वाचस्पत्यम्
आत्मन्
links:
Menu अ–ह
Prev आतु–आत्मध
Next आत्मनि–आदिम
आत्मन्
UpasanaYoga
.org

आत्मन् = पु० अत–मनिण्। १ स्वरूपे, २ यत्ने, ३ देहे, ४ मनसि, ५ बुद्धिस्थे निजे, ६ बुद्धौ, ७ अर्के, ८ वह्नौ, ९ वायौ, १० जीवे, ११ ब्रह्मणि च। “आत्मानं चेद्विजानीयदह मस्मीति पुरुषैति श्रुत्युक्तेः अहंप्रत्ययविषयत्वमात्मनः। अहं प्रत्ययविषयत्वे च बह्व्यःवादिविप्रतिपत्तयः शा० भाष्येदर्शिताः। “देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृताजना लौकायतिकाश्च प्रतिपन्नाः। इन्द्रियाण्येव चेतनान्यात्मेत्यपरे। मनैत्यन्ये। विज्ञानमात्रंक्षणिकमित्येके। शून्यमित्यप्ररे। अस्ति देहादिव्यतिरिक्तः संसारी कर्त्ता भोक्तेत्यपरे। भोक्तैव केवलं न कर्त्तेत्येके। अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्। आत्मा स भोक्तुरित्यपरे। एवं हि बहवोविप्रतिपन्नाः युक्तिवाक्यतदाभाससमाश्रयाः सन्तः”। विवृतञ्चैतत् विप्रतिपत्तिकारणसामान्यधर्म्मप्रदर्शनपुरःसरं विवरणोपन्यासे माधवाचार्य्येण “यथा रज्जुद्रव्यस्य दण्डसर्पधारादावनुष्यूतरूपेण प्रतीयमानत्वमेव सामान्यम् तथाऽऽत्मनः शरीरेन्द्रियमनोबुद्धिशून्य कर्त्तृभोक्तृसर्वज्ञब्रह्माख्यपदार्थेषु विप्रतिपत्तिस्कन्धेषु अनुष्यूतत्वेन प्रतीयमानत्वमेव सामान्यं भविष्यति प्रत्यक्षसिद्धेऽपि शरीराद्यर्थे प्रयुज्यमानस्यात्मवाचिनोऽहंशब्दस्य गोशब्दवदर्थविप्रतिपत्तिरुपपद्यते। गोशब्दस्य हि तत्तत्पक्षसिद्धव्यक्त्याकृतिजातिक्रियागुणाद्यर्थेषु प्रयुज्यमानस्य जातिरर्थत्वेन वैदिकैः प्रतिपन्ना, व्यक्तिः सांख्यादिभिः, उभयं वैया करणैः, स्वावयवसंस्थानाख्याकृतिरार्हतादिभिः। त्रितयमपि नैयायिकाद्यैः। अथ गोशब्दप्रयोगे जात्यादीनामन्वयव्य तिरेकनियमात्तदर्थत्वशङ्का। तर्ह्यहंशब्दप्रयोगेऽपि शरीरादीनामन्वयव्यतिरेकनियमात्तदर्थशङ्कास्तु। तत्र विचारविरहितं प्रत्यक्षमेव प्रमाणमाश्रित्य चेतयमानोऽहमात्मेति प्राकृताः शास्त्रसंस्कारवर्ज्जिता जनाः प्रतिपन्नाः। तथा भूतचतुष्टयमात्रतत्त्ववादिनो लौकायतिकाश्च, मनुष्पोऽहं जानामीति शरीरस्याहंप्रत्ययालम्बनत्वेन ज्ञानाश्रयत्वेन चावगम्यमानत्वात्तदेवात्मेति मन्यन्ते। अन्ये पुनरेवमाहुः सत्यपि शरीरे चक्षुरादिभिर्विना रूपादिज्ञानाभावादिन्द्रि याण्येव चेतनानि। न चेन्द्रियाणां करणतया ज्ञानान्वय व्यतिरेकयोरन्यथासिद्धिः। करणत्व कल्पनादुपादान त्वकल्पनस्याभ्यर्हितत्वात्। अतः अन्धोऽहं काणोऽहं मूकोऽहमित्यहं प्रत्ययालम्बनानि चेतनानीन्द्रियाणि प्रत्येकमात्मत्वेनाभ्युपेयानि शरीरे त्वहंप्रत्ययालम्बनत्वं चेतनत्वञ्चात्मभूतेन्द्रियाश्रयत्वादन्यथासिद्धम्। नन्वेकस्मिन् शरीरे बहूनामिन्द्रियाणां चेतनत्वे यएवाहं पूर्वं रूपमद्राक्षं स एवेदानीं शब्दं शृणोमीति प्रत्यभिज्ञा न स्यात्। तथा भोक्तृत्वं रूपादिषु युगपदेव स्यान्न क्रमेणेति चेत् मैवम् न हि चेतनैकत्वं प्रत्यभिज्ञाक्रमभोगयोर्निमित्तं किन्त्वेकशरीराश्रयत्वमेव। ततो यथैकस्मिन् गृहे बहूनां पुरुषाणामेकैकस्य विवाहेऽन्येषामुपसर्जनत्वं तथेन्द्रियात्मनामपि एकैकस्योपभोगकालेऽन्येषामुपसर्जनत्वम्। अन्ये तु मन्यन्ते स्वप्नेचक्षुराद्यभावेऽपि केवले मनसि विज्ञानाश्रयत्वमहं प्रत्ययालम्बनत्वं चोपपद्यते। न च रूपादिविज्ञानानां चक्षुराद्याश्रयत्वं, तथासति केवले मनसि रूपादि स्मृत्यनुपपत्तेः। ततः करणान्येव चक्षुरादीनि अहंप्रत्ययस्तु तत्र कर्त्तृत्वोपचारात् सिद्ध्यति। न चानेकात्मस्वेकशरीराश्रयत्वमात्रेण प्रत्यभिज्ञा युज्यते एकप्रासादमाश्रितानामपि तत्प्रसङ्गात्। तस्माच्चक्षुरादिकरणकं शरीराद्याधारं मनएवात्मेति। विज्ञानवादिनस्तु क्षणिकविज्ञानव्यतिरिक्तवस्तुनः सद्भावमनुभवविरुद्धम् मन्वानास्तस्यैव विज्ञानस्यात्मत्वमाहुः। प्रत्यभिज्ञानं तु ज्वालायामिव सन्ततविज्ञानोदयसादृश्यादुपपद्यते विज्ञानानां हेतुफलसन्तानमात्रादेव कर्म्मज्ञानबन्धमोक्षादिसिद्धिः। माध्यमिकास्तु सुषुप्तौ विज्ञानस्याप्यदर्शना च्छून्यमेवात्मतत्त्वमित्याहुः यदि सुषुप्तौ विज्ञानप्रवाहः स्यात्तदा विषयावभासोऽपि प्रसज्येत। निरालम्बनज्ञानायोगात् जाग्रत्स्वप्नज्ञानानामेव सालम्बनत्वं न सौषुप्तिकज्ञानानामिति चेत् न विशेषाभावात् विमतं सालम्बनम् प्रत्ययत्वात् संमतवदिति। उत्थितस्य सौषुप्तविषयस्मृत्यभावनियमान्न तत्र विषय इति चेत्। तर्हि तत्र नियमेनास्मर्य्यमाणत्वादेव ज्ञानमपि मा भूत्। न च शून्ये विवदितर्व्य यथा सविकल्पकः स्वविषयविपरीत निर्विकल्पकजन्यस्तथा सत्प्रत्ययोऽपि स्वविपरीतशून्यजन्य इत्यभ्युपेयत्वात् एवं चोत्थाने सति जायमानस्याहमस्मीति सत्प्रत्ययस्य समनन्तरपूर्वप्रत्ययलक्षणकारणरहितस्य वास्तवत्वायोगाच्छून्यमेव तत्त्वमिति। अपरे पुनः शरीरेन्द्रियमनोविज्ञानशून्यव्यतिरिक्तं स्थायिनं संसारिणं कर्त्तारं भोक्तारमात्मानमाहुः। न च शून्येऽहंप्रत्यय उपपद्यते बन्ध्यापुत्रादावपि तत्प्रसङ्गात्। नापि क्षणिकविज्ञाने क्रमभावी व्यवहारो युज्यते सर्व्वो हि लोकोऽनुकूलं वस्तु प्रथमतो जानाति ततः इच्छति ततः प्रयतते ततस्तत् प्राप्नोति ततः सुखं लभते। यद्येतादृशमेककर्त्तृकतया भासमानं व्यवहारमेकसन्तानवर्त्तिनो बहव आत्मानः परस्परवार्त्तानभिज्ञा अपि निस्पादयन्ति तदा भिन्नसन्ता- नवर्त्तिनः किन्न निष्पादयेयुः। तस्माद्यएवाहमिदं वस्त्वज्ञासिषं सएवाहमिदानीमिच्छामीत्याद्यबाधितप्रत्यभिज्ञाननिर्वाहाय स्थायी आत्माभ्युपेयः। न चासौ विज्ञानरूपः अहंविज्ञानमित्येकत्वानुभवाभावात्। ममेदं विज्ञानमिति संबन्धोह्यनुभूयते। नचायमनुभवोममात्मेतिवदौपचारिकः बाधकाभावात्। एतेन शरीरेन्द्रियमनसामात्मत्वं प्रत्युक्तम्। तत्रापि संबन्धतत्प्रत्ययस्यानिवार्य्यत्वात् अहमुल्लेखस्यात्राध्यासिकत्वात्। नचायमात्मा सादिः। शरीरोत्पत्तिसमनन्तरमेव सुखदुःखप्राप्तिमालोक्य तद्धेतुभूतयोः पुण्यपापयोः कर्त्ता पूर्ब्बमप्यस्तीत्यवगमात्। नचायमनित्यः विनाशानिरूपणात्। न तावत् स्वतोविनाशः निर्हेतुकविनाशस्यातिप्रसंङ्गिनः सुगतेतरैरनङ्गीकारात्। नापि परतः। निरवयवस्य विनाशहेतुसंसर्गासंभवात् संभवे वा न विनाशः सिद्ध्येत्। कर्मनिमित्तोह्यन्यस्य संसर्गः स च तत्कर्म्मफलोपभोगायात्मनोऽवस्थितिमेव साधयेन्न विनाशं तस्मादनादेरविनाशिनोऽनन्तशरीरेषु यातायातरूपः संसारः सिद्धः। निर्विकारस्य भोगासंभावाद्विकारस्य क्रियाफलरूपस्याभ्युपगमे क्रियावेशात्मकं कर्त्तृत्वमनि वार्य्यम्। भोक्तृत्वमप्यनुभूयमानं शरीरादिषु विज्ञानपर्य्यन्तेषु अनुपपन्नत्वादुक्तात्मन्येव पर्य्यवस्यति। तथा हि। शरीरं तावत् पञ्चभूतसंघातरूपम् “पञ्चभृतात्मके तत्तच्छरीरे पञ्चताङ्गत” इत्यादिशास्त्रात्। यत्तु नैयायिका मन्यन्ते मूलोकवासिनां शरीरं पार्थिवमेव तत्र क्लेदनाद्युपलब्धिर्वस्त्रादाविव भूतान्तरोपष्टम्भादिति। तदसत्। शोषणादिना जलाद्यपगमेऽपि यथा वस्त्रादिस्वरूपस्य नापचयः। तथा क्लेदनपाचनव्यूहनावकाशानामपगमेऽपि शरीरस्यापचथाभावप्रसङ्गात्। यच्च वैशेषिकैरुच्यते पञ्चभूतास्माकत्वे शरीरस्याप्रत्यक्षत्वप्रसङ्गः वाय्वाकाशयोरप्रत्यक्षतया प्रत्यक्षाप्रत्यक्षवृत्तित्वादिति तदप्ययुक्तम्। तथासति सर्वावय विनामप्रत्यक्षत्वापातात्तेषां प्रत्यक्षाप्रत्यक्षावयववृत्तित्वात्। न हि सूक्ष्माः परभागस्थिताश्चावयविनोऽवयवाः प्रत्यक्षीकर्त्तुं शक्यन्ते। तस्माद्भूतसंघातः शरीरम्। न च गन्धादिमतां तद्रहितानाञ्च भूतानामेककार्य्याजनकत्वं परस्परविरोधादिति वाच्यम् तथा सति नीलादीनामेकावयविजनकत्वस्यैकचित्ररूपारम्भकत्वस्य चासम्भवप्रसङ्गात्। अनुभवबलादेव तत्र तथा स्वीकारे प्रकृते पि न तद्दण्डवारितम्। तत्र शरीरस्य भोक्तृतां वदन्तो लौकायतिकाः प्रष्टव्याः किं व्यस्तानां भूतानां प्रत्येकं भोक्तृत्वमुत सम- स्तानाम्, आद्येऽपि न तावद्युगपत् सर्वेषाम्भोक्तृता। तदास्वार्थप्रवृत्तानां तेषाम् अन्योऽन्यमङ्गाङ्गिभावानुपपत्तौ संघातापत्त्यभावप्रसङ्गात्। अन्तरेणैव संघातम्भोक्तृत्वे देहा द्बहिरप्येकैकस्य भूतस्य भोक्तृतोपलभ्येत। नापि क्रमेण तेषां भोक्तृत्वं संघातानुपपत्तितादवस्थ्यात्। न च वरविवाहन्यायेन गुणप्रधानभावेन तदुपपत्तिः, वैषम्यात्। यथैकैकवरस्यासाधारणत्वेनैकैका कन्या भोग्या न तथा चतुर्णां पृथिव्यप्तेजोवायूनां भोक्तॄणां रूपरसगन्धस्पर्शा भोग्या व्यवस्थिताः। कथं क्रमभोगः। अथ कथञ्चित् व्यवतिष्ठेरन्। तदा युगपत्सर्वविषयसन्निधाने सति क्रमानुपपत्तिः। यथैकस्मिन् मूहूर्त्तेप्रत्थेकं भोग्यकन्यावस्तुनि सन्निहिते वराणां क्रमविवाहोगुणप्रधानतया संघातोवा नास्ति तद्वत्। नापि समस्तानां भोक्त्रत्वसम्भवः। प्रत्येकमविद्यमानस्य चैतन्यस्य संघातेऽप्यभावाद्भोगानुपपत्तेः। अथ मन्यसेऽग्नौ प्रक्षिप्तेषु तिलेष्वेकैकस्य ज्वालाजनकत्वाभावेऽपि तिलसमूहस्य यथातज्जनकत्वं तथा संघातस्यैव चैतन्यं स्यादिति तदपि संघातापत्तौ हेतुर्वक्तव्यः। आगामिभोगो हेतुरिति चेन्न यदि तावद्भोगस्य गुणभावः तदा प्रधानभूतानामन्योऽन्यं गुणप्रधानभावरहितानां कथं संघातापत्तिः प्राधान्यं तु भोगस्यानुपपन्नम् भोक्तृशेषत्वात्। नच वाच्यं शेषिणं भोगं प्रति शेषभूतयोः स्त्रीपुंशरीरयोः भोक्त्रोः संघातापत्तिर्दृष्टेति, तत्रापि शरीरे भोक्तृत्वासंप्रतिपत्तेः। ज्वालां प्रति तिलानां संघातापत्तिरिति योऽयं दृष्टान्तः सोऽपि तवासिद्धः संघातानिरूपणात्। न तावत् संघातोनाम भोग्यभोगिनोर्वनवदेकदेशतामात्रम् तथा सति तेन न्यायेन व्यापिनां भूतानां सर्वत्र सत्त्वाच्चैतन्यभोगयोः सार्वत्रिकत्वप्रसङ्गात्। नापि तदारव्वोऽवयवी संघातः तस्य भूतेभ्योभेदे पञ्चमतत्त्वाभ्युपगमप्रसङ्गात्। अभेदे भूतमात्रतया संघातत्वासम्भवात्। भेदाभेदयोश्चानङ्गीकरणात्। अथावयंविनः पारतन्त्र्यान्न पञ्चमतत्त्वापत्तिस्तर्हि जलादेः पृथिव्यादितन्त्रत्वान्न तत्त्वचतुष्टयमपि सिध्येत्। न चैकद्रव्यबुद्धावन्वयोग्यतापत्तिः संघातः, वस्तुतोऽनेकेष्वेकत्वबुद्धेर्विभ्रममात्रत्वात्। न चैकार्थक्रियायां युगपदन्वयः संघातः, तदानीं काष्ठाश्रयेण वह्निना वायुसमुद्धृते जलेताप्यमाने सति तत्र भूतचतुष्टयसं घाताद्भोगप्रसङ्गात्। नचाम्न्ययःपिण्डवत्संश्लेषः संघातः, शरीरे वायोस्तथा द्येपाभावात्। वह्निव्याप्तेनायःपिण्डेन सन्तापितजले वायुसंयुक्ते भोगप्रसङ्गात्। न चोक्तदोषपरि- हारायैकस्यैव भूतस्य भोक्तृत्वनियतिः शङ्कनीया सर्व्वसन्निधानात् कस्य भोक्तृत्वमित्यनिर्द्धारणात्। यत् तु लोकायतैकदेशिनां मतद्वयम् इन्द्रियाणां भोक्तृत्वम्। शरीरेन्द्रियसङ्घातस्य च भृओक्तृत्वमिति। तदुक्तन्यायेन निराकरणीयम्। ननु कानि पुनरिन्द्रियाणि येषां भोक्तृत्वं निराक्रियते। तत्र गोलकमात्राणीति सुगताः। तच्छक्तय इति मीमांसकाः। तद्व्यतिरिक्तानि द्रव्यान्तराणीत्यन्ये सर्वे वादिनः। तत्र न तावत् गोलकमात्रत्व युक्तं कर्णशष्कुल्यादिविरहिणामपि सर्पादीनां शब्दाद्यपलब्धिसद्भावात् वृक्षाणां सर्वगोलकरहितानां विषयोपलम्भसत्त्वाच्च “तस्मात्पश्यन्ति पादपा” इत्यादि शास्त्रात्। न च वृक्षाणामचेतनत्वं हिंसाप्रतिषेधेन प्राणित्वावगमात् एवं गोलकशक्तित्वमिन्द्रियाणाम् न। अथ मन्यसे शक्तिमदु द्रव्यान्तरकल्पनात् प्रतिपन्नस्थानेषु शक्तिनात्रकल्पने लाघवमिति। तर्ह्यत्यन्तलाघवादात्मन एव क्रमकारिसर्वविज्ञानसामर्थ्यं कल्प्यतां किमेभिरिन्द्रियैः। न च सर्वगतस्यात्मनो गोलकप्रदेशेष्वेव ज्ञानपरिणामोऽनुपपन्नः, त्वया तस्यैष शरीरप्रदेशमात्रे ज्ञानपरिणामाङ्गीकारात्। एवं चानिन्द्रियेष्वपि गोलकप्रदेशेषु ज्ञानान्वयव्यतिरेकौ शरीरएवान्यथासिद्धौ। अतो मीमांसकमतमनुपपन्नम्। सन्तु तर्हि द्रव्यान्तराणीन्द्रियाणि तानि गोलके विशेषसंबन्धाच्चक्षुरादिशब्दवाच्यानीति। तदप्ययुक्तम्। तेषु प्रमाणाभावात्। विमताः रूपाद्युपलब्धयः करण पूर्विकाः कर्त्तृव्यापारत्वाच्छिदिक्रियावदिति चेत् करण प्रेरणालक्षणे कर्त्तृव्यापारे करणान्तराभावात् अन्यथाऽन वस्थानात्। “एतस्माज्जायते प्राणोमनः सर्वेन्द्रियाणि” चेत्यागमगम्यानीन्द्रियाणीति चेन् न आगमसंस्कारविरहिणामपीन्द्रियप्रतिपत्तेः। न च मनोवत्साक्षिवेद्यानीन्द्रियाणि, रूपादिज्ञानाख्यं लिङ्गमनपेक्ष्य साक्षिमात्रेणचक्षुरादीनां प्रतिपत्तेरभावात्। तस्मान्न सन्त्येवेन्द्रियाणीति। अत्रोच्यते। गोलकव्यतिरिक्तानीन्द्रियाणि आगभादेवावगम्यन्ते। न हि तत्स स्काररहितास्तानि जानन्ति किन्तु गोलकान्येव। यत्तु तेषामिन्द्रियाणामहङ्कारकार्य्यत्वं साङ्घ्यैरुच्यते। तत्र किमध्यात्माहङ्कारः कारणं किं वा कृत्स्नकार्य्यव्यापिनी काचिदहङ्काराख्या प्रकृतिः उभयत्रापि नास्ति किमपि मानम्। अथ द्वितीयपक्षे नानापुराण पचनानि मानन्तन्न श्रुतिविरोघात्। “अन्नमयं हि सौम्यमन आपोमयः प्राणस्तेजोमयी वागित्यादि” श्रुतौ भूतविकारत्वावगमात्। अतः पुराणवचनानीन्द्रियाणामहङ्काराधीनतामात्रं प्रतिपादयन्ति। यच्च शुष्कतार्किकैः भौतिकत्वमिन्द्रियाणामुक्तम्। तदप्ययुक्तम्। तैर्म्मानस्य वक्तुमशक्यत्वात्। इन्द्रियाणि भौतिकानि सावयवत्वात् घटादिवत् सावयवत्वं च मध्यमपरिमाणत्वादितिचेत् न, इन्द्रियाणामणुपरिमाणत्वेऽपि बाधाभावात् हेत्वसिद्धेः विषयावभासस्याप्यणुत्वप्रसङ्गोबाध इति चेत् न त्वन्मतेऽणुपरिमाणेनापि मनसा विस्तृतात्मादिवस्तुदर्शनसद्भावात्। चक्षुः रूपगुणवत्प्रकृतिकं रूपादिषु पञ्चसु मध्ये रूपस्यैवाभिव्यञ्चकत्वात् यस्य यन्नियमेनावभासकं तत्तद्गुणवत्प्रकृतिकं यथा रूपाभिव्यञ्जकरूपवत्प्रकृतिकोदीपः एवमन्यत्राप्यूहनीयमिति चेत् न शब्दस्यैवाभिव्यञ्जके श्रोत्रे शब्दगुणवदाकाशानारब्धेऽनैकान्तिकत्वात् कर्णशष्कुल्यवच्छिन्नाकाशमात्रस्य त्वया श्रोत्रत्वाभ्युपगमात् विशेषव्याप्तौ नानैकान्तिकत्वमिति चेत्। एवमप्यतिप्रसङ्गोदुर्वारः। रूपादिचतुष्टयाभिव्यञ्जकस्य मनसोभूतचतुष्टयारभ्यत्वस्य सुसाध्यत्वात्। अभूतस्याप्यात्मादेर्ग्राहकतया मनोन भतारभ्यमिति चेत् तर्हि संख्यापरिमाणादेरपि ग्राहकतया चक्षुरादीनां भूतारभ्यत्वं न स्यात् असाधारणविषयारभ्यत्वाङ्गीकारे सति भौतिकत्वसिद्धिरिति चेत् तर्हि मनोऽप्यसावारणविषयेणारभ्येत एकद्रव्यस्यात्मनः सावयवद्रव्यानारम्भकत्वे निरवयवं मनोद्रव्यं प्रत्यारम्भकत्वं किन्न स्यात्। तस्मान्न शुष्कतर्क्कादिन्द्रियाणां भौतिकत्वसिद्धिः किन्तु आगमादेव। तानि पुनरिन्द्रियाणि सर्वगतानीति योगाः प्रतिपेदिरे तदपि मानहीनम्। आत्मेन्द्रियमनांसि सर्वगतानिं सर्वत्रदृष्टकार्य्यत्वात् आकाशतत्त्ववत् दृश्यते हि ज्ञानं तत्कार्य्यं च सर्वत्रेति चेत् न सर्वत्रेत्यनेन कृत्स्नजगद्विक्षायामसिद्धिप्रसङ्गात्। यत्र शरीरं तत्र सर्वत्रेति विवक्षायां शरीर एवानैकान्तिकत्वात्। दृश्यते हि यत्र सर्वत्र शरीरं तत्र शरीरकार्य्यं न च शरीरस्य सर्वगतत्वमस्ति। अथेन्द्रियाणि सवगतानि परीपाधिकगमनत्वात् आकाशवत्। यथाऽऽकाशस्य गमनं घटाद्युपाधिकं तथेन्द्रियाणां गमनं शरीरोपाधिकमिति चेत् न शरीरावयवेघ्वनैकान्तिकत्वात्। प्राणोपाधिकं हि तेषां गमनम्। किं च इन्द्रियाणां सर्वगतत्वेयुगपत्सर्वविषयोपलब्धिः स्यात्। शरीर एव वृत्तिलाभान्न दोष इति चेत् तर्हि बहिरिन्द्रिय सद्भावकल्पना न प्रमाणंप्रयोजनवती च। तस्मादसर्वगतानीन्द्रियाणि। यत्तु तान्यप्राप्यकारीणीति सुगताः कल्पयन्ति तदप्ययुक्तम्। तत्र किं चक्षुःश्रोत्रयोरप्राप्यकारित्वम् उत तदिरेषामपि न तावदितरेषां दूरत एव स्पर्शरसगन्धोपब्धिप्रसङ्गात् नापि प्रथमः विमते चक्षुःश्रोत्रेप्राप्यकारिणी बाह्येन्द्रियत्वात् घ्राणादिवत्। तेजसश्चातिदूरशीघ्रगमनदर्शनात् उन्मीलन मात्रेण चक्षुषो ध्रुवादिप्राप्तिरविरुद्धा शब्दस्य च वीचिसन्तानवत् परम्परया श्रोत्रसमवायप्राप्तिरिति” यत्तार्किकैरुच्यते। तदसत् तथा सति इह श्रोत्रेशब्द इति प्रतीयेत प्रतीयते तु तत्रशब्द इति। तस्माद्यथानुभवं श्रोत्रस्यैव तत्र गमनं कल्यनीयम्। तदेवं भौतिकानि परिच्छिन्नानि प्राप्यकारीणीन्द्रियाणि सन्तीति सिद्धम्। किं तर्हि मनोनाम यस्मिन्नात्मत्वमपरे लौकायतिकैकदेशिनोमन्यन्ते। नित्यं निरवयवमणुपरिमाणं मन इति तार्किकाः। तत्र न तावन्नित्यं परिच्छिन्नत्वात् थटवत्। विमतं नित्यं निरवयवद्रव्यत्वात् आत्मवदिति चेत् न हेत्वसिद्धेः। विमतं सावयवङ्करणत्वाच्चक्षुरादिवत्। अन्यथा मनसोऽन्नमयत्वं श्रुत्युक्तं बाध्येत। कथं तर्हि मूर्त्तद्रव्यानभिघात इति चेत् जीवनदशायां देहाद्बहिर्निर्गमनाभावादिति ब्रूमः। मरणदशयां तु सावयवत्वेनाभिमतानां चक्षुरादीनामप्यप्रतिघातोविद्यत एव। अतएव सावयवत्वात् संयोगवत्त्वाच्च घटादिवन्नाणुपरिमाणत्वम् सर्वगतत्वेच युगपत् सर्वेन्द्रियसंयोगात् सर्वज्ञानप्रसङ्गः। मध्यमपरिमाणत्वे तु न कोऽपि दोषः। स्थूलसूक्ष्मेषु हस्तिपुत्रिकादिदेहेषु क्रमेण प्राप्यमाणेषु कथं तद्देह समानत्वेन वृत्तिरिति चेत् अवयवोपचयापचयाभ्यामिति ब्रूमः। शाक्यास्तु समनन्तरप्रत्ययएवोत्तरज्ञानकारणतया मन इति प्रतिपेदिरे तन्न सङ्गतं व्याप्तिमनपेक्ष्य केवलस्य पूर्वज्ञानस्योत्तरज्ञानजनकत्वायोगात् लिङ्गज्ञानस्य व्याप्तिसापेक्षस्यैव लिङ्गिज्ञानजनकत्वदर्शनात्। शब्दज्ञानं व्याप्तिज्ञानमनपेक्ष्यैवार्थज्ञानजनकमिति चेत् न त्वन्मते शब्दस्यानुमानान्तः पातितयात्रापि व्याप्त्यपेक्षत्वात्। विशेषणज्ञानं व्याप्त्यनपेक्षमेव विशिष्टज्ञानजनकमिति चेत् न विशिष्टज्ञानस्य संप्रयोगजन्यत्वात्। अथ समनन्तरातीतप्रत्ययः उत्तरज्ञानं न जनयति किं तु तस्याकारमात्रं समर्पयतीति चेत् न आकाराकारिणोरभेदात्। आकारस्य स्वाभाविकतयाऽनन्यापेक्षितयाऽन्यापेक्षाभावात्। तस्मादन्यदेव सावयवं मन इति सिद्धम्। ननु कश्चायं वास्तव आत्मा योदेहादिषु विज्ञानान्तेषु भ्रान्तैर्वादिभिरारोप्यते। तत्र सर्वगतोऽयं जीव आत्मेति केचित् तदसत्। शुष्कतार्किकाणां साधकाभावात्। अथ मतं देहाद्बहि- रन्तः सर्वाणि भोगसाधनान्यात्मभोगायैव व्याप्रियन्ते तद्व्यापारश्चादृष्टवदात्मसंयोगापेक्षः। अतोऽसौ सर्वगत इति। तत्र किं यस्मिन्नात्मप्रदेशेऽदृष्टं तत्प्रदेशसंयोगोऽपेक्ष्यते उता दृष्टोपलक्षितात्मसंयोगः। नाद्यः। देहावच्छिन्नात्मसमवेतादृष्टस्य स्वर्गभोगाहेतुत्वात्। न द्वितीयः मोक्षेऽपि भोगप्रसङ्गात्। तस्मादागमादेव सर्वगतत्वसिद्धिः। नचायमात्मा जडः प्रत्यक्षानुमानागमैः स्वप्रकाशत्वावगमात्। तच्च प्रत्यक्षं सौषुप्तमवगन्तव्यम्। अनुमानान्यपि आत्मास्वप्रकाशः स्वसत्तायां प्रकाशव्यतिरेकरहितत्वात् प्रदीववत् स वेदनवच्च तथा विषयप्रकाशकर्त्तृत्वात् प्रदीवपवत्, विषयप्रकाशाश्रयत्वादालोकवत्। अनिन्द्रियगोचरत्वे सति अपरोक्षत्वात् संवेदनवत्। अयमात्मा सति धर्मिणि अजन्यप्रकाशगुणः प्रकाशगुणत्वादादित्यवत्। आगमश्चात्र “अयं पुरुषः स्वयंज्योतिरित्यादिः। सचायमात्मा सर्वशरीरेष्वेक एव सर्वत्राहमित्येकाकारप्रत्ययवेदनीयत्वात् गोत्ववत्। शरीराणां भिन्नत्वादेवातीतशरीरादाविव न भोगानुसन्धानप्रसङ्गः। ननु तर्ह्यस्यापि मनुष्यशरीरस्य प्रतिक्षणं परिणामभेदे सत्यत्रापि आत्मनोभोगाननुसन्धानं प्रसज्येतेति चेत् न तदेवेदं शरीरमिति प्रत्यभिज्ञया तदेकत्वावगमात्। न च ज्वालाप्रत्यभिज्ञावद्भ्रान्तत्वम् तत्र सूक्ष्मदर्शनेन प्रत्यक्षत एव ज्वालानां भेददर्शनात् अत्र तदभावात्। तदेवमेकः स्वप्रकाश आत्मेति सिद्धम्। तमेतमात्मतत्त्वमवैदिका देहादिबुद्ध्यन्तपदार्थरूपत्वेन प्रतिपन्नाः मीमांसकादयस्तु तस्य देहादिव्यतिरेकं प्रतिपद्यापि कर्त्तारम्भोक्तारमिच्छन्ति। तदेतत् सांरव्या न सहन्ते। न तावदात्मनः कर्त्तृत्वं स्वाभाविकम् सर्वगतस्य निरवयवस्यात्मनः परिष्पन्दपरिणामलक्षणक्रियावेशायोगात्। स्वाभाविकत्वे चैतन्यवत् क्रियावेशो न कदाचिदपि व्यभिचरेत्। नापि कर्त्तृत्वमागन्तुकं निरवयवे कर्त्तृत्वहेतूपरागायोगात्। नापि बुद्धेः कर्त्तृत्वमात्मन्यारोपयितुं शक्यं अख्यातिवादे भ्रान्त्यभावात्। तस्मान्नास्ति कर्त्तृत्वम्। न चैवं भोक्तृत्वमपाकर्त्तुं शक्यम्। न हि सुखदुःखान्वयोभोगः येन कर्त्तृत्ववत् व्यभिचरेत्। किन्तु चिद्रूपत्वेन दृश्यसाक्षित्वम्। तस्माद्भोक्तैवात्मेति सांख्यानां पक्षः। वैशेषिकयोगनैयायिकाः उक्ताद्भोक्तुर्जीवादतिरिक्तः सर्वज्ञः सर्वशक्तिः ईश्वरः कश्चिदस्तीत्यनुमिमते। विमतं जगत् स्वरूपोपादानाद्य भिज्ञकर्त्तृकं विविधकार्य्यत्वात् प्रासादादिवत् तत्र कल्पनालाघवेनैककर्त्तृत्वोपादानात् प्रर्वज्ञत्वादिसिद्धिरिति वैशेषिकाः। विमताः ज्ञानैश्चर्य्य शक्तयः क्वचित् पराङ्काष्ठा प्राप्ताः सातिशयत्वात् परिमाणवदिति योगाः। विमतं धर्म्माधर्म्मफलं कर्म तत्फलभोक्त्राद्यभिज्ञेन दीयते व्यवहितकर्म्मफलत्वात् सेवाफलवदिति नैयायिकाः। नन्वीश्वर पक्षोपन्यासो न युक्तः यतोऽत्र जिज्ञास्ये प्रत्यगात्मरूपे ब्रह्मणि विप्रतिपत्तिर्दर्शयितुं प्रक्रान्ता, नैषदोषः प्रत्यगात्मा तस्मादीश्वरादन्योऽनन्योवेति प्रत्यगात्मविप्रतिपत्तावेव पर्य्यवसानात्” इत्यन्तेन। प्रपञ्चस्तु चार्व्वाकादिशब्दे वक्ष्यते। भाषापरिच्छेदे मुक्तावल्याञ्चात्मनिरूपणायेत्थमभ्यधायि “आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्त्तृकम्। शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः। तथात्वञ्चेदिन्द्रियाणामुपघाते कथं स्मृतिः। मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत्। धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः। प्रवृत्त्याद्यनुमेयोऽयं रथगत्येव सारथिः। अहङ्कारस्याश्रयोऽयं मनोमात्रस्य गोचरः। विभुर्बुद्द्यादिगुणवान्” भाषा०। “आत्मानं निरूपयति आत्मेन्द्रियेति आत्मत्वजातिस्तु सुखदुःखादिसमवायिकारणतावच्छेदकतया सिध्यति ईश्वरेऽपि सा जातिरस्त्येव अदृष्टादिरूपकारणाभावाच्च न सुखदुःखाद्युत्पत्तिः नित्यस्य स्वरूपयोग्यश्य फलावश्यम्भाव इति नियमस्याप्रयोजकत्वात्। परे तु ईश्वरे सा जातिर्नास्त्येव प्रमाणाभावात् न च दशमद्रव्यत्वापत्तिः ज्ञानवत्त्वेन विभजनादिति वदन्ति। इन्द्रियादीति। इन्द्रियाणां शरीरस्य च परम्परया चैतन्यसम्पादकः। यद्यप्यात्मनि “अहं जाने अहं सुखीत्यादि” प्रत्यक्षविषयत्वमस्त्र्येव तथापि विप्रतिपन्न प्रति प्रथमत एव शरीरादिभिन्नस्तत्प्रतीतिगोचर इति प्रतिपादयितुं न शक्यत इत्यतः प्रमाणं दर्शयति करणमिति। कुठारादीनां छिदादिकरणानां कर्त्तारमन्तरेण फलानुपधानं दृष्टम् एवं चक्षुरादीनां क्षानकरणानां फली पधानमपि कर्त्तारमन्तरेण नोपपद्यत इत्यतिरिक्तः कर्त्ता कल्प्यते। ननु शरीरस्यैव कर्त्तृत्वमस्तु अत आह शरींरस्येति ननु चैतन्यं ज्ञानादिकमेव मुक्तात्मनां तन्मत इव मृतशरीराणामपि तदभावे का क्षतिः प्राणाभावेन ज्ञानाभावस्य सिद्धेरिति चेन्न शरीरस्य चैतन्ये बाल्ये विलोकितस्य स्थाविरे स्मरणानुप्रपत्तेः शरीराणामवयवोपचयापचयैरुत्पादविनाशशालित्वात् न च पूर्व्वशरीरोत्पन्नसंस्कारेण द्वितीयशरीरे संस्कार उपपद्यत् इति वाच्यम् अनन्तसंस्कारकल्पने गौरवात् एवं शरीरस्य चैतन्ये बालकस्य स्तनपानादौ प्रवृत्तिर्न स्यात् इष्टसाधनताज्ञानस्य तद्धेतुत्वात्तदानीमिष्टसाधनतास्मारकाभावात् मन्मते जन्मान्तरानुभूतेष्टसाधनत्वस्य तदानीं स्मरणादेव प्रवृत्तिः न च जन्मान्तरानुभूतमन्यदपि स्मर्य तामिति वाच्यम् उद्बोधकाभावात् अत्र त्वनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यते इत्थञ्च संस्कारस्यानादितया आत्मनोऽपि अनादित्वसिद्धौ अनादिभावस्य नाशासम्भवात् नित्यत्वं सिध्यतीति बोध्यम्। ननु चक्षुरादींनां ज्ञानादौ करणत्व कर्त्तृत्वं चास्तु विरोधे साधकाभावादत आह तथात्वमिति चैतन्यमित्यर्थः उपघाते नाशे सति अर्थाच्चक्षुरादीनामेव, कथमिति? पूर्ब्बं चक्षुषा साक्षात्कृतानाञ्चक्षुषोऽभावे स्मरणं न स्यात् अनुभवितुरभावात् अन्यदृष्टस्य अन्येन स्मरणासम्भवात् अनुभवस्मरणयोः सामानाधिकरण्येन कार्यकारणभावादिति भावः। ननु चक्षुरादीनां चैतन्यं मास्तु मनसस्तु नित्यस्य चैतन्यं स्यात् अत आह मनोऽपीति न तथा न चेतनम्। ज्ञानादीति। मनसोऽणुत्वात् प्रत्यक्षे च महत्त्वस्य हेतुत्वान्मनसो ज्ञानसुखादिमत्त्वे तत्प्रत्यक्षानुपपत्तेरित्यर्थः यथा मनसोऽणुत्वं तथा वक्ष्यते। नन्वस्तु विज्ञानमेव आत्मा तस्य स्वतः प्रकाशरूपत्वात् चेतनत्वं ज्ञानमुखादिकन्तु तस्यैवाकारविशेषः तस्यापि भावत्वादेव क्षणिकत्वं पूर्व्वविज्ञानस्योत्तरोत्तरविज्ञाने हेतुत्वात् सुषुप्तावालयविज्ञानधारा निराबाधैव मृगमदवासनाया वसनैव पूर्ब्बपूर्ब्बविज्ञानजनितसंस्काराणामुत्तरोत्तरविज्ञाने संक्रान्तत्वान्नानुपपत्तिः स्मरणादेरिति चेन्न तस्य जगद्बिषयत्वे सार्व्वज्ञ्यापत्तेः यत्किञ्जिद्विषयत्वे विविगमनाभावात् सुषुप्तावपि विषयावभासप्रसङ्गः। तदानीं निराकारा चित्सन्ततिरनुवर्त्तत इति चेन्न तस्य खप्रकाशत्वे प्रमाणाभावात् अन्यथा घटादीनामपि ज्ञानत्वापत्तिः न चेष्टापत्तिः विज्ञानव्यतिरिक्तवस्तुनोऽभावादिति वाच्यं षटादेरनुभूयमानस्यापलपितुमशक्यत्वात्। आकारविशेष एवायं विज्ञानस्येति चेत् किमयमाकारोऽतिरिच्यते विज्ञानासर्हि समायातं विज्ञानव्यतिरिक्तेन। नातिरिच्यते चेत्तर्हि समूहावलम्बने नीलाकारोऽपि पीताकारः स्यात् स्वरूपतोविज्ञानस्याविशेषात्, अपोहरूपो नीलत्वादिर्विज्ञानधर्म्म इति चेन्न नीलत्वादीनां विरुद्धानामेकस्मिन्नसमावेशात् इतरथा विरोधस्यैव दुरुपपन्नत्वात्। न च वासनासंक्रमः सम्भवति मातृपुत्रयारपि वासनासंक्रमप्रसङ्गात् न च उपादानोपादेयभावो नियामक इति वाच्यं वासनायाः संक्रमासंमवात्। उत्तरस्मिन्नुत्पत्तिरेव संक्रम इति चेन्न तदुत्पादकाभावात्। उत्तरविज्ञानस्यैव उत्पादकत्वे तदानन्त्यप्रसङ्गः। क्षणिकविज्ञानेऽतिशयविशेषः कल्प्यत इति चेन्न मानाभावात् कल्पनागौरवाच्च। एतेन क्षणिकशरीरेष्वेव चैतन्यमपि प्रत्युक्तं गौरवादतिशये मानाभावाच्च वीजादावपि सहकारिसमवधानादेवोपपत्तेः कुर्व्वद्रूपत्वाकल्पनाच्च अस्तु तर्हि क्षणिकविज्ञाने गौरवान्नित्यविज्ञानमेवात्मा “अविनाशी वा अरे अयमात्मा सत्यं ज्ञानमनन्तं ब्रह्म” इत्यादि श्रुतेरिति चेन्न तस्य विषयत्वासम्भवस्य दर्शितत्वात् निर्व्विषयस्य ज्ञानत्वे मानाभावात् सविषयत्वस्याप्यनुभवात्। अतो ज्ञानभिन्नो नित्य आत्मेति सिद्धम्। सत्यं ज्ञानमिति ब्रह्मपरं जीवेषु नोपयुज्यते ज्ञानाज्ञानसुखित्वदुःखित्वादिभिर्जीवानां भेदसिद्धौ सुतरामीश्वरभेदः, अन्यथा बन्धमोक्षानुपपर्त्तेः, योऽपीश्वराभेदबोधकोवेदः सोऽपि तदभेदेन तदीयत्वं प्रतिपादयन् स्तौति अभेदभावने च यतितव्यमिति वदति। अतएव “सर्व्व एव आत्मनि समर्पिता” इति श्रूयते मोक्षदशायामज्ञाननिवृत्तावभेदो जायते इत्यपि न, भेदस्य नित्यत्वे नाशायोगात् भेदनाशेऽपि व्यक्तिद्वयं स्थास्यत्येव। न च द्वित्वमपि नश्यतीति वाच्यं तत्र निर्द्धर्मके ब्रह्मणि सत्यत्वाभावेऽपि सत्यस्वरूपं तदितिवत् द्वित्वाभावेऽपि द्वयात्मकौ ताविति सुवचत्वात् मिथ्यात्वाभावीऽधिकरणात्मकस्तत्र सत्यत्वमिरि चेत् एकत्वासावो व्यक्तिद्वयात्मको द्वित्वमप्युच्यतां प्रत्येकमेकत्वेऽपि पृथिवीजलयोर्न गन्ध इतिवदुभयं नैकमित्यस्य सर्वजनसिद्धत्वात्। योऽपि तदानीमभेदप्रतिपादक आगमः सोऽपि निर्दुःखत्वादिना साम्यं प्रतिपादयति संपदाधिक्ये पुरोहितोऽयं राजा संवृत्त इति वत्। अतएव “निरञ्जनः परमं साम्यमुपैति दिव्यमिति” श्रूयते ईश्वरो न ज्ञानसुखात्मा किन्तु ज्ञानाद्याश्रयः नित्यं विज्ञानमानन्दं ब्रह्म” इत्यादौ विज्ञानपदेन ज्ञानाश्रय एवोक्तः, “यः सर्वज्ञः” इत्यनुरोधात् आनन्दम् इत्यस्यापि आनन्दवदित्यर्थः अर्श आदित्वान्मत्वर्थीयाच्प्रत्ययात्, अन्यथा पुंलिङ्गत्वापत्तेः आनन्दोऽपि दुःखाभावे उपचर्य्यते भाराद्यपगमे सुखी संवृत्तोऽहमितिवत् दुःखाभावेन सुखित्वप्रत्ययात्। अस्तु वा तस्मिन्नानन्दो न त्वसौ, आनन्दम् इत्यत्र मत्यर्थीयप्रत्ययविरोधात्। “आनन्दं ब्रह्मणो विद्यान्न बिभेति कदाचन” इत्यत्र भेदस्य स्पष्टत्वाच्चेति संक्षेपः। एतेन प्रकृतिः कर्त्री पुरुषः पुष्करपलाशवन्निर्लेपः किन्तु चेतनः कार्य्यकारणयोरभेदात् कार्य्यनाशे कार्य्यरूपतया नाशः स्यादित्यकारणत्वं तस्य, वुद्धिगतचैतन्याभिमानान्यथानुपपत्त्या तत्कल्पनम्। वुद्धिश्च प्रकृतेः प्रथमः परिणामः। सैव महत्तत्त्वमन्तःकरणमप्युच्यते। तत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसारापवर्गौ। तस्या एवेन्द्रियप्रणालिकया परिणतिर्ज्ञानरू पा घटादिना सम्बन्धः। पुरुषे कर्तृ त्वाभिमानो बुद्धौ चैतन्याभिमानश्च भेदाग्रहात् ममेदं कर्त्तव्यमिति मदंशः पुरुषोपरागो बुद्धेः स्वच्छतया चेतनप्रतिविम्बादतात्त्विको दर्पणस्येव मुखोपरागः। इदमिति विषयोपरागः इन्द्रियप्रणालिकया परिणतिभेदस्तात्त्विको निश्वासाभिहतदर्पणस्येव मलिनिमा। कर्त्त व्यमिति व्यापारावेशः। तेनांशत्रयवती बुद्धिस्तत्परिणामेन ज्ञानेन पुरुषस्यातात्त्विकः सम्बन्धो दर्पणमलिनिम्नेव मुखस्योपलब्धिरुच्यते। ज्ञानादिवत् सुखदुःखेच्छाद्वेषप्रयत्नधर्म्माधर्म्मा अपि बुद्धेरेव। कृतिसामानाधिकरण्येन प्रतीतेः। न च बुद्धिश्चेतना परिणामित्वादिति सांख्यमतमपास्तम्। कृत्यदृष्टभोगानामिव चैतन्यस्यापि सामानाधिकरण्यप्रतीतेस्तद्भिन्ने मानाभावाच्चेतनोऽहं करोमीति प्रतीतेः। बुद्धेः परिणामित्वाच्चैतन्यांशे भ्रम इति चेत् कृत्यशे किं नेष्यते। अन्यथा बुद्धेर्नित्यत्वे मोक्षाभावोऽनित्यत्वे तत्पूर्ब्बमसंसारापत्तिः। अचेतनायाः प्रकृतेः कार्य्यत्वात् बुद्धेरचैतन्यं कार्य्यकारणयोस्तादात्म्यादिति चेन्न असिद्धेः कर्त्तुर्जन्यत्वे मानाभावात्। “वीतरागजन्मादर्शनात्” अनादित्वम्। अनादेर्नाशासम्भवान्नित्यत्वम्। तत् किं प्रकृत्यादिकल्पनेन। न च “प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्वशः। अहङ्कारविमूढात्मा कर्त्ताहमिति मन्यते” इत्यनेन विरोध इति वाच्यम् प्रकृतेरदृष्टस्य गुणैरदृष्टजन्यैर्गुणैः इच्छादिभिः कर्त्ताहं कर्त्ताहमेव इत्यस्य तदर्थत्वात् “तत्रैवं सति कर्त्तारमात्मानं केवलं तु यः” इत्यादि वदता भगवता प्रकटीकृतोऽयमुपरिष्टादाशय इति संक्षेपः। धर्म्माधर्म्माश्रयः इति। आत्मेत्यनुषज्यते। शरीरस्य तदाश्रयत्वे देहान्तरकृतकर्म्मणां देहान्तरेण भोगानुपपत्तिः। विशेषगुणयोगत इति। योग्यविशेषगुणसम्बन्धेनात्मनः प्रत्यक्षं भवति न त्वन्यथा अहं जाने अहङ्करोमि इत्यादि प्रतीतेः। प्रवृत्तीति। अयमात्मा परदेहादौ प्रवृत्त्यादिनाऽनुसीयते। प्रघृत्तिरत्र चेष्टा ज्ञानेच्छाप्रयत्नादीनां देहे अभावस्योक्तप्रायत्वात् चेष्टायाश्च यत्नसाध्यत्वात् चेष्टया प्रयत्नवानात्माप्यनुमीयत इति मावः। तत्र दृष्टान्तमाह। रथेति यद्यपि रथकर्म्म चेष्टा न भवति तथापि तेन कर्म्मणा सारथिर्यथाऽनुमीयते तथा चेष्टात्मकेन कर्म्मणा परात्मापीति भावः। अहङ्कारस्येति। अहङ्कारोऽहमिति प्रत्ययः तस्याश्रयो विषयः आत्मा न शरीरादिरिति। मन इति मनोभिन्नेन्द्रियजन्यप्रत्यक्षाविषयो मानसप्रत्यक्षविषयश्चेत्यर्थः। रूपाद्यभावेनेन्द्रियान्तरायोग्यत्वात्। विभुरिति। विभुत्वं परममहत्त्वं तच्च पूर्ब्बोक्तमपि स्पष्टार्थमुक्तम्। बुद्ध्यादीति बुद्धिसुखदुःखेच्छादयश्चतुर्दश गुणाः पूर्ब्बोक्ता वेदितव्याः”। ते च “बुद्ध्यादिषट्कं संख्यादिपञ्चकं भावना तथा। घर्म्माधर्म्मौ गुणा एते आत्मनः स्युश्चतुर्द्दश” इत्युक्ताः बुद्धिः सुखं दुःखमिच्छाद्वेषः यत्नःसंख्या परिमाणं पृथक्त्वं संयोगः विभागः भावनाख्यसंस्कारः धर्मः अधर्म्मश्चेति। एते च गुणा मनस एवेति सांख्यादयः। “कामः संकल्पोचिविकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिह्रीर्धीर्भीरित्येतत् सर्वं मनएवेति” श्रुतेः कामादीनां मनोधर्मत्वावगमात् तथा ६४३ पृष्ठे आज्ञानशब्दोदिता अपि। मिता० “किं पुनर्वैषयिकज्ञानेन्द्रियव्यतिरिक्तात्मसद्भावे प्रमाणमित्याशङ्क्याह। “महाभूतानि सत्यानि यथात्मापि तथैव हि। कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति। वाचं वा कोविजानाति पुनः संश्रुत्य संश्रुताम्” या० स्मृ०। “यथा हि पृथिव्यादिमहाभूतानि सत्यानि प्रमाणप्राप्तत्वात्तथात्मापि सत्यः, अन्यथा यदि बुद्धीन्द्रियव्यक्तिरिक्तोज्ञाता ध्रुवो न, तर्ह्येकेन चक्षुरिन्द्रियेण दृष्टं वस्त्वन्येन स्पर्शनेन्द्रियेण को विजानाति। यमहमद्राक्षन्तमहं स्पृशामीति। तथा कस्यचित्पुरुषस्य वाचं पूर्वं श्रुत्वा पुनः श्रूयमाणां वाचन्तस्य वागियमिति कः प्रत्यभिजानाति तस्मात् ज्ञानेन्द्रियाद्यतिरिक्तो ज्ञाता ध्रुव इति सिद्धम् किञ्च! “अतीतार्था स्मृतिः कस्य कोवा स्वप्नस्य कारकः। जातिरूपवयोवृत्तविद्यादिभिरहंकृतः। शब्दादिविषयोद्योगङ्कर्म्मणा मनसा गिरा” या०। “यद्यात्मा ध्रवो न स्यात्तर्ह्यनु भूतार्थगोचरा स्मृतिः पूर्वानुभवभावितसंस्कारोद्बोधनिबन्धना कस्य भवेत्, नह्यन्येन दृष्टे वस्तुन्यन्यस्य स्मृतिरुपपद्यते। तथा कः स्वप्नज्ञानस्य कारकः। नहीन्द्रियाणाम् उपरतव्यापाराणान्तत्कारकत्वम्। तथाहमेवाभिजनत्वादि सम्पन्न इत्येवंविधानुसन्धानप्रत्ययः कस्य भवति स्थिरात्मव्यतिरिक्तस्य” तथा शब्दस्पर्शादिविषयोपभोगसिद्ध्यर्थमुद्योगं मनोवाक्कायैः कःकुर्यात्तस्मादपि बुद्धीन्द्रियव्यतिरिक्त आत्मा- स्थिरः” इत्यन्तेन आत्मविवेक्ते च उदयनाचार्यैः अहमिति प्रत्यक्षविषयत्वमादौ आत्मनोव्यवस्थाप्य देहाद्यतिरिक्तविषयत्वं तत्प्रत्ययस्य व्यवस्थापितं यथा। “अथात्मसद्भावे किम्प्रमाणं प्रत्यक्षमेव तावत् अहमिति विः कल्पस्य प्राणभृन्मात्रसिद्धतात्। नचायमवस्तुकः सन्दिग्ध वस्तुकोवा, अशाब्दत्वादप्रतिक्षेपाच्च न च लैङ्गिकः, अननुसंहितलिङ्गस्यापि संप्रत्ययात्। नच स्मृतिरियम्, अननुभूते तदनुपपत्तेः। अनादिवासनावशादनादिरयमवस्तुकोविकल्पैत्यपि न युक्तं, नीलादिविकल्पसाधारण्यात्। इह वासनामुपादायानाश्वासे प्रमाणान्तरेऽपि कः समाश्वासः, यतो नीलादिविकल्पेषु समाश्वासःस्यात्। तस्माद्वास नामात्रवादं विहायागन्तुकमपि किञ्चित् कारणं वाच्यम्। तच्चाप्तानाप्तशब्दौ वा लिङ्गतदाभासौ वा प्रत्यक्षतदाभासौ वेति। तत्र यथा प्रथममध्यमप्रकाराभावान्नीलविकल्प श्चरमं कल्पमालम्बते तथाऽहमिति विकल्पोऽपि, तत्रापि “प्रत्यक्षपृष्ठभावित्वे साक्षादेव सवस्तुकः। तदाभासे तु मूलेऽस्य पारम्पर्व्यात् सवस्तुतेति”। न च बाह्यपत्यक्षनिवृत्तावेव निर्मूलत्वं, बुद्धिविकल्पस्यापि तथात्वप्रसङ्गात्। तत्र स्वसंवेदनं मूलम्, इहापि मानसप्रत्यक्षमिति न कश्चिद्विशेषः। शरीरादिवस्तुको भविष्यतोति चेन्न निरुपाधिशरीरेन्द्रियबुद्धितत् समुदायालम्बनत्वेऽतिप्रसङ्गात्। स्वसम्बन्धिशरीरादावयं स्यादिति वाच्यं तत्र कः स्वीयैति वचनीयम्। अनन्यत्वं स्वत्वं सर्वभावानां, तथा च यदा तेनैव तदनुभूयते तदा प्रत्येतुः प्रत्येतव्यादव्यतिरेकादहमिति स्यात्। अतएव घटादयोन कदाचिदनन्यानुभवितृका इति न कदाप्यहमास्पदमिति चेत् एवन्तर्हि त्वन्मतेऽप्यहंप्रत्ययः शरीरादावारोपरूपएव ततः प्रत्येतुरन्यत्वात्। बुद्धौ मुख्यएवेति चेन्न तस्याः क्रियात्वेनानूभूयमानाया भिन्नस्य कर्त्तुरहंछिनद्मीतिवदहं जानामीत्यनुभवात्। नीलादिप्रत्येतव्याकारवत् प्रतिपत्त्राकारोऽपि प्रतिपत्तेरेवायमात्मा तथा भासत इति चेत् तर्हि प्रत्येतव्यप्रतिपत्त्राकारयोस्तुल्ययोगक्षेमत्वात् सिद्धं नः समीहितम्। अस्तु स्वोपादानमात्रमिति चेन्न तत्प्रतिभासने तदाकारस्यापि प्रतिभासप्रसङ्गात् आकारमन्तरेणाकारिणोऽनवभासात्। प्रवृत्तिसन्तानान्नान्योबुद्धिसन्तानः प्रतिपत्ता, वयं तमालयविज्ञानमाचक्ष्मह इति चेत् अस्तु तर्हि प्रवृत्तिविज्ञानोपादानमनादिनिधनः प्रतिपत्ता। स किं सन्तन्यमानज्ञानरूपः तद्विपरीतोवा इति चिन्तावशिष्यते निःशेषिता चासौ प्रागिति”। स्थानान्तरे च तत्रैव “ननु सिद्धमिदं विशेषणं देहस्यैव चेतनत्वात् मैवं देहत्वभूतत्वमूर्त्तत्वरूपादिमत्त्वादिभ्यः। नच भूतानां समुदायपर्य्यव सितं चैतन्यं, प्रतिदिनं तस्यान्यत्वे पूर्वपूर्वानुभूतस्यास्मरण प्रसङ्गात्। नच प्राक्पर्यवसितं, करचरणाद्यवयवविगमे तदनुभूतस्यास्मरणप्रसङ्गात्। देहस्य चेतनत्वे बालस्य प्रथममप्रवृत्तिप्रसङ्गाच्च इच्छाद्वेषावन्तरेण प्रयत्नानुपपत्तेः इष्टाभ्युपायताप्रतिसन्धानं विना चेच्छानुपपत्तेः। इह जन्मन्यन नुमूतस्य प्रतिबन्धस्यास्मृतौ प्रतिसन्धानायोगात्, जन्मान्तरानुभूते चानुभवितरि भस्मासाद्भूते अन्येन स्मरणायोगात् अनुभवादोनां प्रवृत्त्यन्तानाञ्च कार्य्यकारणभावस्य इहैव जन्मनि निश्चितत्वात्। तथा च तदभावे तदभावस्य सुलभत्वात् अन्यथा स्वतस्त्वप्रसङ्गः। अतएव नेन्द्रियाणि चेतयन्ते दर्शनस्पर्शनाभ्यामेकार्थग्रहणाच्च। नच मनस्तथा, तस्य करणत्वेनैवानुभवादिति प्रतिबन्धसिद्धिः परदेह्यात्मसिद्धिश्च। अनादिश्चासौ वीतरागजन्मादर्शनात्, अनन्तश्च सतोऽनादि त्वात्, द्रव्यञ्च समवायिकारणत्वात्, विभुश्च नित्यद्रव्यत्वे सत्यमूर्त्तत्वात्, अमूर्त्तश्च निष्क्रियत्वात्, निष्क्रियश्च नित्य द्रव्यत्वे सत्यस्मदादिप्रत्यक्षत्वात्, प्रत्यक्षधर्म्माश्रयत्वाच्च। तर्का श्चात्र भवन्ति आदिमत्त्वे प्रथमप्रवृत्त्यनुपपत्तौ सर्वदैवाप्रवृत्तिप्रसङ्गः। सान्तत्वेऽनादेः सत्त्वानुपपत्तिप्रसङ्गः। अद्रव्यत्व निर्गुणत्वप्रसङ्गः अविभुत्वे दहनपवनादेः क्रियानुपपत्तिप्रसङ्गः। नच संयुक्तसंयोगात् तदुत्पत्तिः साक्षात्क्रियाद्वारकस्य तस्याभावात् अतथाभूतस्य तद्धेतुत्वेऽतिप्रङ्गात्। मूर्त्तत्वे नित्र्यस्यास्मदादिप्रत्यक्षधर्म्मानाधारत्वप्रसङ्गः विशेषगुणवतश्चारम्भकत्वप्रसङ्गः, सक्रियत्वे मूर्त्तत्वप्रसङ्ग इति शास्त्रार्थ संग्रहः। अणुरेवासौ विज्ञानाससवायिकारणसंयोगाधारत्वात् मनोवत् “अणीयांसमणोरपीति” बाधविरोधाविति कश्चित् तदयुक्तम् आत्मन्यविभौ मनसोऽणुत्वाद्ध्हेतोः तत्संयोगक्रमादेव क्रियाक्रमोपपत्तेः आगमस्तु “महतोऽपि महीयांसमिति” प्रथमपदमपहाय उपन्यस्तस्तदलमित्यन्तेन”। स्कन्धपञ्चकस्यात्मत्मवादिनां मतं संघातानुत्पत्त्या शा० सू० भा० निराकृतम् यथा “समुदाय उभयहेतुकेऽपि तदप्राप्तिः” सू० “तत्रैते त्रयोवादिनो भवन्ति। केचित् सर्व्वास्तित्व वादिनः केचिद्विज्ञानास्तित्वसात्रवादिनः अन्ये पुनः सर्ब्बशून्यत्ववादिनः इति। तत्र ये सर्ब्बास्तित्ववादिनोबाह्यमान्तरञ्च वस्त्वभ्युपगच्छन्ति भूतं मौतिकं चित्तं चैत्तञ्च तान् तावत् प्रति ब्रूमः। तत्र भूतं पृथिवीधात्वादयः। भौतिकं रूपादयश्चक्षुरादयश्च चतुष्टये च पृथि- व्यादिपरमाणवः खरस्नेहोष्णप्रेरणस्वभावाः ते पृथिव्यादिभावेन संहन्यन्त इति मन्यन्ते तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्च स्कन्धाःतेऽप्यध्यात्मं सर्व्वव्यवहारास्पदभावेन संहन्यन्ते इति मन्यन्ते। तत्रेदमभिधीयते। योऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतोऽणुहेतुकश्च भूतभौतिकसंहतिरूपः पञ्चस्कन्धहेतुकश्च पञ्चस्कन्धरूपः। तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे तदप्राप्तिः स्यात् समुदायाप्राप्तिः समुदायिनामचेतनत्वात् चित्ताभिज्वलनस्य च समुयसिद्ध्यधीनत्वात् अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्व्वा स्थिरस्य संहन्तुरनभ्युपगमात् निरपेक्ष प्रवृत्त्यत्युपगमे च प्रवृत्त्यनुपरमप्रसङ्गात्। आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात् क्षणिकत्वाभ्युपगमाच्चनिर्व्यापारत्वात् तत्प्रवृत्त्यनुपपत्तेः तस्मात् समुदायानुपपत्तिः। समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत। “इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात्” सू०। यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरोनाभ्युपगम्यते तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा तस्याञ्चोपपद्यमानायां न किञ्चिदपरमपेक्षितव्यमस्ति। ते चाविद्यादयः अविद्या संस्कारोविज्ञानम् नाम रूपं षडायतनम् स्पर्शोवेद ना तृष्णीपादानम् भवोजातिर्जरा मरणं शोकः परिवेदना दुःखं दुर्मनस्तेत्येवम् जातीयका इतरेतरहेतुकाः सौगते समये क्वचित् संक्षिप्ता निर्दिष्टाः क्वचित् प्रपञ्चिताः। सर्व्वेषामप्ययमघिद्यादिकलापोऽप्रत्याख्येयः। तदेवमविद्यादिकलापेऽपि परस्परनिमित्त नैमित्तिकभावेन घटीयन्त्रवदनिशमावर्त्तमानेऽर्थाक्षिप्त उपपन्नः संघात इति चेत्तन्न कस्मात्? उत्पत्तिमात्र निमित्तत्वात्। भवेदुपपन्नः संघातो यदि संघातस्य किञ्चिन्निमित्तमवगम्येत न त्ववगम्यते यत इतरेरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्ब्बं पूर्ब्बमुत्तरस्योत्तरस्योत्पपत्तिमात्र निमित्तं भवत् भवेत् न तु संघातोत्पत्तेः किञ्चिन्निमित्तं सम्भवति। नन्वविद्यादिभिरर्थादाक्षिप्यते संघात इत्युक्तम् अत्रोच्यते। यदि तावदयमभिप्रायः अविद्यादयएव संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति ततस्तस्य संघातस्य किञ्चिन्नितित्तं वक्तव्यं तच्च नित्ये ष्वप्यणुष्वभ्युपगम्यमानेष्वाश्रयाश्रयीभूतेषु च भोक्तृषु सत्सु न सम्भवतीत्युक्तं वैशेषिकपरीक्षायां किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तृ रहितेष्वाश्रयाश्रयीभावशूम्येषु चा- भ्युपगम्यमानेषु सम्भवेत्। अथायमभिपायः अविद्यादय एव संघातस्य निमित्तमिति। कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः। अथ मन्यसे संघात एवानादौ संसारे सन्तत्यानुवर्त्तते तदाश्रयाश्चाविद्यादय इति। तदापि संघातात् संघातान्तरमुत्पद्यमानं नियमेन सदृशमेवेत्पद्येत अनियमेन वा सदृशम्, विसदृशं वोत्पपद्येत। नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात्। अनियमाभ्युपगमेऽपि मनुष्यपुद्गलः कदाचित् क्षणेन हस्ती भूत्वा देवोवा पुनर्मनुष्योभवेत् इति प्राप्नुयात्। उभयमभ्युपगमविरुद्धम्। अपि च यद्भोगार्थं संघातः स्यात् स जीवोनास्ति स्थिरोभोक्तेति तवाभ्युपगमः ततश्च भोगो भोगार्थएव सन्नाऽन्येन प्रार्थनीयः तथा मोक्षोमोक्षार्थ एवेति मुमुक्षुणा नान्थेन भवितव्यम्। अन्येन चेत् प्रार्थ्येतोभयं, भोगमोक्ष कालावस्थायिना तेन भवितव्यम्। अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः। तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेत् भवतु नाम न तु संघातः सिध्येत् भोक्त्रभावादित्यभिप्रायः इत्यन्तेन”। एतन्मत मनुसृत्यैव “सर्व्वकार्य्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम्। सौगतानामिवात्मान्यीनास्ति मन्त्रोमहीभृता मिति” माघः। आत्मनो देहपरिमाणत्वमार्हता मन्यन्ते। तदेतन्मतमुत्थाप्य दूषितं शा० सू० भा० यथा। “एवं चात्माकात्र्स्न्यम्” सू०। “यथैकस्मिन् धर्म्मिणि विरुद्धधर्मासम्भवोदोषः स्याद्वादे प्रसक्तः एवमात्मनोऽपि जीवस्याकात् र्स्न्यमपरोदोषः प्रसज्यते। कथं शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्ते। शरीरपरिमाणतायाञ्च सत्यामकृत् स्नोऽसर्व्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत। शरीराणाञ्चानवस्थितपरिमाणत्वान्मनुष्यजीवोमनुष्यशरीरपरिमाणोभूत्वा पुनः केनचित् कर्म्मविपाकेन हस्तिजन्म प्राप्नुवन्न कृत्स्नं हस्तिशरीरं व्याप्नुयात् पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्नः पुत्तिकाशरीरे संमीयते। समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषः। स्यादेतत् अनन्तावयवोजीवस्तस्य तएवावयवा अल्पे शरीरे सङ्कुचेयुर्महति विकसेयुरिति। तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेति वक्तव्यम्। प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने देशे सम्मीयेरन्। अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्व्वेषाम- वयवानां प्रथिमानुपपत्तेजीर्वस्याणुमात्रत्वप्रसङ्गः स्यात्। अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवनामानन्त्यं नोत्प्रेक्षितुमपि शक्यम्। अथ पर्य्यायेण वृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत। तत्राप्युच्यते। “न च पर्य्यायादस्याप्यविरोधोविकारादिभ्यः” सू०। न च पर्य्यायेणाप्यवयवोपगमापगमाभ्यामेव तत्तद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते कुतः? विकारादिदोषप्रसङ्गात्। अवयवोपगमापगमाभ्यां ह्यनिशमापूर्य्यमाणस्योपक्षीय माणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्य्यं विक्रियावत्त्वे चर्म्मादिवदनित्व्यत्वं प्रसज्येत ततश्च बन्धमोक्षाभ्युपगमोबाध्येत कर्म्माष्टकपरिवेष्टितस्य जीवस्यालाबुवत् संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्द्धगामित्वम्भव तीति। किञ्चान्यत् आगच्छतामपगच्छतां चावयबानामागमापायधर्म्मवत्तादेवानात्मत्वं शरीरादिवत्। ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात्। न च स निरूपयितुं शक्यते अयमसाविति। किञ्चान्यत् आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम्। न हि भूतेभ्यः प्रादुर्भवेयुः भूतेषु च निलीयेरन्, अभौतित्वाज्नीवस्य। नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणाभावात्। किञ्चान्यत् अनवघृतस्वरूपश्चैवंसत्यात्मा स्यात् आगच्छतांमपगच्छताञ्चावयवानामनियत परिमाणत्वात्। अतएवमादिदोषप्रसङ्गान्न पर्य्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्येते। अथ वा पूर्ब्बेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचित शरीरान्तरप्रतिपत्तावकात्र्स्न्यदोषप्रसञ्जनद्वारेणानित्यतायाञ्चोदितायाम् पुनः पर्य्यायेण परिमाणानवस्थानेऽपि स्रोतःसन्ताननित्यतान्यायेनात्मनोनित्यता स्यात् यथा रक्तपटादीनाम् विज्ञानानवस्थानेऽपि तत्सन्ताननित्यता तद्वद्विसिचामपीत्याशङ्क्यानेन सूत्रेणोत्तरमुच्यते। सन्तानस्य तावदवस्तुत्वे नैरात्म्यवाद प्रसङ्गः वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति। “अन्यावस्थितेश्चोभयनित्यत्वादविशेषः” सू०। अपि चान्त्यस्य मोक्षावस्थाभाबिनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः तद्वत् पूर्ब्बयोरप्याद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गःस्यात् एकशरीरपरिमाणतैव स्यात् नोपचितापचितशरीरान्तरप्राप्तिः। अथ वाऽन्त्यस्य जीवपरिमाणस्यावस्थितत्वात् पूर्ब्बयोरप्यवस्थयोरप्यवस्थित परिमाणएव जीवःस्यात्। ततश्चाविशेषेण सर्व्वदैवाऽणुर्महान् वा जीवोऽभ्युपगन्तव्यो न शरीरपरिमाणः। अतश्च सौगतवदार्हतमपि मतमसङ्गतमित्युपेक्षितव्यम्”। इत्यन्तेन जीवस्याणुपरिमाणत्वं ये स्वीचक्रुः तन्मतमुपन्यस्य शा० सू० भा० दूषितं यथा। “उत्क्रान्तिगत्यागतीनाम्” सू०। इदानीन्तु किंपरिमाणोजीव इति चिन्त्यते किमणुपरिमाणः उत मध्यमपरिमाण आहोस्वित् महापरिमाण इति। ननु च नात्मोत्पद्यते नित्य चैतन्यरूपश्चायमित्युक्तमतश्च परएवात्मा जीव इत्यापतति, परस्य चात्मनोऽनन्तत्वमाम्नातं तत्र कुतोजीवस्य परिमाणचिन्तावतार इति उच्यते सत्यमेतत् उत्क्रान्तिगत्यागतिश्रवणानि तु जीवस्य परिच्छेदं प्रातयन्ति स्वशब्देन चास्य क्वचिदणुपरिमाणत्वमाम्नायते तस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भः। तत्र प्राप्तं तावदुत्क्रान्तिगत्यागतीनां श्रवणादणुर्जीवैति उत्क्रान्तिस्तावत् “स यदाएतस्माच्छरीरादुत्क्रामति सहैवैतैः सर्व्वैरुत्व्रामतीति” गतिरपि “ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति”। आगतिरपि “तस्माल्लोकात् पुनरैत्यस्मै लोकाय कर्म्मणे” इति आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छि न्नस्तावज्जीवः इति प्राप्नोति न हि विभोश्चलनभबकल्पत इति। सति च परिच्छेदे शरीरपरिमाणत्वस्यार्हतमतपरीक्षायां निरस्तत्वादणुरात्मेति गम्यते। “स्वात्मना चोत्तरयोः” सू०। उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्द हस्वाम्यनिवृत्त्या कर्म्मक्षयेणावकल्प्येत उत्तरे तु गत्यागती नाचलतः सम्भवतः स्वात्मना हि तयोः सम्बन्धोभवति गमेश्च कर्त्तृस्थक्रियात्वात्। अतोऽमध्यम परिमाणस्य च गत्यागती अणुत्व एव सम्भवतः। सत्योश्च गत्यागत्योरुत्क्रान्तिरपसृप्तिरेव देहादिति प्रतीयते नह्यनपसृप्तस्य देहाद्गत्यागती स्यातां देहप्रदेशानाञ्चोत्क्रान्तावपादनत्ववचनात् “चक्षुष्टो वा मूर्ध्नोवा अन्येत्योवा शरीरदेशेभ्यः” इति। “सएतास्तेजोमात्राः समभ्याददानोहृदयमेवान्ववक्रामति शुक्रमादाय पुनरेति स्थानमिति” चान्वरेऽपि शरीरे शारीरस्य गत्यागती भवतः तस्मादप्यस्याणुत्वसिद्धिः। “नाणुरतच्छ्रुतेरितिचेन्नेतराधिकारात्” सू०। अथापि स्यात् नाणुरयमात्मा, कस्मात्, अतच्छ्रुतेः अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः। “स वा एष महानजः” “आत्मा योऽयं विज्ञानमयःप्राणेषु” “आकाशवत्सर्व्वगतश्चनित्यः” “सत्यंज्ञानमनन्तं ब्रह्मे” त्येवं जातीयका हि श्रुति- रात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत् नैष दोषः। कस्मात् इतराधिकारात्। परस्य ह्यात्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः, परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात्, “विरजःपर आकाशात्” इत्येवं विधानाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात्। ननु“योऽयं विज्ञानमयः प्राणेष्विति” शारीरोमहत्त्वसम्बन्धित्वेन प्रतिनिर्द्दिश्यते। शास्त्रदृष्ट्या त्वयं निर्दिशो वामदेववद्द्रष्टव्यः। तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य, न जीवस्याणुत्वं विरुध्यते। “स्वशब्दोन्मानाभ्याञ्च” सू० इतश्चाण्रात्मा यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते “स एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेशेति” प्राणसम्बन्धाच्च जीवएवायमणुरभिहितैति गम्यते तथाचोन्मानमपि जीवस्याणिमानं गमयति “बालाग्रशतभागस्य शतधा कल्पितस्य च। भागोजीवः स विज्ञेय” इति। “आराग्रमात्रोह्यवरोऽपि दृष्ट” इति चोन्मानान्तरम्। नन्वणुत्वे सत्येकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते दृश्यते च जाह्नवीह्रदनिमग्नानां सर्व्वाङ्गे शैत्योपलब्धिर्निदाघसमये च सकलशरीरपरितापोपलब्धिरितिचेत् उत्तरं पठति। “अविरोधश्चन्दनवत्” सू०। यथा हि हरिचन्दनविन्दुःशरीरैकदेशे सम्बद्धोऽपि सन् सकलदेहव्यापिनमाह्लादं करोत्येवमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलब्धिं करिष्यति। त्वक्सम्बन्धाच्चास्य सकलशरीरगता वेदना न विरुद्धते। त्वगात्मनोर्हि सम्बन्धः कृत्स्नायान्त्वचि वर्त्तते त्वक् च सर्व्वशरीरव्यापिनीति। “अवस्थितिवैशेष्यादितिचेन्नाभ्युपगमाद्धृदि हि” सू०। अत्राह यदुक्तम् “अविरोधश्चन्दनवदिति” तदयुक्तं दृष्टान्तदार्ष्टान्तिकयोरतुल्यत्वात् सिद्धे ह्यात्मनोदेहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति। प्रत्यक्षन्तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनञ्च। आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षं नैकदेशवर्त्तित्वम्। अनुमेयन्तदिति यदुच्येत न चात्रानुमानं सम्भवति। किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेह व्यापिनः सतः किं विभोर्नभसैव, आहोस्विच्चन्दनविन्दोरिवाणोरेकदेशस्थस्येति संशयाऽनतिवृत्तेरिति। अत्रोच्यतेनायं दोषः। कस्मात् अभ्युपगमात्। अभ्युपगम्यतेऽह्यात्मनोपि चन्दनस्येव देहैकदेशवर्त्ति त्वमवस्थितिवैशेष्यम्। कथमिति उच्यते। हृदि ह्येष आत्मा पठ्यते वेदान्तेषु’ ‘हृदिह्येष आत्मा” “स वाएष आत्मा हृदि कतमः? आत्मेति योऽयं विज्ञानमयः प्राणेषु ह्वद्यन्तर्ज्योतिःपुरुष” इत्याद्युप- देशेभ्यः। तस्माद्दृष्टान्तर्दाष्टान्तिकयोरवैषम्याद्युक्तमेवैतदविरोधश्चन्दनवदिति। “गुणाद्वालोकवत्” सू०। चैतन्यगुणव्याप्तेर्वाणोरपि सतोजीवस्य सकलदेहव्यापि कार्य्यं न विरुध्यते। यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्त्तिनामपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्य्यं करोति तद्वत्। स्यात्कदाचिच्चन्दनस्य सावयवत्वात् सूक्ष्मावयवविसर्पणेनापि सकलदेहआह्लादयितृत्वं नत्वणोर्जीवस्यावयवाः सन्ति यैरयं सकलदेहं विसर्पेदित्याशङ्क्य “गुणाद्वालोकव” दित्युक्तम्। कथं पुनर्गुणोगुणिव्यतिरेकेणान्यत्र वर्त्तेत न हि पटस्य शुक्लोगुणः पटव्यतिरेकेणान्यत्र वर्त्तमानोदृश्यते। प्रदीपप्रभावद्भवेदिति चेन्न तस्या अपि द्रव्यत्वाभ्युपगमात्। निविडावयवं हि तेजोद्रव्यं प्रदीपः विरलावयवन्तु तेजोद्रव्यमेव प्रभेति अत उत्तरं पठति। “व्यतिरेके गन्धवत्” सू० यथा गुणस्यापि सतोगन्धस्य गन्धद्रव्यव्यतिरेकेण वृत्तिर्भवति अप्राप्तेष्वपि कुसुमादिषु गन्धोपलब्धेः एवमणोरपि सतोजोवस्य चैतत्यगुणव्यतिरेकोभविष्यति। अतश्चानैकान्तिकमेतद्गुणत्वात् रूपवदाश्रयविश्लेषानुपपत्तिरिति गुणस्यैव सतोगन्धस्याश्रयविश्लेषदर्शनात्। गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेन्न यस्मान्मूलद्रव्याद्विश्लेषस्तस्य क्षयप्रसङ्गात्। अक्षीयमाणमपि तत्पर्व्वावस्थातोऽवगम्यते अन्यथा तत्पूर्ब्बावस्थैर्गुरुत्वादिभिर्हीयते। स्यादेतत् गन्धाश्रयाणां विश्लिष्टानामल्पत्वात्सन्नपि विश्लेषो नोपलक्ष्यते सूक्ष्मा हिगन्धपरमाणवः सर्व्वतो विप्रसृतागन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेन्न अतीन्द्रियत्वात् परमाणूनां स्फुटगन्धोपलब्धेश्च नागकेशरादिषु। न च लोके प्रतीतिर्गन्धवदुद्रव्यमाघ्रातमिति गन्धएवाघ्रात इति लौकिकाः प्रतियन्ति। रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याम्ययुक्ताश्रयव्यतिरेक इति चेन्न प्रत्यक्षत्वादनुमानाप्रवृत्तेः। तस्माद्यद्यथा लोके दृष्टं तत्तर्थैवानुगन्तव्यं निरूपकैर्नान्यधा। न हि रसोगुणोजिह्वयोपलभ्यतैत्यतो रूपादयोपि गुणाजिह्वयेवोपलभ्येरन्निति नियन्तुं शक्यते। “तथा च दर्शयति” सू०। श्रुतिर्हृदयायतनत्वमणुपरिमाणावं चात्मनोऽभिधाय तस्यैब “आलोमभ्य आमखाग्रेभ्यः” इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति। “पृथगुपदेशात्” सू०। “प्रज्ञया शरीरं ममारुह्येति” चात्मप्रज्ञयोः कर्त्तृकरणभावेन पृथगुपदेशाच्चैतन्येन गुणेनैवास्य शरीरव्यापितावगम्यते। “तदेषां प्राणानां विज्ञानेन विज्ञानमा- दायेति च” कर्त्तुः शरीराद् पृथग्विज्ञानस्योपदेश एतमेवाभिप्रायमुपोद्वलयति तस्मादणुरात्मेत्येवं प्राप्ते ब्रूमः। “तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्” सू०। तुशब्दः प्रक्षं व्यावर्त्तयति। नैतदस्ति अणुरात्मेति उत्क्रान्त्याद्यश्रवणात्। परस्यैव तु ब्रह्मणः प्रवेशश्रवणात् तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम्। परमेव चेद्ब्रह्मजीवस्तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति परस्य च ब्रह्मणो विभुत्वमाम्नातं तस्माद्विभुर्जीवः। तथा च “स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु, इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्त्ताश्च समर्थिता भवन्ति। नचाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते। त्वक्सम्बन्धात् स्यादिति चेन्न त्वक्कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्त्तते त्वक् च कृत्स्नशरीरव्यापिनीति पादतलएव तु कण्टकनुन्नां वेदनां प्रतिलभन्ते। नचाणोर्गुणस्य व्याप्तिरुपपद्यते गुणस्य गुणिदेशत्वात् गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत। प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम्। गन्धोऽपि गुणत्वाभ्युपगमात् साश्रय एव सञ्चरितुमर्हति अन्यथा गुणत्वहानिप्रसङ्गात्। तथा चोक्तं भगवता द्वैपायनेन “उपलभ्याप्सु तद्गन्धं केचिद्ब्रूयुरनैपुणाः। पृथिव्यामेव तं विद्यादपोवायुञ्च संश्रितमिति”। यदि च चैतन्यं जीवस्य समस्तं शरीरं व्याप्नुयान्नाणुर्जीवः स्यात् चैतन्यमेव ह्यस्य स्वरूपं अग्नेरिवौष्ण्यप्रकाशौ, नात्र गुणगुणिविभागोविद्यत इति। शरीरपरिमाणत्वञ्चं प्रत्याख्यातं परिशेषाद्विभुर्जीवः कथं तर्ह्यणुत्वादिव्यपदेश इति अत आह “तद्गुणसारत्वात्तु तद्व्यपदेश” इति। तस्याबुद्धेर्गुणाः तद्गुणा इच्छा द्वेषः सुखं दुष्खमित्येवमादयः तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे सम्भवति स तद्गुणसारः तद्भावस्तदगुणसारत्वम्। न हि बुद्धेर्गुणैर्विना केवलस्यात्मनः संसारित्वमस्ति बुद्ध्युपाधिधर्म्माध्यासनिमित्तं हि कर्त्तृत्वभोक्तृत्वादि लक्षणं संसारित्वमकर्त्तुरभोक्तुश्चासंसारिणोनित्यमुक्तस्य सत आत्मनः। तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः तदुत्क्रान्त्यादिभिश्चास्योत्क्रान्त्यादिव्यपदेशो न स्वतः। तथा च “बालाग्रशतभागस्य शतधा कल्पितस्य तु। भागोजीवः स विज्ञेयः स चानन्त्याय कल्पत” इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह तच्चैवमेव समञ्जसं स्यात् यद्यौपचारिकमणुत्वं जीवस्य भवेत् पारमार्थिकं चानन्त्यम्। नह्युभयं मुख्यमवकल्पेत। नचानन्त्यमौपचारिकमिति शक्यं विज्ञातुं सर्व्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात्। तथैतस्मिन्नप्युन्माने “बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रोह्यवरोऽपि दृष्ट” इति बुद्धिगुणसम्बन्धेनैवाराग्रमात्रतां शास्ति न स्वेनैवात्मना। “एषोऽणुरात्मा चेतसा वेदितव्य” इत्यत्रापि न जीवस्याणुपरिमाणत्वं शिष्यते। परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादावगम्यत्वेन च प्रकृतत्वात्, जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः। तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनमुपाध्यभिप्रायं वा द्रष्टव्यम्। तथा “प्रज्ञया शरीरमारुह्य” इत्येवंजातीयकेष्यपि भेदोपदेशेषु बुद्ध्योपाधिभूतया जीवः शरीरं समारुह्येत्येवं योजयितव्यं व्यपदेशमात्रं वा शिलापुत्रकस्य शरीरमित्यादिवत्। नह्यत्र गुणगुणिविभागो विद्यत इत्युक्तम्। हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात्। तथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति “कस्मिन्नहमुद्क्रान्त उत्क्रान्तो भविष्यामि” इति “कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृज्यतेति”। उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते, नह्यनपसृप्तस्य देहाद्गत्यागती स्याताम्। एवमुपाधिगुणसारत्वाज्जोवस्याणुत्वव्यपदेशः प्राज्ञवत् यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषूपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः “अणीयान्व्रीहेर्व्वा यवाद्वा, मनोमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पः” इत्येवं प्रकारः तद्वत्” इत्यन्तेन। इति शाङ्करानुयायिनः रामानुजमाध्वादयश्च जीवस्याणुत्व पक्षमुररीचक्रुः। तत्प्रपञ्चस्तत्तच्छास्त्रे दृश्यः तयोर्युक्तायुक्तत्वं नैयायिकवैशेषिकाङ्गीकृतविभुत्वप्रदर्शकयुक्तीरवलोक्य सुधीभिः समर्थनीयम् न्यायसूत्रवृत्तौ चात्मनोदेहाद्यतिरिक्तत्वं प्रदर्शितं यथा “तत्रेन्द्रियं ज्ञानवन्नवेति संशये करणत्वेन सिद्धानामिन्द्रियाणां चैतन्यमस्तु लाघवात्तथा चात्मशब्दस्य नानार्थत्वादिन्द्रियाणामभौतिकत्वाद्वा न साङ्कर्य्यमितीन्द्रियचैतन्यवादिनस्तन्निराकरणायाह। “दर्शनर्स्पर्शनाभ्यामेकार्थग्रहणात्” १। “न विषयव्यवस्थानात्” २। “तद्व्यवस्थानादेवात्मसद्भाबादप्रतिषेधः” ३। “शरीरदाहे पातकाभावात्” ४। “तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात्” ५। “न कार्य्याश्रयकर्तृबधात्” ६। “सव्येन दृष्टस्येतरेण प्रत्यभिज्ञानात्” ७। “नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभि- मानात्” ८। “एकनाशे द्वितीयाविनाशात्” ९। “अवयवनाशेऽप्यवयव्युपलब्धेरहेतुः” १०। “दृष्टान्तविरोधादप्रतिषेधः” ११। “इन्द्रियान्तरविकारात्” १२। “न स्मृतेः स्मर्त्तव्यविषयत्वात्” १३। “तदात्मगुणत्वसद्भावादप्रतिषेधः” १४। “अपरिसङ्ख्यानाच्च स्मृतिविषयस्य” १५। “नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात्” १६। “ज्ञातुर्ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम्” १७। “नियमश्च निरनुमानः” १८। “पूर्व्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः” १९। “पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः” २०। “नोष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम्” २१। “प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात्” २२। “अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम्” २३। “नान्यत्र प्रवृत्त्यभावात्” २४। “वीतरागजन्मादर्शनात्” २५ सूत्राणि “एकस्यैव दर्शनस्पर्शनाभ्यामर्थस्य ग्रहणात् दर्शनस्पर्शने ज्ञानविशेषौं तृतीया च प्रकारे तेन चाक्षुषस्पर्शनोभयवत्त्वेनैकस्य धर्म्मिणः प्रतिसन्धानादित्यर्थः। तथा च योऽहं घटमद्राक्षं सोऽहं स्पृशामीत्यनुभवादात्मेन्द्रियव्यतिरिक्तएक इति १। अत्र शङ्कते चक्षुस्त्वग दीनां रूपस्पर्शादि नियतविषयत्वाच्चक्षुरादेश्चाक्षुषादिसमवायित्वमित्थञ्चाभेदप्रत्ययोभ्रान्त इति भावः २। समाधत्ते उक्तप्रतिषेधोन युक्तः उक्तविषयव्यवस्थानादेवात्मसद्भावादतिरिक्तात्मकल्पनादित्यर्थः। अयंभावः तत्तदिन्द्रियाणां तत्तद्विषयकप्रत्यक्षं प्रति समवायित्वं वाच्यं न तु प्रत्यक्षत्वाववच्छिन्नं प्रति, अनुमित्यादिजनकत्वेतु विनिगभकाभावात्। तेन जन्यज्ञानत्वावच्छिन्नजनकतावच्छेदकमात्मत्वं चक्षुरादेरनित्यत्वादात्मनश्च नित्यतायावक्ष्यमाणत्वाच्चक्षुरादिनाशेऽपि स्मरणाच्चक्षुरहमित्याद्यप्रतीतेश्च नेन्द्रियात्मवादोयुज्यत इति ३। समाप्तमिन्द्रियप्रकरणम्। ननु गौरोऽहं जानामीत्यादिप्रतीतेरस्तु शरीरमात्मेत्याशङ्क्य दूषयति। पातकाभावात् पातकादेरभावप्रङ्गात् तथाचोत्तरकालिकं दुःखादिकं न स्यादिति। यद्वा दाहोनाशः तथा च शरोरनाशे कृते कर्त्तरि शरीरे विनष्टे पातकं न स्यादित्यर्थः। यद्यपि भूतचैतन्यवादिना पातकादिकं नोपेयते तथापि तस्य प्रसाध्याङ्गकत्वादेकदेशिनः पूर्व्वपक्षित्वाद्वा न दोष इति भावः ४। तवापि तुल्योदोष इत्याशङ्कते। तदभावः पातकाभावः सात्मकशरीरस्य प्रदाहेऽपि प्रसक्तः तन्नित्यत्वात् तस्य आत्मनोनित्यत्वात् नित्यत्वेन निर्विका- रत्वं तेन जन्यधर्म्मानाश्रयत्वमभिमतमितिकेचित्। तन्नित्यत्वात् शरीरनाशे शरीरविशिष्टात्मनाशस्य नियतत्वादित्यपि कश्चित्। किञ्च सात्मकशरीरनाशेऽपि हन्तुः पातकाभावः स्यात् तस्यात्यनोनित्यत्वेन तन्नाशकत्वाभावात् ५। परिहरति। कार्य्याश्रयस्य चेष्टाश्रयस्य कर्त्तुः कृत्ययच्छेदकस्य शरीरस्यैव नाशः नत्वात्मन इति न पातकाभावः। यद्वा न हन्तुः पातकाभावः कार्य्याश्रयकर्त्तुर्बाधात् शरीरस्य नाशात् ब्राह्मणत्वादेः शरीरवृत्तित्वात्तन्नाशादेव पापोत्पत्तिरिति भावः। वस्तुतस्तु अपूर्व्वशरीरावच्छिन्न प्राणसंयोगात्मकोत्पत्तिवत् शरीराववच्छिन्नप्राणसंयोगध्वंसविशेषत्माकं मरणमप्यात्मनः सम्भवति अन्यथा शरीर विनाशनोद्बन्धनमुखनिरोधादेर्हिसात्वं न स्यात् पातकानभ्युपगन्तृचार्व्वाकादिमते शरीरभेदसाधनन्तु वक्ष्यमाणयुक्तिभिरिति ध्येयम् ६। समाप्तदेहभेदप्रकरणम् प्रसङ्गाच्चक्षुरद्वैतप्रकरणमारभते। वामेन चक्षुषा दृष्टस्य दक्षिणेन चक्षुषा प्रत्यभिज्ञानात् स्थिरात्मसिद्धिरिति केषाच्चिन्मतं तन्निराकरणायैतदुपन्यासः ७। एतद्दूषयति। मध्यस्थसेतुना तडागस्येव नासास्थिव्यवहितगोलकान्तरावच्छिन्नतया द्वैतप्रत्ययोभ्रम इत्यर्थः ८। आक्षिपति। चक्षुरैक्ये एकचक्षुर्नाशेऽन्धत्वं स्यादिति भावः ९। अत्रैकदेशी परिहरति। अवयवस्य शाखादेर्नाशेऽप्यवयविनोवृक्षस्य प्रत्यभिज्ञानान्नावयवनाशे सर्ब्बत्रावयविनाशनियमस्तथा चैकनाशेऽपि नान्धत्वमिति १०। एकदेशिमतस्य पूर्ब्बोक्ताक्षेपस्य च समाधानाय सिद्धान्तिनः सूत्रम्। उक्तप्रतिषेधोन युक्तः दृष्टान्तस्य विरोधादयुक्तत्वात् न हि शाखाच्छेदे वृक्षस्तिष्ठति तथा सति वृक्षस्यानाशप्रसङ्गादतोऽवस्थितावयवैस्तत्र स्वण्डवृक्षीत्पत्तेर्नेकदेशिमतं युक्तम्। एतेनैकनाशे द्वितीयाविनाशाद्भेदसाधनमपि प्रत्युक्तं चक्षुर्नाशेऽपि गोलकान्तरावच्छिन्नावयवैः खण्डचक्षुः सम्भवात् इत्थञ्च लाघवाच्चक्षुरद्वैतमिति टीकास्वरससिद्धम्। परे तु चक्षुर्द्वैतमेव सूत्रार्थं मन्यमाना व्याचक्षते सिद्धान्तिनः। सूत्रं सव्येनेति। शङ्कते नैकस्मिन्निति। समाधत्ते एकेति। शङ्कते अवयवेति। निराकरोति दृष्टान्तेति। शास्वानाशे वृक्षनाशावश्यकत्वात् दृष्टान्तोन युक्तः। यद्वा दृष्टान्तस्य गोलकभेदस्य विरोधादन्यथानुपपन्नत्वाद्दृष्टं हि मृतस्य चक्षुरधिष्ठानगोलकद्वयं भेदेनैवोपलभ्यत इति वदन्ति ११। आत्मनॄ इन्द्रिय भेदे युक्त्यन्तरमाह। चिरविल्वाद्यम्लद्रव्ये दृष्टे तद्रसस्मरणाद्दन्तोदकसंप्लवरूपरसनेन्द्रियविकारादिन्द्रियव्यतिरिक्त आत्मा सिद्ध्यति १२। आक्षिपति। स्मृतिर्हि स्मर्त्तव्यविषयिणीति नियमस्तस्याश्च दर्शनादिना सामानाधिकरण्ये मानाभावात् अस्तु वा विषयतयैव सामानाधिकरण्यमिति भावः १३। समाधत्ते। उक्तप्रतिषेधोन युक्तः धर्म्मिग्राहकमानेन स्मृतेरात्मगुणत्वात्परिशेषेणात्मगुणत्वसिद्धेरहं स्मरामीत्यनुभवात् विषयनिष्ठकार्य्यकारणभावे चैत्रस्य ज्ञानान्मैत्रस्य स्मरणापत्तेरिति भावः १४। विषयाणां स्मर्त्तव्यानां स्मृतिसमवायित्वम् स्यादित्याशङ्क्य समाधत्ते। अपरिसङ्ख्यानात् आनन्त्यात् तथा च लाघवादतिरिक्तात्मसिद्धिः। इद न सूत्रं किन्तु भाष्यमिति केचित् १५। समाप्तं चक्षुरद्वैतप्रकरणम्। ननु मनसोनित्यत्वादात्मत्वमस्त्वित्याशङ्कते। नातिरिक्त आत्मा आत्मसाधकमानानां मनसार्थान्तरत्वमिति भावः १६। समाधत्ते। यदि मनसो ज्ञातृत्वं तदा व्यासङ्गाद्युपपादनाय करणान्तरमवश्यं वाच्यं तथा चैकोज्ञाता ज्ञानसाधनं चैकं सिद्धं मन आत्मास्त्विति संज्ञामात्रं किञ्चव्यासङ्गोपपादकतया मनसोऽणुत्वं सिद्धमात्मनश्च प्रत्यक्षोपपादकतया महत्त्वमिति भेद आवश्यक इति भावः १७। ननु रूपादिप्रत्यक्षम् सकरणकमस्तु न तु सुखादिप्रत्यक्षम् एवंपरमाण्वन्तरस्यातीन्द्रियत्वेऽपि मनसः प्रत्यक्षम् स्यादत्राह। उक्तोनियमविशेषोनिरनुमानः निष्प्रमाणकः गौरवाद्वैपरीत्ये च विनिगमकाभावाच्चेति भावः १८। समाप्तम् मनोभेदप्रकरणम्। एवं साधितेऽपि देहादिभिन्ने आत्मनि विना तन्नित्यतां न परलोकार्थिनः प्रवृत्तिरतः आत्मनित्यताप्रतिपादनाय सूत्रम्। जातस्य बालस्य एतज्जन्माननुभूतेष्वपि हर्षादिहेतुषु सत्सु हर्षादीनां सम्प्रतिपत्तिः उत्पत्तिस्तस्याः पूर्व्वापूर्व्वानुभबाधीन स्मृतिसम्बन्धादेव सम्भवात् इत्थं चेदानीन्तनस्यात्मनः पूर्व्वपूर्ब्बसिद्धौ तस्यानादित्वमनादेश्च भावस्य न नाश इति नित्यत्वसिद्धिरिति भावः १९। अत्र शङ्कते। बालस्य हर्षादयोमुखविकासाद्यनुमेया न च तत्सम्भवः पद्मादीनां प्रबोधादिवददृष्टविशेषाधीनक्रियावशादेव तदुपपत्तेरिति भावः २०। सिद्धान्तयति। उक्तं न युक्तं यतः पञ्चात्मकानां पाञ्चभौतिकानां पद्मादीनां ये विकारास्तेषाम् उष्णकालादिनिमित्तत्वात् मनुष्यादीनान्तु हर्षादिनिमित्तका मुखविकासादय इति न तुल्यतेति भावः २१। आत्मनित्यत्वे हेत्वन्तरमाह। प्रेत्य मृत्वा जातमात्रस्य यः स्तन्याभिलाषः स तावदाहाराभ्यासजनितः जन्मान्तरीणाहारेष्टसाधनताधीजन्यजीवनादृष्टोद्बोधितसंस्कारा- धीनेष्टसाधनतास्मरणेन हि बालःस्तनपाने प्रवर्त्त इत्यनेनादित्वमिति २२। शङ्कते। यथाऽयस्कान्तसन्निहितस्यायसोऽयस्कान्ताभिमुखतया गमनं तथैव वत्सस्यापि स्तनोपसर्पणं न त्विष्टसाधनताज्ञानाधीनप्रवृत्तिजन्या चेष्टेयमित्यर्थः २३। समाधत्ते। स्तनपानएव बालः प्रवर्त्तते नत्वन्यत्रेति नियमः कथं स्यात्। वस्तुतस्तु अन्यत्र अयसि प्रवृत्त्यभावात् प्रवृत्तिर्हि चेष्टानुमिता लिङ्गं न तु क्रियामात्रमतोन व्यभिचार इति भावः २४। हेत्वन्तरमाह वीतरागोरागशून्यस्तावन्नोत्पद्यतेऽपि तु सरागतएवजन्मान्तरीयेष्टसाधत्वताज्ञानाधीनस्मरणं हेतुरिति पूर्ब्बं स्तन्याभिलाषौक्तः सम्प्रति तु पतगादीनां कणादिभक्षणाभिलाषसाधारणं रागमात्रमित्यपौनरुक्तम् २५” वृत्तिः। वैशेषिकसूत्रोपस्करयोरात्मसाधनपुरस्सरं तस्य देहाद्यतिरिक्तता साधिता यथा “इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः” १। “सोऽनपदेशः” २। “कारणाज्ञानात्” ३। “कार्य्येषु ज्ञानात्” ४। “अज्ञानाच्च” ५। अन्यदेव हेतुरित्यनपदेशः” ६। “अर्थान्तरं ह्यर्थान्तरस्याऽनपदेशः” ७ सू० “इन्द्रियार्थप्रसिद्धेरात्मपरीक्षायामुपयोगमाह। हेतुर्लिङ्गमर्थान्तरस्य आत्मनः इन्द्रियार्थेभ्य इति इन्द्रियेभ्योऽर्थेभ्यश्च रूपादिभ्यस्तद्वद्भ्यश्च यदर्थान्तरम् आत्मा तस्य लिङ्गमित्यर्थः। यद्यपि ज्ञानमेव लिङ्गमिह विवक्षितं तथापीन्द्रियार्थप्रसिद्धेरूपादिसाक्षात्कारस्य प्रसिद्धतरतया ताद्रूप्येणैव लिङ्गत्वमुक्तम्। तथाहि प्रसिद्धिः क्वचिदाश्रिता कार्य्यत्वात् घटवत् गुणत्वाद्वा क्रियात्वाद्वा सा च प्रसिद्धिः करणजन्या क्रियात्वात् छिदिक्रियावत् यच्च प्रसिद्धेः करणं तदिन्द्रियं तच्च कर्तृप्रयोज्यं करणत्वात् वास्यादिवत् तथा यत्रेयं प्रसिद्धिराश्रिता, यः घ्राणादीनां करणानां प्रयीक्ता स आत्मा १। ननु शरीरमिन्द्रियाणि वा प्रसिद्धेराश्रयोऽस्तु प्रसिद्धिं प्रति तदुभयान्वयव्यतिरेकयीः स्फृटतरत्वात् किं तदन्याश्रयकल्पनया तथाहि चैतन्यं शरीरगुणः तत्कार्यत्वात् तद्रूपादिवत् एवमिन्द्रियगुणत्वेऽपि वाच्यमित्याशङ्क्याह। अपदेशो हेतुः तदाभासोऽनपदेशः तथाच तत्कार्यत्वं प्रदीपजन्यज्ञानादावनैकान्तिकत्वादनपदेशैत्यर्थः २। ननु तत्कार्यत्वं चैतन्यत्वावच्छिन्नस्यैव कार्यत्वं विवक्षितं प्रदीपादीनाञ्च समस्तमेव चैन्तन्यं न कार्यमिति न व्यभिचार इत्याशङ्क्याह। शरीरकारणानां करचरणादीनां तदवयवानां वा अज्ञानात् ज्ञानशून्यत्वादित्यर्थः। पृथिव्यादि- विशेषगुणानां हि कारणगुणपूर्ब्बकता दृष्टा तथाच शरीरकारणेषु यदि ज्ञानं स्यात्तदा शरीरेऽपि सम्भाव्येत नचैवम्। नन्वस्तु शरीरकारणेष्वपि चैतन्यमिति चेन्न ऐकमत्याभावप्रसङ्गात् न हि बहूनाञ्चेतनानामैकमत्यं दृष्टम्, करावच्छेदेनानुभूतस्य करच्छेदेऽस्मरणप्रसङ्गात् यतः “नान्यदृष्टं स्मरत्यन्यः” इति। किञ्च शरीरनाशे तत्कृतहिंसादिफलानुपभोगप्रसङ्गात् नहि चैत्रेण कृतस्य पापस्य फलं मैत्रो भुङ्क्ते ततश्च कृतहानिरकृताम्यागमश्च स्यात् ३। ननु शरीरकारणेषु सूक्ष्ममात्रया ज्ञानमस्ति शरीरे तु स्फुटमतो नाऽकारणगुणपूर्व्व कता नचैकमत्यानुपपत्तिरित्याशङ्क्याह। यदि हि शरीरमूलकारणेषु परमाणुषु चैतन्यं स्यःत् तदा तदारब्धेषु कार्येषु घटादिष्वपि स्यात किञ्च पार्थिवविशेषगुणानाम् सर्व्वपार्थिववृत्तिताव्याप्तेः कार्येष्वपि घटादिषु चैतन्यं स्यान्न च तत्र चैतन्यमुपलभ्यते इत्यर्थः ४। ननु घटादावपि सूक्ष्ममात्रया चैतन्यमस्त्येवेत्याशङ्क्याह। सर्व्वैः प्रमाणैरज्ञानात् कुम्भादौ न चैतन्यमित्यर्थः। सर्ब्बप्रमाणागोचरस्याप्यभ्युपगमे शशविषणादेरप्यभ्युपगमप्रसङ्गः न हि घटादौ चैतन्यं केनापि प्रमाणेन ज्ञायत इति ५। ननु श्रोत्रादिभिः करणैरधिष्ठाताऽनुमीयते इत्युक्तं तदयुक्तं नहि श्रोत्रादिभिरात्मनस्तादात्म्यं तदुत्पत्तिर्व्वा न च ताभ्यामन्तरेणाऽविनाभावसिद्धिः नचाविनाभावमन्तरेणाऽनुमितिरित्यत आह। हेतुः साध्यादन्य एव भवति न तु साध्यात्मा साध्याविशेषप्रसङ्गात् तस्मात्तादात्म्यघटितो हेतुरहेतुरनपदेश इत्यर्थः ६। ननु श्रोत्रादिभिरिन्द्रियैरात्मनो यथा न तादात्म्यं तथा तदुत्पत्तिरपि नास्ति नहि बह्नेर्धूम इव आत्मनः श्रोत्रादिकरणमुत्पद्यते इत्यत आह। हि यतः कार्यं धूमादि यथा रासभादेरर्थान्तरम् तथा कारणाद्वह्न्यदेरप्यर्थान्तरमेव तथा चार्थान्तरत्वाविशेषात् धूमो रासभं न गमयति किन्तु बह्निमेव गमयतीत्यत्र स्वभावविशेष एव नियामकः स च स्वभावो यदि कार्यादन्यस्यापि भवति तदा सोऽप्यपदेशोभवत्येव तथा च कार्यमविवक्षितस्वभावभेदम् अनपदेशः, तथा च तादात्म्यतदुत्पत्ती एवाऽविनाभावः तयोरेवाविनाभावपर्यवसानम् ताभ्यां समानोपायौ वा तदुभयमात्र ग्रहाधीनग्रहौ वेति स्वशिष्यव्यामहोनाय परिभाषामात्रमिति भावः” ७।। उपस्क०। अनतिदूरे च तत्रैव “आत्मेन्द्रियार्थ सन्निकर्षाद्यन्निष्पद्यते तदन्यत्” १८ सू०। “ज्ञानमात्मन्युभयथा लिङ्गम्, ज्ञानं क्वचिदाश्रितं कार्य्य- त्वाद्रूपादिवदिति वा, प्रत्यभिज्ञारूपतया वा योऽहमद्राक्षं सोऽहं स्पृशामीति, तत्र ज्ञानगतं कार्य्यत्वं नासिद्धं यन्निष्पद्यत इत्यभिधानात्, न विरुद्धं सामान्यतोदृष्टेऽत्र विरोधाभावात्। नचानैकान्तिकम्, तत एव, तथा च स्वगतकार्य्यत्वगुणत्वद्वारा सामान्यतोदृष्टेन ज्ञानमेवात्मनि लिङ्गम्, प्रत्यभिज्ञानन्तु भिन्नकर्त्तृकेभ्योव्यावर्त्तमानमेककर्त्तृकतायां पर्य्यवस्यति। न च बुद्धिचैतन्येऽपि कार्य्यकारणभावनिबन्धनमेव प्रतिसन्धानम्, शिष्यगुरुबुद्ध्योरपि प्रतिसन्धानप्रसङ्गात्। उपादानोपादेयभावस्तत्र नास्ति स च प्रतिसन्धानप्रयोजक इति चेदुपादानत्वस्य द्रव्यधर्म्मतया बुद्धावसम्भवात्, सम्भवे वा बुद्धीनां क्षणिकतया पूर्व्वानुभूतप्रतिसन्धानानुपपत्तेः, न हि पूर्ब्बबुद्ध्या उत्तरासु बुद्धिषु कश्चित् संस्कार आधीयते, स्थिरस्य तस्य त्वयाऽनभ्युपगमात्, क्षणिकबुद्धिधारारूपस्य च कालान्तरस्मृतौ प्रतिसन्धाने वाऽसामर्थ्यात्। आलयविज्ञानसन्तानः प्रवृत्तिविज्ञानसन्तानादन्य एव र्स्मत्ता च प्रतिसन्धाता चेति चेत् स यदि स्थिरः तदा सिद्धं नः समीहितम्, क्षणिकबुद्ध्विधारारूपश्चेत् तदा पूर्व्वदोषानतिवृत्तेः, न हि तत्रापि स्थिरः कश्चित् संस्कारः। किञ्च प्रवृत्तिविज्ञानातिरिक्ते तत्र प्रमाणाभावः। अहमिति बुद्धिधारैव प्रमाणमिति चेत् भवतु तत्र प्रवृत्तिविज्ञानान्यालयविज्ञानमेव चेदुपादत्ते तदा प्रवृत्तिविज्ञानानामुपादानताविरहे निमित्तताऽपि न स्यात् उपादानताव्याप्तत्वान्निमित्ततायाः, माऽस्तु निमित्तताऽपीति चेत् तर्हि सत्त्वमपि गतम्, अर्थक्रियाकारित्वस्य सत्त्वलक्षणत्वात् प्रवृत्तिसन्तानालयविज्ञानसन्तानाभ्यां सम्भूय सन्तानद्वयमुपादीयत इति चेत् तर्हि किमपराद्धमवयविसंयोगादिभिः, व्यासज्यवृत्तितायास्त्वयाप्यभ्युपपमात्। तस्माज्ज्ञानेनाश्रयतयाऽनुमितमात्मानं प्रतिसन्धानं स्थिरत्वेन साधयतीति न किञ्चिदनुपपन्नम्। यद्वा नित्या बुद्धिर्नात्मानं कारणत्वेन गमयितुमर्हतीति साङ्ख्यमतनिरासाय सूत्रमिदमुपतिष्ठते “आत्मेन्द्रियार्थसन्निकर्षाद् यन्निष्पद्यते तदन्यत्” बुद्धितत्त्वं यत्त्वयोच्यते तज्ज्ञानमेव, बुद्धिरुपलब्धिर्ज्ञानमिति हि पर्य्यायाभिधानं, तच्चात्मादिसन्निकर्षादुत्पन्नम्। अन्यदेव त्वदभ्युपगतादन्तःकरणादित्यर्थः तथाच भवति तत् आत्मनोलिङ्गमिति भावः” १८। “प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टं परत्र लिङ्गम्” १९। “आत्मन्यनुमानमभिधायैदानीं परात्मानुमानमाह। प्रत्यगात्मनीति स्वात्मनीत्यर्थः, इच्छाद्वेषजनिते प्रवृत्तिनिवृत्ती प्रयत्नविशेषौ ताभ्याञ्च हिताहितप्राप्तिपरिहारफलके शरीरकर्म्मणी चेष्टालक्षणेजन्येते तथाच परशरीरे चेष्टां दृष्ट्वा इयं चेष्टा प्रयत्नजन्या चेष्टात्वात् मदीयचेष्टावत् स च प्रयत्न आत्मजन्यः आत्मनिष्ठोवा प्रयत्नत्वात् मदीयप्रयत्नवदिति परात्मात्मानुमानम्” १९ उपस्क०। आह्निकान्तरे “आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसोलिङ्गम्” १। “तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते” २। “प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम्” ३। प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि” ४। “तस्य द्रव्यत्वनित्यत्वे वायुना वाख्याते” ५। “यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावाद्दृष्टं लिङ्गं न विद्यते” ६। “सामान्यतोदृष्टाच्चाविशेषः” ७। “तस्मादागमिकः” ८। “अहमितिशब्दस्य व्यतिरेकान्नागमिकम्” ९। “यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति” १०। “दृष्टयात्मनि लिङ्गे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः” ११। “देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः” १२। “सन्दिग्धस्तूपचारः” १३। “अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तरप्रत्यक्षः” १४। “देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कारः” १५। “सन्दिग्धस्तूपचारः” १६। “न तु शरीर विशेषादु यज्ञदत्तविष्णुमित्रयोर्ज्ञानं विषयः” १७। “अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद्विशेषसिद्धेर्नागमिकः” १८। “सुखदुःखज्ञाननिष्यत्त्यविशेषादैकात्म्यम्” १९। “व्यवस्थातोनाना” २०। वैशेषिकसूत्राणि “इदानीमात्म परीक्षाशेषम् उद्देशक्रमलङ्घनेन मनःपरीक्षामवतारयन्नाह। मनोगतिमात्मनोलिङ्गं वक्ष्यति तद् यदि मनो ज्ञानकरणत्वेन मूर्त्तत्वेन च परीक्षितं भवति तदा यत्प्रेरितं मनः इन्द्रियान्तरादभिमतविषयग्राहिणि इन्द्रिये सम्बध्यते स आत्मेति सिद्धं भवतीत्येतदर्थं क्रमलङ्घनम्। आत्मेन्द्रियार्थसन्निकर्षे सति यस्मिन् इन्द्रियसन्निकृष्टे ज्ञानस्य भावः उत्पादः, असन्निकृष्टे ज्ञानस्याभावोऽनुपादस्तन्मन इत्यर्थः। ननु मनोवैभवेऽपि करणधर्म्मत्वादेव ज्ञानायौगपद्यमुपपद्यते किञ्च मनो विभु विशेषगुणशून्यद्रव्यत्वात् कालवत् ज्ञानासमवायिकारणसंयोगाधारत्वादात्मवत् स्पर्शात्यन्ताभाववत्त्वादाकाशवदित्यादि वैभवसाधकं प्रमाणमिति चेत् मैवं यदि मनो विभु स्यात्तदा सर्व्वेन्द्रियसन्निकृष्टात्ततः सर्ब्बैन्द्रियकमेकमेव ज्ञानं स्यात्, कार्य्यविरोधान्नैबमिति चेन्न नहि सामग्री विरोधाविरोधमाकलयति येन चाक्षुषत्वरासनत्वादिविरोधाय बिभ्येत्, चित्ररूपवत् चित्राकारमेव वा स्यात्। भवत्येव दीर्घशष्कुलीभक्षणस्थले इति चेन्न तत्रापि व्यासङ्गदर्शनात्, तर्हि रूपरसगन्धस्पर्शान् युगपत् प्रत्येमीति कथमनुव्यवसाय इति चेन्न शीघ्रसञ्चारिमनोजनितेषु पञ्चसु स्मृत्युपनीतज्ञानेषुयौगपद्याभिमानात्। व्यासङ्गोऽपि करणधर्म्माधीन इति चेन्न उक्तोत्तरत्वात्, बुभुत्साधीनो व्यासङ्ग इति चेन्न सर्व्वबुभुत्सायां सर्वविषयकसर्व्वोदयप्रसङ्गात् बुभुत्साया अपि अभिमतार्थग्राहीन्द्रियमनःसब्बन्धमात्रफलकत्वात् तस्माज्ज्ञानायौगपद्यान्यथानुपपत्त्या सिध्यति अणु मनः। ततोधर्म्मिग्राहकमानबाधिताः वैभबहेतवः। किञ्च मनोवैभवे पादे मे सुखं शिरसि मे वेदनेति प्रादेशिकत्वं सुखादीनां न स्यात् विभुकार्य्याणामसमवायिकारणावच्छिन्नदेशे उत्पादनियमात्। तवापि सुखादीनामणुदेशापत्तिरिति चेन्न असमवायिकारणं विभुकार्य्यं स्वदेशे जनयत्येवेति नियमात्। तथाच निमित्तचन्दनाद्यवच्छेदादधिकदेशेऽपि जननाविरोधात्। ममापि निमित्तसमबधानानुरोध इति चेन्न उक्तनियमभङ्गप्रसङ्गात् किञ्चात्मना विभुनो मनसः संयोगोऽपि कथं स्यात्, अजोऽसाविति चेन्न विभागस्याप्यजत्वप्रसङ्गात्, अवच्छेदभेदेनोभावप्यविरुद्धाविति चेन्न संयोगविभागयोरवच्छेदभेदस्य स्वकारणाधीनत्वात् अजयोस्तु तदभावादितिदिक् १। ननु सुखाद्युपलब्धिः करणसाध्या क्रियात्वात् रूपोपलब्धिवदित्याद्यनुमानात् युगपज्ज्ञानानुत्पत्त्या वा यन्मनः सिद्धं तत्करणतया, तथाच तस्य द्रव्यत्वं नित्यत्वञ्च कुत इत्यत आह। यथाऽवयविद्रव्यानुमितो वायुपरमाणुर्गुणकत्वात् क्रियावत्त्वाच्च द्रव्यम्, तथा युगपज्ज्ञानानुत्पत्त्याऽनुमितं मनो गुणवत्त्वाद्द्रव्यं, नहि तस्य इन्द्रितसंयोगमन्तरेण ज्ञानोत्पादकत्वं येन गुणवत्त्वं न स्यात्। किञ्च सुखादिसाक्षात्कारः इन्द्रियकरणकः साक्षात्कारत्वात् रूपादिसाक्षात्कारवदिन्द्रियत्वेन मनः सिद्धम्, इन्द्रियत्वञ्च ज्ञानकारणमनःसंयोगाश्रयत्वमित्थयत्रसिद्धमेव मनसोद्रव्यत्वम्, नित्यत्वञ्च तस्यानाश्रितत्वात्, तस्यावयवकल्पनायां प्रमाणाभावादमाश्रितत्वमिति २। तत् किं प्रतिशरीरमेकमनेकं येति सन्देहे निर्णायकमाह। मनः प्रतिशरीरमिति शेषः यद्येकैकस्मिन्नपि शरीरे बहूनि मनांसि स्युस्तदा ज्ञानप्रयत्नानां यौगपद्यं स्यात्। यत्तु नर्त्तकीकरचरणाङ्गुलीषु युगपत् कर्म्मदर्शनाद्युगपदेव बहवः प्रयत्ना उत्पद्यन्ते इति मतं तदयुक्तं मनसः शीघ्रसञ्चारादेव तदुपपत्तेः अविनश्यदवस्थयोग्यात्मबिशेषगुणानां योगपद्यानभ्युपगमात्। एतेनैकस्मिन्नपि शरीरे पञ्च मनांसि तेषां द्वित्रिचतुःपञ्चानां तत्तदिन्द्रियसंयोगे द्वे त्रीणि चत्वारि पञ्च वा ज्ञानानि युगपज्जायन्ते इति मतं निरस्तं कल्पनागौरवप्रसङ्गात्, यौगपद्याभिमानस्तु समर्थित एव, रसनेन्द्रियावच्छेदेन त्वगिन्द्रियसम्बन्धेन मनसस्तिक्तोगुड इति ज्ञानद्वययौगपद्यापत्तिरपि करणधर्म्मत्वादेव नास्ति, द्वित्रिच्छिन्नगोधाभुजगादावपि अवयवद्वये कर्म्म खड्गाद्यभिघाताद्वा मनस आशुसञ्चाराद्वा तदानीमेवादृष्टेन पण्डमनोन्तरग्रहणाद्वा। यत्तु मनोऽवयव्येव जलौकावत् तत्सङ्गोचविकाशाभ्यां ज्ञानयोगपद्यायौगापद्ये इति तत्, तदवयवकल्पनागौरवप्रतिहतमिति दिक् ३। इदानींक्रमलङ्घनप्रयोजनमादर्शयन्नेबात्मपरीक्षाशेषं वर्त्तयिष्यन्नाह। प्रसिद्धिर्ज्ञानमेव केबलमात्मनो लिङ्गमिति न मन्तव्यं प्राणादयोऽपि सन्ति आत्मनो लिङ्गानि। तथाहि शरीरान्तश्चारिणि समीरणे प्राणापानलक्षणे ऊर्द्ध्वाधोगती उत्क्षेपणावक्षेपणे मुषलादाविव प्रयत्नं विनाऽनुपपद्यमाने यस्य प्रयत्नाद्भवतः स नूनमात्मा, नहि तिर्य्यग्गमनस्वभावस्य वायोरेवंस्वभावविपर्य्ययो विना प्रयत्नात्, न च विरुद्धदिक्क्रिययोर्वाय्वोः सलिलयोरिवोर्द्धगतिः स्यादिति वाच्यम् एवं सत्यूर्द्ध्वगमनमेव स्यान्नत्वधोगमनं फुत्कारादौ वा तिर्य्यग्गमनम्, तथाचास्ति कश्चित्, यः पयत्नेन वायुमूर्द्ध्वमधो वा प्रेरयति। सुषुप्तिदशायां कथं प्राणापानयोरूर्द्धाधोगती इति चेन्न तदानीं योग्यप्रयत्नाभावेऽपि प्रयत्नान्तरस्य सद्भावात् स एव जीवनयोनिः प्रयत्न इत्युच्यते। एवं निमेषोन्मेषावपि शरीरस्याघिष्ठातारमनुमापयतः। तथा हि निमेषस्तावत् अक्षिपक्ष्मणोः संयोगजनकं कर्म्म उन्मेषस्तयोरेव विभागजनकं कर्म्म, एते च कर्म्मणीनोदनाभिघातादिदृष्टकारणमन्तरेण निरन्तरमुत्पद्यमाने प्रयत्नं विना नोत्पद्येते यथा दारुपुत्रकनर्त्तनं कस्यचित् प्रयत्नात्, तथाऽक्षिपक्ष्मनर्त्तनमपि, तेन प्रयत्नवाननुमीयते। एवं जीवैनमप्यात्मलिङ्गं तथाहि जीवनपदेन लक्षणया जीवनकार्य्यं वृद्धिक्षतभग्नसंरोहणादि लक्षयति। तथा च यथा गृहपतिर्भग्नस्य गृहस्य निर्म्माणं करोति, लघीयो वा गृहं बर्द्धयति, तथा देहाधिष्ठाता गृहस्थानीयस्य देहस्याहारादिना वृद्धिमुपचयं करोति क्षतञ्च भेषजादिना प्ररोहयति भग्नञ्च करचरणादि संरोहयति तथा च गृहपतिरिव देहस्याप्यथिष्ठाता सिध्यतीति। एवं मनोगतिरप्यात्मलिङ्गं तथा हि मनस्तावन्मूर्त्तमणु चेति पूर्व्वप्रकरणे साधितम्, तस्य चाभिमतविषयग्राहिणि इन्द्रिये निवेशनम् इच्छाप्रणिधानाधीनम्, तथा च यस्येच्छाप्रणिधाने मनः प्रेरयतः स आत्मेत्यनुमीयते यथा गृहकोणावस्थितोदारकः कन्दुकं लाक्षागुटकं वा गृहाभ्यन्तर एव इतस्ततः प्रेरयति। ननु दारुपुत्रनर्त्तयिता गृहपति र्दारको वा न शरीरादन्यो यो दृष्टान्तः स्यात् किञ्च शरीरमेव चैतन्याश्रयः अहङ्कारास्पदत्वात्, भवति हि गौरोऽहं स्थूलोऽहमित्याद्यहङ्कारसामानाधिकरण्येन प्रत्ययः। यत्तु बाल्येऽनुभूतं यौवने वार्द्धके वा स्मरति तत्र चैत्रमैत्रवच्छरीरभेदेऽपि स्मरणं न स्यात् “नान्यदृष्टं स्मरत्यन्य” इति तत्र चैत्रमैत्रयोर्भिन्नसन्तानत्वेन प्रतिसन्धानं माऽस्तु बाल्यकौमारभेदेऽपि सन्तानैकत्वात् कार्य्यकारणभावेन प्रतिसन्धानमुपपत्स्यत इति। तत्र ब्रूमः पित्राऽनुभूतस्य पुत्रेणापि स्मरणप्रसङ्गः, तत्र शरीरभेदग्रहोबाधक इति चेत् वृद्धेन बालशरीराद्भेदेनैव स्वशरीरस्य ग्रहात् प्रतिसन्धानानुपपत्तेः अनुपलब्धपितृकस्य बालस्य शरीरभेदाग्रहस्यापि सत्त्वात्। मम शरीरमिति ममकारसामान्येनाहङ्कारस्य भानात्। ममात्मेत्यत्रापि तथैति चेन्न तत्र ममकारस्यौपचारिकत्वात् राहोः शिर इति वदभेदेऽपि षष्ठ्युपपत्तेः। हिंसादिफलञ्च कर्त्तरि न स्यात् शरीरस्यान्यान्यत्वात्, पातकमिच्छतोभूतचैतनिकस्य कृतहानमकृताभ्यागमश्च दोष इति दिक्। इन्द्रियान्तरविकारात् खल्वपि दृश्यते हि नागरङ्गस्य चिरविल्लस्य वा रूपविशेषसहचरितं रसविशेषमनुभूय पुनस्तादृशं फलमुपलभमानस्य रसगर्द्धि प्रवर्त्तितो दन्तोद्रकसंप्लवः, स च नाम्लरसानुमितिमन्तरेण, अनुमिति र्न व्याप्तिस्मृतिमन्तरेण, सा च न संस्कारं विना, स च न व्याप्त्यनुभवमन्तरेण, स च न भूयोदर्शनमन्तरेणेति इयं ज्ञानपरम्परा नैकं कर्त्तारमन्तरेण कार्य्यकारणभूता सम्भवतीति तथा च गौतमीयं सूत्रम् “इन्द्रियान्तरविकारात्” इति। सुखादयश्च ज्ञानवदेवात्मलिङ्गानि द्रष्टव्याः। तथाहि सुखादिकं क्वचिदाश्रितं द्रव्याश्रितं सामान्यतोदृष्टमेव अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं विषयीकरोति न हि पृथिव्याद्यष्टकानाश्रिता इच्छा द्रव्याश्रितेति प्रतिज्ञा अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं प्रकारमनादाय पर्य्य वस्यति यत्र तु त्प्रथमं न बाधावता- रस्तत्राष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं व्यतिरेकिसाध्यमिति भावः। व्यापकतावच्छेदकप्रकारिकैवानुमितिरिति तु तुच्छम्, येन विना प्रतीतिर्न पर्य्यवस्यति तस्यैव तत्र प्रकारत्वात् अन्यथा द्व्यणुकं कार्य्यानाश्रितं सत् क्वचिदाश्रितम् अवयवित्वादित्यादावकार्य्याश्रितत्वप्रकारिकाऽनुमिति र्न स्यात् ४। ननु सिद्ध्यतु आत्मा स्थिरः, स तु नित्य इति कुतः, कुतश्च द्रव्यमित्यत आह। यथा वायुपरमाणोरवयवकल्पनायां न प्रमाणमतोनित्यत्वं तथात्मनोऽपि, यथा गुणवत्त्वाद्वायुपरमाणुर्द्रव्यं तथात्माऽपीत्यर्थः ५। पूर्व्व पक्षमाह। सन्निकर्षेसति अयं यज्ञदत्त इति प्रत्यक्षं नास्ति चेत् तदा दृष्टं प्रत्यक्षतो गृहीतव्याप्तिकं लिङ्गं नास्ति, यथा वह्निना प्रत्यक्षेण सहचरितो गृहीतो धूमो वह्नौ दृष्टं लिङ्गं तथात्मसाधकं लिङ्गं दृष्टं नास्तीत्यर्थः ६। ननु प्रत्यक्षदृष्टव्याप्तिकस्य दृष्टलिङ्गस्याभावेऽपि सामान्यतोदृष्टमेव लिङ्गं भविष्यति नहि ततो नानुमितिरित्याशङ्क्य पुनः पूर्वपक्षी आह। सामान्यतोदृष्टमपि लिङ्गं भवति न तु तत आत्मत्वेन अष्टद्रव्यातिरिक्तद्रव्यत्वेन वा स्यादात्मसिद्धिः किन्तु तेनेच्छादीनां क्वचिदाश्रितत्वमात्रं सिद्ध्येत् तच्च नात्ममननौपयिकमित्यथः तदेतदाह अविशेष इति ७। तत् किं “योऽपहतपाप्मा स आत्मा” इत्याद्यागमोऽनर्थक एवेत्याशङ्क्य म एवाह। आगममात्रसिद्ध एवात्मा न त्वनुमेयः दृष्टसामान्यतोदृष्टयोर्लिङ्गयोरभावात् तस्मात् सम्यगुपनिषदां श्रवणात् तत्त्वसाक्षात्कार उत्पद्यते न तु मननप्रणालिकया, तथाच मननप्रयोजनकमिदं तन्त्रमतन्त्रम्, दृष्टं हि भूतदशकनदीसन्तरणादावुपदेशमात्रादेव साक्षात्कारि ज्ञानम्८। तदेवं त्रिभिः सूत्रैः पूर्व्वपक्षे सिद्धान्तवाद्याह। नागममात्रं प्रमाणमात्मनि, कित्त्वहमिति पदमात्मपदं वा साभिधेयं पदत्वात् घटादिपदवत् इत्यनुमानादप्यात्मसिद्धिः। ननु पृथिव्याद्येव तदभिधेयं स्यादित्यत आह व्यतिरेकादिति पृथिव्यादितोऽहमिति पदस्य व्यतिरेकाद्व्यावृत्तेरित्यर्थः। नहि भवत्यहं पृथिवी अहमापः अहन्तेजः अहं वायुः अहमाकाशम् अहं कालः अहं दिक् अहं मन इति व्यपदेशः, प्रत्ययो वा। शरीरे भवतीति चेन्न परशरीरेऽपि तत्प्रसङ्गात्, स्वशरीरे भवतीति चेन्न स्वस्यात्मभिन्नस्यानिरुक्तेः मम शरीरमिति वैयधिकरण्येन प्रत्ययाच्च। नन्विदमपि सामान्यतोदृष्टमेव तच्च विशेषापर्य्यवसन्नमिति दूषितमेवेति चेन्न अहम्पदेऽहन्त्वमात्मत्वमेव प्रकारः तथा च पक्षधर्म्मताबलादेवाऽहन्त्वस्य प्रवृत्ति- निमित्तत्वं पर्य्यवसन्न तच्चानन्यसाधारणमेवेति विशेषसिद्धेः एवं सामान्यतोदृष्टादपि बाधसहकृताद्विशेषसिद्धिः। यच्चोक्तं श्रवणादेव साक्षात्कारः किं मननेनेति तदयुक्तम् नहि मननमन्तरेण सङ्कशुकस्याश्रद्धामलक्षालनम्, नच तदन्तरेण तत्र निदिध्यासनाधिकारः, नच निदिध्यासनमन्तरेण सवासनमिथ्याज्ञानोन्मूलनक्षमस्तत्त्वसाक्षात्कारः, अभ्यासादेव हि कामातुरस्याकस्मात् कामिनीसाक्षात्कारः, नहि शाब्दमानुमानिकं वा ज्ञानं मिथ्याज्ञानोन्मूलनक्षमं दिङ्मोहादौ दृष्टमिति भावः। ननु तथापि परोक्षे आत्मनि कथं सङ्केतग्रह इति चेत् क एवमाह नात्मा प्रत्यक्ष इति, किन्तु मनसा संयोगप्रत्यासत्त्यात्मग्रहः। कथमन्यथाऽहं सुखी जानामीच्छामि यते दुःखीत्यादिप्रत्ययः नह्ययमवस्तुकः सन्दिग्धवस्तुको वा, नीलादिप्रत्ययवत् अस्यापि निश्चितवस्तुकत्वात्, नच लैङ्गिकः, लिङ्गज्ञानमन्तरेणापि जायमायत्वात्, नापि शाब्दः, तदनुसन्धानाननुविधानात्, प्रत्यक्षाभासोऽयमिति चेत्, तर्हि क्वचिदनाभासविषयोऽपि। नह्यप्रमितमारोप्यते इत्यावेदयिष्यते९। एवञ्चेत् किमनुमानेनेति पूर्ब्बपक्षवादी आह। इतिशन्दो ज्ञानप्रकारमाह दृष्टमिति भावे–क्तप्रत्ययान्तम्, अन्वक्षमित्यध्यक्षं तेनायमर्थः अयं देवदत्तः अयं यज्ञदत्त इति प्रकारकं दृष्टं दर्शनं अध्यक्षमेवास्ति यदि किमनुमानप्रयासेन “नहि करिणि दृष्टे चीत्कारेण तमनुमिमतेऽनुमातारः” १०। अत्र सिद्धान्त्याह। दृष्टे प्रत्यक्षेण गृहीते आत्मनि लिङ्गे सम्भूतसामग्रीके सति एक एव एकवैषयिक एव प्रत्ययः। प्रत्यय इति निरस्तसमस्तविभ्रमाशङ्कित्वमाह, कुत एवंमित्यत आह दृढत्वात् प्रभाणसंप्लवेनान्यथाभावशङ्कानिवर्त्तनपटुत्वात्, तत्र दृवृन्तमाह् प्रत्यक्षवदिति यथा दूरात्तोयप्रत्यक्षे सत्यपि संवादार्थं बलाकालिङ्गेनाऽपि तदनुमानं तदुक्तम् “प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः” इति, इदमत्राकूतम् यद्यात्मा कदाचित् प्रत्यक्षे चैतसे भासत एव तथापि अहं गौरः अहं कृश इत्यादिविरोधिप्रत्ययान्तरतिरस्कृतो न तथा स्थेमानमासादयति विद्युत्सम्पातसञ्जातज्ञानवत्, तत्र लिङ्गेन अनन्यथासिद्धेन ज्ञानान्तरमुत्पद्यमानं पूर्ब्बज्ञानमेव स्थिरीकरोति। किञ्च “श्रोतव्यो मन्तव्य” इत्यादिविधिबोधितस्यात्ममननस्य इष्टसाधनत्वावगतौ अनुमित्सयाऽवश्यमात्मन्यनुमानप्रवृत्तिः तद्व्यतिरेके निदिध्यासनासम्भवे साक्षात्काराभावेऽपर्गासम्भवादिति भावः। अहं देवदत्तोऽहं यज्ञदत्त इति प्रती- तिद्वयाभिधानमात्मनः प्रत्यात्मवेदनीयत्व’ सूचयितुम् ११। ननु यदि यज्ञदत्तोऽहमिति प्रत्यय आत्मनि तदा यज्ञदत्तो गच्छतीति गमनसामानाधिकरण्यभानमनुपपन्नमित्यत आह। अस्ति हि अहं गौरः अहं स्थूल इति प्रत्ययः अस्ति च मम शरीरमिति भेदप्रत्थयः तत्र देवदत्तो गच्छतीति गतिसामानाधिकरण्यानुभवो व्यवहारश्च भाक्तः, ममेति प्रत्ययस्य यथार्थत्वात् यद्यपि देवदत्तत्वं शरीरवृत्तिर्जातिस्तेन देवदत्तो गच्छतीति मुख्य एव प्रयोगे यथार्थ एव च प्रत्ययः। तथापि देवदत्तपदं तदवच्छिन्नात्मनि प्रयुक्तञ्चेत् तदौपचारिकं बोद्धव्यम् १२। अत्र शङ्कते। तुशब्दः पूर्व्वपक्षद्योतकः। आत्मशरीरयोस्तावदहमिति प्रत्ययः प्रयोगश्च दृश्यते तत्र क्व मुख्यः क्व वौपचारिक द्रति सन्देहः १३। समाधत्ते। अर्थान्तरमात्मस्वरूपं प्रत्यक्षं यत्र प्रत्यये स प्रत्ययोऽर्थान्तरप्रत्यक्षः। अयमथः अहमिति प्रत्ययस्य प्रत्यगात्मनि स्वात्मनि भावाद् परत्र परात्मनि अभावात् अर्थान्तरे स्वात्मन्येव मुख्यः कल्पषितुमुचितः यदि तु शरीरे मुख्यः स्यात् तदा वहिरिन्द्रियग्राह्यः स्यात् न हि शरीरं मानसप्रत्यक्षं मानसश्चायमहमिति प्रत्ययः बहिरिन्द्रियव्यापारमन्तरेणापि जायमानत्वात् अहं दुःखी अहं सुखी जाने यते इच्छाम्यहमिति योग्यविशेषगुणोपहितस्यात्मनो मनसा विषयीकरणात्, नायं लैङ्गिको लिङ्गानुसन्धानमन्तरेणापि जायमानत्वात्, न शाब्दः शब्दाकलनमन्तरेणापि जायमानत्वात्, तस्मान्मानस एव। मनसश्च बहिरस्वातन्त्र्येण शरीरादावप्रवृत्तेरिति भावः। किञ्च यदि शरीरे स्यात्, परशरीरे स्यात्, स्वात्मनि यदि स्यात् तदापि परात्मनि स्यादिति चेन्न परात्मनः परस्यातीन्द्रियत्वात् तद्विशेषगुणानामयोग्यत्वात् योग्यविशेषगुणोपग्रहेण तस्य योग्यत्वात्, न केबलमात्मन इदं शीलं किन्तु द्रव्यमात्रस्य, द्रव्यं हि योग्यविशेषगुणोपग्रहेणैव प्रत्यक्षं भवति। आकाशमपि तर्हि शब्दोपग्रहेण प्रत्यक्षं स्यादितिचेत् स्यादेवं यदि श्रोत्रं द्रव्यग्राहकं भवेन्, आकाशं वा रूपवत् स्यात्। आत्मनोऽपि नीरूपत्वं तुल्यमिति चेत् बहिर्द्रव्यमात्र एव प्रत्यक्षतां प्रति रूपवत्त्वस्य तन्त्रत्वात्, प्रत्यगित्थयं शब्दोऽन्यव्यावृत्तमाह १४। पुनः शङ्कते। अहङ्कारोऽहमिति प्रत्ययः स च शरीरप्रत्थक्षः शरीरं प्रत्यक्षं विषयो यत्र स शरीरप्रत्यक्षः। देवदत्तो गच्छतीत्युपचारात्तावत् प्रयोगः प्रत्ययो वा त्वया समाहितः सचोपचार आभिमानिकः यतोऽहं गौरः अहं कृशः सौभागिनेयोऽहं पुनरुक्तजन्मेत्यादयः प्रत्ययाः प्रयोगाश्चोपचारेण समन्वयितुमशक्या इत्यर्थः १५। सिद्धान्तभाह। तुशब्दोऽयं सिद्धान्तमभिव्यनक्ति। उपचारोऽयमाभिमानिकः किन्तु शरीर एवायमहम्प्रत्यय इति यदुक्तं तत्रापि सन्देह एवेत्यर्थः तथाच प्रत्ययस्योभयत्रापि कूटसाक्षित्वेन विशेषावधारणाय यतितव्यं तत्र यत्ने क्रियमाणे निमीलिताक्षस्याप्यहमिति प्रत्ययदर्शनात् शरीरभिन्ने बहिरिन्द्रयागोचरे वस्तुनि स मन्तव्यः, शरीरे भवन् परशरीरेऽपि स्यात् चक्षुर्नैरपेक्ष्येण च न स्यात्। अहं कृशः स्थूलो वा सुखीति कथं सामानाधिकरण्यमिति चेन्न सुखाद्यवच्छेदकत्वेनापि तत्र शरीरभानसम्भवात् सिंहनादवदिदं गहनमितिवत्, अहन्त्वमात्रं शरीरे समारोप्यते मनसोपस्थितम्, त्वगिन्द्रियोपनीतमौष्ण्यम् उष्णं जलम् उष्णं शरीरमितिवत् १६। सिद्धान्तमुवृंहयन्नाह। ज्ञानमिति योम्यं सुखदुःखादिकमात्मगुणमुपलक्षयति, यथा यज्ञदत्तविष्णुमित्रयोः शरीरं परस्परभिन्नं तथा ज्ञानसुखादिकमपि भिन्नमेव तथा च यथा यज्ञदत्तस्येदं शरीरं तथा यज्ञदत्तस्य ज्ञाने सुखादौ वाऽनुत्पन्ने अहं सुखी जाने यते इच्छामीति ज्ञानादिकं विषयो भवति योग्यशरीरबिषयकत्वेन तदीयरूपादिवत्तदीयज्ञानादीनामपि प्रत्यक्षत्वसम्भवात् न च सम्भवति, तस्मात् ज्ञानसुखादीनां शरीरादन्य एवाश्रयो वक्तव्य इति भावः। शरीरविशेषात् शरीरस्य भेदादित्यर्थः तथा च शरीरभेदं प्राप्य ज्ञानं, न तु विषय इति ल्यल्लोपे पञ्चमी १७। नन्वात्मा न प्रत्यक्षः नीरूपद्रव्यत्वात् निरवयवद्रव्यत्वाद्वा आकाशवत्, यथा चाह कृशो गौर इति बुद्धेः शरीरमेव विषयो वाच्यः, क्वचिदहं सुखीत्यादिधीरपि यद्यप्यस्ति, तथाप्याश्रयमन्तरेण भासमानानां सुखादोनां शरीरे समारोप इत्येव कल्पमितुमुचितम्, यथोष्ण सुरभि जलम् इत्याश्रयमन्तरेण प्रतीयमानयोरौष्ण्यसौरभयोर्जले समारोपः, नत्वेतदनुरोधेन जलप्रत्ययस्यापि प्रसिद्धजलमन्तरेणान्यविषयत्वम्, तथाऽहमित्थप्यहन्त्वं शरीर एव वास्तवम्, सुखादिकन्तु कदाचित्तत्रारोप्यते तेनात्मनि प्रत्यक्षाकारं ज्ञानं नास्त्येव सुखाद्यधारत्वेन यत्कल्पनीयं तदागमसिद्ध भवतु न तत्रापि ग्रह इत्यत आह। अयमर्थः अहं सुखी अहं दुःखीति प्रत्ययो नागमिको न शाब्दो नापि लैङ्गिकः शब्दलिङ्गयोरनुसन्धानमन्तरेणापि जायमानत्वात् प्रत्यक्षत्वे च नीरूपत्व निरवयवत्वञ्च यद्बाधकमुक्तं तद्बहिरिन्द्रियप्रत्यक्षतायां भवति तत्र हि रूपवत्त्वानेकद्रव्यवत्त्वयोः प्रयोजकत्वात्, मानसप्रक्षता च तदन्तरेणापि। ननु स्यादेवं यद्यात्मनि प्रमाणं स्यात् तदेव तु नास्तीत्यत आह शब्दवद्व्यतिरेकाव्यभिचाराद्विशेषसिद्धेरिति यथा क्षित्यादिषु द्रव्येषु शब्दस्य व्यतिरेकोऽव्यभिचारी नियतस्तेन तदाश्रयस्याष्टद्रव्यातिरिक्तस्याकाशरूपस्य विशेषस्य सिद्धिः एवमिच्छायाः पृथिव्यादिषु व्यतिरेकस्याव्यभिचारात् तदाश्रयेणापि अष्टद्रव्यातिरिक्तेन भवितव्यम्। नन्वेतावताऽप्यानुमानिक एव आत्मा न तु प्रत्यक्ष इत्यत आह अहमिति मुख्ययोग्याभ्यामिति अहमितीतिकारेण ज्ञानाकारमाह तेनाहमिति ज्ञानं शब्दलिङ्गानुसन्धानमन्तरेण निमीलिताक्षस्य यदुत्पद्यते तत्मुख्येन अहन्त्ववता योग्येन प्रमाणसिद्धेन उपपादनीयम्, न तु शरीरादिना, तत्रेच्छाया व्यतिरेकस्य व्यभिचारात् अभावात्। मुख्ययोग्याभ्यामित्यनन्तरम् उपपादनीयमिति पूरणीयम् आत्मनि प्रमाणानि बहूनिसन्ति ग्रन्थगौरवभिया नोक्तानि मयूखेऽन्वेष्टव्यानि १८। आत्मपरीक्षाप्रकरणं समाप्य इदानीमात्मनानात्वप्रकरणमारभते तत्र पूर्व्वपक्षसूत्रम्। एक एव आत्मा चैत्रमैत्रादिदेहभेदेऽपि, कुतः सुखदुःखज्ञानानां निष्पत्तेरुत्पत्तेरविशेषात् सर्व्वशरीरावच्छेदेन सुखदुःखज्ञानानामुत्पत्तिरविशिष्टैव यतः यद्यात्मभेदसाधकं लिङ्गान्तरं भवेत्तदा सिद्ध्येदात्मभेदः, न च तदस्ति, यथा तत्तत्प्रदेशावच्छेदेन शब्दनिष्पत्तावपि शब्दलिङ्गाविशेषादेकमेवाकाशम् यौगपद्यादिप्रत्ययलिङ्गाविशेषादेक एव कालः पूर्व्वापरादिप्रत्ययलिङ्गाविशेषादेकैव दिक् १९। सिद्धान्तमाह। नाना आत्मानः कुतः? व्यवस्थातः व्यवस्था प्रतिनियमः। यथा कश्चिदाढ्यः, कश्चित् रङ्कः, कश्चित् सुखी, कश्चिद्दुःखी, कश्चिदुच्चामिजनः, कश्चिनोचाभिजनः, कश्चिद्विद्वान्, कश्चित् जाल्म इतीयं व्यवस्था आत्मभेदमन्तरेणानुपद्यमाना साधयत्यात्मनां भेदेम्, न च जन्मभेदेन बाल्यकौमारवार्द्धक्यभेदेन वा, एकस्याप्यात्मनो यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वाच्यं कालभेदेन विरुद्धधर्म्माध्याससम्भबात्” २०। उपस्करः सांख्यसूत्रभाष्ययोश्च प्रत्येकं भूतेषु चैतन्यादर्शनेन समुदाये न चैतन्यमित्युक्तं यथा “न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः” १। “प्रपञ्चमरणाद्यभावश्च” २। “मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः ३” सां० सू० “देहस्य भौतिकत्वेन यत् सिध्यति तदाह। भूतेषु पृथक्कृतेषु चैतन्यादर्शनाद्भौतिकस्य देहस्य न स्वाभाविकं चैतन्यं कि- न्त्वौपाधिकमित्यर्थः १। बाधकान्तरमाह। प्रपञ्चस्य सर्वस्यैव मरणसुषुप्त्याद्यभावश्च देहस्य स्वाभाविकचैतन्ये सति स्यादित्यर्थः। मरणसुषुप्त्यादिकं हि देहस्याचेतनता सा च स्वाभाविकचैतन्ये सति नोपपद्यते स्वभावस्य यावद्द्रव्यभावित्वादिति २। प्रत्येकादृष्टेरिति यदुक्तं तत्राशङ्क्य परिहरति। ननु यथा मादकता शक्तिः प्रत्येकद्रव्यावृत्तिरपि मिलितद्रव्ये वर्त्तते एवं चैतन्यमपि स्यादिति चेन्न प्रत्येकपरिदृष्टे सति सांहत्ये तदुद्भवः सम्भवेत्। प्रकृते तु प्रत्येकपरिदृष्टत्वं नास्ति। अतो दृष्टान्ते प्रत्येकं शास्त्रादिभिः सूक्ष्मतया मादकत्वे सिद्धे संहतभावकाले मादकत्वाविर्भावमात्रं सिद्ध्यति। र्दाष्टान्तिके तु प्रत्येकभूतेषु सूक्ष्मतया न केनापि प्रमाणेन चैतन्यं सिद्धमित्यर्थः ननु समुच्चिते चैतन्यदर्शनेन प्रत्येकभूते सूक्ष्मचैतन्यशक्तिरनुमेयेति चेन्न अनेकभूतेष्वनेकचैतन्यशक्तिकल्पनायां गौरवेण लाघवादेकस्यैव नित्यचित्स्वरूपस्य कल्पनौचित्यात्। ननु यथावयवेऽवर्त्त मानमपि परिमाणजलाहरणादि कार्यं घटादौ दृश्यते एवमेव शरीरे चैतन्यं स्यादिति चेत् मैवम् भूतगतविशेषगुणानां सजातीयकारणगुणजन्यतया कारणे चैतन्यं विना देहे चैतन्यासम्भवादिति” भा० अयमात्मा सांख्यैः पुरुषशब्देनाभिधीयते ते च नाना “जन्मादिव्यवस्थातः पुरुषबहुत्वम्” सां० सूत्रात्। वेदान्तनस्तु तस्यैकत्वेऽपि उपाधिभेदेन कर्ण्णशष्कुल्यादिभेदेनाकाशभेदवत् नानात्वं वस्तुत एकत्वम् “इन्द्रोमायाभिः पुरुरूप ईयते” “रूपंरूपं प्रतिरूपो बभूवेति” श्रुतेः अंशोननाव्यपदेशात्” “तद्गुणसारत्वादिति” च न्यायाच्चेति। एतत्प्रपञ्चस्तु शा० भा० द्रष्टव्यः। मिताक्षरायाम् देहाद्यतिरिक्तात्मास्तित्वे प्रमाणं दर्शितं यथा “भूतकैतन्यवादिपक्षम्परिजिहीर्षुराह”। “वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च। आर्त्या गत्या तथाऽऽगत्यासत्येन ह्यनृतेन च। श्रेयसा सुखदुःखाभ्याङ्कर्मभिश्च शुभाशुभैः। निमित्तशकुनज्ञानग्रहसंयोगजैः फलैः। तारानक्षत्रसञ्चारैर्जागरैः स्वप्नजैरपि। आकाशपवन ज्योतिर्जलभूतिमिरैस्तथा। मन्वन्तरयुगप्राप्त्या मन्त्रौषधिफलैरपि। वित्तात्मानं विद्यमानम् कारणञ्जगतस्तथा” या० वेदैः “सएष नेति नेतीत्यात्मेति” “अस्थूलमनण्वह्रस्वमपाणिपादम्” इत्यादिभिः। शास्त्रैश्चमीमांसान्वीक्षिक्यादिभिः विज्ञानैश्च ममेदं शरीरमित्यादि देहव्यतिरिक्तात्मानु भवैः। तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्म्म नियताभ्यान्देहातिरिक्तात्मानुमानम्। आर्त्या जन्मान्तर गतकर्म्मानुष्ठाननियततया। तथा गमनागमनाभ्यां ज्ञानेच्छाप्रयत्नाधारनियताभ्यामपि भौतिकदेहातिरिक्तात्मानुमानम्। न हि देहस्य चैतन्यादि सम्भवति यतः कारणगुणप्रक्रमेण कार्य्यद्रव्ये वैशेषिकगुणारम्भोदृष्टः। न च तत्कारणभूतंपार्थिवपरमाण्वादिषु चैतन्यादि समवायः सम्भवति तदारब्धस्तम्भकम्भादिभौतिकेष्वनुपलम्भात्। न च मदशक्तिवदुदकादिद्रव्यान्तरसंयोगज इति वाच्यम् शक्तेःसाधारणगुणत्वादतो भौतिकदेहातिरिक्तश्चैतन्यादिसमवाय्यङ्गीकर्त्तव्यः। सत्यानृते प्रसिद्धे। श्रेयो हितप्राप्तिः। सुखदुःखे आमुष्मिके। तथा शुभकर्म्मानुष्ठानमशुभकर्म्मपरित्यागः। एतैश्च ज्ञाननियतैर्देहातिरिक्तात्मानुमानम्। निमित्तं भूकम्पादि शकुनज्ञानम्पिङ्गलादिपतत्रिचेष्टालिङ्गकम् ज्ञानम् ग्रहाःसूर्य्यादयः तत्संयोगजैः फलैः। तारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्राण्याश्वयुक्प्रभृतीनि एतेषां सञ्चारैः शुभाशुभफलद्योतनैः। जागरैर्जागरावस्थाजन्यैश्च सच्छिद्रादित्यादिदर्शनैः। तथा स्वप्नजैः खरवराहयुक्तरथारोहणादिज्ञानैः। तथा आकाशाद्यैश्च जीवोपभोगार्थतया सृष्टैः। तथा मन्वन्तरप्राप्त्या युगान्तरप्राप्त्या देहेऽनुपपद्यमानया तथा मन्त्रौषधिफलैः प्रेक्षापूर्ब्बकैः क्षुद्रकर्माद्यैः साक्षात्परम्परया वा देहेऽनुपपद्यमानैर्विद्यमानं हे मुनयो वित्त जानीत। किञ्च। “अहङ्कृतिः स्मृतिर्मेधाद्वेषोबुद्धिः सुखं धृतिः। इन्द्रियान्तरसञ्चार इच्छा धारणजीविते। स्वर्गः स्वप्नश्च भावानाम्प्रेरणं मनसागतिः। निमेषश्चेतना यत्न आदानम्पाञ्चभौतिकम्। यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः। तस्मादस्ति परोदेहादात्मा सर्वग ईश्वरः” या०। अहङ्कृतिः अहङ्कारः। स्मृतिः प्राग्भवीयानुभवभावितसंस्कारोद्बोध निबन्धना स्तन्यपानादिगोचरा। सुखमैहिकम्। धृतिर्धैर्यम्। इन्द्रियान्तरेण दृष्टेऽर्थे इन्द्रियान्तरस्य सञ्चारः यमहमद्राक्षन्तमहंस्पृशांमीत्येवमनुसन्धानरूप इन्द्रियान्तरसञ्चारः। अत्रेच्छाप्रयत्नचैतन्यानां स्वरूपेण लिङ्गत्वम्। पूर्ब्बश्लोकेऽनुगमनसत्यवचनादिहेतुतयार्थिकम् लिङ्गत्वमित्यपौनरुक्त्यम्। तथा धारणं शरीरस्य, जीवितं प्राणधारणम्। स्वर्गोनियतदेहान्तरोपभोग्यः सुखविशेषः। स्वप्तः प्रसिद्धः पूर्ब्बश्लोके तु स्वप्नस्य शुभफलद्योतकतया लिङ्गत्वमत्र स्वरूपेणेत्यपौनरुक्त्यम्। भावानामिन्द्रिया- दीनाम्प्रेरणं मनसोगतिश्चेतनाधिष्ठानव्याप्ता। निमेषः प्रसिद्धः तथा पञ्चभूतानामुपादानम्। यस्मादेतानि लिङ्गानि भूतेष्वनुपपन्नानि साक्षात्परम्परया वात्मनोद्योतकानि दृश्यन्ते। तस्मादस्ति देहातिरिक्त आत्मा सर्वग ईश्वर इति सिद्धम्” इत्यन्तेन मिता०। देहात्मनोः स्वभावभेदपर्य्यालोचनयाऽपि न यथा तयोरैक्यं तथा दर्शितं विवेकचूडामणौ “देहोऽयमन्नभवनोऽन्नमयस्तु कोषश्चान्नेन जीवति विनश्यति तद्विहीनः। त्वक्चर्म्ममांसरुधिरास्थिपुरीषराशिर्नायं स्वयं भवितुमर्हति नित्यशुद्धः। पूर्व्वं जनेरपि मृतेरधुनायमस्ति जातक्षणः क्षणगुणोऽनियतस्वभावः। नैकोजडश्च घटवत्परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता। पाणिपादादिमान् देहो नात्मा व्यङ्ग्येऽपि जीवनात्। तत्तच्छक्तेरनाशाच्च न नियम्योनियामकः। देहतद्धर्म्मतत्कर्म्मतदवस्थादिसाक्षिणः। स्वतएव स्वतः सिद्धं तद्वैलक्षण्यमात्मनः। शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकष्मलः। कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः। त्वङ्मांसमेदोऽस्थिपुरीषराशावहंमतिं मूढजनः करोति। बिलक्षणं वेत्ति विचारशीलो निजस्वरूपं परमार्थभूतम्। देहोऽहमित्येव जडस्य बुद्धिर्देहे च जीवाविदुषस्त्वहंधीः। विवेकविज्ञानवतोमहात्मनो ब्रह्माहमित्येव मतिः सदात्मनि। अत्रात्मबुद्धिं त्यज मूढबुद्धे! त्वङ्मांसमेदोस्थिपुरीषराशौ। सर्ब्बात्मनि ब्रह्मणि निर्विकल्पे कुरुष्व शान्तिं परमां भजस्व। देहेन्द्रियादावसति भ्रमोदितां विद्वानहन्तां न जहाति यावत्। तावन्न तस्यास्ति विमुक्तिवार्त्ताप्यस्त्वेष वेदान्तनयान्तदर्शी। छायाशरीरे प्रतिविम्बगात्रे यत्स्वप्नदेहे हृदि कल्पिताङ्गे। यथात्मबुद्धिस्तव नास्ति काचित् जीवच्छरीरे च तथैब मास्तु। देहात्मधीरेव नृणामसद्धियां जन्मादिदुःखप्रभवस्य वीजम्। यतस्ततस्त्वं जहि तां प्रयत्नात् त्यक्तेऽद्य चित्ते न पुनर्भवाशा”। आत्मस्वरूपमुक्तं विवेकचूडामणौ “अस्ति कश्चित् स्वयं नित्यमहंप्रत्ययलम्बनः। अवस्थात्रयसाक्षी सन् पञ्चकोषबिलक्षणः। योविजानाति सकलं जाग्रत्स्वप्नसुषुप्तिषु। बुद्धितद्वृत्तिसद्भावमभावमहमित्ययम्। यः पश्यति स्वयं सर्व्वं यं न पश्यति कश्चन। यश्चेतयति बुद्ध्यादिं न तु यं चेतयत्ययम्। येन विश्वमिदं व्याप्तं यन्न व्याप्नोति किञ्चन। आभारूपमिदं सर्वं यं भान्तमनुम्पत्य- यम्। यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः। विषयेषु स्वकीयेषु वर्त्तन्ते प्रेरिता इव। अहङ्कारादिदेहान्ता विषयाश्चसुखादयः। वेद्यन्ते घटवद्येन नित्यबोधस्वरूपिणा। एषोऽन्तरात्मा पुरुषः पुराणोनिरन्तराखण्डसुखानुभूतिः। सदैकरूपः प्रतिबोधमात्रो येनेषिता वागसवश्चरन्ति। अत्रैव सत्यात्मनि धीगुहायामव्याकृताकाशौरुप्रकाशः। आकाश उच्चैरविवत् प्रकाशते स्वतेजसा विश्वमिदं प्रकाशयन्। ज्ञाता मनोऽहङ्कृतिविक्रियाणां देहेन्द्रियप्राणकृतक्रियाणाम्। अयोऽग्निवत्ताननुवर्त्तमानो न चेष्टते नो विकरोति किञ्चन। न जायते नो म्रियते न वर्द्धते न क्षोयते नो विकरोति नित्यः। विलीयमानेऽपि वपुष्यमुष्मिन् न लीयते कुम्भैवाम्बरं स्वयम्। प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः सदसदिदमशेषं भासयन्निर्विशेषः। विलसति परमात्मा जाग्रदादिष्ववस्थास्वहमहमिति साक्षात् साक्षिरूपेण बुद्धेः। नियमितमनसामुं त्वं स्वमात्मानमात्मज्ययमहमिति साक्षाद्विद्धि बुद्धिप्रसादात्। जनिमरणतरङ्गापारसंसारसिन्धुं प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः। अत्रानात्मन्यहमिति मतिर्बन्ध एषोऽस्य पुंसः प्राप्तोऽज्ञानाज्जननमरणक्लेशसंपातहेतुः। येनैवायं वपुरिदमसत् सत्थमित्यात्मबुद्ध्या पुष्यत्युक्षत्यवति विषयैस्तन्तुभिः कोशकृद्वत्। अतस्मिंस्तद्बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्पुरति भुजगे रज्जुघिषणा। ततोऽनर्थव्रातो निपतति समादातुरधिक स्ततो योऽसद्ग्राहः स हि भवति बन्धः शृणु सखे!। अखण्डनित्याद्वयबोधशक्त्या स्फुरन्तमात्मानमनन्तवैभवम्। समावृणोत्यावृतिशक्तिरेषा तमोमयी राहुरिवार्कविम्बम्। तिरोभूते स्वात्मन्यमलतरतेजोवति पुमाननात्मानं मोहादहमिति शरीरं कलयति। ततः कामक्रोधप्रभृतिभिरमुं बन्धनगुणैः परं विक्षेपाख्या रजस उरुशक्तिर्व्यथयति। महामोहग्राहग्रसनगलितात्मावगमनो धियोनानावस्थांस्वयमभिनयंस्तद्गुणतया। अपारे संसारे विषयविषपूरे जलनिधो निमज्ज्योन्मज्ज्यायं भ्रमति कुमतिः कुत्सितगतिः। भानुप्रभासञ्जनिताब्भ्रपङ्क्तिर्भानु तिरोधाय विजृम्भते यथा। आत्मोदिताहङ्कृतिरात्मतत्त्वं तथा तिरोधाय विजृम्भते स्वयम्”। शरीरमध्ये आत्मध्यानस्थानं स्वरूपञ्च या० स्मृतौ मिताक्षरायाञ्चोक्तम्। “द्वासप्ततिसहस्राणि हृदयादभिनिः सृताः। हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम्। मण्डलन्तस्य मध्यस्थ आत्मा दीपैवाचलः। सज्ञेयस्तं विदित्वेह पुनराजायते न तु” या०। “हृदयप्रदेशादभिनिःसृताः कदम्बकुसुमकेशरवत्सर्ब्बतो निर्गता हिताहितकरत्वेन हिताहितेति संज्ञा द्वासप्नतिसहस्राणि नाड्यो भवन्ति। अपरास्तिस्रोनाड्यस्तासामिडापिङ्गलाख्ये द्वे नाड्यौ सव्यदक्षिणपार्श्वगते हृदि विपर्य्यस्ते नासाविवरसम्बद्धे प्राणापानायतने। सुषुम्णाख्या पुनस्तृतीया दण्डवन्मध्ये ब्रह्मरन्ध्रविनिर्याता। तासां नाडीनां मध्ये मण्डलञ्चन्द्रप्रभम्। तस्मिन्नात्मा निवातस्थदीपैवाचलः प्रकाशमान आस्ते। सएवम्भूतो ज्ञातव्यः। यतस्तत्साक्षात्करणादिह संसारे न पुनः संसर त्यमृतत्वम्प्राप्नोति” मिता०। आत्मशब्दनिर्वचनञ्च वेदान्तमुक्तावल्याम् “यदाप्नोति यदादत्ते यच्चात्ति विषयान् बहून्। यच्चास्य सन्ततोभावस्तस्मादात्मेति कथ्यते” अन्यत्र च “प्रत्यग्रूपः पराग्रूपात् व्यावृत्तोऽनुभवात्मकः। प्रथते यः स आत्मेति प्राहुरात्मविदोजनाः इति” स च पञ्चधा। “भूतात्मा चेन्द्रियात्मा च प्रत्यगात्मा तथा भवान्। आत्मा च परमात्मा च त्वमेकः पञ्चधा मत” इत्येकस्यैवात्मनो भूतादिषु अधिष्ठानत्वेनावस्थितेः पञ्चविधत्वम्। “त्यज्यमानेऽपि न त्यक्तः प्राप्यमाणेऽपि नाप्यते। आगमापायसाक्षी यः स आत्मानुभवात्मक” इति तत्र देहे “भर्त्तृषूपसखि निक्षिपतीनामात्मनोमधुमदोद्यमितानाम्” किरा० “आत्मनोदेहान्” मल्लि० “प्रभाविनं भाविनमन्तमात्मनः” माघः। आत्मनोनित्यत्वेन देहस्यैवान्तकत्वमिह विवक्षितम् तदवच्छिन्नचैतनस्यात्मशब्दार्थत्वेऽपि विशेष्टे नाशान्वयासम्भवात् विशेषणे तदन्वयः। एवं “व्यापादयेद्य आत्मानमित्यादौ” “ये केचात्महनोजना” इत्यादावपि “स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना” रघुः। “आत्मना शरीरेण” मल्लि० “अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्” गीता। यत्ने “कर्म्मात्मा त्वपरोयोऽसौ बन्धमोक्षैः स युज्यते” इति कर्म्मणि आत्मा यत्नोयस्येत्यर्थः। भूतात्मेत्यादौ आत्मशब्दः गौणः आत्मोपकरणत्वात् आत्मजन्यत्वाद्वा “तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः” इत्यादिश्रुत्या भूतानामात्मन उत्पत्तिप्रतिपादनात्। स्वभावे, बुद्धौ च “तमात्मसम्पन्नमनिन्दितात्मा” रघुः। “अनिन्दितात्मा अगर्हितस्वभावः आत्मसम्पन्नं बुद्धिसम्पन्नम्” मल्लि०। १२ देहावच्छिन्नेचैतन्ये च “आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः” स्मृतिः। अन्तःकरणे, “आत्मानमात्मना वेत्सि” कुमा०। “तन्मनोऽकुरुतात्मन्वी स्याम्” वृ० उ० “अनेनात्मना मनसा आत्मन्वी मनस्वी स्याम्” भा० स्वरूपे” अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति” छा० उ०। जीवात्मनि “आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः” कठ० उ०। “अत्रात्मानं संसारिणं रथिनं रथस्वामिनं विद्धि” भा०। बुद्ध्यादौ “इन्द्रियेभ्यः पराह्यर्था अर्थेभ्यश्च परं मनः। मनसश्च परा बुद्धिर्बुद्धेरात्मा महान् परः। महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान्न परं किञ्चित् का काष्ठा सा परा गतिः। एष सर्ब्बेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः। यच्छेद्वाङ्मानसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति यच्छेत्तद्यच्छेच्छान्त आत्मनि” कठ० उप० “ज्ञाने प्रकाशस्वरूपे बुद्धावात्मनि बुद्धिर्हि मनआदिकरणानि प्राप्नोतोत्यात्मा तेषां प्रत्यग्ज्ञानम्। बुद्धिमात्मनि महति प्रथममुत्पन्नेयच्छेत् प्रथमजत्वात् स्वच्छस्वभावमात्मनो विज्ञानमापादयेदित्यर्थः। तच्च महान्तमात्मानं यच्छेच्छान्ते सर्वविशेषप्रत्यस्तमिरूपे अविक्रिये सर्व्वान्तरे सर्व्वबुद्धिसाक्षिणि मुख्ये आत्मनि” भा० तत्र पुत्रादौ आत्मशब्दोगौणः ममात्मा भद्रसेन इति वत् देहादौ तु मिथ्याभिमान इति भेदः एतदभिप्रायेणैव “गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनादिति” शा० भा० उक्तम्। परमात्मनि “तस्माद्वा एतस्मादात्मनः आकाशःसंभूतः”। “आत्मा वा अरे द्रष्टव्यः” इति च श्रुतिः स्वरूपे तदात्मा पृथगात्मा “आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते” वाक्यप०। बुद्धिविशेषस्थधर्म्मोपलक्षितार्थे स्वशब्दार्थे “ग्रामेष्वात्मविसृष्टेषु” रघुः “देवात्मशक्त्या स्वगुणैर्निगूढाम्” श्रुतिः। भावे त्व आत्मत्वम् आत्मधर्मे न०। “अभावविरहात्मत्वं वस्तुनः प्रतियोगिता” उदयनः। तल् तत्रैवार्थे स्त्री “तदात्मताध्यातधवा रते च का” नै०। ष्यञ् टिलोपः। आत्म्यम् तत्रार्थे न०। हितार्थे ख। आत्मनीनः आत्महिते त्रि०। तस्येदं छ आत्मीयः। तत्सम्बन्धिनि त्रि०। गूढात् परत्वेऽस्य पृ० वर्णविकृतौ गूढोत्मा “गूढोत्मावर्ण्णविकृतेरिति” व्या० कारिका “गूढोत्मा न प्रकाशते” इति कठ० उप०। स्वात्मनः प्रत्यक्त्वं, परात्मनः पराक्त्वमिति भेदः तयोर्भेदाभेदपक्षौ च मदभेदेन प्राक् दर्शितौ।

***