आनन्द = पु० आ + नन्द–घञ्। १ हर्षे सुखे २ दुःखाभावे, ३ ब्रह्मणि च। अर्शआदित्वादच्। ४ आनन्दवति त्रि० “सत्यंज्ञानमानन्दं ब्रह्मेति श्रुतिः। नैयायिका आनन्दशब्दः दुःखाभावे लाक्षणिकैत्याहुः ब्रह्मणि आनन्दाभावेऽपि दुःखाभावरूपानन्दस्य तत्र सत्त्वात् आनन्दवत्त्वमिति ते मन्यन्ते वेदान्तिनस्तु छान्दसं नपुंसकमिति आनन्दस्वरूपत्वमेव ब्रह्मणः दुःखाभावरूपस्या नन्दस्याधिकरणस्वरूपत्वादित्याहुः एतदभिप्रायेणैव विवरणे “आनन्दोविषयानुभवो नित्यत्वञ्चेति सन्तिधर्म्मा अपृथक्त्वेऽपि पृथगिवावभासन्ते इत्युक्तम्” यथा च ब्रह्मण आनन्दप्रचुरत्वादानन्दमयत्वं तथा “आनन्दमयोऽभ्यासात्” शा० सू० भा० व्यवस्थापितम् त्रैत्ति० उप० आनन्दमयं प्रकृत्य “तस्य प्रियमेव शिरोमोदोदक्षिणः पक्षः प्रमोद उत्तरःपक्षः आनन्द आत्मा ब्रह्म पुच्छ प्रतिष्ठा”। “तस्याप्यानन्दमयस्यात्मन इष्टपुत्रादिदर्शनजं प्रियं शिर इव शिरः प्राधान्यात्। मोद इति प्रियलाभनिमित्तो हर्षः। स एव च प्रकृष्टो हर्षः प्रमोदः। आनन्दः इति सुखसामान्यम्, आत्मा प्रियादीनां सुखावयवानां तेष्वनुसृतत्वादानन्द इति परं ब्रह्म। तद्धि शुभकर्म्मणा प्रत्थुपस्थाप्यमाने पुत्रमित्रादिविषयविशेषोपाधावन्तःकरणवृत्तिविशेषे तमसा। प्रच्छाद्यमाने प्रसन्नेऽभिव्यज्यते तद्विषयसुखमिति प्रसिद्धं लोके। तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्म्मणोऽनवस्थितत्वात्सुखस्यं क्षणिकत्वम्। तद्यदन्तःकरणं तपसातमोघ्नेन, विद्यया, ब्रह्मचर्य्येण, श्रद्धया च निर्मलत्वमापद्यते यावत्तावद्विविक्ते प्रसन्नेऽन्तःकरणविशेष आनन्द उल्लस्यते विपुलीभवति। वक्ष्यति च “रसो वै सः रसं ह्येवायं लब्य्वानन्दी भवति एष हेयवानन्दयाति” “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति” श्रुत्यन्तरात् एवञ्च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्ष आनर्न्दस्य वक्ष्यते। एवञ्चोत्कृष्यमाणस्यानन्दमयस्यात्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्प्रकृतं सत्यज्ञानान्दलक्षणं यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाः कोशा उपन्यस्ताः। यच्च तेभ्योऽभ्यन्तरं येन च ते सर्वे आत्मवन्तस्तद्ब्रह्म पुच्छ प्रतिष्टाः” भा० ब्रह्मण आनन्दरूपरसत्वमपि तत्रैव दर्शितं यथा “यद्वैतत् सुकृतं रसो वै सः रसं ह्येवाऽयं लब्ध्वानन्दी भवति कोह्येवा- न्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति यदा ह्येवैष एतस्मिन्नदृश्येऽनात्मेयऽनिरुक्तेऽनिलयेऽभयं प्रतिष्ठां विन्दते” तै० उ०। “कुतो रसत्वपसिद्धिर्ब्रह्मण इत्यत आह। यद्वैतत्सुकृतं रसो वै सः। रसो नाम तृप्तिहेतुरानन्दकरो मधुराम्लादिः प्रसिद्धो लोके। रसमेवायं लब्ध्वा प्राप्यानन्दी सुखी भवति नासत आनन्दहेतुत्वं दृष्टं लोके। वाह्यानन्दसाधनरहिता अप्यनीहा निरेषणा ब्राह्मणा बाह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसो नूनम्। ब्रह्मैव रसस्तेषाम् तस्मादस्ति तेषामानन्दकारणं रसवद्ब्रह्म। इतश्चास्ति कुतः। प्राणनादिक्रियादर्शनात्। अयमपि हि पिण्डो जीवतः प्राणेन प्रोणिति अपानेनापानिति। एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्य्यकारणैर्निर्वर्त्त्यमाना दृश्यन्ते। तच्चैकार्थवृत्तित्वेन संहननस् संहन्यमानं च नान्तरेण चेतनं संहतं सम्भवति अन्यत्रादर्शनात्। तदाह यद्यदि एष आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यान्न भवेत्को ह्येव लोकेऽन्यादपानचेष्टां कुर्य्यादित्यर्थः। कः प्राण्यात् प्राणनं कुर्य्यात्तस्मादस्ति तद्ब्रह्म। यदर्थाः कार्य्य कारणप्राणनादिचेष्टा? तत्कृत एवानन्दो लोकस्य। कुतः! एष ह्येव पर आत्मा आनन्दयाति आनन्दयति सुखयति लोकं धर्मानुरूपम्। स एवात्मानन्दरूपोऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः” भा०। सर्वानन्दापेक्षया ब्रह्मरूपानन्दस्योत्कर्षस्तत्रैव दर्शितो यथा “सैषानन्दस्य मीमांसा भवति। युवा स्यात् साधुयुवाध्यायिकः। आशिष्ठो दृढिष्ठो बलिष्ठः। तस्येयं पृथिवी सर्वा वित्तस्य पूर्ण्णा स्यात्। स एको मानुष आनन्दः। ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतं मनुष्यगन्धर्वाणामानन्दाः स एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवगन्धर्व्वाणामानन्दाः स एकः पितॄणां चिरलोकानामानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतं पितॄणां चिरलोकानामानन्दाः। स एक आजानजानां देवानामानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतमाजानजानां देवानामानन्दाः स एकः कर्म्मदेवानामानन्दः ये कर्म्मणा देवानपि यन्ति, श्रोत्रियस्य चाकामहतस्य। ते ये शतं कर्म्मदेवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतं देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतमिन्द्रस्यानन्दाः स एको वृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतं वृहस्पतेरानन्दाः। स एक प्रजापतेरानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य। स यश्चायं पुरुषे यश्चासावादित्ये स एकः। स य एकंवित् अस्मांल्लोकात्प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रामति, एतं प्राणमयमात्मानमुपसङ्क्रामति, एतं मनोमयमात्मानमुपसङ्क्रामति, एतं विज्ञानमयमात्मानमुपसङ्क्रामति, एतमानन्दमयमात्मानमुपसङ्क्रामति” तैत्ति० उप० “तस्यास्य ब्रह्मण आनन्दस्यैषा मीमांसा विचारणा भवति किमानन्दस्य मीमांस्यमित्युच्यते। किमानन्दो विषयविषयिसम्बन्धजनितो लौकिकानन्दवदाहोस्वित्स्वाभाविक इत्येवमेषानन्दस्य मीमांसा। तत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनसम्पत्तिनिमित्तौत्कृष्टः। स य एष निर्द्दिश्यते ब्रह्मानन्दानुगमार्थम्। अनेन हि प्रसिद्धेनानन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते। लौकिकोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्राऽविद्यया तिरस्क्रियमाणोऽविज्ञातो उत्कृष्यमाणायां चाविद्यायां ब्रह्मादिभिः कर्म्मवशाद्यथाविज्ञानं विषयादिसाधनसम्बन्धवशो विभाव्यमानश्च लोकेऽनवस्थितो लौकिकः सम्पद्यते स एवाविद्याकामकर्म्मापकर्षेण मनुष्यगन्धर्वाद्युत्तरोत्तरभूमिष्वकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभाव्यते शतगुणो त्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्रह्मण आनन्द इति। निरस्तेऽविद्याकृते विषयविषयिविभागे विद्यया स्वाभाविकः परिपूर्ण्णएक आनन्दोऽद्वैते भवतोत्येतमर्थं विभावयिष्यन्नाह। युवा प्रथमवयाः साधुयुवेति। साधुश्चासौ युवा चेति यूनो विशेषणम्। युवाप्यसाधुर्भवति साधुरप्ययुपाऽतो विशेषणं युवा स्यात्साधुयुवेति। आध्यायिकोऽधीतवेदः। आशिष्ठ आशास्तृतमः। दृढिष्ठो दृढतमः। बलिष्ठो बलवत्तमः। एवमाध्यात्मिकसाधनसभ्पन्नः। तस्येयं पृथिवी उर्वी सर्व्वा वित्तस्य वित्तेनोपभोगसाधनेन दृष्टार्थेन च कर्म्मसाधनेन सम्पन्ना पूर्ण्णा। राजा पृथिवीपतिरित्यर्थः। तस्य च य आनन्दः स एको मानुषो मनुष्याणां प्रकृष्ट एक आनन्दः। ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्व्वाणामानन्दः। मनुष्पादानब्दाच्छतगुणेनोकृष्टो मनुष्यगन्धर्व्वाणामानन्दो भवति। मनुष्याः सन्तः कम्मविद्याविशेषाद्गन्धर्वत्वं प्राप्ताः मनुष्यगन्धर्वाः ते ह्यन्तर्धानादिशक्तिसम्पन्नाः सूक्ष्मकार्य्यकारणाः। तस्मात्प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्तिसाधनसम्पत्तिश्च। ततोऽप्रतिहन्यमानस्य प्रतिकारवतो मनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः। तस्य प्रसादविशेषात्सुखविशेषाभिव्यक्तिः। एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेनानन्दोत्कर्ष उपपद्यते। प्रथमन्त्वकामहताग्रहणं मनुष्यविषयभोगकामनाभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणेनानन्दोत्कर्षो मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थं साधु युवाध्यायिक इति श्रोत्रियत्वावृजिनत्वे गृह्येते। ते ह्यविशिष्टे सर्व्वत्र। अकामहतत्वं तु विषयोत्कर्षापकर्षतः सुखोत्कर्षापकर्षाय विशिष्यते। अतोऽकामहतग्रहणम्। तद्विशेषतः शतगुणात् सुखोत्कर्षोपलब्धेरकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम्। व्याख्यातमन्यत्। देवगन्धर्वा जातित एव। चिरलोकानामिति पितॄणां पिशेषणम्। चिरकालस्थायी लोको येषां पितॄणां ते चिरलोका इति। आजान इति देवलोकस्त स्मन्नाजाने जाता आजानजा देवाः स्मार्त्तकर्म्मविशेषतो देवस्थानेषु जाताः। कर्म्मदेवा ये वैदिकेन कर्म्मणाग्निहोत्रादिना केवलेन देवानपि यन्ति। देवा इति त्रयस्त्रिंशद्धविर्भुजः। इन्द्रस्तेषां स्वामी तस्याचार्यो वृहस्पतिः प्रजापतिर्विराड् त्रैलोक्यशरीरो ब्रह्मा। समष्टिव्यष्टिस्वरूपः संसारमरणानलव्यापी। यत्रैत आनन्दभेदा एकतां गच्छन्ति। धर्म्मश्च तन्निमित्तं ज्ञानञ्च तद्विपयमकामहतत्वं च निरतिशयं यत्र स एष हिरण्यगर्भो ब्रह्मा तस्यैव आनन्दः श्रोत्रियेणावृजिनेनाकामहतेन च संर्व्वतः प्रत्यक्षमुपलभ्यते। तस्मादेतानि त्रीणि साधनानीत्यव गम्यते। तत्र श्रोत्रियत्वृजिनत्बे नियते अकामहतत्वं तूकृष्यते इति प्रकृष्टसाधनतावगम्यते। तस्य तस्याकामहतत्वं प्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दो यस्य परमानन्दस्य भात्रा एकदेशः। “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति” श्रुत्यन्तरात्। स एष आनन्दो यस्य मात्रा समुद्राम्भस इव विप्रुषः प्रविभक्ता यत्रैकताङ्गताः स एष परमानन्दः स्वाभाविकोऽद्वैतत्वात्। आनन्दानन्दिनोयायिभागोऽत्र। तदेतन्मीमांसाफलमुपसंह्रियते स यश्चायं पुरुष इति। गुहायां निहितः परमे व्योम्न्याकाशादिकार्य्यं सृष्ट्वाऽन्नमयान्तं तदेवातुप्रविष्ठः स य इति निर्द्दिश्यते। स एकोऽसावयं पुरुषे यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षो निर्दिदी यर्स्यकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युपजीवन्ति स यश्चासावादित्ये इति स एकः। तं मीमांसया च सिद्धमुपसंहृतं भिन्नप्रदेशस्थघटाकाशाकाशैकत्ववत्। नन्वानन्दस्य मीमांसा प्रकृता तस्या अपि फलमुपसंहर्त्तव्यम्, अभिन्नः स्वाभाविक आनन्दः परमात्मैव न विषयविषयिसम्बन्धजनित इति। ननु तदनुरूपएवायं निर्देशः स यश्चायं पुरुषे यश्चासावादित्ये स एक इति भिन्नाधिकरणस्थविशेषोपमर्दनेन। नन्वेवमप्यादित्यविशेषणग्रहणमनर्थकम्। नानर्थकम्। उत्कर्षापकर्षापोहार्थत्वात्। द्वैतस्य हि यो मूर्त्तामूर्त्तलक्षणस्योत्कर्षः सवित्रभ्यन्तरगतः स चेत् पुरुषगतविशेषोपमर्द्देन परमानन्दमपेक्ष्य समो भवति न कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्युभयं प्रतिष्ठां विन्दत इत्युपन्नम्”। “स यः कश्चिदेवं यथोक्तं ब्रह्मोत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीति। एवशब्दस्य प्रकृतपरामर्शार्थत्वात्। स किम्? अस्माल्लोकात्प्रेय दृष्टादृष्टविषयसमुदायो ह्ययं लोकस्तस्मादस्माल्लोकात्प्रेत्य प्रत्यावृत्य निरपेक्षो भूत्वा एतं यथा व्याख्यातम् अन्नमयमात्मानभुपसङ्क्रामति विषयजातमन्नमयात्पिण्डा त्मनो व्यतिरिक्तं न पश्यति सर्वं स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः। ततोऽभ्यन्तरमेतं प्राणमयं सर्व्वान्नमयात्मस्थमविभक्तम्। अथैतं मनोमयं विज्ञानमयमानन्दमयमात्मानमुपसंक्रामति। अथाऽदृश्येऽनात्म्येऽनिरुक्तेऽनिलययेऽभयं प्रतिष्ठां विन्दते तत्रैव नान्यत्र च” शाङ्करभाष्यम्
अत्र प्रसङ्गात् सुखदुःखादीनां स्वरूपकारणादिकं तावन्निरूप्यते प्रकृतेः सुखदुःखमोहात्मकसत्त्वरजस्तमोगुणरूपत्वात् सुखादीनां सत्त्वादिकार्य्यत्वम्। यथोक्तं सां० का० “प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः। अन्योन्याभिभवाश्रयजननभिथुनमवृत्तयश्च गुणाः” अस्याः सां० कौ० व्याख्या। “प्रीतिः सुखं प्रीत्यात्मकः सत्वगुणः, अप्रीतिर्दुखं अप्रीत्यात्मकोरजोगुणः, विषादो मोहः विषादात्मकस्तमोगुण इति। ये तु मन्यन्ते न प्रीति र्दुःखाभावादतिरिच्यते एवं दुःखमपि न प्रीत्यभावादत्यदिति तान् प्रत्यात्मग्रहणम्। नेतरेतराभावाः सुखादयः अपि तु भावाः आत्मशब्दस्य भाववचनत्वात् प्रीतिरात्मा भावो येषां ते प्रीत्यात्मानः। एवमन्यदपि व्याख्येयम्। भावरूपता चैषा- मनुभवसिद्धा परस्परामावात्मकत्वे तु परस्पराश्रयापत्तेरेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः। स्वरूपमेषामुक्त्वा प्रयोजनमाह प्रकाशप्रवृत्तिनियमार्थाः अत्रापि यथासंख्यमेव। रजः प्रवर्त्तकत्वात्सर्वत्र लघु सत्वं प्रवर्त्तयेत् यदि तमसा गुरुणा न नियम्येत। तमोनियतन्तु क्वचिदेवप्रवर्त्तयतीति भवति तमो नियमार्थम्। प्रयोजनमुक्त्वा क्रियामाह अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च वृत्तिः क्रिया सा च प्रत्येकमभिसम्बध्यते। अन्योन्याभिभववृत्तयः एषामन्यतमेनार्थवशादुद्भूतेनान्यदभिभूयते। तथा हि सत्त्वं रजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभते एवं रजः सत्त्वतमसी अभिभूय घोराम्, एवं तमः सत्त्वरजसी अभिभूय मूढामिति”। “प्रीत्यप्रीतिविषादाद्यैर्गुणानामन्योन्यं वैधर्म्म्यम्” सां० सूं०। “गुणानां सत्त्वादिद्रव्यत्रयाणामन्योन्यं सुखदुःखविषादाद्यैर्वैधर्म्म्यम् कार्य्येषु तद्दर्शनादित्यर्थः सुखादिकं च घटादिविषयाणामपि रूपवदेव धर्म्मोऽन्तःकरणोपादानत्वात् सर्व्वकार्य्याणां, तत्तद्गुणत्वौचित्यात् एतच्चानुपदं निरूपयिष्यते। मनसः संकल्पात्मकतावत् सत्त्वादीनां सुखाद्यात्मकता धर्म्मधर्म्म्यभेदात्” सा० प्र० भा०। “हेयं दुःखमनागतम्” इत्युपक्रम्य “द्रष्टृदृश्यसंयोगो हेयहेतुः” पात० सू० हेयस्य दुःखस्य कारणं द्रष्टृदृश्ययोः संयो गमुक्त्वा “प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्” पा० सूत्रे दृश्यपदार्थो निरूपितः। अयमर्थः प्रकाशशीलं सत्त्वं, क्रियाशीलं रजः, प्रकाशक्रिययोः प्रतिबन्धरूपस्थितिशीलं तमः। तत्र सत्त्वं मृदुत्वात् तप्यं, तापकं रजः रञ्जकत्वात्। एवं सत्त्वरजसोस्तप्यतापकभावे सति तमसा मोहः सम ताप इत्येवं रूपभ्रान्तिरूपोमोहः पुरुषस्य भवति। तदिदं गुणत्रयं स्वस्वकार्य्ये मिथः सहायमविवेकिभोग्यं विवेकित्याज्यं परस्पराश्रयं परस्पराभिभाव्याभिभानकभावञ्च गच्छति” इत्येवं स्थिते सति करणान्तरे रजस्तमसी अभिभूय सत्त्वं यदा प्रवर्द्धते तदा सत्त्वोद्रेकात् सुखं जायते। सत्त्वतमसी अभिभूय सति कारणान्तरे यदा रजः प्रवर्द्धते तदा रज उद्रेकात् दुःखं भवति सत्त्वरजसी अभिभूय यदा तम उद्रिक्तं भवति तदा मोह विषादादिकं जायते इति सुखादिसमुद्भवप्रकारः। तत्र कारणं धर्म्माधर्म्मादिसचिवोरागादिरेव। यथाह “सुखानुशयी रागः” दुःखानुशयी, द्वेषः” पा० सू० सुखानुभवे सति स्मृत्या तज्जातीसुखान्तरे तत्साधने वा तृष्णा स रागः सुखमनुशेते विषयीकरोति सुखानुशयीत्यर्थः एवं दुःखानुभवितुः स्मृत्या दुःखे तत्साधने वा यः क्रोधः स द्वेष इत्यर्थः। एवञ्च सुखस्य स्मरणात्मकज्ञानात् सुखे इच्छा नान्येच्छाधीना इति तस्य स्वतःप्रयोजनत्वम् अन्येच्छानधीनेच्छाविषयस्यस्यैव तथात्वात्। तत्साधने तु सुखसाधनत्वज्ञानादेवेच्छा अतस्तस्य गौणप्रयोजनत्वम्। स्मरणात्मकदुःखज्ञानाच्च दुःखे द्वेषः तत्साधने तु तत्साधनन्त्वज्ञानात् द्वेषः यथाह भाषा० “सुखन्तु जगतामेव काम्यं धर्म्मेण जन्यते। अधर्म्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम्। निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते। इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि। चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा च या भवेत्। तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत्। बलवदद्विष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका। तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते। द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य कारणम्”। इच्छया च तत्साधने प्रवृत्तिः। द्वेषाच्च तत्साधने निवृत्तिः। यत्र सुखनान्तरीयकविधया दुःखमुत्पद्यते तादृशे कर्म्मणि द्विष्टसाधनत्वज्ञाने सत्यपि इच्छातत्कार्ययोर्दर्शनात् बलवद्द्विष्टासाधनत्वज्ञानस्यैव इच्छायां प्रवृत्तौ च कारणत्वेन तस्य तन्नान्तरीयकत्वान्न बलवद्द्विष्टत्वम्। अतएव कण्टकि मत्स्यभक्षणादौ सतुषधान्यादिग्रहणे च प्रवृत्तिः। कामुकादेः परदारादिगमने नरकसाधनत्वं विदुषोऽपि प्रवृत्तिस्तु तत्काले ऐहिकसुखापेक्षयां कालान्तरभाविनि नरकादौ बलवद्द्वे षाभावेन बलवद्विष्टासाधनत्वज्ञानादेवेति न विरोधः। तत्र सुखं प्रथमं द्विविधं ज्ञानप्रसादलब्धं ब्रह्मानन्दाद्यपरपर्य्यायं निरतिशयम्, वैषयिकं सातिशयञ्च” तच्च तैत्तिरीय श्रुतौ मनुष्यादारभ्य ब्रह्मपर्य्यान्तानाम् ७१७ पृष्ठेप्राग्दर्शितम् सातिशयञ्च सुखं विवेकिनां दुःखमेव। यथोक्तम् विषयतृष्णाराहित्यरूपोपरतिस्वरूपतुष्टिप्रदर्शने” सां० कौ०। “अर्ज्जनरक्षणक्षयभोगहिंसादोषदर्शनहेतुजन्मान उपरमाः पञ्च भवन्ति। तथा हि सेवादयोधनोपार्जनोपायास्ते च सेवकादीन् दुःखाकुर्वन्ति। दृप्यद्दुरीश्वरद्वाःस्थहस्तदत्तचण्डार्द्धचन्द्रजां वेदनां भावयन् प्राज्ञः कः सेवासु प्रसज्जते?। एवमन्येऽप्यऽर्ज्जनोपाया दुःखा इति विषयोपपरमे या तुष्टिः सैषा पारमुच्यते। तथार्जितं धनं राजैकागारिकाग्निजलौघादिभ्योविनङ्क्ष्यतीति तद्रक्षणेमहद्दुःखमिति भावयतोविषयोपरमे या तुष्टिः सा द्वितीया सु- पारमुच्यते। तथा महतायासेनार्जितं धनं भुज्यमानं क्षीयते इति तत्प्रक्षयं भाववतोविषयोपरमे या तुष्टिः सा तृतीया पारपारमुच्यते। एवं शब्दादिभोगाभ्यासाद्वर्द्धन्ते कामास्ते च विषयाप्राप्तौ कामिनं दुःखयन्तीति भोगदोषं भावयतो विषयोपरमे या तुष्टिः सा चतुर्थी अनुत्तमाम्भ उच्यते। एवं नानुपहत्य भूतानि विषयोपभोगः सम्भवतीति हिंसादोषदर्शनाद्विषयोपरमे या तुष्टिः सा पञ्चमी उत्तमाम्भ उच्यते”। “परिणाम तापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः” पात० सूत्रेचोक्तम्। अयमर्थः परिणामोऽन्यथाभावः तापः वर्त्तमानः, संस्कारोभूतः एतान्येव दुःखानि तैरिति विग्रहः तथा च विषयसुखभोगात् कामानलो वर्द्धते “न जातु कामः कामानामुपमोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते” इति भारतोक्तेः तद्वृद्धौ च सत्यां कदाचित् काम्यालाभे दुःखमवश्यं भावि कदाचिद्लाभेऽपि कुत्रश्चिद्भोगसङ्कोचे दुःखम् ततः सङ्कोचके द्वेषः ततः कामद्वेषाभ्यां पापस्योपचयात् दुःखमवश्यं भावि। असङ्कोचे व्याधिः पापञ्च ततोदुःखम् एवं भोगस्य परिणामदुःखता। तथा सुखभोगस्य तत्साधनस्य नाशे तापः अनुतापः स च दुःखमेवेति तस्य तापदुःखता। तथा भोगनाशेऽपि तत्संस्कारः तिष्ठत्येव सति तस्मिन् तज्जातीये पुनः रागः रागे च पुण्यापुण्यसाधनावश्यम्भावः ततः पुनः सुखदुःखभोगः ततः पुनः संस्कार इत्यनन्तदुःखसन्ततिः तथा च यथा भोगनाशे न संस्कारो भवेत् तथा यतितव्यमिति अतएवोक्तम् “असक्तः सुखमन्वभूत्” सर्व्वमेव विषयभोगसाधनं विषयजन्यं सुखं च दुःखपक्षे निक्षेप्तव्यम्। तत्र हेतुः गुणवृत्तिविपर्य्ययादिति गुणानां चित्तात्मना परिणतानां सत्त्वरजस्तमसांवृत्तीनां सुखदुःखमोहानां विरोधात् परस्पराभिभाव्याभिभावकत्वरूपविरोधात् इति। तथा च त्रिगुणचित्तस्य यदा रजस्तमसी सत्त्वात् किञ्चिदूने मवतः तदा ते गिथुनीभूय सत्त्वाभिभवाभिमुखे भवतः। तदानीञ्च तमसा सत्वापिधानै कृते रजसैश्वर्य्यं कामयमानेन विषयः प्रियो भवति तदा तेन सत्त्वाच्छादनेन चित्तं विक्षिप्तं भवति। यदा तु तमः प्रधानं तदा चित्तं मूढं भवति सत्त्वोद्रेके तु सुखम् इत्येवमेकस्यैव चित्तस्य सत्त्वादिकारणोद्रेकभेदेन सुखदुःखादिरूपता।
सुखादिकञ्च अन्तःकरणधर्मः धर्म्मावर्म्मफलत्वात् “शा- स्त्रदेशितं फलमनुष्ठातरीति” न्यायेन कृत्यादीनामन्तःकरणधर्म्मत्वेन तद्धर्म्म त्वौचित्योत् पुरुषे तु तानि तदविवेकादौपाधिकानि “प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्वशः। अहङ्कारविमूढात्मा वर्त्ताहमिति मन्यते” गीतोक्तेः प्रकृतिगुणानां वास्तविककर्त्तृत्वसिद्धेः। “तस्मात् संयोगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्त्तृत्वे च तथा कर्त्ता भवत्युदासीन” इति सां० का० राजसवृत्तेः अन्तःकरणस्यैव वास्तविककर्त्तृत्वोक्तेश्च क्रियाफलस्य सुखादेरपि तत्सामानाधिकरण्यम्। एतदाशयेनैव “तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः। लिङ्गस्याविनिवृत्तेस्तस्माद् दुःखं स्वभावेन सा० का० उक्तिः पुरुषे औपाधिकदु खस्य सद्भावपरा”। किञ्च अन्तःकरणस्य तावत् सुखादिभिरन्वयव्यतिरेकौ सर्व्वसम्मतौ इत्यन्वयव्यतिरेकाभ्यां सिद्धकारणभावस्य तस्योपादानत्वमेव सांख्यादिभिः कल्प्यते न पुनस्तस्य निमित्तत्वं प्रकल्प्य आत्मनस्तत्र समवायिकारणत्वकल्पनं गौरवपराहतत्वात् निर्गुणत्वादिश्रुतिविरोधाच्च। सत्यपि तस्यस्वाभाविकाकर्त्तृत्वे भोक्तृत्वमस्त्येवेति सांख्या आहुः यथोक्तं सांख्यसूत्रभाष्ययोः “चिदवसानो भोगः” सू०। “पुरुषस्वरूपे चैतन्येपर्यवसानं यस्य तादृशो भोगः सिद्धिरित्यर्थः। बुद्धेर्भोगस्य व्यावर्तनाय चिदवसान इति। चितः परिणामित्वरूपधर्म्मत्वादिशङ्कानिरासायावसानपदम्। चितौ भोगस्य स्वरूपे पर्यवसितत्वान्न कौटस्थ्यादिहानिरित्याशयः। तथाहि प्रमाणा ख्यवृत्त्यारूढं प्रकृतिपुरुषादिकं प्रमेयं वृत्त्या सह पुरुषे प्रतिविम्बितं सद्भासते। अतोऽर्थोपरक्तवृत्तिपतिविम्बावच्छिन्नं स्वरूपचैतन्यमेव भानं पुरुषस्य भोगः प्रमाणस्य च फलमिति। ततश्च प्रतिबिम्बरूपेणार्थसम्बन्धे द्वारतया वृत्तीनां करणत्वमिति। तदुक्तं विष्णुपुराणे। “गृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति। अन्तःकरणरूपाय तस्मै विश्वात्मने नमः” इति। राज्ञो हि करणवर्गः स्वामिने भोग्यजातं समर्पयतीति दृष्टमिति। भोगशब्दार्थश्चाभ्यवहरणम् आत्मसात्करणमिति यावत्। स च देहादिचेतनान्तेषु साधारणः। विशेषस्त्वयम्। अपरिणामित्वात् पुरुषस्य विषयभोगः प्रतिबिम्बादान मात्रम्। अत्येषां तु परिणामित्वात् पुष्ट्यादिरपीति। अयमेव च परिणामरूपः पारमार्थिको भोगः पुरुषे प्रतिषिध्यते “बुद्धेर्भोग इवात्मनीत्यादिभिरिति” मन्तव्यम्। अणिन् सूत्रे पुरुषस्यापि फलव्याप्यता सिद्धा चिद- वसानताया एवात्र भोगत्ववचनादिति ननु कर्त्तुरेव लोके क्रियाफलभोगो दृष्टः। यथा सञ्चरत एव सञ्चारोत्थदुःखभोग इति तत् कथं बुद्धिकृतधर्म्मादिफलस्य सुखाद्यात्मिकाया अर्थोपरक्तबुद्धिवृत्तेर्भोगः पुरुषे घटेतेत्याशङ्कायामाह। “अकर्त्तुरपि फलोपभोगोऽन्नाद्यवत्” सू०। बुद्धिकर्म्मफलस्यापि वृत्तेरुपभोगस्तदकर्त्तुरपि पुरुषस्य युक्तः अन्नाद्यवत्। यथान्यकृतस्यान्नादेरुपभोगो राज्ञो भवति तद्वदित्यर्थः। अविवेकस्य स्वस्वामिभावस्य वा भोगनियामकत्वात् तु नातिप्रसङ्गः। सुखदुःखादेः कर्म्मफलत्वमभ्युपेत्य बुद्धिगतं कर्म्मफलं पुरुषो भुङ्क्त इत्युक्तम्। इदानीं पुरुषगतभोगस्यैव कर्म्मफलत्वं स्वीकृत्य बुद्धिकर्म्मणा पुरुष एव फलमुत्पद्यत इति मुख्यसिद्धान्तमाह। “अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः” सू०। अथवा कर्तरि फलमेव न भवति सुखं भुञ्जीयेत्यादिकामनाभिर्भोगस्यैव फलत्वात्। अतो भोक्तृनिष्ठमेव फलं भवति “शास्त्रविहितं फलमनुष्ठातरीति” शास्त्रेषु कर्त्तुः फलावगमस्तु तत्सिद्धेरकर्तृनिष्ठाया भोगाख्यसिद्धेः कर्तृबुद्धावविवेकादित्यर्थः। योऽहं करोमि स एवाहं भुञ्ज इति हि लौकिकानुभव इति। या च सुखं मे भूयादित्यादिकामना सा पुत्रो मे भूयादितिवत् फलसाधनत्वेनैवोपपद्यते। भोगस्तु नान्यस्य साधनम्। अतः स एव फलमिति मुख्यः सिद्धान्तः। भोगस्य पुरुषखरूपत्वेऽपि वैशेषिकाणां मते श्रोत्रवत् कार्यता बोध्या सुखाद्यवच्छिन्नचितेरेव भोगत्वात्। अस्मिंश्च भोगस्य फलत्वपक्षे दुःखभोगाभाव एवापवर्गो बोध्यः। अथवा भोग्यतारूपस्वत्वसम्बन्धेन सुखदुःखाभावयोरेव फलत्वमस्तु तेन सम्बन्धेन धनादेरिव सुखादेरपि पुरुषनिष्ठत्वादिति” प्र० भा० युक्तञ्चैतत् “कामः संकल्पोविचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्मीरित्येत्सर्व्वं मन एवेति” श्रुत्या कामादेरन्तःकरण–धर्म्मत्वोक्तेस्तत्फलस्य सुखादेस्तद्धर्म्मौचित्यात् तेषां मनोधर्म्मत्वमिति सांख्यादीनां मतमेवं वेदान्तिनाम् “तद्गुणसारदिति” शा० सू० तथैव भाष्यकृता निर्ण्णीतत्वात्। इयांस्तु विशेषः सांख्यैर्विषयेष्वपि त्रिगुणकार्य्यत्वात् सुखादिकमस्तीतिमन्यन्तेययोक्तम्” सां० कौमुद्याम्। “सुखदुःखमोहाः परस्परविरोधिनः स्वखानुरूपाणि सुखदुः खमोहात्मकान्येव निमित्तानि कल्पयन्ति। तेषाञ्च परस्परमभिभाव्याभिभावकभावान्नानात्वम्। तद्यथा एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति तत कस्य हेतोः? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात्। सैव स्त्री सपत्नीर्दुःखाकरोति तत्कस्य हेरोः? ताः प्रति तस्या दुःखरूपसमुद्भवात्। एवं पुरुषान्तरं तामविन्दत् सैव मोहयति तत्कस्य हेतोः? तत्प्रति तस्या मोहरूपसमुद्भवात्। अनया च स्त्रिया सर्वे भावा व्याख्याताः। तत्र यत्सुखहेतुस्तत्सुखात्मकं सत्वं, यत् दुःखहेतुस्तद्दुखात्मकं रजः, यन्मोहहेतुस्तन्भोहात्मकं तमः, मुखप्रकाशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः सहदर्शनात्। तस्मात् सुखदुःखमोहैरिव विरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाशलाघवैर्न निमित्तभेदा उन्नीयन्ते एवं दुःखीपष्टम्भकत्वप्रवर्त्तकत्वैरेवं मोहगुरुत्वावरणैरिति सिद्धं त्रैगुण्यमिति”। सां० सूत्रे प्र० भाष्ये चोक्तम्। “मखदुःखमोहधर्मिणी बुद्धिः सुखदुःखमोहधर्म्मात्मकद्रव्यजन्या कार्यत्वे सति सुखदुःखमोहात्मकत्वात् कान्तादिवदिति कारणगुणानुसारेणैव कार्य्यगुणौवित्यं चात्रानुकूलस्तर्कः श्रुतिस्मृतयोऽपीति मन्तव्यम्। ननु विषयेषु सुखादिमत्त्वे प्रमाणं नास्ति। अहं सुखीत्याद्येवानुभवात् तत् कथं कान्तादिविषयो दृष्टान्त इति चेन्न सुखाद्यात्मकबुद्धिकार्य्यतया स्रक्सुखं चन्दनसुखमित्याद्यनुभवेन च विषयाणामपि सुखादिधर्मकत्वसिद्धेः श्रुतिस्मृतिप्रामाण्याच्च। किञ्च यस्यान्वयव्यतिरेकौ सुखादिना सह दृश्येते तस्यैव सुखाद्युपादानत्वमपरिकल्प्यान्यस्योपादानत्वकल्पने कारणद्वयकल्पनागौरवम्। अपि चान्योऽन्यसंवादेन प्रत्यभिज्ञया च विषयेषु सर्बपुरुषसाधारणस्थिरसुखसिद्धिः। तत्सुखग्रहणायास्मन्नये वृत्तिनियमादिकल्पनागौरवं च फलमुखत्वान्न दोपावहम्। अन्यथा प्रत्यभिज्ञयावयव्यसिद्धिप्रसङ्गात् तत्कारणादिकल्पनागौरवादिति। विषयेऽपि सुखादिकं च मार्कण्डेये प्रोक्तम्। “तत् सन्तु चेतस्यथवापि देहे सुखानि दुःखानि च किं ममात्र” इति। अहं पखीपादिप्रत्ययस्तु अहं धनीत्यादीप्रत्ययवत् खखामिभावाख्यसम्बन्धविषयकस्तेषां प्रत्ययानां समवायसम्बन्धविषयकत्वममनिरासर्थं तु सुखदुः खिमूढेभ्यः पुरुषो विविच्यते शास्त्रेष्विति। शब्दादिषु च सुखाद्यात्मताव्यवहार एकार्थसमवायात्। अस्तु वा शब्दादिषु साक्षादेव सुखमुक्तप्रभाणेभ्यः। विषयगतसुखादेश्च बुद्धिमात्रग्राह्यत्वं फलबलात्। यत् तु विषयासम्प्रयोगकाले शान्तिसुखं सात्त्विकं सुषुप्त्यादौ व्यज्यते तदेव बुद्धिधर्म्म आत्मसुखमुच्यत इति”।
वैशेचिकादयस्त सुखादिकमात्मनएवधर्म्मः “बुद्ध्यादिषट्कं संख्यादिपञ्चकं भावना तथा। घर्म्माधर्म्मौ गुणाएते आत्ममः स्युश्चतुर्द्दश” इति भाषा० उक्तेः। मनसोऽणुत्वाङ्गीकारेण तेषां तद्गुणत्वे ज्ञानसुखादीनामप्रत्यक्षत्वापत्तेः। प्रत्यक्षे चाश्रयमहत्त्वस्य हेतुत्वात् मनसश्च ज्ञानायौगपद्येनाणुत्वेन महत्त्वाभावादिति युक्तिं प्रदर्श्य श्रुतौ मनोधर्म्मत्वचनन्तु आयुर्घृतमित्यादिवदौपचारिकमित्यङ्गीघक्रुः। तदेतन्मतमसमीचीनम् एकदा ह्रदावगाहे सकलदेहव्यापिशैत्योपलब्धेः नृत्यगीताभिनयादेरेकदा श्रवणदर्शनादेर्दर्शनान् मनसोऽणुत्वासिद्धेः श्रौतमनोधर्म्मत्वस्य निमित्तपरत्वकल्पनेऽपि “अन्नमशितं त्रेधा विधीयते तस्य यःस्थविष्ठोधातुस्तत्पुरीषं यन्मध्यमं तन्मांसं योऽणिष्ठस्तन्मन” इति छा० उ० श्रुत्या “अन्नमयं हि सौम्य!। मन” इत्युक्तस्य मनसोऽन्नविकारत्वस्य समर्थनाय प्रवृत्तया बोधितस्य मनसोऽन्नजन्यत्वस्य अन्नभोजनोपचयापचयाभ्यां तद्वृद्धिह्रासावगतेर्नाणुमानता मनस इति आगमविरोधे अनुमानाप्रवृत्तेः अङ्गीकृतञ्च तैरपि शङ्खदृष्टान्तेन प्राण्यङ्गत्वहेतुना नरकपालशुचित्वानुमाने “नारं स्पृष्ट्वास्थि संस्नेहं सचेलं जलमाविशेत्” मनुस्मृत्या बाधादप्रामाण्यमतः प्रकृतेऽपि तथेति। मनसोऽनणुत्वाभिप्रायेणैव “क्रमशोऽक्रमशश्च वृत्तयः” सां० सूत्रे मनसोऽनणुत्वनिरासेन युगपद्वृत्तयोऽङ्गीकृताः। तथा सांख्य कारिकाकौमुद्योरुक्तम्। “युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा। दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः” का० “दृष्टे यथा यदा सन्तमसान्धकारे विद्युत्सम्पातमात्राद्व्याघ्रमभिमुखमतिसन्निहितं पश्यति तदा खल्वस्यालोचनसङ्कल्पाभिमानाध्यवसाया युगपदेव प्रादुर्भवन्ति, यतस्तत उत्पत्य तत्स्थानादेकपदेऽपसरति। क्रमशश्च यदा मन्दालोके प्रथमं तावद्वस्तुमात्रं सम्मुग्धमालोचयति अथ प्रणिहितमनाः कर्णान्ताकृष्टसशरः कुञ्चितपादः शिञ्चितज्यामण्डलीकृतकोदण्डः प्रचण्डतरः पाटच्चरोऽयमिति निश्चिनोति अथ च मां प्रत्येतीत्यभिमन्यते अथाध्यवस्यति अपसरामीतः स्थानादिति। परोक्षे तु अन्तःकरणत्रयस्य बाह्ह्येन्द्रियवर्ज्जं वृत्तिरित्याह अदृष्टे त्रयस्य तत्पूर्विका वृत्तिः। अन्तःकरणत्रयस्य युगपत् क्रमेण च वृत्तिर्दृष्टपूर्विकेति। अनुमानागमस्मृतयोहि परोक्षेऽर्थे दर्शनपूर्वाः प्रवर्त्तन्ते नान्यथा। यथा दृष्टे तथा, अदृष्टेऽपीति योजना” कौ० आकरेऽस्य प्रपञ्चः। तच्च सुखं त्रिविधम्”। यथा “सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ्य! ३६। अभ्यासाद्रमते यत्र दुःखान्तञ्च नियच्छति। यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्तमात्मषुद्धिप्रसादजम् ३७। विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्। परिणामे विषमिव तत्सुखं राजसं स्मृतम् ३८। यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्राखस्यप्रमादोयं तत्तामसमुदाहृतम् ३९। न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्त यदेभिः स्यात्त्रिभिर्गुणैः ४०” गीतीक्तेः। “सुखस्य त्रैविध्यं प्रतिजानीते सुखन्त्विति। स्पष्टोऽर्थः ३६। तत्र सात्त्विकं सुखमाह अभ्यासादिति सार्द्धेन। यत्र यस्मिन् मुखे अभ्यासाद्रमते न तु विषयसुखैव सहसा रतिं प्राप्नोति यस्मिन् रममाणश्च दुःखस्यान्तमवसानं नितरां यच्छति प्राप्नोति। कीवृशं, यत्तत् किमपि अग्रे प्रथमं विषमिव मनःसंयमाधीनत्वाद्दःखावहमिव भवति परिणामे त्त्वमृतसदृशं आत्मविषया बुद्धिरात्मबुद्धिस्तस्याः प्रसादोरजस्तमोमयत्यागेन स्वच्छतयावस्थानं ततोजातं यत् सुखं तत्सात्त्विकं प्रोक्तं योगिभिः ३७। राजसं सुखमाह विषयेति। विषयाणामिन्द्रियाणाञ्च संयोगात् यत्तत् प्रसिद्धं स्त्रीसंसर्गादिसुखं अमृतमुपमा यस्य तादृशं भवति। अग्रे प्रथमं परिणामे च विषतुल्यं इहामुत्र च दुःखहेतुत्वात् तत् सुखं राजसं स्मृतम् ३८। तामसं सुखमाह यदिति। अग्ने च प्रथमक्षणे अनुबन्धे च पश्चादपि यत्सुखमात्मनो मोहकरम्। तदेवाह निद्रा च आलस्यञ्च प्रमादश्च कर्त्तव्यावधानराहित्येन ममोग्राह्यमेतेभ्य उत्तिष्ठति यत्सुखं तत्तामसमुदाहृतम् ३९। अनुक्तमपि संगृह्णन् प्रकरणार्थमुपसंहरति न तदिति त्रिभिः। एभिः प्रकृतिसंभवैः सत्त्वादिभिर्गुणैर्मुक्तं हीनं सत्त्वं प्राणिजातम् अन्यद्वा यत् स्यात्तत् पृथिव्यां मनुथ्यादिषु दिवि देवेषु च क्वापि नास्तीत्यर्थः” श्रीधरः।
वैषयिके सुखदुःखे च इष्टानिष्टविषयेन्द्रियसन्निकर्षजज्ञानात् जायमाने अनुभूयेते क्षणिके च “मात्रास्पर्शास्तु कौन्तेय! शीतोष्णसुखदुःखदाः। आगमापायिनोऽनित्यास्तांस्तितिक्षख भारत! इति गीतोक्तेः। वैषयिकसुखस्य च क्षणिकत्वात् परिणामादिदुःखरूपत्वाच्च विवेकिभिः त्याज्यत्वमेव “त्याज्यं सुखं विषयसङ्गमजन्म पुंसाम्” इत्युक्तेः प्रागुक्त पातञ्जलसूत्राच्च विषयेन्द्रियसंयोगाज्जातन्तु सुखं राजसं प्रागुक्तनीतावाक्यात्। तत्र विषयाश्च शब्द- स्पर्शरूपरसगन्धाः यथायथं तद्वन्तश्च तत्र शब्दविशेषरूप गीतादिषु श्रवणेन्द्रियसंबद्धेषु यत् सुखं तत् वैषयिकमेव किंन्तु आत्मोपासनाङ्गत्वेन गीतादिकमपि चित्तैकाग्रतासम्पादुनद्वारा मोक्षसाधनंभवति तदुक्तं यास्मृतौ मिताक्षरायाञ्च। “यस्य पुनश्चित्तवृत्तिर्न्निराकारालम्बनतया समाधौ नामिरमते तेन शब्दब्रह्मोपासनं कार्य्यमित्याह। “यथाविधानेन पठन् सामगानमविच्युतम्। सावधानस्तदभ्यासात्परंब्रह्माधिगच्छति” या० “खाध्यायावगतमार्गानतिक्रमेण सामगानं साम्नोगानात्मकत्वेऽपि गानमिति विशेषणम् अगीतमन्त्रव्युदासार्थम्। अविच्युतमस्खलितम्। सावधानः सामध्वन्थनुस्यूतात्मैकाग्र्यचित्रवृत्तिः पठन् तदभ्यासवशात्तत्र निष्णातः शब्दाकारब्रह्मण उपासने परब्रह्माधिगच्छति। तदुक्तम्। “शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति”। यस्य पुनर्वैदिक्याङ्गीतौ चित्तं नामिरमते तेन लौकिकगीतानुस्यूतात्मोपासनङ्कार्यमित्याह। “अपरान्तकमुल्लोप्यं मद्रकम्प्रकरीन्तथा। औवेणकं सरोविन्दुमुत्तरङ्गीतकागि च। ऋग्गाथापाणिकादक्षविहिता ब्रह्मगीतिका। गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम्” या०। अपरान्तकोल्लोप्यमद्रकप्रकर्य्यौवेणकसरोविन्दुसहितञ्चोत्तरमित्येतानि प्रकरणाख्यानि सप्त गीतकानि। चशब्दादासारितवर्द्धमानकादिमहागीतकानि गृह्यन्ते। गाथाद्याश्चतस्रोगीतिका गृह्यन्ते। ऋग्गाथाद्याश्चतस्रोगीतिकाइत्येतदपरान्तकादिगीतजातमध्यारोपितात्ममवम्मोक्ष साधनत्वान्मोक्षसंज्ञितं मन्तव्यम् तदभ्यासस्यैकाग्रतापादनद्वारेणार्मैकतापत्तिकारणत्वात्। किञ्च। “वीष्णावादनतत्त्वज्ञः श्रुतिजातिविशारदः। तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति” या०। भरतमुनिप्रतिपादित वीणायादनतत्त्ववेदी श्रूयत इति श्रुतिर्द्वाविंशतिविधा सप्तस्वरेषु। तथा हि षड्जमध्यमपञ्चमाः प्रत्येकं चतुःश्रुतय ऋषभधैवतौ प्रत्येकन्त्रिश्रुती। गान्धारनिषादौ प्रत्येकं द्विश्रुती इति। जातयस्तु षड्जादयः सप्त श्रुद्धाः सङ्करजातयस्त्वेकादशेत्येवमष्टादशविधास्तासु विशारदः प्रवीणः तालैति नीतप्रमाणङ्कथ्यते तत्खरूपज्ञश्च तदनुविद्धब्रह्मोपासनतया तालादिभङ्गभयाच्चित्तवृत्तेरात्मैकाग्रतायाः सुकरत्वादल्पायासेनैव सुक्तिपथन्नियच्छति प्राप्नोति। चित्तविक्षेपाद्यन्तारायोपेतस्य गीतज्ञस्य फलान्वरमाह। “गीतज्ञोयदि योगेन नाप्नोति परमम्पदम्। रुद्रस्यानुचरोभूत्वा सह तेनैव मोदते” या०। गीतज्ञोयदिकथञ्चिद्योगेन परमम्पदन्न प्राप्नोति। तर्हि रुद्रस्य सचिवोभूत्वा तेनैव सह मोदते क्रीडति” मिता०। विवृतिर्गानशब्दे।
सुखं दुःखञ्च न प्रतिनियवविषयजन्यं व्यक्तिभेदेन कालभेदेन देशादिभेदेन च सुखहेतोरपि दुःखहेतुत्वं दुःखहेतोरपि सुखहेतुत्वम्। तथा हि खलादिं प्रति साधुभिरुक्तस्य विनयवाक्यस्यापि तं प्रति दुःखहेतुत्वं कथमन्यथा तस्य श्रवणात् खलादेरहितकर्म्मणि प्रवृत्तिः स्यात् एवं वैरिणं प्रत्यपि सामवादस्य दुःखहेतुत्वम् एतदाशयेनैव “सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः” इति माघे वर्णितम्। तथा चन्द्रकिरणनलिनभ्रमरध्वन्यादेरन्यत्र सुखकरस्यापि विरहिणं प्रति दुःखहेतुत्वम्,। एवंदुःखहेतोर्विष्ठाहारादेरपि शूकरं प्रति सुखकरत्वम् इति तत्र न वस्तु नियमः। अतएवोक्तम् “विषमप्यमृतं क्वचिद्भवेदमृतं वा विषमीश्वरेच्छया। हिमसेकविपत्तिरुत्र मे नलिनी पूर्व्वनिदर्शनं गता” रघुः एवं कालभेदेऽपि सुखदुःखकरयोर्विपर्य्ययः यथा शोतकाले दुःखहेतोः ग्रीष्मे सुखहेतुत्वम् एवमग्न्यादितापस्य शीतकाले सुखकरस्य ग्रीष्मे दुःखकरत्वम् एवं देशभेदेऽपि यथा तिन्तिद्यादेरन्यत्र सेवने रोगादि दुःखदत्वं क्षारदेशे तु सुखकरत्वम् अतएवोक्तं “किमाश्चर्य्यं क्षारदेशे प्राणदा यमदूतिकेति” यथा च वस्तुमात्रस्य त्रिगुणात्मकत्वात् व्यक्तिभेदेन कालादिभेदेन च सत्त्वरजस्तमसां समुद्रेकात् विपर्य्यस्तरूपतापत्तिः तथा प्रागुक्तसांख्वतत्त्वकौमुदी वाक्ये स्पष्टैव। अत एव रसादौ लोकसिद्धकारंणविपर्य्ययः” सा० द० उक्तः यथा “हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात्। शोकहर्षादयो लोके जायन्तां नाम लौकिकाः। अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात्। सुखं सञ्चायते तेभ्यः सर्व्वेभ्योऽपीति का क्षतिः। ये खलु रामवनवासादयो लोके दुःखकारणानि इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पि ता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यत्वं विहायालौकिकविभावशब्दवाच्यत्वं भजन्ते। तेभ्यश्च सुरते दन्तघातादिभ्य इव सुखमेव जायते। अतश्च लौकिकशाकहर्षादिकारणेभ्यो लौकिकशोकहर्षादयो जायन्ते इति लोक एव प्रतिनियमः। काव्ये पुनः “सर्व्वेयोऽपि विभावादिभ्यः सुखमेव जायते” इति नियमान्न कश्चिद्दोषः। कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपातादयो जायन्तै- त्युच्यते। अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः”।
वैषयिकसुखेषु काव्यादिरसास्वादसुखमतीवचमत्काराधायकतया ब्रह्मानन्दतुल्यमित्यालङ्कारिका मन्यन्ते यथोक्तम्” सा० द०। “सत्वेद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः। वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः। लोकोत्तरचमत्कारप्राणः कैश्चित् प्रमातृभिः। स्वाकारवदभिन्नत्वेनायमाखाद्यते रसः। रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते। इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्म्मः सत्वं तस्योद्रेकः रजस्तमसी अभिभूयाविर्भावः। अत्र च हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम्। अखण्ड इत्येक एवायं विभावादिरत्यदिप्रकाशलक्षणचमत्कारात्मकः। अत्र हेतुं वक्ष्यामः। स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या! चिन्मय इति स्वरूपार्थे मयट्। चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्य्यायः”। “रसे सारश्चमत्कारः सर्व्वत्राप्यनुभूयते। तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः”। “पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिंमिति”। यद्यपि “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वगुक्तं तथापि “रसः खाद्यते” इति काल्पनिकं भेदमुररीकृत्य कर्म्मकर्त्तरि वा प्रयोगः। तदुक्तम्। “रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रस” इति च। “आनन्दजाश्रुभिरनुस्रियमाणमार्गान्” “स तमानन्दमविन्दत द्विज” इति च नैषधम् एवं तत्रत्यसर्व्वसर्गेषु उपान्तिमश्लोकेषु उदा०। “आनन्दाद्ध्येव प्रजाः प्रजायन्ते आनन्देन जीवन्ति आनन्दे प्रविलीयन्ते” इति श्रुतिः। ५ विष्णौ। “आनन्दीनन्दनोनन्द” विष्णुस०। ६ आदिगुरौत्रिकले दगणे ७ षडिवंशैरगणै रचिते दण्डकछन्दोभेदे। आनन्दयति आ + नदि–णिच्–अच्। ८ आनन्दकरे ति०। षष्टिसंवत्सरमध्ये अष्टाचत्वारिंशे ९ वर्षभेदे पु०। “निष्पत्तिः सर्व्वशस्यानां सर्वशस्यमहार्थता। घृतं तैलं समं याति आनन्दे नन्दिनी प्रजा” ज्योति० तल्लक्षणम्। १० मद्ये न०। ११ गृहभेदे च तल्लक्ष्म गृहशब्दे वक्ष्यते। १२ विष्णुगणभेदे पु०।
आनन्दकानन = न० आनन्द हेतुः काननम्। अविमुक्ते काशीक्षेत्रे आनन्दवनादयोऽप्यत्र। तस्यानन्दवननामनिरुक्तिः काशीखण्डे २६ अ० दर्शिता यथा अविमुक्तं प्रकृत्य। “अस्यानन्दवनं नाम पुराऽकारि पिनाकिना। क्षेत्रस्यानन्दहेतुत्वादविमुक्तमनन्तरम्। आनन्दकन्दवीजानामङ्क राणि यतस्ततः। ज्ञेयानि सर्वलिङ्गानि तस्मि- न्नानन्दकानने”। तस्य चानन्दहेतुत्वं तत्र मरणेन तत्त्वज्ञानसम्पादनद्वारा ब्रह्मस्वरूपानन्दप्राप्तिहेतुत्वात् यथोक्तं जावालीपनिषदि अविमुक्तं प्रकृत्य “तत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूय मोक्षी भवति”।
आनन्दज = त्रि० आनन्दात् जायते जन–ड ५ त०। आनन्दजातेअश्रुपातादौ सत्त्वगुणोद्रेके हि चेतसो द्रुत्त्वात् नेत्रादिद्वारेण तत्प्रेरितस्य जलविन्दोः क्षरणं भवति यथोक्तम्” सा० द० “अश्रुपातादयस्तद्वद्द्रुतत्वाच्चे तसोमताः” “आनन्दजाश्रुभिरनुस्त्रियमाणमार्गान्” नैष०।
आनन्दथु = पु० आ + नदि–भावे अथुच्। आनन्दे सुखे नन्दथुरप्यत्र “यस्यासौ तस्य नन्दथुः” भट्टिः।
आनन्ददत्त = पु० आनन्दोदत्तो येन। मेहने शब्दचि० मेहनाद्धि प्रचुरानन्दोभवतीति तस्य तयात्वम्।
आनन्दन = न० आनन्दयत्यनेन आ + नदि–णिच् करणे ल्युट्। यातायातर्काले मित्रादेः १ आरोग्यस्वागतादिप्रश्ने २ तात्कालिकालिङ्गने च। भावे ल्युट्। ३ सुखजनने।
आनन्दपट = पु० आनन्दजनकः पटः। नवोढावस्त्रे हारा०।
आनन्दपूर्ण्ण = पु० आनन्देन पूर्ण्णस्तृप्तः। सदाप्तकामत्वेन काम्यान्तरा भावात् परितृप्ते परमात्मनि। २ अतिशयिता नन्दयुक्ते त्रि०।। आनन्दप्रचुरादयोऽप्युभद्यत्र। नैयायिकादिमते तु आनन्देन दुःखाभावेन पूर्ण्णः अपरिच्छन्नतया विभुत्वात् इति इति भेदः।
आनन्दप्रभव = पु० आनन्दःप्रभवः प्रभवापादनं यस्य। १ वीर्य्ये रेतसि तस्य सात्विकान्सन्दोदयादेव प्रवृत्तेस्तथात्वम्। २ मूतादिप्रपञ्चे “आनन्दाद्ध्येव प्रजाः प्रजायन्ते आनन्देन जीवन्ति आनन्दे प्रविलीयन्ते” इति श्रुत्या भूतानां ब्रह्मस्वरूपानन्दभवत्वात् तथात्वम्।
आनन्दभुज् = पु० आनन्दं भुङ्क्ते भुज–क्विप्। सुषुप्त्यवस्थापन्ने प्राज्ञे जीवभेदे “आनन्दभुक् चेतोमुखः प्राज्ञः” इति श्रुतिः यथा लोके आयासशून्यः सुखी आनन्दभुगुच्यते तथा सुषुप्तोऽपि सर्वायासशून्यतथा आनन्दभुगित्युच्यते।
आनन्दभैरव = पु० कर्म्म०। शिवमूर्त्तिभेदे तस्य पत्नी ङीप्। प्रकृतिस्वरूपायां परदेवतायाम् तत्पत्न्यां स्त्री अनयोरेव रुद्रयामले प्रश्नप्रतिवचनकर्त्तृत्वम्।
आनन्दमय = पु० आनन्दः प्रचुरोऽस्य प्राचुर्य्ये मयट्। प्रचुरानन्दस्वरूपे परमात्मनि “आनन्दमयोऽभ्यासात्” शा० सू०। यथा च आनन्दप्रचुरत्वात् तस्य आनन्दभयत्वं तथा तद्भा- ष्ये निर्ण्णीतम् यथा “तैत्तिरीयकेऽन्नमयं मनोमयं विज्ञानमयं चानुक्रम्याम्नायते “तस्माद्वा एतस्मा द्विज्ञानमयादन्योऽन्तर आत्मानन्दमय” इति तत्र संशयः किमिहानन्दमयशब्देन परएवात्मोच्यते यतप्रकृतं “सत्यं ज्ञानमनन्तं ब्रह्मेति” किं वान्नमयादिवत् ब्रह्मणोऽर्थान्तरमिति। किन्तावत्प्राप्तं ब्रह्मणोऽर्थान्तरममुख्य आत्मानन्दमयः स्यात्कस्मात्? अन्नमयामुख्यात्मप्रवाहपतितत्वात्। अथापि स्यात्सर्वान्तरत्वादानन्दम्दयोमुख्य एवात्मेति, न स्यात्प्रियाद्यवयवयोगाच्छारीरत्वश्रवणाच्च। मुख्थश्चेदात्मा स्यात् न प्रियादिसंस्पर्शः स्यात् इह तु “तस्य प्रियमेव शिर” इत्यादि श्रूयते। शारीरत्वञ्च श्रूयते। “तस्यैकएवशारीर आत्मा यः पूर्वस्येति”। तस्य पूर्वस्य विज्ञानमयस्यैकएव शारीर आत्मा यएष आनन्दमय इत्यर्थः। न च सशरीरस्य सतः प्रियाप्रियसंस्पर्शीवारयितुंशक्यः। तस्मात् संसार्य्येवानन्दमय आत्माइत्येवं प्राप्ते इदमुच्यते। परएव आनन्दमयो भवितुमर्हति कुतः? अभ्यासात्परस्मिन्नेवह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यते आनन्दमयं प्रस्तुत्य “रसोवैस” इति तस्यैव रसत्वमुक्त्वोच्यते “रसं ह्येवायं लब्ध्वानन्दी भवति कोह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दोन स्यादेष ह्येवानन्दायति सैषानन्दस्य मीमांसा भवति”। “एष आनन्दमयमात्मानमुपसंक्रामति” “आनन्दं ब्रह्मणोविद्वान् न बिभेति कुतश्चन” “आनन्दो ब्रह्मेति व्यजानादिति” च। श्रुत्यन्तरे च “विज्ञानमानन्दं ब्रह्मेति” ब्रह्मण्येवानन्दशब्दोदृष्टः। एवमानन्दशब्दस्य बहुकृत्वोब्रह्मण्मेवाभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते। यत्तूक्तम् अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यात्मत्वमिति। नासौ दोषः आनन्दमयस्य सर्वान्तरत्वात्। मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरदन्नमयं शरीरमनात्मानमत्यन्तभूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत् ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत् प्रतिपत्तिसौकर्य्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम्। यथाऽरुन्धतीनिदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु याऽन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति एवमिहाप्यानन्दमयस्य सर्वान्तरत्वाम्मुख्यमात्मत्वम्। यत्तु ब्रूषे प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इति अतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्य- दोषः। शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात् न पुनः साक्षादेव सशरीरत्वं संसारिवद् तस्मादानन्दमयः परएवात्मा। “विकारशब्दान्नेति चेन्न प्राचुर्च्यात्” सू०। अत्राह नानन्दमयः परात्मा भवितुमर्हति कस्मात्? विकारशब्दात्। प्रकृतिवचनादयमन्यः शब्दो विकारवचनः समधिगत आनन्दमय इति मयटोविकारार्थत्वात् तस्मादन्नमयादिशब्दवद्विकारविषय एवायमानन्दमयशब्द इति चेन्न प्राचुर्य्यार्थेऽपि मयटः स्मरणात् “तत्प्रतिकृतवचने मयडिति” (पा०) प्रचुरतायामपि हि मयट् स्मर्य्यते। यथान्नमयो यज्ञ इति अन्नप्रचुर उच्यते। आनन्दप्रचुरत्वञ्च ब्रह्मणः मनुष्यत्वादारभ्योत्तरस्मिम्नुत्तरस्मिन् स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् तस्मात्प्राचुर्य्यार्थे मयट्। “तद्धेतुव्यपदेशाच्च” सू०। इतश्च प्राचुर्य्यार्थे मयट् यस्मादानन्दहेतुत्वं ब्रह्मणोव्यपदिशति श्रुतिः “एष ह्येवानन्दायतीति”। आनन्दयतीत्यर्थः। योह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति यथा लोके योऽन्येषां धनित्वमापादयति स प्रचुरधन इति गम्यते तद्वत्। तस्मात्प्राचुर्य्यार्थेऽपि मयटः सम्भवादानन्दमयः परएव आत्माः। “मान्त्रवर्णिकमेव च गीयते” सू०। इतश्चानन्दमयः परएवात्मा यस्मादु “ब्रह्मविदाप्नोति परम्” इत्युपक्रम्यहि “सत्यं ज्ञानमनन्तं ब्रह्म” इत्यस्मिन्मन्त्रे यद्ब्रह्मप्रकृतं सत्यज्ञानानन्तविशेषणैर्निर्धारितं, यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरं, यस्य विज्ञानायाऽन्थोऽन्तर आत्मेति प्रक्रान्तं, तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते “योऽन्योन्तर आत्मानन्दमय” इति। मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् अविरोधात्। अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्यातां, न चान्नमयादिभ्यैवानन्दमयादन्योन्तरं आत्माऽभिधीयते एतन्निष्ठैव च सैषा भार्गवी वारुणी विद्या “आनन्दो ब्रह्मेतिव्यजानादिति”। तस्मादानन्दमयः परएवात्मा” शा० भा०। २ आनन्दप्रचुरे त्रि० सर्व्वायासशून्यसुषुप्त्यवस्थापन्ने ३ आनन्दमयकोषाभिमानिनि जीवे च। “काचिदन्तर्मुख्रावृत्तिरानन्दप्रतिविम्बभाक्। पुण्यभोगे भोगशान्तौ निद्रारूपेण जायते। कादाचित्कीत्यतीनात्मा स्यादानन्दमयोऽव्ययम्। विम्बभूतोय आनन्द आत्मासौ सर्ब्बदा स्थितः” पञ्चद० उक्तेः जीवस्य पारमार्थिकानन्दरूपपरात्मस्वरूपत्वेऽपि सुषुप्तौ तस्य स्फुरणेऽपि च स्वल्पकालिकत्वात् ब्रह्मानन्दवै लक्षण्यम्। स्त्रियां ङीप्। साच ४ दुर्गामूर्त्तिभेदे स्त्री०।
आनन्दमयकीष = पु० आनन्दमयस्य परमात्मनः कोष इवावरकः। वेदान्तिमतसिद्धपञ्चकोषमध्ये पञ्चमे कोषे अविद्यास्वरूपे कारणशरीरे। आनन्दमयकोषस्यरूपादिकमुक्तं विवे० चू०। “आनन्दप्रतिविम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः। पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं मूत्वानन्दति यत्र साधुतनुभृम्मात्रः प्रयत्नं विना। आनन्दमयकोषस्य सुषुप्तौ स्फूर्त्तिरुत्कटा। स्वप्नजागरयोरीषदिष्टसन्दर्शनादिना। नैवायमानन्दमयः परात्मा सोपाधिकत्वात् प्रकृतेर्विकारात्। कार्य्यत्वहेतोः सुकृतक्रियायां विकारसङ्घातसमाहितत्वात्। पञ्चानामपि कोषाणां निषेधे युक्तितः श्रुतेः। तन्निषेधावधिः साक्षी बोधरूपोऽवशिष्यते। योऽयमात्मा स्वयंज्योतिः पञ्चकोषविलक्षंणः। अवस्थात्रयसाक्षी सन् निर्व्विकारो निरञ्जनः। सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता”। आनन्दमयशब्देऽधिकमुक्तम्। “गुहाहितं ब्रह्म यत्तत् पञ्चकोषविवेकतः। बोद्धुं शक्यं ततः कोषपञ्चकं प्रविच्यताम्। देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः। ततः कर्त्ता ततोभोक्ता गुहा सेयं परम्परा” पञ्चद०।
आनन्दसम्भव = पु० आनन्दस्य ब्रह्मानन्दस्य सम्भवः प्रकाशः। तत्त्वज्ञानप्रयोज्ये ब्रह्मानन्दस्फुरणे। “आनन्दसम्भवे लीनोभापश्यमुभयं मुने! पुरा०। सम्भवत्य स्मात् अपादानेऽप् आनन्दः सम्भवोऽस्य। २ भूतादौ त्रि० आन्नन्दप्रभवशब्दे विवृतिः।
आनन्दा = स्त्री आनन्दयति सेवनात् आ + नदि–णिचच्। विजयायाम् (सिद्धि) राजनि०।
आनन्दार्ण्णव = पु० आनन्दः अर्ण्णव इव असीमत्वात्। ब्रह्मानन्दे अस्वण्डानन्दरूपत्वादपरिच्छित्वाच्चास्य तथात्वम्। प्रमोदार्ण्णवादयोऽप्यत्र। “ब्रह्म प्रमोदार्ण्णवमिति” नैष०।
आनन्दि = पु० आ + नदि–इन्। १ हर्षे “कौशल्यानन्दिबर्द्धनोराम” इति रामायणम्। २ कौतुके च।
आनन्दित = त्रि० आ + नदि–क्त। १ हर्षयुक्ते सुखिनि, आ + नदिणिच्–क्त। यस्यानन्दो जनितस्तस्मिन् २ अभिनन्दिते त्रि०।
आनन्दिन् = त्रि० आ + नदि–णिनि। १ आनन्दयुक्ते णिच्- णिनि। २ आनन्दकारके त्रि० उभयत्र स्त्रियां ङीप्।
आनन्दी = स्त्री आनन्दयति आ + नदि–णिच्–अच्–गौरा० ङीष् (आकन पाता (वृक्षभेदे शब्दच०।
आनमन = न० आनस्यते वशीक्रियतेऽनेन करणे ल्युट्। सन्तोषार्थानुगत्यादौ १ आनतौ। भावे ल्युट्। २ सम्यग्नमने। णिच् + ल्युट्। नम्रतापादके ३ व्यापारे।
आनमित = त्रि० आ + नम–णिच्–क्त। आवर्ज्जिते आनतीकृते अनुकूलीकृते।
आनम्य = त्रि० आ + नम–णिच्–कर्म्मणि यत्। १ नम्रीकार्य्ये आ + नम–ल्यप्। २ नमस्कृत्यर्थे अव्य० वा मलोपे तुकि आनत्येत्यप्यत्र अव्य०।
आनय = पु० आ + नी–भावे अच्। देशात् देशानन्तरनयने। आनीयते वेदाद्यध्ययनायात्र आधारे अच्। उपनयनसंस्कारे हेम०। भावे ल्युट्। आनयनमप्युभयत्र न०।
आनर्त्त = उ० आनृत्यत्यत्र आधारे घञ्। १ नृत्यशालायां २ युद्धे च तंत्र हि वीरैर्हर्षात् नृत्यमिव क्रियते इति तस्य तथात्वम्। ३ सूर्य्यवंश्ये राजभेदे “मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः। इक्ष्वाकुश्चैव नाभागो धृष्णुः शर्य्यातिरेव चं” इत्युपक्रम्य “शर्य्यातेर्मिथुनं त्वासीदानर्त्तोनाम विश्रुतः। पुत्रः, कन्या सुकन्याख्या या पत्नी च्यवनस्य ह। आनर्त्तस्य तु दायादोरेवोनाम महाद्युतिः। आनर्त्तोविषयश्चासीत् पुरी चास्य कुशस्थली। रेवस्य रैवतः पुत्रः ककुद्मीनाम धार्म्मिकः। ज्येष्ठः पुत्रशतस्यासीद्राज्यं प्राप्य कुशस्थलीम्। स कन्यासहितं श्रुत्वा गान्धर्व्वं ब्रह्मणोऽन्तिके। मुहूर्त्तभूतं देवस्य गतं बहुयुगं प्रभो!। आजगाम युगैर्वाथ स्वां पुरीं यादवैर्वृताम्। कृतां द्वारवतीं नाम्ना वहुद्वाराट्टतोरणाम्। भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः। ततस्तद्रैवतोज्ञात्वा यथातत्त्वमरिन्दम!। कन्थां तां बलदेवाय सुव्रतां नाम रेवतीम्। दत्त्वा जगाम शिखरं मेरोस्तपसि संशितः” हरिवं० १० अ०। तत्कृते ४ देशभेदे आनर्त्तनामसूर्य्यवंशकृतत्वात्तस्य देशस्य आनर्त्तनामत्वम्। तत्रैव देशे च इक्ष्वाकुपुत्रहर्य्यश्वस्य पश्चात् राज्यमासीत् यथोक्तम्” “आनैर्त्तो नाम ते राष्ट्रं भविष्यत्यायतं महत्। तद्भविष्यमहं मन्ये कालयोगेन पार्थिवः!। अध्यास्यतां यथाकालं पार्थिवं वृत्तमुत्तमम्। यायातमपि वंशस्ते समेष्यति च यादवम्। अमुवंशञ्च वंशस्ते सोमस्य भविता किल। एष मे विभवस्तात तमेतं विषयोत्तमम्। दत्त्वा यास्यामि तपसे सागरं वरुणालयम्। लवणेन समायुक्तस्त्वमिमं विषयोत्तमम्। पालयस्वाखिलं तात! स्वस्य वंशस्य वृद्धये। वाढमित्येव हर्य्यश्वः प्रतिजग्राह तत्पुरम्। स च दैत्यस्तपोवासं जगाम वरुणालयम्। हर्य्यश्वश्च महातेजा दिव्ये गिरिवरोत्तमे। निवेशयामास पुरं वासार्थममरोपमः। आनर्त्तं नाम तद्राष्ट्रं सुराष्ट्रं गोधनायुतम्। अचिरेणैव कालेन समृद्धं प्रत्यपद्यत। अनूपविषयञ्चैव वेलावनविभूषितम्। निविष्टं क्षेत्रशस्याढ्यं प्राकारग्रामसंकुलम्। शशास स नृपः स्फीतं तद्राष्ट्रं राष्ट्रवर्द्धनः” ९४ अ०। अत्र च समुद्रवेलादिकं तत्सीमादिकमुक्तम्। ५ तद्देशवासिजनेषु ६ तद्राजेषु च ७ चन्द्रवंश्ये राजभेदे पु०। “वर्षकेतोस्तु दायादो विभुर्नाम प्रजेश्वरः। आनर्त्तस्तु विभोः पुत्रो सुकुमारस्ततोऽभवत्” हरि वं० ३२। तत्र तद्देश राजपरत्वे “आनर्त्तान् कालकुटांश्च कुलिन्दांश्च विजित्य सः” भा० स० २४ अ०। देशवासिपरत्वे। “उक्तवांश्च महावाहो! कासौ वृष्णिकुलाधमः। वासुदेवः स मन्दात्मा वसुदेवसुतो गतः। तस्य युद्धार्थिनोदर्पं युद्धे नाशयिताऽस्म्यहम्। आनर्त्ताः! सत्यमाख्यात तत्र गन्ताऽस्मियत्र सः” इति आनर्त्तवासिनः प्रति साल्ववाक्यम् देशरपत्वे। “आनर्त्तेषु विमर्दञ्च क्षेपञ्चात्मनि कौरव! इति भा० व० १४ अ० “आनर्त्तमेवाभिमुखाः शिवेन गत्वा धनुर्वेदरतिप्रधानाः” भा० व० १८३ अ०। कृत्तिकादिभिस्त्रिभिस्त्रिभिर्नक्षत्रैः क्रूरग्रहपीडितैः क्रमेण देशविशेषराजाशुभस्य वृ० सं० प्रतिपादनात् स्यात्यादिभि स्त्रिभिर्मक्षत्रैः क्रूरग्रपीडितैस्तद्देशनृपस्याशुभं भवति यथा वृ० स० कूर्म्मवि०। “वर्गेराग्नेयार्द्यः क्रूरग्रहपीडितैः क्रमेण नृपाः। पाञ्चालोमागधिकः कालिङ्गश्च क्षयं यान्ति। आवन्तोऽथानर्त्तो मृत्यं चायाति सिन्धुसौविरः। राजा च हारहौरोमद्रेवशोन्यश्च कोणेन्द्रः”। आनृत्यतीति कर्त्तरि अच्। ८ जले न० तस्य तरङ्गरूपेण नृत्यस्येव करणात्तथात्वम् ९ नर्त्तके त्रि० भावे घञ्। १० नर्त्तने पृ०
आनर्त्तक = त्रि० आनर्त्तदेशे भवः धूमा० वुञ्। १ आनर्त्तदेशभबे। आनृत्यति आ + नृत–ण्वुल्। २ समन्तान्नर्त्तके त्रि०।
आनर्त्तपुर = न० आनर्त्तदेशस्य प्रधानं पुरम्। द्वारवत्याम्पुर्य्याम्।
आनर्त्तीय = त्रि० आनर्त्तदेशे भबः वृद्वत्वात् छ। आनर्त्तदेशभवे।
आनर्थक्य = न० अनर्थस्य भावः ष्यञ्। १ निष्प्रयोज- नत्वे प्रयोजनाभावे। “श्रुत्यानर्थक्यमिति चेत्” कात्या० ७१, ८, ५, “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” जै० सू०। अनेन क्रियाप्रतिपादकभिन्नवेदभागानामानर्थक्योक्तेः वेदान्तवाक्यानां न स्वार्थे प्रामाण्यं सप्तद्वीपा वसुमतीत्यादिवाक्यवत् तेषां भूतार्थोपदेशकत्वात् तथा च उपासनाविधिविशेषतयैव तेषां प्रामाण्यम् इति मीमांसका मन्यन्ते। तदेतन्मतम् पूर्ब्बपक्षत्वेनोपन्यस्य “तत्तु समन्वयादिति” शारीरकसूत्रभाष्ये निराकृतं यथा “यद्यपि शास्त्रप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविधिविषयतयैव शास्त्रेण ब्रह्म समर्प्यते। यथा यूपाहवनीयादीन्यलौकिकान्यपि विधिविशेषतया समर्प्यन्ते तद्वत्। प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्य। तथा हि शास्त्रतात्षर्य्यविद आहुः। “दृष्टोहि तस्यार्थः। कर्माववोधनञ्चोदनेति क्रियायाः प्रवर्त्तकं वचनम्। तस्य ज्ञानमुपदेशः। तद्भूतानां क्रियार्थेन समाम्नायः”। “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति च”। अतः पुरुषं क्वचिद्विषय विशेषे प्रवर्त्तयत् कुतश्चिद्विषयविशेषान्निवर्त्तयच्चार्थवच्छास्त्रम् तच्छेषतया चान्यदुपयुक्तम्। तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात्। सति च विधिपरत्वेयथा स्यर्गादिकामस्याग्निहोत्रादि साधनं विधीयते एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम्। नन्विह जिज्ञास्यवैलक्षण्यमुक्तम्। कर्मकाण्डे भव्योधर्मोजिज्ञास्यः इह तु भूतं नित्यवृत्तं ब्रह्म जिज्ञास्यमिति। तत्र धर्म्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितु मर्हति। नार्हत्येवं भवितुम्। कार्यविधिप्रयुक्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात्। “आत्मा वा अरे द्रष्टव्यः” “योऽयमात्माऽपहतपापमा सोऽन्वेष्टव्यः स विजिज्ञासितव्यः”। “आत्मेत्येवोपासीत”। “आत्मानमेव लोकनुपासीत” “ब्रह्म वेद ब्रह्मैव भवति” इत्यादिषु हि विधानेषु सत्सु कोऽसावात्मा ब्रह्मेत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः नित्यः सर्वज्ञः सर्व्वगतोनित्यतृप्तोनित्य शुद्धबुद्धमुक्तस्वभावोविज्ञानानन्दं ब्रह्मत्येवमादयः। तदुपासनाच्च शास्त्रदृष्टोऽदृष्टोमोक्षः फलं भविष्यति। कर्त्तव्यविध्यननुप्रवेशेन वस्तुमात्रकथने हानोपादानासम्भवात् “सप्तद्वीपा वसुमती” “राजासौ गच्छति” इत्यादि वाक्यवद्वेदान्त वाक्यानामानर्थक्यमेव स्यात्। ननु वस्तुमात्रकथनेऽपि रज्जुरियं सर्प इत्यादौ म्रान्तिजनितभीतिनिवर्त्तनेनार्थवत्त्वं दृष्टं तथेहाप्यसंसार्य्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनि- वर्तनेनार्थवत्त्वं स्यात्। स्यादेवं यदि रज्जुस्वरूपश्रवणैव सर्पभ्रान्तिः संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्त्तते श्रुतब्रह्मणोऽपि यथापूर्ब्बं सुखदुःखादि संसारित्वधर्मदर्शनात्। “श्रोतव्योमन्तव्योनिदिध्यासितव्यः” इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्दर्शनात्। तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माऽभ्युपगन्तव्यमिति” (पूर्ब्बपक्षः)। “यदपि शास्त्र तात्पर्य्य विदामनुक्रमणम्। दृष्टोहि तस्यार्थः कर्म्माववोधनमित्येवमादि। तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम्। अपि च “आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” इत्येतदेकान्तेनाभ्युगच्छतां भूतोपदेशानामानर्थक्यप्रसङ्गः। प्रवृत्तिनिवृत्तिव्यतिरेकेण भूतञ्चेत् वस्तूपदिशति भव्यार्थत्वेन, कूटस्थं नित्यंभूतं नोपदिशतीत्यत्रकोहेतुः?। न हि भूतमुपदिश्यमानं क्रिया भवति। अक्रियात्वेपि भूतस्य क्रियासाधनत्वात् क्रियार्थएव भूतोपदेश इति चेन्नैष दोषः। क्रियार्थत्वेऽपि क्रियानिर्वर्त्तनर्शक्तिमद्वस्तूपदिष्टमेव। क्रियार्थत्वन्तु प्रयोजनं तस्य, न चैतावता वस्त्वनुपदिष्टं भवति। यदि नामोपदिष्टं किं तव तेन स्यादिति उच्यते। अनवगतात्मवस्तूपदेशश्च तथैव मवितुमर्हति। तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियतैत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन। अपि च “ब्राह्मणोन हन्तव्यः” इति चैवमाद्या निवृत्तिरुपदिश्यते। न च सा क्रिया नापि क्रियासाधनम्। अक्रियार्थानामुपदेशोऽनर्थकश्चेत् “ब्राह्मणोन हन्तव्यः” इत्यादि निवृत्त्युपदेशानामानर्थक्यं प्राप्तं तच्चानिष्टम्। न च स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थंत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण। नञ श्चैष स्वभावोयत् स्वसम्बन्धिनोऽभावं बोधयति। अभाव बुद्धिस्त्वौदासीन्यकारणम्। सा च दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति। तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ब्राह्मणोनहन्तव्य इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र प्रजापतिव्रतादिभ्यः। तस्मात् पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादपिषयमानर्थक्याभिधानं द्रष्टव्यम्” भा०। (सिद्धान्तः) वाक्यादेः २ अर्थबोधकताभावे च। मीमांसकमते कार्य्यान्वित एव शब्दानां शक्तिग्रहनियमात् लिङादेश्च कार्य्यताबोधकतया तच्छून्यवाक्यस्यार्थबोधकत्वाभाव इति प्राभाकरामन्यन्ते।
आनव = त्रि० अनिति अन–उण् आनुः प्राणी तस्येदस् अण्। प्राणिसम्बन्धिनि बलादौ। “व्यानवस्य तृत्सवे गयम्” ऋ० ७, १८, १३। “आनोः सम्बन्धिनो बलस्य” भा०। “चिद्वचस आनवाय” ऋ० ६, ६२, ९ स्त्रियां ङीप्।
आनव्य = न० आनोर्नरस्य इदं यत्। नरसम्बन्धिनि तन्त्रोक्ते मलद्वये। “मायिकं नाम योषोत्थम् पौरुषं कार्म्मणं मलस्। आनव्यं तद्द्वयं प्रोक्तं निषिद्धं तन्मलत्रयम्” तन्त्रसारे प्रपञ्चसारः।
आनस = त्रि० अनसः शकटस्य पितुर्वा इदम् अण्। १ शकट सम्बन्धिनि। “द्वयानि वै बानस्पत्यानि चक्राणि रथ्यानि चानसानि” शत० ब्रा०। २ पितृसम्बन्धिनि च।
आनाथ्य = न० अनाथस्य भावः ष्यञ्। स्वाभिशून्यत्वे।
आनाम्य = त्रि० आ + नम–कर्म्मणि ण्यत् अनिट्कत्वात् न ह्रस्वः। नमस्कार्य्ये।
आनाय = पु० आनीयते मत्स्योऽनेन आ + नी–करणे “जालमानायः” पा० उक्तेः घञ्। मत्स्यधारणार्थे शणसूत्रादिनिर्म्मिते जाले। अन्यत्र अच्। आनय इत्येव।
आनायिन् = त्रि० आनयति आ + नी–णिनि। १ देशाद्देशान्तर प्रापके। आनायोजालसस्यास्ति आनाय + इनि। २ जालिके धीवरे “आनायिभिस्तामपकृष्टनक्राम्” “आनायिनस्तद्विचये नदीष्णान्” इति च रघुः। उभयत्र स्त्रियां ङीप्।
आनाय्य = पु० आनाय्यते गार्हपत्यादानीय संस्क्रियतेऽसौ आ + नी–ण्यत् नि० आयादेशः। वैदिकप्रसिद्धे दक्षिणाग्निभेदे। “आनाय्योऽनित्ये” पा० “दक्षिणाग्निविशेष एवेदं निपातनम् स हि गार्हपत्यादानीयतेऽनित्यश्च सततमप्रज्वलनात् वैश्वादिकुलयोनिकत्वेन वैकल्पिकत्वाच्च। अन्यत्र तु यत् आनेयो घटादिः” सि० कौ० वैश्वकुलादेरानीतो दक्षिणाग्निस्तु आनेयएव “वैश्वकुलात् विप्रतोभ्राष्ट्रात् गार्हपत्याद्वा” आश्व० सूत्रे अग्नियोनिविकल्पश्रवणात् गार्हपत्यादानेयस्यैव आनाय्यत्वं नान्यस्य।
आनाह = पु० आ + नह–घञ्। १ बन्धे २ दैर्व्ये आनह्यते अपसरण प्रतिरोधेन बध्यते विण्मुत्रादि अनेन आ + नह + करणे घञ्। ३ विण्मूत्ररोधसाधने वैद्यकोक्ते रोगभेदे “आमं शकृद्वा निचितं क्रमेण भूयोविबद्धम् विगुणानिलेन। प्रवर्त्तमानं न ययास्वमेनं विकारमानाहमुदाहरन्ति” मा० नि०। वातादिदोषानुक्त्वा स्थानविशेषाश्रयत्वेन तेषां रोगविशेषजनकत्वमुक्तं सुश्रु०। “अत ऊर्द्ध्वं स्थाननसंश्रयं वक्ष्यामः। एवं कुपितास्तांस्तान् शरीरप्रदेशानागत्य तांस्तान् व्याधीन् जनयन्ति। ते यदोदर- सन्निवेशं कुर्व्वन्ति तदा गुल्मविद्रध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीन् जनयन्ति”। “आनाहार्त्तं ततोदृष्ट्वा तत्सैन्यमसुखार्दितम्। पितरं दुःखितं दृष्ट्वा सुकन्येदमथाब्रवीत्” भा० व० प० १२२ अ०।
आनाहिक = पु० आनाहे तत्प्रतीकारे विहितः ठक्। आनाहरोगोपशमनीये विधौ। “आस्वापनं मारुतजे, स्निन्ने म्तिग्धे विशिष्यते। पुरीषजे तु कर्त्तंव्यो विधिरानाहिकोभवेत्” सुश्रु०।
आनिचेय = त्रि० समन्तान्निचीयते आ + नि + चि–कर्म्मणि यत्। समन्तात् सञ्चयनीये स्त्रियां शार्द्ध० पाठात् ङीन्।
आनिरुद्ध = पुं स्त्री० अनिरुद्धस्यापत्यम् वृष्णित्वात् अण्। अनिरुद्धस्य ऊषापतेरपत्ये स्त्रियां ङीप्। निरुद्धभिन्नस्यापत्ये तु इञ्। आनिरुद्धिरित्येव।
आनिर्हत = पु० अनिर्हत एव स्वार्थे अण्। देवहृदयतया प्रधाने देवभेदे “नम आनिर्हतेभ्य इत्येते ह्येभ्यो लोकेभ्योऽनिर्हताः” शत० ब्रा० “एतानि देव हृदयानि यथा हृदयं प्रधानं तथैतेऽपि प्रधानानि” भा०।
आनिल = त्रि० अनिलस्वेदम् अण्। १ वायुसम्बन्धिनि आनिलोदेपताऽस्य अण्। २ वायुदेवताके हविरातौ स्त्रियामुभयत्र ङीप्। सा च स्वातितारायाम् सा हि अनिलाधिष्ठातृका
आनिलि = पु० अनिलस्यापत्यम् इञ्। भीमे स हि पाण्डोः क्षेत्रे कुन्त्यां वायुनोत्पादितः यथा “ततस्तथोक्ता भर्त्त्रा तु वायुमेवाजुहाव सा। ततस्तामागतो वायुर्मृगारूटोमहाबलः। किन्ते कुन्ति! ददाम्यद्य ब्रूहि यत्ते हृदि स्थितम्। सा सलज्जा विहस्याह पुत्रं देहि सुरोत्तम!। बलवन्तं सहाकायं सर्वदर्पप्रभञ्जनम्। तस्माज्जज्ञे महाबाहुर्भोमोभीमपराक्रमः” भा० आ० प० १२३ अ०। २ हनूमति च तस्य केशरिक्षेत्रे अञ्जनायां वायुना जनितत्वात् तथात्वम् तत्कथा संक्षिप्ता यथा “अहं केशरिणःक्षेत्रे वायुना जगदायुना। जातः कमलपत्राक्ष! हनूमान्नाम वानरः” भा० व० प० १४० अ०। भीमं प्रति हनूमद्वाक्यम्। अतएव तयोः क्षेत्रभिन्नोत्पन्नत्येऽपि एकेनोत्पादनात् भ्रातृत्वम् तेन “तद्रूपं दर्शयामास यद्वै सागरलङ्घने। भ्रातुः प्रियमभीप्सन् वै चकार सुमहद्वअपुः” “भ्राता मम गुणश्रेष्ठो बुद्धिसत्त्वबलान्वितः रामायणेऽतिविख्यातः श्रीमान् वानरपुङ्गव” इति च तत्रैवाध्याये तयोर्भ्रातृत्वेनोक्तिः। अनिलसुतादयोऽम्युभयत्र।
आनीत = त्रि० आ + नी–कर्म्मणि क्त। देशाद्देशान्तरं नीते। “आनीता भवता यदा पतिरता साध्वी धरित्रीसुता” नाटकम्।
आनीति = स्त्री आ + नी–क्तिन्। आनयने “चङ्क्रमित्वाप्रियानीतिं रामोरक्षोबधे स्थितः” मुग्ध०।
आनील = पु० ईषदर्थे आङ् प्रा० स०। १ ईषन्नीलवर्ण्णे २ तद्वति त्रि०। ३ नीलघोटके पु० हेम०। ४ तज्जातिस्त्रियां स्त्री ङीप्
आनु = त्रि० अन–उण्। प्राणिनि आनवशब्दे उदा०।
आनुकल्पिक = त्रि० अनुकल्पं वेत्ति तद्बोधकग्रन्थमधीते वा उक्था० ठक् १ अनुकल्पाभिज्ञे २ तद्बोधकग्रन्धाध्येतरि च अनुकल्पेन प्राप्तः ठक्। ३ अनुकल्पेन प्राप्ते। अनुकल्पाय हितम् ठक्। ४ अनुकल्पसाधने।
आनुकूलिक = त्रि० अनुकूलं वर्त्तते ठक्। आनुकूल्येन वर्त्तमाने।
आनुकूल्य = न० अनुकूलस्य भावः कर्म्म वा ष्यञ्। अनुकूलताचरणे १ साहाय्ये २ अनुगुणतायाञ्च। “यत्रानुकूल्यं दम्पत्यो स्त्रिवर्गस्तत्र वर्द्धते” या० स्मृ० “रमतश्चानुकूल्येन ययुः संवत्सरा दश” रामा०।
आनुगङ्ग्य = त्रि० अनुगङ्गं भवः परिमुखा० ञ्य। गङ्गापश्चाद्भवादौ।
आनुगतिक = त्रि० अनुगतमनुगमनं भावे क्त तेन निर्वृत्तः अक्षद्यूता० ठक्। अनुगमेन निर्वृत्ते सन्तोषादौ।
आनुगत्य = न० अनुगतस्य भावः कर्म्म वा ष्यञ्। १ अनुगमन रूपाचरणे २ अनुगतत्वेच।
आनुगादिक = त्रि० अनुगदतीति अनुगादीस एव अनिगादिन + स्वार्थे ठक्। पञ्चात्कथके।
आनुगुणिक = त्रि० अनुगुणमधीते वेद वा वसन्ता० ठक्। १ अनुगुणाभिज्ञे २ तद्बोधकग्रन्धाध्येतरि च। स्त्रियां ङीप्।
आनुगुण्य = न० अनुगुणस्य भावः कर्म्म वा ष्यञ्। १ अनुकूलताचरणे २ अनुकूणत्वे च।
आनुग्रामिक = त्रि० अनुग्रामं भवः ठञ्। ग्रामपश्चाद्भवादौ स्त्रियां ङीप्।
आनुचारक = न० अनुचारकस्य धर्म्म्यं महिय्यादि० अण्। अनुचरधर्म्म्ये आचरणे।
आनुति = पुं स्त्री० आनुतस्यापत्यम् इञ्। आनुतननास्नोयुनेरपत्ये। “इञः प्राचाम्” ततः युवप्रत्ययस्य लुक् तु तौल्वस्यादित्वात् न। आनुतिः पिता आनुतायनः पुत्रः। आ + नु–क्तिन्। सम्यक्स्तवने स्त्री।
आनुतिल्य = त्रि० अनुतिलं भवः परिमुखा० ञ्य। तिलस्य पश्चाद्भवादौ।
आनुदृष्टिनेय = पुं स्त्री अनुदृष्टौभवः शुभ्रा० ढक् कल्या० आनङ् च। अनुदृष्टिभवे।
आनुनाश्य = त्रि० अनुनाशं विनाशस्य पश्चाद् भवः संका० ण्य। ध्वंसपश्चाद्भवे स्त्रियां ङीप्।
आनुनासिक्य = न० आनुनासिकस्य भावः ष्यञ्। अनुनासिकधर्म्मे नासासहिततत्तत्स्थानोच्चार्य्यत्वे “प्रतिज्ञानु- नासिक्याः पाणिनीयाः” व्याकरणीया परिभाषा।
आनुपथ्य = त्रि० अनुपथं भवः परिमु० ञ्य। मार्गस्य पश्चाद्भवादौ
आनुपदिक = त्रि० अनुपदं घावति ठक्। अनुपदं १ धावमाने पदस्य वेदपाठविशेषस्य पश्चात् अनुपदं तद्वेत्ति तद्बोधकग्रन्थं वाऽधीते उक्था० ठक्। २ पदग्रन्थाध्येतरि ३ तदभिज्ञे च स्त्रियां ङीप्।
आनुपद्य = त्रि० अनुपदं भवः परिमुखा० ञ्य। पदस्य पश्चाद्भवादौ।
आनुपूर्व्वी = स्त्री पूर्व्वमनुक्रम्य अनुपूर्ब्बं तस्य भावः ष्यञ् ततो वा ङीषि यलोपः। परिपाट्याम् मूलावधिके क्रमे “षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्” मनुः। ङीषभावपक्षे आनुपूर्व्यमप्यत्र न०। “वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च” मनुः।
आनुमानिक = त्रि० अनुमानादागतः ठक् स्त्रियां ङीप्। अनुमानप्राप्ते १ युक्तिसिद्धे २ व्याप्तिविशिष्टलिङ्गज्ञानादवगते अनुमिते पदार्थे यथा धूमदर्शनात् वह्निरनुमीयते स च वह्निः स्वव्याप्तिविशिष्टधूमज्ञानेमैवावगत इति तस्य तथात्वम्। अनुमानमात्रेणावगम्ये वेदे वाचकशब्दशून्ये सांख्यमतसिद्धे ३ प्रधाने न०। “ईक्षतेर्नाशब्दमिति” शा० सूत्र भाष्ये तस्य च वेदशब्दप्रतिपाद्यत्वं निराकृत्य “रचनानुपपत्तेर्नानुमानम्” सू० भा० अनुमानगम्यत्वमपि निराकृतम्। तस्य च यथानुमानिकत्वं तथा ४६६, ६७ पृष्ठे अव्यक्तशब्दे दर्शितम् “आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च” शा० सू०।
आनुमाय्य = त्रि० अनुमाषं भवः परिमुखा० ञ्य। माषस्य पश्चाद्भवादौ।
***