वाचस्पत्यम्
आधा to आनन्त
links:
Menu अ–ह
Prev आदिर–आध
Next आनन्द–आनुम
आधा
आधाय
आधिक
आधु
UpasanaYoga
.org

आधान = न० आ + धा–भावे ल्युट्। संस्कारपूर्ब्बर्कं वह्न्यादेः स्थापने १ अग्न्याधाने २ गर्भाधाने च। “आधाने सोमपाने च वपनं सप्तसु स्मृतम्” प्रा० त० पु० “भार्य्यायै पूर्व्वमारिण्यै दत्त्वाग्नीन्त्यकर्म्मणि। पुनर्दारक्रियां कर्य्यात् पुनराधानमेव च” मनुः। विद्यमानपदार्थेषु गुणान्तरस्य ३ करणे “प्रजानां विनयाधानात् रक्षणाद्भरणादपि” रघुः सतो गुणान्तराधानं प्रतियत्नः” सि० कौ०। ४ निवेशने “गुणोविशेषाधानहेतुः सिद्धो वस्तुधर्मः” सा० द०। ५ बन्धकदाने च “आधानं विक्रयञ्चैव दानंनैव समाचरेत्” स्मृतिः “विक्रयावक्रयाधानयाचितेषु पणा दश” या० स्मृतिः अग्न्याधानञ्च विवाहसमये कर्त्तव्यं यदि तत्राहिताग्नेः प्रमदादिना नाशः तदा पितृमरणोत्तरमेव कर्त्तव्यं सति तु पितरि नैव कर्त्तव्यमिति, तत्र कालनक्षत्रादिविशेषाश्च निर्ण्णयसिन्धौ दर्शिता यथा “प्राजापत्ये पूषभे सद्विदैवे पुष्यज्येष्ठास्वैन्दवे कृत्तिकासु। अग्न्याधानं ह्युत्तराणां त्रयेऽपि चित्रादित्ये कीर्तितं गर्गमुख्यैः” रत्नमा० आश्वलायनः “अग्न्याधेयं कृत्तिकासु रोहिण्यां मृगशिरसि फाल्गुनीषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषां कस्मिंश्चिद्वसन्ते पर्वणि ब्राह्नण आदधीत, ग्रीष्मवर्षाशरत्सु क्षत्रियवैश्योपकृष्टाः” यस्मिन्कस्मिंश्चिदृतावादधीत सोमेन यक्ष्यमाणो नर्त्तुं पृच्छेन्न नक्षत्रम्” सोमाधाने ऋत्वाद्यनालोचनमार्त्तपरम् “अथो खलुयदैवैनं श्रद्धोपनदथादघीत सैवास्यर्धिरिति सोमेन यक्ष्यमाणोमर्तुं पृच्छेन्न नक्षत्रं तदेतदार्त्तस्यातिवेलं वा श्रद्धायुक्तस्य भवतीति” बौधायनोक्तेः मदनरत्ने वृद्धगार्म्यः “पुष्याग्नेयत्र्युत्तरादित्यपौष्णज्येष्ठाचित्रार्कद्विदैवेषु भेषु। कुर्युर्वह्न्याधानमाद्यंवसन्तग्रीष्मोमान्त्रेष्वेव विप्रादिवर्णाः” कालादर्शे “अग्निहोत्रं दर्शपूर्णमासावप्युत्तरायणे। उपक्रम्य यथाकालमुपासीरन् द्विजातयः। सोमं च पशुबन्धञ्च सर्वाश्च विकृतीरपि। सोम्यायने यथाकलं विदध्युर्गृहमेधिनः” पारस्करः “आवसथ्यावानं दारकाले दायाद्यकाल एकेषामिति”। दायाद्यकालोविभागकालः मदनरत्नेव्यासः “अग्निर्वैवाहिको येन न गृहीतः प्रमादिना। पितर्य्युपर्ते तेन गृहीतव्यः प्रयत्नतः। योऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते। अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः”। ज्येष्ठभ्रातरि पितरि वा साग्नौ कनिष्ठस्य पुत्रस्य वाऽग्न्यभावेऽपि न दोषः तदाह तत्रैप गार्ग्यः “पितृपाकोजीवी वा भ्रातृपाकोपजीविकः। ज्ञानाध्ययननिष्ठोवा न दुष्ये ताग्निना विना”। इदञ्चाधानं ज्येष्ठेऽकृताधाने न कार्य्यम् “दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते। परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वज” इति मनुशातातपोक्तेः स्मार्त्तेऽप्येवम् “सोदर्ये तिष्ठति ज्प्रेष्ठे न कुर्याद्दारसंग्रम्। आवसथ्यं तथाधानं पतितस्तु तथ भवेदिति” तत्रैव गार्ग्योक्तेः आज्ञायां त्वदोषमाह सुमन्तुः “ज्येष्ठोभ्राता यदा तिष्ठेदाधानं नैव चाश्रयेत्। अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा” वृद्धवसिष्ठः “अग्रजस्तु यदाऽनग्निरादध्यादनुजः कथम्। अग्रजोऽनुमते कुर्यादग्निहोत्रं यथाविधि”। हारीतः “सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत्। दारैस्तु परिविद्यन्ते नाग्निहोत्रेण नेज्यया”। अधिकारिणोऽपि भ्रातुरनुज्ञया कुर्यादिति मदनपारिजातः विवाहस्त्वनुज्ञयापि नेत्यर्थः सोदरोक्तेरसोदराणां सापत्नदत्तकादीनां न दोषः। दत्तकस्यापि सोदरविवाहाभावेऽदोष एव तदाह हेमाद्रौ वसिष्ठः “पितृव्य पुत्रान् सापत्नान् परनारीसुतांस्तथा दाराग्निहोत्र संयोगे परिविन्दन्न दुष्यति। परनारीसुताः दत्तकादयः। देशान्तरे विशेषमाह सएव “अष्टौ दश द्वर्षाणि वा ज्येष्टभ्रातरमनिर्विष्टमप्रतीक्षमाणः प्रायश्चित्ती भवतीति” क्लीबादावप्यदोषमाह कात्यायनः “देशान्तरस्थक्लीवैकवृषणान सहोदरान्। वेश्यानिष्ठांश्च पतितशूद्रतुल्यातिरोगिणः। जडमूकान्धबधिरकुब्जवामनखञ्जकान्। अतिवृद्धानभार्यांश्च कृषिसक्तान्नृपस्यच। धनवृद्धिप्रसक्तांश्च कामतः कारिणस्तथा। कुटिलोन्मत्तचौरांश्च परिविन्दन्न दुष्यति” अपरार्केऽपि “उन्मत्तः किल्विषी कुष्ठी पतितः क्लीवएव वा। राजयक्ष्मामयावी च न न्याय्यः स्यात् प्रतीक्षितुम्” एवं ज्येष्ठेच्छिन्नहस्तादावपि न परिवेत्तृत्वम् तदाह त्रिकाण्डमण्डनः “दर्शेष्टिं पौर्णमासेष्टिं सोमेज्यामग्निसंग्रहम् अग्मिहोत्रं विवाहं च प्रयोगे प्रथमे स्थिते। न कुर्याज्जनके ज्येष्ठे सोदरेऽचाप्यकुर्वति। क्षेत्रजादावनिजाने विद्यमानेऽपि सोदरे। नाधिकारविधातोऽस्ति भिन्नोदर्येऽपि चौरसे। पङ्ग्वन्धमूकबधिरपतितोन्माददूषणे। संन्यस्तेच्छिन्नहस्तादौ यद्वा षण्डादिदूषणे। जनके सोदरे ज्येष्ठे कुर्यादेवेतरः क्रियामिति” “आरोहतं दशतं शक्वरीर्ममेत्याधान मन्त्रवर्णाच्च शक्वरीरङ्गुलीः तन्त्ररत्नेऽप्युक्तम् “अङ्गवैकल्यात्पूर्वमाहिताग्नित्वेऽधिक्रियेतैव नित्येषु। आधानन्तुन कुर्यात्तस्य नैमित्तिकत्वादिति”। एवं चतुरङ्गुलेऽपि, षडङ्गुल काणविवर्णादेरस्त्येबाधिकारः एकादशसु दशान्तर्गतेः शरीरकार्श्यं वा विप्रतिषिद्धमिति” हिरण्यकेशिसूत्रे कर्माशक्तिहेतोरेवाङ्गवैकल्यस्य निषेधात् अतएव द्राह्यायणसूत्रे याज्यश्च प्रथमैस्त्रिभिर्गुणैरिति न्यूनाङ्गस्याप्पधिकार उक्तः। अपरार्के उशनाः “पिता पितामहोयस्य अग्रजो वाथ कस्यचित्। तपोग्निहोत्रमन्त्रेषु न दोषः परिवेदने “पितुराज्ञाया- मप्यदोषमाह मदनरत्ने सुमन्तुः “पित्रा यस्य तु नाधानं कर्थं पुत्रस्तु कारयेत्। अग्निहोत्रेऽधिकारोऽस्ति शङ्खस्य वचनं यथेति” नाधानं कृतमित्यर्थः एतदाज्ञायामेवेति हेमाद्रिः यत्तु “पितुः सत्यप्यनुज्ञाने नादधीत कदाचनेति “तत्सत्यधिकारे ज्ञेयम्”। एवं स्मृतिरूत्रयोराधारानस्याकरणे प्रत्यवायश्रवणादाधानं नित्यमेव। एतेन कलिवज्येर्षु आदित्यपुराणेऽग्निहोत्रस्योत्कीर्त्तनदर्शनेन गौडानां तदनाचरणमनाचार एव स्मृतितः पुराणस्य दुर्बलतया स्मृतिविहिताधानस्य बाधकत्वायोगात् “नैवानाहितान्तिर्म्रियेतेति” श्रुतेः सर्व्वापेक्षया बलवत्त्वाच्च। तेन मृत्युकालात् पूर्ब्बमप्याधानं कर्त्तव्यसिति प्रतीयते व्यक्तं भविष्यति चैतदुपरिष्टात्। आधानस्वरूपादिकम् आश्व० श्रौ० सू० नारायणीयवृत्त्योर्दर्शितं यथा “अग्न्याधेयप्रभृतीन्याह वैतानिकानि” सू० १२। अग्न्याधेयप्रभृतिरादिरुपक्रमो येषां तान्यग्न्याघेयप्रभृवीनि अन्मिहोत्रादीनि कर्माणि, आधानं कृत्वैव कर्त्तव्यानीत्यर्थः। तत्र हेतुमाह, वैतानिकानीति। वितानेषु भवानि वैतानिकानि, वितानसाध्यानीत्यर्थः। वितानशब्दोऽस्मिन् सूत्रे भावसाधनोऽग्नोनां विस्तारवाची, पूर्वस्मिंस्त्वधिकरणसाधनोऽग्निहोत्रादिकर्मवचनः। एतदुक्त भवति, गार्हपत्यादिभिरग्निभिः साध्यानि श्रौतानि कर्माणि, अग्नयस्त्वाधानसाध्याः, तस्मादाधानप्रभृतित्वं सिद्धं श्रौतानां कर्मणाम्। बहुवचनं सर्वश्रौतपरिग्रहार्थं सर्वाणि श्रौतान्याधानादूर्दूर्द्धमेव कर्त्तव्यानि न किञ्चिदपि, श्रौतमाधानादर्वागित्यनेन प्रकारेणाधानस्य कर्मार्थत्वनिराकरणेनाग्न्यर्थत्वमर्थात् साधितं भवति। तद्यदि कर्मार्थं स्यात् प्रति कर्म क्रियेत, तत्र कस्यचित् परस्तादपि स्यात्, यस्य परस्तादाधानं स्यात् तस्याग्न्याधेयप्रभृतित्वं विहन्येत। आधानस्याग्न्यर्थत्वे च नायं दोषः। अतो बहुवचनेनाधानस्याग्न्यर्थत्वं साधितं भवति। तस्मादनाहिताग्नेः क्षामवत्यादयो न भवन्ति, अवकीर्णिना पश्वाद्यर्थञ्चाधानं न कर्त्तव्यं, साधितं भवति न परस्तात्” वृत्तिः “अग्न्याधेयम्” १, ३, ९, सू० प्रथमप्राप्तमाधानमुच्यते। बिशिष्टकाले विशिष्टदेशे विशिष्टपुरुषेण विशिष्टैर्मन्त्रैर्गार्हपत्याद्यग्न्युत्पर्त्त्यर्थं यदङ्गाराणां निधानं तदग्न्याधेयमुच्यते। अग्नीनामाधेयमग्न्याधेयं, तत्कर्तव्यमित्यर्थः ९ वृत्तिः। कस्मिन् काल इत्याह। “कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रोष्ठपदयोः” १० सू०। एतेषां कस्मिं श्चित् ११। वसन्ते पर्वणि ब्राह्मण आदधीत” १२। ग्रीष्मवर्षाशरत्सुक्ष त्रियवैश्योपक्रुष्टाः १३। यस्मिन् कस्मिंश्चिदृतावादधीत” १४। सूत्राणि एषां नारायणीया वृत्तिः “फल्गुनीष्विति पूर्वे उत्तरे च गृह्येते, अविशेषाद्बहुवचनाच्च। प्रोष्ठपदासूत्तरे एव। अतः सप्त एतानि नक्षत्राणि, तेषामेकस्मिन्नक्षत्रेऽग्न्याधेयं कर्तव्यमित्यर्थः १०। एतेषां कस्मिंश्चित् पर्वणि। एवमेतत्सूत्रमर्थतो द्रष्टव्यम्। उत्तरञ्च सूत्रं “वसन्ते पर्वणि ब्राह्मण आदधीत” इति। एवं कृते सर्वमनुगुणं भवति एतेषां नक्षत्राणां कस्मिंश्चिन्नक्षत्रेपर्वणि वाग्न्याधेयं कर्तव्यमितीदं सूत्रं पर्वनक्षत्रसमुच्चयमग्न्याधेयस्य कालत्वेन विदधाति। पूर्वसूत्रन्तु केवलं नक्षत्राणामेवाधानसम्बन्धं विदधाति। अतो द्वौ पक्षौ स्तः। समुच्चयस्तत्र प्रथमः कल्पः। तदसम्भवे केवलं नक्षत्रमेवेति विनिवेशो युक्तः। इदं कल्पद्वयं सोमाधानवर्जितेषु सर्व्वेष्वाधानेषु भवति ११। इदमपि सूत्रमर्थत एवं भवति। अनेन वसन्ते ब्राह्मणगुणकमाधानं विधीयते १२। वैश्यस्तक्षकर्मोपजीवी उपक्रुष्ट इत्युच्यते। अस्मिन् सूत्रे त्रीण्याधानानि विधीयन्ते। ग्रीष्मे क्षत्रियगुणकं, वर्षासु वैश्यगुणकं, शरदि उपक्रुष्टगुणकञ्च। एते वसन्तादयः शब्दा ऋतुवाचकाः। ऋतवो नाम षट्। वसन्तग्रीष्मवर्षा शरद्धेमन्तशिशिराः। ते च चैत्रमासमारभ्य द्वौ द्वौ मासावृतवः। वसन्तादयो मासाश्चैत्रादय एव १३। आदधीतेति स्थिते पुनरादधीतेतिवचनं आपत्कल्पोऽयमाधानविधिरिति दर्शयति। अत्यापदि मुमूर्षोः सर्व्वेष्वृतुषु आधानं कर्तव्यं “नैवानाहिताग्निर्म्रियेतेति”। इदञ्चापरमाधानं, पूर्वोक्तानि चत्वारि, तेषु सर्वेषु पर्ब्बनक्षत्रविधय उपसंहर्तव्याः, न पर्ब्बर्तुस्वातन्त्रेणाधानस्य कालविधयो भवेयुः। अत एव सूत्रकारः पर्ब्बनक्षत्रविधीनामृतुविधिभिः सम्बद्धानामेवाधानकालताप्रदर्शनार्थमेवैतेषां कस्मिंश्चिद्वसन्त इति पर्वनक्षत्रसमुच्चयविधिपरे सूत्रे उत्तरसूत्राय पठितव्यम् ऋतुशब्दं व्यतिष्यज्य पठितवान्। पर्व्वनक्षत्रविध्योरृतुविध्युपसंहारे न्यायविरोधश्च नास्ति, तत्रैव तयोरन्तर्भावदर्शनादिति १४। “अश्वर्त्थाच्छमीगर्भादरणी आहरेदनवेक्षमाणः १६। यो अश्वत्थः शमीगर्भ आरुरोह त्वेचसा। तं त्वाहरामि ब्रह्मणा यज्ञियैः केतुभिः सहेति, पूर्णाहुत्यन्तमग्न्याधेयम् १७। शम्या गर्भः शमीगर्भः। शमीगर्भादश्वत्थादरण्याहरणं कुर्यात्। तच्चाधानार्थम्, आहरणे कृते अध्वर्युणा अरण्याहरणे क्रियमाणे तेन सह यजमानो-ऽप्यनेन मन्त्रेणाहरेत्। अनवेक्षमाणः पृष्ठतोऽनवेक्षमाणः। अयञ्चापरोऽर्थः कुर्यां न कुर्यामिति नान्यदपेक्षमाणः, अध्यवसिताधान इत्यर्थः १६। पूणाहुतिरन्ते यस्य तत् पूर्णाहुत्यन्तम्, अग्न्याधेयं कर्तव्यम्। तच्चाग्न्याधेयमरण्याहरणादि पूर्णाहुत्यन्तं भवतीत्यर्थः। अस्य सूत्रस्य प्रयोजनं पूर्णाहुत्यन्ते आहिताग्नित्वप्राप्तिः। कथमिति चेत्। श्रुतावेवमाम्नातम्। “अग्नयः पुरुषार्थसाध्याः” इति प्रस्तुत्य “वसन्ते ब्राह्मणोऽग्निमादधीत” इत्येवमादीनि वसन्तादिकालानि ब्राह्मणादिकर्तृकाणि कर्तृगामिक्रियाफलयुक्तानि निरधिकाराणि आधानानि विधाय, “ततोऽरणी आहरेत्, सम्भारान् सम्भरेत्, अग्न्यायतनानि कुर्यात्, केशश्मश्रु वपेत्, ब्राह्मौदनिकमौपासनिकं निदध्यात्, तस्मिन् ब्रह्मौदनं पचेत्, समिध आदध्यात्, आयतनेषु सम्भारान्निदध्यात्, ब्राह्मौदनिकमरण्योः समारोप्य मथित्वा गार्हपत्यादीनादध्यात्, तत्र काश्चित्, समिध आदध्यात्, अग्निहोत्रं जुहुयात्, पूर्णाहुतिं जुहुयात्, तत आग्नेयमष्टाकपालं निर्वपेत् तदहरेव, तदहरादिसंवत्सरान्तानां कालानां कस्मिंश्चित् काले पवमानहवींषि निर्वपेद् ततश्चान्यानि हवींषि” इति १७। एवञ्च विवाहवादपुस्तके बौधायनवचने अन्यतराभावे कार्य्या प्रागग्न्याधेयेति पाठंदृष्ट्वाऽन्यथा मयाः व्याख्यातम् प्रागग्न्याधेयादिति पाठे तु अग्न्याधेयात् अग्न्याधानात् प्रागित्यर्थः इति बोध्यम् अयमेव पाठः समीचीनः प्रतिभाति एतच्च उद्वाहशब्दे विस्तरेण प्रपञ्चयिष्यामः। आधानप्रयोगश्च शाखिभेदेन पद्धतिविशेषे विस्तरतोज्ञेयः। सोमाधाने विशेषश्च विस्तरभयान्नोक्तः आश्व० श्रौतसूत्रादौ ज्ञेयः। कात्या० श्रौ० सूत्रे आधाने रथकारस्याप्यधिकारमाह “रथकारस्याधाने” कात्या० १, १, ९। आधान पूर्ब्बकत्वादन्यत्रापि तस्याधिकारः यथोक्तं मिता० “क्षत्रियेण वैश्यायामुत्पादितोमाहिष्यः वैश्येन शूद्रायामुत्पादिता करणी तस्यां माहिष्येणोत्पादितो रथकारोनाम जात्याभवति तस्य चोपनयनादि सर्वं कार्य्यं वचनात् यथा ह शङ्खः। “क्षत्रियवैश्यानुलोमानन्तरितोत्पन्नजोरथकारस्तस्याध्ययनेज्यादानोपनयनसंस्कारक्रियाश्चाप्रतिषिद्धाः” एवमेव कर्कवृत्तौ स्थितम्।

आधाय = अव्य० आ + धा–ल्यप्। १ स्थापयित्वत्यर्थे २ आधानं कृत्वेत्यर्थे भावे घञ्। ३ आधाने पु०

आधायक = त्रि० आ + धा–ण्वुल्। आधानकारके।

आधानिक = पु० आधानं गर्भाधानं प्रयोजनमस्य ठञ्। गर्भाधाननिमित्ते वेदविहिते गर्भपात्रसंस्कारभेदे।

आधार = पु० आ + धृ–आधारे घञ्। १ अधिकरणे, आश्रये, “अपामिवाधारमनुत्तरङ्गम्” कुमा० “चराचराणां भूतानां कुक्षिराधारतां गतः” कुमा० “वर्त्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः” या० स्मृतिः। २ व्याकरणप्रसिद्धे औपश्लेषिकवैषयिकाभिव्यापकाख्येऽधिकरणकारके, शस्यसम्पादनार्थं जलरोधनार्थे ३ बन्धने वृक्षसेकार्थं जलधारणार्थे ४ आलबाले च। “आधारबन्धप्रमुखैरिति रघुः”। “आधारोऽधिकारणम्” पा० अधिकरणञ्च साक्षात्परम्परया वा क्रियाश्रयः अधिकरणशब्दे विवृतिः तच्च त्रिविधम् औपश्लेषिकवैषयिकाभिव्यापकभेदात्। तत्र औपश्लेषिक एकदेशसम्बन्धः यथा कट आस्ते। वैषयिकः मोक्षे इच्छास्ति। अभिव्यापकः तिलेषु तैलमस्ति। मुग्धबोधकारस्तु “सामीप्याश्लेषविषयैर्व्याप्त्याधारश्चतुर्विध इति सामीप्यसम्बन्धेनाप्याधारतेत्याह। तच्चिन्त्यम् “गङ्गायां घोषीवसतीत्यादाविव लक्षणयैव गङ्गासमीपतीरस्योपस्थितौ न तस्य विभक्त्यर्थत्वमिति” पाणिनीयाः। ५ तन्त्रोक्ते षट्चक्रमध्ये आद्यचक्रस्याधारे “आधारे लिङ्गनाभौ तदनु च हृदये तालुमूले ललाटे” आनन्दलहरी। आधारस्य भावः तल् आधारता सम्बन्धविशेषेण पदार्थविशेषस्याधेयतासम्पादके धर्म्मविशेषे तथा च आधारता आधेतायाः निरुपिका आधेयता च आधारताया इति तयोः परस्पर निरूप्यनिरूपकृभावः आधारताया अनतिरिक्तवृत्तिर्धर्म्म आधारतावच्छेदकः। एवमाधेयताया अनतिरिक्तवृत्ति र्धर्म्म आधेयतावच्छेदकः यथा संयोगेन घटाधारे भूतले भूतलत्वमाधारताच्छेदकं भूतलाधेये घटे च घटत्व माधेयतावच्छेदकम् तयोश्चावच्छेदकत्वात् ताभ्यामाधारताऽऽधेयता चावच्छिद्यते यथा घटत्वावच्छिन्ना घटमिष्ठाऽऽधेयता तथा भूतलत्वावच्छिन्ना भूतलनिष्ठाऽऽधारता इति नव्यनैयायिकानां रीतिः आधार + त्व। तदर्थे न०।

आधारशक्ति = स्त्री आधारस्य शक्तिः। सर्व्वाधारशक्तिरूपायां परमेश्वरशक्तौ १ मायायां २ प्रकृतौ च तन्त्रोक्तायां मूलाधारस्थायां कुण्डलिन्यां ३ परदेवतायाम्। ४ पीठपूजनीय देव भेदे च “आधारशक्तिं प्रकृतिमित्यादि” प्रकृत्य “प्रणवादिनमोऽन्तेन पीठशक्तीः प्रपूजयेत्” तन्त्रसा० पीठशक्तिशब्देऽस्य विवृतिः।

आधाराधेयभाव = पु० आधारश्चाधेयश्च तयोर्भावः। एकस्य यदपेक्षया आधारत्वम् अपरस्य तदपेक्षयैच यत्र आधेयत्वं तावृशे सम्बन्धभेदे। यथा घटभूतलयोः।

आधि = पु० अधीयतेऽभिनिवेश्यते प्रतीकाराय मनोऽनेन आ + धा–कि। मानसदुःखकारके व्यथाभेदे “नाधयोव्याधयः क्लेशादैवभूतात्महेतवः” भा० प्र०। “यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः” शकु०। आधिदैविकशब्देऽस्य विवृतिः। ईषत् अधिक्रियते उत्तमर्ण्णोऽत्र आ + ईषदर्थे धा–अधिकारार्थे आधारे कि आधीयते ऋणशोधनार्थम् आ + धा–कर्मणि किवा १ ऋणशोधनार्थं प्रतिभूस्थानीयतया बन्धकत्वेन उत्तमर्ण्ण समीपे अधमर्णेनाधीयमाने उत्तमर्ण्णस्य ईषत्स्वत्वहेतुभूतव्यापारविशिष्टे २ द्रव्येऽस्य विवृतिः मिता०। “धनप्रयोगे द्वौ विश्वासहेतू प्रतिभूराधिश्च। यथाह नारदः। “विश्रम्भहेतू द्वावत्र प्रतिभूराघिरेव चेति”। तत्र प्रतिभूर्निरूपित इदानीमाधिर्निरूप्यते। आधिर्नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तमर्णाधिक्रियायै आधीयतं इत्याधिः स च द्विधैव कृतकालोऽकृतकालश्च पुनश्चैकैकशोद्विबिधः गोप्योभोग्यश्च। यथाह नारदः। “अधिक्रियतैत्याधिः स विज्ञेयोद्विलक्षणः। कृतकालोऽपनेयश्चयावद्देयोद्यतस्तथा। स पुनर्द्विविधः प्रोक्तोगोप्योभोग्यस्तथैव चेति”। कृतकाल आधानकालएवामुष्मिन् काले दीपोत्सवादौ मयायमाधिर्म्मोक्तव्योऽन्यथा तवैवाधिर्भविष्यतीत्येवं निरूपिते कालेऽपनेयः आत्मसमीपे नेतव्योभोचयितव्यः इत्यर्थः। देयं दानं देयमनतिक्रम्य यावद्देयम् उद्यतोनियतः स्थापितैत्यर्थः। यावद्देयम् उद्यतोयावद्देयोद्यतः गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थः गोप्योरक्षणीयः। एवञ्चतुर्विधस्याधेर्विशेषमाह। “आधिः प्रणश्येत् द्विगुणे धने यदि न मुच्यते। काले कालकृतोनश्येत् फलभोग्यो न नश्यति” या०। प्रयुक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्वितुणीभूते यद्याधिरधमर्ण्णेन द्रव्यदानेन न मोच्यते तदा नश्यत्यधर्मर्णस्य धनं प्रयोक्तुः स्वं भवति। कालकृतः कृतकालः आहिताग्न्यादिषु पाठात्कालशब्दस्य पूर्वनिपातः स तु काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात्प्रागूर्द्धंवा। फलभोग्यः फलंः भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स न कृदाचिदपि नश्यति। कृतकालस्य गोप्यस्य भोग्यस्य च तत्कालातिक्रमे नाशौक्तः “काले कालकृतोनश्येदिति। अकृतकालस्य भोग्यस्य नाशाभावौक्तः “फलभोग्यो न नश्यतीति” पारिशेष्यादाधिःप्रणस्येतदित्येदेतदकृतकालगोप्याधि- विषयसवतिष्ठते। द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्त्तव्यम् वृहस्पतिवचनात् “हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधौ। बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च। तदन्तरा धनदत्त्वा ऋणी बन्धमवाप्नुयादिति”। नन्वाधिःप्रणश्येदित्यनुपपन्नम् अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् मनुवचनविरोधाच्च “नचाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः” इति। कालेन संरोधः कालसंरोधश्चिरकालमवस्थानं तस्मात्कालसंरोधाच्चिरकालावस्थानादाधेर्न्ननिसर्गोस्ति नान्यत्राधीकरणमस्ति न च विक्रयः एवमाधीकरण विक्रयप्रतिषेधाद्धनिनः स्वत्वाभावोऽवगम्यत इति, उच्यते आधीकरणमेव लोके सोपाधिकस्वत्वानिवृत्तिहेतुः प्रसिद्धः। आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः। तत्र धनद्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यदानस्यात्यन्त निवृत्तेरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्यनिवृत्तिरुत्तमर्णस्य चात्यन्तिकं स्वत्वम्भवति। न च मनुवचनविरोधः यतः “नत्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्लुयादिति” भोग्याधिं प्रस्तुत्येदमुच्यते “नचाधेः कालसंरोधान्निसर्गोस्ति न विक्रय” इति भोग्यस्याधेश्चिरन्तनकालावस्थानेऽप्याधीकरणविक्रयनिषेधेन धनिनः स्वत्वन्नास्तीति। इहाप्युक्तं “फलभोग्योन नश्यतीति”। गोप्याधौ तु पृथगारब्धम्मनुना। “न भोक्तव्यो बलादाधिर्भुञ्जानोवृद्धिमुत्सृजेदिति”। इहापि वक्ष्यते “गोप्याधिभोगे नोवृद्धिरिति” आधिःप्रणश्येद्द्विगुण इति तु गोप्याधिं प्रत्युच्यत इति सर्वमविरुद्धम्। किञ्च “गोप्याधिभोगे नो वृद्धिः सोपकारेऽथहापिते। नष्टोदेयो विनष्टश्चदैवराजकृतादृते” या०। गोप्याधेस्ताम्रकटाहादेरुपभोगे न वृद्धिर्भवति। अल्पेऽप्युपभोगे महत्यपि वृद्धिर्हातव्या समयातिक्रमात् तथा सोपकारे उपकारकारिणि बलीवर्द्दताम्रकटाहादौ भोग्याधौ सवृद्धि के हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिरिति सम्बन्धः नष्टोविकृतिङ्गतस्ताम्रकटाहादिश्छिद्रभेदादिना पूर्ववत् कृत्वा देयः तत्र गोप्याधिर्न्नष्टश्चेत् पूर्व्ववत् कृत्या देयः। उपभुक्तोऽपि चेद्वृद् धिरपि हातव्या भोग्यादिर्य्यदि नष्टः तदा पूर्ववत् कृत्वा देयः। वृद्धिसद्भ्वावे वृद्धिर्वा हातव्या विनष्ट आत्यन्तिकं नाशं प्राप्तः सोऽपि देयोमूल्यादिद्वारेण तद्दाने सवृद्धिकं मूल्यं लभते यदि न ददाति तदा मूलनाशः “विनष्टे मूलनाशः स्याद्दैवराजकृतादृत” इति नारदवचनात्। दैवराजकृतादृते दैवमग्न्युदकदेशोपप्लवादि। दैवकृताद्विनाशाद्विना। तथा स्वापराधरहिताद्राजकृतात्। दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधर्मेणाध्यन्तरं वा यथाह। “स्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते। आधिरन्योऽथकर्त्तव्योदेयं वा धनिने धनमिति”। तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम्। अपि च “आधेः स्वीकरणात्सिद्धीरक्ष्यमाणोऽप्यसारताम्। यातश्चेदन्य आधेयोधनभाग्वा धनी भवेत्” या०। आधेर्गोप्यस्य भोग्यस्य च स्वीकरणादुपादानादाधिग्रहणसिद्धिर्न साक्षिलिखनमात्रेण नाप्युद्देशमात्रेण। यथाह नारदः। “आधिस्तु द्विविधः प्रोक्तोजङ्गमःस्थावरस्तथा। सिद्धिरत्रोभयस्यापि भोगोयद्यस्ति नान्यथेति”। अस्य च फलम्। “आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरेति”। या स्वीकारान्ता क्रिया सा पूर्वाबलवती स्वीकाररहिता तु पूर्वापि न बलषतीति। सचाधिः प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्यसारतामविकृत एव सवृद्धिकमूल्यद्रव्यापर्याप्तताङ्गतस्तदाधिरन्यः कर्त्तव्यः। “धनिने वा धनन्देयं रक्ष्यमाणोऽप्यसारतामिति” वदताऽऽधिः प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम्। आधिःप्रणश्येद्द्विगुण इत्यस्यापवादमाह। “चरित्रबन्धककृतं सवृद्ध्यादापयेद्धनम्। सत्याङ्कारकृतन्द्रव्यं द्विगुणम्प्रतिदापयेत्” या० चरित्रं शोभनाचरितम् चरित्रेणं बन्धकम् चरित्रबन्धकम् तेन यत् द्रव्यमात्मसात्कृतम्पराधीनं वा कृतम्। एतदुक्तम्भवति धनिनः स्वच्छाशयत्वेन बहुमूल्यमपि द्रव्यमाधीकृत्याधमर्णेनाल्पमेव द्रव्यमात्मसात्कृतम्। यदि वाऽधमर्णस्य स्वच्छाशयत्वेनाल्पमूल्यमाधिं गृहीत्वा बहुद्रव्यमेव धनिनाधमर्ण्णाधीनं कृतमिति तद्धनं नृपोवृद्ध्या सह दापयेत्। अयमाशयः एवंरूपं बन्धकं द्विगुणीभूतेऽपि द्रव्ये न नश्यति किन्तु द्रव्यमेव द्विगुणन्दातव्यमिति। तथा सत्यङ्कारकृतं करणङ्कारः भावे घञ् सत्यस्य कारः सत्यङ्कारः “कारे सत्यागदस्येति” पा० मुम् सत्यङ्कारेण कृतं सत्यङ्कारकृतम्। अयमभिसन्धिः यदा बन्धकार्पणसमय एवेत्धं परिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव दातव्यम् नाधिनाश इति तदा तत्द्विगुणन्दापयेत् इति। अन्योऽर्थः। चरित्रमेव बन्धकञ्चरित्रबन्धकम्। चरित्रशब्देन गङ्गास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते यत्र तदेवाधीकृत्य यद्द्रव्यमात्सात्कृतम्। तत्र तदेव द्विगुणभूतन्दातव्यन्नाधिनाश इति। “आधिप्रसङ्गादन्यदुच्यते। सत्यंकारकृतमिति क्रयविक्रयादिव्यस्थानिर्वा- हाय यद्यङ्गुलीयकादि परहस्ते कृतं तद्व्यवस्थातिक्रमे द्विगुणन्दातव्यं तत्रापि येनाङ्गुलीयकाद्यर्पितं सएव चेद्यवस्थातिवर्त्ती तेन तदेव हातव्यम्। इतरश्चेद्व्यवस्थातिवर्त्ती तदा तदेवाङ्गुलीयकादिद्विगुणम्प्रतिदापयेदिति। किञ्च “उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत्। प्रयोजकेऽसति धनं कुलेऽन्यस्याधिमाप्नुयात्” या०। धनदानेनाधिमोक्षणायोषस्थितस्याधिर्मोक्तव्योधनिना वृद्धिलोभेन न स्थापयितव्यः। अन्यथा अमोक्षणे स्तेन श्चौरवद्दण्ड्यो भवेत्। असन्निहिते पुनःप्रयोक्तरि कुले तदाप्तहस्ते सवृद्धिकं धनं निधायाधमर्णः स्वीयं बन्धकं गृह्णीयात्। अथ प्रयोक्ताप्यसन्निहितस्तदाप्ताश्च धनस्य ग्रहीतारो न सन्ति यदि वा असन्निहिते प्रयोक्तरि आधिविक्रयेण धनदित्साऽधमर्णस्य तत्र किं कतेव्यमित्यपेक्षिते आह। “तत्कालकृतमूल्योवा तत्र तिष्ठेदवृद्धिकः” या०। तस्मिन् काले यत्तस्याधेर्म्मूल्यन्तत्परिकल्प्य तत्रैव धनिनि तमाधिं वृद्धिरहितं स्थापयेन्न तत ऊर्द्धं धनं वर्द्धते यावद्धनी धनं गृहीत्वा तमाधिं मुञ्चति यावद्वा तन्मूल्यद्रव्यमृणिने। प्रवेशयति यदा तु द्विगुणीभूतेऽपि धने द्विगुणन्धनमेव ग्रहीतव्यम् नत्वाधिनाश इति विचारितमृणग्रहणकालएव तदा द्विगुणीभूते द्रव्ये असन्निहिते वाऽधमर्णे धनिना किं कर्त्तव्यमित्यतआह। “विना धारणकाद्वापि विक्रीणीत ससाक्षिकम्” या०। धारणकादधमर्णाद्विना असन्निहिते साक्षिभिस्तदाप्तैश्च सहतमाधिं विक्रीय तत् धनं गृह्णीयाद्धनी वाशब्दो व्यवस्थितविकल्पार्थः। यदर्णग्रहणकाले द्विगुणीभूतेऽपि धने धनमेव गृहीतव्यम् नत्वाधिनाश इति न विचारितम्। तदा आधिः प्रणश्येत् द्विगुण इत्याधिनाशः। बिचारिते त्वयं पक्ष इति। भोग्याधौ विशेषमाह। “यदा तु द्विगुणीभूतमृणमाधौ तदा खलु। मोच्य आधिस्तदुपन्ने प्रविष्टे द्विगुणे धने” या० यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्विगुणीभूतन्तदाधौ कृते तदुत्पन्ने आध्यु त्पन्ने द्विगुणे धनिनः प्रविष्टेधनिनाधिर्मोक्तव्यः यदि वादावेवाधौ दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्य इति परिभाषया कारणान्तरेण वा भोगाभावेन यदा द्विगुणीभूतमृणन्तदाधौ भोगार्थं धनिनि प्रविष्टे तदुत्पन्ने द्रव्य द्विगुणे सत्याधिर्मोक्तव्यः। अधिकोपभोगे तदपि देयम्। सर्वथा सवृद्धिकमूलर्णापाकरणार्थाध्युपभोगविषयमिदं वचनम्। तमेनं क्षयाधिमाचक्षते लौकिकाः यत्र तु वृद्ध्यथे एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमेऽपि यावन्मूलदानं तावदुपभुङ्क्ते एवाधिम् एतदेव स्पष्टीकृतं वृहस्पतिना “ऋणी बन्धमवाप्नुयात्। फलभोग्यं पूर्णकालं दत्त्वा द्रव्यञ्च सामकम्। यदि प्रकर्षितं तत्स्यात्तदा ल धनभाग्धनी। ऋणी च नलभेद्वन्धं परस्परमतं विना” अस्यार्थः। फलम्भोग्यं यस्यासौ फलभोग्यः बन्ध आधिः स च द्विबिधः सवृद्धिकमूलापाकरणार्थो वृद्धिमात्रापाकरणार्थश्च तत्र सवृद्धिमूलापाकरणार्थं बन्धं पूर्णकालं पूर्णः कालोयस्यासौ पूर्णकालस्तमाप्नुयादृणी। यदा सवृद्धिकं मूलं फलद्वारेण धनिनः प्रविष्टन्तदा बन्धमवाप्नु यांदित्यर्थः वृद्धिमात्रापाकरणार्थन्तु बन्धं सामकन्दत्त्वा प्राप्नुयादृणी। समं मूलं सममेव सामकम्। अस्यापवादमाह। यदि प्रकषितं तत्स्यात्तद्बन्धकं प्रकर्षितमतिशयितं वृद्धेरभ्यधिकफलं यदि स्यात्तदान धनभाग्धनी। सामकं न लभेद्बन्धं, मूलमदत्त्वेवर्णी बन्धमवाप्नुंयादिति यावत्। अथाप्रकर्षितं तद्बन्धकं वृद्धयेऽप्यपर्य्याप्तन्तदा सामकं दत्त्वापि बन्धम् न लभेतमर्णः वृद्धिशेषंदत्त्वैव लभेतेत्यर्थः। पुनरुभयत्रापवादमाह। परस्परमतं विना उत्तमर्णाधर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितमित्याद्युक्तम्। परस्परानुमतौ तूत्कृष्टमपि बन्धकं यावन्मूलदानन्तावदुपभुङ्क्ते धनी निकृष्टमपि मूलमात्रदानेनैवाधमर्णोलभत इति”।

आधिकरणिक = पु० अधिकरणे विचारस्थाने नियुक्तः ठक्। विचारस्थाने नियुक्ते प्राड्विवेकादौ।

आधिक्य = न० अधिकस्य भावः ष्यञ्। अधिकतायाम् अतिशयितायाम्। “यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः” मनुः “युग्मायामपि रात्रौ चेत् शोणितं प्रचुरं तदा। कन्या च पुंवत् भवति शुक्राधिक्ये पुमान् भवेत्” ज्योतिस्तत्त्वम् “प्रातिपदिकमात्रे लिङ्गमात्राद्याधिक्ये” सि० कौ० “एवमेतद्गुणाधिक्यं द्रव्ये द्रव्ये व्यवस्थितम्” सुश्रु०।

आधिज्ञ = त्रि० आधिं मनःपीडां जानाति अनुभवति ज्ञा–क ६ त०। व्याथानुभावके व्यथिते अजयपालः।

आधिदैविक = त्रि० अधिदेवं भवः देवान् वातादीन् अधिकृत्य प्रवृत्तः वा ठञ् अनुशतिका० द्विपदवृद्धिः। देवाधिकारेणप्रवृत्ते, १ शास्त्रे “अधियज्ञं ब्रह्मजपेदाधिदैविकमेव च” मनुः देवताऽधिकारेण प्रवृत्तवेदभागस्तु उपनित्सुप्रसिद्धः। वातादिनिबन्धने २ दुःखे च। दुःखं हि त्रिविधमाध्यात्मिकादिभेदात् तेषां स्वरूपकारणविभागादिः सु श्रुते दर्शितः यथा “तच्च दुःखं त्रिविधमाध्यात्मिकमाधिभौतिकमाधिदैविकमिति। तत्तु सप्तविधे व्याधावुपनिपतति। ते पुनः सप्तविधा व्याधयः। तद्यथाऽऽदिबलप्रवृत्ता जन्मवलप्रवृत्ता दोषबलप्रवृत्ताः संघातबलप्रवृत्ताः कालबलप्रवृत्ताः दैवबलप्रवृत्ताः स्वभावबलप्रवृत्ता इति। तत्रादिबलप्रवृत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठार्शःप्रभृतयः। तेऽपि द्विविधा मातृजाः पितृजाश्च।। जन्मबलप्रवृत्ता ये मातुरपचारात्पङ्गुजात्यन्धवधिरमूकमिण्मिणवामनप्रभृतयो जाय न्ते तेऽपि द्विविधा रसकृता दौहृदापचारकृताश्च।। दोषबलप्रवृत्ता य आतङ्कसमुत्पन्ना मिथ्याहाराचारभवाश्च तेऽपि द्विविधा आमाशयसमुत्थाः पक्वाशयसमुत्थाश्च पुनश्च द्विविधाः शारीरा मानसाश्च त एत आध्यात्मिकाः।। संघातबलप्रवृत्ता य आगन्तवो दुर्ब्बलस्य बलवद्विग्र हात्तेऽपि द्विविधाः शस्त्रकृता बलादिकृताश्च। एत आधिभौतिकाः।। कालबलप्रवृत्ता ये शोतोष्णवातवर्षाप्रभृतिनिमित्तास्तेऽपि द्विविधा व्यापन्नर्त्तुकृता अव्यापन्नर्त्तुकृताश्च।। दैवबलप्रवृत्ता ये देवद्रोहादभिशस्तका अथर्ब्बकृता उपसर्गकृताश्च तेऽपि द्विविधा विद्युदशनिकृताः पिशाचादिकृताश्च पुनश्च द्विविधाः संसर्गजा आकस्मिकाश्च।। स्वभावबलप्रवृत्ताः क्षुत्पिपासाजरामृत्युनिद्राप्रभृतयस्तेऽपि द्विविधाः कालकृताअकालकृताश्च तत्र परिरक्षणकृताः कालकृता अपरिरक्षणकृता अकालकृता एत आधिदैविकाः”। एतदभिप्रायेणैव “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” इति सा० सू० “दुःखत्रयाभिघाताज्जिज्ञासां तदभिघातके हेतौ” सा० का० दुःखत्रयमुक्तं विवृतञ्च सां० त० कौ०। “दुःखानां त्रयं दुःखत्रयं तत् खलु आध्यात्मिकमाधिभौतिकमाधिदैविकञ्च तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च। शारीरं वातपित्तंश्लेष्मणाम् वैषम्यनिमित्तं, मानसं कामक्रोधलोभमोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम्। सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम्। वाह्योपायसाध्यञ्च दुःखं द्वेधा आधिभौतिकमाधिदैविकञ्च तत्राधिभौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम्। आधिदैविकं यक्षराक्षसविनायकग्रहावेशनिबन्धनम्”। “तापत्रयोन्मूलनम्” भाग० १ स्क० उक्तम्। दुःखञ्चात्मधर्म इति वैशेषिकादयः। अन्तःकरणादि धर्म इति सांख्यादयः। अन्तःकरणादेः त्रिगुणात्मकप्रकृतिकार्य्यत्वात् प्रीत्यप्रीतिविषादानां त्रिगुणधर्म्माणां स्वस्वकार्य्ये संक्र- मात् सर्वेषां विषयाणामेव दुःखादिमत्त्वमिति भेदः।

आधिपत्य = न० अधिपतेर्भावः कर्म्मवा पत्यन्तत्वात् यक्। १ सामित्वे “अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्। गीता। “राष्ट्रस्याधिपत्यं मे देहि” ऋ० १०, ११४, ५। “तदेनमासां प्रजानासाधिपत्याय राज्याय” शत० ब्रा० “सर्वलोकाधिपत्यञ्च वेदशास्त्रविदर्हति” इति मनुः “यक्षाणामाधिपत्यञ्च राजराजत्वमेव च” भा० व० २७८ अ०। २ राजकार्य्ये प्रजापालनादौ। “दुर्य्योधनं त्वहितं वै निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये। अजातशत्रुर्हि विमुक्तरागो धर्म्मेणेमां पृथिवीं शास्तु राजन्” भा० य० प० ४ अ०।

आधिबन्ध = पु० आधिः बहुप्रजानां कथं पालनं स्यादिति चिन्ता एव बन्धः। बहुप्रजारक्षणार्थचिन्तारूपबन्धे। “कथं राजन्! प्रजारक्षन्नाधिबन्धेन युज्यते” युधिष्थिरप्रश्ने तच्चिन्ताधिरूपबन्धनिवारणाय यथा राज्ञाचरणीयं तथोक्तं तं प्रति भीष्मेण भा० शा० ७० अ० “समासेनैव ते राजन्! धर्मान् वक्ष्यामि शाश्वतान्। विस्तरेणेह धर्माणां न जात्वन्तमवाप्नुयात्। धर्मनिष्ठान् श्रुतवतो देवव्रतसमाहितान्। अर्च्चयित्वा यजेथास्त्वं गृहे गुणवतो द्विजान्। प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च। अथ सर्व्वाणि कुर्ब्बीथाः कार्य्याणि सपुरोहितः। धर्म्मकार्य्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च। ब्राह्मणान् वाचयेथास्त्वमर्थसिद्धिजयाशिषः। आर्ज्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत!। यथार्थं प्रतिगृह्णीयाः कामक्रोधौ च वर्ज्जयेः। कामक्रोधौ पुरस्कृत्य योऽयं राजाज्नुतिष्ठति। न स धर्म्मं न चाप्यर्थं प्रतिगृह्णाति वालिशः। मा स्म लुब्धांश्च मूर्खांश्च कामार्थेषु प्रयूयुजः। अलुब्धान् बुद्धिसम्पन्नान् सर्वकर्म्मसु योजयेः। मूर्खो ह्यधिकृतोऽर्थेषु कार्य्याणामविशारदः। प्रजाः क्लिश्नात्ययोगेन कामक्रोधसमन्वितः। बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्। शास्त्राणि तेन लिप्सेथा वेतनेन धनागमम्। दापयित्वा करं धर्मं राष्ट्रं नीत्या यथाविधि। तथैतं कल्पयेद्राजा योगक्षेममतन्द्रितः। गोपायितारं दातारं षर्मनित्यमतन्द्रितम्। अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः। मा स्माधर्मेण लोभेन लिप्सेथास्त्वं धनागमम्। धर्मार्थावध्रुवौ तस्य यो न शास्त्रपरो भवेत्। अर्थशास्त्रपरो राजा धर्मार्थान्नाधिगच्छति। अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति। अर्थमूलो हि हिंसाञ्च कुरुते स्वयमात्मनः। करेरशास्त्रदृष्टैर्हि मोहात् सम्पीडयेत् प्रजाः। ऊधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी न लभेत् पयः। एवं राष्ट्रमयोगेन पीडितं न विवर्द्धते। यो हि दोग्ध्रीमुपास्ते च स नित्यं विन्दते पयः। एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम्। अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम्। जनयत्यलां नित्यं कोषवृद्धिं युधिष्टिर!। दोग्ध्री धान्यं हिरण्यञ्च मही राज्ञा सुरक्षिता। नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः। मालाकारोपमो राजन्! भव नाङ्गारिकोपमः। तथा युक्तश्चिरं राज्यं भोक्तुं शक्ष्यसि पलयन्। परचक्राभियानेन यदि ते स्याद्धनक्षयः। अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत्। मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रच लेन्मनः। अ न्त्यायामप्यवस्थायां किमु स्फीतस्य भारत। धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथाऽर्हतः। सान्त्वयन् परिरक्षंश्च स्वर्गमाप्स्यसि दुर्ज्जयम्। एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालय। स्वन्तं पुण्यं यशो नित्यं प्राप्स्यसे कुरुनन्दन!। धर्म्मेणव्यवहारेण प्रजां पालय पाण्डव!। युधिष्ठिर! यथा युक्तो नाधिबन्धेन योक्ष्यसे। एष एव परो धर्मो यद्राजा रक्षति प्रजाः। भूतानां हि यदा धर्मो रक्षणं परमा दया। तस्मादेव परं धर्म्मं मन्यन्ते धर्म्मकोविदाः। यो राजा रक्षणे युक्तो भूतेषु कुरुते दयाम्। यदह्ना कुरुते पापमरक्ष भयतः प्रजाः। राजा वर्षसहस्रेण तस्यान्तमधिगच्छति। यदह्ना कुरुते धर्म्मं प्रजा धर्मेण पालयन्। दश वर्षसहस्राणि तस्यभुङ्क्तेफलं दिवि। स्विष्टिः स्वधीतिः सुतपा लोकान् जयति यावतः। क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन्। एवं धर्मं प्रयत्नेन कौन्तेय! परिपालय। ततः पुण्यफलं लब्ध्वा नाधिवन्धेन योक्ष्यसे”।

आधिभोग = पु० आधेर्ब्बन्धकद्रव्यस्य भोगः। बन्धकद्रव्यस्य भोगे “गोप्याधिभोगे नो वृद्धिः” आधिशब्दे उदा० आधेर्मनोव्यथाया अनुभवरूपे २ भोगे च।

आधिभौतिक = त्रि० भूतानि व्याघ्रसर्पादीन्यधिकृत्य जातम्। अधिभूत + ठञ् द्विपदवृद्धिः। व्याघ्रसर्पादिजनिते दुःखे। आधिदैविकशब्दे विवृतिः।

आधिमन्यव = अधिमन्यवे हितः अण्। ज्वराग्नौ हारा० ज्वरसन्तापे हि अद्धिकव्यथोद्भवात्तस्य तथात्वम्।

आधिरथि = पु० अधिरथः धृतराष्ट्रसारथिः तस्यायम् इञ्। सूतपुत्रे कर्णे “हिरण्यकण्ठीः प्रमदाः ग्रामान् वा बहुगोकुलान्। किं ददानीति तं विप्रमुवाचाधिरथिस्ततः भा० व० प० ३०८ अध्या०। तस्पाधिरथपुत्त्रत्वप्राप्तिकथा स हि कन्यावस्थायां सूर्य्येण कुन्त्याम् उत्पादितः पश्चाच्च तया स्वकुलभयात् जले त्यक्तः अधिरथेन गृहीतो वर्द्धितश्च यथोक्तं “निगूहमाना जातं वै बन्धुपक्षभयात्तदा। उत्ससर्ज्ज जले कुन्ती तं कुमारं यशस्विनम्। तमुत्सृष्टं जले गर्भं राधाभर्त्ता महायशाः। राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा। चक्रतुर्नामधेयञ्च तस्य बालस्य तावुभौ। दम्पती वसुषेणेति” भा० आ० ६७ अ०।

आधिराज्य = न० अधिराजस्य भावः कर्म्म वा ष्यञ्। आधिपत्ये “बभौ भूयः कुमारत्वादाधिराज्यमव्याप्य सः” रघुः।

आधिवेदनिक = त्रि० अधिवेदनाय विवाहोपरिविवाहाय हितं ठक् तत्र काले दत्तं ठञ् वा। अधिवेदनार्थे तत्र काले च स्त्रियै पत्या दीयमाने स्त्रीधनभेदे। “पितृमातृपतिभ्रातृ दत्तमध्यग्न्युपागतम्। आधिवेदनिकञ्चैव स्त्रीधनं परिकीर्त्तितम्” या० स्मृ० “यच्च द्वितीयविवाहार्थिना पूर्वस्त्रियै पारितोषादिकं धनं दत्तं तदाधिवेदनिकमधिकस्त्रीलाभार्थत्वात्तस्येति” दायभा०। मिताक्षरायां तु “आधिवेदनिकाद्यञ्चेति” पठितम् आधिवेदनिकम् अधिवेदननिमित्तमिति व्याख्यातञ्च आद्यपदेन क्रयरिक्यादिप्राप्तस्य ग्रहणमियुक्तम्। तत्र अधिवेदननिमित्तदाने विशेषः या० स्मृत्युक्तः “अधिविन्नस्त्रियै देयमाधिवेदनिकं समम् न दत्तं स्त्रीधनं यस्या दत्ते त्वर्द्धं प्रकल्पयेत्” “एतदपि सामर्थ्ये असामर्थ्ये तु यत् किञ्चित् भरणपर्य्याप्नं दत्त्वा परितोषयेदिति भेदः। “एकामूढ्वा तु कामार्थमन्यां वोटुं यैच्छति। समर्थस्तोषयित्वार्थैः पूर्ब्बोढामपरां वहेत्” स्मृतौ समर्थपदस्वारस्यात्तथात्वम्। एवमेव मदनपारिजातविधानपारिजातादयः।

आधिस्तेन = पु० आधेर्गोप्याधेर्भोगात् स्तेनैव। गोप्याधेर्बलात्कारेण भोक्तरि। “न भोक्तव्यो बलदाधिर्भुञ्जानोवृद्धिमुत्सृजेत्। मूल्येन तोषयेदेनमाधिस्तेनोऽन्यथा भवेत्” मनुना तद्भोगे स्तेनत्वस्योक्तेस्तथात्वम्।

आधीकरण = न० अनाधिराधिक्रियते आघि + च्वि + कृ–ल्युट्। बन्धकीकरणे आधिशब्दे मिताक्षरावाक्ये उदा०” क्त आधीकृतः। दत्तबन्धके द्रव्यादौ त्रि०।

आधुत = त्रि० आ + धु–क्त। चालिते।

आधुनिक = त्रि० अधुना भवः ठञ्। १ साम्प्रतभवे २ अर्वाचीने अप्राचीने च स्त्रियां ङीप्

आधृष्टि = त्रि० आ + धृष–भावे क्तिन्। १ परिभवे २ बलाद् निग्रहे च।

आधेय = त्रि० आ + धा–कर्मणि यत्। १ उत्पाद्ये। “आधेयश्चा क्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः” व्या० का०। यस्य सतो गुणान्तरमुत्पाद्यम् २ तादृशे उतपाद्यगुणान्तरे विद्यमाने एव यत्र घटादिपदार्थे पाकादिना रक्ततागुणान्तरमाधीयते तादृशे घटादौ। आधानविधिना ३ स्थापनीये वह्नौ पु०। ४ अधिकरणेऽभिनिवेशनीये “अधिकं पृथुलाधारादाधेयाधिक्यवर्ण्णनम्” चन्द्रा०। ५ स्थापनोये द्रव्ये च। भावे यत्। ६ आधाने न०। “अग्न्याधेयम्” आश्व० श्रौ० सू०। “अन्यतराभावे कार्या प्रागग्न्यधेयात्” बौधा० सू०।

आधोरण = पु० आ + धोर–गतिचातुर्ये ल्यु। हस्तिगतिचातु र्यज्ञे हस्तिपके। स्वल्पबलेनापि महाबलस्य हस्तिनः सङ्केतादिनैव चालनात्तस्य गतिचातुर्य्यवत्त्वात्तथात्वम्।

आध्मात = त्रि० आ + ध्मा–क्त। १ शब्दिते, २ दग्धे, ३ वातदोषजातोदरस्फीततासम्पादकरोगयुक्ते “साटोपमत्युग्ररुजमा ध्मातमुदरंभृशम्” सुश्रु०। भावे क्त ४ आध्माने न०।

आध्मान = पु० आ + ध्मा–आधारे ल्युट्। “आध्मानमिति जानीयाद्दोषं वातनिरोधकृत्” इत्युक्ते १ वातव्याधौ। “शूलञ्च मूत्रं मुहुर्मुहुः प्रवृत्तिं वस्तितोदमाध्मानञ्च” सुश्रु० भावे ल्युट्। २ उदरस्फीततायाम्। ३ अग्निसंयोगजे शब्दभेदे न०। करणेल्युट्। ४ नलिकानामगन्धद्रव्ये स्त्री० ङीप्।

आध्मापन = न० आ + ध्मा–णिच्–पुक्–भावे ल्युट्। १ शब्दनिष्पादने २ आध्माननिष्पादने सुश्रुतोक्ते ३ शल्यापसारणीयव्यापारभेदे च। “अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्रपाणिभिः प्रमार्ज्जयेत्” सुश्रु०।

आध्यक्ष्य = न० अध्यक्षस्य भावः ष्यञ्। १ अधिष्ठातृत्वे २ अधिकर्त्तृव्यापारे ३ पृत्यक्षत्वे च।

आध्या = स्त्री आ + ध्यै–भावे अङ्। १ चिन्तने २ ओत्सुक्येन स्मृतौ

आध्यात्मिक = त्रि० आत्मानं मनः शरीरादिकमधिकृत्य भवः ठञ्। शोकमोहज्वरादिरूपे दुःखे। आधिदैविकशब्देऽस्य विवृतिः।

आध्यान = न० आध्यै + ल्युट्। १ चिन्तायाम्, २ उत्कण्ठापूर्ब्बकस्मरणे च।

आध्यापक = पु० अध्यापकएव स्वार्थेऽण्। अध्यापके शब्दरत्ना०

आध्यायिक = पु० अधीयतेऽध्यायोऽध्येयोवेदस्तमधीते ठञ्। अधीतवेदे “युवा स्यात् साधुयुवाध्यायिकः” तैत्ति० उ०। “आध्यायिकोऽधीतवेदः” भा०।

आध्यासिक = त्रि० अध्यासेन कल्पितः ठक्। वेदान्तिमते अध्यासेन कल्पिते अतद्वति तत्त्वारोपेण कल्पिते पदार्थे यथा शुक्तिकादौरजतादि कल्पितम् एवं ब्रह्मणि जगदादि आरोपितमिति तस्याध्यासिकत्वमिति वेदान्तिसिद्धान्तः।

आध्र = पु० आ + धृ–क। आधारे। “आध्रस्य चित् प्रमतिरुच्यसे” ऋ० १, ३१, १४। “आध्रेण चित्तद्वेकं चकार” ऋ०७, १८, १७।

आध्वनिक = त्रि० अध्वनि कुशलः ठक्। पथिकुशले “कान्तारेष्वपि विश्रामे जनस्याध्वनिकस्य वै” भा० आ०।

आध्वरायण = पुं स्त्री० अध्वरोयज्ञाभिज्ञस्तस्य गोत्रापत्यम् नडा० फक्। यज्ञविद्गोत्रापत्ये।

आध्वरिक = पु० अध्वरस्य व्याख्यानो ग्रन्थः ठक्। अध्वरव्याख्याने १ ग्रन्थे। अध्वरं यज्ञं वेत्ति तत्प्रतिपादकग्रन्थमधीते वा ठक्। २ यज्ञवेत्तरि २ तत्प्रतिपादकग्रन्था ध्येतरि च त्रि०।

आध्वर्य्यव = त्रि० अध्वर्य्योर्यजुवेविद इदम् अञ्। अध्वर्य्यु सम्बन्धिनि कर्म्मादौ। “यदि वाध्वर्य्यवं राजा नियुनक्ति पुरोहितम्” अथ० १०, ५२, २। “ऋग्वेदेन हौत्रमकुर्व्वत यजुर्वेदेनाध्वर्य्यवं सामवेदेनोद्गीथम्” शत० ब्रा०।

आन = पु० आनित्यनेन आ + अन–करणे क्विप् आ प्राणवायुः ततः सुवास्त्वा० अदूरभवादौ अण्। सम्यग्जीवनसाधनस्य अन्तःस्थितस्य प्राणवायोर्नासिकया वहिर्निस्मारणेउच्छासे

आनक = पु० आनयति सोत्साहान् करोति अन–णिच् ण्वुल्। १ पटहे, २ मृदङ्गे, “ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः सहसैवाभ्यहन्यन्त” गीता ३ सशब्दमेघे च। ४ उत्साहके त्रि०। कर्ण्णादि० चतुरर्थ्यां फिञ्। आनकायनिः। तत्सन्निकृष्टदेशादौ त्रि०।

आनकदुन्दुभि = पु० आनकः प्रोत्साहकोदुन्दुभिर्देववाद्यविशेषो यस्य। १ कृष्णपितरि वसुदेवे। कृष्णजन्मोत्सवे हि तथा वाद्यं तद्गृहे जातमिति तस्य तथात्वम्। २ वृहड्ढक्वायां स्त्री वा ङीप्।

आनकस्थली = स्त्री आनकप्रधाना स्थली शा० त०। आनकप्रधानस्थल्यां देशभेदे तस्यां भवः अदूरदेशादौ धूमा० वुञ्। आनकस्थलकः तत्सन्निकृष्टदेशादौ त्रि०।

आनडुह = न० आनडुह इदम् अण्। १ वृषसम्बन्धिनि गोमय चर्म्मादौ। “आनडुहोगोमयः कृशरःस्थालीपाकः” गोभि० “चर्म्मण्यानडुहे रक्ते स्थाप्यं भद्रासने तथा” या० स्मृ०। अनडुहा कृतम् अण्। २ स्वनामख्याते तीर्थभेदे तच्च तीर्थं मह्यगिरिसन्निकृष्टदेशस्थितम् यथा क्रौञ्चपुरं वर्ण्णयिवा। “तमदृष्ट्वैव राजानं निवासाय गतेऽहनि। तीर्थमानुडुहं ताम गमिष्यामः सनातनम्। ततश्च तं गमिष्यामः सह्यस्य विवरे गिरिम्” गोमन्तमिति विख्यातम्” हरिवं० ९६ अ०।

आनडुहक = त्रि० अनडुहा कृतम् संज्ञायां कुलला० वुञ्। अनडुत्कृते गीमयादौ।

आनडुह्य = पु० अनडुहोगोत्रापत्यम् गर्गा० यञ्। अनडुन्नामकस्य मुनेर्गोत्रापत्ये। ततः पुनः गोत्रापत्ये अश्वा० फञ्। आनडुह्यायनः तदपत्ये पुंस्त्री०। चतुरर्थ्यां कर्ण्णा० फिञ्। आनडुह्यायनिः तत्सन्निकृष्ट देशादौ त्रि०।

आनत = त्रि० आ + नम–क्त। १ कृतप्रमाणे, २ अधोमुखे, ३ विनयेन नते च “तं व्याससूनुममलं मुनिमानतोऽस्मि” भा० १ मस्कन्धे। “स्पृशन्करेणानतपूर्ब्बकायम्” रघुः।

आनति = स्त्री आनमति प्रवणीभवत्यनया आ + नम–करणेक्तिन्। आनुगत्यजन्ये १ सन्तोषे “यच्च चिरावस्थितेर्व्यभिचारात् न प्रतिग्रहकारणत्वमानतेरिति” “आनतिद्वारा न प्रतिग्रहार्थत्वं द्रव्यस्येत्युक्तं तन्मन्दतरम् आनतिद्वारेण चिराश्रयणादीनां प्रतिग्रहकारणत्वादिति” “आनतेरनियतोपायपरिणामादिति” च दाय० भा०। भावे क्तिन्। २ नम्रीभावे, ३ अधोभवने, ४ नम्रतायाञ्च “आत्मजातिसदृशीं किलानतिम्” किरा०।

आनद्धं = न० आ + नह + क्त। चर्म्मणा बद्धमुखे १ पटहमुरजादौ वाद्यभेदे,। २ ग्रथिते, ३ व्याप्ते, ४ बद्धे केशभूषादिके च त्रि०। “मूत्रवहे द्वे तयोर्मूलं वस्तिर्मेढ्रञ्च तत्र विद्धानद्धवस्तिता” सुश्रु०

आनन = न० अनित्यनेन आ + अन–करणे ल्युट्। मुखे मुखेन हि जलपानादिना प्राणादेः स्थितिरतस्तस्य तथात्वम् “सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ” “तदाननं मृत्सुरभि क्षितीश्वरः” नृपस्य कान्तं पिबतः सुताननम्” इति च रघुः।

आनन्तर्य्य = न० अनन्तरमेव चतुर्व० स्वार्थे ष्यञ्। १ अव्यवहिते अनन्तरस्य भावः ष्यञ्। २ अव्यवधाने। “आनन्तर्य्यात् स्वयोन्यास्तु तथा बाह्येष्वपि क्रमात्” मनुः “पयसः कालानन्तर्य्यधर्मानुग्रहेभ्यः” कात्या० ४, ३, १६।

आनन्त्य = न० अनन्तएव स्वार्थे ञ्य। १ अनन्ते २ असीमे अनन्तस्य भावः ष्यञ्। ३ सीमाशून्यत्वे ४ नाशराहित्ये “हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते” मनुः। “लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकै” या० स्मृतिः। “आनन्त्यात् कुलधर्स्माणां द्वादशाहे विधीयते” श्रा० त० पु० ५ शाश्वतप्रतिष्ठायाञ्च “यस्तु नित्यं कृतमतिर्घर्म्ममेवाभिपद्यते। अशङ्कमानः कल्याणि! सोऽमूत्रानन्त्यमश्नुते” भा० व० प० ३१ अ०।

***