वाचस्पत्यम्
आम्न to आयुर्वेद
links:
Menu अ–ह
Prev आभिर–आम
Next आयुष–आरन
आम्न
आय
आया
आयुर
आयुर्वेद
UpasanaYoga
.org

आम्नात = त्रि० आ + म्ना–क्त। १ सम्यगभ्यस्ते २ सम्यगधीते वेदादौ। ३ कथिते च “समौ हि शिष्टैराख्यातौ” माघः भावे क्त। ४ सम्यगभ्यासे न०

आम्नातिन् = त्रि० आम्रातमनेन इष्टा० इनि। १ कृत वेदाद्यभ्यासे २ कृतवेदाध्ययने च स्त्रियां ङीप्। “आम्नातिभिर्नीतिषु बुद्धिमद्भिः” भट्टिः।

आम्नान = न० आ + भावे ल्युट्। १ वेदादिपाठे २ तदभ्यासे च “विष्णु र्वामावास्यायां हीत्राम्नानात्” कात्या० ३, ३, २५।

आम्नाय = पु० आ + म्ना–घञ्। १ सम्यगभ्यासे २ सम्यक्पाठे च अभ्यासस्य सम्यक्त्वं च नियमधारणपूर्व्वकत्वं गुरुमुखश्रवणपूर्ब्बकत्वञ्च। कर्म्मणि घञ्। ३ वेदे “आम्नायस्य क्रियार्थत्वादानार्थक्यमतदर्थानाम्” जैमि० “आम्नाये स्मृतितन्त्रे च” रघु० धृतपु०। “आम्नायवचनं सत्यमित्ययं लोकिसंग्रहःआम्नायेभ्यः पुनर्वेदाः प्रसृताः सर्वतोमुखाः भा० शा० २६१ अ०।

आम्बरीषपुवक = पु० अम्वरीषपुत्र + चतुरर्थ्यां राजन्या० वुञ्। अम्बरीषपुत्रविषयादौ।

आम्बष्ठ = पुं स्त्री० अम्बष्ठस्यापत्यम् शिवा० अण्। अम्बष्ठापत्ये ञ्यञ्। आम्बष्ठ्यः। स्त्रियाम् चाप्।

आम्बिकय = पु० अम्बिकाया अपत्यं शुभ्रा० ढक्। विचित्रवीर्य्य स्य क्षेत्रे काशिराजस्य मध्यमकन्यायाम् अम्बिकायां व्यासेनोत्पादिते १ धृतराष्ट्रे स हिअकाले दिवं गतस्य विचित्र वीर्य्यस्य अम्बिकाम्बालिकयोःपत्न्योर्मध्ये अम्बिकायां ज्येष्ठभाय्यायां सत्यवत्यानियुक्तेन व्यासेनोत्पादितः तत्कथा यथा “ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः। दीप्य- मानेषु दीपेषु शरणं प्रविवेशह। तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने। बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत्। संबभूव तया सार्द्धं मातुः प्रियचिकीर्षया। भयात् काशीसुता तन्तु नाशक्नीदभिवीक्षितुम्। ततो निष्क्रान्त मागत्य माता पुत्रमुवाच ह। अप्यस्यां गुणवान् पुत्रोराजपुत्रो भविष्यति?। निशम्य तद्वचोमातुर्व्यासः सत्यवतीसुतः। प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः। नागायुतसमप्राणो विद्वान् राजर्षिसत्तमः। महाभागो महौदार्य्यो महाबुद्धिर्मविष्यति। तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः। किन्तु मातुः स वैगुण्यादन्ध एव भविष्यति” इत्युपक्रम्य पाण्डुविदूरोत्पत्तिमुपवर्ण्ण्य च “एते विचित्रवीर्य्यस्य क्षेत्रे द्वैपायनादृषेः। जज्ञिरे देवगर्भाभाः कुरुवंशविवर्द्धनाः” इत्युक्तम् भा० आ० प० १० ६ अ०। अम्बिकायाश्च यथा विचित्रवीर्य्यभार्य्यात्वं तथोक्तं अम्बाशब्दे ३२८ पृष्ठे “आम्बिकेयेन ददृशे राज्ञा दुर्य्योघनेन च” भा० व० प० १२ अ० “परं श्रेयः पाण्डवेया! यथाह भीष्मस्तन्न श्रुतवानाम्बिकेयः” भा० व० प० ५ अ०। अम्बिकायाः पार्व्वत्या अपत्यम् ढक्। २ कार्त्तिकेये। तस्य तदुत्पत्तिकथा अग्निकुमारशब्दे ६५ पृष्ठे दृश्या।

आम्भसिक = पु० आम्भसा वर्त्तते ठक्। मत्स्ये सि० कौ०।

आम्भि = त्रि० अम्भसो जातादि बाह्वा० इञ् सलीपश्च। अम्भोजातादौ।

आम्र = पु० अम–गत्यादिषु रन् दीर्घश्च। १ स्वनामख्याते वृक्षे तस्य फलम् अण् तस्य लुक्। २ तत्फले च न०। आम्रस्य फलपुष्पादिगुणा उक्ता भा० प्र०। यथा “आम्रपुष्पमतीसारकफपित्तप्रमेहनुत्। असृग्दुष्टिहरं शीतं रुचिकृत् ग्राहि वातलम्। आम्रं बालं कषायाम्लं रुच्यं मारुतपित्तकृत्। तरुणं तु तदत्यम्लं रूक्षं दोषत्रया स्रकृत्। आम्रमामं त्वचा हीनमातपेऽती व शीषितम् अम्लं स्वादु कषायं स्याद्भेदनं कफवातजित्। पक्वन्तु मधुरं वृष्यं सिग्धं शुक्रबलप्रदम्। गुरु वातहर हृद्यं बल्यं शीतमपित्तलम्। कषायानुरसं यह्निश्लेष्मशुक्रविवर्द्धनम्। तदेव वृक्षसम्पक्वं गुरु वातहरं परम्। मधुराम्लं सरं किञ्चित् भवेत् पित्तप्रकोपणम्। आम्रं कृत्रिमपक्वं यत्तद्भवेत् पित्तनाशनम्। रसस्याम्लस्य हानेस्तु माधुर्याच्च विशेषतः। चूषितं तत् परं रुच्यं बलवीर्य्यकरं क्षघु। शीतलं शीघ्रपाकि स्याद्वातपित्तहरं सरम्। तद्रसोगालितो बल्यो गुरुर्वात हरः सरः। अहृद्यस्तर्पणोऽतीव वृंहणः कफवर्द्धनः। तस्य खण्डं गुरु परं रोचनं चरिपाकि च। मघुरं वृंहणं बल्यं शीतलं वातनाशनम् वातपित्तहरं रुच्यं वृंहणं बलवर्द्धनम्। वृष्यं वर्णकरं स्वादु दुग्धाक्तं गुरु शीतलम्। मन्दानलत्वम् विषमज्वरञ्च रक्तामयं बद्ध गुदोदरञ्च। आम्रातियोगो नयनामयञ्च करोति तस्मादति तानि नाद्यात्। एतदम्लाम्रविषयं मधुराम्रं परं न तु। मधुरस्य परं नेत्रहितत्वाद्या गुणायतः। शुण्ठ्यम्भस्त्वनुपानं स्यादाम्राणामतिभक्षणे। जीरकं वा प्रयोक्तव्यं सह सौवर्चलेन च। आम्रवीजं कषायं स्याच्छर्द्यतीसार नाशनम्। ईषदम्लञ्च मधुरं तथा हृदयदाहनुत्। आम्रस्य पल्लवं रुच्यं कफपित्तविनाशनम्”। पल्लवमत्र नव दलम्। अस्य शाकपाकप्रकारस्तत्रैव “स्विन्ना निष्पीडिताः कामं कोकिलाहारपल्लवाः। घृतसिन्धूत्थसंसिद्धारुच्या रामठवासिताः। सर्पिषा खण्डयुक्तास्ते तलिताश्चाम्रपल्लवाः। लवङ्गार्द्रकसंयुक्तामरीचै रुचिकारकाः”। अस्य पल्लवमुकुलानां पाकप्रकारस्तत्रैव “आम्रस्य चैव नवताम्ररुचिप्रबालाः खण्डीकृतालवणमिश्रितपिण्डिताश्च। वाह्लीकधूपनजुघोघृतदुग्धसिद्धाः सन्दीपयन्ति पवनस्य सखायमेते। मुकुलः सहकारशाखिनः शृतखण्डीकृतसैन्धवान्वितः। दधिमन्थमरीचसंस्कृतश्चिरजातामरुचिं छिनत्ति हि। कफपित्तहरौ हृद्यौ मुखवैरस्य नाशनौ। वह्निसञ्जननौ रुच्यौ चूतजौ पुष्पपल्लवौ। आम्रमामं जलस्विन्नं मर्द्दितं दृढपाणिना। सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम्। प्रपानकमिदं श्रेष्ठं भीमसेननिर्म्मितम्। सद्योरुचिकरं बल्यं शीघ्रमिन्द्रिय तर्पणमिति”।

आम्रगन्धक = पु० आम्रस्येव गन्धोऽस्य कप्। समष्टिलवृक्षे, शाकभेदे राजनि०।

आम्रगुप्त = पु० गोत्रप्रवर्त्तके ऋषिभेदे। तस्यापत्यम् उदीचां मृते फिञ्। आम्रगुप्तायनिः पु० स्त्री० प्राचान्तु मते इञ्। तदपत्ये सि० कौ०।

आम्रपेशी = त्रि० आम्रस्य पेशीव। शुष्काम्रकोषे (आमसी)

आम्रमय = त्रि० आम्रस्य विकारः अवयवो वा वृद्धत्वात् मयट्। १ आम्रविकारे। २ तदवयवे च।

आम्ररसाकृति = स्त्री आम्ररसस्येवाकृतिः स्वादो यस्याः। पीताख्य रसालाभेदे। तत्पाकप्रकारो यथा भा० प्र० “किञ्चित् कुङ्कुमसंयुक्तं विमस्तुदधिगालितम्। सशर्करं भवेत् प्रीता पक्वाम्ररससन्निभा। पीता शिखरणी या सा लघ्वो वर्ण्णवती हि सा। सुरुच्या मधुरा बल्या वातपित्तहरामता” अत्र पीताख्यशिखरिण्याः पक्वाम्ररसतुल्यत्वोक्त्या तथात्वम्।

आम्रवण = न० आम्रस्य वनम् नित्यं णत्वम्। आम्रवृक्षसमुदायात्मके वने।

आम्रात = पु० आम्रमाम्ररसमतति अत–पचा० अच्। (आमडा) १ वृक्षे २ तत्फले न०। तत्फलस्याम्रतुल्यरसत्वात्तथात्वम्। “आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत् परम्। सुपक्वं तुवरं स्वादु रसपाकं हिमं स्मृतम्। तर्पणं श्लेष्मलं स्निग्धं रुच्यं विष्टम्भि वृंहणम्। गुरु बल्यं मरुत्पित्तक्षतदाहक्षयास्रजित्” भा० प्र०।

आम्रातक = पु० आम्र इवातति आम्रात् किञ्चिदूनरसफलकत्वात् अत–ण्वुल्। (आमडा) १ वृक्षे २ तत्फले न०। आम्रेण तत्फलरसेन तकते प्रकाशते आ + तक–हासे अच्। शुष्काम्ररसनिर्म्मिते (आमट्) द्रव्यभेदे तत्करणप्रकारः भावप्र० उक्तः। यथा “आम्रस्य सहकारस्य कटे विस्तारितोरसः। घर्म्मशुष्को मुहुर्दत्त आम्रातक इति स्मृतः”।

आम्रातकेश्वर = पु० आम्रातक इव ईश्वंर ईश्वरलिङ्गमत्र। सिद्धस्थानभेदे। “आम्रातकेश्वरे सूक्ष्मा सूक्ष्माख्या परमेश्वरी” देवीपु०।

आम्रावती = स्त्री आम्र आम्ररसो विद्यतेऽस्यां मतुप् मस्य वः शरा० दीर्घः। नदीभेदे। तस्या आम्रतुल्यरसतोययुक्तत्वात्तथात्वम्।

आम्रावर्त्त = पु० आम्रैव तुल्यरसतया ईषत् वर्त्तते आ + वृत–अच्। १ आम्रातकवृक्षे २ तत्फले न०। आम्रेण आम्ररसेन आवर्त्त्यते निष्पाद्यते आ + वृत–णिच्–कर्मणि घञ् (आमट्) ख्याते ३ पदार्थे आम्रातकशब्दे तत्करणप्रकार उक्तः “आम्रावर्त्तस्तृषाच्छर्द्दिवातपित्तहरः सरः। रुच्यः सूर्य्यांशुभिः पाकात् लघुश्च स हि कीर्त्तितः” भावप्र०।

आम्रिमन् = पु० अम्लोरसोऽस्त्यस्य प्रज्ञा० अण् दृढा० गणपाठात् रस्य लः ततोभावे दृढा० इमनिच्। अम्लत्वे रसभेदे वा ष्यञ्। आम्र्यमप्यत्र न०।

आम्रेडित = त्रि० आ + म्रेड–उन्मादे अच् आम्रेडेन उन्मत्तेनेवाचर्य्यते आम्रेड + आचारे क्विप् ततः क्त। उन्मत्तेन यथा कथितस्य पुनःपुनः कथनं क्रियते एवं द्विस्त्रिःकथिते “आम्रेडितस्यान्तस्य तु वा” पा०।

आम्लवेतस = पु० आम्लः अम्लरसयुक्तः वेतस इव। १ अम्लवेतसवृक्षे राजनि० स्वार्थे संज्ञायां वा कन्। २ तिन्तिडीवृक्षे (तेतुल)।

आम्ला = स्त्री० सम्यक् अम्लो रसो यस्याः। १ तिन्तिद्ध्याम् (तेतुल) स्वार्थे कनि आम्लिकाप्यत्र। २ अम्लरसयुक्ते त्रि०। मनोज्ञा० भावे वुञ् अम्लिका। २ अम्लरसे ३ अम्लोद्गारे च शब्दमाला। अम्लरसोऽस्त्यस्य अण् ङीप्। आम्लीत्यपि तिन्तिड्याम्।

आय = पु० आ–इण–अच् अय–घञ् वा। १ लाभे २ प्राप्तौ, “आयव्ययविशोधितात्” स्मृतिः आयव्ययौ च नियतावाकरान् कोषमेव च” मनुः। ३ धनागमे, ज्योतिषोक्ते लग्नावधिके राश्यवधिके च ४ एकादशस्थाने, ४ वनितागारपालके च कर्मणि अच् घञ् वा। ग्रामादितः स्वामिग्राह्यभागे, लभ्ये ५ धनादौ “तदस्मिन् वृद्ध्यायलाभोपदा दीयते” पा० ग्रामेषु स्वामिग्राह्योभाग आयः” सि० कौ० लग्नायधिकैकादशस्थानस्यायत्वं च तत्स्थाने आयस्य चिन्तनीयत्वात्। तत्र वर्षलग्नावधिकैकादशस्थाने ग्रहविशेषयोगादिभिरायोपायविवेकः। नीलकण्ठता० “अब्दपे ज्ञेऽर्थगे लाभो बाणिज्यात् शुभदृग्युते। सेन्थिहेऽस्मिन् लग्नगे तु लामः पठनलेखनात्। अस्मिन् षष्ठाष्टान्त्यगते सक्रूरे नीचकर्मतः। क्रूरेक्षणेन लाभोऽस्तंगतेन लिखनादिभिः। जीवेऽब्दपे क्रूरहते लग्ने हानिर्नृपाद्भयम्। अस्मिन्नधिकृते द्यूने व्यवहाराद्धनाप्तयः। लग्नाधिपेनेत्थशाले लाभः स्वजनगौरवम्। सर्वेऽपि लाभे वित्ताप्त्यै सबला निर्बला न तु। सवीर्य्योज्ञः समुथहोलग्नेऽर्थसहमे शुभम्। ददाति खातद्रव्यस्य लाभः पापदृशा न तु”। आयसहमन्तु सहमशब्दे बक्ष्यते आयभावानयनञ्च ५१९ पृष्ठे अष्टमभावशब्दोक्तदिशावसेयम्। जन्मग्नावधिकैकादशस्थाने ग्रहस्थित्यादिभिरायविवेकः जातकप० उक्तः यथा “स्वामिसद्ग्रहयुतेक्षित आये सर्वलाभ सहितः शुभवर्गे। क्रूरदृष्टिसहिते खलवर्गेनो शुभं खलशुभे च विमिश्रम्। सर्व्वखेचरयुतं त्वथ दृष्टं लाभभम्बहुललाभकरन्तु। तत्र यो बलयुतो निजवृत्त्यास्वं धनं दिशति सम्यगतुच्छम्। उच्चे स्वमित्रगृहगोवलवांश्च पूर्ण्णं, शत्रोर्गृहे तु खचरश्चरणं ददाति। नीचारिभांशकगतोऽर्द्धफलप्रदः स्यादस्तं गतोऽल्पकफलः खलु लाभभावे। लाभभे रवियुतीक्षणवर्गैः संयुते नृपचतुष्पदचौर्य्यैः। युद्धतोऽपि हि धनं विधुजैस्तैस्तोयदन्तियुवतिप्रभवं स्यात्। लाभे कुजे क्षितयुते कुजवर्गयुक्ते वित्तं प्रबालमणिभूषणकाञ्चनाढ्यम्। स्यात् साहसैश्च गमनागमनैस्तथाग्निशस्त्रप्रपञ्चजनितैर्वचलान्मुनीनाम्। बुधदृष्टेऽथ वा युक्ते लाभे बुधगणेऽपि वा। वित्तं लिखनशिल्पाद्यैरङ्गवेसरकाम्यजम्। आये वृहस्पतियुतीक्षणवर्गयुक्ते यज्ञादिहेनसुतविक्रमनागरैः स्वम्। शौक्रेक्षणे गणयुते गमनाङ्गनाभ्योवाराङ्गनारजतपत्रमयं धनं स्यात्। शनिपुक्ते लाभगृहे शनिदृष्टे शनेर्गणे। महिषी लोहकृष्युयं धनं स्थावरकर्मभिः। निजाब्दकेऽर्कः प्रचुरार्थलाभं लक्ष्मीं कुजोऽब्जश्च धनं नृपाब्दे। ज्ञः पञ्चवेदे धनसिन्द्रपूज्यो लक्ष्मीं सितोऽर्के कुजवच्छनिस्तु”। राश्यवधिकैकादस्थाने च गोचरे सर्वे ग्रहाः शुभाः “सर्वेऽप्युपान्त्ये शुभाः” इत्युक्तेः अत्र विशेषो गोचरशब्दे वक्ष्यते।

आयःशूलिक = त्रि० अयःशूलेनार्थान् अन्विच्छति + अयः शूल + ठक्। “तीक्ष्णोपायेन योऽन्विच्छेत् स आयःशूलिको जन” इत्युक्ते तीक्ष्णकर्मणार्थकरे।

आयजि = त्रि० आभिमुख्येन इज्यते आ + यज–कर्मणि–इन्। १ आभिमुख्येन इज्यमाने “आयजे! त्वामनवे जातवेदसम्” ऋ० ८, २३, १७ भावे इन्। २ आभिमुख्येन यागे।

आयज्यु = त्रि० आत्मन आयजिमिच्छति क्यच् उण् नि० इलोपः। आभिमुख्येन यागमिच्छति। “आयज्यवःसुमतिं विश्ववाराः” ऋ० ९, २७, २६।

आयत = त्रि० आ + यम–क्त। १ दीर्घे–आयामयुक्ते “धनुरायत भोगवासुकिज्या” किरा०। आ + यम–अन्तर्भूतण्यर्थे कमेणि क्त। २ आकृष्टे “आरक्षितानायतबल्गबन्धैः” माघः। “आयता आकृष्टा बलावन्धायैः” मल्लि०। ३ दूरेच आकृष्टे “प्रजविभिरायतन्तुरङ्गैः” किरा०। “आयतं दूरमिति” मल्लि०। “भूयसी तव यदायतायति” माघः ४ नियमिते च। त्रिर्जपेदायतप्राणः” योगिया०। प्राणनियमनञ्च यथेष्टप्राणवृत्तिनिरोधनम्।

आयतच्छदा = स्त्री आयतः दीर्घश्छदोऽस्याः। कदल्याम्त्रिका०।

आयतन = न० आयतन्तेऽत्र यत–आधारे ल्युट्। १ देवादिवन्दनस्थाने, २ आश्रये, “स्नेहस्तदेकायतनं जगाम” कुमा०। “नरेन्द्रमूलायतना दनन्तरम्” रघुः। “रोगायतनमातुरम्” न जीर्णदेवायतने न बल्मीके कदाचन” “सीमासन्धिषु कार्य्याणि देवतायतनानि” इति च मनुः। ३ विश्रामस्थाने ४ यज्ञस्थाने च।

आयतस्तू = त्रि० आयतं स्तौति स्तु–क्विप् नि० दीर्षः। आयतस्तावके। “क्विब्वचिप्रच्छायतस्तूकढप्रुजूश्रीणां दीर्घोऽसम्प्रसारणञ्च” वार्त्ति०।

आयति(ती) = त्रि० आ + या–डति वा ङीप्। १ उत्तरकाले आगामिकाले २ प्रभावे कोषदण्डजे तेजसि ३ फलदानकाले च। “आयतिं सर्व्वकालानां तदात्वं च विचारयेत्” मनुः “भूयसी तव यदायतायति” माघः “नियता लघुता निरायतेः” किरा०। आ + यम–क्तिन्। ४ आयामे दैर्घ्ये। “सीमानमत्यायतयोऽत्यजन्त” माघः। ५ संयमे “केशनखानामायतिभङ्गः” काद०६ प्रापणे ७ सङ्गमे च अत्र क्तिन्नन्तत्वात् न ङीबिति भेदः। ८ कर्म्मणि च “हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते। यया मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम्” मनुः। “आयतिक्षमं कर्म्मक्षमम्” कुल्लू०।

आयतीगव = अव्य० आयन्ति गावोऽत्र तिष्टद्गुप्र० अव्ययी० नि०। गोष्ठाद्गवागमनकाले। “आ तिष्ठद्गु जप्न् सन्ध्यां प्रक्रान्तामायतीगवम्” भट्टिः।

आयतीसम = अव्य० आयन्ति समा अत्र तिष्ठद्गुप्र० नि० अव्ययी०। वत्सरागमनकाले।

आयत्त = त्रि० आ + यत–क्त। अधीने १ वशीभूते “दैवायत्तं कुले जन्म ममायत्तं हि पौरुषम्” वेणी०। २ कृतप्रयत्ने च।

आयत्ति = स्त्री आ + यत–क्तिन्। १ स्नेहे, २ वशित्वे, ३ सामर्थ्ये, ४ सीम्नि, ५ शयने, ६ प्रभावे ७ आगतौ च उपाये च “अनायत्त्या च तत्कल्पनम्” शा० भा०।

आयथातथ्य = न० न यथातथं तस्य भावः ष्यञ् वा पूर्व्वपदवृद्धिः। अनौचित्ये यस्य यद्रूपं नोचितं तद्रूपे। उत्तरपदवृद्धौ अयाथातथ्यमप्यत्र न०।

आयथापूर्व्य = न० पूर्व्वमनतिक्रम्य यथापूर्व्वं न० त० तस्य भावः ष्यञ् वा पूर्व्वपदवृद्धिः। यथापूर्व्वाननुसारित्वे उत्तर पदवृद्धौ तु अयाथापूर्व्यमप्यत्र न०।

आयन = न० अयनमेव स्वार्थे अण् आ + अयनं वा प्रा० स०। १ सम्यगामने “आयने ते परायणे दूर्व्वा रोहन्तु पुष्पिणीः” अ० १०, १४२, ८। अयनस्येदम् अण्। ग्रहाणां दक्षिणोत्तरगमनरूपायनस्य २ सम्बन्धिनि त्रि० तच्च आयनवलनायनदृक्कर्म्मादि ज्योतिषप्रसिद्धं तत्रायनवलनं यथा सि० शि० “युतायनांशोडुपकोटिशिञ्जनी जिनांशमौर्व्या १ ३९७ गुणिता विभाजिता। द्युजीवया लब्धफलस्य कार्मुकम् भवेच्छंशाङ्गायनदिक्कमायनम्”। “ग्रहस्य सायनांशस्य कोटिज्या जिनांशज्यया गुण्या द्युज्यया भक्ता फलस्य चापमायनं वलनं भवति यस्मिन्नयने ग्रहोवर्त्तते तद्दिक् भवति” प्रमिता०। आयन दृक्कर्म सि० शि० उक्तं यथा। “आयनं वलनमस्फटेषुणा संगुणं द्युगुणभाजितं हतम्। पूर्णपूर्णधृतिभिर्गृहाश्रित- व्यक्षभोदयहृदायनाः कलाः। अस्फुटेषुवलनाहतिस्तु वा यष्टिहृत् फलकलाः स्युरायनाः। ता ग्रहेऽयनपृषत्कयोः क्रमादेकभिन्नककुभोरृणं धनम्”। “ग्रहस्य यदायनं वलनं तदस्फुटशरेण संगुण्य तद्द्युज्यया भजेत्। फलमष्टादशशतैः १८०० संगुण्य यस्मिन् राशौ ग्रहोवर्त्तते तस्य निरक्षोदयासुभिर्विभजेत्। फलमायनकला भवन्ति। अथ वायनवलनकला अस्फुटेन शरेण संगुण्य यष्ट्या विभजेत्। फलमायनकलाः स्वल्पान्तरा भवन्तीत्यनुकल्पः। ग्रहो यस्मिन्नयने वर्त्तते तस्यायनस्य ग्रहशरस्य च यद्येका दिक्तदा ता आयनाः कला ग्रहे ऋणं कार्य्याः। यदि तयोर्भिन्ना दिक् तदा धनं कार्याः। एवं कृतायनदृक्वर्मको ग्रहो भवति। अत्रोपपत्तिर्गोले सविस्तराभिहिता। अथेहापि किञ्चिदुच्यते। क्रान्तिवृत्ते यद्ग्रहस्थानचिह्नं तद्यदा क्षितिजे लगति न तदा ग्रहः। यतोऽसौ शराग्रे। शराग्रं हि कदम्बाभिमुखम्। यदोत्तरकदम्बः क्षितिजादुपरि भवति तदा तदुन्मुखेन शरेण ग्रहः क्षितिजादुन्नाम्यते। क्षितिजकदम्बयोरन्तरं तदेवोत्तरमायनं वलनम्। यदा क्षीतिजादधः कदम्बस्तदा शरेण ग्रहो नाम्यते क्षितिजकदम्बयोरन्तरं तदा दक्षिणं वलनम्। अतो वलनवशेन ग्रहस्योन्नामनं नामनं च। उन्नामितो ग्रह आदावेवोदितः। नामितः पश्चादुदेष्यति। स च कियता कालेनेति तदायनं त्रैराशिकेन। यदि त्रिज्यातुल्ये कर्णेकदम्बक्षितिजयोरन्तरकला वलनसंज्ञा लभ्यन्ते तदा अस्फुटशरतुल्ये किमिति फलं ग्रहादधोऽवलम्बरूपाः कला भवन्ति। ग्रहस्थानें यद्द्युज्यावृत्तं तत्र ता जीवारूपाः। तासां त्रिज्यावृत्तपरिणामायान्योऽनुपातः। यदि द्युज्यावृत्तएतावती ज्या तदा त्रिज्यावृत्ते कियतीत्येवं याः फलकलास्ता एवासवः। फलस्य धनुः स्वल्पत्वान्नोत्पद्यत इति न कृतम्। तैः क्रान्तिवृत्ते परिणामायान्योऽनुपातः। यदि निरक्षोदयासुभी राशिकला अष्टादश शतानि लभ्यन्ते तदैभिरसुभिः किमिति फलं क्रान्तिवृत्तपरिणताः कला भवन्ति। यदोत्तरं किल त्रलनमुश्रुरश्च विक्षेपस्तदा तेन विक्षेपेणोन्नामितो ग्रहो यावत् तितिजं नीयते तावत् क्रान्तिवृत्तग्रहस्थामात् पृष्ठतः क्रान्तिवृत्तं क्षितिजे लगति तदेव स्थानं कृतदृक्कर्मको ग्रह। किं बहुना गोले क्रान्तिमण्डले यथास्थानं विमण्डलं विन्यस्य तत्र ग्रहं च दत्त्वा चिह्नं कार्यम्। अथ ध्रुवाद्ग्रहोपरि नीयमानं वृत्ताकारं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र कृतदृक्कर्मको ग्रहः। एवं ध्रुवान्नीयमानेन सूत्रेण शरकृतं त्र्यस्रं भव्ति। क्रान्तिवृत्तग्रहस्यानादग्रतः पृष्ठतो वा आयनकलातुल्येऽन्तरे तत् सूत्रं क्रान्तिवृत्ते लगति। अत आयनकला भुजः, अस्फुटःविक्षेपः कोटिः, शराग्रक्रान्तिवृत्तयोरन्तरे यावत् सूत्रखण्डं स तत्र कर्णः। एतत् त्र्यस्रं वलनत्र्यस्रसंभवम्। अतस्त्रैराशिकेन वलनकलानामानयनम्। यदि यष्टिकोट्या वलनकलाभुजो लभ्यते तदा अस्फुटविक्षेपकोट्या किमिति फलमायनकला इति सर्वमुपपन्नम्” प्रमिताक्षरा।

आयमन = न० आ + यम–ल्युट्। १ दैर्घ्ये णिच्–ल्युट्। २ नियमने ३ संयतकरणे दृढस्य संकुचितस्याकृष्य ४ दीर्घोकरणे च। “यथा दृढस्य धनुष आयमनम्” छा० उ०।

आयल्लक = पु० आयन्निव लीयते अत्र ली–आधारे वा० ड ततः संज्ञायां कन्। उत्कण्ठायाम् हेम०।

आयस = त्रि० अयसो विकारः अण् स्त्रियां ङीप्। लौहमये। “शक्तिञ्चोभयतस्तीक्ष्णामायसं दण्डमेव वा” “पुमांसं दाहयेत् पापं शयने तप्तआयसे” इति च मनुः। “स चकर्षपरस्मात् तत् अयस्कान्त इवायसम्” रघुः। “मूढबुद्धिमिवात्मानं हैमीभूतमिवायसम्” कुमा०। २ लौहमयकवचे च ३ अङ्गरक्षिण्यां जालिकायां स्त्री। अयएव स्वार्थेअण्। ४ लौहे। ततः विकारेमयट्लोहमये त्रि० स्त्रियां ङीप्।

आयसीय = त्रि० अयसः सन्निकृष्टदेशादि० कुशा० छण्। लौहसन्निकृष्टदेशादौ।

आयस्कार = पु० अयस्कार एव स्वार्थे अण्। लौहकारे त्रिका०

आयस्त = त्रि० आ + यस–क्त। १ क्षिप्ते “आयस्तसिंहाकृतिरुत्पपात” किरा० २ क्लेशिते ३ प्रतिहते ४ तीक्ष्णीकृते ५ आयासयुक्ते च।

आयस्थान = न० ६ त०। १ लाभस्थाने, राज्ञां २ शुल्कग्रहणमण्याद्याकरस्थाने “ठञ् ठगावायस्थानेभ्यः” पा०। ज्योतिषोक्ते ३ लग्नादेकादशस्थाने च।

आयस्थूण = त्रि० अयोमयी स्थूणायस्य तस्यापत्यं शिवा० अण्। अयस्थूणापत्ये स्त्रियां ङीप्।

आयस्य = अव्य० आ + यस–ल्यप्। आयासं कृत्वा भृशं यतित्वेत्यर्थे।

आयात = त्रि० आ + या–क्त। आगते स्थानात् स्थानान्तरं प्राप्ते। “यामोयातस्तथापि नायातः” सा० द०। “आयाता मधुयामिनी” उद्भटः। “आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते” देवीमा०।

आयाति = पु० आ + या + क्तिच्। “यातिर्ययातिः संयाति रायातिः पश्चिमोमतः” हरि० ३० अ० “यातिर्ययातिः संयातिरायातिः सयतिस्तथा। नहुषोजनयामास षट्सुतान् प्रियवादिनः” इति च हरि० उक्ते १ नहुषसुतभेदे आ + या–भावे क्तिन्। २ आगमने स्थानान्तरगमने।

आयान = न० आ + या–ल्युट्। १ आगमने आयाति यावद्द्रव्यम् आ + या–ल्यु। २ स्वभावे जटा० स्वभावस्य यावद्द्रव्ययायित्वात्तथात्वम्।

आयाम = पु० आ + यम–भावे घञ्। दीर्घपरिमाणभेदे “अणुमहध्रस्वदीर्घभेदात् परिमाणचातुर्विध्यमिति वैशेषिकादयः स्वीचक्रुः। अणुमहद्रूपं परिमाणद्वयमिति साङ्ख्याः ह्रस्वदीर्घयोर्महत्त्वरेवान्तर्भावात्। तत्र अल्पसंख्यकावयवत्वमणुत्वम् अधिकावयवजन्यत्वं महत्त्वम् तेषु च अवयवप्रचयेषु ययोः पार्श्वयोराधिक्यं तत्र दीर्घत्वव्यवहारः यत्र च पार्श्वयोरल्पत्वं तत्र विस्तीर्ण्णत्वं ह्रस्वत्वं च व्यवह्रियते “अस्थूलमनण्वह्रस्वमदीर्घमिति” श्रुतौ च अवान्तरभेदमाश्रित्यैव परिमाणचातुर्विध्योक्तिर्द्रष्टव्या अस्य गुणमात्रवाचित्वम् न तुं अणुमहदादिवत् गुणगुण्युभयवाचकत्वमपि इतिभेदः। “आयामवद्भिः करिणां घटाशतैः” माघः “यावानूर्द्ध्व बाहुकः पुरुषस्तावदायामः” आश्व० गृ० “यस्यचायामः” पा० “शीतवृद्धतरायामास्त्रियामा यान्ति साम्प्रतम्” रामा०। आ + यम + णिच्–अच्। २ नियमने प्राणायामः प्राणवायोर्नियमनम् “प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति” “एकाक्षरं परं ब्रह्म प्राणायामः परं तपः” मनुः। आयामोऽस्त्यस्य बला० वा इनि पक्षे मतुप्। आयामी आयामवान् आयामयुक्ते त्रि० स्त्रियां ङीप्। यामशब्दस्याङा मर्य्यादायाम् अव्ययीभावः। ३ प्रहरपर्य्यन्ते अव्य०।

आयास = पु० आ + यस–घञ्। अतियत्ने “स्नेहमूलानि दुःखानि देहजानि भयानि च। शोकहर्षौ तथायासः सर्वं स्नेहात् प्रवर्त्तते” भा० व० २०० अ० “रत्यायास मनस्तापक्षुत्पिपासादिसम्भवा” सा० द०।

आयासक = त्रि० आ + यस–ण्वुल्। १ आयासयुक्ते। णिच्ण्वुल्। २ आयाससम्पादके च।

आयासिन् = त्रि० आयस्यति आ + यस–णिनि। आथासयुक्ते “कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि” शकु०।

आयिन् = त्रि० आयोलाभोऽस्त्यस्य इनि। १ लाभयुक्ते मतुप् आयावानप्यत्र त्रि० इण–णिनि। २ गन्तरि स्त्रियां ङीप्।

आयु = त्रि० “छन्दसीणः” उणा० इण–उण्। गमनशीले “ता अस्य वर्ण्णमायुवोनेष्टुः सचन्त धेनवः” ऋ० २, ५, ५। “आयुवोगन्त्र्यः” भा० उवङ् छान्दसः “अभि सोमास आयवः पवन्ते मद्यं मदम्” ऋ० ९, २३, ४। २ आयुषि न० “कालःक्रीडति गच्छत्यायुरित्युक्तेः कालगत्यैव तस्य गामित्वात्तथात्वम्। जीवनस्यकालरूपत्वे तु कालस्य सततगामित्वात्तथात्वं युक्तमेव “अग्ने जरस्व स्वापत्य आयुन्यूर्ज्जा” ऋ० २, ३, ७। “वत्सं न पूर्ब्बं आयुनि जातं रिहन्ति मातरः” ऋ० ९,१००, १ आयुनि आयुषि” भा० बाहुलकात् भाषायामपि उण् उज्ज्व०। तेन “वायुना जगदायुना” वर्ण्णिविवेकः। “मा बधिष्ठा जटायुंमाम्” भट्टिः। “तटीं विन्ध्यस्याद्रेरभजत जटायोः प्रथमजः” इति अभिनन्दः।

आयुक्त = त्रि० आ + युज–कर्म्मणि क्त। १ सम्यग्व्यापारिते। “आयुक्तकुशलाभ्याञ्चासेवायाम्” पा० “आयुक्तः व्यापारितः” सि० कौ०। “कुशलोऽन्येषणस्याहमायुक्तो दूतकर्म्मणि” भट्टिः २ ईषद्यूक्ते च “आसेवायां किम्? आयुक्ता गौः शकटे ईषद्युक्तः” सि० कौ०। भावे क्त। ३ सम्यग्नियोजनेन०। आयुक्तमनेन इष्टा० इनि। आयुक्ती सम्यग्नियोजनकर्त्तरि त्रि० स्त्रियां ङीप्।

आयुध = न० आयुध्यतेऽनेन आ + युध–करणे घञर्थे क। शस्त्रमात्रे। तस्य भेदाः समासतस्त्रिधा प्रहरणहस्तमुक्त यन्त्रमुक्तभेदात्। तत्र हस्तस्थितैर्यैः प्रह्रियते तानि प्रहरणानि यथा खड्गादीनि। हस्तमुक्तानि चक्रादीनि, यन्त्रमुक्तानि शरादीनि। तेषां सर्व्वेषां युद्धसाधनत्वादायुधत्वम्। “न मे त्वदन्येन विसोढमायुधम्” रघुः। “येऽपीन्द्रपाणितुलितायुधलूनपक्षाः” माघः। “न सुप्तं न विसन्नाहं न लग्नं न निरायुधम्” मनुः।

आयुधधर्भिणी = स्त्री आयुधस्येव धर्मोऽस्त्यस्या इनि ङीप्। जयन्तीवृक्षे शब्दच०। साहि रोगनाशने आयुधसमा

आयुधन्यास = पु० आयुधानां न्यासः तत्तत्स्थानस्पर्शपूर्ब्बकं तत्तन्मन्त्राणामर्पणबुद्ध्या स्थापनम्। श्रीविद्यापूजाङ्गे “एवं कामकलारूपं देवतामयमात्मनः। वपुर्विचिन्त्य शिवयोरायुधन्यासमाचरेत्” इत्यादिना ज्ञानार्ण्णवोक्ते न्यासभेदे। तन्त्रसारे श्रीविद्यापूज्याप्रकरणे विवृतिर्दृश्या।

आयुधागार = न० ६ त०। राज्ञां प्रहरणस्थापनार्थे गृहे। “ससृद्धमायुधागारमिदं तस्यदुरात्मनः”। “आयुधागारमादीप्य” इति च भा० आ० प० १४७, ४ ८ अ०। “कोष्ठागारायुधागारदेवतागारभेदकान्” मनुः। आयुधागारे नियुक्तः ठक्। आयुधागारिकः तत्रनियुक्ते त्रि०। तल्ल- क्षणमुक्तं मात्स्ये। “स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृतः। राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः”।

आयुधिक = पु० आयुधेन तद्व्यवहारेण जीवति ठञ्। शस्त्राजीवे पक्षे छ आयुधीयोऽप्यत्र। आयुधाजीवादयोऽप्यत्र।

आयुधिन् = पु० आयुधमस्त्यस्य इनि। शस्त्रधारके।

आयुध्य = न० युद्ध्यति युध–क न० त० ततो भावे शचतुरादिपाठात् ष्यञ् न त्वतलौ। १ योद्धृभिन्नत्वे। आ + युधल्यप्। २ सम्यग्युद्धं कृत्वेत्यर्थे अव्य०।

आयुर्दाय = पु० आयुषोदायः दानम्। बलविशेषस्थितियोगादिभिः ज्योतिषोक्ते रव्याधिभिः आयषोदाने तद्विवरणं श्रीपतिपद्धतौ यथा “आयुर्ज्ञानादेव होराफलानां कर्त्तुं यस्मान्निर्ण्णयः शक्यतेऽत्र। आयुर्दायः संप्रदायागतोऽयं सच्छिष्पाणां प्रीतये कथ्यतेऽत्र। एकोनदीधितिसमादिह गच्छतो यद्रूपादिरूपचयसंकलितद्वयं स्यात्। चेष्टोच्चरश्मिजमथ स्वमरीचिभक्तं तज्जायतेऽत्र गुणकद्विंतयं तदाख्यम्। ऊने भवे तां निजदीधितिभ्यः श्रेढीफले ते यदि रश्मियुक्ते। तदर्द्धिते स्वांशुभिरुद्धृते ते तद्घातमूलं गुणकः स्फुटः स्यात्”। इति गुणकानयनमत्रायं भेदस्तट्टीकायामुक्तः। “अल्पाश्चेत् किरणाः सैकाश्चतुर्भक्ता भवेद्गुणः। अधिकाश्चेन्निरेकास्ते दलिता गुणको भयेत्” “वर्गोत्तमे स्वभवने स्वनवांशके च स्वत्र्यंशके च गुणकोद्वितयं निरुक्तः। अध्यद्धरूप ३/२ मधिमित्रगृहे सुहृद्भेसत्र्यंशकं ४/३ समगृहे खलु रूपमेव। त्र्यंशोनितं २/३ रिपुगृहेऽध्यरिभेदलं १/२ स्यादेभ्योगुणोभवति यः खलु कश्चिदेकः। वेदोद्धृतः सभगुणोगुणकैः प्रदिष्टोहोरादिवर्गगुणकस्तु भवेत्तदर्द्धम्। एतेऽपि गुण्यागदितामहद्भिरपेक्षयानन्तर ताडकानाम्। ७ नगांशका ११ रुद्रमिताह्यभीष्टराशौ सुहृद्वेश्मनि मूर्च्छनांशाः। १९ नवाश्विनो १ रूपमुदासराशौ २१ कुद्व्यंशका १३ विश्वसमा द्विषद्भे। त्रयो नगांशा अधिशत्रुराशावेते भसंज्ञाअथ राशिवर्जम्। वर्गोत्तमात्प्रीज्झा नवत्रिभागस्थिते ग्रहे तु द्वितयं २ गुणश्चेत्। एतैरभीष्टादिगुणैर्निहन्यादुदीरितैराशिगुणं पुनस्तम्। गृहादिके वर्गणे स्वकीये द्विकोगुणस्त्रिंशविवर्ज्जितः सः। अभीष्टभे मित्रगृहे नवांशा विश्वेऽथ रूपञ्च समस्य गेहे। नवांशकाः पञ्च विरोधराशौ गुणांशकः स्यादधिवैरिणोभे। पूर्बम्भपूर्ब्बागुणकाय उक्ता वर्गेषु सप्तस्विह गुण्यसंज्ञाः। गुण्यागुणैस्तैस्त्वधिकारलब्धैरुक्तै गुणैः स्यादथ मिश्रितैस्तैः। स्मृतोबुधैराश्रयसंज्ञितोऽयमस्य स्पुटस्यापि बधो भवेद् यः। तस्यैव मूलं खलु कर्मतोऽस्य आयुर्विधाने गुणकार उक्तः। ग्रहस्य लिप्ताः खखसिद्ध २४०० भक्ताः प्रोक्ताः कलाः शेषमिहायुषोऽत्र। लग्नं ग्रहोनं यदि षड्गृहेभ्यो हीनं तदानीं हरसंभवः स्यात्। नैवाधिके तत्र खगोनलग्ने लिप्तीकृते राशिकला १८०० विभक्ते। आयुःकलानां स हरः स्फुटः स्यात् रूपाद्यदाल्पः सहरस्तदानीम्। रूपाद्विशुद्धोगुणकस्तु तासामेवं हि पापद्युचरोनलग्ने। शुभोनलग्ने तु हरोद्विनिघ्न आयुः कलाभ्योहरलब्धलिप्ताः। विशोधनीया यदि रूपकोनोहरस्तदानीं गुणकेन गुण्यः। चक्रार्द्धहानौ बहुषु द्वयोर्वा द्युचारिणोरेकगृहस्थयोस्तु। सत्याभिधानस्य मतेन सत्यं स्वांशं हरत्येव बलोत्कटोयः। एवं कार्य्या चक्रपातार्द्धहानिरायुर्दाये ह्यंशजे पिण्डजे च” इत्यंशायुः “नैसर्गाख्ये जीवशर्मोदिते च हारं कृत्वात्वेककोनोगुणः स्यात्” निसर्गायुषिविशेषः। “आयुर्लिप्ताः स्वगुणगुणिता व्योमशून्याश्वि २०० भक्ता अब्दामासादिवसघटिकाः स्युर्विनाड्यः क्रमेण” “एवं यथायथं गुणकगुणिता आयुलिप्ताः २०० भक्ता अब्दा भवन्ति शेषं विकला द्वादशभिर्गुणयित्वा षष्ट्या विभज्य लब्धं कलासु संयोज्य पुनरपि ताः कला द्विशत्या विभजेत् तेन मासा भवन्ति। पुनःशेषं त्रिंशता गुणयित्वा कलासु संयोज्य द्विशत्या भागे दिवसा भवन्ति पुनःशेषं षष्ट्यागुण्य कलासु संयोज्य द्विशत्या विभज्य लब्धं घटिका भवन्ति। एवं पलानि च”। “एवं सर्वं द्युचरजनितं ह्यायुरनीय लग्नादायुः साध्यं कथितविधिना किन्तु लग्ने विशेषः”। “एवं द्युगणजनितमिति रव्यादिग्रहसूचितं तेन तत्तद्ग्रहदत्तायुरुच्यते इत्यर्थः”। “लग्ने तु वीर्य्याभ्यधिके भतुल्यैर्वर्षैर्युतं तत्र विधेयमायुः। भागादिकादप्यनुपातलब्धं मासादिना संयुतमेव कार्य्यम्” वीर्य्याधिके षडधिके इत्यर्थः। अनुपातस्तु लग्नभागादि द्विगुणं कृत्वा पञ्चभिर्भक्त्वा लब्धं मासाः शेषं त्रिंशतागुण्य पञ्चभिर्भक्तं लब्धं दिनानि शेषं षष्ट्यागुण्य पञ्चभिर्भक्त्वा लब्धं घटिका एवं पलादिकमुन्नेयम्। एवं लग्नायुः” अथ रव्यादीनां पिण्डायुः। “नन्देन्दवो १९ वाणयमाः २५ शरक्ष्मा १५ दिवाकराः १२ पञ्चभुवः १५ कुपक्षाः २१। नखाश्च २० भास्वत्प्रमुखग्रहाणां प्रिण्डायुषोऽब्दा निजतुङ्गगानाम्। निजोच्चशुद्धः खचरोविशोध्योभमण्डलात् षद्भवनोनकश्चेत्। यथा स्थितः। षद्भवनाधिकस्तु लिप्तीकृतः संगुणितो निजाब्दैः। तत्र खाभ्ररसचन्द्रविलोकै २१६०० रुद्धृते सति यदाप्यते फलम्। वर्षमासदिननाडिकाच्च्युतं तद्धि पिण्डभवमायुरिष्यते” इति पिण्डायुः। “त्र्यंशुकं हरति शत्रुभे ग्रहः स्वायुषोऽत्र न तु वक्रचारगः। सूर्य्यलुप्तकिरणोऽर्द्धहारकः प्रोझ्य भार्गवदिनेशनन्दनौ। खचरोजायते योऽर्द्धत्र्यंशयोरपहारकः। आंयुषः स हरेदर्द्धं त्र्यंशं शुक्रशनैश्वरौ। प्राग्वत्फलानि स्वहरैर्विधाय तदैक्यती यत्ग्रहसंख्ययाप्तम्। तदत्र ह्रासं बलिनो ग्रहस्य जगौ मणित्थोहरिरित्थमेव। हरयुतिर्विहृनाग्रहसंख्यया स च हरोपचयश्च ततः फलम्। अधिकवीर्यवतोऽम्बरचारिणो निगदतीति मुनिः किल देवलः। लिप्तीभूतैर्लग्नभागैर्निहन्यादादायुर्दाय खेचराणां पृथक्स्थम्। व्योमाकाशर्त्विन्दुपक्षै २१६०० र्भजेत्तं स्वायुर्दायात् शोध्यमब्दादि लब्धम्। एवं क्रूरे लग्नगे सौम्यदृष्टे तस्मिन्दाये तत्फलार्द्धं विशोध्यम्। एतद्दाये नांशसंज्ञे विधेयं पिण्डायुर्वत् कर्म नैसर्गिकेऽपि, अत्र विशेषा लघुपद्धतौ। “लग्नेचेदशुभस्तदोदयगृहात् हित्वांशनिघ्नं फलं क्रूरस्योदय भावजं यदि तनौ द्वौ तद्बलिष्ठस्य च। चेत् साम्येऽधिक भावजेन बलयोस्तेन ग्रहायुः कला निघ्नाः स्वाभ्ररसेन्दुदस्र २१६०० विहृता लब्धं त्यजेत् स्वायुषः”। लग्नगपापस्य लग्ने सत्त्वे तु न त्यागः “योयो भावः स्वामिदृष्टो युतो वेत्यादिना” तस्य पुष्टत्वाभिधनात्, “क्रूरःसोऽपि शुभेक्षितो यदि तदा लब्धस्य खण्डं त्यजेत् नैतत् कर्म्म विलग्नपे तनुगते क्रूरेऽपि नांशायुषीत्युक्तेश्च” ग्रहाणां बलं च बलशब्दे वक्ष्यते। नखाः २ ० शशी १ द्वौ २ नवकं ९ धृतिश्च १८ कृतिः २० खवाणा ५० रविपूर्वकाणाम् इयं निरुक्ताक्रमशोग्रहाणां नैसर्गिके ह्यायुषि वषेसंख्या”। इति नैसर्गिग्रहदत्तायुः इदानीमंशायुःप्रभृतीनां कस्य कुत्र ग्राह्यता तदाह। “अंशोद्भवं लग्नबलात् प्रसाध्यमायुश्च पिण्डोद्भवमर्कवीर्य्यात् नैसर्गिकं चन्द्रमसोबलेन ब्रूमस्त्रयाणामथ वीर्य्यसाम्ये। अंशोद्भवं लग्नबलेन हन्यात् पिण्डाख्यमायुश्च बलेन भानोः। नैसर्गिकं चन्द्रमसो बलेन सर्वाण्यथैकत्र विधाय तानि। विलग्नतिग्मांशुहिमद्युतीनां हरेद्बलैक्येन ततो यदाप्तम्। वर्षाद्यमायुस्त दहस्फुटं स्यात् श्रीनीलकण्ठादय एवमूचुः। लग्नसूर्यशिनोबलशून्याः स्युर्यदात्र परमायुरगांशम्” हीनबलत्वमाह दामोदरः रूपत्रयाल्पं किल षड्बलैक्यं भवेद्विलग्नस्य खगस्य यस्य। स्वस्वामिना नो सहितो न दृष्टः स हीनवीर्य्यः कथितो- मुनीन्द्रः”। केशवोऽपि “त्र्यल्पे हीनबली बली षडधिके वीर्य्ये ग्रहश्चोदयः”। “सर्व एव स्वचरा ददतीदं जीवशर्मगदितं हि तदायुः। ग्रहः स्वोच्चहीनः स चेत् षड्गृहोनो भचक्राद्विशीध्योऽथ भागीकृतः सन्। कुवेदर्त्तुनागै ८६४ १ र्हतो वेदखाक्षौ ५०४ र्विभक्तोदिनाद्यम्भवत्येवमायुः” अहोभ्यः खरामै ३० हृतेभ्योऽधिमासाः पतङ्गैश्च तेभ्योभवेयुस्तदाब्दाः। भचक्रार्द्धहान्यादिकोऽन्योविधिर्यः सपिण्डोद्भवायुर्वदेवात्र कार्यः इति। आयुःस्वथैतेषु बलाढ्यलग्ने विहाय राशीन् कृतलिप्तिकेऽत्र भक्ते द्विशत्या २०० फलमब्दपूर्वं यत्स्यात् विलग्नायुषि तच्च योज्यम्। लग्नार्कयोरर्कशशाङ्कयोश्च लग्नोडुपत्योरपि वीर्यसाम्ये। तदायुषोरैक्यदलं भवेद्यत् तत् श्रीधराद्यैः स्फुटमायुरुक्तम्” इति लग्नायुः। “ये धर्मकर्मनिरता विजितेन्द्रियाये ये पथ्यभोजनजुषोद्विजदेवभक्ताः। लोकोत्तरन्दधति ये कुलशीललीलां तेषामिदङ्गदितमायुरुदारधीभिः”। अष्टवर्गादपि आयुर्दायज्ञानं भवति तच्चाष्टवर्गशब्दे उक्त प्रायम्। ५२२ पृष्ठे दृश्यम् नक्षत्रायुःकेन्द्रायुःप्रभृतीनां विस्तरभयादिहानुक्तिराकरे तच्च दृश्यम्।

आयुर्द्रव्य = न० आयुःसाधनं द्रव्यम् शा० त०। १ औषधे रत्नमा० २ आयुःसाधने घृते च “आयुर्वै घृतमित्युक्तेः घृतस्यायुर्जनकत्वात्तथात्वम्।

आयुर्योग = पु० उचितस्यायुषोज्ञापकः योगः। ज्योतिषोक्ते ग्रहयोगभेदे सचायुःशब्दे दृश्यः।

आयुर्वृद्धि = स्त्री आयुषो वृद्धिः। द्रव्यविशेषसेवनेनायुषो वृद्धौ तानि च द्रव्याणि कतिचिदुच्यन्ते। रस एव तावत् सर्वापेक्षयायुर्वृद्धिकरः “अभ्रकं तव वीजन्तु मम वीजन्तु पारदः। अनयीर्मेलनं देवि! मृत्युदारिद्र्यनाशनम्” इति सर्व० द० गौरीं प्रति शिववाक्यम्” कमयोगेन देवेशि! प्राप्यते पिण्डधारणम्। रसश्च पवनश्चेति कर्म्मयोगो द्विधा स्मृतः। मूर्च्छितो हरति व्याधीन् मृतो जीवयति स्वयम्। बद्धः खेचरतां कुर्य्याद्रसो वायुश्च भैरवि!” इति सर्व्व० द० तन्त्रवाक्यम्। यथा च वायोर्निरोधेनैव आयुर्वृद्धिः। तथोक्तं काशी० “संनियम्येन्द्रियग्रामं नातिनोचोच्छ्रितासनः। मध्यमञ्चोत्तमं चाथ प्राणायामसुपक्रमेत्। चलेऽनिले चलं सर्वं निश्चलं तत्र निश्चले। स्थाणुत्वमाप्नुयाद्योगोततोऽनिलनिरोधनात्। यावद्देहे स्थितः प्राणो जीवितं तावदुच्यते। निर्गते तत्र मरणं ततःप्राणं निरोधयेत्। प्राणायामेन युक्तेन सर्व्वव्याधिक्षयोभयेत् अयुक्ताभ्यासयोगेन सर्वव्याधिसमुद्भवः” ततश्च प्राणायामस्य सर्वव्याधिहरत्वादप्यायुर्वृद्धिकरत्वम्। अस्यचायुर्वृद्धिकरत्वेऽन्यदपि कारणम् तथा हि “षष्टिश्वासैभंवेत् प्राणः षट्प्राणा नाडिका मता। षष्टिर्नाड्यस्त्वहोरात्रोजपसंख्याक्रमोमतः। एकविंशतिसाहस्रं षट्शतानि महेश्वरि!। जपति प्रत्यहं प्राणीति” तन्त्रोक्त्या २१६०० एतन्मिताः श्वासरूपाः प्राणक्रियाः अहोरात्रे भवन्ति वत्सरसंख्यया ३६० गुणितास्ताः ७७७६०० एतन्मिता वत्सरे भवन्ति। “शतायुर्वै पुरुष” इति श्रुत्या मनुष्याणां स्वाभाविकशतायुष्ट्वोक्तेः शतेन गुणितास्ताः ७७७६००००० एतन्मिताः प्राणक्रिया मनुष्याणां जीवनकाले भवितुमर्हन्ति तत्र प्राणायामादिना प्राणवायोर्निरोधे प्राणक्रियानुत्पत्तेः प्राणक्रिया रोधकाले च यावत्यः प्राणक्रिया भवितुमर्हन्ति तावन्तःकाला आयुषो बर्द्धन्ते इति। उक्ताः प्राणक्रियाश्च सुस्थस्यैव भवन्ति रोगाद्युपसर्गे शीघ्रधावनादिपरिश्रमे च प्राणक्रियाधिक्यं भवति तेन स्वल्पकालमध्ये यावत्प्राणक्रिया अपेक्षितास्ततोन्यूनकालमध्ये तासामुत्पत्तावायुःक्षयः। शतायुष्ट्वञ्च स्वाभाविकं कर्म्मवशात् ततोन्यूनताऽपि जात्यायुर्भोगानां कर्म्मविपाकत्वस्य योगशास्त्रे उक्तेः। तादृशाल्पायुष्ट्वादिसूचको ग्रहविशेषयोगादिर्ज्योतिषे उक्तः। अन्नदोषादीनाञ्चाल्पायुष्ट्वप्रयोजकत्वं स्मृत्युक्तमदृष्टद्वारैव। वैद्यकोक्तापथ्यभोजनस्य तथात्वञ्च रोगोत्पत्तिद्वारेतिभेदः। रोगोपसृष्टदेहं च जीवो दुःखहेत्वात् वह्न्याद्युपद्रुतदेशवत् शीघ्रं परिजिहीर्षति। तथा च देहो यथा न रोगादिभिरुपसृज्येत” तथा यतितव्यमित्येतदर्थं शास्त्रेषु पथ्योपदेशः इति बोधयम्। एवं खेचरीमुद्रादीनामप्यायुर्वृद्धिकरत्वम् काशी० उक्तम्। “कपालकुहरे जिह्वा प्रविष्टा विपरीतगा। भ्रुवोरन्तर्गतादृष्टिर्मुद्रा भवति खेखरी। न पीड्यते स रोगेण न च लिप्येत कर्म्मणा। बाध्यते न स कालेन योमुद्रां वेत्ति खेचरीम्। चित्तं चरति खे यस्माज्जिह्वा चरति खे गता। तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता। यावद्विन्दुः स्थिरोदेहे तावन्मृत्युभयं कुतः। यावद्बद्धा नभोमुद्रा तावद्विन्दुर्न गच्छति। उड्डीनं कुरुते यस्मादहोरात्रं महाखगः। उडीयानं ततः प्रोक्तं तत्र बन्धोऽभिधीयते। जठरे पश्चिमं जानु नाभेरूर्द्ध्वञ्च धारयेत्। उड्डीयानं ह्ययं बन्धोमृत्यारपि भयं जयेत्। बन्धाति हि शिराजालं अधोगामि न भोजनम्। एष जालन्धरोबन्धः कण्ठे दुःखौघनाशनः। जलन्धरे कृते बन्धे कण्ठसंकोचलक्षणे। न पीयूषं पतत्यग्नौ न च वायुः प्रधावति। पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम्। अपानमूर्द्धमाकृष्य मूलबन्धोऽभिधीयते। अपानप्राणयीरैक्यं क्षयेमूत्रपुरीषयोः। युवा भवति वृद्धोऽपि सततं मूलबन्धनात्”। एवमन्यान्यपि स्मार्त्ताणि कर्म्माणि आयुर्वृद्धिकराणि “मत्स्यान् मोचयतो द्विजाय ददतोऽप्यायुश्चिरं वर्द्धते” “आयुष्यं प्राङ्मुखोभुङ्क्ते” इत्यादीनि।

रसवत् अन्यान्यपि द्रव्याणि सेवितानि आयुर्वृद्धिकराणि सुश्रुते दर्शितानि तानि रसतुल्यतया रसायनानि यथा

“अथातः सर्व्वोपघातशमनीयं रसायनंव्याख्यास्यामः। पूर्वे वयसि मध्ये वा मनुष्यस्य रसायनम्। प्रयुञ्जीत भिषक् प्राज्ञः स्निगधशुद्धतनोः सदा। नाविशुद्धशरीरस्य युक्तो रासायनो विधिः। न भाति वाससि क्लिष्टे रङ्गयोग इवाहितः। शरीरस्योपघाता ये दोषजा मानसास्तथा। उपदिष्टाः प्रदेशेषु तेषां बक्ष्यामि वारणम्। शीतोदकं पयः क्षौद्रं सर्पिरित्येकशो द्विशः। त्रिशः समस्तमथ वा प्राक् पीतं स्थापयेद्वयः। तत्र विडङ्गतण्डुलचूर्णमाहृत्य यष्टीमधुयुक्तं यथाबलं शीततोयेनोपयुञ्जीत शीततोयं चानुपिबेदेवमहरहर्मासं तदेव मधुयुक्तं भल्लातकक्वाथेन वा मधुद्राक्षाक्वाथयुक्तं वा मध्वामलकरसभ्यां वा गुडुचीक्वार्थेन वा। एवमेते पञ्च प्रयोगा भवन्ति जीर्ण्णे मुद्गामलकयषेणालवणेनाल्पस्नेहेन घृतवन्तमोदनमश्नीयात्। एते खल्वर्शांसि क्षपयन्ति कृमीनुपघ्नन्ति ग्रहणधारणशक्तिं जनयन्ति भासेमासे प्रयोगे वषशतमायुषोऽभिवृद्धिर्भवति। विडङ्गतण्डुलानां द्रोणं पिष्टपचने पिष्टवदुत्स्वेद्य विगतकषायं स्विन्नमवतार्य्य दृषदि पिष्टमायसे दृढे कुम्भे मधूदकोत्तर प्रावृषि भस्मराशावन्तर्गृहे चतुरो मासान्निदध्यात् वर्षाविगमे चोद्धृत्योपसंस्कृतशरीरः सहस्रसम्पाताभिहुतं कृत्वा प्रातः प्रातर्यथाबलमुपयुञ्जीत, जीर्णे मुद्गामलकयूषेणालवणेनाल्पस्नेहेन घृतंवन्तमोदनमश्रीयात् पांशुशय्यायां शयीत। तस्य मासादूर्द्ध्वं सर्वाङ्गेभ्यः कृमयो निःक्रामन्ति तानणुतैलेनाभ्यक्तस्य वंशविदलेना पहरेत्। द्वितीये पिपीलिकास्तृतीये यूकास्तथैवापहरेत् चतुर्थे दन्तनखरोमाण्यवशीर्य्यन्ते पञ्चमे प्रशस्तगुणलक्षणानि जायन्ते। अमानुषं चादित्यप्रकाशं वपुरधिगच्छति दूराच्छ्रवणानि दर्शनानि चास्य भवन्ति रजस्तमसी चापोह्य सत्वमधितिष्ठति। श्रुतिनिगाद्यपूर्वोत्पादी गजबलोऽश्वजवः पुनर्युवाष्टौ वर्षशतान्यायुरवाप्नोति। तस्याणुतैलमभ्यङ्गार्थे। अजकर्णकषायमुत्सादनार्थे सोशीरं, कूपोदकं स्नानार्थे, चन्दनमुपलेपनार्थे, भल्लातकविधानवदाहारः परिहारश्च। काश्मर्य्याणां निष्कुली कृतानामेष एव कल्पः पांशुशय्याभोजनवर्जम्। अत्र हि पयसा शृतेन भोक्तव्यम् आशिषश्च पूर्वेण समानाः। शोणितपित्तनिमित्तेषु विकारेष्वेतेषामुपयोगः। यथोक्तमागारं प्रविश्य बलामूलार्द्धपलं पलं वा पयसालीड्य पिबेत्। जीर्णे पयः सर्पिरोदनैत्याहारः। एवं द्वादशरात्रमुपयुज्य द्वादश वर्षाणि वयस्तिष्ठति। एवं दिवसशतमुपयुज्य वर्षशतं वयस्तिष्ठति। एवमेवातिबलानागबलाविदारीशतावरीणामुपयोगः। विशेषतस्त्वतिबलामुदकेन, नागबलाचूर्णं मधुना, विदारीचूर्णं वा क्षीरेण, शतावरीमप्येवं, पूर्ब्बेणान्यत् समानमाशिषश्च समाः। एतास्त्वौषधयो बलकामाणां शोणितंछर्दयतां विरिच्यमानानां चोपदिश्यन्ते। वाराहीमूलतुलाचूर्णं कृत्वा ततोमात्रां मधुयुक्तां पयसालोड्य पिबेत् जीर्णे पयःसर्पिरोदनैत्याहारः। प्रतिषेधोऽत्र पूर्ववत् क्रियाप्रयोगमुपसेवमानो वर्षशतमायुरवाप्नोति स्त्रीषु चाक्षयताम्। एतेनैव चूर्णेन पयोऽवचूर्णशृतशीतमभिमथ्याज्यमुत्पाद्य मधुयुतसुपयुञ्जीत सायम्प्रातरेककालं वा जीर्णे पयःसर्पिरोदन इत्याहारः। एवं मासमुपयुज्य वर्षशतायुर्भवति। जीर्णे पयः सर्पिरोदन इत्याहारः। चक्षुःकामः प्राणकामो वा वीजकसाराग्निमन्थमूलं निःक्वाथ्य माषप्रस्थं साधयेत् तस्मिन् सिध्यति चित्रकमूलानामक्षमात्रं कल्कं दद्यादामलकरसचतुर्थभागं ततः स्विन्नमवतार्प्य सहस्रसम्पाताभिहुतं कृत्वा शीतीभूतं मधुसर्पिभ्यां संसृज्योपयुञ्जीत यथाबलं लवणं परिहरन् भक्षयेत् जीर्णे मुद्गामलकयूषेणालवणेन घृतवन्तमोदनमश्नीयात् पयसा वा मासत्रयमेवमाभ्यां प्रयोगाभ्यां चक्षुःसौपर्ण्णवद्भवत्यनल्पबलो बलवान् स्त्रीषु चाक्षयो वर्षशतायुर्भवतीति। भवति चात्र। पयसा सह सिद्धानि नरः सनफलानि यः। भक्षयेत्। पयसा सार्द्धं वयस्तस्य न शीर्य्यते। अथातो मेधायुष्कामीयं रसायनं चिकित्सितं व्याख्यास्यामः! मेधायुःकामः श्वेतवल्गुजफलान्यातपपरिशुष्काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सह समालोढ्य स्नेहकुम्भे सप्तरात्र धान्यराशौ निदध्यात् सप्तरात्रादुद्धृत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेदनुदिते सूर्य्ये उष्णोदकं चानुपिवेत्। भल्लातकविधान- वच्चागारप्रवेशो जीर्णोषधश्चापराह्णे हिमाभिरद्भिः परिषिक्तगात्रः शालीनां षष्टिकानां च पयसा शर्करामधुरेणौदनमश्रीयादेवं षण्मासानुपयुज्य विगतपाष्मा वलवर्णोपेतः श्रुतिमिगादी स्मृतिमानरोगो वर्षशतायुर्भवति। कुष्ठिनं पाण्डुरोगिणमुदरिणं वा कृष्णाया गोर्मूत्रेणालोड्यार्द्धपलिकं पिण्डं विगतलौहित्ये सवितरि पाययेत, अपराह्णे चालवणेनामलकयूषेण सपिर्ष्मन्तमोदनमश्नीयात्। एवं मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति एष एवोपयोगश्चित्रकमूलानां, रजन्याश्चित्रकमूले विशेषो द्विपलिकं पिण्डं परं प्रमाणं शेषं पूर्ववत्। हृतदोष एव प्रतिसंसृष्टभक्तो यथाकममागारं प्रविश्य मण्डूकपर्ण्णीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथाबलं पयसालोड्य पिबेत् पयोऽनुपानं वा तस्यां जीर्णायां यवान्नं पयसोपयुञ्जीत तिलैर्वा सह भक्षयित्वा त्रीन्मासान् पयोऽनुपानं जीर्णे पयः सर्पिरोदन इत्याहारः। एवमुपयुञ्जानः ब्रह्मवर्चसी श्रुतनिगादी भवति वर्षशतमायुरवाप्नोति त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्षयेत्। त्रिरात्रादूर्द्ध्वं पयःसपिरिति चोपयुञ्जीत। विल्वमात्रं पिण्डं वा पयसालोड्य पिबेदेवं दशरात्रमुपयुज्य मेधावी वर्षशतायुर्भवति। हृतदोष एवागारं प्रविश्य प्रतिसंसृष्टभक्तोब्राह्मीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथाबलमुपयुञ्जीत जीर्ण्णौषधश्चापराह्णे यवागूमलवणां पिबेत् क्षीरसात्म्यो वा पयसा भुञ्जीत। एवं सप्तरात्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति। द्वितीयं सप्तरात्रमुपयुज्य ग्रन्थमीप्सितमुत्पादयति। नष्टञ्चास्य प्रादुर्भवति। तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमम्यवधारयति। एवमेकविंशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति मूर्त्तिमती चैनं वाग्देव्यनुप्रविशति सर्वाश्चैनं श्रुतय उपतिष्ठन्ति। श्रुतधरः पञ्चवर्षशतायुर्भवति। ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विडङ्गतण्डुलानां कुडवं द्वे द्वे पले वचात्रिवृतयोर्द्वादश हरीतक्यामलकविभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साधयित्वा स्वनुगुप्तं निदध्यात्। ततः पूर्वविधानेन मात्रां यथाबलमुपयुञ्जीत जीर्णे पयःसर्पिरोदन इत्याहारः। एतेनोर्द्ध्वमधस्तिर्य्यक्कृमयो निःक्रामन्ति अलक्ष्मीरपक्रामति। पुष्करकर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशतायुर्भवत्ये तदेव कुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महाव्याधिषु च संशोधनमादिशन्ति। हृतदोष एवागारं प्रविश्य हैमवत्या वचायाः पिण्डमामलकमात्रमभिहुतं पयसालोड्य पिबेत् जीर्णे पयःसर्पिरोदन इत्याहारः। एवन्द्वादशरात्रमुपयुञ्जीत ततोऽस्य श्रोत्रं विव्रियते द्विरभ्यासात् स्मृतिमान् भवति त्रिरभ्यासाच्छतमादत्ते चतुर्द्धा दशरात्रमुपयुज्य सर्व्वं तरति किल्विषं तार्क्ष्य दर्शनमुत्पद्यते शतायुश्च भवति। द्वे द्वे पले इतरस्या वचाया निःक्वाथ्य पिबेत् पयसा समानं भोजनं समाः पूर्ब्बेणाशिषश्च। वत्ताशतपाकंवा सर्पिर्द्रोणमुपयुज्य पञ्चवर्षशतायुर्भबति गलगण्डापचीश्लीपदस्वरभेदांश्चापहन्तीति।

अथायु कामीयं वक्ष्यामः। मन्त्रौषधसमायुक्तं संवत्सरफलप्रदम्। विल्वस्य चूर्णं पुष्ये तुहुतं वारान् सहस्रशः। श्रीसूक्तेन नरः कल्ये ससुवर्णं दिने दिने। सर्पिर्मधुयुतं लिह्यादलक्ष्मीनाशनं परम्। त्वचं विल्वस्य मूलस्य मूलक्वाथं दिने दिने। प्राश्नीयात् पयसा सार्द्धं स्नात्वा हुत्वा समाहितः। दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत्। हुत्वा विशालाक्वाथन्तु मधुलाजैश्च संयुतम्। अमोघं शतसाहस्रं युक्तं युक्तरथं स्मृतम्। सुवर्णपद्मवीजानि मधुलाजाः प्रियङ्गवः। गव्येन पयसा पीतमलक्ष्मीं प्रतिषेधयेत्। नीलोत्पलदलक्वाथो गव्येन पयसा शृतः। ससुवर्णतिलैः सार्द्धमलक्ष्मीनाशनः स्मृतः। गव्यं पयः सुवर्णञ्च मधूच्छिष्टञ्च माक्षिकम्। पीतं शतसहस्राभिहुतं युक्तरर्थं स्मृतम्। वचाघृतसुवर्णञ्च विल्वचूर्णमिति त्रयम्। मेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्द्धनम्। वासामूलतुलाक्वाथे तैलमावाप्य साधितम्। हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते। यावकांस्तावकान्भक्षेदभिभूय यवांस्तथा। पिप्पलीमधुसंयुक्तान् शिक्षाचरणवद्भवेत्। मध्वामलकचूर्णानि मुवर्णमिति च त्रयम्। प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात्। शतावरीघृतं मम्यगुपयुक्तं दिने दिने। सक्षोद्रं ससुवर्णं च नरेन्द्रं स्थापयेद्वशे। गोचन्दनामोहनिकामधूकं माक्षिकं मधु। सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता। पद्मनीलोत्पलक्वाथे यष्टीमधुकसंयुते। सर्पिरासादितं गव्यं ससुवर्णं सदा पिबेत्। पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे। अलक्ष्मीघ्नं सदायुष्यं राज्याय सुभगाय च। यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने। शब्दिता तत्र सर्व्वत्र गायत्री त्रिपदी भवेत्। पाष्मानं नाशयन्त्येता दद्युश्चौषधयः श्रियम्। कुर्य्युर्नागबलं चापि मनुष्यममरोपमम्। सतताध्ययनं बादः परतन्त्रावलोकनम्। तद्विद्याचार्य्यसेवा च बुद्धिमेधाकरोगणः। आयुष्यं भोजनं जीर्णेवेगानाञ्चाविधा- रणम्। ब्रह्मचर्य्यमहिंसा च साहसानाञ्च वर्जनम्”। एवम् “सद्योमांस नवान्नञ्च वाला स्त्री क्षीरभोजनम्। घृतमुष्णोदकं चैव सद्यः प्राणकराणि षट्” इत्याद्युक्तानि सुश्रुते हिताहितीयाध्याये हिततया चोक्तानि च आयुर्वृद्धिकराणि।

आयुर्वेद = पु० आयुर्विद्यते लभ्यतेऽनेन विद–लाभे करणे घञ् आयुर्वेत्त्यनेन चिह्नज्ञापनेन विद–ज्ञाने करणे घञ् वा। चिकित्साशास्त्रे तन्निरुक्त्यादिकं सुश्रुते दर्शितं यथा। “शल्यं शालक्यमित्यादि अष्टाङ्गशब्दे ५२३ पृष्ठे उक्त मुपक्रम्य “इह खल्वायुर्व्वेदप्रयोजनं व्याध्युपसृष्टानां व्याधिपरिमोक्षः स्वस्थस्य रक्षणञ्च। आयुरस्मिन् विद्यतेऽनेन वा आयुर्व्विन्दतीत्यायुर्वेदः। तस्याङ्गवरमाद्यमागमप्रत्यक्षानुमानोपमानैरविरुद्धमुच्यमानमुपधारय। एतद्ध्यङ्गं प्रथमं प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च। श्रूयते हि यथा रुद्रेण यज्ञस्य शिरश्छिन्नमिति ततो देवा अश्विनावभिगम्योचुः। भगवन्तौ नः श्रेष्ठतमौ युवां भविष्ययः। भवद्भ्यां यज्ञस्य शिरःसन्धातव्यम्। तावूचतुरेवमस्त्विति। अथ तयोरर्थे देवा इन्द्रयज्ञभागेन प्रासादयन्। ताभ्यां यज्ञस्य शिरःसंहितमिति। अष्टास्वपि चायुर्व्वेदतन्त्रेष्वेतदेवाधिकमभिमतमाशुक्रियाकरणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात्सर्व्वतन्त्रसामान्याच्च। तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरञ्चेति। ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे तस्मादश्विनावश्विभ्यामिन्द्र इन्द्रादहं मया त्विह प्रदेय मर्थिभ्यः प्रजाहितहेतोः। भवति चात्र। अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम्। शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहीपदेष्टुम्”। स चार्थर्ववेदस्योपवेदः “विधाताथर्व्वसर्ब्बस्वमायुर्वेदं प्रकाशयन्। स्वनाम्ना संहितां चक्रे लक्षश्लोकमयीमृजुम्” इति भावप्रकाशोक्तेः। चरणव्यूहमते ऋग्वेदस्योपवेदः आयुर्वेदः अथर्ववेदस्य तु शस्त्रशास्त्राण्युपवेदः। स च षोडशर्पिप्रणीतत्वात् षोडशविधः यथोक्तं ब्रह्मवै० पु० “ऋग्यजुः सामाथर्व्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः। विचिन्त्य तेषामर्थं चैवायुर्वेद चकार सः। कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः। स्वतन्त्रं संहितां तस्मात् भास्करश्च चकार सः। भास्करश्च स्वशिष्येभय आयुर्वेदं स्वसंहिताम्। प्रददौ पाठयामास ते चक्रुः संहितास्ततः। तेपां नामानि विदुषां तन्त्राणि तत्कृतानि च। व्याधि- प्रणाशवीजानि साध्वि! मत्तो निशामय। धन्वन्तरिर्द्दिवोदासः काशीराजोऽश्विनीसुतौ। नकुलः सहदेवार्की च्यवनो जनको बुधः। जावालो जाजलिः पैलः करथोऽगस्त्यएव च। एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः। चिकित्सातत्त्वविज्ञानं नाम तन्त्रमनौपमम्। धन्वन्तरिश्च भगवान् चकार प्रथमे सति!। चिकित्सादर्पर्णं नाम दिवोदासश्चकार सः। चिकित्साकौमुदीं दिव्यां काशीराजश्चकार सः। चिकित्सासारतन्त्रञ्च भ्रमघ्नं चाश्विनीसुतौ। तन्त्रं वैद्यकसर्वस्वं नकुलश्च चकार सः। चकार सहदेवश्च व्याधिसिन्धुविमर्द्दनम्। ज्ञानार्णवं महातन्त्रं यमराजश्चकार सः। च्यवनो जीवदानञ्च चकार भगवानृषिः। चकार जनको योगी वैद्यसन्देहभञ्जनम्। सर्वसारं चन्द्रसुतो जावालस्तन्त्रसारकम्। वेदाङ्गसारं तन्त्रञ्च चकार जाजलिर्मुनिः। पैलो निदानं करथस्तन्त्रं सर्वधरं परम्। द्वैधनिर्णयतन्त्रञ्च चकार कुम्भसम्भवः। चिकित्साशास्त्रवीजानि तन्त्राण्येतानि षोडश। व्याधिप्रणाशवीजानि बलाधानकराणि च। मथित्वा ज्ञानमन्थानैरायुर्वेदपयोनिधिम्। ततस्तन्त्राण्युज्जहरुर्नवनीतानि कोविदाः। एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम्। आयुर्वेदं सर्ब्बवीजं सर्व्वं जानामि सुन्दरि!। व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः। एतद्दैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः। आयुर्ब्बेदस्य विज्ञाता चिकित्सासु यथार्थवित्। धर्म्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्त्तितः”। तस्य लक्षणं यथा भा० प्र०। “आयुर्हिताहितं व्याधिनिदानं शमनं तथा। विद्यन्ते यत्र विद्वद्भिः स आयुर्वेद उच्यते” तस्य निरुक्तिस्तत्रैव। “अनेन पुरुषो यस्मात् आयुर्विन्दति वेत्ति च। तस्मान्मुनिवरैरेष आयुर्वेद इति स्मृतः”। “देहजीवयोर्योगोजीवनं तेनावच्छिन्नः काल आयुः आयुर्बोधद्वारा आयुष्याण्यनायुष्याणि द्रव्यगुणकर्म्माणि ज्ञात्वा तेषां सेवनत्यागाभ्याम् आरोग्येणायुर्विन्दति तेनैव हेतुना परस्यायुर्वेत्ति च येन तद्बोधद्वारा स आयुर्वेदः” भा० प्र० अथायुर्वेदवंशप्रादुर्भावस्तावदभिधीयते यथा भावप्र० “विधाताऽथर्व्वसर्वस्वमयुर्वेदं प्रकाशयन्। स्वनाम्नासम्हिताञ्चक्रे लक्षश्लोकमयीमृजुम्। ततः प्रजापतिं दक्षं दक्षं सकलकर्मसु। विधिर्धीनीरधिः साङ्गमायुर्वेदमुपादिशत्। अथदक्षप्रादुर्भावः। अथ दक्षः क्रियादक्षः स्वर्वैद्योदेववल्लभः। वेदयामास विद्वांसौ सूर्य्यांशौ सुरसत्तमौ। अथाश्विनप्रादुभावः “दक्षादधीत्य दस्रौ वितेनतुःसंहितां स्वीयाम्। सकलचिकित्सकलोकप्रतिपत्तिविवृद्धये धन्याम्। स्वयम्भुवः शिरश्च्छिन्नं भैरवेण रुषाथ तत्। अश्विभ्यां सहितं तस्मात्तौ जातौ यज्ञभागिनौ। देवासुररणे देवा दैत्यैर्ये सक्षताः कृताः। अक्षतास्ते कृताः सद्योदस्राभ्यामद्भुतं महत्। वज्रिणोऽभूद्भुजस्तम्भः स दस्राभ्यां चिकित्सितः। सीम्नि निपतिते चेन्द्रस्ताभ्यामेव सुखीकृतः। विशीर्ण्णदशनाः पूष्णोनेत्रे नष्टे भगस्य च। शशिनोराजयक्ष्माऽभूदश्चिभ्यान्ते चिकित्सिताः। भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः। वीर्य्यवर्ण्णस्वरोपेतः कृतोऽश्विभ्यां पुनर्युवा। एतैश्चान्यैश्च बहुभिः कर्म्मभिभिषजां वरौ। बभूवतुर्भृशं पूज्याविन्द्रादीनां दिवौकसाम्। अथेन्द्रप्रादुर्भावः। संदृश्य दस्रयोरिन्द्रः कर्माण्येतानि यत्नवान्। आयु र्वेदं निरुद्वेगं तौ ययाचे शचीपतिः। नासव्यौ सत्यसन्धेन शक्रेण किल याचितौ। आयुर्वेदं यथाधीतं ददतुः शतमन्यवे। नासत्याभ्यामधीत्यैष आयुर्वेदं शतक्रतुः। अध्यापयामास बहूनात्रेयप्रमुखान् मुनीन्। अथात्रेयप्रादुर्भावः। एकदा जगदालोक्य गदाकुलमितस्ततः। चिन्तयामास भगवानात्रेयो मुनिपुङ्गवः। किं करोमि क्व गच्छाभि कथम् लोका निरामयाः। भवन्ति, सामयानेतान्न शक्नोमि निरीक्षितुम्। दयालुरहमत्यर्थं स्वभावो दुरतिक्रमः। एतेषां दुःखतोदुःखं ममापि हृदयेऽधिकम्। आयुर्वेदं पठिष्यामि नैरुज्याय शरीरिणाम्। इति निश्चित्य गतवानात्रेयस्त्रिदशालयम्। तत्र मन्दिरमिन्द्रस्य गत्वा शक्रं ददर्श सः। सिंहासनसमासीनं स्तूयमानं सुरर्षिभिः। भासयन्तं दिशोभासा भास्करप्रतिमन्त्विषा। आयुर्वेदमहाचार्य्यं शिरोधार्य्यं दिवौकसाम्। शक्रस्तु तं निरीक्ष्यैव त्यक्तसिंहासनो ययौ। तदग्रे पूजयामास भृशं भूरितपस्कृशम्। कुशलं परिपप्रच्छ तथाऽऽगमनकारणम्। स मुनिर्वक्तुमारेभे निजागमनकारणम्। व्याधिभिर्व्यथितालोकाः शोकाकुलितचेतसः। भूतले सन्ति, सन्तापं तेषां हर्त्तुं कृपां कुरु। आयुर्वेदोपदेशं मे कुरु कारुण्यतो नृणाम्। तथेत्युक्तः सहस्राक्षोऽध्यापयामास तं मुनिम्। मुनीन्द्र इन्द्रतः साङ्गमायुर्वेदमधीत्य सः। अभिनद्य तमाशीर्भिराजगाम पुनर्म्महीम्। अथात्रेयो मुनिश्रेष्ठो भगवान करुणापरः। सनाम्ना स हितां चक्रेनरचक्रानुकम्पया। ततोऽग्निवेशं भेडंच जातूकर्णं पराशरम्। सीरपाणिं च हारीतमायुर्वेदमपाठयत्। तन्त्रस्य कर्त्ता प्रथममग्निवेशोऽभवत्पुरा। ततोभेडादयश्चक्रुः स्वस्वतन्त्रं, कृतानि तु। श्रावयासुरात्रेयं मुनिवृन्देन वन्दितम्। श्रुत्वा च तानि तन्त्राणि हृष्टोऽभूदत्रिनन्दनः। यथावत्सू त्रितन्तस्मात्प्रहृष्टामुनयोऽभवन्। दिवि देवर्षयोदेवाः श्रुत्वासाध्विति तेऽब्रुवन्”। अथभरद्वाजप्रादुर्भावः “एकदा हिमवत्पार्श्वेवादागताः मुनयोबहवस्तांश्च नामभिः कथयाम्यहम् भरद्वाजोमुनिवरः प्रथमं समुपागतः ततोऽङ्गिरास्ततोगर्गो मरीचिर्भृगुभार्गवौ। पुलस्त्योऽगस्तिरसितोवशिष्ठः सपरा शरः। हारीतोगौतमः सांख्यो मैत्रेयश्च्यवनोऽपि च। जमदग्निश्च गार्ग्यश्च काश्यपः कश्यपोऽपि च। नारदो वामदेवश्च मार्कण्डेयः कपिष्ठलः। शाण्डिल्यः सह कौण्डिल्यः शाकुनेयश्च शौनकः। आश्वलायनसाङ्कृत्यौ विश्वामित्रः परीक्षितः। देवलोगालवोधौम्यः काप्यकात्यायनावुभौ। काङ्कायनो वैजवापः कुशिकोवादरायणिः। हिरण्याक्षश्च लौगाक्षिः शरलोमा च गोभिलः। वैखान साबालखिल्यास्तथैवान्ये महर्षयः। ब्रह्मज्ञानस्य निधयो यमस्य नियमस्य च। तपन्तस्तेजसा दीप्ताहूयमाना इवाग्नयः। सुखोपविष्टास्ते तत्र सर्वे चक्रुः कथामिमाम्। धर्म्मार्थकाम मोक्षाणां मूलमुक्तं कलेवरम्। तच्च संसिद्धये शक्तं भवेद्यदि निरामयम्। तपःस्वाध्यायधर्माणां ब्रह्मचर्यव्रतायुषाम्। हर्त्तारः पुरतीरोगा यत्र तत्र च सर्वतः। रोगाःकार्श्यकराबलक्षयकरादेहस्य चेष्टाहरा दृष्ट्यादीन्द्रियशक्तिसंक्षयकराः सर्वाङ्गपीडाकराः। धर्म्मार्थाखिलकाममुक्तिषु महाविघ्नस्वरूपाबलात्प्राणानाशु हरन्ति सन्ति यदि ते क्षेमं कुतः प्राणिनाम्। तत्तेषां प्रशमाय कश्चन विधिश्चिन्त्योभवद्भिर्बुधैर्योग्यैरित्यभिधाय संसदि भरद्वाजं मुबुभ्तेऽब्रुवन्। त्वं योग्यी भगवन्! सहस्रनयनं याह्येहि शीघ्रंक्रमादायुर्वेदमधीत्य यद्गदभयान्मुक्ता भवामोवयम्। इत्थं स मुनिभिर्योग्यैः प्रार्थितो विनयान्वितैः। भरद्वाजो मुनिश्रेष्ठोजगाम त्रिदशालयम्। तत्रेन्द्रभवनं गत्वा सुरर्षिगणमध्यगम्। दृष्टवान् वृत्रहन्तारं दीप्यमानमिवानलम्। सोऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम्। ऋषीणां वचनं सम्यक् श्रावयामास सत्तमः। व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः। तेषां प्रशमनोपायं यथावद्वक्तुमर्हसि। तमुवाच मुनिं साङ्गमायुर्वेदं शतक्रतुः। जीवेद्वर्षसहस्राणि देही नीरुङ्गिशम्य यम्। सोऽनन्तपारन्त्रिस्कन्धमायुर्वेदं महामतिः। यथावदचिरात्सर्वं बुबुधे तन्मना मुनिः। तेनायुः सुचिरं लेभे भरद्वाजो निरामयम्। अन्यामपि मुनींश्चक्रे नीरुजः सुचिरायुषः। तत्तन्त्रजनितज्ञानचक्षुषा ऋषयोऽखिलाः। गुणान् द्रव्याणि कर्माणि दृष्ट्वा तद्विधिमाश्रिताः। आरोग्यं लेभिरे दीर्घमायुश्च सुखसंयुतम्। आयुर्वेदोक्तविधिनाऽन्येऽपि स्युर्मुनयो यथा”।

अथ चरकप्रादुर्भावः “यदा मत्स्यावतारेण हरिणा वेद उद्धृतः। तदा शेषश्च तत्रैव वेद साङ्गमवाप्तवान्। अथर्वान्तर्गतं सम्यगायुर्वेदं च लब्धवान्। एकदा स महीवृत्तं द्रष्टुं चर इवागतः। तत्र लोकांन् गदैर्ग्र स्तान्व्यथया परिपीडितान्। द्रुमान् स्थलेष्वपुष्पाढ्यान् म्रियमाणांश्च दृष्ट वान्। तान् दृष्ट्वा तु दयायुक्तस्तेषां दुःखेन दुःखितः। अनन्तश्चिन्तयामास रोगोपशमकारणम्। संचिन्त्य स स्वयं तत्र मुनेः पुत्रो बभूव ह। यतश्चर इवायातोन जातः केनचिद्यतः। तस्माच्चरकनाम्नाऽसौ विख्यातः क्षितिमण्डले। स भाति चरकाचार्यो देवाचार्यो यथा दिवि। सहस्रवदनस्यांशो येन ध्वंसोरुजां कृतः। आत्रेयस्य मुनेः शिष्या अग्निवेशादयोऽभवन्। मुनयो बहवस्तैश्च कृतं तन्त्रं स्वकं स्वकम्। तेषां तन्त्राणि संस्कृत्य समाहृत्य विपश्चिता। चरकेणात्मनो नाम्ना ग्रन्थोऽयं चरकः कृतः। अथ धन्वन्तरिप्रादुर्भावः। एकदा देवराजस्य दृष्टिर्न्निपतिता भुवि। तत्र तेन नरा दृष्टा व्याधिभिर्भृशपीडिताः। तान् दृष्ट्वा हृदयं तस्य दयया परिपीडिंतम्। दयार्द्रहृदयः शक्रो धन्वन्तरिमुवाच ह। धन्वन्तरे! सुरश्रेष्ठ। भगवन्! किञ्चिदुच्यते,। योग्योभवसि भूतानामुपकारपरोभव। उपकाराय लोकानां केन किं न कृतं पुरा। त्रैलोक्याधिपतिर्विष्णुरभून्मत्स्यादिरूपवान्। तस्मात्त्वं पृथिवीं याहि काशीमध्ये नृपोभव। प्रतीकाराय रोगाणामायुर्वेदं प्रकाशय। इत्युक्त्वा सुरशार्द्दूलः सर्वभूतहितेप्सया। समस्तमायुषोवेदं धन्वन्तरिमुपादिशत्। अधीत्य चायुषोवेदमिन्दाद्धन्वन्तरिः पुरा। आगत्यपृथिवीं काश्यां जातोबाहुजवेश्मनि। नाम्ना ततोऽभवत् ख्यातोदिवोदास इति क्षितौ। बालएव विरक्तोभूच्चचार च महत्तपः। यत्नेन महता ब्रह्मा तं काश्यामकरोन्नृपम्। ततो धन्वन्तरिर्लोकैः काशीराजोऽभिधीयते। हिताय देहिनां स्वीया संहिता विहिताऽमुना। अयं विद्यार्थिनो लोकान् संहितां तामपाठयत्”। अथ सुश्रुतप्रादुर्भावः। अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽवदन्। अयं धन्वन्तरिः काश्यां काशीराजोय उच्यते। विश्वामित्रो मुनिस्तेषु पुत्रं सुश्रुतमुक्तवान्। वत्स वाराणसीं गच्छ विश्वेशवरवल्लभाम्। तत्र नाम्ना दिवोदासः काशी- राजोऽस्ति बाहुजः। स हि धन्वन्तरिः साक्षादायुंर्यदविदांवरः। आयुर्वेदं ततोऽधीष्व लोकोपकृतिहेतवे। सर्वप्राणिदयातीर्थमुपकारोमहामखः। पितुर्वचनमाकर्ण्य सुश्रुतः काशिकाङ्गतः। तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ। अथ धन्वन्तरिं सर्वे वानप्रस्थाश्रमे श्रितम्। भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम्। काशीराजं दिवोदासन्तेऽपश्यन् विनयान्विताः। स्वागतं च इति स्माह दिवोदासोयशोधनः। कुशलं परिपप्रच्छ तथाऽऽगमनकारणम्। ततस्ते सुश्रुतद्वारा कथयामासुरुत्तरम्। भगवन्मानवान्दष्ट्वा व्याधिभिः परिपीडिहीतान्। क्रन्दतोम्रियमाणांश्च जातास्माकं हृदि व्यथा। आमयानां शमोपायं विज्ञातुं वयमागताः। आयुर्वेदं भवानस्मानध्यापयितुमर्हति। अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत्। व्याख्यातं तेन ते यत्नाज्जगृहुर्मुनयोमुदा। काशीराजं जयाशीर्भिरभिनन्द्य मुदान्विताः। सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम्। प्रथमं सुश्रुतस्तेषु स्वतन्त्रं कृतवान् स्फुटम्। सुश्रुतस्य सखायोऽपि पृथक् तन्ताणि तेनिरे। सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः। तस्मात्तत् सुश्रुतं नाम्ना विख्यातं क्षितिमण्डले” चरके तु आयुर्वेदनिरुक्तिस्तत्प्रणेतृवंशोऽन्यथाभ्यधायि यथा “ब्रह्मणा हि यथा प्रोक्तमायुर्वेदं प्रजापतिः। जग्राह निखिलेनादावश्विनौ तु पुनस्ततः। अश्विभ्यां भगवान् शक्रः प्रतिपेदे ह केवलम्। ऋषिप्रोक्तोभरद्वाजस्तस्माच्छक्रमुपागमत्” ब्रह्मादिभारद्वाजान्तवंशमुक्त्वा ततो यथा भरद्वाजस्य प्राप्तिस्तदपि तत्रैवोक्तम्। यथा कतिचिन्मु नीनुपक्रम्य “ब्रह्मज्ञानस्य निधयोयमस्य नियमस्य च। तपसस्तेजसादीप्ताहूयमाना इवाग्नयः। सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम्। धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्। रोगास्तस्यापहन्तारः श्रेयसीजीवितस्य च। प्रादुर्भुतोमनुष्याणामन्तरायोमहानयम्। क स्यात्तेषां शमोपायैत्युक्त्वा ध्यानमास्थिताः। अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा। स वक्ष्यति शमोपायं यथावदमरप्रभुः। कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम्। अहमर्थे नियुज्येयमत्रेति प्रथमं वचः। भरद्वाजोऽब्रर्वत्तस्मादृषिभिः स नियोजितः। स शक्रभवनं गत्वा सुरर्षिगणमध गम्। ददर्श बलहन्तारं दीप्यमानमिवातलम्। सोभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम्। प्रोवाच भगवान्धीमान् ऋषीणां वाक्यमुत्तमम्। व्याधयोहि समुत्पन्नाः सर्वप्रणिभयङ्कराः। तद्ब्रूहि मे शमोपायं यथाब्दभरभो!। तस्मैप्रोवाच भगवानायुर्वेदं शतक्रतुः। पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये। हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्। त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः। सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः। यथावदचिरात् सर्व्वं वुबुधे तन्मना मुनिः। तेनायुरमितं लेभे भरद्वाजः सुखान्वितम्। ऋषिभ्योऽनधिकं तन्तु शशासानवशेषयन्। ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम्। दीर्घमायुश्चिकीर्षन्तो वेदं वर्द्धनमायुषः। तेनर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा। सामान्यञ्च विशेषञ्च गुणान् द्रव्याणि कम च। समवायञ्च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः। लेभिरे परमं शर्म जीवितञ्चाप्यनश्चरम्। अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्व्वसुः। शिष्येभ्योदत्तवान् षड्भ्यः सर्वभूतानुकम्पया। अग्निवेशश्च भेडश्च जातूकर्णः पराशरः। हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः। बुद्धेर्व्विशेषस्तत्रासीन्नोपदेशान्तरं, मुनेः। तन्त्रस्य कर्त्ता प्रथममग्निवेशोयतोऽभवत्। अथ भेडादयश्चक्रुः स्वं स्वं तन्त्रं। कृतानि च। श्रावयामासुरात्रेयं सर्षिसङ्घं मुमेधसः। श्रुत्वा च सूत्रमर्थानामृषयः पुण्यकर्मणाम्। यथावत् सूत्रितमिति प्रहृष्टास्तेऽनुमेनिरे”। एवमायुर्वेदवंशमुक्त्वा तस्य निरुक्तिस्तत्र दर्शिता यथा “हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्। मानञ्च तच्च यत्रोक्तमायुर्वेदः सौच्यते। शरीरेन्द्रिसत्त्वादिसंयोगधारिजीवितम्। नित्यगश्चानुबन्धश्च पर्य्यायैरायुरुच्यते। तस्यायुषः पुण्यतमो वेदो वेदविदां मतः। वक्ष्यते यन्मुष्याणां लोकयोरुभयोर्हितः”। एवं बहूनामायुर्वेदानां सत्त्वेऽपि तेषां विरलप्रचारतया लुप्तप्रायत्वात् सुश्रुतचरकयोर्लोके प्रचाराच्च तत्रत्यविषयास्तावत् संक्षेपेणोच्यन्ते। तत्र सुश्रुतस्यायुर्वेदस्याष्टाङ्गत्वम् तच्च अष्टाङ्गशब्दे ५२३ पृष्ठे शल्यं शालक्यमित्यादि दर्शितम्। तच्छास्त्रस्य प्रयोजनं रोगचिकित्सा सा च पुरुषविषयैवेति पुरुषस्वरूपतदुत्पत्तिगर्भादिक्रमेणाभिधाय तदीयशरीरसंस्थानं रोगनिदानरोगोपशमनद्रव्यादि दीनि क्रमेणोक्तानि। तदेतत् संक्षेपेण सुश्रुते उक्तम् “अस्मिन् शास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुषः इत्युच्यते। यस्मिन् क्रिया सोऽधिष्ठानम्, कस्मात्? लोकस्य द्वैविध्यात्। लोको हि द्विविधः स्थावरो जङ्गमश्च। द्विविधात्मक एवाग्नेयः सौम्यश्च तद्भूयस्त्वात् पञ्चात्मको वा। तत्र चतुर्व्विधो भूतग्रामः स्वेदजाण्ड ऊओद्भिज्जजरायुजसंज्ञः। तत्र पुरुषः प्रधानं तस्योपक- रणन्यत्। तस्मात्पुरुषोऽधिष्ठानम्। तद्दुःखसंयोगा व्याधय इत्युच्यन्ते। ते चतुर्व्विधा आगन्तवः शारीरा मानसाः स्वाभाविकाश्चेति। तेषामागन्तवोऽभिघातनिमित्ताः। शारीरास्त्वन्नपानभूला वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः। मानसास्तु क्रोधशोकभयहर्ष विषादेर्ष्याभ्यसूयादैन्यमात्सर्य्यकामलोभप्रभृतयैच्छाद्वेषभेदैर्भवन्ति। स्वाभाविकाः क्षुत्पिपासाजरामृत्युनिद्राप्रभृतयः। त एते मनःशरीराधिष्ठानाः। तेषां संशोधनसंशमनाहाराचाराः सम्यक् प्रयुक्ताः निग्रहहेतवः। प्राणिनां पुनर्मूलमाहारी बलवर्णौजसाञ्च। स षट्सु रसेष्वायत्तो रसाः पुनर्द्रव्याश्रयाः। द्रव्याणि पुनरोषधयस्ताः द्विविधाः स्थावरा जङ्गमाश्च। तासां स्थावराश्चतुर्व्विधाः। वनस्पतयो वृक्षा वीरुध ओषधय इति। तास्वपुष्पाः फलवन्तो वनस्पतयः। पुष्पफलवन्तो वृक्षाः। प्रतानवत्यः स्तम्बिन्यश्च वीरुधः। फलपाकनिष्ठा ओषधय इति। जङ्गमास्त्वपि चतुर्विधा जरायुजाण्डजस्वेदजोद्भिज्जाः। तत्र पशुमनुष्यव्यालादयो जरायुजाः। खगसर्पसरीसृपप्रभृतयोऽण्डजाः। कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः। इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः। तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्य्यासस्वरसादयः प्रयोजनवन्तो जङ्गमेभ्यश्चर्म्मनखरोमरुधिरादयः। पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः। कालकृतास्तु प्रवातनिवातातपच्छायाज्योत्स्नातमः शीतोष्णवर्षाहोरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः। त एते स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च। भवन्ति चात्र। शारीराणांविकाराणामेष वर्गश्चतुर्व्विधः। चये कोपे शमे चैव हेतुरुक्तश्चिकित्सकैः। आगन्तवश्च ये रोगास्ते द्विधा निपतन्ति हि। मनस्यन्ये शरीरेऽन्ये तेषान्तु द्विविधा क्रिया। शरीरपतितानान्तु शारीरवदुपक्रमः। मानसानान्तु शब्दादिरिष्टो वर्गः सुखावहः। एवमेतत्पुरुषो व्याघिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम्। तत्र पुरुषग्रहणात्तत्सम्भवद्रव्यसमूहोभूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मांसुसिरास्नायुप्रभृतयः। व्याधिग्रहणा द्वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व्व एव व्याधयो व्याख्याताः। ओषधिग्रहणात् द्रव्यगुणरसवीर्य्यविपाकप्रभावाणामादेशः। क्रियाग्रहणाच्छेद्यादीनि स्नेहादीनि च कर्म्माणि व्याख्यातानि। कालग्रहणात्सर्व्व- क्रियाकालानामादेशः। भवति चात्र। वीजं चिकित्सितस्यैतत्समासेन प्रकीर्त्तितम्। सविंशमध्यायशतमस्य व्याख्या भविष्यति। तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु। तत्र सूत्रस्थाननिदानशारीरचिकित्सितकल्पेष्वर्थवशात्संविभज्योत्तरे तन्त्रे शेषानर्थान् व्याख्यास्यामः”। चरके तु त्रिस्कन्दमित्युक्तम् तच्च हेतुलिङ्गौषधरूपस्कन्धत्रयं बोध्यम्। अयञ्चायुर्वेद अष्टादशविद्यान्तर्गतः। “आयुर्वेदो धनुर्वेदो गान्धर्व्वश्चेति ते त्रय” इति ५२५ पृष्ठे अष्टादशविद्याशब्दे उक्तबाक्यात्। अस्मिन् शास्त्रे द्विजानामेवाधिकारोनान्येषां यथाह सुश्रुतः। “अथातः शिष्योपनयनीयमध्यायं व्याख्यास्यामः। ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयःशीलशौर्य्य शौचाचारविनयशक्ति बलमेधाधृतिस्मृतिमतिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृजुवक्त्राक्षिनासं प्रसन्नचित्तवाक्चेष्टं क्लेशसहञ्च भिषक् शिष्यमुपनयेत्। अतो विपरीतगुणं नोपनयेत्”। विप्रेण वैश्यकन्यायामुत्पन्नस्याम्बष्ठस्यापि द्विजधर्म्मतया उपनयनादिसंस्कारवत्त्वात् “अम्बष्ठस्य चिकित्सितम्” इति मनूक्तेश्च अत्राधिकार इति भेदः। तत्रायं विवेकः द्विजमात्राणां चिकित्सितेऽधिकारेऽपि तत्रत्यवृत्तिग्रहणे तु तेषां निन्द्यतैव। “पूयं चिकितसकस्यान्नमिति” मनुना निन्दितत्वात्। अम्बष्ठानां तु तद्वृत्तौ दोषाभावः मनुना “सूतानामश्वसारथ्यमम्बष्ठस्य चिकित्सितम्” इत्यनेन तेषां चिकित्सावृत्तिकत्वेनाभिधानात अम्बष्ठस्य च यथोपनयनेऽधिकारस्तथाऽम्बष्ठशब्दे ३२८ पृष्ठे निरूपितम्। अतएव“भिषक् केशवनन्दनः। वोपदेवश्चचारेदं विप्रोवेदपदास्पदम्”। विप्रवोपदेवस्य पितुः केशवस्य भिषक्त्वं स्वयमेव तेनोक्तम्। तस्य निन्दितत्वे तन्नोच्येत इति द्रष्टव्यम्। अन्यत्र चायुर्वेदस्य चतुर्व्यूहत्वमुक्तं रोगरोगनिदानरोगनिवृत्तितदुपायरूपविषयचातुर्विध्यात्। “सचायुर्वेदः नरगजाश्वगोवृक्षाधिकारभेदेन पञ्चविधः तत्र नरायुर्वेदः चरकसुश्रुतादिर्लोकप्रसिद्धः गजायुर्वेदोऽश्वायुर्वेदोऽपि शालिहोत्रकृतः तयोश्च लोके प्रचाराभावात् अग्निपुराणतः समुदृद्धृत्यात्रतौ दर्श्येते तत्र गजायुर्वेदो यथा “गजलक्ष्म चिकित्सां च लोमपाद! वदामि ते” इत्युपक्रम्य “पाकलेषु तु सर्वेषु कर्त्तव्यमनुवासनम्। घृततैलपरीपाकं स्थानं वातविवर्जितम्। स्कन्धेषु च क्रिया कार्य्या तथा पाकलवन्नृप।। गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतं व्विज।। आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते। लवणैः पञ्च- भिर्मिश्रा प्रतिपानाय वारुणी। विडङ्गत्रिफलाव्योससैन्धवैः कबलान् कृतान्। मूर्च्छासु भोजयेन्नागं क्षौद्रतोयञ्चपाययेत्। अभ्यङ्गः शिरसः शूले नस्यञ्चैव प्रशस्यते। नागानां स्नेहकटुकैः पादरोगानुपक्रमेत्। पश्चात्कल्ककषायेण शोधनञ्च विधीयते। शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः। रसैः समर्पयेन्नागं वेंपथुर्यस्य जायते। बालं विल्वं तथा लोध्रं धातकी सितया सह। अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः। नस्यं करग्रहे देयं घृतं लवणसंयुतम्। मागधीनागराजाजीयवागूर्मण्डु कान्विताः। उत्कर्ण्णके तु दातव्यो वाराहश्च तथारसः। दशमूलकुलत्थाश्वकाकमाचीविपाचितम्। तैलप्राशनसंयुक्तं गलग्रहगदापहम्। अष्टाभिर्लवणैः पिष्टैः प्रसन्नं पाययेद्घृतम्। मूत्रलंशेखरावीजं कथितं त्रपुषस्य च। त्वग्दोषेषु पिबेच्चैवं वृषं वा क्वथितं द्विपः। गवां मूत्रविडङ्गानि कृमिकेष्वेषु शस्यते। शृङ्गवेरकणाद्राक्षाशर्कराभिः शृतं पयः। क्षतक्षयकरं पानं तथा मांसरसः शुभः। अक्षोदनं व्योषयुतमरुचौ तु प्रशस्यते। त्रिवृद्व्योसाग्निदन्त्यर्कश्यामाक्षीरेभपिपपली। एतैर्गुल्महरः स्नेहः कृतश्चैव तथा रसः। भेनद्रावणाभ्यङ्गस्नेहपानानुवासनैः। सर्वानेव समुत्पन्नान् विद्रवान् समुपाहरेत्। षष्टिकं मुद्गयूषेण सारदेन तथा पिबेत्। बालविल्वैस्तथा लेपः कुट्यरोगे प्रशस्यते। विडङ्गेन्द्रयवौ हिङ्गु सबलं रजनीद्वयम्। पूर्वाह्णे पाययेत् पिण्डान् सर्वशूलोपाशान्तये। प्रधानभोजने तेषां षष्टिकव्रीहिशालयः। मध्यमौ यवगोधूमौ शेषा दन्तिनि चाधमाः। यवश्चैव तथैवेक्षुर्नागानां बलवर्द्धनः। नागानां यवसं शुष्कं तथा वात प्रकोपणम्। मदक्षीणस्य नागस्यपयः पानं प्रशस्यते। दीपनीयैस्तथा द्रव्यैः शृतोमांसरसस्ततः। वायसः कुरभश्चोभौ काकोलूककुलाहविः। भवेत् क्षौद्रेणसंयुक्तं पिण्डोयुद्धे मदाय हि। कटुमस्या विडङ्गानि क्षीरकोषातकीपयः। हरिद्रा चेति धूमोऽयं कुञ्जरस्य जयावहः। पिप्पली तण्डुलास्तैलं माध्वीकं माक्षिकन्तथा। नेत्रयोः परिषेकोऽयं दीपनीयः प्रशस्यते। पुरीषं च कषायाश्च तथा पारावतस्य च। क्षीरवृक्षकरीरश्च प्रसन्नायेष्टमञ्जनम्। अनेनाञ्जितनेत्रस्तु करोति कदनं रणे। उत्पलानि च नीलानि मुस्तं तगरमेव च। तण्डुलोदकपिष्टानि नेत्रनिर्वापणं परम्। नखवृद्धौ नखच्छेदः तैलसेकश्च मास्यपि। शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा। शरन्निदा- घयोः सेकः सर्पिषा च तथाप्यति”। इति गजायुर्वेदः

अथाश्वायुर्वेदः तत्रैव “अश्ववाहनसारं च वक्ष्येऽश्वस्य चिकित्सितम्” इत्युपक्रम्य “वृषो निम्बवृहत्यौ च गुडुची च समाक्षिका। सिंहानकहरी पिण्डीस्वेदश्च शिरसस्तथा। हिङ्गुपुष्करमूलञ्च नागरं साम्लवेतसम्। पिप्पलीसैन्धवयुतं शूलघ्नमुष्णवारिणा। नागराऽतिविषा मुस्ता सानन्ता विल्वमालिका। क्वाथमेषां पिबेद्वाजी सर्व्वातीसारनाशनम्। प्रियङ्गुलोध्रमधुभिः पिबेद्वृषरसं हयः। क्षीरं वा पञ्चकोलाद्यं कासनाद्विप्रमुच्यते। विष्कन्नेषु च सर्व्वेषु श्रेय आदौ विशोषणम्। अभ्यङ्गावर्तनिस्नेहनस्यवर्त्तिक्रमःस्मृतः। त्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः। लोध्रकरञ्चयोर्मूलं मातुलाङ्गाग्निनागराः। कुष्ठं हिङ्गुवचारास्ना लेपोऽयं शोथनाशनः। मञ्जिष्ठा मधुकं द्राक्षावृहत्यौ रक्तचन्दनम्। त्रपुषीवीजमूलानि शृङ्गाटककशेरुकम्। अजापयःशृतमिदं सशीतं शर्करान्वितम्। पीत्वा निरशनोवाजी रक्तमेहात् प्रमुच्यते। मन्याहनुनिगालस्थशिरः शेफोगलग्रहः। अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते। प्रत्यक्पुष्पी तथा वह्निः सैन्धवं सौरसो रसः। कृष्णाहिङ्गुयुतैरेभिः कृत्वा नस्यं न सोदति। निशे ज्योतिष्मतो पाठा कृष्णकुष्ठं वचामधु। जिह्वास्तम्भे च लेपोऽयं गुडमूत्रयुतोहितः। तिलैर्यष्ट्या रजन्या च निम्बपत्रैश्च योजिता। क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी। अभिघातेन खञ्जन्ति येऽप्यश्वास्तीव्रवेदनाः। परिषेकक्रिया तेषां तैलेनाशु रुजापहा। दोषकायाभिघाताभ्यां तनुजे लिङ्गिते तथा। शान्तिर्मत्स्याम्बुवस्ताभ्यां पक्वमन्नमथ क्रमात्। अश्वत्थोडुम्बर प्लक्षमधूकवटवल्कलैः। प्रभूतनलिकाक्वाथः सुखोष्णो व्रणशोधनः। शताह्वा नागरं रास्नामञ्जिष्ठाकृष्णसैन्धवैः देवदारुवचायुग्मरजनीरक्तचन्दनैः। तैलं सिद्धं कषायेण गुडुच्या पयसा सह। म्रक्षणं वस्तिनस्ये च योज्यं सर्व्वत्र लिङ्गिते। रक्तस्रावो जलौकाभिर्नेत्रान्ते पित्तरोगिणः। खादिरोडुम्बराश्वत्थकषायेण च साधितम्। धात्रीदुरालभातिक्ताप्रियङ्गुकुसुमैःसर्मः। गुडुच्या च कृतः क्वाथः कल्कोयुक्तो विलम्बिते। उत्पाते शिशिरे श्राव्ये मुष्कशोथे तथैवच। क्षिप्रकारिणि दोषे च सद्योवेधनमिष्यते। गोशकृत्सर्ज्जिकाकुष्ठरजनीतिलसर्षपैः। गवां मूत्रेण पिष्टैश्च मर्द्दनं कण्डुनाशनम्। शीतोमधुयुतः क्वाथो नासिकायां सशर्करः। रक्तपित्तहरः पानादश्वकण्डोस्तथैव च। सप्तमे सप्तमे देयमश्वानां लवणं दिने। तथा भुक्त- वतां देया अतिपाते तु वारुणी। जीवनीयैः समधुरैर्मृद्वीकाशर्करायुतैः। सपिपिप्लीकैः शरदि प्रति पानं सपद्मकैः। विडङ्गपिप्पलीधान्यशताह्वालोध्र सैन्धवैः। सचित्रकैस्तुरङ्गाणां प्रतिपानं हिमागमे। लोध्रप्रियङ्गुकायुक्ता पिप्पली विश्वभेषजैः। सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम्। प्रियङ्गुपिप्पलीलोघ्रयष्ट्याह्वैः समहौषधैः। निदाघे सगुडा देया मदिरा प्रतिपानके। लोध्रकाष्ठं सलवणं पिप्पल्योविश्वभेषजम्। भवेत्तैलयुतैरेभिः प्रातिपानं घनागमे। निदाघेऽर्द्धकृताहाराः शरत्सु पुष्टशोणिताः। प्रावृडिभन्नपुरीषाश्च पिबेयुर्वाजिनोघृतम्। पिबेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये। स्नेहव्यापद्भवो येषां तेषां कार्य्यं विरूक्षणम्। त्र्यहं यवागूरूक्षा स्याद्भोजनं तक्रसंयुतम्। शरन्निदाघयोः सर्पिस्तैलं शीतवसन्तयोः। वर्षासु शिशिरे चैव वस्तौ यमकमिष्यते। गुर्व्वभिष्यन्दिभक्तानि व्यायामं स्नानमातपम्। वायुर्वर्षञ्च वाहस्य स्नेहनीयस्य वर्ज्जयेत्। स्नानं पानं सकृत्द्दृष्टमश्वानां सलिलागमे। अत्यर्थं दुर्दिने काले पानमेकं प्रशस्यते। युक्तं शीतातपे काले द्विः पानं प्लवनं सकृत्। ग्रीष्मे त्रिः स्नानपानं स्याच्चिरं तस्यावगाहंनम्। निस्तुषाणाम्प्रदातव्या यवानाञ्चतुराढकी। चणकव्रीहिमौद्गाणां, कलायान् वापि दापयेत्। अहोरात्रेण वाहस्य यवसस्य तुला दश। अष्टौ शुष्कस्य दातव्या चतस्रोऽथ वुषस्य वा। दूर्व्वा पित्तं, यबः कासं, वुषश्च श्लेष्मसंज्ञकम्। नाशयत्यर्जुनःश्वासं, तथा शालिर्बलक्षयम्। वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः। न रोगा पीडयिष्यन्ति दूर्व्वाहारं तुरङ्गमम्। द्वौ रज्रुबन्धौ दुष्टानां पक्षयोरुभयोरपि। पश्चाद्बन्धश्च कर्त्तव्यो दूरकीलव्यपाश्रयः। वसेयुस्त्वास्तृतेस्थाने कृतधूपनभू मयः। घनोपन्यस्तयवसाः सप्रदीपाः सुरक्षिताः। कृतबन्धाश्च कपयोधार्य्याश्चाश्वगृहे मृगाः” इत्यश्वायुर्वेदः अधिकं जयदत्तकृतेऽश्वशास्त्रे दृश्यम्।

अथ गवायुर्वेदः अग्निपु० “गवाम्माहात्म्यमुक्तं हि चिकित्साञ्च तथा शृणु” इत्युपक्रम्य। “शृङ्गामयेषु धेनूनां तैलं दद्यात् ससैन्धवम्। शृङ्गवेरबलामांसीकल्कसिद्धं समाक्षिकम्। कर्णमूलेषु शूलेषु मञ्जिष्ठाहिङ्गुसैन्धवैः। सिद्धं तैलं प्रदातव्यं रसोनेनाथ वा पुनः। विल्वमूलमपामार्गो धातकी च सपाटला। कुटजं दन्तमूलेषु लेपोहृच्छूलनाशनः। दन्तशूलहरैर्द्रव्यैर्घृतं वापि विपाचितम्। मुखरोगहरं ज्ञेयं जिह्वारोगेषु सैन्धवम्। शृङ्गवेरं हरिद्रे द्वे त्रिफला च गलग्रहे। हृच्छूले वस्तिशूले च वातरोगक्षये तथा। त्रिफला घृतमिश्रा च गवां पाने प्रशस्यते। अतीसारे हरिद्रे द्वे पाठाञ्चैव प्रदापयेत्। सर्वेषु कोष्ठरोगेषु तथा सास्नागतेषु च। शृङ्गवेरञ्च भार्गीं च कासश्वासे च दापयेत्। दातव्या भग्नसन्धाने प्रियङ्गुर्लवणान्विता। तैलंवातहरं पित्ते मधुयष्टिविपाचितम्। कफे व्योषञ्च समधु संपिष्टकरजोऽस्रजे। तैलाज्यं हरितालञ्च भग्नक्षतघृतं ददेत्। माषास्तिलाः सगोधूमाः पशुक्षीरं घृतन्तथा। एषां पिण्डी सलवणा वत्सानां पुष्टिदा त्वियम्। बलप्रदा वृषाणां स्यात् ग्रहनाशाय धूपकः। देवदारुवचामांसीहिङ्गुगुग्गुल् सर्षपाः। ग्रहादिगदनाशाय एष धूपोगवां हितः। घण्टाचै व गवां कार्य्या धूपेनानेन धूपिता। अश्वगन्धातिलैः शुक्लै स्तेन गौः क्षीरिणी भवेत्”। इति गवायुर्वेदः

अथ वृक्षायुर्वेदस्तत्रैव “वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः। प्राग्वटोयाम्यतश्चाम्र आप्येऽश्वत्थः क्रमेण तु। दक्षिणादिसमुत्पन्नाः समीपे कण्टकिद्रुमाः। उद्यानं गृहवामे स्यात्तिलानप्यथ पुष्पितान्” इत्युपक्रम्य “अरिष्टाशोकपुन्नागाः शिरीषाः सपियङ्गवः। अशोककदलीजम्बुस्तथा बकुलदाडिमाः। सायं प्रातस्तु घर्मान्ते शीतकाले दिनान्तरे। वर्षर्त्तौ तु भुवः शोषेसेक्तव्या रोपिताद्रुमाः। उत्तमं विंशतिर्हस्ता मध्यमं षोडशान्तरम्। स्थानात् स्थानान्तरं कार्य्यं वृक्षाणां द्वादशान्तरम्। विफलाः स्युर्घनावृक्षाः शस्त्रेणादौ हि शोधनम्। विडङ्गघृतपक्वाक्तान् सेचयेच्छोतवारिणा। फलनाशे कुलत्थैश्चमार्षैर्मुद्गैर्यवैस्तिलैः। शृतशीतपयःसेकः पहलपुष्पाय सर्व्वदा। आविकाजशकृन्मूत्रं यवचूर्ण्णं तिलानि च। गोमांसमुदकञ्चेति सप्तरात्रं निधापयेत्। तत्सेकः सर्ववृक्षाणां फलपुष्पादिवृद्धिदः। मत्स्याम्भसाऽवसेकेन वृद्धिर्भवति शाखिनः। विडङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदम्। सर्वेषामविशेषेण वृक्षाणां रोगमर्द्दनम्”। वृहत्संहितोक्तो वृक्षायुर्वेद आरामशब्दे दृश्यः। आयुर्वेदमधीते वेद वा उक्था० ठक्। आयुर्वेदिकः आयुर्वेदाभिज्ञे त्रि०। आयर्वेदे साधु कथा० ठक्। आयुर्वेदिकः आयुर्वेदे साधौ त्रि०।

आयुर्वेदमय = पु० आयुर्वेदेन प्रचुरः प्राचुर्य्ये मयट्। धन्वन्तरौ।

आयुर्वेदिन् = त्रि० आयुर्वेदोवेद्यतया विद्यतेऽस्य इनि। आयुर्वेदाभिज्ञे चिकित्साशास्त्रस्य वेत्तरि वैद्ये।

***