृषभौच,” ज्यो० त० उक्तः ७ अरण्यभवे गोमये पु० सि० कौ०। अरण्यमरण्यवासमधिकृत्य कृतोग्रन्थः अण्। यधिष्ठिरादीनां वनवासाधिकारेण व्यासेन कृते भारतार्गते ८ पर्वभेदे। रामस्य बनवासाधिकारेण वाल्मीकिकृते रामायणान्तर्गते ९ काण्डभेदे च।
आरण्यक = त्रि० अरण्ये भवः मनुष्यादिः वुञ्। १ अरण्यभवे पथि अध्ययने न्याये विहारे मनुष्ये हस्तिनि च एवार्थेवुञः साषुत्वं तद्भिन्ने न वुञ् किन्तु ण एव। आरण्यः पशुः गोमये तु वा आरण्यकः पक्षे णः। तत्र मनुष्ये “आरण्यकोपात्तफलप्रसूतिः” रघुः। अध्ययने ऐतरेयारण्यकम् तैत्तिरीयारण्यकं वृहदारण्यकम् “अरण्येऽध्ययनादेवआरण्यकमुदाहृत” मित्युक्तेरारण्यकत्वमेषाम्। तानि च तत्तद्वेदभागभेदाः। “आरण्यकमधीत्य च” मनुः। “आरण्यकञ्च वेदेभ्यश्चौषधिभ्योऽमृतं यथा” भा० १ अ०। “शास्त्रे चारण्यके गुरुः” भा० उद्यो० १७४ अ०। “अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः। अपीह स्यादपीह स्यात् सारसारदिदृक्षया। वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च। विपाट्य कदलीस्तम्भं सारं ददृशिरे न ते” इति भा० शा० १८ अ०। ४ अरण्यगेये सामभेदे च। स्वार्थे कन्। उक्तार्थे भारतान्त्रर्गते ५ वनपर्व्वणि “एतदारण्यकं पर्व्व भा० आ० प० १ अ०। आरण्यककाण्डम्। रामायणान्तर्गते ६ काण्डभेदे
आरण्यकुक्कुट = पुं स्त्री० अरण्ये भवः आरण्यः कुक्कुटः कर्म्म०। वनकुक्कुटे “आरण्यकुक्कुटः स्निग्धो वृंहणः श्लेष्मणोगुरुः। वातपित्तक्षयवमीविषमज्वरमाशनः” इति भा० प्र० तन्मांसगुणा उक्ताः। स्त्रियां जातित्वात् ङीप्।
आरण्यगान = न० आरण्यं वनगेयं गानम्। सामवेदान्तर्गते गानग्रन्थभेदे तस्यारण्ये गेयत्वात् तथात्वम्।
आरण्यपशु = पु० कर्म्म०। स्मृत्युक्ते महिषादौ सप्तविधे १ पशौ आरण्यशब्दे विवृतिः।
आरण्यमुद्ग = पु० नि० कर्म०। वनमुद्गे। आरण्यमुद्गस्येवाकारः पर्णेऽस्त्यस्याः अच् टाप्। (मुगानी) मृद्गपर्ण्यां स्त्री राजनि०
आरण्यराशि = पु० नि० कर्म्म०। आरण्यशब्दोक्ते १ सिहे २ मकरादिमार्घे दिवसे ३ मेषे ४ वृषे च राशौ।
आरति = स्त्रो आ + रम–क्तिन्। १ उपरमे, २ निवृत्तौ च।
आरत = त्रि० आ + रम–क्त। १ उपरते २ विरते च “अनारतं तेन पदेषु लम्भिताः” किरा०।
आरथ = पु० ईषद्रथः प्रा० स०। एकाश्वेन गमनसाधने रथे (एक्वा) (वगी) प्रभृतौ।
आरद्ध = त्रि० आ + रध–क्त। संसिद्धे तिका० फिञ्। आरद्धायनिः तदपत्ये पुं स्त्री०।
आरनाल = न० आर्च्छति आ + ऋ–अच्, आरः नल–गन्धे घञ् आरो नालोगन्धो यस्य। काञ्जिके। “आरनालन्तु गोधूमैरामैः स्यान्निस्तुषीकृतैः। पक्वैर्वा सन्धितैस्तैस्तु सौवीरसदृशं गुणैः” भा० प्र०। “आरनालं दवि क्षीरं कन्दुपक्वं च सक्तवः। स्नेहपक्वञ्च तक्रञ्च शूद्रस्यापि न दुष्यति” अत्रिस०। वा कप्। आरनालकमप्यत्र।
***