आभिरूपक = न० अभिरूपस्य भावः मनो० वुञ्। सौन्दर्य्ये
आभिरूप्य = न० अभिरूपस्य भावः ष्यञ्। सौन्दर्य्ये “आभिरूप्याच्च विम्बानां देवः सन्निध्यदृच्छति” हय० रा०।
आभिषिक्त = त्रि० अभिषिक्तमभिषेकः तेन निर्वृत्तः सङ्का० अञ्। अमिषेकनिर्वृत्ते।
आभिषेचनिक = त्रि० अभिषेचनं राज्याभिषेकः प्रयोजनमस्य ठञ् राजाभिषेकसाधने द्रव्यभेदे “आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्। भरतस्तदवाप्नोतु” भा० व० २७५ अ०। तत्रत्यद्रव्यदिविधानानि” भा० शा० प० ४० अ० पुराकल्पव्याजेनोक्तानि यथा “ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम्। ददृशुर्धर्मराजानमादाय बहुमङ्गलम्। पृथिवीञ्च सुवर्णञ्च रत्नानि विविधानि च। आभिषेचनिकं भाण्डं सर्वसम्भारसम्भृतम्। काञ्चमौदुम्बरास्तत्र राजताः पृथिवीमयाः। पूर्णाः कुम्भाः सुमनसोलाजा वर्हींषि गोरसम्। शमीपिप्पलपालाशसमिधो मधुसर्पिषी। स्रुव औदुम्बरः शङ्खस्तथा हेमविभूषितः। दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्य पुरोहितः। प्रागुदक्प्लवने वेदीं लक्षणेनोपलिख्य च। व्याघ्रचर्म्मोत्तरे शुक्ले सर्वतोभद्र आसने। दृढपादप्रतिष्ठाने हुताशनसमत्विषि। उपवेश्य महात्मानं कृष्णाञ्च द्रुपदात्मजाम्। जुहाव पावकं धीमान् विधिमन्त्रपुरस्कृतम्। ततौत्थाय दाशार्हः शङ्खमादाय पूजितम्। अभ्यषिञ्चत्पतिं पृथ्व्याः कून्तीपुत्रं युधिष्ठिरम्। धृतराष्ट्रश्च राजर्षिः सर्व्वाः प्रकृतयस्तथा। अनुज्ञातीऽथ कृष्णेन भ्रातृभिः सह पाण्डवः। पाञ्चजन्याभिषिक्तश्च राजाऽमृतमुखोऽभवत्। ततोऽनु वादयामासुः पणवानकदुन्दुभीन्। धर्म्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्म्मतः। पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः। ततो निष्कसहस्रेण ब्राह्मणान् स्वस्ति वाचयन्। वेदाध्ययनसम्पन्नान् धृतिशीलसमन्वितान्”। एतानि द्रव्यादीनि राजाभिषेचनिकानि ज्ञेयानि अधिकं राजाभिषेकशब्दे वक्ष्यते स्त्रियां ङीप्। अभिषेचनमधिकृत्य कृतोग्रन्थः ठक्। अभिषेकाधिकारेण कृते २ भारतान्तर्गते अवान्तरपर्वभेदे “आभिषेचनिकं पर्व्वधर्म्मराजस्य धीमतः” भा० आ० १ अ०। अभिषेचनं स्नानं प्रयोजनमस्य ठञ्। ३ स्नानार्थे विधाने तत्रत्ये ४ द्रव्यमन्त्रादौ च स्मानविभाग पूर्वकं तत्रत्यद्रव्यविधान मन्त्रा उच्यन्ते। तत्र स्नानं तावत् सप्तविधम्” मान्त्रंभौमं तथाग्नेयं वायव्यं दिव्यमेव च। वारुणं मानसं चैव सप्त स्नानान्यनुक्रमात्। “आपोहिष्ठादिभिर्मान्त्रम् मृदालम्भश्च पाथिवम्। आग्नेयं भस्मना स्नानं वायव्यं रजसा कृतम्। अद्भिरातववर्षाभिः स्नानं तद्दिव्यमुच्यते। वारुणञ्चावगाहश्च मानसं विष्णुचिन्तनम्” योगिया० तत्र विशेषस्तनैवोक्तः” “शन्न आपस्तु द्रुपदा आपोहिष्ठाघमर्षणम्। एतैस्तु पञ्च भिर्मन्त्रैर्मन्त्रस्नानं तदुच्यते” मन्त्राणां समुच्चयोविकल्पोवा शक्त्यपेक्षया। तत्र वारुणं स्नानं मुख्यमसामर्थ्ये अन्यानि स्नानानि “स्नानं तु द्विविधं प्रोक्तं गौणमुख्यप्रमेदतः। तयोस्तु वारुणं मुख्यं तत्पुनः षड्विघं स्मृतम्। नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम्। क्रियास्नानं तथा ष्ठं षोढा स्नानं प्रकीर्त्तितम्” व्यासोक्तेः तत्र नित्यादीन्यनुपदं वक्ष्यन्ते। “असामर्थ्याच्छरीरस्य देश कालाद्यपेक्षया। मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः जा० स्मृ०। “गृहेऽपि च द्विजातीनां मन्त्रवत् स्नानमिष्यते। विधिलोपं न ते कुर्य्युः सामर्थ्ये सति कर्म्मसु” जैमि० स्मृ० “अल्पत्वाद्धोमकालस्य बहुत्वात् स्नानकर्म्मणः प्रातर्न तनुयात् स्नानं होमलोपोविगर्हितः” कात्या० स्मृ०। “प्रातः संक्षेपतः स्नानं शौचार्थं तु तदिष्यते। मन्त्रै स्तु विधिनिष्पाद्यं मध्याह्ने तु सविस्तरम्” वशि०। अत्यन्ताशक्तौ। “अशिरस्यं भवेत्स्नानं स्नानाशक्तौ तु कर्म्मिणाम्। आर्द्रेण वाससा वापि मार्जनं कापिलं विदुः। कृताभिमन्त्रितैस्तोयैः प्रोक्षयेन्मूर्द्ध्नि सर्व्वतः। अनुकल्पमिदं स्नानं सर्व्वपापहरं नृणाम्” जावा० स्मृ०। एकवाससाऽपि स्नानं कर्त्तृं शक्यते “एकेन वाससा स्नायाद्द्वाभ्यामनियमः स्मृतः। बहुवासोनिषेधश्च स्नाने फलमभीप्सतः” विष्णूक्तेः नैकवासाः क्रियां कुर्य्यात् स्नानं कर्म्म विना क्वचित्” तदुक्तेश्च “अस्पृश्यस्पर्शने चैव वार्त्तायां पुत्रजन्मनि। एतद्द्विवाससा कार्य्यमन्यत्रैकेन वाससा” वसि० “न नग्नोनान्यदीयेन नार्द्रेण नसूच्याग्रथितेन न विकृतेन च स्नायात्” इत्याचारतिलकः। तत्र नित्यं प्रातःस्नानम्, “प्रातः समाचरेत् स्नानं तच्च नित्यमिति स्मृतम्” मार्क० पु०। चन्द्रसूर्य्योपरागे अशौचादौ अस्पृश्यस्पर्शने च स्नानं नैमित्तिकम्। “पुष्येऽर्के जन्मनक्षत्रे व्यतीपाते च वैधृतौ। अमायाञ्च नदीस्नानं पुनात्या सप्तमात् कुलम्” इत्याद्युक्त स्नानं काम्यम्। धर्म्म्कर्म्म कर्त्तुं यत् पूर्ब्बस्नानं तत्क्रियाङ्गम्। “मलापकर्षणं नाम स्नानमभ्यङ्गपूर्ब्बकम्। मलापकर्षणायैव तत्प्रवृत्तिस्तु नान्यथा।” तत्र स्नानविधिश्च आश्व० गृ० परि० उक्तः यथा। “अथ स्नानविधिस्तत्प्रातर्सध्याह्ने च गृहस्थः कुर्यादेकतरत्र वा प्रातरेव, ब्रह्मचारी यतिस्त्रिषु सवनेषु द्विः त्रिर्वा वानप्रस्थः। तत् प्रातः सहगोमयेन कुर्यान् मृदा मध्यन्दिने साय” शुद्धाभिरद्भिः। न प्रातःस्नानात् प्राक्सन्ध्यामुपासीत प्रातरुत्सृष्टं गोमयमन्तरिक्षस्थं सङ्गृह्य भूनिष्ठं वोपर्यधश्च संत्यक्तं तीर्थमेत्य धौतपादपाणिमुख आचम्य सन्ध्योक्तवदात्माभ्युक्षणादि च कृत्वा द्विराचम्य दर्भपाणिः संयतप्राणः कर्म सङ्कल्प्य गोमयं वीक्षितमादाय सव्ये पाणौ कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणं भागं प्रणवेन दिक्षु विक्षिप्योत्तरं तीर्थे क्षित्वा मध्यमं “मानस्तोक” इत्यृचाभिमन्त्य्र “गन्धद्वाराम्” इत्यनया मूर्द्धादिसर्वाङ्गमालिप्य प्राञ्जलिः “वरुणं हिरण्यशृङ्गमिति” द्वाभ्याम् “अव ते हेड” इति द्दाभ्यां “प्रसम्राजे वृहदु चेति” सूक्तेन प्रार्थ्य “हिरण्यशृङ्गं वरुणं पप्रद्ये तीर्थं मे देहि याचितः। यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः। यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम्। तन्न इन्द्रो वरुणो वृहस्पतिः सविता च पुनन्तु पुनः पुनः” इत्यथ “याः प्रवतो निवत उद्वत” इत्येतया तीर्थमभिमृश्यावगाह्य स्नातो द्विराचम्य मार्जयेत् अम्बयोयन्त्यध्वभिः” इत्यष्टाभिः “आपोहिष्ठेति” च नवभिरथ तीर्थमङ्गुष्ठेन” “इमं मे गङ्ग” इत्यृचा त्रिः प्रदक्षिणमालोड्य प्रकाशपृष्ठमग्नौ अघमर्षणसूक्तं त्रिराबर्त्य निमज्योन्मज्यादित्यमालोक्य द्वादशकृत्व आप्लुत्य पाणिभ्यां शङ्खमुद्रया योनिमुद्रया वोदकमादाय मूर्ध्नि मुखे बाह्वोरुरसि चात्मानङ्गायत्र्याभिषिच्य “त्वन्नो अग्ने वरुणस्य विद्वानिति” द्वाभ्यात् “तरत्समन्दीधातीति” च सूक्तेन पुनः स्नायान्मूर्ध्नि चाभिषिञ्चेत् “तद्विष्णोः परमम्पदम् “अग्नेरक्षाणो अंहसो यत्किञ्चेदं वरुणदेव्ये जने” इत्येता जपेत्, स्रोतोऽभिमुखः सरित्सु स्नायादन्यत्रादित्याभिमुखोऽथ साक्षताभिरद्भिः प्राङ्मुख उपवीती दैवतीर्थेन व्याहृतिभिर्व्यस्तसमस्ताभिर्ब्रह्मादीन्देवान् सकृत्सकृत्तर्पयित्वाथोदङ्मुखः निवीती सयवाभिरद्भिः प्राजापत्येन तीर्थेन कृष्णद्वैपायनादीन् ऋषींस्ताभिर्व्याहृतिभिर्व्यस्ताभिस्तर्पयित्वाथ दक्षिणाभिमुखः प्राचीनावोती पितृतीर्थेन सतिलमद्भिर्व्याहृतिभिरेव सोमः पितृमान् यमो अङ्गिरस्वानग्निस्वत्ताः कव्यवाहन इत्यादीं स्त्रींस्त्रींस्तर्पयेदेतत्स्नानाङ्गतर्पणमथ तीरमेत्य दक्षिणाभिमुखः प्राचीनावीती “ये के चास्मत्कुले जाता अपुत्रागोत्रिणो मृताः। ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकमिति वस्त्रं निष्पीड्य यज्ञोपवीत्यप उपस्पृश्य परिधानीयमभ्युक्ष्य परिधाय द्वितीयञ्चोत्तरीयं पर्युक्षितं प्रावृत्य द्विराचामेदथोक्तसन्ध्यामुपासीतेदं प्रातः स्नानविधानम्। अथ मध्यन्दिने तीर्यमेत्य धौतपाणिपादमुखो द्विराचम्यायतप्राणः स्नानं सङ्कल्प्य दर्भपवित्रपाणिः शुचौ देशे खनित्रेण भूमिङ्गायत्र्यस्त्रेण खात्वोपरिमृदञ्चतुरङ्गुलमुद्वाय तखास्ताम्मुदं तथा खात्वा गायत्र्यादाय गर्तमुद्वासितया मृदा परिपूर्य मृदमुपात्तां शुचौ देशे तोरे निधाय गायत्र्या प्रोक्ष्य तच्छिरसा त्रेधा विभज्यैकेन मूर्ध्न आनाभेरपरेण चाधस्तादङ्गमनुलिप्याप्स्वाप्लुत्य क्षालयित्वादित्यन्निरीक्ष्य तं ध्यायन् स्नायादेतन्मलस्नानमाहुरथ तीरे द्विराचम्य तृतीयमस्त्रेणादाय सव्ये पाणौ कृत्वा व्याहृतिभिस्त्रेधा विभज्य दक्षिणभागमस्त्रेण दिक्षु दशसु विनिक्षिप्योत्तरन्तीर्थे क्षित्या तृतीयङ्गायत्र्याभिमन्त्रितमादित्याय दर्शयित्वा तेन मूर्ध्न आपादात् गायत्र्या प्रणवेन वा सर्वाङ्गमनुलिप्य “सुमित्रियान आप ओषधयः सन्त्विति” सकृदद्भिरात्मानमभिषिच्य “दुर्मित्र्यास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयन्द्विष्म” इति मृच्छेषमद्भिः क्षालयेदथ वरुणप्रार्थना तर्पणान्तेनोक्तेन विधिना स्नायात्। नास्मिन् प्राक् ब्रह्मयज्ञतर्पणद्वस्त्रं निष्पीडयेदपुत्रादयो ह्य्न्ते तर्प्या इत्येष स्नानविधिस्तदेतदसम्भवेऽद्भिरेव कुर्याद्भौमदिनादिषु च न गृहे मृदा स्नायान्न च शीतोदकेन शीतोष्णोदकेन गृहे स्नायान्मन्त्रविधिं वर्जयेद्बहिर्वा शुचौ देशे सर्वं पश्चात्कुर्यादिति। अथाशक्तस्य मन्त्रस्नानं शुचौ देशे शुचिराचान्तः प्राणानायम्य दर्पाणिः सव्ये पाणावपः कृत्वा तिसृभिरापो हिष्ठीयाभिः पछः प्रणवपूर्वं दर्भोदकैर्मार्जयेत्। पादयो र्मूर्ध्नि हृदये मूर्ध्नि हृदये पादयोर्हृदये पादयोः मूघ्नि चाथार्धर्चशो मूर्ध्नि हृदये पादयोर्हृदये पादयोर्मूर्ध्नि चाथ ऋक्शो हृदये पादयोर्मूर्ध्नि चाथ तृचेन मूर्ध्नीति मार्जयित्वा गायत्र्या दशधाभिमन्त्रिता अपः प्रणवेन पीत्वा द्विराचामेदेतन्मन्त्रस्नानम्”। शाखिभेदेनान्थविधविधानं तत्तत्सूत्रेषु दृश्यम्। ततश्च स्मृत्याद्युक्तद्रव्याणां तत्रत्य मन्त्राणां तद्विधानानाञ्चाभिषेचनिकत्वं बोध्यम् कर्म्मान्ते ५ यजमानाभिषेकार्थे मन्त्रे च। ते च मन्त्राः वैदिकाः पौराणिकाश्च। तत्र मन्त्रास्तु मत्कृततुलादानादिपद्धतौ २०६ पृष्ठादौ दृश्याः। पौराणिकतान्त्रिकतत्तत्कर्म्मस्वधिकारसिद्ध्यर्थस्याभिषेकस्य साधने ६ मन्त्राद। ७ तद्द्रव्यभेदे ८ तद्विधाने च तत्र पौराणिकाभिषेकद्रव्यविधानादि “शिबमन्त्राभिषेकं यः कुर्य्याच्छिष्यादिकश्रिये” इत्यारभ्य “अस्त्ररक्षाभिषेक” इत्यन्तेन अग्निपुराणे दर्शितम्। शाक्ताभिषेकद्रव्यविधानानि च तन्त्रे ज्ञेयानि। ९ रुद्राभिषेक द्रव्ये १० तद्विधाने च तद्द्यव्यविधानादि च विधानपारिजाते रुद्रकल्पपद्धतौ च दृश्यम् ११ देवाभिषेकादिसाधनद्रव्यादौ
आभिहारिक = त्रि० अभिमुख्येन हारः अभिहारः प्रयोजनमस्य तत्र साधुर्वा ठञ्। अभिहारसाधने उपढौकनीये (भेटी) इति जगतीप्रसिद्धे द्रव्ये।
आभीक = न० अभीकेन दृष्टं साम अण्। अभीकर्षिदृष्टे साममेदे “आभीकमभिनिधनमाभीशवानि चैके कात्या० २५, १४, १५। एके आचार्य्या आभीकाद्यान्यपि सामान्यावपन्ति” कर्क०।
आभीक्ष्ण्य = न० अभीक्ष्णस्य भावः ष्यञ्। सातत्ये पौनःसुन्ये आभीक्ष्ण्यञ्च अविच्छेदेनैकरूपक्रियोत्पादनम्। “नित्यवीप्सयोः” पा० सूत्रे “आभीक्ष्ण्ये वीप्सायाञ्च द्योत्ये” सि० कौ०। “वहुलमाभीक्ष्ण्ये” पा० “आभीक्ष्ण्येणमुल्” पा०। “जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्त्तारं चाभिदधाति” पा० ग० सू०।
आभीर = पु० समन्तात् भियं राति रा–क। गोपे सङ्कीर्ण्ण जातिभेदे स हि अल्पभोतिहेतोरप्यधिकं बिभेतीतितस्य तथात्वम् “आभीरवाममयनाहृतमानसाय दत्तं मनोयदुपते! तदिदं गृहाण” उद्भटः स च सङ्कीर्ण्णवर्ण्णः। “ब्राह्मणा दुग्रकन्यामावृतोनाम जायते। आभोरोऽम्बष्टकन्यायामायोगव्यान्तु धिग्वणः” इति मनूक्तः। “श्रीकोङ्कणादधोभागे तापीतः पश्चिमे तटे। आभीरदेशोदेविशि! विन्ध्य शैले व्यवस्थित” इति शङ्क्तिसङ्गम० उक्ते २ देशभेदे ३ तद्देशवासिनि ४ तद्देशराजे च ब० व०। “एकादशकलधारि कविकुलमानसहारि। इदमाभीरमवेहि जगणमन्त्र्यमनुधेहि” इत्युक्तलक्षणे ५ मात्रावृत्तभेदे न०।
आभीरपल्लि(ल्ली) = स्त्री ६ त० वा ङीप्। गोपप्रधाने ग्रामे घोषे (गोयालपाडा)।
आभीरी = स्त्री आभीरस्य पत्नी आभीरजातिर्वा स्त्री ङीप्। १ आभीरभार्य्यायाम् २ गोपजातिस्त्रियां महाशूद्र्याम्।
आभील = न० समन्तात् भयं लाति ददाति ला–क। १ कष्टे २ दुःखे ३ भयानके तदस्यास्ति अच्। ४ तद्वति त्रि० “आभीलानि प्राणिनः प्रत्यवश्यन्” माघः। “रात्रौ निशाशे साभीले गतेऽर्द्धसमयै नृप” इति भा० व० प० ११ अ०।
आभीशव = अभीशुना दृष्टं साम–अण्। सामभेदे “आभीकमभिनिधनमाभीशवानि चैके” कात्या० २५, १४, १५। “आभीकाद्यानि सामान्यावपन्ति” कर्कः।
आभु = त्रि० समन्तात् भवतिआ + भू–डु। विभौ व्यापके “तुच्छेनाभ्वपिहितं यदासीत्” ऋ० १०१२९, ३। “आभुव्यापकम्” भा० क्विप् आभूरप्यत्र “आमूभिरिन्द्रः श्नथयन्ननाभुवः” ऋ० १, ५१, ९।
आभुग्न = त्रि० आ + भुज कर्म्मकर्त्तरि क्त तस्य नः। १ आकुञ्चिते २ ईषद्वक्रे।
आभूति = स्त्री आ + भू–क्तिन्। व्याप्तौ “आभूतिरेषा भूतिः” ऐ० उ०
आभेरी = स्त्री रागिणीभेदे हलायुधः।
आभोग = पु० आ + भुज–आधारे घञ्। परिपूर्णतायां, यस्य यावदपेक्षितं रूपं तत्पूर्णत्वे हि आभोगाधारतेति तस्य तथात्वम्। “अकथितोऽपि ज्ञायत एव यथायमाभोगस्तपोवनस्येति” शकु० “पर्व्वताभोगवर्ष्माणमतिकायं महाबलम्” भा० व० १७८ अ० “कृदभिहितो भावो द्रव्यवत् प्रकाशते” इति भाष्योक्तेः आभोगवत्पर्वततुल्यदेहमित्यर्थः। “यत्रैव कविनाम स्यात् स आभोग इतीरितः” इति सङ्गीतदामोदरोक्ते गानसमाप्तौ (भणिता) ख्याते २ कविनामख्यापने। आभुज्यतेऽनेन करणे घञ्। ३ यत्ने यत्नादिनैव हि भोगः सम्यग् सम्पद्यते इति यत्नस्य तथात्वम्। “ना सुखोऽयं नवाभोगोधरणिस्थीहि राजसः” किरा० “नवाभोगः अभिनवोत्साहः” मल्लि० सम्यक् भोगः प्रा० स०। ४ सम्यक्सुखाद्यनुभवे “विषयाभोगेषु नैवादरः” शान्तिलक्ष्म। ५ वरुणस्य छत्रे च मेदि०।
आभोगय = त्रि० आभोगं याति या–क। आपूर्ण्णे “आभोगयं प्रयदिच्छन्त ऐतनापाकाः प्राञ्चो मम केचिदापयः” ऋ० १, ११०, २।
आभोगि = त्रि० आभोगं करोति आभोग + णिच्–इन्। विषयाभोगकारके “जिह्मश्ये चरितवे मघोन्याभोगय इष्टये” ऋ० १, ११३, ५।
आभोगिन् = त्रि० आभोगोऽस्त्यस्य इनि। परिपूर्ण्णे स्त्रियां ङीप्
आभ्यन्तर = त्रि० अभ्यन्तरे भवः अण्। मध्यवर्त्तिनि “कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते!” भा० स० प० ५ अ०। “वर्ण्णोच्चारणे, प्रयत्नो द्विधा आभ्यन्तरोबाह्यश्च आद्यश्चतुर्द्धा स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम् विवृतमूष्मणां स्वराणाञ्च ह्रस्वस्यावर्णस्य प्रयोगे संवृतं प्रक्रियादशायान्तु विवृतमेव” सि० को०। “एतेषाञ्चाभ्यन्तरत्वं वर्णोत्पत्तेः प्राग्भावित्वात् “तथा हि नाभिप्रदेशात् प्रयत्नविशेषप्रेरितः प्राणवायुः ऊर्द्ध्वमाक्रामन्नुरः प्रभृतीनि स्थानान्याहन्ति ततो वर्णस्य तद्गभिव्यञ्जकध्वनेर्वोत्पत्तिः तत्रोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानि वर्णोत्पत्तिस्थानं ताल्वादि यदा सन्यक् स्पृशन्ति तदा स्पृष्टता, ईषत्स्पर्शे ईषत्स्पृष्टता, समीपावस्थाने संवृतता, दूरावस्थाने विवृतता। अतएव इचुयशानां तालव्यत्वाविशेषेऽपि चवर्गे उच्चारयितव्ये जिह्वाग्रस्य तालुस्थानेन सम्यक्स्पर्शः, यकारे ईषत्स्पर्शः, शकारे, समीपेऽवस्थानम् इवर्णे तु दूरेऽवस्थानम्” मत्कृतसरला।
आभ्यवहारिक = त्रि० अभ्यवहाराय हितं ठक्। भोजनयोग्ये अन्नादौ।
आभ्यागारिक = त्रि० अभ्यागारे तत्स्थकुटुम्बाभरणे व्यापृथः ठक्। कुटुम्बभरणव्यापृते हेम०।
आभ्यादायिक = न० आभिमुख्येनादानमभ्यादानं तत्र नियुक्तः ठक्। पितृमातृकुलादिप्राप्ते स्त्रीधनभेदे।
आभ्यासिक = त्रि० अभ्यासे निकटे भवः ठक्। १ निकटस्थिते “अल्पैश्चाभ्यासिकैर्यु क्तं शुशुभे योधरक्षितम्” भा० आ० २७६ अ०। अभ्यासात् पौनःपुन्यात् आगतः ठक्। २ अभ्यासप्राप्ते दृढसंस्कारादौ।
आभ्युदयिक = न० अभ्युदयः प्रयोजनमस्य ठक्। २ वृद्धिनिमित्ते श्राद्धभेदे तत्र छन्दोगानामाभ्युयिकश्राद्धविधिर्गोभिलसूत्रछन्दोगपरिशिष्टयोरुक्तः यथा। गोभिलः। “अथाभ्युदयिके श्राद्धे युग्भानाशयेत्। प्रदक्षिणमुपचारः ऋजवो दर्भाः यवैस्तिलार्थः सम्पन्नमिति तृप्तिप्रश्नः दधिबदराक्षतमिश्राः पिण्डाः नान्दीमुखाः पितरः प्रीयन्तामिति दैवे वाचयित्वा नान्दीमखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च प्रीयन्तां, न खधाञ्च प्रयुञ्जीत” इति। “आध्युदयिके अभ्युदयनिमित्तके अभ्युदय इष्टलाभः विवाहादिः तदर्थं श्राद्धं आभ्युदयिकम्। तच्च भूतभविष्यद्भेदेन द्विविधं तत्र भूतं पुत्रजन्मादि भविष्यद्विवाहादि एवञ्च श्राद्धविवेकादो श्राद्धभेदगणने वृद्धिश्राद्धत्वेन कर्म्माङ्गत्वेन च यदुभयत्वमुक्तं तदुभयमेवाभ्युदयिकत्वेनोपपन्नं तेनाभिलापे आभ्युदयिकश्राद्धमिति प्रयोज्यम्। तत्र यवैस्तिलार्थैत्यनेन पार्वणश्राद्धप्राप्ततिलस्थाने यवविधानादाभ्युदयिकस्यापि पार्व्वणप्रकृतिकत्वं प्रतीयते। अन्यथा तिलार्थैत्युपादानं व्यर्थं स्यात्। ततश्च पार्वण्णप्रकृतिकत्वेन पितृपक्षेऽयुग्मब्राह्मणप्राप्तौ तन्निरासाय पितृपक्षे ब्राह्मणयुग्मत्वोपदेशः। दैवे युग्मत्वस्य पार्व्वणत्वेन प्राप्तत्वान्न तदर्थोपदेशः “अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम्” इति याज्ञवल्क्यवचनेन देवकर्म्मानन्तरं पितृकर्म्मकरणे प्राप्तवामोपचारनिरासाय प्रदक्षिणमुपचारस्तेन दैवपितृकर्म्मकरणाय दक्षिणावर्त्तेन गन्तव्यम्। द्विगुणभुग्नत्वनिरासाय ऋजवोदर्भा इति ऋजुत्वोपदेशः। तृप्ताः स्थ इत्यनेन तृप्तिप्रश्ने सम्पन्नमिति प्रष्टव्यं योग्यत्वात् सम्पन्नमिति प्राप्ते वक्ष्यमाणच्छन्दोगपरिशिष्टवचनाच्च सुसम्प्रन्नमित्यु- त्तरम्। एतद्दर्भमयब्राह्मपक्षेऽप्यबावितत्वाद्वाच्यम्। दधिबदराक्षतमिश्राइत्यनेन दध्यादिमिश्रणमावश्यकम्। अक्षतोयवः “अक्षताश्च यवाः प्रोक्ता भृष्टा धाना भवन्ति ते” इति भट्टनारायणधृतकोषात् अतएव वक्ष्यमाणच्छन्दोगपरिशिष्टवचनेऽक्षतमनुक्त्वा “संयोज्य यवकर्कन्धूदधिभिरिति” निःसन्दिग्धमुक्तम्। स्वधावाचनप्रश्ननिवृत्तये नान्दीमुखाः पितरः प्रीयन्तामित्युपदेशः। तत्र स्वधां वाचयिष्य इति पितृपक्षएवप्रश्नः। अतएवतन्निवृत्तये दैव इति। देवपक्षे नान्दीमुखाः पितरः प्रीयन्तामिति प्रश्नः। उत्तरञ्च प्रीयन्तामिति। ततः पितृपक्षे स्वधावाचनस्थानीयत्वेन वृद्धप्रमातामहे यश्चेति चकारनिर्द्देशेन च स्वधोच्यतामितिवत् प्रत्येकमेव प्रीयन्तामिति पृच्छेत्। प्रत्युत्तरञ्च अस्तु स्वधेति वत् तन्तेणैव प्रीयन्तामिति। अत्र नान्दीमुखाः पितरैत्यादि नान्दीमुखेभ्यः पितृभ्यः इति निर्देशेन च “नान्दीमुखं पितृगणमिति” विष्णुपुराणेन च “मातामहेभ्यश्च तथा नान्दीमुखेभ्य एव चेति” ब्रह्मपुराणे च नान्दीमुखपदश्रुतेस्तद्विशेषणविशिष्टस्यैवाभ्युदयिके देवत्वात्वं ततश्चात्रापि प्रीयन्तामितिवन्नान्दीमुखेभ्यः प्रपितामहेभ्य इत्यादि वाच्यम्” श्रा० त० रघु०। छन्दोग० “कर्मादिषु तु सर्वेषु मातरः सगणाधिपाः। पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः। प्रतिमासु च शुभ्रासु लिखिता वा पटादिषु। अपि वाक्षतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः। कुड्यलग्नां वसोर्धारां सप्त वारान् घृतेन तु। कारयत् पञ्च वारान् वा नातिनीचां नचोच्छ्रितम। आयुष्मानिति शान्त्यर्थं जत्वा तत्र समाहितः। षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्। वशिष्ठोक्तकिधिः कृत्स्नोद्रष्टव्योऽत्र निरामिषः। अतःपरं प्रवक्ष्यामि विशेष इह यो भवेत्। प्रातरामन्त्यितान् विप्रान् युग्मानुभयतस्तथा। उपवेश्य कुशान्दद्यात् ऋजूनेव हि पाणिना” तथा “निपातोन हि सव्यस्य जानुनो विद्यते क्वचित्। सदा परिचरेद्भक्त्या पितृनप्यत्र दैववत्। पितृभ्य इति दत्तेषु उपवेश्य कुशेषु तान्। गोत्रनामभिरामन्त्र्य पितॄनर्घ्यं प्रदापयेत्। नात्रापसव्यकरणं न पित्र्यं तीर्थमिष्यते। पात्राणां पूरणादीनि दैवेनैव तु कारयेत्। ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रप्रवित्रकान्। कृत्वार्घ्यं सम्प्रदातव्यं नैकैकस्यात्र दीयते। मधुमध्विति यस्तत्र त्रिर्जपोऽशितुमिच्छनाम्। गायत्र्यनन्तरं सोऽत्र मधुमन्त्रविवर्ज्जितः। नचाश्नत्सु जपेदत्र कदाचित् पितृसंहि- ताम्। अन्यएव जपः कार्य्यः सोमसामादिकः शुभः। प्रकारोऽन्नस्य यस्तत्र तिलवद्यववत्तथा। उच्छिष्टसन्निधौ सोऽत्र तृप्तेषु विपरीतकः। सम्पन्नमिति तृप्ताः स्मः प्रश्नस्यानु विधीयते। सुसम्पन्नमितिप्रोक्ते शेवमन्नं निवेदयेत्। प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत्। अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः। द्वितोयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः। मातामहप्रभृतींस्तु एतेषामेव वामतः। सर्वस्मादन्नमुद्धृत्य व्यञ्जनैरुपसिच्य च। संयोज्य यवकर्कन्धूदधिभिः प्राङ्मुस्वस्थितः। अवनेजनवत् पिण्डान् दत्त्वा विल्वप्रमाणकान्। तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेत्। उत्तरोत्तरदानेन पिण्डानामुत्तरोत्तरम्। भवेदधश्चाधरणामधोऽधः श्राद्धकर्म्मसु। तस्मात् श्राद्धेषु सर्वेषु वृद्धिमत्स्वितरेषु च। मूलमध्याग्रदेशेषु ईषत्सक्तांश्च निर्वपेत्। गन्धादीन्निः क्षिपेत् तूष्णीं तत आचामयेत् द्विजान्। अन्यत्राप्येषएव स्यात् यवादिरहितो विधिः। दक्षिणाप्लवने देशे दक्षिणाभिमुखस्य तु। दक्षिणाग्रेषु दर्भेषु एषोऽन्यत्र विधिः स्मृतः। अथाग्रभूमिमासिञ्चेत् सुसुप्रोक्षितमस्त्विति। शिवा आपः सन्त्विति च युग्मानेवोदकेन च। सौमनस्यमस्त्विति च पुष्पदानमनन्तरम्। अक्षतञ्चारिष्टञ्चास्त्वित्यक्षतानपि दापयेत्। अक्षय्योदकदानन्तु अर्घ्यदानवदिष्यते। षष्ठ्यैव नित्यं तत् कुर्य्यान्न चतुर्थ्या कदाचन। प्रार्थनासु प्रतिप्रोक्ते सर्वास्वेव द्विजोत्तमैः। पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपात्रकृत्। युग्मानेव स्वस्तिवाच्यानङ्गुष्ठग्रहणं सदा। कृत्वा धूर्य्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः”। अत्र षड्भ्य इति कीर्त्तनं छन्दोगानां मातृपक्षनिरासार्थम् अन्यवेदिनां तु मातृपक्षाधिक्यमत्रास्ति “मातृश्राद्धं तु पूर्ब्बं स्यात् पितॄणां तदनन्तरम्। ततो मातामहानाञ्च वृद्धौ वृद्धौ भवेत् तथा” श्रा० त० शातातपोक्तेः
कुत्र कुत्राभ्युदयिकं कर्त्तव्यं तद्दर्शितं नि० सि० ब्राह्मे “जन्मन्यथोपनयने विवाहे पुत्रकस्य च। पितॄन्नान्दीमुखान्नाम तर्पयेद्विधिपूर्ब्बकम्। वेदव्रतेषु चाधान यज्ञपुंसवनेषु च। नबान्नभोजने स्नाने ऊढायाः प्रथमार्तवे। देवारामतडागादिप्रतिष्ठासूत्सवेषुच। राजाभिषेके बालान्नभोजने वृद्धिसंज्ञकान्। वनस्थाद्याश्रमं गच्छन् पूर्ब्बेद्युःस्वधया पितृन्। पूर्बोक्तविधिना सम्यक् तर्पयेत् कर्मसिद्धये”। विष्णुपुराणे “यज्ञोद्वाहप्रतिष्ठासु मेखलाबन्धमोक्षयोः। पुत्रजन्मवृषोत्सर्गे वृद्धिश्राद्धं समाचरेत्” बह्वृचकारिका- याम् “स्यादाभ्युदयिकं श्राद्धं वृद्धियुक्तेषु कर्मसु। पुंसवनसीमन्तचौलोपनयनेष्विह। विवाहे चानलाधेयप्रभृतिश्रौतकर्मणि। इदं श्राद्धं प्रकुर्वन्ति द्विजा वृद्धिनिमित्तकम्। अन्यैः षोडशसंस्कारसरण्यादिष्वपीष्यते। वाप्याद्यु द्यापनादौ तु कुर्युः पूर्त्तनिमित्तकम्” वोपदेवकालादर्शौ “सोमन्तव्रतचौलनामकरणान्नप्राशनोपायनस्नानाथानविवाहयज्ञतनयोत्पत्तिप्रतिष्ठासु च। पुंसूत्यावसथप्रवेशनसुताद्यास्यावलोकाश्रमस्वीकारक्षितिपाभिषेकदयिताद्यर्त्तौ च नान्दीमुखम्” श्राद्धकौमुद्यां निर्णयामृते च मात्स्ये “अन्नप्राशे च सोमन्ते पुत्रोत्पत्तिनिमित्तके। पुं सवे च निषेके च नववेश्मप्रवेशने। देववृक्षजलादीनां प्रतिष्ठायां विशेषतः। तीर्थयात्रावृषोत्सर्गे वृद्धिश्राद्धं प्रकीर्त्तितम्। तत्र गर्भाधाने आभ्युदयिकं छन्दोगेतरपरं यथोक्तं श्राद्धतत्त्वे छन्दो० प०। वृषोत्सर्गे वृद्धिश्राद्धं काम्य विषयम्। अशौचान्तद्वितीयदिनादिविहिते न वृद्धिश्राद्धमिति भेदः। “असकृद्यानि कर्म्माणि क्रियेरन् कर्म्मकारिणा। प्रतिप्रयीगं नैव स्युर्म्मातरः श्राद्धमेव च। आधाने होमयज्ञे च वैश्वदेवे तथैवच। बलिकर्म्मणि दर्शे च पौर्णमासे तथैव च। नवयज्ञे च यज्ञज्ञा वदन्त्येवं मनीषिणः। एकमेव भवेत् श्राद्धमेतेषु न पृथक् पृथक्। नाष्टकासु भवेत् श्राद्धं न श्राद्धे श्राद्धमिष्पते। न सोष्यन्तीजातकर्म्म प्रोषितागतकर्म्मसु। विवाहादिः कर्म्मगणो य उक्तो गर्भाधानं शुश्रम यस्य चान्ते। विवाहादावेकमेवात्र कुर्य्यात् श्राद्धं नादौ कर्म्मणः कर्म्मणः स्यात्। तथागणशः क्रियसाणेषु मातृभ्यः पूजनं सकृत्। सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु। यत्र यत्र भवेत् श्राद्धं तत्र तत्रैव मातरः”। इदं चावश्यकम्। “वृद्धौ न तर्पिताये वै पितरो गृहमेधिभिः। तद्धीनमफलं ज्ञेयमासुरोविधिरेव स” इति शातातपोक्तेः। “अष्टकामास्याभ्युदयास्तीर्थ पात्रोपपत्तयः। पितॄणामतिरेकोऽयं मासिकान्नात्ध्रुवः स्मृत इति देवी० पु० उक्तेश्च ध्रुव आवश्यक इति श्रा० त० रधु०। अत्र श्राद्धत्रयमाह शाता०। “मातृश्राद्धं तु पूर्ब्बं स्यात् पितॄणां तदनन्तरम् ततो मातामहानाञ्च वृद्धौ श्राद्धत्रयं स्मृतम्” तत्कालमाह पृथ्वीचन्द्रोदये गार्ग्यः “मातृश्राद्धं तु पूर्वेद्युः कर्माहनि तु पैतृकम्। मातामहं चोत्तरेद्युर्वृद्धौ श्राद्धत्रयं स्मृतम्”। अत्राप्यशक्तौ स एव “पृथक्दिनेष्वशक्तश्चेदेकस्मिन् पूर्ववासरे। श्राद्धत्रय प्रकुर्व्वीत वैश्वदेवं तु तान्त्रिकमिति” वृद्धमनुरपि “अला- भेऽभिन्नकालानां नान्दीश्राद्ध्वत्रयं बुधः पूर्वेद्युर्वै प्रकु र्व्वीत पूर्वाह्णे मातृपूर्वकम्” अत्र “महत्सु पूर्वेद्युस्तदहरल्पेष्विति” गृह्यपरिशिष्टव्यवस्था ज्ञेया। कर्म्मदिवस एवेति गौडाचारः। तच्च प्रातरेव। “पार्वणञ्चापरह्णे तु प्रातर्वृद्धिनिमित्तकमिति” निर्ण्ण० सि० शातातपोक्तेः। अत्र प्रातःशब्दः सार्द्ध्यहरपरः “प्रहरोऽप्यर्धसंयुक्तः प्रातरित्यभिधीत इति” गार्ग्योक्तेरिति पृथ्वीचन्द्रोदयः। “आवर्त्तनसमीपे वेवा, इक्तेः मध्याह्नावधिरिति” गौडाः। इदं च पुत्रजन्मातिरिक्तविषयम् तदाहात्रिः “पूर्व्वाह्णे वैश्ववद्वृद्धिर्विना जन्मनिमित्तकम्। पुत्रजन्मनि कुर्वीतश्राद्धं तात्कालिकं बुध इति” एतदनियतनिमित्तपरम् “नियतेषु निमित्तेषु प्रातर्वृद्धिनिमित्तकम्। तेषामनियतत्वे तु तदानन्तर्यमिष्यत” इति लोगाक्षिस्मृतेः। आधानाङ्गं नान्दीश्राद्धं त्वपराह्णे एव “आमश्राद्धं तु पूर्व्वाह्णे सिद्धान्नेन तु मध्यतः। पार्वणं चापराह्णे तु वृद्धिश्राद्धं तथाग्निकमिति” निर्णयामृते गालवोक्तेः “नान्दीमुखादयः प्रातराग्निकं त्वपराह्णत” इति विष्णूक्तेश्च। इदं च मातृपितृमातामहादिक्रमेण छन्दोगेतरैः नवदैवत्यं कार्य्यम् तत्र मातामहादयस्तु सपत्नीकाः “मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानामिति” पृथ्वीचन्द्रोदये गद्यरूपेण गारुडवाक्यात्। हेमाद्रौ शङ्खः “नान्दीमुखे सत्यवसू संकीर्त्यौ वैश्वदेविके”। वृद्धपराशरः “नान्दीखेभ्योदेवेम्यः प्रदक्षिणकुशासनम्। पितृभ्यस्तन्मुखेभ्यश्च प्रदक्षिणमिति स्मृतिः”। श्राद्धे मालादान निषेधेऽपि वृद्धौ मालाविशेषदानं विहितम्। “मालत्याः शतपत्राया मल्लिकाकुब्जयोरपि। केतक्याः पाठलाया वा देया माला न लोहिता” कू० पु० उक्तेः। “कुशस्थाने च दूर्वाःस्युर्मङ्गलस्याभिवृद्धय” इति हेमा० ब्रह्मा० पु० “ऋजवोदर्भा इति प्रागुक्तं वाक्यं तु छन्दोगविषयम्। अत्राधिकारी निरूप्यते। “जातस्य जातकर्माणि क्रियाकाण्डमशेषतः। पिता पुत्रस्य कुर्व्वीत श्राद्धं चाभ्युदयात्मकम्” विष्णु० पु०। “स्वपितृभ्यः पिता दद्यात् सुतसंस्कारकर्मसु। पिण्डानोद्वहनात् तेषां तदभावेऽपि तत्क्रमात्” छन्दोग०। “जीवत्पितृकस्याप्यत्राधिकारः। अनग्निकोऽपि कुव्वींत जन्मादौ वृद्धिकर्मणि। येभ्य एव पिता दद्यात् तानेवोद्दिश्य तर्पयेदिति” हारीतोक्तेः “उद्वाहे पुत्रजनने पुत्रेष्ट्यां सौमिके मखे। तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः। मैत्रायणपरिशिष्टम् “जीवतः जीवन्तं पितरममादृत्य उल्लङ्घ्येत्यर्थः। प्रथमविवाहे एव पितुरधिकारः द्वितीये तु स्वस्यैवेति भेदः। “नान्दीश्राद्धं पिता कुर्य्यात् आद्ये पाणिग्रहे बुध!। अत ऊर्द्धं प्रकुर्व्वीत स्वयमेव तु नान्दिकम्” नि० सि० धृतस्मृतेः। छन्दोग० वाक्ये तदभावे तस्य पितुरभावे तत्क्रमात् “असंस्कृतास्तु संस्कार्य्या भ्रातृभिः पूर्व्वसंस्कृतैरिति” या० यः कर्त्तृक्रमः तेन क्रमेण ज्येष्ठभ्रातादद्यात् इति पृथ्वीचन्द्रोदयः। हेमाद्रिस्तु पितुरभावे यः पितृव्यमातुलादिः संस्कुर्य्यात् स तत्क्रमात् संस्कार्य्य पितृक्रमात् न तु स्वपितृभ्य इति व्याचख्यौ। तेन अमुकस्येति संस्कार्य्यनामाभिधाय पितुरिति प्रयोज्यमेव मेव रघुनन्दनादयः। “वृद्धौ तीर्थे च संन्यस्ते ताते च पतिते सति। येभ्य एव पिता दद्यात् तेभ्यो दद्यात् स्वयं सुतः। कात्या० स्मृतेः जीवत्पितृकस्य तीर्थादौ विशेषः पितरि संन्यस्ते प्रोषिते पतिते वा यदाऽन्यस्तत्पुत्रं धर्म्मबुद्ध्या संस्कुर्य्यात् तदा संस्कार्य्यपितुः पित्रादिभ्यो दद्यात् न संस्कार्य्यपित्रादिभ्यः निर्ण्ण० सि०। एवं जीवन्मातृकेणापि मातरमतिक्रम्य पितामह्यादीनां तिसृणाम् श्राद्धं छन्दोगेतरेण करणीयमिति “योयो जीवति तमति दद्यादिति” स्मृतौ पुंस्त्वस्याविवक्षितत्वात्। पित्रादित्रिकस्य जीवने तु तद्वर्गश्राद्धनिवृत्तिः किन्तु जीवद्भिरेव तैः तच्छाद्धं भोज्यं “पितामहो वा तत्श्राद्धं स्वयं भुञ्जीतेति” मनुवचनात्। एवं सात्रादित्रयेऽपि बोध्यम् तेन जीवद्वर्गपरित्यागेनेतरवर्गश्राद्धं करणीयम् “यदि जीवति वर्गस्तु तं वगं तु परित्यजेत्” नि० सि० वचनात्।
आभ्रिक = त्रि० अभ्र्या खनतिं ठक्। काष्ठकुद्दालेन खनके।
आभ्र्य = त्रि० अभ्रे आकाशे भवः कुर्व्वा० ण्य। आकाशभवे।
आम् = अव्य० अम–गत्यादिषु णिच्–वा अह्रस्वः क्विप्। १ अङ्गीकारे २ निश्चये ज्ञाने ३ स्मृतौ ४ प्रतिवचने च।
आम = पु०। आम्यतेईषत्पच्यते आ + अम–कर्म्मणि घञ्। १ ईषत्पक्वे असिद्धे २ पाकरहिते। अम–करणेघञ्। २ रोगमात्रे। वैद्यकोक्तेषट्विधे अजीर्णे ३ रोगभेदे च आमाटोपापचीश्लेप्मगुल्मकृमिविकारिणाम्” सुश्रु०। तल्लक्षणादि यथा निदा० “आहारस्य रसः सारः योन पक्वोऽग्निलाघवात्। आमसंज्ञां स लभते बहुव्याधिसमाश्रयः। आममन्नरसं केचित् केचित्तु मलसञ्चयम्। प्रथम दोषदुष्टिं वा वदन्ति बहुपिच्छिलाम्। सादनं सर्व्वगात्राणामाममित्यभिशब्दितम्” “तेनामेन सदा युक्ता दोषा दुष्याश्च तादृशाः। तदुद्भवा आमयाश्च सामा इति बुधैः स्मृताः” तेनास्य क्लीवत्वपपि। आमस्य निदानस्वरूपभेदादि निदाने उक्तम् “आमं विदग्धं विष्टब्धं तथा पित्तानिलैस्त्रिभिः। अजीर्ण्णं केचिदिच्छन्ति चतुर्थं रसशेषतः। अजीर्ण्णं पञ्चमं केचिन्निर्द्दोषं दिनपाकि च। वदन्ति षष्ठं चाजीर्ण्णं प्राकृतं प्रतिवासरम्। तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटकः। उद्गारश्च यथाभुक्तमविदग्धं प्रवर्त्तते”। तस्य चामनामत्वे कारणमप्युक्तम् तत्रैव। “भुक्तमन्नावशेषं यत् रसभूतन्त्व पाचितम्। गतमामाशये यस्मात्तस्मादामं प्रचक्षते इति।” अधिकमामाशयशब्दे वक्ष्यते।
अपाकरूपामात् तृष्णाधिक्यं जायते तदुक्तम् सुश्रु०। “तिस्रः स्मृतास्ताः क्षतजा चतुर्थीं क्षयात्तथान्यामसमुद्भवा” च इत्यादिना सप्तविधास्तृष्णाविभज्य “त्रिदोषलिङ्गामसमुद्रवा च हृच्छूलनिष्ठोवनसादयुक्ताः। स्निग्धं तथाम्लं लवणञ्च भुक्तं गुर्वन्नमेवातितृषीकरोति” आमस्यातिसाररोगादिहेतुत्वं सुश्रुते उक्तम् आमाजीर्ण्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाः संप्रदुष्टाः सभक्तम्। नानावर्ण्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति। संसृष्टमेभिर्दोषैस्तु मलमप्स्ववसीदति। पुरीषं भृशदुर्गन्धं पिच्छिलं चामसंज्ञितम्” इति आमातिसारंलक्षयित्वा। अतः सर्वातिसारास्तु ज्ञेयाः पक्वामलक्षणैः तत्र लङ्घनमेवादौ पूर्व्वरूपेषु देहिनाम्ः”। तत्र लङ्घनस्य कर्त्तव्यतामुक्त्वा अनेन विधिना चामं यस्य नैवोपशाम्यति। हरिद्रादिं वचादिं वा पिबेत् प्रातः स मानवः। आमातिसारिणां कार्य्यं नादौ संग्रहणं नृणा” मित्यनेन विशेष उक्तः तेन ४ अतिसारभेदे “शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते। आमं वितुं षमित्युक्तम् स्विन्नमन्नमुदाहृतमिति” स्मृतिपरिभाषिते अपक्वे ५ सतुषेऽन्ने च। “आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्टमुच्यते” स्मृतिः। आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहे तथा “आमश्राद्धं द्विजैः कार्य्यं शूद्रेण तु स दैव तु” प्रचे० पाकश्च अग्निसंयोगात् कालवशात् वा वस्तुपरिणामविशेषः तत्रान्नादीनामामत्वमग्निविशेषसंयोगाभावात्। यथा आमान्नघटादेः। यद्यत् फलादि यद्यत्काले पच्यते तत्कालात् प्राक् तस्य पाकाभावे आमत्वम् यथाम्रादेः। तथा व्रणादेरपि परिपाकाभावे आमत्वम् कालिकम्। यथा “आमं विपच्यमानं च सम्यक् पक्वं च योभिषक्” व्रणपाकाभावे” सुश्रुतः।
आमगन्धि = त्रि० आमस्यापक्वस्य गन्धैव गन्धो यत्र इत् समा०। अपक्वमांसादितुल्यगन्धाढ्ये। क्लीवमित्येके।
आमज्वर = पु० आमोऽपक्वः ज्वरः। अपक्वज्वरे नवज्वरे “स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति” माघः।
आमनस्य = न० अप्रशस्तं मनो यस्य तस्य भावः ष्यञ्। दुःखे।
आमन्त्र = पु० आमादजीर्ण्णात् त्रायते स्वफलतैलेन मलनिस्सारणात् त्रै–क पृषो०। १ एरण्डवृक्षे राजनि० आमण्ड इति वा पाठः। तत्फलतैलपाने हि अजीर्ण्णमलनिस्मारणात्तथात्वम् आ + मन्त्र–अच्। २ आमन्त्रणशब्दार्थे च।
आमन्त्रण = न० आ + मन्त्र–ल्युट्। १ अभिनन्दने, २ संबोधने, ३ कामचारानुज्ञारूपे क्रियाभेदेषु प्रवर्त्तनव्यापारे च। “विधिनिमन्त्रणामन्त्रणेत्यादि” पा०। अवश्यकर्त्तव्ये नियोगो निमन्त्रणं यथा श्राद्धादिभोजने। यस्याकरणे प्रत्यवायोनास्ति तादृशव्यापारे, नियोजनमामन्त्रणम् यथा स्थलविशेषे शयनायामन्त्रणम्। नवपत्रिकाप्रवेशपूर्व्व दिवसे सायं विल्वतरोःसंबोधनरूपे ४ व्यापारे च युच् आमन्त्रणाप्यत्र स्त्री
आमन्त्रित = त्रि० आ + मन्त्र–क्त। १ अनावश्यके कर्मणि नियोजिते २ व्याकरणपरिभाषितायां सम्बोधनार्थकप्रथमाविभक्तौ न० “सामन्त्रितम्” पा० “सम्वोधने या प्रथमा सामन्त्रितसंज्ञा स्यात्” सि० कौ। “आमन्त्रितं पूर्ब्बमविद्यमानवत्” नामन्त्रिते समानाधिकरणे सामान्यवचनम्” पा०। ३ निमन्त्रिते त्रि० “प्रातरामन्त्रितान् विप्रान्” छन्दोग०।
आमन्त्र्य = अव्य० आ + मन्त्र–ल्यप्। १ सम्बोध्येत्यर्थे। “आद्यमामन्त्र्य पूर्ब्बवत्” छन्दोग० आ + मन्त्र–कर्म्मणि यत्। २ संबोधनीये आवश्यककार्य्ये ३ नियोज्येच त्रि०।
आमन्द = पु० आमं रोगं द्यति दो–ड बा० मुम्। वासुदेवे।
आमन्दा = स्त्री आमन्दमीषन्मन्दं करोति आमन्द + णिच्–अच्। खद्वाभेदे (नेआरेरखाट) शब्दचि०।
आमन्द्र = पु० ईषन्मन्द्रः प्रा० स०। १ ईषद्गम्भीरशब्दे “आमन्द्रमन्थध्वनिदत्ततालम्” भट्टिः। २ तंद्युक्ते त्रि०।
आमपाक = पु० आमस्य अजीर्ण्ण विशेषस्य पाकः। वैद्यकोक्ते शोफरोगाद्यङ्गे आमस्य पाकभेदे। तद्विरणमुक्तं सुश्रुते यथा “स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न सम्भावितः प्रशमयितुं क्रियाविपर्य्ययाद्बहुत्वाद्वा दोषाणां, तदा पाकाभिसुखो भवति। तस्यामस्य पच्यमानस्य पक्वस्य च लक्षणमुच्यमानमवधारय। तत्र मन्दोष्मता त्वक्सवर्ण्णता शीतशोफता स्थैर्य्यं मन्दवेगताल्पशोफता चामलक्षणमुद्दिष्टम्। सूचिभिरिव निस्तुद्यते, दश्यत इव पिपीलिकाभिः, ताभिश्च संसृप्यत इव, छिद्यतैव शस्त्रेण, भिद्यत इव शक्तिभिः, ताड्यत इव दण्डेन, पीड्यत इव पाणिना, घट्ट्यत इव चाङ्गुल्या, दह्यत इव पच्यत इव चाग्निक्षाराभ्यामोषचोषपरीदाहाश्च भवन्ति वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति आध्मातवस्तिरिव। अतश्च शोफो भवति त्वग्वैवर्ण्यं शोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च पच्यमानलिङ्गम्। वेदनोपशान्तिः पाण्डुताल्पशोफता बलीप्रादुर्भावस्त्वक्परिपुटनं निम्नदर्शनमङ्गुल्यावपीडिते प्रत्युन्नमनं वस्ताविवोदकसञ्चरणं पूयस्य प्रपीडयत्ये कमन्तमन्ते चावपीडिते मुहुर्मुहुस्तोदः कण्डूरनुन्नतता च व्याधेरुपद्रवशान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम्। कफजेषु तु रोगेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषग्मोहमुपैति यत्र हि त्वक्सवर्णता शीतशोफता स्थौल्यमल्परुजताश्मवद्घनता न तत्र मोहमुपेयादिति। भवन्ति चात्र। आमं विपच्यमानञ्च सम्यक् पक्वञ्च यो भिषक्। जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः। वातादृते नास्ति रुजा, न पाकः पित्तादृते, नास्ति कफाच्च पूयः,। तस्मात्समस्ताः परिपाककाले पचन्ति शोफांस्त्रय एव दोषाः”।
आमपात्र = न० कर्म्म०। अपक्वे पात्रे (का~चा) मृण्मयपात्रे “विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि” मनुः।
आमय = पु० आमं रोगं यात्यनेन या–करणे घञर्थे क आ + मीञ् हिंसायां करणे अच् वा। रोगे आमशब्दे तन्निरुक्तिर्दृश्या “आमयस्त्वति रागसम्भवः” रघुः “तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्” सुश्रुतः। अनामयः निरामयः। “समौ हि शिष्टैराम्नातौ वत्र्स्यन्तावामयः स च” मावः।
आमयाविन् = आमयोऽस्त्यस्य विनि दीर्घश्च। रोगयुक्ते। “क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च” “अन्नहर्त्ताऽऽ मयावित्वम्” इति च मनुः।
आमरक्त = न० आममपक्वं रक्तम्। रोगभेदे रक्तातिसारे आमशब्दे विवृतिः।
आमरणान्तिक = त्रि० आमरणान्तं मरणरूपसीमापर्य्यन्तं व्याप्नोति ठञ्। मरणकालपर्य्यन्तव्यापके “अन्योन्यस्याव्यभिचारो मवेदामरणान्तिकः” मनुः।
आमर्द = पु० आ + मृद–घञ्। वलात् निष्पीडने। “आमर्दकाले राजेन्द्र! व्यपसर्पेत्ततः परम्” भा० आश्र० प० १ अ०। “अर्द्धपीतस्तनं मातुरामर्द्दक्लिष्टकेशरम्” शकु० भावे ल्युट्। आमर्द्दनमप्यत्र न०।
आमर्द्दिन् = त्रि० आ + मृद–णिनि। बलान्निष्पीडके।
आमर्श = पु० आ + मृश–स्पर्शे घञ्। सम्यक्स्पर्शे। ल्युट्। आमर्शनमप्यत्र न०।
आमर्ष = पु० न + मृष–घञ् “अन्येषामपि” पा० दीर्घः। १ कोपे असहने। “निरुद्योगं निरामर्षं निर्वीर्य्यमरिनन्दनम्” नोतिसा० आ + मृष–घञ्। २ सम्यग्विवेके च।
आमलक = त्रि० आ + मल–क्कुन् स्त्रीत्वे गौरा० ङीष्। (आमला) १ धात्रीवृक्षे। “त्रिष्वामलकमाख्यातं धात्री तिष्यफ लाऽमृता। रक्तपित्तप्रमेहघ्नं पथ्यं वृष्यं रसायनम्। हन्ति वातं तदम्लत्वात् पित्तं माधुर्य्यशैत्यतः। कफं रूक्षकषायत्वात् फलं धात्र्यास्त्रिदोषजित्। यस्य यस्य फलस्येह वीर्य्यं भवति यादृशम्। तस्य तस्यैव वीर्य्येण मज्जानमपि निर्दिशेत्” भावप्रका० अस्य स्त्रीत्वपक्षेऽपि तस्याः इदम् फलमण् फले लुकि क्लीवत्वमेवेति भेदः। “यः सदामलकैः स्नानं करोति स विनिश्चितम्। बलीपलितनिर्मुक्तोः जीवेद्वर्षशतं नरः” वैद्य० “श्रीकामः सर्व्वदा स्नानं कुर्व्वीताम लकैर्नरः” गरुड पु०। गौरादिगणे आमलशब्दपाठात् आमलशब्दोऽप्यत्र स्त्रीत्वे गौरा० ङीष् आमली। वृहद्ध० पुराणे तु अमलात् कात् नेत्रजलादागतम् अण् ङीप्। इत्यभिप्रायेण निरुक्यन्तरम् दर्शितं यथा “सजये! विजये! देवि! नावेव स्मृतयोस्तदा। नयनेषु च जातानि अमलाश्रुजलानि च। तानि नौ नयनेभ्यश्च निपेतुर्भुवि हे सखि!। ततो जाताद्रुमाः पृथ्व्यां चत्वारोविमलप्रभाः। ख्याता आमलकी नाम्ना जाता कादम लाद्यतः। श्यामलच्छदवृन्दास्ते कर्व्वूर–स्कन्धमूलकाः। शिराग्रथितपत्रालीमालाकलितपत्रकाः” “माघेमासि सितायां तामेकादश्यां समुद्भवाम् दृष्ट्वाह्यागत्य देवोऽत्रदधारानन्दयुक्तनुम्। तेन धात्रीति नाम्नापि राजत्यामलकी पुनः” इति च “सर्वदामलकी ग्राह्या परित्यज्यरवेर्दिनम्”। “पयोधरैरामलकीवनाश्रिताः” माघः। “विल्यपत्रं चमाघ्यञ्च तमालामलकीदलम्। कह्लारं तुलसी चैव पद्मञ्च मुनिपुष्पकम्। एतत् पर्य्युषितं न स्यात् यच्चान्यत् कलिकात्मकम्” योगि० त०। “न धात्रीकाननं यत्र विष्णोस्तु तुलसीवनम्। तंस्लेच्छदेशं जानीयात् यत्र नो याति वैष्णवः। यत्र मातृपरा मर्त्त्या यत्र द्वादशीकृन्नरः। तुलसीकाननं धात्री तत्र विष्णुः श्रिया सह। दूर्व्वा हरति पापानि धात्री हरति पातकम्” आह्नि० त० स्कन्द पु०।
आमवात = पु० आमोऽपकहेतुः वातः। भा० प्र० उक्ते वात व्याधिभेदे तल्लक्षणाद्युक्तं तत्रैव “युगपत्कुपितावेतौ त्रिक सन्धिप्रवेशकौ। स्तब्धञ्च कुरुतो गात्रमामवातः स उच्यते” (एतौ वातश्लेष्माणौ) तस्य लक्षणमुक्त निदा०। “अङ्गमर्द्दोऽरुचिस्तृष्णाऽस्वातन्त्र्यं गोरवं ज्वरः। अपचीशूलजङ्गालमामवातः स उच्यते”। तत्र निदानादि यथा “विरुद्धाहारवेष्टस्य मन्दाग्नेर्निश्चलस्य च। स्निग्धं भुक्तवतोऽह्यन्नं व्यायामं कुर्वतस्तथा। वायुना प्रेरितोह्यामः श्लेष्मस्थानं प्रधावति। तेनात्यर्थमपक्वोऽसौ धमनीभिः प्रपद्यते। वातपित्तकफैर्भूयो दूषितः सोऽन्नजोरसः। स्रोत्रांस्यभिष्यन्दयति नानाब्रर्णोऽतिपिच्छलः। जनयत्यग्निदौर्बल्यमिन्द्रियस्य च गौरवम्। व्याधीनामाश्रयोह्येष आमसंज्ञोऽनिलोह्ययम्” (श्लेष्मस्थानमामाशयसन्ध्यादि)। तेन श्लेष्मस्थानगमने पाकाभावात् दूषकता पित्तस्थानगमने तु तेन पाकसम्भवान्नं दोषजनकतेति। अतिवृद्धस्य लक्षणमुक्तं तत्रैव “स कष्टः सर्वरोगाणाम् यदा प्रकुपितो भवेत्। हस्तपादशिरोमुल्मत्रिकजानूरुसन्धिषु। करोति सरुजं शोफं यत्र दोषः प्रपद्यते। स देशो रुज्यतेऽत्यर्यं व्याविद्ध इव वृश्चिकैः। जनयेत् सोऽग्निदौर्बल्यम् प्रसेकारुचिगौरवम्। उत्साहहानिं वैरस्यं दाहनं बहुमूत्रताम्। कुक्षौ शूलं कठिनतां तथा निद्राविपर्य्ययम्। तृट्छर्द्दिभृशमूर्च्छाश्च हृद्ग्रन्थिविड्विबद्धताम्। जाड्यान्द्रकूज नानाहकुष्ठांश्चान्यानुपपद्रवान्”। तत्र दोषभेदे लक्षणानि “पित्ताद्दाहं सकासञ्च सशूलं पवनात्मकम्। स्तिमितं गुरु कण्डूकं कफजुष्टं तमादिशेत्। एकदोषानुगः साध्योद्विदोषोयाप्य उच्यते। सर्वदोषगतः शोफः स कष्टः सान्निपातिकः” इति सुश्रु०।
आमश्राद्ध = न० आमेन अपक्वेनान्नेन श्राद्धम्। “आमन्तु वितुषं प्रोक्तमित्युक्तेण वितुषेणापक्वेनान्नेन कर्त्तव्ये श्राद्धे “आपद्यनग्नौ तीर्थें च चन्द्रसूर्य्यग्रहे तथा। आमश्राद्धं द्विजैः कार्य्यं शूद्रेण च सदैव तु” प्रचे० अत्र विशेषः “निरग्नेरामश्राद्धे तु अन्नं न क्षालयेत् क्वचित्। वृद्धौ च क्षालयेदन्नं संक्रमे ग्रहणेषु च, ति० त० पु०।
आमहीय = त्रि० आमहाय आगमनाय हितम्। छ। आगमनसाधने मन्त्रभेदे “अपाम सोमम्” इत्यस्यामृचि स्त्री “उद्वय मित्युन्नेत्रोन्नीता आमहीयां जपन्तोगच्छन्त्यपाम सोसममृता अभूभागन्म ज्योतिरविदाम देवान् किं नूनमस्मान् कृणदरातिः किमु धूर्त्तिरमृतंमर्त्थस्येति” का० १०, ९, ७, “वासःपरिधानानन्तरम् उद्वयमित्यनेन मन्त्रेणोन्नेत्रोन्नीता जलमध्यात् वहिर्निष्काशिताः सन्तऋत्विजः सयजमानाः आमहीयामित्येवंसंज्ञकाम् अपामेत्येतामृचं जपन्तः सर्वे देवयजनं प्रति गच्छन्ति” कर्कः।
आमहीयव = न० अमहीयुना ऋषिभेदेन दृष्टं साम अण्। सामभेदे तस्ययत्रपाठ्यता तत् सा० सं० भा० दर्शितम् यथा “तृतीयसवने सप्त सूक्तानि तेषु नव सामानि गेयानि तत्र प्रथमे सूक्ते गायत्रमामहीयवं चेति द्वेसामनी” आम हीयवञ्च साम ऊहगाने ऊहगानारम्भे प्रथमं साम।
आमाति(ती)सार = पु० आमकृतोऽति(ती)सारः। आमकृते षष्ठे अतिसाररोगभेदे अतिसारशब्दे तस्य विवृतिः। अस्य निदानादि उक्तं सुश्रुते यथा। “अन्नाजीर्ण्णात् प्रद्रुताः क्षोभयन्तः कोष्ठं दोषा धातुसंघान् मलांश्च। नानावर्ण्णान्नैकशः सारयन्ति शूलोपेतं षष्ठमेनं वदन्ति” आमातिसारे नो कार्य्यमादौ संग्रहणं नृणाम्” सुश्रु०।
आमात्य = पु० आमात्त्यएव स्वार्थे अण्। अमात्ये।
आमानस्य = न० अप्रशस्तं मानसमस्य अमानसः तस्य भावः ष्यञ्। दुःखे शब्दरत्ना०।
आमावास्य = त्रि० अमावास्यायां भवः सन्धिवेलादि० अण्। अमावास्याभवे “आमावास्येन हरिषेष्ट्वा पौर्ण्णमासेन वा” श० ब्रा०। वा वुन् अमावास्यक इत्यपि तत्रैव त्रि०।
आमाशय = पु० आमस्यापक्वान्नस्याशयः। देहमध्यस्थे नाभेरुर्द्धस्थाने भुक्तापक्वान्नादिस्थाने। आशयाहि देहस्थाः सप्त सुश्रुते दर्शिता यथा “आशयस्तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ताशय आमाशयः पक्वाशयः मूत्राशयः स्त्रीणां गर्भाशयोऽष्टम इति आमाशयस्थानएव दोषरूप श्लेष्मस्थानं यथोक्तं सुश्रु०। “दोषस्थानान्यत ऊर्द्धं वक्ष्यामः तत्र समासेन वातःश्रोणिगुदसंश्रयः। श्रोणिगुदयोरुपर्य्यानाभि पक्वाशयः पक्वाशयमध्यं पित्तस्य। आमाशयः श्लेष्मणः। तच्च स्थानं निर्ण्णीतं भावप्र० यथा “अग्निवेगवहः प्राणोगुदान्त्रे प्रतिहन्यते। स ऊर्द्ध्वमागम्य पुनः समुत्क्षिपति पावकम्। पक्वाशयस्त्वधोनाभ्यामूर्द्धमामाशयः स्थितः। नाभिमध्ये शरीरस्य प्राणाः नित्यं प्रतिष्ठिताः” चरके तु “नाभिस्थानोत्तरं जन्तोराहुरामाशयं बुधाः” इति अत्र विशेषमाह “उरोरक्ताशयस्तस्मादधःश्लेष्माशयः स्मृतः। आमाशयस्तु तदधस्तदधोऽन्नाशयोमतः” इति अपक्वाशय प्रसङ्गात् आहारपाकप्रकारस्तावदुच्यते भावप्रकाशे सुश्रुतः “यो वायुः प्राणनामासौ मुखं गच्छति देहधृक् सोऽन्तःप्रवेश्य गच्छेत्तं प्राणश्चाथावलम्बते” इति तमाहारमामाशयस्थः क्लेदननामा कफः क्लेदयति क्लेदनात् संहतिं भिनत्ति च उक्तं च सुश्रुते “स आहारःषड्रसोऽप्यामाशये माधुर्य्यं लभते आमाशयस्थस्य मधुरस्य कफस्य योगात् उक्तं च श्लेष्मस्वरूपं “श्लेष्मा श्वेतोगुरुःस्निग्धः पिच्छिलः शीतलस्तथा। तमोगुणाधिकः स्वादुर्विदग्धोलवणो भवेत्। फेनभावं च लभते जठरानलतेजसा”। अत आह वाग्भटः “संधुक्षितः समानेन पचत्यामाशयस्थितम्। औदर्य्योऽग्निर्थथा बाह्यः स्थालीस्थं तोयतण्डुलमिति” प्राणवायुना प्रेरितस्ततः किञ्चिच्चलितः पाचकाख्यपित्तोष्मणेषत्पक्वो भवति उक्तं च “अथ पाचकपित्तेन विदग्धश्चाम्लतां व्रजेदिति” पाचकपित्तेन पाचकपित्त स्योष्मणा ततः एवाहारोनामिमण्डलाधिष्ठानेन समाननाम्ना वायुना प्रेरितोग्रहणीं प्रति याति उक्तं च। “ततःसमानमरुता ग्रहणीमभिधावति”। ग्रहणीलक्षणमाह “षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता। आमपक्वाशयान्तःस्था ग्रहणी साभिधीयते” पित्तधरा पाचकाख्यं पित्तं यदग्न्यधिष्ठानं तद्धारयति तत्र ग्रहण्यामामाशयपक्वाशय मध्यवर्त्तिपाचकाख्यपित्ताधिष्ठानेनाग्निनाहारः पच्यते स कटुश्च भवति तथा च “ग्रहण्यां पच्यते कोष्ठवह्निना जायते कटुरिति”। अयमर्थः आहारोग्रहण्यां कोष्ठवह्निना ग्रहणीस्थितपाचकपित्तस्थे न च वह्निना पच्यते पच्यमानः स ग्रहणीस्थितस्य कटुरसस्य पित्तयोगात्कटुर्भवति एतदाहारपाके विशेपमाह शरीरं पाञ्चभौतिकं तत्र पञ्चसु भूतेषु पञ्चाग्नयस्तिष्ठन्ति उक्तं च चरके “भौमाप्याग्नेयवायव्याः पञ्चोप्माणः। सनाभसाः पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्त्यतः”। अत्रोष्मपदेनाग्निरुच्यते आहारोऽपि पाञ्चभौतिकः तत्र पाचकपित्तस्थेनाग्निनोत्तेजितेन शरीरवर्त्तिभूभागः पच्यते पक्वोभूभागः स्वकीयान् गुणानभिबर्द्धयति एवं जलादिभागा अपि पच्यन्ते तथा च सुश्रुते “पञ्चभूतात्मको देह आहारः पाञ्चभौतिकः। विपक्वं पञ्चधा सम्यग्गुणान्स्वानभिबर्द्धयेदिति” गुणशब्देनात्र गुणिनः पृथिव्यादय उच्यन्ते तेन गुणान् शरीरवर्त्तिनः पार्थिवादीन् भागानभिवर्द्धयेदिति एवमहोरात्रेण पक्व आहारोमिष्टः कटुश्च मधुरो भवति अम्लोऽम्लो भपति कटुतिक्तःकषायश्च कटुर्भवति उक्तं च “मिष्टः कटुश्च मधुरोऽथाम्लोऽम्लः पच्यते रसः। कटुतिक्तकषायाणां विपाको जायते कटुरिति” एवं विपक्वस्याहारस्य सारो रसशेषोग्रहणिस्थो मल इव मलः। अस्य जलभागः शिणभिर्वस्तिन्नीतोमूत्रं भवति उक्तं च “आहारस्य रसः सारःसारहीनोमलद्रवः। शिराभिस्तज्जलं नीतं वस्तिंमूत्रत्वमाप्नुयात्। शेषं कीट्टं भवेत्तस्य तत् पुरीषं निगद्यते। समानवायुना नीतं तत्तिष्ठति मलाशये” तत्र मलाशयालयेनापानवायुना प्रेरितं मूत्रं मेढ्रभगमार्गेण, पुरीषं गुदमार्गेण, शरीराद्बहिर्याति। उक्तं च “मूत्रन्तूपस्थमार्गेण, पुरीषं गुदमार्गतः। अपानवायुना क्षिप्तं बहिर्याति शरीरतः”। उपस्थः शिश्नोभगश्च। रसस्तु समानवायुना प्रेरितोधमनीमार्गेण शरोरारम्भकस्य रसस्य स्थानं हृदयं गत्वा तेन सहमिश्रितो भवति उक्तं च “रसस्तु हृदयं याति समानमरुतेरितः। स तुं व्यानेन विक्षिप्तः सर्वान् धातून्विवर्द्धयेत्। केदारेषु यथा कुल्या पुष्णाति विविधौषधीः। तथा कलेवरे धातून् सर्वान् बर्द्धयते रसः”। रसस्तु तत्र तत्र त्रिधा भिद्यते उक्तं च चरके “स्थूलसूक्ष्म मलैर्भेदैस्तत्रस्तत्र त्रिधा रसः”। अधिकआहारपाकशब्दे वक्ष्यते।
आमिक्षा = स्त्री आमिष्यते सिच्यते मिष–सक्। तप्ते पक्वे दुग्धे दधियोगाज्जाते (छाना) पदार्थे। “तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा भवति वाजिभ्योवाजिनम्” श्रुतिः “आमिक्षापदसान्निध्यात् तस्यैव विषयार्पणम्” भट्ट का०।
आमिक्षीय = न० आमिक्षायै हितं छ। आमिक्षोपकरणे दध्नि “आमिक्षीयं दधि क्षीरं पुरोडाश्यं तथौषधम्” भट्टिः। ख आमिक्षीणमप्यत्र न०। यत् आमिक्ष्यमप्यत्र न०।
आमितौजि = पुंस्त्री अमितौजसोऽपत्यम् बाह्वा० इञ् सलोपश्च। अमितौजसोऽपत्ये स्त्रियां ङीप्।
आमित्रि = पुंस्त्री अमित्रस्यापत्यं इञ्। अमित्रापत्ये तत्र भवादि गहा० छ। आमित्रीयः तद्भवादौ त्रि० युवापत्ये तु नडा० फक्। आमित्रायणः अमित्रयुवापत्ये आमित्रेरपत्यम् तिका० फिञ्। आमित्रायणिः तदपत्ये। अमित्रस्येदम् अण्। आमित्रः शत्रोःसम्बन्धिनि त्रि० “नासामामित्रो व्यथिरादधर्षति” ऋ० ६, २८, ३।
आमिश्र = त्रि० आ + मिश्र–घञ्। मिलिते संश्लिष्टे। “चेतोजन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्” नैष०। वेदे क्वचित् रस्य लः। आमिश्लः। “स सोम आमिश्लतमः” ऋ० ६, २९, ४।
आमिष् = न० आमिषति सिञ्चति स्नेहम् आ + मिष–क्विप्। मांसे “आयेवयो नवर्वृतत्यामिषिः” ऋ० ६, ४६, १४ “आमिषि मांमे” भा०।
आमिष = न० आमिषति स्नेहम् आ + मिष–सेचने क अमटिषच् दीर्घश्च, वा। १ मांसे स्नेहातिरेकात्तस्य तथात्वम् २ भोग्यवस्तुमात्रे ३ उत्कोचे ४ सुन्दररूपादौ ५ लोभे ६ लोभनीये विषये च। तत्रमांसे “उपानयत् पिण्डमिवामिषस्य” रघुः “आमिषं कलहं हिंसां–वर्षवृद्धौ विवर्ज्जयेत्” स्मृतिः “भुङ्क्ते यश्च निरामिषं स हि भवेज्जन्मान्तरे पण्डितः” ज्योति०। “जन्मान्तरे पाण्डित्यकामो जन्मतिथावामिषं न भुञ्जीतेति” गदाधरः। “कालशाकं महाशाकं खड्गलोहामिषं मधु” दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः” मनुः “सात्विकी जपयज्ञैश्च नैवेद्यैश्च निरामिषैः” दुर्गो० त० पु० नाधीयीतामिषं जग्ध्वा” “तच्चामिषेण कर्त्तव्यम्” इति च मनुः। लोभनीये “रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ” “आकृष्य सद्गुणजुषा सुरसामिषेण” आनन्दवृन्दा०। “प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्द्धिनः” मनुः। “पत्राणामामिषं पर्ण्णं जम्बीरञ्च फलेप्वपीति” स्मृतौ निरामिषव्रते आमिषतुल्यतया बर्ज्जनोये ७ पर्ण्णे ८ जम्बीरफले च।
आमिषप्रिय = पु० ६ त०। १ कङ्कपक्षिणि। २ मांसाभिलाषिणि त्रि०।
आमिषाशिन् = त्रि० आमिषमश्नाति अश–णिनि ६ त०। मांसभक्षके “दिनोपवासी तु निशामिषाशी” हास्या० स्त्रियां ङीप्। आमिषभुगादयोऽप्यत्र।
आमिषी = स्त्री आमिषं तदाकारोऽस्त्यस्य जटायाम् अर्श० अच् गौरा० ङीष्। जटासांस्याम्। ततः चतुरर्थ्याम् भध्वा० यत्। आमिष्यः आमिषीसन्निकृष्टदेशादौ त्रि०।
आमुक्त = त्रि० आ + मुच–क्त। परिहिते “आमुक्तमुक्तालतमस्य वक्षः” माघः।
आमुक्ति = स्त्री आ–मुच–क्तिन्। १ परिधाने, मर्य्यादायाम् वा अव्ययी०। २ मुक्तिपर्य्यन्ते अव्य० “आमुक्ति श्रियमन्विच्छेत्”। समासाभावे आ मुक्ते रित्येव।
आमुख = न० आमुखयति अभिमुखीकरोति दर्शनार्थं परिषदोऽनेन आमुख + णिच्–करणे अच्। नाटकाङ्गभेदे “तल्लक्षणभेदोदाहरणानि” सा० द० यथा “नटी विदूषकोवापि पारिपार्श्विक एव वा। सूत्रधारेण सहिताः संलापं यत्र कुर्वते। चित्रैर्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्म्मिथः। आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनापि सा। सूत्रधारसदृशत्वात् स्थापकोऽपि सूत्रधारौच्यते। तस्यानुचरः पारिपार्श्विकः। तस्मात् किञ्चिदूनोनटः”। तस्य भेदाः पञ्च यथाह तत्रैव “उद्घात्यकः कथोद्घातः प्रयोगातिशयस्तथा। प्रवर्त्तकापलगिते पञ्च प्रस्तावना भिदाः। तत्र। पदान्यन्यगतार्थानि तदर्थगतये नराः। योजयन्ति पदैरन्यैः स उद्घात्यक उच्यते १। यथा मुद्राराक्षसे सुत्र०। “क्रूरग्रहः सकेतुश्चन्द्रमसंपूर्णमण्डलमिदानीम्। अभिभवितुमिच्छति बलात्”। अनन्तरंनेपथ्ये आःक एष मयि जीवति सति चन्द्रगुप्तमभिभवितुमिच्छति। अत्रान्यार्थवन्त्यपि पदानि हृदिस्थार्थावगत्या अर्थान्तरे संगमय्य पात्रप्रवेशः। सूत्रधारस्य वाक्यं वा समादायार्थमस्य वा। भवेत् पात्रप्रवेशश्चेत् कथोद्घातः स उच्यते २। वाक्यं यथा रत्नावल्याम्। “द्वीपादन्यस्मादपि घटयति विधिरभिमुखीभूतः” इत्यादि। सूत्रधारेण पठिते नेपथ्ये एवमेतत् कः सन्देहः द्वीपादन्यस्मादपीत्यादि पठित्वा यौगन्धरायणस्य प्रवेशः। वाक्यार्थं यथा वेण्याम्। “निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः संह माधवेन। रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः” इति सूत्रधारेण पठितस्य वाक्यस्यार्थं गृहीत्वा नेपथ्ये। आः दुरात्मन्! वृथामङ्गलपाठक! कथं “स्वस्था भवन्तु मयि जीजीवति धार्त्तराष्ट्राः। ततः सूत्रधारोनिष्क्रान्तः भीमसेनस्य प्रवेशः। यदि प्रयोगएकस्मिन् प्रयोगोऽन्यः प्रयुज्यते। तेन पात्रप्रवेशश्चेत् प्रयोगातिशयस्तदा ३। यथा कुन्दमालायाम्। नेपथ्ये “इतैतोऽवतरत्वार्य्या” सूत्र० कोऽयं स्वलु आर्य्याह्वानेन साहायकं मे सम्पादयति विलोक्य कष्टमतिकरुणं वर्त्तते। “लङ्केश्वरस्य भवने सुचिरं स्थितेति रामेण लोकपरिवादभयाकुलेन। निर्वासितां जनपदादपि गर्भगुर्ब्बीं सीतां वनाय परिकर्षति लक्षणोऽयम्”। अत्र नृत्यप्रयोगार्थं स्वभार्य्याह्वानमिच्छता सुत्रधारेण “सीतां वनाय परिकर्षति लक्ष्मणोऽयमिति” सीतालक्ष्मणयोः प्रवेशं सूचयित्वा निष्क्रान्तेन स्वप्रयोगमतिशयानएव प्रयोगः प्रयोजितः। कालं प्रवृत्तमाश्रित्य सूत्रधृक् यत्र वर्णयेत्। तदाश्रयश्च पात्रस्य प्रवेशस्तत्प्रवर्त्तकम् ४। यथा “आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तःशरत्समय एष विशुद्धकान्तः। उत्खाय गाढतमसं घनकालमुग्रं रामोदशास्यमिव सम्भृतबन्धुजीवः”। ततः प्रविशतियथा निर्द्दिष्टोरामः। यत्रैकत्र समावेशात् कार्य्यमन्यत्प्रसाध्यते। प्रयोगे स्वलु तज्ज्ञेयं नाम्नावलगितं बुधैः ५। यथा शाकुन्तले। सूत्र० नटींप्रति “तवास्मि गीतिरागेण हारिणा प्रसभं हृतः। एष राजेव दुष्मन्तः शारङ्गेणातिरंहसा”। ततोराज्ञः प्रवेशः। योज्यान्यत्र यथालाभं वीथ्यङ्गानीतराण्यपि। अत्र आमुखे उद्घात्यकालगितयोरितराणि वीथ्यङ्गानि वक्ष्यमाणानि। नखकुट्टस्तु “नेपथ्योक्तं श्रुतं यत्र त्वाकाशवचनं तथा। समाश्रित्यापि कर्त्तव्यमामुखं नाटकादिषु”। एषामामुखभेदानामेकं कञ्चित्प्रयोजयेत्। तेनार्थमथपात्रं वा समाक्षिप्यैव सूत्रधृक्। प्रस्तावनान्ते निर्गच्छेत्ततोवस्तु प्रयोजयेत्। तत्र पूर्व्वं पूर्ब्बरङ्गः सभार्चन मतः परम्। कयनं कविसंज्ञादेर्नार्टकस्याभिधा ततः। रङ्गं प्रसाद्य मषुरैः श्लोकैः काव्यार्थसूचकैः। रूपकस्य कवेराख्यां गोत्राद्यपि च कीर्त्तयेत्। ऋतुञ्च कञ्चित्प्रायेण भारतीं वृत्तिमाश्रितः। तस्याः प्ररोचना वीथी”।
आमुप = पु० आमे पीडायै उप्यते वप–घञर्थे क। (वेडवास वंशभेदे।
आमुर् = त्रि० आ + मुर्व्व–क्विप्। हिंसके। “राधोवरन्त आमुरः” ऋ० ४, ३१, ९।
आमुष्मिक = त्रि० अमुष्मिन् परलोके भवः ठक् सप्तम्याः अलुक् टिलोपः। परलोकभवे “कुर्य्यादामुष्मिकं श्रेयः” मनुः। स्त्रियां ङीप्। “नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्य्योतनाः” सा० द०।
आमुष्यकुलक = न० अमुष्यकुलस्य भावः मनोज्ञा० वुञ् अलुक्। प्रशस्यकुलत्वे “आमुष्यायणामुष्यपुत्रिकामुष्यकुलिका” इति वार्त्तिकोक्तेः अस्य स्त्रीत्वमपि।
आमुष्यकुलीन = त्रि० अमुष्यकुले साधुः प्रतिमु० खञ् तद्गणपाठात् षष्ठ्या अलुक्। अमुष्यकुले साधौ।
आमुष्यपुत्रिका = स्त्री अमुष्य पुत्रस्य भावः मनोज्ञा० वुञ् अलुक्। अमुष्यपुत्रस्य भावे। आमुष्यकुलकशब्दे प्रदर्शितवार्त्तिकात् स्त्रीत्वम्।
आमुष्यायण = न० अमुष्य ख्यातस्यापत्यम् नडा० फक् अलुक्। प्रख्यातवंशोद्भवे “आमुष्यायणोवै त्वमसि” श्रुतिः।
आमृष्ट = त्रि० आ + मृष–क्त। १ आधर्षिते २ मर्दिते च “आमृष्टास्तिलकरुचः स्रजोनिरस्ताः” माघः। आ + मृज–क्त। ३ परिमार्जिते ४ विशोधिते च। आ + मृश–क्त ५ संस्पृष्टे च
आमोक = पु० आ + मुच–घञ्। परिधाने। ल्युट्। आमोचनमप्यत्र न०।
आमोद = पु० आमोदयति आ + मुद–णिच्–अच्। १ अतिदूरने गन्धे “आमोदमुपजिघ्रन्तौ स्वनिश्वासानुकारिणौ” रघुः “आमोदकर्म्मव्यतिहारमीयुः” माघः। उत्तमस्त्रीणां २ मुखनिश्वासादिगन्धे च। “मुखामोदं मदिरया कृतानु- व्याधमुद्गिरन्” माघः। आ + मुद–घञ्। ३ प्रहर्षे ल्युट्। आमोदनमप्यत्र न०।
आमोदन = त्रि० आ + मुद–णिच् ल्यु। प्रहर्षजनके सुगन्धिसम्पादने “अभुञ्जतामोदनमोदनं जनाः” नैष०। भावे ल्युट्। १ प्रहर्षसम्पादने २ सुगन्धसम्पादने च।
आमोदित = त्रि० आ + मुद–णिच्–क्त। १ प्रहर्षिते २ कृतामोदे ३ सुरभीकृते च।
आमोदिन् = त्रि० आमोदयति सुरभीकरोति आमोद + कृत्यर्थे णिच्–णिनि। मुखवासने १ कर्पूरादौ। आमोद + अस्त्यर्थे इनि। २ आमोदयुक्ते स्त्रियां ङीप्। “नवकुटजवनस्यामोदिनो गन्धवाहाः”।
आमोष = त्रि० आमुष्णाति–आ + मुष–पचाद्यच्। सम्यगपहारके चौरादौ। आ + मुष–भावे घञ्। २ अपहरणे। “यथा बिभ्यदामोषमीयात्” शत० ब्रा०।
***